[All rights reserved by the publisher.] Pablisher:--Pandurang Jawaji, Printer:--Ramchandra Yesu Shedge. 'Nirnaya-sagar' Press, 26-28, Kolbhat Lane, Bombay. ॥ श्रीः ॥ महाकविश्रीभट्टिविरचितं भट्टिकाव्यम् । जयमङ्गलकृतटीकया जयमङ्गलया समेतम् । स्वर्गनिवासिना नारायणात्मजेन विनायकशास्त्रिणा संस्कृत्य संशोधितम् । अष्टमं संस्करणम् । पणशीकरोपाह्वविद्वद्वरलक्ष्मणशर्मतनुजनुषा वासुदेवशर्मणा संस्कृतम् । तच्च मुम्बय्याम् पाण्डुरङ्ग जावजी इत्येतैः "निर्णयसागरा"ख्यमुद्रणयत्रालयाधिपतिभिः स्वीयेऽङ्कनालये मुद्रयित्वा प्रसिद्धिं नीतम् । शकाब्दाः १८५६, ख्रिस्ताब्दाः १९३४ श्री-भट्टिकाव्य-सुधारणा- १. यद्यपि बहु नाघीपे तथापि पठ पुत्र ! व्याकरणम् । स्वजनः श्वजनो मा भूत् सकलं शकलं सकृत् शकृत् ॥ २. अ-विदित-श-ष-स-विशेषा वाणी वक्त्रात् विनिर्गता येषाम् । गुद-वदन-विवर-भेदो रदनैरेवोपलक्ष्यते तेषाम् ॥ ३. अष्टाध्यायी जगन्माता,ऽम-कोशो जगत्पिता । भट्टि-काव्यं गणेशश्च त्रयीयं सुख-दाऽस्तु वः ॥ ४. शब्द-वाक्य-पद-च्छेद-स्थूला॒क्षर-विशेषदृक् । सुधारकैः सुधार्यासौ पुस्तक-स्थापने यदि-- ॥ ५. स्थाप्यते गद्य-पद्येषु सच्छात्रानुग्रहेच्छया, । मूला[^३]देवा[^४]र्थ-सिद्धिः स्यात् किं टीकायाः प्रयोजनम् ॥ ६. अ-संस्कारं वि-कोशं चा॑ऽपच्छन्दश्चानलङ्कृति | नीरसं तद्भवेत्काव्यमित्याहुः काव्य-कोविदाः ॥ ७. व्याकृत्या कोश -छन्दोभ्यामलङ्कृत्या रसेन च | पञ्चकेनान्वितं काव्यं भट्टि-काव्यं विराजते ॥ ८. व्याकृति-चषके पेयं राम-राज-कथामृतम् । शब्द-वाक्य-पद-च्छेद-स्थूला॒क्षर विशेषदृक् ॥ ९. सर्वेषामेव ग्रन्थानामेवं भाव्या सुधारणा । अन्ततः शिक्षण-ग्रन्था अप्येवं स्युः सुधारिताः ॥ कै॰ वि॰ ना॰ शा॰. [१] (छापणें). [२] (छापली जाते). [३] मूलग्रन्थात्, पक्षे बाल-शिष्यात्. [४] भाषान्तरम्, पक्षे स्पष्टम्. विशेष सूचना. १ - सदई ग्रंथ छापण्याची व्यवस्था अशी ठेविली आहे कीं- विद्या र्थ्यांना पदच्छेद करण्यास सुलभ पडावें म्हणून संध्यक्षरावर वैदिक खरितस्वराप्रमाणें ।" अशी उभी रेषा दिली आहे; तिचा अर्थ - ज्या अक्षरावर ही '1" उभी रेपा दिली आहे तें अक्षर उमें चिरून त्याचा पूर्वभाग पूर्वपदांत व उत्तरभाग उत्तरपदांत सामील करावा, असे समजावें. जसें ग्रथम श्लोकांत 'इत्युदाहृतः' आणि 'पितरमु॑पागमत् ' ह्या दोहोंवर '१' ही रेपा आहे. आतां त्यु= त्य् + उ = त्यु; मु=म् + उ = मु; म्हणजे इत्य्, (इति) उदाहृतः; पितरम् उपागमत् अशीं पदें समजावीत. इति याचें इत्य् हें पाणिनीच्या 'इको यणचि' या सूत्रानें झालें आहे; ह्याप्रमाणें पदच्छेद दाखवून सामासिक नामांत शब्द - ( प्रातिपदिक ) छेदही '' ह्या चिह्नानें दाखविला आहे. आतां जेथें संधीमुळे '–' ह्या चिन्हानें शब्दच्छेद दाखवितां येत नाहीं, तेथें संध्यक्षराखालीं वैदिकानुदात्तस्वराप्रमाणें '' अशी आडवी रेपा दिली आहे. म्हणजे तीच शब्दच्छेदरेषा खालीं ओढली आहे. जसें ३ श्लोकांत (सर्वेषु-भृताम् ) वें यांत र्व+इ = वें, झणजे सर्व-इषु-भृताम् असें जाणावें. येथें सर्व + इषु सर्वेषु हें पाणिनीच्या 'आद्गुणः' या सूत्रानें झालें आहे असे समजावें. स्वल्पविरामचिह्नाचा उपयोग करून वाक्येंही निरनिराळीं तोडून दाखविली आहेत. ह्याप्रमाणे मूळ ग्रंथाला बाध न येतां वाक्य-पदशब्दच्छेद दर्शविला; परंतु कित्येक स्थलीं 'अभ्रून् नृपः' (श्लोक ११). 'स्त्रीभिर् युतानि' (श्लो० ७), 'ज्ञाता ऽऽशयस् तस्य' (श्लोक ११). असा पदच्छेद दाखविला आहे. त्या स्थळीं 'अभृनृपो', 'स्त्रीभिर्युतानि', 'ज्ञाताशयस्तस्य' असेंच पाठकालीं म्हणावें. पदच्छेदबोधापेक्षां संयुक्त पाठ दुर्बोध नाहीं. . आतां पूर्वीच्या आवृत्तींत कित्येक टिकाणीं मूळ ग्रंथाची व टीकेची बरीच असंबद्धता दिसून आली. त्या ठिकाणीं मूळग्रंथ कायम ठेवून टीकेंतच कोठें कोटें फेरफार केला आहे. कित्येक ठिकाणीं टीका कायम ठेवून मूळांत फेरफार केला आहे. जसें १४५५ श्लोकांत 'अपर्यत महीपतेः' असा जयमङ्गलाटीकेचा पाठ आहे, परंतु मल्लिनाथाच्या टीकेंत 'अस्मार्यत महीपतिः' असा पाठ आढळतो, आणि हा जरी ( माझ्या अल्पमतीला ) योग्य वाटतो तथापि सर्व पुस्तकांत जयमङ्गला टीका असल्यामुळे वरीलच पाठ (अस्मर्यत महीपतेः) घेतला आहे आणि दुसरा पाठ 'अस्मार्यत महीपतिः' हा खालीं टीकेंत दिला आहे. 'प्रायेण मुह्यन्ति हि ये लिखन्ति' ह्या नियमाने हा प्रथमच प्रसंग असल्यामुळे प्रकृत पुस्तकांत ज्या कांहीं चुका नजरचुकीनें राहिल्या असतील, त्या मी विद्वद्सुहृज्जनांनीं पत्रद्वारा कळविल्यास आदरपूर्वक स्वीकारून आगामी मुद्रणांत सुधारीन. क० वि० जो०. भागा: (काण्डाः) ४ १ -प्रकीर्ण-काण्ड:(संकीर्णः) } २ - अधिकार काण्डः प्रकीर्ण-मिश्रःकाण्ड:४- तिङन्त-काण्ड:भट्टिकाव्यस्य काण्ड-वर्ग-पद्य-संख्याऽनुक्रमःविभागा: (वर्गा:) २२ व्याकरण - रीत्या परिच्छेदाः (वर्गाः) १ - राम संभवः २- सीता-परिणयः ३- राम-प्रवास: ४ ५,९७-१०० टाधि, १०१ - १०३ प्र०, ५- सीता हरण: राम१०४-४ आमधि० प्रवास: ६७-९१ णत्वाधिo, कथानक-रीत्या सर्गाः २- ५ - ७, प्र०, ८-१० दुहादि-द्विकर्माधि० ६ - सुग्रीवाभिषेक: १६-२४ सिजधि०, श्नमधि०, ४०-४५ प्र० कृत्याधि०, ६८-७० प्र०, ११-१५ प्र०, ३५ –– ३९ ४६-६७ ७१-८६ निरुपद्कृवि०, ८७९४-१०८ खजवि०, १०९ - ११२ डाधि०, ११२–१४३ सोपपदकृदधिo, २-१ – २७ ताच्छी लिकड०, २८- ३३ । ७-सीता इन्वेषणम् निरधिकारकृदधि० ३४-६७ भात्रेकर्त० कृदधि०, ६८-७७ स्त्रीलिङ्गाधि०, ७८ – ८५ कृद्रजि०, ८६ - ९० प्र०, ९१ । - १०९ ङित्वाधि०, । ३ – १ - ६९ आत्मनेपदाधि०, ७०-८४८ - अशोक वनिका भङ्गः कारकाधि०, ८५-९३ कर्मप्रवचनीअनभिहितेऽधि०, याधि०, ९४ - १३१ ४-१-७ प्र०, ८–११ मिचिवृद्ध्यधि०, ९ मारुति संयमः १२ - २२ इप्रतिषेधाधि०, २३–५७ सत्वावि०, इड्विध्यवि०, ५८- ६६ धत्वाधिo, ११० – १३७ प्रकी०९२-१०९ १ – अलङ्कार दर्शनम् - शब्दाऽलङ्कारः १ - २१; अर्थाइलङ्कारः २२ – ७४; २- माधुर्य-प्रदर्शनम् ३ - भाविकत्व - प्र० ४- भाषा समावेशः १० - सीताऽभिज्ञानदर्शनम् २१-लङ्कागतप्रभातवर्णनम् १२- विभीषणाऽऽगमनम् १३- सेतुबन्धनम् । ३ वि० ( भ. का.) – ० । १ – लिङ्— विलसितः ( पू. भू. का. ) - १४ - शरबन्धः २ - लुङ् - वि० (सा. भू. का. ) लट् ४ - लड़ - वि० ( अ. भू. का. ) ५ - लट् - वि० ( वर्त. का.) ६ - लिङ् - वि० ( विध्यर्थः) ७ - लोट् - वि० ( आज्ञार्थः) ८- लङ् - वि० (सं. :) ९ - लुट् - वि० (अ. भ. का.) રર : ।१५- कुम्भकर्ण वधः।१६ - रावण-विलापः १७वधः १८ - विभीषण - प्रलापः १९- विभीषणाऽभिषेकः २०-सीता-प्रत्याख्यानम् २१ – संशोधनम् : २२ - अयोध्या प्रत्यागमनम् २२ पद्यसंख्या " २७ ५६ १०८ १४३ २०८ १३१ १३७ ७४ ४७ ८७ ५० ११३ ૐ ४२ ११२ ४२ ३० ३७ २३ ३५ १६२४ श्लोकाः अकम्पनस्ततो● अकुप्यदिन्द्रजित्.. अकूर्दिष्ट व्यकारी च० अकृष्टपच्या:० अकोकूयिष्ट● अखण्ड्यमानम् अगाधत ततो अगोपिष्टां पुरीम्० अग्निः प्रमादेन • अक्रुधच्चाभ्यधाद् अक्लेश्यमसिना अक्षारिषुः शराम्भांसि अक्षेमः परिहासोऽयम् अक्षणोः पतन्नील● अग्निचित्सोम ० अग्निष्टोमादि ० अ. ... अजिघ्रत्तम्● अजिघ्रपंस्तथैव • अजिहदत् स: ० अजीगणद्दारा ● अज्ञवनोत्सहेथा: • ... ... .... ... ... अग्नीनवरिवस्यश्च अभ्याहितजनप्र अग्रसिष्ट व्यधाविष्ट० अघानि ताडका• अधुरंस्ते महा० अङ्गदेन समं ... ... *** ... ... ... ... ... लोकानुक्रमणिका ... अगदेनाऽह साताम्... अचूर्णयच यूपाक्षम् अच्छेत्तां च महाऽऽत्मानौ ० ... ... ... ... ... ... ... ... श्लोकाङ्काः. श्लोकाः अटाट्यमानः • ११५० अतत्वरच तान् १३७८ अतस्तम्भदयम् १२२६ । अताप्यस्योत्तमम् ३४९ ।अतिकायाद्विना• १२९५ । अतिकाये हते १२०० अतिकान्ता त्वया ५१२ । अतिप्रियत्वात् ० ६८१ । अतीते वर्षके ० ● ... ६९ । अथ संपततः • १२९० । अथाश्चितोरस्कम् १२९१ अथानुकूलान् ८० अथाऽऽयस्यन् १५१६ । अथार्ध्य मधु० ... ३०६ अतुल्यमहसा ९२० ।अतुषत्पीठम् ० ९४८ ।अतुष्यन्नमराः सर्वे ५४३ अतृणेटू शऋजित् १२९४ । अतौत्सीदया ९५५ अथ कुमात्... ४१९ । अथ जगदुरनीचैः ७५२ ।अथ तमुपगतम् १३९७ । अथ तीक्ष्णाय सैः ७८४ अथ ददृशुः.. १२४३ अथ नयन • २२३ । अथ पुरुजवयोगात्... १४०८ । अथ मृदु १२५८ । अथ लक्ष्मण १२९६ । अथ लुलित० १४२५ अथ स वल्क १२७२ ।अथ ससंभ्रम ... ... ... ... 200 ... ... ... ... ... ... ... ... ... ... ... ... *.. ... ... ... ... OER ... ... 4. ... श्लोकाङ्काः. १४० १२४१ १२६८ ३२४ १३०७ १३०६ १५९९ ४०२ ४५२ २१२ ११८९ १३९३ १३६१ १२१८ ४९२ २७ १०१८ १८६ ८६० ८८० ૮૨ ८७४ ८५२ ८२४ ८११ १६२० १७९ ९५२ ९२२ २६६ ३६१ श्लोकाः अथाऽऽलम्व्य अथाssलुलोके अथान्तमासेडुपि० अयोपशरदे... अढालिपुः शिलाः अदिहंश्चन्दनैः अदीदिपत्ततो वीर्यम् अक्षताम्भांसि अश्यन्ताऽनिमित्तानि अदेवीद्वन्धु० ... ... *** O *** अदोहीत्र अद्धि त्वं पञ्चगव्यम् अझो द्विजान् अद्य सीता मया अद्राष्टां तं रघु० अधर्मान्नात्रसः अधिगतमहिमा अधिजलवि... अधिज्यचापः अधि रामे अधीयन्नात्म अध्यगीष्टार्थ● अध्यङ् शस्त्र ० अध्यायच्छऋजित् अध्यासिसिषमाणे अध्यासीत् . अध्युवास रथम् अध्वरेवग्नि ... **4 *. *** : *** ... ... ... ... ... : अध्वरेष्विष्टिनाम् अनंसीच्चरणों अनंसीमर्मरेण अनर्दिषुः कपि● अनिमित्तान्यथा• ... अनिर्वृतं भूतिषु अनुजानीहि 300 ... ... ... ... ... ... ... ... 40. ... the a ... ... ... ... ... ... H श्लोकाङ्काः ! श्लोकाः ३२६ । अनुजिज्ञासतेवाऽथ... ५१ / अनुमन्तावहे नावां ८८५ । अनुष्टाय यथादिष्टम् ४४८ अनृतोद्यं न तत्रास्त्रि १२१९ । अनेकशो निर्जित... १४०० । अन्तः पुराणि पौलस्यम् १२६३ । अन्तर्धत्स्व रघु० ३७ । अन्तर्निविशे १४४६ । अन्याऽऽसक्तस्य ६६४ । अन्ये त्वलङ्क्षिपुः ३२५ । अन्यान्यं स्म १५४२ । अन्वनैषीत्ततो● ६१ । अन्वयाऽऽदि० ६४२ अपक्ककुम्भाविव १२२० । अपथ्यमायतों १३८० अपग्रथद्गुणान् ८८२ । अपमन्युस्ततो • ८७६ । अपरिमित ५८ । अपरीक्षित● ६३५ । अपलापयमानस्य अपहरदिव. अपि तत्र रिपुः २१९ अपि स्तुह्यपिसेवा० १३७७ । अपिस्फवत्स्वसामर्थ्य ५८० । अपूजयंश्चतुर्वक्रम् ५९९ । अपूजयन् कुलज्येष्ठान् ११४३ अपूपुजन् विष्टर १९४ । अपूरयन्नभः २६२ अपृष्टो नु ब्रवीति ७२४ । अपौहद्वाणवर्षम् १२०६ । अप्रतिस्तब्ध● १२६९ २४६ । ० ... १२१६ । अबभाजत्ततः १३५५ । अबिभ्रत्ततः १००९ अभायत यथा ० १५३२ । अभावे भवताम् ... *** 2 ... ... ... ... ... ... 40. ... *** ... ... ... .. ... ... ... apa ... ... ... ... ... ... ... ... ... ... 490 ... *** श्लोकाङ्काः. ५७७ १६१३ १५४९ ३४५ ७९ १४९५ २१५ C ८०८ १२१३ ५४८ ४२८ ८०५ ९७३ १४६३ १२५३ १५०१ ८७१ ८५० ५८६ ८७५ १५७० ६३४ १२८० १३५१ १३४८ ५३ १४०२ १४७५ १४२९ ७६२ १२६४ १२७४ ५४४ ५११ श्लोकाः अभिज्ञानं ... अभियोतिष्यते अभिनच्छत्रु● अभिन्यविक्षथाः अभिमानफलं जानन् अभिमानफलं प्रोक्तम् अभियाता. अभिष्यन्तः अभीषयन्त ..t अभून्नृपो अमेदि च शरैः अभैषुः कपयो॰ अम॑स्यत भवान् अमन्थीच परानीकम् अमर्षितमिव ... अमर्षो मे परः अमलमणि ● ... ० ... ... ... ... ... ... ... अमितम्पचम् अमृडित्वा अम्भांसि रुक्मकुम्भेन ..D अयुक्तमिदमित्यन्ये अयं नियोगः पत्युस्ते अयं मैथिल्यभिज्ञानम् अरण्ययाने • अरविन्दरेणु● अरासिषुः ... अरोदीद्राक्षसानीकम् अर्थेन संमृता अर्थोत्थिता• अलिगणविलोल • ... अलोठिष्ट च भू० अवगाढं गिरिजालम् अवहे अवश्यपाव्यम् अवश्यायकणा० ... ... ● ... ... ... ... ... ... ... ... ... ... ... ... ….. ... ... ... ... ... श्लोकाङ्काः. श्लोकाः ८३० ४८४ । अवसन्नरुचिम् ६३१ । अवसायो.... १४१२ अवसाव नगेन्द्रेषु ६२२ । अवसितं हसितम् ७९४ । अवसेयाश्च कार्याणि ८०३ । अवाशिरसम् अवादीत्तिष्ठते ● ७४४ । अवादीन्माम् ५८४ अवाद्वायुः १ अविवेष्टन्नृपा १२४६ । अवीततृष्णो • १२३८ । अवोचत्कुम्भ १५७७ अव्यप्रमुप १२२७ । अव्यर्णो गिरि० ० ० ५३८ । अशनिरयम् १३२५ O अष्टघण्टां महा० १०३७ ६८४ । असंस्कृत्रिम • अशप्त निहुवानो● १०५७ अशान भरतात् ३८८ । अशिश्रवन्नात्ययिकम् अशृण्वन्नन्यतः ५३० अशोभिष्ट १५२३ अश्रोतद्रुधिरम् १३९५ १५४५ अनीतपिबतीयन्ती ६६० । अश्वान् वालिसुतो. १३३ । अश्वान् बिभीषणो● १३९४ असद्बन्धु १३३१ असंप्राप्ते ९०२ असितोमर० १०३६ असीतो रावणः १२३७ । असुलभहरिसंचारम् १०३५ असृष्ट यो० ४८२ । असौ दधद्. ३५५ अस्ताविषुः सुराः ३७१ । अस्तुवन् देव ... ... ... ... ... ... ... ... ... ... ... ... ... : **D ... ... ... ... .... .….. ... ... ... ... ... श्लोकाङ्काः. ८४३ ३७२ ४३० ८१६ १५२८ १४१ ६८२ ११९० १२४२ ९०१ ११९४ ५५६ ६९२ ८७७ ६१६ १५५३ १०७ १३६३ १२३५ १४२३ २७५ १२५९ १४३६ १४३८ १७५ ८०९ ६५४ १०६५ २८८ १०२९ ९५ ६६८ १२५१ १०१६ श्लोकाः अस्तुवन् वन्दिनः अस्तृणादधिकम् अस्त्रीकोऽसा • अस्पन्दिष्टाsक्षि अस्माकमुक्तम् अस्यन्दन्निन्दु · अस्यन्नरुष्० अस्रसच्चाssहतो अस्त्राक्षुरस्रम् अहं राम०. अहं शूर्पणखा अहं स्वप्नक्... अहं तु शुश्रुवान् अहं न्यवधिषम् अहमन्त ... अहृत धने.. अहो जागर्ति अहौषीत्कृष्ण ● ० ... आः कष्टम् .. आकर्ध्यामि यशः DIO आख्यन्मुनिस्तस्य आख्यातासि हृतम् : आहिषातां रघु० आंद्दिष्ट तानसंमान्य ... ... ... ... आधूर्णिष्टां क्षतौ आघ्नन् मेरी: आचचक्षे च वृत्तान्तम् आचाम्यं सन्ध्ययोः आचिक्याते च भूयोऽपि आचिचाय स तैः ... ... आच्छादयन् व्यलि... आजघ्नंस्तूर्य. आज्ञां कारय आज्ञां प्रतीषुर् आटायताऽवमयाऽसौ ... ... ... ... ... ... ... ... ... ... 64 ... ... ... ... ... .... ... ... श्लोकाङ्काः. श्लोकाः १३५४ । आढ्यंकरण● १४४८ । आतिथ्यमेभ्यः १६७ । आविष्टद्गु • १२०८ आत्मनः परि० १२५ आत्मम्भरिस्त्वं ६०८ आत्मानमपजानानः ७३८ । आत्रिकूटम्... १२६५ । आददीध्वं महार्हाणि ९९ आदरेण गमं ३३९ आदिक्षदादीप्त● १७० । आदिदेश स ४५९ आदृत्यस्तेन ... आनन्दयिष्यदागम्य ४२७ ३०७ । आनन्दितारस्त्वाम् २८२ । आपिङ्गरूक्षो ८४६ । आपीतमधुका १४६९ आप्तारौ भवता ... ... ६२६ । आर्चीद्विजातीन् १२५ । आच्छेन् वामम् १४२१ । आलिङ्गितायाः ... १२७७ आप्यानस्कन्ध १४२ । आवद्धनेत्रा० १२०९ आवद्धभीम• ३०२ । आबध्नन् कपि० १३३ । आमन्त्रयेत् तान् १९ आमिक्षीयं दधि० १६०५ । आमुचर्म .. १२९९ आयान्त्यः वफल ● ११२० ... १३५३ आयाससंभवाऽरुण आयिष्ट मारुतिम् । ३५६ । आयोधने स्थायुकम् १११५ आरामदर्शनात् १११४ । आरूढं च सुवेलम्... १३४९ ११६४ ... ... va ... आरूढवाण● आरोक्ष्यामि युगान्त ... ... ... ... ... ... *** ... .... ... ... ... ... ** ... ... श्लोकाङ्काः. ४०५ १२४ १५२ ५२० ६० ५६८ ८०२ १५०८ ४९० ८५ ११३२ १५७९ १६०४ २५३ १५९८ २३९ ९०७ ११२ १४५८ १५०७ १९५ १३५२ १५९० १०२८ १२८५ ४९ ६३० १०४९ १०६४ १३४६ १५ १३५६ ८९७ श्लोकाः आलोकयत्स● आलोचयन्तो आवरीतुमिवा० आवासे सिक्त● आशङ्कमानो● आशासत ततः आशितंभवम् आशीर्भिरभ्यर्च्य आशुश्रूषन् आश्चर्य यञ्च यत्र त्वाम् आश्चर्य यच यत्र स्त्री आश्वसीदिव आश्वस्याऽसः आश्वासयांचकाराऽथ आससञ्ज भयम् आसिष्ट नैकत्र आसीद् द्वारेषु आस्कन्दल्लक्ष्मणम् . आस्ते स्मरन् आस्फावताऽस्य आस्यन्प्लवङ्गमाः आख साकं मया आहूय रावणो आहोपुरुषिकाम् आह्वास्त स० आह्वायते विश ... इति निगदित• इति ब्रुवाणो इति वचनमसौ भट्टि० २ ... इच्छ लेहेन इच्छन्त्यमीक्ष्णम् इच्छा मे परमानन्दे: इतरो रावणादेषः इति चिन्ता ● इ. ... .. ● ... 840 ... ... ... ... ... ... ... ... श्लोकाङ्काः श्लोकाः १४२७ । इत्थं प्रवादम् ४७४ । इदं कवचम् ६९७ । इदं नतंतनम् २७३ । इदमधिगतम् २९७ । इन्दुं चषक● १३४७ । इन्दोः स्यन्दिष्यते. ३९७ । इपुमति रघुसिंहे इह सा व्यलिपत् ५७८ । इहाऽजीव इहैव त्वम् इहाऽऽसिष्टा • २४ ... १५१९ १५७५ ७२९ । ईक्षांचक्रेऽथ ईयुर्भरद्वाज ७०७ ११२९ । ईर्ष्याविरुग्णाः ११७२ । ईश्वरस्य १०३ । ईषदाढ्यङ्करो १४०३ O ... उच्चख्नुः परि० ३१६ । उच्चिक्थिरे पुष्प उच्चैरचित● १३१५ उच्चैरसौ राघवम् उच्चै *** POD ... ६२० १०१० उच्छ्रायवान् १५२५ उज्जुगूरे ततः ... ६४८ । उत्तराहि ६५२ । उत्तिष्ठख मते १३८ । उत्तीर्णौ वा ... ६७ । उत्तेरिथ समुद्रम् उत्पत्य खम् १०१८ १४२८ । उक्तवन्तौ ततो रामम् ३४३ उक्तवान् राघवः ctor : ... ... १३९६ उक्षान्प्रचक्रु● १३५९ । उग्रंपश्याऽऽकुले ६२१ । उग्रपश्येन ७१९ । उच्चख्नाते नलेनाजौ २१० ... रारस्यमानाम्. ... ... ... ... ... *** ... .. ... ... ... ... 404 ... ... ... *** ... श्लोकाङ्काः ३२० ३०४ १६२२ ५८१ १३२१ २६ ३१२ १३७९ २०३ १०८६ १२२ ८८९ ६५७ ५१८ १६१२ १५३९ ८७ १६१ ३९१ ११०० १०३९ १२० ७१३ ७८ २७९ ४७१ १११९ ६४९ १५४८ ३८६ ११२५ २१३ श्लोकाः उत्पाजंछिद्रम् उत्पाताः प्रावृतन् उत्सुकानीयत उदक शत० उदक्षिपन् प० उदजीवत् सुमित्राभूर्● उतारिषुः । उतारीदुदन्वन्तम् उदपतद्वियत् ... उपान्यकुरुताम् उपारंसीच ... उपासांचक्रिरे उपास्थितैवमुक्ते उपास्थिषत् उपेक्षणीयैव *** उदरे चाऽजरन्नन्ये... उधंस्यति हरिर् उन्नसं दवती उपेक्षिता देव० उपेक्षिते वालि • ... ... उन्नयानवि० उन्मीलिष्यति चक्षुर उवाच मारुतिः उष्णीषं मुमुचे उरन् यज्ञपात्राणि .. उन्मुच्य ब्रजम् उपशाम्यतु ते बुद्धिः उपशूरम् ऊचे संवरिषीष्ठाः ऊर्जस्वलं हस्ति • : c.. ●se ... ... ... उभावकृन्तताम् उभौ मायां व्यतायेताम् उल्का दहशिरे उवाच चैनं क्षणदा ● ... ... OKU ... ... ... ... ... 3 ... ... *** .** ... ... ... ... श्लोकाङ्काः श्लोकाः ऊर्णनाव स... १००१ १२०७ ऊर्ध्व मुहूर्तादह्रो १५३८ । ऊर्ध्व म्रिये मुहूर्तादि ४८५ । ऊहिरे मूर्ध्नि ११६ ऋग्यजुषम् . ... १४४१ १२१४ ऋणाद्वद्ध ११९१ ऋद्धिमान् राक्षसो• ८२८ । ऋषभोऽद्रीन् 20 १४५१ १०८९ । एष्टारमेषिता १०१३ ... एष रावणिः... एष शोकच्छिदो● ... ... १२३१ । ऋष्यमूकम्. १३०९ ऋष्यमूके १५६ ४७१ एक: पदातिः १३१२ एकहावन ● १४९२ । एकेन बहवः १५३५ । एकेन वाली ६२९ । एकेन सन्धिः ३९६ । एको द्वाभ्याम् ५९६ । एता दैवानु● २९० । एते ते मुनिजन • ३३३ । एतौ न्म मित्रावरुणौ ७६८ । एवं युवां मम ९५८ एवं विजिग्ये ताम् ९२७ एष पेक्ष्याम्यरीन् ९४६ एष प्रावृषि १४५० ऋ. ... ... ava ... ... ऐ. ५१० ऐक्षिष्महि ११६३ । ऐद्विप्रवदमानैः १५१० । ऐन्द्रेण हृदये ऐ वाचं देहि ऐषी: पुनर्जन्म ७०० १३७ । ऐहिष्ट तं कारयितुम् ... ... ww. ... DOO ... ... ... ... श्लोकाङ्काः ११७१ १५४७ १४९४ ११५९ १४७ ६४५ ८४८ १२२५ ४११ ३४१ ९६८७ ३७६ ६८८ ४४३ १६१२ ६८ १६११ ११७४ १३४२ २३७ १२७० ४६१ ७०४ ५७२ १२५० ३०९ १८ ११ श्लोकाः ओजायमाना ओषांचकार औष्ण्यं सजेन्मध्य • ओ औ. कुण्डपाय्यवताम् कुतोऽधियास्यसि क. कः कृत्वा रावणा कः पण्डितायमानः कथं दुष्टुः कथं वजीविपुस्ते च कपयोsविभयुः कपितोयनिधीन् कपिनाऽऽम्भोधि० कपिष्पृष्ठगतौ कपिर्जगाद... कपिश्चङ्क्रमणो कमण्डलुकपालेन ... 9... कम्वूनथ समादध्मुः कम्राभिरावृतः करिष्यमाणम् करोति वैरम् कर्णेजपैराहित • कर्तास्मि कार्यम् कलहरिकण्ठ ● कल्पिष्यते हरे का त्वमेकाकिनी कान्ता सहमाना कान्ति खाम् कामो जनस्य कार्यसारनिभम् काल्यमिदं विहितम् किंचित्रोपावदिष्टासौ किं दुर्नयैस्त्वय्यु • ... ... .. ... ... ... ... 81. ... ... ... : : ... ... ... ... ... ... ... ….. ... *** DOO ... ... .. ... ढोकाङ्काः श्लोकाः कुमुदवन • २५९ । कुम्भकर्णस्वतो २९२ । कुम्भकर्णसुत कुम्भकर्णे हते कुम्भकर्णो रणे कुरु बुद्धिम्... कुर्याद्योगिनम् ७७८ २५८ । कुर्यास्तथा येन ४२३ । कुर्वन्ति परिसारिण्यः कुर्वन्तो हवम् कुलभार्याम्... कृतं सर्व यथोद्दिष्टम् १२५४ १४०४ ८३७ ६७९ । कृताभिषेको० ८५३ । कृती श्रुती ८०१ कृते कानिष्ठिनेयस्य... ४५० । कृते नोपकृतम् कृतेषु पिण्डोदक ०. ९९५ .... २४५ १०७० । कृते सौभागिनेयस्य ४५८ कृतैरपि दृढ १९२ कृत्वा कर्म १०१४ कृत्वा लड्ङ्का० कृत्वा वालि● ... ... ... ८९ ४६६ । कृशानुवर्ष्मण्यधि०. १०५३ । कृषीढूं भर्तु • १३१६ । केचित्संचुकुटुः २४९ केचिद्वेपथुम् ८२६ । केचिन्निनिन्दुः ५९१ केन संभावितम् १५२० केन संविद्रते नाऽन्यः ४६७ । केन संविद्रते वायोर्. १६२५ केनापि दौष्कु लेयेन ५७० । केशानळुश्चिषुः ९९९ कोट्या कोट्या पुर० कोऽन्योऽकर्त्स्यदिह... ६३२ । कोपात्काश्चित् ३५८ ... 400 ... ... ... .an ... ... ... ... ... ... ... ... ... CO ... श्लोकाङ्काः ८७८ १२०२ १२९३ १३२३ १३२२ १९८ ४४४ ९३४ ४४१ ४९५ १५१५ ९८१ १३४ २६७ ५५० ११८ १७३ ११०९ २०९ ४१२ ९४० ७५० ११७३ १८१ ९२ १३१९ १४८६ ५५९ ५२२ ११८४ १०९७ १५८४ श्लोकाः कौशल्ययाऽसावि.. क्रियासमारम्भ० क्रियेरंध दशास्येन क्रीडन् भुजङ्गेन क्रुद्धाननुनयेः क्रुद्धोऽदीपि... 0... क स्त्रीविसह्याः क्षणं भद्रावतिष्ठत्व क्षतैर संचेतित ● क्षितिकुल.... क्षिप्रं ततोऽध्वन्य • क्षुद्रान्नजक्षुः... खमट घामट समृयुर्वसुधाम् खं पराजयमानो खरदूपणयो खरादिनिधनं ... *** *.* क्रुध्यन् कुलम् क्रूराः किया ग्राम्य • क्लिष्टाऽऽत्मभृत्यः क्व च ख्यातो रघो० क ते कटाक्षाः ... ... ... ... PO .... ख. A ... B.B ... ग. गच्छन्तु चारु० गच्छन्स वारीणि गजानां प्रददुः गतमङ्गुलि • ० गतासु तासु गतास्यादव चिन्वाना 624 ... गते तस्मिन्नुपा० गते तस्मिन्गृहीतार्थे गते तस्मिन् जल • गते तस्मिन् समा० गतेऽतिभूमिम् ... ... ... *** ... ... ... ... ... ... ... ... ... ... ... DOA ... ... ... श्लोकाङ्काः श्लोकाः १४ गते त्वयि पथानेन... ९९३ । गतो वनं वो १५०३ । गत्वाथ ते पुरीम् १०१५ । गदा शऋजिता १५२४ गन्तारः परमां प्रीतिम् ३२३ । गन्तुं लङ्कातीरम् २३ । गम्भीरवेदिनः ९९७ । गम्भीराः प्रावन् ९७५ । गरुडानिल● १५५४ । गर्जन् हरिः... ● ४८७ गाढगुरुपुङ्ख● गाढसमीरण ९९० ५५३ । गावितासे नभो ९०९ । गावेयदिष्टन् ८६९ गान्धर्वेण न्यविष्यत् ७१ । गिरिपङ्कचारु० ५२ गिरिपरिगत गिरिमन्वसृपत् १५६० गिरेर्नितम्बे ११५२ । गुरुगिरिवर ५५१ । गुरुपणव वेणु ● १७२ । गुरुर्दधाना.. ७९० गुरुरुचञ्चत्... गुहाया निरगात् १०३३ गूहमानः ८३२ गृध्रस्यहा० १०७९ ग्रहमणिरसनम् ७५१ .. .. ६४४ ३०१ । घनगिरीन्द्र० घानिषीष्ट त्वया घानिष्यते तेन ७२५ ... ... ० ... ... ... ..4 ... ... *** ... घ. : १६० २४४ घोरजलदन्ति ६३९ घोषेण तेन प्रति... ९१३ । घ्नन्तं मोपेक्षिषाथाम् ... ... ... ... ... ... ... ... ... ... ... ... ... ... श्लोकाङ्काः १६०७ १५१४ ११०४ १६०६ १०३० १०८१ १४०९ ८३४ २६ १०२१ १०६१ १५९२ ५९ १४३८ १०४७ ८७० ३१८ ३५ १०३४ १०६३ ८९९ ९२५ ४०९ ५८७ ३२२ ८५७ ८२५ १५२९ २२ १०२२ ९९२ १२२२ श्लोकाः चकाराधस्.. चकासांचक्रुः चक्रन्दुरुचे • चक्काणाऽशङ्कितो चक्षूंषि कान्तान्यपि चञ्चलतरुहरिण● चञ्चूर्यन्तेऽमितो चतुष्काटम् .. चन्दनद्रुमसंच्छन्ना चन्ति बाल चलकिसलय • चलपिङ्गल.... ●... चापल्ययुक्तस्य चारुकलहंस • चारुसमीरणरमणे चिरकालोषिताम् चिरं क्लिशित्वा चिरेणाऽनुगुणम् चुकोपेन्द्रजित् चुक्रुधे तत्र चेतसस्त्वयि... ip चिकीर्पिते पूर्व • चिचेत रामस चितां कुरु च चित्रं चित्रम् चिन्तयन्नित्थम् चिन्तावन्तः कथम् ... चिरं रुदित्वा छलेन दयिता छिन्नान्नैक्षन्त जक्षिमोऽनपराघे जगन्ति धत्व ... ... ... ... *** ... ... छ. ::: ज. ● ... ... ... ... ... ... ... 250 ... ... ... ... ... ... ... ... ... : ... i 4. श्लोकाः जगन्त्यमे याद्भुत • ७३९ । जगर्जुर्जहृपुः १०८७ जगाद वानरात् ११० जगाहिरेऽम्बुधिम् ११५७ जग्मुः प्रसादम् ९०८ जग्लौ दथ्यौ १०२४ । जटायुः पुण्यकृत् १४८३ जनानुरागेण ७३५ जरित्वेव श्लोकाङ्काः १५९४ जलकामदन्ति १३२४ जवतीरतुङ्ग • १०५७ ३८९ १४११ ० डुढौकिरे पुनर् जलद इव ८३६ जलनिधिमगमत् ९५१ जले विक्रम १०४२ जल्पाकीभिः १०१९ । जल्पितोत्कुष्ट • ९३७ । जहसे च क्षणम् ११३० । जहीहि शोकम् १५६४ जिगमिषया संयुक्तम् ७३१ । जिज्ञासोः शक्तिम्... ६०१ । जिते नृपारौ ५०६ । जूतिमिच्छथ १३२ जेता यज्ञ० २२५ जेतुं न शक्यो• २३५ । ज्ञात्वेङ्गितैर् ६३७ ज्ञायिष्यन्ते मया १११२ ।ज्योतिष्कुर्वन् ११७५ ज्योत्स्नाऽमृतम् १५५८ तं यान्तं दुद्रुवुर् तं यायजूका: - १७७ । तं रत्नदायम् १५६१ । तं विप्रदर्शम् ... ... ... ... ... 20 ... ... .. ... PER : 4: ड. *** ... AAD ... .. ... ... ❤wa ... ... .... ... ... ⠀ ⠀ ... श्लोकाङ्काः ९५६ १०७५ ५२५ ११३५ ६४ ११२८ ५१५ ९५९ ७१४ १०६० १०६७ ९३१ ८६१ ५६६ ४५३ ५७१ ११६१ १५४० १०३३ ४०७ ८१ ५०३ १६५ ९८ १३४५ ७३७ ६०४ ११३९ ११६५ ४७ ८४२ ५० श्लोकाः तं सुखवन्तः तं जागरूक: ततः कथाभिः ततः असिमाहारम् ततः कपीनाम् ततः कर्ता तनः क्रोधानिल● ततः खद्धं समुद्यम्य ततः परं भरद्वाजो... ततः प्रगदिता वाक्यम् ततः प्रजघटे युद्धम् ततः प्रणीताः ततः प्ररूदितो ततः प्रवित्राजयिपु. नतः प्राकारम् ततः प्रामुह्यताम् ततः प्रास्थिषता• ततः प्रोदसहन् ततः शतसहस्रेण ततश्चित्रीयमाणो • ततः सकोपम् ततः स गतवान् ० 640 ... ... ततः समभवद्युद्धम् ततः समाशङ्कित• ... O... ततः ससंमदास्तत्र... ततः सुचेतीकृत • ततः सौमिन्निर् ततनिशिरसम् तुषुर्वानरा ततोऽकुष्णाद्दश● ततोऽक्रन्दीद्दश • ततोऽचित्रीयता ● ततो जलघिगम्भीरान् ततो दशास्यः ततो दशास्यः स्मर०. ... ... ... ... ... ... 990 ... *** ..: ... ... ... ... ... ... १० श्लोकाङ्काः श्लोकाः ११५ । ततोऽद्विषुर्निरालोके ४५७ । ततोऽधावन् महा० १६१४ । ततो नदीष्णान् ततो नीलहनूमन्तौ ... ४९४ । ततोऽभ्यगाद्गावि० ४३५ । ततो मातलिना ततो मन्द्रगतः ४६८ ७९१ ६३६ । ततो मायामयान् ततो मायामयीं सीताम् १६०० १५५६ ततो रामेति चक्रन्दुः ११४५ । ततो रामो हनूमन्तम् १०४४ । ततो रौद्रसमायुक्तम् १२०५ । ततो बलिन्दम ९१ ततो वालिपशौ ५९७ / ततो वावृत्यसानासौ ११७० ततो विजघटे ५३६ ततो विनिद्रम् १४४२ १५४५ ततोऽशीति तत्कर्म वालि २३१ तत्र जेतुं गमिष्यामि १०१२ । तत्रेन्द्रजितम् १५२२ । तथापि वक्तुम् १४०५ तथाऽऽर्तोऽपि ८९० तं दृष्ट्वाचिन्तयत् ४९३ । तं नो देवा विधेयासुः ….. ८४ तमः प्रसुप्तम् १२७५ तमध्यासिष्ट १४३५ । तमसाया महानिल● ११८० तमुखत १४२६ । तमेवंवादिनम् १२४६ तं भीतंकारम् १४१० तं मनोहरम् ५०१ तं सीताघातिनम् ९४४ । तयोर्वानर० १०६९ । तरङ्गसङ्गात् ... ... ... ... s .ne ... 404 8.4 40. ... ... ... ... ... ... ... ... ... ... लोकाङ्काः १४०७ १४१९ १२६१ १७ १४५५ ५१३ १४५३ १३३६ १११६ १५९१ १३९२ ३९८ ४०८ १६६ ११३४ ९३२ ६७६ ११०५ १३३८ १३७६ ३१५ ६४६ १४०२ ८९४ १२७८ १६०२ २२९ १३३९ २२२ ३८२ ३३२ ४१३ २९ श्लोकाः तर्पणं प्रजनिष्णूनाम् तवोपशायिका तस्तनुर्जज्वलुर् तस्मात्कुरु त्वम् तस्मान्निरपतरि तस्मिन्कृशानु॰ ... ... तस्मिन् कैलास ● तम्मिन्नन्तर्घुणे तस्मिन्वदति तस्य क्षेमे महा० तस्य निर्व तस्याः सासद्यमानायाः तस्याधिवासे तस्याप्यत्यक्रमीत् तस्याप्य बेभिदिष्टासौ तस्याविषत तस्याहारिषत तस्यै स्पृहय ताः सान्त्वयन्ती ... • कैकेय्या तातं प्रसाद्य तान् दृष्ट्वाति • तान् प्रत्यवादीत् तान् विलोक्य ताभ्यामन्योन्यम् तामापतन्तीम् तामुवाच स तांश्च तव्यान् तां पराजयमानाम् तो प्रत्यैच्छन् तां प्रातिकूलिकीम् तां प्राविशत् तालेन संपादित • तावभाषत पौलस्त्यो तावस्फावयताम् तास्तया तर्जिताः ... 800 ⠀ ... ... ... ... ● ... ... ... ... ... ... ... ... .. ... ... ... ... ... .... ... ... ... ... ... ११ श्लोकाङ्काः श्लोकाः ता हनुमान् ६६५ । तिग्मांशुरश्मि० १०९८ तिरोबभूवे सूर्येण १००६ तीव्रं सन्दिष्यते १३९१ । तीव्रमुत्तपमानो● १४५ तुझतरुच्छाया• ५९३ । तुङ्गमणिकिरण० ४९६ तुझमहागिरि० ६५५ । तुझा गिरिवर ... ... ... १२८४ तुरङ्गाः पुस्फुटुः ४३३ । तूर्याणामथ १६९ तृणाहानि दुराचाराः ८४८ ० तृणाय मत्वा ११९८ तृणे त्वद्वियोग • १२९७ । तृणेह्मि देवम् ३१३ । ते तं व्याशिषत १२६० तेन वह्येन... ६१७ । तेन सङ्गतम् १०५ । तेनादुद्यूषयत १५८६ । वेनेऽद्रिबन्धो ६९१ वे परस्परमासाद्य... ५५ तेऽभाषिषत ४३८ ते विज्ञायाऽमि • १४४७ । ते भुक्तवन्तः १४३७ वे रामेण सरभसम् १५९ । तेऽव्यरासिषुः ६८६ । तेषां निहन्य ६१३ । ते हि जालैर् १३७४ तैरजेषत सैन्यानि... २७७ । तैर्वृक्णरुग्ण● ६०२ तौ खड्गमुसल● ९०३ तौ चतुर्दश १३७१ तौ वालिप्रणिधी १३८९ तौ हनूमन्तमानेतुम् ६४३ । त्रस्यन्तीं ताम् ... DV ... ... ..* *** DOD ... ... ... *** 4-6 ... ... ... ... ... ... : ५९२ ११११ १३११ १०५२ १०५४ १०४० १०२७ १०७४ १६१९ १५३३ ६४१ १५४३ १४९१ १२२४ ३४२ ३४४ २३२ १०४५ १३९० ११८७ ७६३ १२७ १०६५ १२५३ ६९४ ४२६ १२५७ १८० १८५ १७८ ३७७ १२८६ २७८ श्लोकाः त्रिवारीणम् त्रिंशत्तनम्... त्वं मसर्जिय त्वं न वेत्थ त्वक्त्रः संविव्ययुः त्वन्तु भीरु... वन्मित्रनाशो त्वमजानन्निदम् त्वमर्हमि नातुः त्वं पुनपुनीहीति त्वया तु लोके त्वयाय लङ्का त्वचायत किम् त्वयापि नाम रहिता त्वया संदर्शितारौ त्वयि नस्तिष्टते दग्धशैल इवा ० दण्डकानध्य • दण्डकां दक्षिणेन दण्डेन कोशेन च दत्तः खदोषैर् दत्तं न किं के ... ... - : hr : : दत्तावधानम् दलाल भूर्नभो● दहशे पर्ण● ददैर्दुःखस्य... ददौ सदयिताम् दधाना बलिभम् दधावाऽद्भिः दध्वान मेघवत् दन्तच्छदे प्रज्वलिता दमितारिः दमित्वाप्यरि० दर्शनीयतमाः ... *** *3. ... ... ... Tee ... ... ... ... ... ... ... ... काङ्काः लोकाः ७३ । दर्शयांचक्रिरे रामम् ५२३ । दशग्रीवोऽहम् ७२१ दशदन्तिसहस्राणि १४७६ । दस्येऽहं मधुनो १२४२ । दातुः स्वादुद्दिषाम्... २२७ । दिक्पालैः कदनम्... ९७८ । दिग्व्यापिनीलचिन ● १४७३ । दिदृक्षमाणः परितः १५०० दिक्षुमैथिली राम १५५९ । दिद्विपुर्दुद्रुवुर् ९६७ दिशो द्योतयमानाभिर् १०११ दिशो व्यश्नुते १५७२ । दीक्षख रामेण १४९० । दीपतुल्यः प्रवन्धोऽयम् १५९७ । दीप्यमानम् ५५४ दुःखायते दुरुत्तरे... १२०४ । दुर्गाऽश्रितानाम् १८९ दुप्पानः पुनर् ६५० दूतमेकम् ९७४ दूरं समारुह्य १०१६ । दूरगैरन्तगैर्... ९९८ दूरात्प्रतीहार• ३४ । दृष्ट्वा ताम् १०८८ । दृष्ट्वा दयितया १५३ । दृष्ट्वा राघव ... ३७० दृष्ट्वा सुषुप्ताम् ४३२ । दृष्ट्वोर्णुवानान् १५४ देवान्तकोऽति • ११२८ । देहं बिभ्रक्षुः ६०८ । देहत्रश्चन ९१७ । दैत्यक्षये महा० ६९३ । दैत्याभिभूतस्य ७१५ । दैवं न विधे ६५८ । दैवाद्विभीहि Q ... ... .. ... ... .. ... ... ... ... 009 ... ... ... ... ... ... ... ... ... ... .. ... ... ... ... श्लोकाङ्काः ३१२२ १३८४ १४१३ ३७३ १४९८ १३६५ ४० १११ १५३७ ११६९ ५८८ १४८४ १५४४ १६२३ २६४ २५७ ९०४ ९८३ ७९१ ७८३ ४.८६ ४०० ९३९ ७६१ ६०० ७५५ १२९ १२५५ २४० ५१४ १५८५ ४३१ १५५७ श्लोकाः दोषैररमतै भिस्ते दौवारिकाभ्याहत ●. द्यामिवाह्वयमानम् द्रष्टाऽसि प्रीतिमानारात् द्रष्टास्थस्तत्र तिस्रो• द्रष्टुं प्रक्रममाणः द्रुतं संस्वरिषीष्ठाः द्रुतं द्रुतम् द्रुतमत्रास्त द्रुभङ्गध्वनि ० द्विषन्वने ० O ... धनानामीशते धनुष्पाशभृतः द्विष्कुर्वताम् द्वेष्टि प्रायो गुणेभ्यो • वर्मोऽस्ति सत्यम् धर्म्यास कामार्थ • धारयैः कुसुमो• धिग्दाशरथिम् विड्मां त्रिशिरसा धुन्वन्सर्व• • धूम्राक्षोऽथ प्रति • धेयास्त्वं सुहृदाम् ... ध्वजानुहुधुवुः ध्वनीना मुद्धमैर् ... धनूंप्यारोपयांचक्रुर्.. धर्मकृत्यरताम् धर्मं प्रत्यर्पयन् नखैरकर्तिषुः न गच्छामि पुरा ... नगजानगजा नगरस्त्रीस्तन • ● न च काञ्चन ० ... ... ... ... ... ... *** ... 900 ... ... ... ... ... 200 ... AVO ... ... .*. ... १३ श्लोकाङ्काः श्लोकाः १३८६ । न चोभावप्यलक्ष्येताम् ९३८ न जिजीवाऽमुखी ५६० । न जिह्वयांचकार १५९६ । न तज्जलं यन्त्र १६०९ न तं पश्यामि ५६७ न तानगणयन् ७०१ न तृणेलीति ८२१ न स्वजायत मे १३०१ न त्वं तेनान्ध ६७४ । न निश्चितार्थम् २८० । नन्दनानि मुनि० ७३६ । न प्रणाय्यो० १४६७ । न प्राणिषि ... ... ... POO ... ... ... ... न प्रावोचमहम् १४७८ न बिभाय ७३३ न भवति महिमा १०७६ न भवाननु● ३५३ । नभवान्यस्य वाजेषु ७८८ न योद्धुमशकन् ६२ नरकस्यावतारोऽयम् ९ न वानरैः ३६९ । नश्यन्ति ददर्श ४१५ न सर्वरात्र० १३१३ । नहि प्रेष्यवधम् २८४ । नाकल्प्स्यत्संनिधिम् ११४१ । नाखेयः सागरः १५२७ । नागास्त्रमिदम् ११२१ नाजानन्संदधानम्. ३६८ । नानुरोत्स्ये जगत् ... नाभविष्य दियम् ११८५ नाभिज्ञाते महा० १४९३ । नाभिज्ञाते स यक्षेन्द्रम् ८१९ । नामग्राहं कपिभिर् १६०३ । नामोक्ष्याम वयम् ८१५ । नायमुद्विजितुम् ... ... ... *** *** ... ... ... ... ... ... ... ... ... ... ... ... ... ... noo ... ... ... ... ... ... ... *** ... ... ... ... ... ... ….. : श्लोकाङ्काः १४५२ ११२९ २९४ ६४ २०४ १३५७ ३३० १३८३ २१८ ९९४ ३६३ ३५७ ११९२ २८५ ૮૨ ६२८ १४५६ १२३० ५१६ ८२० ८२२ ७८५ १५३६ १५७८ ११३३ १३६२ १३२७ १५६९ १३४० १३४१ ४३४ १५८१ ५२६ श्लोकाः नायास्यति नारीणामप● नावकल्प्य मिदम् नाविवदियुम् नावैल्याप्यायितारम्. नासां मातृ० नास्ये पश्यति निकुञ्जे तम्य निकुम्भो वानरेन्द्रस्य निकृत्तमत निखिलाभवम् निधानिध● निजघाना० निमित्तशून्यै निरचायि यदा निरवत्स्येन निराकरिष्णवो निराकरिष्णुर् निराकरिष्णू निराकृत्य यथा निरासू राक्षसाः निर्माणदक्षस्य निर्यत्स्फुलिङ्गाकुल निर्लको विमदः निर्वणं कृतम् निलिल्ये मूर्ध्नि निवृत्ते भरते निशातुषारैर् निष्कोषितव्यान् नित्यमुद्यच्छमानाभिः निन्दको रजनि निष्क्रम्य शिक्षया निष्ठां गते निहतव निहन्ता वैर 200 ... *** ... ... ... ... *** ... ... ... ... ... ... *** *** *** *** ... ... ... ... .... ... ... .. ... लोकाङ्का: १४ श्लोकाः ३६० । नीवारफल ० नृपात्मजौ १५१७ । नेत्रेषुभिः ५३३ । नेदानीं शक ४५१ । नैतन्मतं मत्कम् ७५३ । नैवं विरह ० २०२ । नैवेन्द्राणी न ५३७ । नोदकण्ठिष्यता • १३०२ । न्यकृन्तंश्चक्र० ९२६ । न्यवर्तयत्सुमित्रा० ८१३ । न्यवसिष्ट ततो • ४९९ । न्यविक्षत ७९९ । न्यश्यन् शस्त्राणि न्य पेधत्पावका ● ० ५८३ ४४७ । न्याय्यं यवत्र १००० १२८८ । पक्षिभिर्वितृदैर् ६११ । पडवाल● ४३७ । पञ्च पञ्चनखा ९२८ । पततिक्रोष्टु● १८४ । पतिवध० १३८१ । पपात राक्षसो● १०९१ । पयोघटोनीरपि ६ पयोधरांश्च ९४९ । परस्त्रीभोग ० २७० । परिखेदित• ७६७ । परिघेणावधिष्टाथ ११४४ । परितः पर्यवाद्वायुः १३९ । परिपर्युदधे• ३१ परिभावम् ७०३ परिभावीणि ५०५ । परिशेषं न १३ । परीक्षितुमुपा ५०२ । परेद्यव्यद्य २६१ । पर्यशाप्सीत् ... ... ... *** ... 200 ... ... ... ** ... ... 080 *** प. ... *w. ... ... ... ... ... ... ⠀ ... ... : ... ... ... ... ... wao ... *** ... ... ... ... ... ... : ... श्लोकाङ्काः ४८५ ११३ १४८९ ११४ १६१० २०५ २५५ १३५८ २३१ ११८८ ५४९ १३५० १४३३ ४७५ ३६७ ७९३ ४२२ ८८१ ११४९ १००४ ९१7 ७९५ ८३८ १२६२ १३९८ २५२ ४८८ ३६५ ६३३ ५६५ १५१ १७१ श्लोकाः ... परितोऽनु पश्चिमं करवामैतत् पश्यामि रामाद पस्पन्दे तस्य पापकृत् सुकृताम् पारं जिगमिषन् पिप्रायाद्रि० पिशाचमुख• पिशिताशिनाम् पीडाकरममित्राणाम् पीतौष्ठरागाणि पीने भटस्यो• पुंसा भक्ष्येण पुण्यो महाब्रह्म० पुत्रीयता तेन पुरःप्रवेशम् पुरुहूतद्विपो पुरो रामस्य पूतं शीर् पूर्वस्मादन्य● ... पृथड्नभस्वतः पृथुगुरुमणि • पौरा निवर्तध्वम् प्रकुर्याम वयं देशे प्रगृह्यपदवत् अचपलमगुरुम् प्रजागरांचकार प्रजागराताम्र • प्रणमन्तं ततो प्रणमन् ब्रह्मणा प्रणश्यन्नपि . प्रणिपत्य ततो प्रणिशाम्य प्रण्यगादीत्. : DOO ... ... ... ... ... ... ... ... GOO ... ... ... *** ... ... ... :: ... ... ... ... ..4 ... श्लोकाङ्काः १५ श्लोकाः ७१२ । प्रतन्व्यः कोमलाः १५३४ प्रतीय सा पूर् ९८२ । प्रतुष्टुवुः कर्म ११५१ प्रतुष्टुषुः पुनर् ४१८ । प्रतोदा जगलुः ७१६ । प्रत्यूचे मारुतिः ४९८ । प्रत्यूचे राक्षसेन्द्रः २८६ । प्रत्यूचे वालिनम् ८१८ प्रदहशुरुरु० १३६१ प्रबाधमानस्य ९०५ प्रवोधकालात् ८९२ । प्रभातवाताहति ८०० । प्रमादवांस्त्वम् प्रमेदिताः १० प्रययाविन्द्रजित् ३६६ प्रयाणमात्रेण ४ ७४० ... १४३ प्रयास्यतः पुष्य ५३९ । प्रलापिनो● ६४७ । प्रलुठितभवनौ ६५१ । प्रवपाणि वपुर् ८६२ । प्रवपाणि शिरो ९७ । प्रवहन्तं सदा ० १५०६ । प्रविधाय धृतिम् ३५२ । प्रष्टव्यं पृच्छतः ४७८ प्रस्कन्दिकाम् ८५८ । प्रस्थास्यमानौ २९३ । प्रहस्तमर्थयां चक्रे ९०६ प्रहस्तस्य पुरो० १५८३ ।प्रहीणजीवितम् १५८० प्राकारमात्रावरणः ८०७ । प्राधानिषत १०२६ । प्राङ्मुहूर्तात् ७७३ । प्राचीं तावद्भिः ७७२ । प्राचुचूर्णच ... ... ... ... ... ... ... ... प्रयातस्तव यम्यत्वम् ... ... ... 00 ... ... ... ... ... ... ... ... ... ... ... ... .. ... ... .….. श्लोकाङ्काः १५९५ १०१ ७४२ ११६७ २०६ ४२५ ८६५ ९३३ ९२४ ३३ ९९१ ६९० १०८४ ९६५ ३४० २५ ४४६ २९१ १५६६ ८७१ ५९४ १६२१ ९४ ११५६ ११७० ७७७ ९६९ ७७५ १३३७ ४८६ १२१७ श्लोकाः प्राच्यमाजिहिषाम् प्राजावाक्चान्यवा प्रज्ञांन्तेजखिनः प्राणयन्सम्... प्राणा दुध्वंतिरे प्राणियुर्निहताः प्रातस्तरां प्रादमयन्त प्रादिक्षत प्रादुःपन्ति प्रादुन्न्रजानुभिः प्राप्तचारित्र्य ● प्राप्य चूर्य ० प्रायुङ्ग राक्षसीर् प्रायोपासन ● प्रलोउन्त प्रावर्तिष्यन्त चेष्टाः प्रवर्धत रजो० ० प्राशीन चातृपत् प्रास्थापयत्पूग • प्रियंवदोऽपि ● प्रियंभानुकताम् प्रीतोऽहं भोज० प्रीत्यापि दत्तेक्षण प्रेता वरेण शक्रस्य प्रोदपादि नभस्तेन प्रोणति शोक ० O ... 393 ... ... ग्रौर्णावीच्छर • प्रौर्णुवीत्तेजसा फलभरमन्थर • फलान्यादत्ख फलाशिनो निर्झर ० बद्धो दुर्बल • ... ... ... ... : ⠀ ... ... Oaas ... 454 ... ... ... ... ... ... ... ... ... .... ... ... ... श्लोकाङ्काः श्लोकाः १०८३ । बद्धो वासर • ११९५ । वन्धूनशङ्किप्ट १४६४ । ववाघे च वलम् ७७४ । वभूव याऽधि० बभौ मरुत्वान् ११२३ १२८९ । वलान्यभि० O ९१५ । वलिनावमुम् ६०५ । वलिर्ववन्धे .. ५७६ । वहुधवलवारि ७५४ । बहुधा भिन्न १३६० विभ्रत्स्त्राणि १५५१ । बिम्वागतैस्तीर• १५७ । वुद्धिपूर्व ध्रुवम् ६३८ । बुभुत्सवो द्रुतम् ५७७ । वोद्धव्यं किमिव १३६४ ।वोभवीति न० १५८२ । ब्रह्मर्षिभिर्नूनम् १४०६ । ब्रह्मादधाद्वधम् १२१० । ब्रूहि दूर० ... .. भुवनभर • भूर्ति तृणद्मि १०५९ । भूमिष्ठस्यासमम् ५५२ भूमौ शेते दश ९८० । भूयस्तं धिप्सुम् भृङ्गाली कोकिल • १६४ । मृतनिखिल ● ... ८६ ... ३९२ । भजन्ति विपदस्तूर्णम् ४०६ ।भयसंहृष्ट ० ६२५ । भल्लैश्च विभिदुः ९४१ । भवत्यामुत्सुको ० १५८७ । भवन्तं कार्त • १२८७ । भिन्ननौकः १४८६ । भुजांसवक्षःस्थल. ... १३०० । भुजौ चकृततुः १३०३ ... ... ... : ... ... ... ... ... ... 8.3 ... TAE ... ... .. ... ... श्लोकाङ्काः १०२० १०८ १११३ ५२९ ८२९ ७४३ ३८३ १०४१ १४८२ ३० ४२१ ५३४ ८८३ १४९९ ९८८ १३७३ १४६२ ६९५ १०१९ ६५९ २१६ २७१ ९४७ ८६४ ३२९ १४४३ १४६० ७०६ ३६४ ८६७ श्लोकाः भेष्यते मुनिभिः भ्रमरकुलाकुलो० भ्रमी कदम्ब • भ्रातरि न्यस्य भ्रूभङ्गमाधाय भ्रेजिरे क्षत भ्र्मुः शिलो० भ्रेमुर्ववल्गुः... मण्डलान्याहृताम् मत्तेनामारि... मत्वा सहिष्णून् मत्पराक्रम• मधुकर विरुतै मधुसाद्भुत● मध्वपाययत्● मन्तूयिष्यति मन्त्रे जातु वदन्ति मन्दायमान • मन्नियोगात्, मन्युं वध्या भट● मन्युं शेकुर्न ते मन्युर्मन्ये , मन्ये किंजमहम् मम रावण मया त्वमाप्था: मरिष्यामि विजेष्ये महाकुलीन ● महीयमाना... मांसं हतानामिव मांसविकयिणः मांसान्यौष्टा • मांसेनास्याश्वताम् मांसोपभोग • ० मातामहा.... ... ... ⠀⠀⠀⠀ म. ... ... ... : : ... ... :: ... ... ... महि० ३ ... ... 200 .. ... ... ... ... ... qu लोकाङ्काः. श्लोकाः १३४४ । मा न सावीर् १५८८ मानुषानभि ४३९ । मानुषी नाम २६५ । मानेन तल्पेषु मां दुष्टां ज्वलित... ११३६ । मापरानोदियम् १००७ ४८९ मामुपास्त... १०४६ मायानामीश्वराः १४३० १२६६ मारयिष्यामि ९६३ । मार्ग गतो गोत्र • २६९ । मावसंस्थाः . ८५६ । माशोचिष्ट रघु० - ७५९ मा स्म तिष्ठत ४२० १००३ मृगयुमिव मृगाः प्रदक्षिणम् मृदजा धीरम् १२११ मृदुभिरपि मृषासि त्वम् १९७ ६८९ ८८ । मृषोद्यम् ... 69 मायाभिः सुचिरम्... मायाविभित्रास • ... ... We ... ... 2. ५८३ माम द्राक्षीर् १३३५ । मा स्म भूर्ग्राहिणी १४७४ । मितमवदत् ६०७ । मित्रघ्नस्य प्रचुनोद. ७९८ मिथ्या मास्म १५३० । मिथ्यैव श्रीः १११७ । मिमेह रक्तम् ३२१ । मुञ्चताकाश० ४२४ । मुदा संयुहि... १७४ । मुषित्वा धनदम् २१ । मुष्णन्तमिव १३१७ । मूर्खास्त्वामव २६० । मूर्धजान् स्म ६५ मूर्ध्ना दिवमिवा० ●● ... ... ... ... *** ... ... ... ... ... ... ... ... .... ... ... ... ... ... ... ... ... ●● ... लोकाङ्काः. ७२३ १६० १३३२ ८८८ १५६७ १३६७ २०७ ६८५ ७११ ९२९ १३२६ १००२ ६२३ १२८२ १३७२ ३०८ २७६ ८२७ ११०१ १३८२ २५४ ११६८ १५०९ १५४६ ५७१ ७६५ ११९६ १४९६ १२०३ १८२ १०८२ १०७२ ८७३ ४१७ २४३ डोकाः मेघङ्करम् नेवनादः मेघाः सविद्युतो मोजिग्रहः सुनीतानि मोदिष्ये कस्य श्रियमाणः श्रियामहे म्रियेयोर्ध्व मुहूर्तात् POS यदा न फेलुः यदा विगृह्णन्त्र यहेनर्दिनम् यद्यकल्प्स्यत् यद्यहं नाथ... यमं युनज्मि यमलोकमिव यमायाकम्पनम् यमास्यश्वरी : यः पयो दोग्धि यक्षेन्द्रशक्तिम् यच्च यत्र भवांस्ति • यच्चापि चला० यज्ञपात्राणि गात्रेषु यत्कृतेऽरीन् यत्नं प्रोर्णवितुम् यत्र यच्चामरिष्यत् .. यत्स्वधर्मम्... यथावं संगिरन्ते यथेष्टं चर वैदेहि यदतासींच्छनैर् ययाथ त्वम् ययुर्वन्ध्यम् यशस्कर • यस्यां वासयते याः सुहृत्सु 2... : S ... : ... ... ... ... ... ... ... ... ... ... ... .. ... ... ... ... लोकाङ्काः । श्लोकाः यां कारिं राज ३९५ ७४८ यात यूयम्... १४२० । त्राः समचरन्त यायास्त्वमिति १२०१ १३२८ । यावजीवम् ४२९ यावत्र मंत्रासित.. ५२४ १५०५ युद्धाय राज्ञा युद्धोन्मत्तं त्र युयुजुः स्यन्दनान् ६२४ युवजानिर् १२२१ । युष्मानचेतन् १५१८ ... यूचं समैष्यथ ९५४ । चेन पूतक्रतोर् १५१३ । ये सूर्यमुप० १३६९ ५२७ । योगक्षेमकरम् । योद्धारोऽविभरुः योद्धुं सोऽप्यरुषत् ५७३ योऽपचक्रे १५५५ । योषिवृन्दारिका १५७६ ८०४ ६७५ ११८१ रक्तपङ्के गजाः ९६० रक्तमव्योतिषुः २२४ । रक्तं प्रचुश्चतुः ७१७ । रक्तेनाचिक्लिदत् १९१ । रक्षांसि वेदिम् ३२८ रक्षणं करोषि १४१५ यैरवानि खरो० ० ... रघुतनयम् रणपण्डितो● ... ११५४ २१७ रणे चिक्रीड. ७२० रथेनाविव्यधत् ४८७ रविस्तप्स्यति २८१ ... ... रसान् संहर राक्षसस्य न... १३२९ राक्षसानां मयि ... ... 300 4: ... m... ... ... ... ... ... 30 ... ... ... AND ... ... ... ... ... ... ... ... लोकाङ्काः. ५०९ ४७० ५७४ २४२ १५७३ ९३५ १२५६ ११५८ १९६ ८४५ १४४ १४७१ ५५५ १२४७ २२३ १३९९ १२३३ ५६२ २०७ १०९६ १२३२ ११४७ १२२९ १२ ५०० ८४० ८१२ ११४८ १२६७ १३१० १५६२ १२३९ श्लोकाः राक्षसान्बटु० राक्षसेन्द्रस्ततो● राक्षसेन्द्रस्य... राक्षसोऽतर्जयत् राक्षस्यः प्रारुदन् राघवं पर्ण .... राघवस्य ततः राघवस्य मतेनाथ रामस्य दयमानः रामस्य शयितम् रामादधीत● रामोऽपि दारा० रामोऽपि हत० रामोऽवोचत् रावणः शुश्रुवान् राघवस्याभृशायन्त राघवस्यामुषः राघवाभ्यां शिवम् . राघवो न दयांचक्रे... राजितं गारुडै राममुच्चैर् रामसंघुषितम् रावणबलम्... रावणस्य नमन्ति रावणस्येह रावणाङ्कपरिश्लिष्टा ... रावणाय नमस् रिणचिम जलधे: रुचिरोन्नत • रुदतोऽशिश्रियत् रुरुजुर्भेजिरे... रोचमानः रोदिति स्मेव... रोदिम्यनाथम् रोषभीम • ⠀ ⠀ ⠀ ⠀ ⠀ ⠀ ⠀ ... ... ... ... yog ... ….. ... .... G ... ... ... ... ... ... ... ... ... ... ... ... ... 848 ... ... ... ... ... १९ श्लोकाङ्काः. श्लोकाः २६८ ल. ११८२ । लक्षे द्वे च पदातीनाम् ६७१ लक्ष्मणं सा... १४४९ लक्ष्मणाचक्ष्व १४१७ लक्ष्मीः पुंयोगम् १६२ लङ्कां नम्रा ४६२ लङ्कालये तुमुल १५६५ लज्जानता १४३९ लतानुपातम्... ११९७ लब्धां ततो. ६७२ लभ्यां कथं नु १११० ललुः खड्डान् १४५७ लवण जलबन्ध● ४१६ लाङ्गूलमुद्धतम् २३८ लाङ्गूलैटयां • ६६१ लेढि भेषजवत् ६६७ । लोकानशिशिपोः ६१४ लोभाद्भयाद्वा ९७१ । लोलं कूलाभिगमे २९६ लोहबन्धेर्बबन्धे नु.. ० ३८७ व. १०९० वक्षः स्तनाभ्याम् १०६८ वचनं रक्षसाम् १४९७ । वज्रमुष्टेर्विशिश्लेष ६६२ । वज्राभिघातैर् १५५२ वञ्चित्वापि AL ... J** pap ""; ... ... no ... ... ... ० ... ६४० वणिक् प्रग्राह ३२७ वधेन संख्ये... ८४२ । वनतापसके .. ३१० । वनस्पतीनां सरसाम् ११४६ । वनानि तोय ६१५ । वनान्तप्रेङ्खणः ७२८ । वनेषु वासतेयेषु १४८८ वपुश्चान्दनिकम् ७८२ । वयमद्यैव ... ... ... ... *** ... ... ... PO ... ... ... ... *** ⠀ लोकाङ्काः. १४१४ १६८ ३११ २०० ५२८ १०५० १५५० ३८ ७५७ ३३८ ११६० १०६२ ६८० १०९४ १४६५ ७२७ ९७९ १०४८ ११२४ ८९५ ६२७ ११०२ ९८९ ५४० ४८३ ८३ २२६ २८ ३२ ७७९ १४६ १६३ ४६३ श्लोकाः चरवार सलिल वरिपीट वरेण तु मुनेर् वतिष्यमाणम् वर्धते ते वर्धिषीष्टाः दल्गूयन्तीम्... वसानतन्त्रक० वसानां वल्कले वसुन्धरायाम् वसूनि तोयम् वसूनि देशांच वस्त्रात्रपान वस्त्रैरनत्युलवण वाचंयमान् . वाचंयमो० वाताहति ● वादयांचक्रिरे *** ... ... वानरः कुल● वानरं प्रो० वानरा मुष्टिभिर् वानरेषु कपिः वायव्यास्त्रेण तम् वालिनं पतितम् वासयेत सु० विकत्थी याचते बिकुर्वे नगरे विमाढारम्. विग्रहस्तव विचित्रमुच्चैः... विचुक्रुशुभूमि • विटपिमृग० विदाकुर्वन्तु... विदित्वा शक्तिम् विद्यामथैनम् *.. : ... : *** ... ... *** ... ... ... ... ... ... bec ... ... ... ... ... ... २० लोकाङ्काः । लोकाः १०२५ । विद्युत्प्रणाशम् ६९८ । विद्युन्नाशम् ... ४०१ । विद्रुममणि ० ६१० । विवृतनिशित • ३५९ । विनङ्क्ष्यति .. विनेष्ये क्रोधम् १५२६ २५६ । विपाकोऽयम् १४८ विप्रकृष्टम् ३९१ । विभिन्ना जुधुरुः ३९९ । विभीषणस्ततो● ३ विभीषणोक्तम् ९० विमलमहामणि ० वियति व्यस १२६ ९३४ .. । वियत्यानभ्रतुः वियोग दुःखा० विराधताडका १२३ ३९३ ३७५ विराधं तपसाम् विरुग्णसंकीर्ण ● ● १०७१ ७३२ विरुग्णोदग्र० विरूपाक्षस्ततो● ७०९ विरूपाक्षो ज १०९३ ६५६ । विलुलितपुष्प● विलोक्य द्योतनम् विलोक्य रामेण १२४८ Q ४१४ १५१२ । विलोक्य सलिल● ४४५ । विलोचनाम्बु ० ५६३ विलोलतां चक्षुषि ७०२ । विवृत्तपार्श्वम्... १९० विशङ्कटो वक्षसि ४४ । विशिश्वासयिषाम् १०४ । विश्वासप्रद ८३९ । विषधरनिलये २९५ । विषसादेन्द्र० ५३२ । विषय राक्षसाः ४८ । विष्यन्दमान ● : ... Sa ... ... ... ... .. ... ... ... ... ... ... *** ... COU ... ... ... ... ... ... : श्लोकाचाः. ४६० ८६६ ९३० १३३० ५६४ १४६१ ६५३ ११०८ १२८१ ९८६ १०५५ ५४५ ११७८ ४१ ७८९ १००६ २०८ १४२४ ११०३ ६७३ ४४९ १०२ ५४२ ७६० ९२१ १०८० ३८० ८५५ ७६४ ७४६ ७४७ श्लोकाः बिस्फुलद्भिर् वीनामुपसरम् वीर्य मा न ददर्श वृक्षावृक्षम् वृतस्त्वं पात्रे● वृद्धिक्षयस्थान वृतौ प्रकाशम् वृद्धौरसां राज्य • वृन्दिष्ठमार्चीत् वेदिवत्स • वेदोऽगवांस्तैर् वेश्मान्तर्हणनम् वैखानसेभ्यः व्यक्रुक्षद्वानरा० व्यजिघृक्षत्सुरान् व्यतिघ्नतीम्... व्यतिजिग्ये ... व्यनाशयंस्त्रतः .... व्रणकन्दर व्रणवेदनया व्रणेरवमिषू ● त्रातीनव्याल● शक्ति संस्खजते शक्तिरित्यकुपत् शक्कैः सुहृद्भिः ... व्यरमत्प्रधनात् व्यश्रुते स्म ततः व्याख्यागम्य मिदम्... व्याप्तं गुहा० व्यायच्छमानयोः व्योम प्राचिनुताम्... व्रज्यावती शक्त्यृष्टिपरिघ ० शक्नोति यो न ... .. ... ... ... ... श. *** ... ... ... ... *** ... ... ... ... ... ... P.. ... POG २१ श्लोकाङ्काः. श्लोकाः ७४९ । शक्यान्यदोषाणि ४९४ । शङ्काघवित्र ० ११९३ शतसाहस्रम् शत्रुनान् युधि शत्रुमिर्निहते ६१२ १९३ ९५७ ८९१ १३६ ७२ । शरणमिव ... शरीरं लोहिताक्षस्य शत्रून् भीषयमाणम् शमं शमं नभवन्तः ८३५ शुश्राव रामः ३३४ ० ... शूलानि भ्रमयाम्० ६८३ शृण्वन्द्भ्यः प्रति • १५० शैलेन्द्र शृङ्गेभ्यः शैले विश्रयणम् ... १६ । शरैरताडयत् ७७६ । शर्मदं मारुतिम् १२८ शशाङ्कनाथा• १२२८ । शशिरहितमपि १३८५ । शस्त्रैर्दिदेविषुम् ५४७ । शस्त्रं तरूवधरम् ५४६ । शाम्यत्यृतुममाहारः शिजानभ्रमर • १४२२ 9 ५९५ । शितविशिख १४५९ शिला तरिष्यति १६२४ । शिवाः कुष्णन्ति ३८४ शीघ्रायमाणैः ४१० । शीर्षघातिनम् १४३१ । शीर्षच्छेद्यम् ५०४ शुक्लोत्तरासङ्ग १४८१ श्रीनिष्कुष्यति १२३६ । श्रुत्वा विस्फूर्जथु● ९४५ । श्रोत्रा क्षिनासा० ६७७ । श्लाघिष्ये केन ९६४ । वःश्रेयसम्... ..u ... ... ... ... ... ... www ... *** ... .. ... ... ... ... ... ... ... ... ... ... ... ... ... ... श्लोकाङ्काः. ५२१ ५७९ ४०४ १३१४ २४१ १४८५ ८७९ १२९८ १३८७ ३७९ ९०० ८६८ ७०५ ९८४ १४७९ १६१७ १८३ १००८ १४७० ११९ ४०३ २२८ १३० १०८५ १०७७ ६१९ ९२३ ४५४ १४८० २३६ ११७ ૧૨૦૮ १७६ श्लोकाः षड्वर्गवश्यः ... संयुचूषुम् संवर्गयांचकार ... ... संवाद्भिः सकुसुम • संवित्तः सह *♥. SUD संगच्छ राम० संग्रामे संघर्षयोगिणः सच विह्वल● स चापि रुधिर् सजलाम्भोद • संचेरुः सहसा संजानानान् स. संश्रृणुष्व संसर्गी परि० संतिस्मविषमाणो संस्तावमिव... स एव धारयेत् सकिर: कल्पितम् संजुघुक्षवः संज्वारिणेव... स तानाजीगणत् सतामरुष्करम् सतामबिभ्रमत् स तामूचे सत्त्वं समदुधुक्षच सत्वं हनिष्यन् ... .. ... सख्यस्य तव स गिरिं तरु० संकल्पं नाकरिष्यच्च संक्रुध्यसि संक्ष्णुवानः संगच्छ पनि ... - ... ... ... ... .4 ... ... : ... ... ... ... ... ... ... ... ... ... ... ADO ... श्लोकाङ्काः. ... ... ... ... ९७० २२ श्लोकाः सत्वमेजय ● सत्वानजस्रम् सदोद्वार • wa ४७३ संधानकारणम् १५०४ संधानमेवास्तु ९४३ । संधुक्षितं मण्डलं ३६२ । संथों स्थितो वा ७०८ सद्रत्नमुक्ता ● ११६२ । संदर्शितस्नेह • १५८९ संत्रस्तानामपाहारि० २२० । संत्रासयांचकार ५५८ । संदिदर्शयिपुः ४४२ ।संदृश्य शरणम् ७२६ ।संदुधुक्षे तयोः ८३३ सन्नत्स्याम्यथवा १५७१ । सपक्षोऽद्रिरिवा स पुण्य कीर्तिः ६१८ ५८२ २७४ ... a.. सप्तषष्टिं प्लवङ्गानाम्... ० स प्रोषिवान् ७८६ स बिषेष प्रचुक्षोद ७४५ । समयं परिहरमाणो● ७७० स भवान् भ्रातृ • ८५१ स भस्मसाञ्चकार १२४४ । समक्षुभ्रन्नुदन्वन्तः... ४६९ । समक्ष्णुवत शस्त्राणि ४९१ समगत कपिसैन्यम् ५६९ समगध्वम् ६८७ । समतां शशि ४४० । समनत्सीत्ततः ११८६ समपत्स्यत राजेन्द्र... २८३ स महाफणि● ... 6.a ... ... १२३४ । समधत्तासुरम् ३५४ समाविष्टम् . १२१५ समाश्वसिमि केनाहम् ७२२ । समिद्धशरणा ... *** ... ... ... ... ... ... ... ... ... श्लोकाङ्काः. ३८५ ३३५ ४७२ ७ ९६२ १२४५ २८७ २४७ ३०० ११७७ ११९९ ९८५ ९७२ ९६१ १३३३ १२०५ १२७९ १०९ ११५५ १०२३ १५२१ ११५३ १४५४ १४०१ १३०४ ५३५ ८४९ १२९२ १५७४ १०५६ ३४३२ ३७४ १४६८. ८१७ श्लोकाः समीरयांचकाराथ समीहे मर्तुम् समुपचित● समुत्क्षिप्य ततः समुत्तरन्तौ ... समुत्पेतुः कशा० समुद्रोपत्यका समुपेत्य ततः समूलकाषम् संपत्य तत्सनीडे संपस्पर्शाऽथ संपातिना प्रजङ्घः संप्राप्य तीरम् संप्राप्य वानरान् संप्राप्य राक्षस● संबभूवुः कबन्धानि संमृष्टसिता • सरसबहुपल्लव ● सरमां सरसाम् सराघवैः किं बत स राजसूय सर्वंकषयशः सर्वतश्चाभयम् सर्वत्र दयिता ● सर्वनारीगुणैः सर्वस्य जायते सक्षमच्छिदत् स शत्रुलावौ स शुश्रुवान् ससैन्यश्छादयन् सस्यन्दे शोणितम् सस्फुरस्योदकर्षच् सस्रंस शर सहभृत्यः सुरा० सहसा ते तरु० ... ... .. ... ... ... AD ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... *** २३ श्लोकाङ्काः. श्लोकाः ११७९ सहायवन्तः ११३१ । सांराविणम्... ८६३ । सामर्थ्य चापि १५६८ । सामर्थ्यसंपादित● ३५० । सामोन्मुखेन० १०७८ । सानैव लोके २७२ । सायन्तनीम् १५३१ सारथिं चालुनोत् १३१ ।सारोऽसाविन्द्रिया • २१४ सा स्तम्बघ्न ११३७ । सितारविन्द ० १०९९ । सीतां सौमित्रिणा १२१ । सीतां जिघांसू ५१९ सीतान्ति के... १८८ सीतां दिदृक्षुः १०९५ ९१९ १०५१ ८१४ ९५० ३४८ ३९४ १४१८ सीतारक्षो● सुकृतं प्रिय● सुखं स्वप्स्यन्ति सुखजातः सुखावगाहानि सुग्रीवान्तिकम् ७५७ । सुपाद् द्विरद सुप्तो नभस्तः १४६६ सुप्रतिष्णात ● १५४९ सुप्रातमासादित ३७८ २० सुरापाण ७३१ । सुरापैरिव ११६६ । सुषानीं सर्व १४४० । सुपुपुस्ते ११४० । सुहृदौ राम० १३४३ । सूतोऽऽपि गङ्गा० १०४३ । सृमरोऽभडर ० ... ... ... ... सुग्रीवो मुमुदे सुग्रीवोऽस्याभ्रशत् .. ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... 300 ... Ba ... ... ... श्लोकाङ्काः. १९९ ४७७ १२१२ ८४४ ८९८ ९१६ २४८ १३८८ २०३ ४९७ ४५ २९८ ३१९ ५८५ ४७६ २५१ १३३६ २२१ ९१८ ४६५ ११०६ १२४० १५५ १०६ ७५६ ३८१ ७५८ ७४१ ७८७ १०० श्लोकाः सेतुं महेन्द्रम् सेवितासे प्लवङ्ग • सेहे कपी रथा० सोऽध्यष्टीयत रामेण सोऽध्येट वेदान् सोऽपृच्छत्... सौमित्रिः सर्पवत् सौमित्रिराकुलः सौमित्रे मा... सौमित्रेरिति सौर्यग्नेये ... ... स्त्रीभूषणम् . स्थानं नः पूर्वजानाम् स्थायं स्थायम् स्थितमित्र परि 400 स्नानभ्यविचत स्नानीयैः स्नापयेत स्नानुलिम्प स्टहयालुम्... स्फटिकमणिगृहैं: स्कुटपरुषम् स्मरातुरे चेतसि स्मेष्यन्ते मुनयो स्यन्त्वा स्यन्त्वा दिवः स्रस्ताङ्गचे टो● खस्ताङ्ग यष्टिः स्वपोषमपुषत् : : : D03 *** ... ... ... ... ... श्लोकाः १६१५ । स्वं कर्म कारयन्त्रास्ते १५९३ । स्वर्गे विद्यत्र ११७६ । स्वर्भानुर्भास्करम् १४४४ । खां जिज्ञापयि २ स्वामिनो निष्क्रयम्.. २९९ । स्खेनुस्तित्विपुः १२७१ १३६५ १५८ ८८४ १२७३ ४२ १६२८ २३४ ८५४ ० ३१४ । हया जिहेरे १५११ हरहासरुद्ध १५४१ हरामि राम० ४५५ । हरिवविलोल● ८५९ । हरेः प्रगमनम् ८१० । हविर्जक्षिति.. ९१२ । हित्वाशितङ्गवीनानि १३१८ । हिरण्मयी शाल १६०१ । ही चित्रं लक्ष्मणेन ८९३ हृतरत्नश्चत ८९६ हृदयङ्गम ३१७ । हृदयोदङ्क० लोकाङ्काः. हतं रक्षांसि हृतवन्धुर्जगाम हतराक्षस.... हता जनस्थान • हते तम्मिन् हत्व रक्षांसि हन्तुं क्रोधवशात् समाप्तेयं श्लोकानुक्रमणिका । ... .. ... ORD ... ... ... ... ba ** ... ... ... ... ... Da ... 8.5 ... ... ... ... श्लोकाङ्काः. ५० १५६३ १४७२ ७१० ७३४ ११३८ १२५२ १८७ ७९२ ९३६ ७१८ २८९ १०७३ १०३१ २३० १०३८ ७८० १४७७ १४९ ७४ ११०७ २११ २५० ५१७ देवं नंदनंदनं वंदे । ओं नमः सिद्धम् ॥ अथ श्रीभट्टि-काव्यं जयमङ्गलया समेतम्- प्रथमः सर्गः- प्रणिपत्य सकलवेदिनमतिदुस्तरभट्टिकाव्यसलिलनिधेः ॥ जयमङ्गलेति नाम्ना नौकेव विरच्यते टीका ॥ १ ॥ लक्ष्यं लक्षणं चोभयमेकत्र विदुषः प्रदर्शयितुं श्रीस्वामिसूनुः कविर्भट्टिनामा रामकथाश्रयमहाकाव्यं चकार । तथाह्यस्योपनिबन्धनं कविना द्विधा कृतम् । एकं लक्षणसूचकैः प्रकीर्णा-धिकार-प्रसन्न-तिङन्तकाण्डैश्चतुर्भि: । द्वितीयं लक्ष्यसूचकै रामसंभवादिभिर्द्वाविंशत्या सर्गैः । तत्र लक्षणं द्विविधम् । शब्दलक्षणं काव्यलक्षणं च । तत्र प्रथमस्य प्रकीर्णाधिकारतिङन्तकाण्डानि । द्वितीयस्य प्रसन्नकाण्डम् । यत्रोच्चावचेन बहूनां लक्षणानां प्रकरणं तत्प्रकीर्णकाण्डम् । तदेवात्र प्रथममुक्तं तस्य व्यापित्वात् 'उत्तरत्रापि द्रष्टव्यम्' इति प्रदर्शनार्थम् । अत्र यद्यप्यादौ कविना देवतानमस्कारो न कृतस्तथापीष्टदेवतासंकीर्तनमपि विघ्नोपशमनहेतुर्भवतीति मन्यमान आह- १--अभून् नृपो विबुध-सखः[^१] परं-तपः श्रुता॒ऽन्वितो द[^३]श-रथ इत्यु॑दाहृतः, ॥ गुणैर् वरं भुवन-हितच्[^४]-छलेन यं सना-तनः पितरमु॑पागमत् स्वयम्[^५]. ॥ -- १--'अभून्नृपो दशरथ इत्युदाहृतः श्रुतान्वितो विबुधसखः परन्तपः ॥' इति पाठव्यत्यासोऽपि क्वचित् । २--'७७७ । अथ मित्रं सखा सुहृत् ।' इति नामलिङ्गानुशासनेऽमरसिंहः । ३--दशसु दिक्षु रथो रथ-गतिर्यस्येति यथार्थनामेति भावः । ४--'२४६ । छे च ।६।२।७३।' ह्रस्वस्य छे परे तुगागम: स्यात्संहितायाम् | यथा-सदाशिव+छात्रः=सदाशिवच्छात्रः । इति सिद्धान्तकौमुद्यां भट्टदीक्षितः । ५--पद्येऽस्मिन्वृत्तं रुचिरा । तल्लक्षणम्-‘चतुर् (४)-ग्रहै (९)रिह रुचिरा ज-भ-सू-ज-गाः ।' इति वृत्तरत्नाकरे भट्टकेदारः । अभूदित्यादि -- तस्य हीष्टदेवता सनातनो विष्णुः । स चादौ कीर्तितः । तत्प्रतिबन्धना चेयं कथेति प्रबन्धेनैवात्र संकीर्तनं रामायणवत् । तत्र विष्णोर्यस्मिन्काले जगत्कार्यवशादवतारः कृतस्तदेव प्रथमं दर्शयति । अभूदिति भूतसामान्ये लुङ् | भूत इत्यर्थः । अन्यथा राज्ञश्चिरातीतत्वात्कवेः परोक्षत्वाच्च लिट् स्यात् । '२२२३ | गाति-स्था-।२।४।७७।' इति सिचो लुक् । '२२२४ । भू-सुवोस्तिङि ।७।३।८८।' इति गुणप्रतिषेधः ॥ 'नयतेर्डिच्च' इति नयतेरौणादिक ऋन् । नरो मनुष्यास्तान्नॄन्पातीति । '२९१५ । आतोऽनुपसर्गे कः ।३।२।३।’ । ‘२३७२। आतो लोपः-।६।४।६३।' नृपो राजा । अत्यन्तधर्मविजयित्वाद्देवराजस्य मित्रमासीदित्याह--विबुधसख इति । विबुध्यन्त इति विबुधा देवास्तेषामपि प्रधानत्वात् । तत्रेगुपधलक्षणः कः । सामान्यशब्दोऽपि देवेषु वर्तमानोऽप्यथवशाच्छक्रे प्रयुक्तस्तस्य सखेति । '७८८ । राजाऽहःसखिभ्यष्टच् ।५।४।११।' विदुधसखः । अनेन धर्मविजयित्वं दर्शयति विबुधसखत्वस्य धर्मकार्यत्वात् । सुरलोकविजयिनश्च ये राजानस्तेषां धर्मविजयी प्रधानम् । परे शत्रवस्त्रिविधाः-उच्छेदनीयोपपीडनीयकर्षणीयाः । तत्र ये उपपीडनीयकर्षणीयास्तान्परांस्तापयतीति परंतपः । '२९५४। द्विषत्परयोस्तापेः ।३।२।३९॥ इति खच् । '२९५५ । खचि ह्रस्वः ।६।४।९४।' । '२९४२ । अरुर्द्विषदजन्तस्य- ।६।३।६७।' इति मुम् । नृप इत्यनेन स्वमण्डले वृत्तिराख्याता । परंतप इति परमण्डले । श्रूयन्त इति श्रुतानि वेदादीनि तैरन्वितः संबद्धः । ग्रन्थतोऽर्थतश्च गृहीतत्वात् । दशरथ इत्यनेन नाम्नोदाहृतो लोके गीतः ॥ गुण्यन्तेऽभ्यस्यन्त इति गुणाः । '२०४० । गुण आमन्त्रणे ।' इति चौरादिकोऽदन्तः । तस्मात् '३१८८। अकर्तरि च-१३१३ | १९।' इत्यादिना घञ् । येषाम् 'एरजण्यन्तानाम्' इति दर्शनम् । येषां तन्नास्ति तेषामेरच् | स्वरं प्रति विवादो न रूपं प्रति । गुणैरभिरामत्वादिभिर्वरं श्रेष्ठं यं नृपं पितरमुपागमदिति संबन्धः । व्रियत इति वरः । '३२३४। ग्रह-वृ-दृ-।३।३।५८।' इत्यादिना कर्मण्यप् । केन हेतुनोपगतवांस्तं पितरं सनातन इत्यत आह--भुवनहितच्छलेनेति । भवन्त्युत्पद्यन्त इति भुवनानि । भूर्भुवःस्वरिति यो लोकाः । 'रजः क्युन्' इत्यनुवर्तमाने 'भू-सू-धू-सर्जिभ्यश्छन्दसि' इत्यौणादिकः क्युन्बहुलवचनाद्भाषायामपि भवति । तेभ्यो हिता भुवनहिता विष्णोर्दशावताराः । इह तु रामो द्रष्टव्यः । तच्छलेन व्याजेन भुवनहितच्छलेन । इदानीं रावणादि-कण्टकोद्धरणात् । तथा चोक्तम्--'परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय संभवामि युगे युगे ॥' इति । सनेत्यव्ययं सदार्थे वर्तते । सना भवतीति । १३९१ । सायं चिरम्--।४।३।२३।' इति ट्युट्युलौ तुट् च । सनातनो विष्णुरुपागमदुपजगाम । ऌदित्वादङ् । सत्स्वन्येषु राजसु गुणैर्वरत्वाद्यं पितरं जनकमङ्गीकृतवान्सोऽभूदिति योज्यम् । स्वयमित्यात्मना न कर्मणान्येन वा प्रेरित इत्यर्थः ॥ तथा लक्ष्य-रूपे कथानके श्री-राम-संभवो नाम प्रथमः सर्गः - ३ २ - सोऽध्यैष्ट वेदांस्, त्रि-दशांनयेष्ट, पितॄनपारीत्, सममंस्त बन्धून् ॥ व्यजेष्ट षड्-वर्गम॑रंस्त नीतौ, स-मूल-घातं न्यवधीदरींश चॅ. ॥ सोऽध्यैष्टेत्यादि — क्षत्रियस्य धर्मोऽध्ययनं यजनं दानम् । शस्त्राजीवो भूतरक्षणं चेत्युभयं नृप इत्यनेनोक्तम् । भूतरक्षणे शस्त्रमङ्गम् । स नृपो वेदानध्यैष्टाधीतवानिति स्वाध्याय उक्तः । वेदयन्ति ज्ञापयन्ति धर्माधर्माविति वेदाः सामादयः । '२८९६ । नन्द-ग्रह-पचादि ।३।१।१३४ । इत्यच् । इङोऽधिपू र्वस्य '२४६० । विभाषा लुङ्-लृङोः - ।२।४।५०' इति गाङ् । विभाषयेति गाङभावपक्षे रूपम् । अजादित्वादाद । '२६९ । आटश्च ।६।१।९०। ' इति वृद्धिः । ङित्त्वादात्मनेपदम् । '२१२ । आदेश प्रत्यययोः-। ८।३।५९। इति षत्वं ष्टुत्वं च । त्रिदशान्देवानयष्टाग्निष्टोमादिभिः पूजितवान् । यजनमुक्तम् । यजेः '२१५८ । स्वरित - जितः - ।१।३।७२ ।' इति तङ् । अनिक्समीपत्वाद्धलः '२३०० । लिङ्सिचौ - १।२।११।' इति कित्वं न भवति । '२२४ । श्च अज-८।२।३६।' इत्यादिना षत्वम् । '२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः ॥ पितृनपारीदाप्यायितवान् । पितरमुद्दिश्य यजनम् '११६०। पृ पालन-पूरणयोः ।' इत्यस्मात्पूरणार्थाल्लुङि रूपम् । '२२९७ । सिचि वृद्धिः -।७।२।१।' '२२६६। इट इंटि।८। २।२८।' इति सिचो लोपः । अथवा 'पितृ्ऋनतार्प्सीत्' इति पाठः । '१२७१। तृप प्रीणने ।' इत्यस्मालुङि 'स्पृश-मृश-कृश-तृप-हृपां च्ले: सिज्वक्तव्यः' इति च्ले: सिचि '२४०२ । अनुदात्तस्य च ।६।१।५९। इत्यादिना अमभावपक्षे रूपम् । पितृ्ऋंस्तर्पितवानित्यर्थः।। सममंस्त बन्धून्मातृपिनादिज्ञातीन्संमतवान् । सदा दानमानादिभिः पूजितवानित्यर्थः । मन्यतेरनुदात्तत्वात्तङ् । इट्प्रतिषेधश्च । येषां सिच इकार उच्चारणार्थस्तेषाम् '२६९७ । हनः सिच् । १।२।१४॥ इति कित्कच १ –'७॥ अमरा निर्जरा देवास् त्रि-दशा विबुधाः सुराः ॥" इति ना० अ० 'तृतीया यौवनाख्या दशा सदा येषां ते त्रिदशाः । त्रिशब्दस्य तृतीयार्थता त्रिभागवत् । इति व्याख्यासुधायां (रामाश्रयां ) भानुदीक्षितः । २ – '२९४ । व्रश्च-भ्रस्ज-सृज-मृज-यज-राजभ्राज-छशां षः ।८।२।३६ । व्रश्चादीनां सप्तानां छशान्तयोश्च पकारोऽन्तादेशः स्याज्झलि पदान्ते च।' इति वै० भ० । ३ – काम-क्रोध-लोभ-मोह-मद-मत्सरेत्यन्तररीणां षड्वर्गमित्यनित्यसमासः । यथा - '४३ । तनुमुद्धूलयन् मर्त्यः शिव-भागवतो यदि । अरि-पड्-वर्ग-तस् तस्य भयं नास्ति कदाचन ॥ इति समास-कुसुमाऽऽवल्यामनन्त-शिष्यः । ४- पद्येऽस्मिन्वृत्त मुपजातिरापञ्चविशतिपद्येभ्यः । तल्लक्षणम् - 'स्यादिन्द्रवज्रा यदि तौ ज-गौ गः, उपेन्द्रवज्रा ज-त-जास्ततो गौ, । अनन्तरोदीरितलक्ष्मभाजौ पादौ यदीयावुपजातयस्ताः (१४) ॥' इति वृत्त० भट्टकेदारः । उपजातयश्चतुर्दशविधाः सन्ति । भट्टि काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः, रणज्ञापकान्नलोपाभावः । येषां तु इकार इत्तेषामिदित्वान्नकारलोपाभावः ॥ आभ्यन्तरं शत्रुमजित्वा कथं परंतप इत्याह – व्यजेष्ट षड्वर्गमिति । कामक्रोध- लोभमोहमदमात्सर्याणां षण्णां वर्गः षड्वर्गः । तमभिभूतवान् । विपूर्वस्य जयतेः '२६८५ । वि-पराभ्यां जेः ।१।३।५९॥ इति तङ् ॥ अरंस्त नीतौ सामादिषु संध्यादिषु च रतः । नीतिमानित्यर्थः ॥ समूलघातं न्यवधीत्समूलान्निःशेपानरी- ञ्शत्रुन्निहतवान् । उच्छेदनीया ये शत्रवस्तेष्विदं विधानम् । समूलोपपदा. द्धन्तेः '३३५७ । समूलाकृत- ।३।४।३६।' इत्यादिना णमुल् । '३५८ । हो हन्तेः-। ७।३। ५४ ।' इति घत्वम् । वृद्धिः । '२५७४ । हनस्तः ।७।३।३२।' इति तत्वम् । '३३६७। कषादिषु यथा- । ३।४।४६।' इत्यादिना यथाविध्यनुप्रयोगः । अनुप्र योगे '२४३४ । लुङि च ।२।३॥१३।' इति वधादेशः । तस्याकारान्तत्वादुपदे- शेऽनेकाच्त्वादिण्निषेधो न भवति । अतो लोपे कृते तस्य स्थानिवद्भावात् '२२८४ । अतो हलादेः- ।७।२।७।' इति विभाषावृद्धिर्न भवति ॥ ३ - वसू॑नि तोयं घन-वंद् व्यकारीत्, सहा॑ऽऽसनं गोत्रं - भिदाऽध्यवात्सीत् ॥ न त्र्यम्वकार्दन्यमु॑पास्थिताऽसौ, यशांसि सर्वेषु-भृतां निरास्थत् ॥ वसूनीत्यादि — वसूनि द्रव्याणि बन्धुव्यतिरेकेण बालादिभ्यो व्यकारीद्दत्त वान् । विक्षिप्तवानिति वा । किरतेर्लुङि रूपम् । कः किमिवेत्यपेक्षायामाहतोयं धनवदिति । तोयमुदकम् । घनो मेघः फलनिरपेक्षतया यथा विकिरति तद्वत्। एवं सम्यक्पालनादिन्द्रेण तुल्यत्वमाह - सहासनं गोत्रभिदाऽध्यवात्सीदिति । गोत्रभिदेन्द्रेण सहासनमध्यवात्सीदध्युषितवान् । अनेनात्यन्तधर्मविजयित्वस्य फलं दर्शयति । '१०७४ । वस निवासे ।' इत्यस्य रूपम् । 'वसिः संप्रसारणी' इति वचनादिडभावः । '२२२५ । अस्ति-सिचः ।७।३।९६ ।' इति इट् १ – '९७६ । द्रव्यं वित्तं स्वापतेयं रिक्थमृक्यं धनं वसु । हिरण्यं द्रविणं द्युम्नमर्थरें-विभवा अपि ॥" इति ना० अ० । २ – '१७७८ । तेन तुल्यं क्रिया चेद् वतिः ( वत् ) ।५।२।११५। ब्राह्मणेन तुल्यं ब्राह्मणवदधीते । क्रिया चेदिति किम् । गुणतुल्ये माभूत् । पुत्रेण तुल्यः स्थूलः ।" इति वै० भ० । ३–'४९। सुत्रामा गोत्र-भिद् वजी वासवो वृत्रहा वृषा । वास्तोष्पतिः मुरपतिर् बलारातिः शचीपतिः ॥" इति० ना० अ० । 'गां पृथ्वीं त्रायन्ते पालयन्ति ते गोत्राः पर्वतास्तान् भिनत्ति विदारयतीति गोत्रभिद् ( त् )।' इति व्या० मा० । '१०३४। त्रै-ङ् पालने " ( ' '१५३३ । भिदिर विदारणे ।" इति धातुपाठे पाणिनिः । ४–'३८॥ हरः स्मरहरौ भर्गसू त्र्यम्बकस् त्रिपुरान्तकः । गङ्गाधरोऽन्धकरिपुः ऋतुध्वंसी वृषध्वजः ॥" इति ना० अ० । 'दैव-दीपम् तु लोचनम् । अम्बकं च----- इति त्रिकाण्डशेषे पुरुषोत्तमः। तथा लक्ष्य-रूपे कथानके श्री राम-संभवो नाम प्रथमः सर्गः '२२६७। वद-व्रज - ।७१२१३।' इत्यादिना वृद्धि । '२३४२ । सः स्यार्धधातुके । ७१४।४९॥ इति तत्वम् । आसनमिति '५४४ । उपान्वध्याङ्वसः ।१।४।४८।' इत्यधिकरणस्य कर्मसंज्ञा ॥ त्रीण्यम्बकान्यक्षीणि अस्येति त्र्यम्बको महादेव- स्तस्मादन्यं नोपास्थित । न पूजितवा नित्यर्थः । उपपूर्वात्तिष्ठतेः 'देवपूजा-संग- तिकरण - मित्रकरण पथिपु ।' इति देवपूजायां तङ् । '२३८९१ स्था-ध्वोरिच । १।२।१७।' इत्यादिनेत्वं कित्त्वं च । '२३६९ । स्वादङ्गात् ।८।२।२७।' इति सिचो लोपः ॥ इपून्वितीति । १२९८० । अन्येभ्यो दृश्यन्ते ।३।२।७५॥ इति विप् । इपुभृतो धनुर्धराः सर्वेषां तेषां यशांसि निरास्थत् । निरस्त वानित्यर्थः । एतेनास्यासाधारणीकृतास्त्रत्वं दर्शितम् । 'उपसर्गादस्यत्यूयोर्वा वचनम्' इति वचनाद्यदा उङ् नास्ति तदा तिप् । '२४३८ । अस्यति ।३।१॥५२॥ इत्यादिना च्लेरङ् । '२५२० । अस्यतेस्थुक् ।७।७४।१७।' ॥ ४ - पुण्यो महा ब्रह्म समूह-जुष्टः संतर्पणो नाक-सदां वरेण्यः ॥ जज्वाल लोक स्थितये स राजा यथाsध्वरे वह्निर॑भिप्रणीतः ॥ पुण्य इत्यादि - पुनातीति पुण्यः । 'पूजो यत् णुक् हस्वश्च' इत्यौणादिको यत् णुगागमश्च ह्रस्वश्च । अत्यन्तपुण्यकरणाद्वाजापि पुण्य इत्युच्यते । तन्मयत्वादाजा । अग्निरपि पुण्यः पावनत्वात्पुण्यः । यागादिः पुण्यस्तेन पुरुषः पूयते । महतां वेदविदां ब्रह्मणां ब्राह्मणानां समूहेन जुष्टः सेवितो राजाग्निश्च । ब्रह्मशदोऽत्र ब्राह्मणपर्यायः । नाके स्वर्गे सीदन्तीति '२९७५ । सत्-सू- द्विप - ३२॥ ६१।' इत्यादिना किप् । नाकसदो देवास्तेषां । कर्मणि पष्ठी । संतर्पयति प्रीणयतीति संतर्पणः । संतर्पयते: '२८४१॥ कृत्यल्युटो बहुलम् ।३।३।११३।' इति कर्तरि ल्युट् । राजा यागादिना तर्पयति । अग्निरप्यग्निमुखत्वाद्देवानाम् । वरेण्यः श्रेष्ठो राजाग्निश्च । 'वृङ एण्यः' । जज्वाल प्रदीप्तवान् । लोकस्थितये माभूल्लोकस्य स्थित्यतिक्रम इत्येवमर्थम् । अग्निरपि लोकस्य स्थितये ज्वलति । यथोक्तम्'अग्नौ प्रास्ताहुतिः सभ्यगादित्यमुपतिष्ठते । आदित्याजायते वृष्टिवृ॑ष्टेरनं ततः 1 १ - १३२२ । वेदस् तत्त्वं तपो ब्रह्म, ब्रह्मा विप्रः प्रजापतिः ।' इति ना० अ० । यथा'ब्रह्माणौ ब्रह्मणो ब्रह्म ब्राह्मणा वेत्तुमर्हतः । एतत्-पद्याऽर्थ-बाह्याऽर्थोऽपि न स्यात् कोशमन्तरा. ॥" इति कोशावतंसः । २ – २९७५ । सत्-सू-द्विष-द्रुह-दुह-युज-विद भिदच्-छिद-जि·नी-राजामुपसर्गेऽपि किप् ( ० ) ।३।२१६१॥ एभ्यः किप् स्यादुपसर्गे सत्यसति च सुप्युपपदे । यथा - चु-सत् । उप-निषत् । अण्डसू: । प्रसूरित्यादि ।" इति वै० भ० । ३- '२२८७ । उपसर्गाद-समासेऽपि णोपदेशस्य ।८।४।१४। उपसर्गस्थान्निमितात्परस्य णोपदेशस्य धातोर्नस्य णः स्यात्समासेऽसमासेऽपि । प्रणदति । प्रणिनदति ।" i भट्टि-काव्ये - प्रथमे प्रकीर्ण-ऋाण्डे लक्षण-रूपे प्रथमो वर्गः, यजाः ॥ इति । अभिप्रणीत इत्यझिविशेषणम् । आभिमुख्येन प्रणीत इति मादिसमासः । '२२८७ । उपसर्गादसमासे - 1८।४।१४।' इत्यादिना णत्वम् । मन्त्रेणाभिमुखीकृत इत्यर्थः । यथाध्वरे यागेऽभित्रणीतो वह्निज्र्ज्वलति तथा राजापीत्यर्थः ॥ वत्रस्थो राज्यं चकार तां नगरी दर्शयन्नाह ५- स पुण्य - कीर्तिः शत-मन्यु - कल्पो महेन्द्र लोक प्रतिमां समृद्ध्या ॥ अध्यास्त सर्व॒र्तु-सुखाम॑योध्या- म॑ध्यासितां ब्रह्मभिरि॑िद्ध-वोधैः ॥ ● स पुण्येत्यादि – स्वामिगुणपूर्वका हि निवासस्य गुणा भवन्तीति प्रद- र्शनार्थ पश्चात्तदभिधानम् । तथा चोक्तम्- 'स तु यच्छीलस्तच्छीला अस्य प्रकृ तयो भवन्ति ।' इति । स राजा पुण्यकीर्तिः पुण्याः पवित्राः कीर्तयो यस्य सः । शतमल्युकल्प इति प्रभावं दर्शयति । '२०२२ । ईपदसमाप्तौ - 1५।३।६७।' इति कल्पप् । शतमन्युरिन्द्रः । महेन्द्रलोकप्रतिमामयोध्यामिति योज्यम् । प्रति- मीयते तुल्यत इति प्रतिमा । ' ३२८३ । आतश्चोपसर्गे - । ३।३।१०६ । ' इत्यङ् । महेन्द्रलोकेन प्रतिमा तुल्या । १६९२ । तृतीया ।२।१।३०॥ इति योगविभागा- समासः । अमरावतीमिवेत्यर्थः । कया । समृद्ध्या । सम्यगतिशयेनर्द्धिः समृ द्धिः । '७६९१। कुगतिमा ।२।२।१८।' इति प्रादिसमासः । अध्यास्ताध्यासित- वान् । भूतसामान्ये लङ् । अस्तेरनुदात्तत्त्वात्तङ् । ५४२ । अधि-शीङ्-१॥४॥ ४६।' इत्यादिनाधिकरणस्य कर्मसंज्ञा । सुखयतीति सुखा पचाद्यच् । सुखहेतु- त्वढा मुखा । सर्वपु ऋतुपु सुखेति । '७१७ । सप्तमी-।२।१॥४०॥ इति योग- विभागात्समासः । अध्यासितामध्युषिताम् । ब्रह्मभिद्राह्मणैरिद्धवोधैः । सर्वशा- परिज्ञानापटुवुद्धिभिरित्यर्थः । इन्धेर्निष्ठायामनुनासिकलोपः ॥ ६ - निर्माण - दक्षस्य समीहितेषु सीमेव पद्मऽऽसन - कौशलस्य ॥ ऊर्ध्व-स्फुरद्-रत्न-गर्भस्तिभिर् या स्थिताऽवहस्येव पुरं मघोनः ॥ १–'५४२। अधि-शीङ्-स्थाऽऽसां कर्म ।१।४।४६ । अधिपूर्वाणामेषामाधारः कर्म स्यात् । यथाअधिशेते-अधितिष्ठति-अध्यास्ते वा वैकुण्ठं हरिः । इति० वै० भ० + २ - ११८ । किरणोत्रमयूखांऽशु-गभस्ति-घृणि रश्मयः ॥ १ ३ – '३३०। पूः स्त्री पुरी नगयौं वा पत्तनं पुटमेदनम् ।' ४–४७। इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः ॥" इसि सर्वत्र मा० अ० । तथा लक्ष्य-रूपे कथानके श्री राम-संभवो नाम प्रथमः सर्गः- निर्माणेत्यादि - पद्मासनो ब्रह्मा । पद्ममासनं यस्येति कृत्वा । तस्य कौशलं नैपुण्यमिति षष्टीसमासः । तस्य '७०५ । पूरण-गुण ।२।२।११।' इत्या- दिना न प्रतिषेधः । तत्र विशिष्टा एव गुणा रूपरलगन्धस्पर्शास्तद्विशेषाच शुक्लनीलादयः कटुकाम्लादयः सौरभ्यादयः शीतोष्णादयश्च गृहीताः । तन्त्र रूपादिभिः समासो भवत्येव । 'तत्स्यैश्च गुणैः षष्ठी समस्यते न तु तद्विशेषगुणैः ।' इति वचनात् । अन्यैस्तु समासप्रतिषेधः । एवं च कृत्वा सुनित्रय वचनमर्थवद्भवति । तद्यथा '९१९ । अधिकरणैतावत्वे च ।२।४।१५। १२९५ । तदशिप्यं संज्ञाप्रमाणत्वात् ।१।२१५३।' इति पाणिनेः, 'युग- पद्देशपृथक्त्वदर्शनादिति रूपसामान्याद्वेति वचनप्रामाण्यादिति चेदलो- पप्रतिषेधः' इति कात्यायनस्य, 'नकारग्रहणसामर्थ्याल्लोपो भवि- व्यतीति किं पुनस्त्रार्थ सत्तत्त्वम्' इति भाष्यकारस्येति । तस्य सीमेव मर्यादेवायोध्या । ततो न सृष्ट्यन्तरं शोभनमस्तीत्यर्थः । कीदृशस्य । निर्मा- णदक्षस्य । निर्मितिर्निर्माणं सृष्टिस्तत्र दक्षस्य पटो: । क्व विषयेषु । समीहि तेषु । स्रष्टुमीप्सितेध्वित्यर्थः । ऊर्ध्वमुपरिष्टात्स्फुरलगभस्तिमिः स्फुरन्तो ये रत्नानां गभस्तयो रश्मयस्तैर्हास भूतैर्मघोन इन्द्रस्य पुरममरावतीमवहस्येव स्थिता या तामध्यास्त । 'मघवन् श्वन् उक्षन्' इत्यौणादिकः । '३६२॥ श्वयुव- मघोनाम् –।६।४।१३३॥ इति संप्रसारणम् ॥ ७- सद्-रत्न-मुक्ता-फल-वज्र-भाञ्जि विचित्र - धातूनि स - काननानि ॥ स्त्रीभिर् यु॒तान्य॑प्सरसामि॑वषैर् मेरो: शिरांसीव गृहाणि यस्याम् ॥ सद्तेत्यादि – सन्ति शोभनानि यानि रत्नादीनि तानि भजन्ते यानि गृहाणि तानि सद्रवमुक्ताफलवज्रभाञ्जि । मुक्ताफलवज्रयो रखान्तर्भावेऽपि प्राधान्यख्यापनार्थं वचनम् । गोबली वर्दन्यायाद्वा । रत्नशब्देन मरकतपद्मराग- वैदूर्यादयो गृह्यन्ते । 'सद्रनादि - युञ्जि' इति पाठान्तरम् । '३७६ । युजेरसमा- से ।७।१२।७१॥ इति प्रतिषेधो न भवति । अनपुंसकविषयत्वात् । नपुंसके तु तल्लक्षणस्य नुमो विधानात् । विचित्रधातूनि विचित्रा नानाप्रकारा धातवो मनः- शिलादयो येषु गृहेषु तेषां विरचितचित्रकर्मत्वात् । सकाननानि सोद्यानानि । स्त्रीमिर्युतान्यप्सरसामिवौघैस्तत्रत्याभिः स्त्रीमिरप्सरोभिरिवेत्यर्थः । मेरोः शिरां- सीव शृङ्गाणीव एवंविधानि गृहाणि यस्यामयोध्यायां तामध्यास्त । गृह इति '२९०६। गेहे कः ।३।१।१४४।' तत्र गृहशब्दो वेश्मनि नपुंसकलिङ्गः । तत्स्था- यिषु पुंलिङ्गो नित्यं बहुवचनान्तश्च ॥ १ – '३४९। अटव्यरण्यं विपिनं गहनं काननं वनम् । इति ना० अ० भट्टि-काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः, ८ - अन्तर्-निविष्टोज्वल-रत्न -भासो गवाक्ष- जालैरभिनिष्पतन्त्यः ॥ हिमा॒ऽद्र - टङ्कादि॑िव भान्ति यस्यां गङ्गाऽम्वु-पात - प्रतिमा गृहेभ्यः ॥ अन्तरित्यादि – अन्तर्गृहमध्ये निविष्टानि निहितान्युज्वलरखानि यानि तेषां भासो रइमयो गृहेभ्यो गवाक्षजालैरभिनिष्पतन्त्यो निर्गच्छन्त्यो यस्यां भान्ति तामध्यास्तेति योज्यम् । पर्वतस्योन्नतप्रदेशष्टङ्क इत्युच्यते । तस्माद्धिम वत्पर्वतङ्गादिव गङ्गाम्बुपातप्रतिमा गङ्गाजलप्रवाहतुल्या: स्वच्छत्वात् ॥ ९ - धर्म्यास कामा॒ऽर्थ - यशस्-करीषु मतासु लोकेऽधिगतासु काले ॥ विधासु विद्वानिवँ सोऽमिरेमे पत्तीषु राजा तिसृत्तमासु ॥ धर्म्यास्वित्यादि – धर्मादनपेतासु । '१६४४॥ धर्म-पध्यर्थ - ।४।४।१२।' इत्यादिना यत् । कामार्थयशांसि कर्तुं शीलं यासां तासु । ' २९३४ । कृजो हेतु- ।३।२।२०।' इत्यादिना ताच्छील्ये टः । १६० । अतः कृ कामे - । ८।३।४६ ।' इत्या- दिना विसर्जनीयस्य सत्वम् । टित्त्वान्डीप् । मतासु पूजितासु लोके तासां प्रती- तत्वात् । अधिगतासु काले विवाहयोग्ये काले परिणीतासु । सोऽभिरेमे स राजाभिरतवान् । पत्नीपु '४९० । पत्युनों यज्ञसंयोगे ।४।१।३३ । इति नकारः । तिसृषु कौसल्याकैकेयीसुमित्रासु । उत्तमास्विति सन्नारीगुणैः श्रेष्ठासु । विद्यास्त्रिति विदन्त्याभिर्धर्माधर्माविति विद्याः । '३२७६ । संज्ञायां समज - ।३।३।९९।' इत्या. दिना क्यप् । तिसृषु सामर्ग्यजुराख्यासु । धर्म्यास्वित्यादिकं तुल्यम् । विद्वानिव । यथाधिगतविद्य इत्यर्थः । '३१०५ । विदेः शतुर्वसुः ।७।१।३६।' दीर्घ हलढ्या- दि-संयोगान्तलोपाः ॥ तस्य राज्ञः पत्नीभिस्ताभिः सह रममाणस्य सुवा नैवासन् । ऋष्यशृङ्गनामा मुनिः पुत्रीयं क्रतुं जानातीति पुरोधसो वसिष्ठादुपश्रुत्य राज्ञा वारविलासिनीभिरानायितो मुनिरित्येतत्कथयितुमाह१ - १६४४१ धर्म-पर्थ्यर्थ न्यायाद॑नपेते ।४।४।१२। धर्मादनपेतं धर्म्यम् । पथ्यम् अर्थ्यम् । न्याय्यम् ।' इति वै० भ० ॥ २ – 'इच्छा काङ्क्षा स्पृहेहा तृड् वान्छा लिप्सां मनोरथः ॥ २२८ । कामोऽभिलाषस तर्षश् च - ' इति ना० अ० ॥ ३ – अत्रोपमालङ्कारः तल्लक्षणं कुवलयानन्दकारिकायाम् । 'उपमा यत्र सादृश्यलक्ष्मीरुल्लसति द्वयोः । हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गाम् ( स्वर्ग गाम् ) अवगाहते ॥ ४ - अत्रोपजातिच्छन्दः तलक्षणं पूर्वो( २ )क्तम् । तथा लक्ष्य-रूपे कथानके श्री राम - संभवो नाम प्रथमः सर्गः १० - पुत्रीयता तेन वरा॒ऽङ्गनाभि- रोनायि विद्वान् ऋतुषु क्रियावा॑न् ॥ विपक्रिम-ज्ञान-गतिर् मनस्वी मान्यो मुनिः स्वां पुरमृ॑ष्य-शृङ्गः ॥ पुत्रीयतेत्यादि — पुत्रीयतात्मनः पुत्रमिच्छता । इच्छायाम् '२६५७। सुप आत्मनः क्यच् ।३।१।८।' इति क्यच् । '२६५८ । क्यचि च । ७ । १४ । ३३ ।' इतीत्वम् । तेन राज्ञा प्रयोजककर्त्रा वराङ्गनाभिर्वरस्त्रीभिः प्रयोज्यकर्त्रीभिरानायि स्वां पुरमिति योज्यम् । 'नी- वह्योः' इत्यादेरपि '५३९ । अकथितं च ।१॥४॥५१॥ इति चकारेण संगृहीतत्वान्नयतिर्द्विकर्मकः । तत्र प्रधानकर्मणि लुङ् । चिपिण- लोपौ ' २३२९ । चिणो लुक् । ६।४।१०४॥ इति तशव्दस्य लुक् । गुणकर्मणि तु पुरमिति द्वितीया । '५४० । गति- बुद्धि-।१।४।५२।' इत्यादिना प्रयोज्यकर्तरि द्वितीया न भवति । 'नी - वह्योः प्रतिषेधः' इति वचनात् । विद्वान्वेदार्थतत्त्ववित् । एवं च कृत्वा ऋतुषु क्रियावान्प्रशस्तक्रियः । प्रशंसायां मतुप् । विपक्त्रिमज्ञा- नगतिरिति विपाकेन निर्वृत्तम् । पचतेः क्त्रिः क्त्रेर्मप् । यत्पूर्वजन्मकृतमनिवर्त- नीयं कर्म तस्योग्रतपःप्रत्ययाद्विनोपदेशाज्ज्ञानात्प्रवृत्तिर्बुद्धावस्य जातेत्यर्थः । मनस्वी प्रशस्तमनाः । प्रशंसायाम् १९२८ अस्माया- मेधा ।५।२।१२१॥' इत्यादिना विनिः । मान्यो मानार्हः । '२८२२ । अर्हे कृत्यतृचश्च । ३।३।१६९।१ इति ण्यत् । धर्मादिमननान्मुनिः । 'मनेरुच्चोपधायाः' इति इन् । उपधाया उकारः । ऋष्यस्य शृङ्गमृष्यशृङ्गं तच्छृङ्गमिव शृङ्गं यस्य स ऋष्यशृङ्गः । 'सप्तम्युपमान -' इत्यादिनोत्तरपदलोपी समासः ॥ ११ - ऐहिष्ट तं कारयितुं कृता॒ऽऽत्मा ऋतुं नृपः पुत्र फलं मुनीन्द्रम् ॥ , ज्ञाना॒ऽऽशयस् तस्य ततो व्यतानीत् स कर्मठ: कर्म सुताऽनुबन्धम् ॥ ऐहिटेत्यादि-तं मुनीन्द्रं क्रतुं कारयितुं नृप ऐहिष्ट इंहितवान् । ईहतेरात्मनेपदिनो लुङि सेट्त्वादिटि च रूपम् । द्विकर्मकता तु '५४१ । हृ-कोरन्यतरस्याम् । १।४।५३।' इति । कृतात्मा वशीकृतात्मेति भावः । पुत्रफलं पुत्रः फलं कार्यं यस्य ऋतोः ॥ तत उत्तरकालम् । स मुनिः परचित्तज्ञत्वाज्ज्ञाताशयो १ – '२०६३ । क्रियावान् कर्मसूद्यतः ।" इति ना० अ० । 'भूमनिन्दाप्रशंसासु नित्ययोगेऽतिशायने । संवन्वेऽस्तिविवक्षायां भवन्ति मतुबादयः ॥' इति वै० भ० । .२ ६७५ । ईंह चेष्टायाम् ' इति धा० पा० । ३ - १०६३ । कर्मशूरस' तु कर्मठः । इति ना० अ० । भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः, ज्ञाताभिप्रायो राजाभिमतं कर्म कारयितुं तस्य नृपस्य कर्म व्यतानीव्याख्धवान् । तनोते: २२६८ । नेटि-।७।२।५।' इति हलन्तलक्षणायां प्रतिषिद्धायाम् '२२८४ । अतो हलादेः-१७।२।७१' इति विभापावृद्धिः । कर्मठः कर्मणि घटते १८३६। कर्मणि घटोSठच् ।५।२।३५।' यागऋिगानिष्पादक इत्यर्थः । सुतानुबन्धं सुतान- नुवनातीति कर्मण्यण् । 'सुतानुबन्धि' इति पाठान्तरम् । सुताननुबद्धुं शीलम- स्येति । १२९८८ सुप्यजातौ णिनिः-।३।२।७८१' सुपीत्यनुवर्तमाने सुप्ग्रहण- मुपसर्गनिवृत्त्यर्थमिति केवलस्योपसर्गस्य तिवृत्त्यर्थं दृष्टव्यम् । अन्यथा जाता- विति किं ब्राह्मणानामन्त्रायतेति न युज्यते । आङित्यस्योपसर्गत्वात् ॥ १२ - रक्षांसि वेदीं परितो निरास्थ- दंङ्गान्य॑याक्षीदभितः प्रधानम् ॥ शेषाण्यहौषीत् सुत-संपदे च, वरं वरेण्यो नृपतेरमागत् ॥ रक्षांसीत्यादि-वेदीं परितो यजलयेद्याः समन्तात् । विनायोपस्थितानि रक्षांसि । रक्ष्यते येभ्य इत्यसुन् । तानि रक्षोत्रैर्नत्रैर्निरास्यन्चिरस्तवान् । पर्यभि भ्यां सर्वोभयार्थे तसिल । 'अभितः परित:--' इत्यादिना द्वितीया ॥ अङ्गान्य- याक्षीदद्भितः प्रधानमिति । यद्देवतामयो यागः सा देवता तत्र प्रधानम् । पुत्र- फलव्वाद्विष्णुः प्रधानम् । तमिवा । तस्योभयतः पार्श्वयोर्यान्यङ्गानि चक्षुरादीनि देवतान्तराणि तान्ययाक्षीत् अग्नावाहुत्या पूजितवान् । कर्तुः क्रियाफलाभावा- तङ् न भवति । घत्वकत्वे ॥ शेपाण्यहौपीदिति स्वानं विष्णुमिवा शेषाणि प्रति- कृतानि पिष्टकमयानि सुतानां संपदर्थमनौ हुतवान् । जुहोतेः सिचि वृद्धाविटि च रूपम् । वरेण्यः श्रेष्ठः । वरं चामार्गोन्मार्गितवान् । हे देवा अग्निप्रभृतयः, नृपतेः सुता भूयासुरिति । १९८९। मार्ग अन्वेषणे' । 'आषाद्वा' इति यदा णिच् नास्ति तदा चङभावात्सिजेव भवति ॥ १३ - निष्ठां गते त्रिम-सभ्य-तोषे *विहित्रिमे कर्मणि राज-पत्यः ॥ प्राशु॒र् हुतो॒च्छिष्टमु॑दार-वंशयास् तिस्रः प्रसोतुं चतुरः सु-पुत्रान् ॥ निष्ठामित्यादि — निष्ठां समाप्तिं गते कर्मणि यागक्रियायां समाप्तायां राजपत्यो हुतोच्छिष्टं हुतावशेषं शिष्टचरुं प्राशुभक्षितवत्यः । अनोतेर्लिटि उसि १ - * अभितः परितः - समया- निकपा-हा प्रतियोगेऽपि' । २- १२४७ । निष्ठानिष्प. त्तिनाशाऽन्ताः। इति ना० अ० । ३ - ११६६ / डु-दा- ञ् दाने' । ४ - ११६७ ॥ हुधाञ् धारणपोषणयोः । दान इत्यप्येके ।" इति धा० पा० । तथा लक्ष्य-रूपे कथानके श्री राम-संभवो नाम प्रथमः सर्गः११ रूपम् । दत्रिमसभ्यतोषे दानेन निर्वृत्तो दत्रिमः सभ्यानां ब्राह्मणानां तोषो यत्र कर्मणि । विहित्रिसे विधानेन निर्वृत्ते कर्मणि दाजो धाञश्च '३२६६। द्वितः क्रिः ।३॥३॥८८॥ इतिौ विहिते प्रथमस्य '३०७६ । दोदोः ।७।४।४६॥ इति ददादेशः । द्वितीयस्य ' ३०७७ । दधातेर्हिः ।७।४।१२॥ इति हिरादेशः । मप् । सभायां साधव इति सभ्याः । १६५७ । सभाया यः ।४।४।१०५॥ उदारवंश्या महावंशोद्भवाः । शेषे यत् । कौसल्या कैकेयी च क्षत्रिये । सुमित्रा तु वर्णसंकरजा । किमर्थं प्राशुः । प्रसोतुं सुपुत्रान्विनीतान्प्रसवितुम् । तत्र कौसल्या कैकेयी चैकैकं पिण्डं प्राशितवत्यौ । ताभ्यां परिचारिकेति पिण्डभागद्वयं दत्तं सुमित्रा प्राशितवती । ततश्च पुत्रद्वयं जनयिष्यति । एवंचाभिसंधाय चतुर इत्युक्तं न तु त्रीनिति । '११०४। पू- प्राणिगर्भविमोचने ।' । '२२७९ । स्वरति- १७।२।४४ ।' इत्यादिना विभाषिते ॥ > १४ - कौसल्ययाऽसावि सुखेन रामः प्राकू, केकयी तो भरतस् ततोऽभूत् ॥ प्रासोष्ट शत्रु प्रमु॑दार- चेष्ट- मैका सुमित्रा सह लक्ष्मणेन, ॥ कौसल्ययेत्यादि – कोसलस्य राज्ञोऽपत्यमिति '११८९॥ वृद्धेत्कोसला- जाद (यङ् ।४।१।१७११११५२८। यङश्चाप् ।४।१।७४ । कौसल्यया प्राकू प्रथ- मम् असावि रामो जन्यते स्म । पूङः कर्मणि लुङि चिणि रूपम् । सुखेनेति । प्रकृत्यादित्वात्तृतीया । महतां जन्मनि न काचिदपि पीडास्ति ॥ तदनन्तरं केकयीतो भरतोऽभूत् । केकयानाचष्टेति णिच् । सा हीदृशास्तादृशाः केकया इति कथयति । तदन्तात् 'अच इः' इति इकारप्रत्यय औणादिकः । णिलोपः । 'कृदिकारादक्तिनः' इति ङीष् । '२११२ । अपादाने चाहीयरुहोः १५।४।४५।' इति तसिः । यदा च केकयस्यापत्यम् '११८६। जनपदशब्दात्क्ष- त्रियादञ् ।४।१।१८६।' इत्यञ् । '११४४ । केकय मित्रयु प्रलयानां यादेरियः ।७।३।२।' इतीयादेशः । ८४७० । टिड्ढाणञ्- । ४।१।१५॥ इति ङीपू । तदा कैके- यीति द्वितीयं रूपम् । सुमित्रा शत्रुघ्नमुदारचेष्टम् । उदारा चेष्टा यस्येति । आसोष्ट प्रसूतवती । कर्तरि लुङ् । ङित्त्वात्तङ् । जातमात्रस्य हि तस्य किल महा- सच्वतया तादृश्येव चेष्टाऽभूदिति श्रूयते । एकेति । एकैवेति गम्यमानत्वादेव- शब्दो न प्रयुक्तः । सह लक्ष्मणेन लक्ष्मणेन सह ॥ १५ - आचद् द्वि-जातीन् परमाऽर्थ - विन्दा- नुदेजयान् भूत-गणानू न्यषेधीत् ॥ १२ भट्टि काव्ये -- प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः, विद्वानु॑पानेष्ट च तान् स्व-काले यतिरं॑ वशिष्ठो यमनां वरिष्ठः ॥ · आर्चीदित्यादि – तेषु जातेपु द्विजातीन्दे जाती येषामिति तान्त्राह्मणक्षत्रिय- वैश्यान्परमार्थविन्द्वान् । विन्दन्तीति विन्दाः । १५२६ । विद्ऌ लाभे' इत्य- स्मात् '२९००१ अनुपसर्गात्-१३।१।१३८ ।' इत्यादिना शः । मुचादित्वान्नुम् । पर- मार्थस्य विन्दाल्लाभिन इति कर्मणि षष्ठी । तस्याः 'कृद्योगा च पष्टी समस्यत इति वक्तव्यम्' इति समासः । तानाचत्स्रगादिभिः पूजितवान् । '२१३। अर्च पूजायाम्' इत्यस्माल्लुङ तिप् इट् सिचो लोपः ॥ भूतगणान्राक्षसादि- गणान् । उढ़ेजयानुत्कम्पान् । तस्मिन्नेव सूत्र उत्पूर्व एजिर्ण्यन्तो निर्दिष्टः । तस्मादुदेजयतीति शः । तान्यपेधीदुत्सादितवान् । पिधेः '२२६८ । नेटि ७१२ ।४।' इति हलन्तलक्षणायाः प्रतिषेधः ॥ विद्वान्पौरोहित्यकर्मणि कुशलः । उपानेष्ट च तान्रामादीन् । तेषामुपनयनाढिक्रियां चकार । ' २७०९ । संमानन -।१।३।३६।' इत्यादिनाचार्यकरणे तङ् । स्त्रकाले इति 'गर्भादेकादशे वर्षे जातन्य गर्नैकादशे' इत्यादिना वचनेन उपनयनकाल उक्तः । यमनियमेषु यतत इति यतिः । 'सर्वधातुभ्य इन्' इति इन् । 'अहिंसा सत्यमस्तेयं ब्रह्मचर्य मक- ल्मपम् । इति पञ्च यमा येषां सन्तीति यमिनः स्मृताः । तेषां वरिष्ठ उत्त- मः । '२०१६ । प्रिय-स्थिर । ६।४।१५७।' इत्यादिनोरुशब्दस्य वरादेशो महत्प- र्यायस्य । वशिष्टः ॥ १६ - वेदोऽङ्गवांस्तैरखिलोऽध्यगाय, शस्त्रायुपायंसत जिंवराणि ॥ ते भिन्न-वृत्तीन्यपि मानसानि समं जनानां गुणिनोऽध्यवात्सुः ॥ , वेद इत्यादि — 'शिक्षा कल्पो व्याकरणं छन्दोविवृतिर्निरुक्तं ज्योतिषं चेति षडङ्गानि शास्त्राणि तानि विद्यन्ते यस्य वेदस्येत्यङ्गवान् । तैरुपनीतै रामादिभिः । अखिलो निःशेषो वेदोऽध्यगायि । अधीत इत्यर्थः । इङोऽधिपूर्वात्कर्मणि लुङि '२४६० । विभाषा लुइ-लुङोः ।२।४।१०।' इति गाङादेशः । चिण युक् तलुक् । शस्त्राणि धनुरादीनि जित्वराणि जयशीलानि । '३१५३ । इण्-नश्-जि-1३।२। १–'७५१। ये निर्जितेन्द्रिय-ग्रामा यतिनो यतयश् च ॥ इति ना० अ० । २ - वश इन्द्रियनिग्रहो येषां तेषु प्राधान्येन तिष्ठति यः स वशिष्ठः । ३ – 'यतिनां वरिष्ठ ' इत्यपि कचित् पाठः । ४ – '३१४३ । इण् - नशू-जि-सर्ति भ्य: कंप् (वर) ।३।२।१६३ । इत्वरः इत्वरी नश्वरः जित्वरः सत्वरः । इति वै० म० । ८४२ । 'जेता जिष्णुश च जिव्वरः ॥ इति ना० अ० । तथा लक्ष्य-रूपे कथानके श्री राम-संभवो नाम प्रथमः सर्गः - १३ १६३।' इत्यादिना क्वरप् । तैरुपायंसत स्वीकृतानि । उपपूर्वो यमिः स्वीकरणे वर्तते । तस्मात्कर्मणि लुङ् । '२२५८ । आत्मनेपदेषु ॥७॥१॥५॥' इत्यादिना अदादेशः । '२६९७ । हनः सिच् ॥२।१४॥ इति ज्ञापकादनुनासिकलोपाभावः । ततस्ते रामादयो गुणिनो मानसानि मनांसि । प्रज्ञादित्वात्स्वार्थे णः । भिन्न- वृत्तीनि नानाविधप्रवृत्तीनि विषयेषु तानि मानसान्यपि जनानां समं साधा- रणम् । क्रियाविशेषणम् । अध्यवात्सुरध्युषितवन्तः । अधिपूर्वाद्वसेः सिचि (२२६७ । वद-ब्रज ।७।२।३।' इत्यादिना वृद्धिः । '२३४२ । सः सि-१७।४।४९। ' इति तत्वम् । '२२२६ । सिजभ्यस्त । ३।४।१०९ ।' इति जुस् । '५४४ ॥ उपानु- १।४।४८।' इत्यादिनाऽधिकरणस्य कर्मसंज्ञा ॥ १७ - ततो भ्यगाद् गाधि - सुतः क्षितीन्द्र रक्षोभिर॑भ्याहत-कर्म-वृत्तिः ॥ रामं वरीतुं परिरक्षणा-थे, राजाऽऽजि॑िहत् तं मधुपर्क-पाणिः ॥ तत इत्यादि - तेषु रामादिषु तथाभूतेषु । गाधिसुतो विश्वामित्रः । क्षितीन्द् राजानमभ्यगादभिगतवान् । इणो गादेशः । '२२२३ । गाति-स्था । २४७७१ इत्यादिना सिचो लुक् । रक्षोभिर्निशाचरैरभ्याहताभिभूता यागादेः कर्मणो वृत्तिः प्र॒वृत्तिर्यस्येति । रामं वरीतुं प्रार्थयितुम् । ८२३९१॥ वृतो वा ।७।२।३८।' इति इटो दीर्घत्वम् । परिरक्षणार्थं । विहन्यमानस्य कर्मण इत्यर्थः । तं गाधि- सुतम् । आजिहत् पूजितवान् । '१८६४ । अर्ह पूजायाम्' इति स्वार्थिक- ण्यन्तश्चौरादिको गृह्यते न भौवादिकः । तस्माद्धेतुमण्णिचात्र न भवितव्यम् । '२३१२ । णि-श्रि - ।३।१।४८ । इत्यादिना चङ् । णिलोपः '२२४३॥ द्विर्वच नेऽचि ११११५९ ।' इति स्थानिवद्भावात् । '२१७६ । अजादेर्द्वितीयस्य ॥१।२३॥ इति हिशब्दो विरुच्यते । रेफस्य न । '२४४६ । नन्द्राः ।६।१।३॥ इति प्रति- षेधः । चुत्वम् । आट् । वृद्धिः । मधुपर्कपाणिः । दधिघृतमधून्येकीकृतानि मधुपर्क इत्युच्यते । तस्मिन् पात्रे स्थितः पाणिर्यस्येति विग्रहः । 'सप्तम्यु- पमाने -' इत्यादिना उत्तरपदलोपी समासः । पात्रादुद्धृत्य मधुपर्केण पूजि - ववानित्यर्थः ॥ १८ - ऐषी: पुनर्जन्म - जयाय यत् त्वं, रूपाऽऽदि-बोधान् न्यवृतच् च यत् ते, ॥ तत्त्वान्य॑बुद्धाः प्रतनूनि येन, ध्यानं नृपस् तच्छि॑िवमित्यवादीत् ॥ . १ – ७४३॥ अथ गाधेयो विश्वामित्रश् च कौशिकः ॥' इति ना० अ० । २-१४७१ श्वःश्रेयर्स शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ इति मा अ भ० का० २ भट्टि - काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः, 'ऐपीरित्यादि मुकतत्वावबोधस्वस्या ध्यानं प्रयोजनं तन्त्र पुनर्जन्म भूयोजन्म तस्य जयाय यच्चानं त्वमैषीः एपितवानसि । इपेर्लुङ् । मध्यमैकवचने '२२६६। इट ईटि ।८।२।२८।' इति सिचो लोपे रूपम् ॥ रूपादिबोधात्र्यवृतञ्च यत्ते–रूपादिषु शब्दस्पर्शरूपसगन्धेषु चक्षुरादिद्वारेण यो बोधोऽध्यवसायलक्षणा बुद्धिः तस्माच्च यद्यानं न्यवृतत् निवृत्तम् । वृतेर्छुतादित्वात् '२३४५॥ युद्भ्यो लुहि ।१।३।११।' इति तिप् । च्लेरङ् ॥ तत्त्वानि पञ्चविंशतिः पुरुषप्रधानमहदहङ्कारादीनि । प्रतनृति सूक्ष्माणि येन ध्यानेनाबुद्धाः ज्ञातवानसि । बुधेरनुदात्तेतो लुङ् । थासः सिच् । '२३०० । लिसिचावात्मनेपदेषु ११/२।११॥' इति सिच: किव्वागुणाभावः । सिलोपधत्वजश्त्वादि ॥ तद्ध्यानं शिवं शोभनं कञ्चिदिति नृपोऽवादीत् । न तस्य व्याघात इति । '२२६७ । वद- ब्रज – ।७।२।३।' इत्यादिना वृद्धिः । १९७४ । ध्यै चिन्तायाम्' भावे ल्युट् । ध्यानम् ॥ १४ १९ - आख्यन् मुनिस् तस्य शिवं समाधेर्, विघ्नन्ति रक्षांसि बने ऋतूंथ ॥ , तानि द्विपद् - वीर्य-निराकरिष्णुस् तृणेढु रामः सह लक्ष्मणेन. ॥ आख्यदित्यादि — पृष्टो मुनिस्तस्य समाधेर्ध्यानस्य शिवमनुपद्रवमाख्यत् कथितवान्। '२४३६ । चक्षिङः ख्याज् ।२४।४॥१४३८॥ अस्यति- ३।१।५२।' इत्यादिना चलेरङ् । आतो लोपः ॥ किन्त्वयं दोषः - विघ्नन्ति रक्षांसि वने ऋतून् । '२६६३ । गम-हन ।६।४।१८।' इत्यादिना उपधालोपः । '३५८ । हो हन्तेः- ।७।३।५४।' इति कुत्वम् ॥ किं क्रियतामिति चेदाह- तानि रक्षांसि । द्विषतां वीर्यं सामर्थ्य । वीरेः स्वार्थिकण्यन्तात् '२८४२ । अचो यत् ।३।१।९७।' तस्य निराकरिष्णुः निराकरणशीलः । १३११६ । अलंकृञ् ।३।२।१३६।' इत्या- दिना इष्णुच् । तृणेढु हिनस्तु । तृहेर्विधौ लोट् । १२२९६ । एरुः ॥३।४।८६ । रुधादित्वात् श्रम् । '२५४५ । तृणह इम् ।७।३।९२१' । '३२४ । हो ढः । ८।२।३१। ष्टुत्वम्। '२३३५। ढो दे ॥३॥१३॥ इति ढलोपः । सह लक्ष्मणेन लक्ष्म- णेन सह ॥ २० - स शुश्रुवांस्तद् वचनं मुमोह राजाऽसहिष्णुः सुत - विप्रयोगम् ॥ १–१४७॥ श्वःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम् ॥ इति ना० अ० । तथा लक्ष्य रूपे कथानके श्री राम संभवो नाम प्रथमः सर्गः अहंयुनाऽथ क्षिति-पः शुभंयु- रूचे वचस् तापस- कुञ्जरेण ॥ १५ स इत्यादि - स राजा तस्य मुनेस्तद्वचनं शुश्रुवान् श्रुतवान् सन् सुतविप्र- योगमसहिष्णुरसहनशीलो मुमोह मोहमुपगतः । झुणोतेः '३०९७ । भाषायां सद-वस-श्रुवः ।३।२।१०८ ।' इत्यनेन वसुः । सुतेन विप्रयोगमिति '६९४ । कर्तृ- करणे कृता बहुलम् ।२।१॥३२॥ इति समासः । '६२७ । न लोकाव्यय-निष्ठा- ।२।३।६९॥ इति षष्ठ्याः प्रतिषेधः ॥ अथानन्तरम् । अहंयुना अहंकारवता । '१९४६ । अहं- शुभमोर्युस् । ५।२।१४०।' तापसकुञ्जरेण । १९०९ । तपःसहस्रा- भ्यां विनीनी । ५।२।१०२।' इत्यनुवर्तमाने 'अण् च ' इति मत्वर्थेऽण् । तापसश्च स कुअरश्चेति । '७४१ । वृन्दारक - ।२।१।६२।' इत्यादिना समासः । तेन क्षितिपो राजा । शुभंयुः कल्याणवान् । पूर्ववद्युस् । वचो वक्ष्यमाणमूचे उक्तः । कर्मणि लिट् । सम्प्रसारणम् । अहंयुनाथः इति विसर्गान्तं पाठान्तरम् । तत्र अहं- यूनां क्षत्रियाणां नाथ इति योज्यम् ॥ २१ - मया त्वमा॑प्थाः शरणं भयेषु, वयं याstatमह धर्म-वृद्ध्यै ॥ क्षात्रं द्विज-त्वं च परस्पराऽर्थं, शङ्कां कृथा मा, प्रहिणु-स्व-सूनुम् ॥ मयेत्यादि - भयेपु त्वं शरणम् आप्याः प्राप्तोऽसि मया । आपेः कर्मणि लुङ् । सिजुलोपः ॥ त्वयापि धर्मवृद्ध्यै धर्मोपचयाय वयमापस्महि प्राप्ताः । पूर्ववल्लुङादि । उत्तमबहुवचनम् । सिचो लोपाभावः । मकारस्याझलत्वात् ॥ तदित्थं क्षात्रं द्विजत्वं च धर्मवृद्ध्यै परस्परार्थं अन्योन्यप्रयोजनम् । 'कर्मव्यति- हारे सर्वनाम्नो द्वे भवतः ' । 'समासवच्च बहुलम्' इति यदा न समासवत् तदायम् ॥ तस्मान्मा शङ्कां कृथाः माकार्षीः । कथमस्मिन् संकटे पुत्रं नियोज- यामीति । '२२१९ । माङि लुङ् ।३।३।१७५ । अडभावः । '२३६८। उश्च ।१।२।१२॥ इति कित्त्वाद्गुणाभावः । '२३६९ । स्वादङ्गात् ।८।२।२७।' इति सिचो लोपः ॥ प्रहिणु प्रेषय । स्वं पुत्रम् । हिनोतेः प्रार्थनायां लोट् । श्रुः । अपित्त्वात् ङित्त्वम् । गुणाभावः । '२३३४ । उतश्च प्रत्ययात् ।६।४।१०६।' इति हेर्लुक् । '२५३० । हिनु मीना ।८।४।१५।' इति णत्वम् ॥ १– '१०९५॥ अहङ्कारवान॑ंयु:, शुभंयु॒स्तु शुभाऽन्वितः ।' २ – 'स्युरेत्तरपदे व्याघ्र पुङ्गव-र्षभ-कुञ्जराः ॥ ११०५ । सिह-शार्दूल-नागाऽऽद्याः पुंसि श्रेष्ठाऽर्थ-गोचराः । इत्युभयत्र ना० अ० । भट्टि - काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमो वर्गः, २२ घानिष्यते तेन महान् विपक्षः, स्थायिष्यते येन रणे पुरस्तात् ॥ मा मां महाऽऽत्मन् परिभूर-योग्ये न मद्-विधो न्यस्यति भारमंत्र्यम् ॥ घानीत्यादि — अनागतमर्थं ज्ञानेन समीक्ष्याह- महान्विपक्षो रावण: त्रैलो- क्यविजयित्वात् । सोऽपि रामेण घानिष्यते किमुतेतरे राक्षसाः । हन्तेः कर्मणि लृट् । '१७५७ । स्य- सिच्- ।६॥४॥६२ । इत्यादिना चिण्वदि उपधावृद्धिः । '३५८। हो हन्तेः- ।७।३।५४॥ इति कुत्वम् ॥ पुरस्तादग्रतो यद्रणं युद्धं भावि परशुरामेण सार्धमिति भावः । तत्र येन स्थायिष्यते तेन धानिष्यत इति योज्यम् । अत्र तिष्ठतेर्भावे लृट् । चिण्वदिया । '२७६१ । आतो युक् ।७।३।३३॥ ॥ हे महात्मन् महासत्व, मा मां परिभूर्मावज्ञासीः । किमेवं वदसीति । परिपूर्वो भवतिनिराकरणे वर्तते ॥ महिध इति विधानं विधा प्रकार: '३२८३१ आतश्चोप- सगै ।३।३।१०६।' इत्यङ् । विधा भेदः सादृश्यं च । इह सादृत्र्यं गृह्यते । मया विधा साहइयं यस्येति महिधः । १९३७३ । प्रत्ययोत्तरपदयोश्च ॥२।९८।' इति मदादेशः । मद्विधो मत्सदृशोऽन्यो न भारमग्र्यम् । '३३६२। अग्राद्यत् ।४।४।११६॥ अयोग्ये असमर्थ न्यस्यति निक्षिपति । किमहं येनानागतं समीक्षितमिति भावः । योगाय प्रभवति योग्यः । ११७६६। योगाद्यत् १५ । १ । १०२ ॥ ॥ २३ - क्रुध्यन् कुलं धक्ष्यति विप्र-वह्निर, यास्यन् सुतस् तप्स्यति मां स-मन्युम् ॥ इत्थं नृपः पूर्वम॑वालुलोचे, ततोऽनुजज्ञे गमनं सुतस्य ॥ क्रुध्यन्नित्यादि — यद्यहं भूतरक्षणेऽधिकृतोऽस्य वचनं न कुर्यां तदा क्रुध्यन्सन् । दिवादित्वात् श्यन् । विप्रो वह्निरित्र । '७३५॥ उपमितम्- ।२।१।५६ ।' इति समासः । धक्ष्यति कुलं भस्मसारकरिष्यति । दहेद ३२५ । दादेः१८।२।३२।' इति घः । भष्भावः । चर्खम् । गकारस्य ककारः । '२११॥ इष्कोः ।८।३।५७।' इति षत्वम् ॥ यास्यन्गमिष्यन्सुतो मां समन्युं सशोकं तप्स्यति सन्तापयिष्यति । तपेर्लट् ॥ इत्थमेवंप्रकारं नृपः पूर्वमादाववालुलोचेऽवलोकितवान् । अवाङ्पूर्वाल्लोचेर्लिंद ॥ तत उत्तरकालं सुतस्य गमनमनुजज्ञे । अनुज्ञातं नृपेणेति विभक्तिविपरिणामेन तेनेति योज्यम् । कर्मणि लिट् । '१६०९ । ज्ञा अवबोधने' इति परस्मैपवित्वात् । नचानुपूर्वादस्मादामनेपदं विहितम् ॥ तथा लक्ष्य - रूपे कथानके श्री राम-संभवो नाम प्रथमः सर्गः २४ - आशीर्भिरभ्यर्च्य मुनिः क्षितीन्द्रं प्रीतः प्रतस्थे पुनराश्रमाय ॥ तं पृष्ठतः प्रष्ठमियाय नम्रो हिंस्रेषु-दीसाऽऽत - धनुः कुमारः ॥ M १७ आशीर्भिरित्यादि — रामगमनस्यानुज्ञातत्वात् प्रीतो मुनिः क्षितीन्द्रं राजानमाशीर्भिरभ्यर्च्य पूजयित्वा । आङ: शासेः विप्युपसंख्यानात् उपधाया इत्वम् । प्रतस्थे पुनराश्रमाय आश्रमं पुनः प्रस्थितवान् । तिष्ठते: '२६८९॥ समय - ।१।३।२२॥' इत्यादिना लिटि तङ् ॥ प्रष्टम् अग्रयायिनं तं । ८२९१७ । प्रष्टोऽग्रगामिनि ।८।३।९२ ।' इति पत्वम् । पृष्ठतः पश्चात् इयाय कुमारः । इणो गलि वृद्धिरायादेशः । '२२४३ । द्विर्वचनेऽचि ।१।१॥५९॥ इति स्थानिवद्भावा- द्विवचनमिकारस्य । '२२९० । अभ्यासस्याऽसवर्णे ।६।४।७८।' इतीयङ् । नम्रोऽनुकूलः । हिंसनशीला इषवः शराः हिंस्रेषवः । आप्तमचिसंवादि यद्धनुस्तत् । हिंस्रेषु दीप्तमाप्तं धनुर्यस्य कुमारस्येति विग्रहः । अत्र '८७० । धनु- षश्च ।५।४।१३२।' इत्यनङ् न भवति 'समासान्तविधिरनित्यः' इति । दीप्रा- धनुरिति पाठान्तरम् । दीप्रमस्त्रं धृष्टतया यस्य धनुषस्तही प्रास्त्रं धनुर्यसेति सः । कस्मिन्विषये । हिंस्रेषु नान्येषु । नम्रादयो '३१४७ । नमिकम्पि । ३।२।१६७७ इत्यादिना रप्रत्ययान्ताः ॥ २५ - प्रयास्यतः पुण्य - वैनाय जिंष्णो- रामस्य रोचिष्णु-मुखस्य धृष्णुः ॥ त्रै मातुरः कृत्स्त्र - जितता॒ऽस्त्र-शस्त्रः सध्य रतः श्रेयसि लक्ष्मणोऽभूत् ॥ · प्रयास्यत इत्यादि — प्रयास्यतो गमिष्यतो रामस्य लक्ष्मणः सध्यङ् अभूत् सहायीभूतः । 'सहाञ्चति' इति क्विन् अनुषङ्गलोपः '३६१ । उगिदचाम्-१७ । १७०। इति नुम् । हल्ड्यादि-संयोगान्तलोपौ ' ३७७ । किन्प्रत्ययस्य ।८।२।६२ । इति कुत्वं नकारस्य डकारः । '४२२ । सहस्य सधिः ॥६।३।१५॥ इति सध्यादेशः । पुण्यवनाय पुण्यहेतुत्वात्पुण्यं वनम् । गत्यर्थात् कर्मणि चतुर्थी । जिष्णोर्जयशीलस्य '३११९। ग्ला-जि-स्थश्च -१३।२।१३९।' इति सुः । रोचिष्णु रोचन१-०८३७। पुरोगाऽग्रेसर-प्रष्ठाऽग्रतः-सर-पुरस्-सरा: ॥ इति ना० अ० । २-'५८५१ गत्यर्थकर्मणि द्वितीया-चतुर्थी चेष्टटा॒याम॑नध्वनि ।२।३२।१२॥ अध्वभिन्न गत्यर्थानां कर्मण्येते स्तश्चेष्टायाम् । ग्रामं ग्रामान वा गच्छति ।" इति वै० भ० । ३-८४२ । जेता जिष्णुस् च जित्वरः ।' ४ – ६६५ । विभ्राडू भ्राजिष्णु-रोचिष्णू,' । ५– '१०७०॥ धृष्टे धृष्ण ( धृष्णुर) वियातश्च', । ६ – १०७९ । यः सहाऽञ्चति सध्यङ्ग् सः इति सर्वत्र ना० अ० । १८ भट्टि-काव्ये – प्रथमे प्रकीर्ण काण्डे लक्षण रूपे प्रथमो वर्गः, शीलं मुखं यस्य रामस्य पितुराज्या तुष्टत्वात् । '३११६ । अलंकृञ् –।३।२।१३६॥ इत्यादिना इष्णुच् । कृष्णुः शत्रुविध्वंसने प्रगल्भः । ' ३१२० । प्रसि-गृधि --- १३१४।११०।' इत्यादिना कुः । त्रैमातुरः तिसृणां मातृणामपत्याभेति तद्वितार्थ- विषये समासः । पश्चात् ११३८॥ मानुसङ्ख्या - १४१११११५।' इत्यादिना अण् उत्यं च '१०८०॥ द्विगोर्तुगनपत्ये ।४।११८८।' इति लुक् न भवति । सहि पिण्डद्वयप्राशनात्ताभ्यां च जनितः अस्त्रं च शस्त्रं चेति द्वन्द्वः । कृत्स्त्रं समयं जितमधिगतमस्त्रशस्त्रं येनेति विग्रहः, रतः श्रेयसि कल्याणे । २०१० । प्रकृत्यैकाच् ।६।४।१६३।' । '२००९ । प्रशस्यस्य श्रः ।५।३।६० । लक्ष्मीरियाणा- दिकः । लक्षैर्मुस् ईप्रत्ययश्च । सा यस्य विद्यत इति लक्ष्मणः, लोमादिषु 'लक्ष्म्या अच्च' इति न प्रत्ययः अखं च ॥ २६ - इषु मति रघु सिंह दन्दशकाञ् जिघांसौ धनुर॑रिभिरं- सह्यं मुष्टि-पीडं दधाने ॥ ब्रजति, पुर - तरुण्यो बद्ध-चित्राङ्गुलित्रे कथर्मपि गुरु-शोकान् मा रुदन् माङ्गलिक्यैः ॥ इपुमतीत्यादि - रघुसिंहे रामे रघुपु रघुवंशभवेषु सिंह इव शौर्यादियोगात् । व्रजति सति । इषुमति सनिषङ्गे । प्रशंसायां मनुप् । तदुक्तं कौमुद्यां 'भूम-निन्दा - प्रशंसासु नित्ययोगेऽतिशायने । संसर्गेऽस्तिविवक्षायां भवन्ति मतुवादयः ॥' दन्दशूकान् हिंस्रान् । शे: '२६३५ । लुप-सद - ।३।१।२४।' इत्या दिना यङ् । 'जप-जभ-' इत्यादिना अभ्यासस्य नुकू । तदन्तात् '३१४६॥ यज- जप-१३।२।१६६।' इत्यादिना ऊकः । '२३०८। अतो लोपः ।६।४।४८।' । ' २६३१॥ यस्य हलः ।६।४।४।१९। जिघांसो हन्तुमिच्छौ । '२६१४ । अज्झन ।६।४।१६।' इति दीर्घः । '२४३० । अभ्यासाञ्च ।७।३।५५।' इति कृत्वम् '३१४८। सनाशंस-।३।२।१६८।' इति उः । '६२७ । न लोक - ।२।३।६९ ॥ इति पष्ठीप्रतिषे धात् द्वितीयैव । धनुर्दधाने बिभ्राणे । अरिभिरसह्यं सोढुमशक्यम् । २८४७॥ शकि-सहोश्च ।३।१।९९। इति यत् । मुष्टिपीडं मुष्टिना पीडयित्वा । मुष्टिशब्दे तृतीयान्ते उपपदे '३३७० । सप्तम्यां चोपपीड । ३।४।४९॥ इति णमुलू । तत्र चकारेण तृतीयानुकर्षणात् । बद्धं चित्रमङ्गुलित्रं येन अङ्गुलिं त्रायत इति कः । पुरे तरुण्यः पुरतरुण्यः । 'नञ्नजीककुख्युंस्तरुणतलुनानामुपसङ्ख्यानम्' इति ङीप् । यदि तद्वचोऽर्थवत् । नो चेनौरादिपाठात् ङीप् । रामो गत इति गुरुः शोको यासां ताः । कथमपि मा रुदन् न रुदितवत्यः । रुदेः '२२६९ । इरितो वा ।३।१।५७।' इति च्लेरङ् । यतो माङ्गलिक्यः मङ्गलप्रयोजनाः । । १–पद्येऽस्मिन्वृत्तं मालिनी। तलक्षणम् – 'न-न-मच-च-युतेयं. मालिनी भोगि (८) लोकै: (७) । इति वृत्तरत्नाकरेऽतिशकर्णी जातौ ( १५ अक्ष०) भट्टकेदारः । तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- तदस्य १७७२ । प्रयोजनम् १५११११०९।' इति ठञ् । '४७० । ढिड्डाणञ्- ।४।१।१५।' इत्यादिना ङीप् ॥ २७ - अथ जगदुरनीचै— राशिषस् तस्य विप्रास, तुमुल कल- निनादं तूर्यमांजघ्नुर॑न्ये, ॥ अभिमत-फल-शंसी चार पुस्फोर वाहुस्, तरुषु चुकुवुरु॑च्चैः पक्षिणश् चोऽनुकूलाः ॥ अथेत्यादि- - तस्य रामस्य व्रजतो विप्रा अनीचैर्महता ध्वनिनाशिष इष्टव- चगाने जगदुर्गदितवन्तः । अन्ये वादकास्तूर्य कांस्यतालपटहादिसमूहमाजघ्नु - स्ताडितवन्तः । '२६९५ । आङो यम-हनः ॥।३।२८।' इत्यात्मनेपदं न भवति । अकादत्यनुवर्तते । तुमुलो महान्कलो मधुरो निनादो ध्वनिर्यस्येति । अभिमतमिष्टं फलं शंसितुं शीलं यस बाहोः स चारु पुस्फोर सुतरां स्फुरित- वानू । अत्र दक्षिणो बाहुः सामर्थ्याद्गम्यते स्वाङ्गत्वात् । अनेन सीताप्राप्ति- बीजमुपन्यस्तम् । स्फुरतैरभ्यासस्य २२५९। शर्पूर्वाः खयः ।७।४।६११' इति खयः शेषः। चर्त्वम् । पक्षिणश्च तरुपु स्थिता अनुकूलाः सन्त उच्चैः सुष्टु चुकुवुः कूजितवन्तः । '१११५॥ कु शब्दे इत्यस्य लिट: फिवाढुवङादेशः ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे प्रथमः परिच्छेदः (वर्गः ), तथा लक्ष्य रूपे कथानके श्री राम-संभवो नाम प्रथमः सर्गः पर्यवसितः । 4 द्वितीयः सर्गःइदानीं विजिगीषूणां कण्टकान् समुद्धर्तु शरत्काले समुद्योग इति तमेव वर्णयन्नाह - १९ २८ - वनस्पतीनां सरसां नदीनां तेजस्विनां कान्तिभृतां दिशां च ॥ निर्याय तस्याः स पुरः समन्ता- च्छ्रियं दधानां शरदं ददर्श ॥ १ ॥ १ - पद्येऽस्मिन्वृत्तं पूर्वो ( २६ ) क्तम् । २ – २०७१ । पारस्कर प्रभृतीनि च संज्ञायाम् २।१।१५७॥ पारस्करः, तस्करः, बृहस्पतिः, वनस्पतिः ॥ इति वै० भ० । '३५४ । वानस्पत्यः इलैः पुष्पाव, तैर-पुष्पाद् वनस्पतिः ॥ इति ना० अ० । २० भट्टि-काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः, वनस्पतीनासित्यादि –स रामः । तस्याः पुरः अयोध्यायाः । निर्वाग निर्गय । समन्तात् सर्वतः शरदं ददर्श दृष्टवान् । कालस्याप्रत्यक्षत्वात् कार्याणां दर्शनात्तदर्शन मिति मन्यते । श्रियं दधानां धारयन्तीम् । केपां वनस्पतीनाम् । पारस्कराडिदर्शनात् सुटू । अत्र लोकप्रतीत्या वृक्षा द्रष्टव्याः । न तु पारि- भाषिकाः । तथा सरसां तडागानां नदीनां गादीनां तेजस्विनां चन्द्रतारा- दीनां कान्ति नैर्मल्यं बिभ्रतां दिशां च । तदा हि निर्मला दिशो भवन्ति । वन- स्पत्यादीनां श्रियं दधानां शरदं ददर्श ॥ तां रामव्यापारं विना सामान्येन वर्णयन्नाह २९ – तरङ्ग-सङ्गाच् चपलैः पलाशैर् ज्वाला - श्रियं साऽतिशयां दधन्ति ॥ स- धूम-दीप्ताऽग्नि रुचीनि रेजुस् ताम्रा॑नो॒त्पलान्या॑कुल - षट्-पदानि ॥ २ ॥ तरङ्गेत्यादि – तरङ्गसङ्गात् सलिलोमिंसम्पर्काञ्चपलैः चञ्चले : पलाशैः पत्रैः ज्वालाश्रियं सातिशयां दधन्ति । सधूसदीताग्निश्चीनि सधूमदीप्ताप्नेरिव रुचि- येषां रक्तोत्पलानां तानि रेजुः दीप्यन्ते स्म । राजेर्लिटि '२३५४ । फणां च सप्तानाम् ।६।४।१२५।' इति एत्वाभ्यासलोपौ । आकुलाः इतस्ततो यायिनः पटूपदा येध्विति । चलितपत्राणामग्निशिखातुल्यत्वात् पट्पदानां च धूमतुल्यत्वात् सधूमदीप्ताग्निरुचीनीत्युक्तम् ॥ ३० - विम्बाऽऽगतैस् तीर-वनैः समृद्धिं निजां विलोक्या॑ऽपहृतां पयोभिः ॥ कूलानि सऽऽमर्षतये॑व तेनुः सरोज लक्ष्मी स्थल- पद्म-हासैः ॥ ३ ॥ ·K विम्बेत्यादि – बिम्बं प्रतिबिम्बं तेनागतैर्निपतितैरिति । तृतीयेति योग - भागात् समासः । तीरवनैः कुसुमितैरित्यर्थात् । तैः करणभूतैः । पयोभिः कर्तृभिः समृद्धिं विभूतिं निजामात्मीयां अपहृतां विलोक्य कूलानि कर्तृभू तानि सामर्पतयेव साक्षमतयेव सरोजलक्ष्मीं कमलशोभां पयः सम्बन्धिन तेनुः विस्तारितवन्ति । '२२६० । अत एकहलमध्ये । ६॥४॥२०।' इत्यादिना एखा- भ्यासलोपौ । कूले सरोजासम्भव इति चेदाह-स्थलपद्महासेरिति स्थल- कमलविकासरित्यर्थः ॥ ३१-निशा-तुषारैर् नर्व॑ना॒ऽम्बु-कल्पैः पत्रा - ऽन्त - पर्यागलद्च्छ-बिन्दुः ॥ तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- उपारुरोदेव नदत् - पंतङ्गः कुमुद्वतीं तीर तरुर दिनाऽऽदौ ॥ ४ ॥ निशेत्यादि-निशायां तुपारः हिमैः । नयनाम्बुकल्पैः अश्रुतुल्यैः । नयनानुकारिपु पत्रेषु स्थितत्वात् । वैर्हेतुभूतैः पत्रान्तपर्यागलदच्छबिन्दुः । पत्रान्तात्पर्यागलन्तः अच्छास्तुपारबिन्दवो यस्य तीरतरोः । स दिनादौ दिना- रम्भे कुमुद्दतीमुपारुरोदेव आनन्दितवानिव भाति । शशिवियोगादीडशी- त्वं भूतासीति । रोदनक्रियया आक्रन्दनविशिष्टया कुसुद्वत्या ईप्सिततम- त्वात् रुदि: सकर्मकः । तदाऋन्दनं योजयन्नाह – नदत्पतङ्ग इति । कूजत्पक्षी- त्यर्थः । 'पतेरङ्गच् पक्षिणि' इत्यौणादिकः । कुमुद्दती ' १३०६ । कुमुदनड- ।४।२।८७ । इत्यादिना इमतुप् । १८९८ । झयः ।८।२।१०।' इति वत्वम् । उगिचात् ङीप् ॥ ३२ - वनानि तोयानि च नेत्र - कल्पैः पुष्पैः सरोजैश् च निलीन-भृङ्गैः ॥ परस्परां विस्मय-वन्ति लक्ष्मीमलोकयाञ्चक्रुरि॑वा॒ऽऽदरेण २१ ॥ ५ ॥ वनानीत्यादि — वनानि पुप्पैर्निलीनभृङ्गैः स्थितभ्रमरैः । लीयतेः '३०१९॥ स्वादय आदितः ।८।२।१५॥ इति निष्ठानत्वम् । नेत्रकल्पैः नेत्रतुल्यैः । तोयानि च सरोजैः निलीनभृङ्गैनैत्रकल्पैः । विस्मयवन्ति जातविस्मयानि । परस्परा- मन्योन्यस्य लक्ष्मीं शोभाम् आलोकयाञ्चक्रुरिव । आदरेण तात्पर्येण ॥ ३३ - प्रभात - वाता॒ऽऽहति-कम्पितता॒ऽऽकृतिः कुमुद्वती- रेणु - पिशङ्ग - विग्रहम् ॥ निरास भृङ्गं कुपितेव पद्मिनी, ने मानिनी संसहते ऽन्य सङ्गमम् ॥ ६॥ प्रभातेत्यादि - प्रभाते यो वातस्तस्याघातेन कम्पिता चालिता आकृतिराकारो यस्याः पद्मिन्याः सा भृङ्गं निरास निरस्तवती । कुमुद्वतीरेणुना पिशङ्गः कपिशः विग्रहो यस्य भृङ्गस्य । कुपितेव यथा अन्यया स्त्रिया सहोषितं तदङ्गसंक्रान्तपरिमलकण्ठमालमात्मदयितं काचित् कुपिता निरस्यति तद्वत् । सा १ – '१२२५ । पतङ्गौ पक्षि-सूर्यौ च ।' इति ना० अ० । २ - 'अत्राऽर्थान्तरन्यासाडलंकारः । तलक्षणं कुवलयानन्दकारिकायाम् – 'उक्तिरर्थान्तरन्यासः स्यात् सामान्य-विशेषयोः ॥ हनूमान॑ब्धिमतरद्, दुष्करं किं महाऽऽत्मनाम् ॥ इति । २२ भट्टि काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः, किमिति निरस्यति – यतो मानिनी मानवती अन्यसङ्गमम् अन्यया सह संगम न संसहते । आत्मसङ्गादन्यसङ्गमं न सहते न क्षमते ॥ ३४ - दत्ता॒ऽवधानं मधु-लेहि-गीतौ प्रशान्त - चेष्टं हरिणं जिघांसुः ॥ आकर्णयनुत्सुक - हंस-नादान् लक्ष्ये समाधिं न दधे मृगावित् ॥ ७ ॥ दत्तेत्यादि-मधुलेहिगीताविति मधु लेढुं शीलमेषामिति णिनिः । मधुले- हगीताविति पाठान्तरम् । तत्र लिहन्तीति लेहाः पचाद्यच् । मधुनो लेहा इति षष्ठीसमासः । मधु लिहन्तीति वा कर्मण्यण् । दुत्तावधानं दत्तमानसं हरिण प्रशान्तचेष्टं जिघांसुः हन्तुमिच्छुरपि मृगावित् व्याधः । मृगान्विध्यतीति विप् । '२४१२। ग्रहि-ज्या ।६।१।१६।' इत्यादिना सम्प्रसारणम् । "१०३७॥ नहि-वृति- ।६।३।११६।' इत्यादिना दीर्घः । लक्ष्ये वध्ये समाधि चित्रकात न दधे न धारितवान् । जित्वात्त । लिटः कित्चे आतो लोपः । उत्सुकानां हंसानां नादानाकर्णयन् ऋग्वन् तन्नाभिरतचित्तकत्वात् । वर्तमानकालो भूतेनाभिस- म्बध्यमानः साधुः । '२८२४ । धातु सम्बन्धे प्रत्ययाः ।३।४।१।' इति च । आक- र्णयन्निति 'प्रातिपदिकाद्धात्वर्थे बहुलम्' इति णिच् । '३१०३ । लक्षण हेत्वो:- ।३।२।१२६।' इति शतृप्रत्ययः ॥ ३५ - गिरेर् नितम्वे मरुता विभिन्नं तोया॑ऽवशेषेण हिमा॒ऽऽभ॑मभ्रम् ॥ सरिन् मुखऽभ्युच्चयमा॑दधानं शैलऽधिपस्या॑ऽनुचकार लक्ष्मीम् ॥ ८ ॥ गिरेरित्यादि — गिरेः कस्यचित् नितम्बे मध्यभागे स्थितमत्रं कर्तृ 'मरुता विभिन्नं विह्वलीकृतं तोयावशेषेण पयसोऽवशिष्टतया हिमाभं हिमसदृशं सारे- न्मुखानां गिरिनदी निर्गमाणामभ्युच्चयं वृद्धिम् आदधानं कुर्वाणं शैलाधिप हिमवतः लक्ष्मीं शोभामनुचकार अनुकृतवत् ॥ ३६ - गर्जन् हेरिः साऽम्भसि शैल-कुञ्जे प्रतिध्वनीनात्म-कृतान् निशम्य ॥ १–'९४। अभ्रं मेवो वारि वाहः स्तनयितुर् बलाहकः । धारा-धरो जल-धरस् तडित्वान् चारि-दोऽम्बु-भृत् ॥' इति ना० अ० । २ – ११३८३॥ याऽनिलेन्द्र चन्द्राऽर्क-विष्णु-सिंहां ऽशुवाजिषु । शुकाऽहि-कपि-मेकेषु हरिर् ना, कपिले त्रिषु ॥ ' तथा लक्ष्य-रूपे कथानके सीता -परिणयो नाम द्वितीयः सर्गः - २३ क्रमं ववन्ध ऋमितुं स कोपः प्रतर्कयन्न॑न्य - मृगेन्द्र-नादान् ॥ ९ ॥ ♥ गर्जन्नित्यादि — हरिः सिंहः गर्जन् शब्दं कुर्वन् । क्व शैलनिकुञ्जे गिरे- गहने । साम्भसि ससालले । एवंविधे प्रदेशे प्रतिध्वनीन् प्रतिशब्दान् आत्म- कृतान् निशम्य श्रुत्वा सरोषः सकोपः क्रमं बबन्ध ऋमितुमुत्पतितुं यत् सामर्थ्य तच्चकारेत्यर्थः । अनेकार्थत्वाद्धातूनां बन्धिरत्र करणे वर्तते । किमिति प्रतर्कयन्नन्यमृगेन्द्रनादान् ॥ इदानीं रामं व्यापारेण वर्णयन्नाह p ३७ - अदृक्षतो ऽम्भांसि नवोत्पलानि, रुतांनि च ऽश्रोषत षट्-पेदानाम् ॥ आघ्रायि वान् गन्ध-वहः सु-गन्धस् तेना॑ऽरविन्द - व्यतिषङ्ग - चांशु च ॥ १० ॥ अदृक्षतेत्यादि - नवान्युत्पलानि येष्वम्भस्सु जलेषु तानि रामेणादक्षत दृष्टानि । दृशेः कर्मणि लुङ् । '२३३६ । शल इगुपधा- ।३।१॥४५॥ इति प्रा- तस्य क्सादेशस्य '२४०७॥ न दृशः - ।३।१।१७।' इति प्रतिषेधात् '२२६९॥ इरितो वा-।३।१।५७ ।' इति सिजेव भवति । तेन विकल्पेनाङो विधीयमा- नत्वात् '२३००। लिङ्सिया । १।२।११॥ इति कित्त्वे गुणाभावः ॥ षट्प- दानां रुतानि अश्रोषत श्रुतानि । शृणोतेः कर्मणि लुङ् ॥ वहतीति वहः यचाद्यच् । गन्धस्य वह इति कृद्योगे षष्ठी समस्यते । गन्धवहो वायुराप्रायि आघ्रातः । कर्मणि लुङ् । अरविन्देन पद्मेन व्यतिषङ्गः संपर्कः सोऽस्ति यस्य वायोः सः । वातीति वान् । वातेः शतृप्रत्ययः । सुगन्धः । शोभनो गन्धो यस्य सः । अरविन्दव्यतिषङ्गत्वात् '८७४ । गन्धस्येदुत् पूति-सु-सुरभिभ्यः । ५।४।१३५॥ इतीकारः समासान्तो न भवति । गन्धस्येत्वे तदेकान्तग्रहण- मिति वचनात् सुगन्ध आपणिक इति यथा ॥ १- १९८। कोलाहलः कलकलस् तिरश्चां वाशितं रुतम् ॥ २-५४९। मधुव्रतो मधुन्करो मधु-लिण्-मधु-पाऽलिनः । द्वि-रेफ-पुष्प- लिड्-भृङ्ग-पटू-पद-अमरालयः ॥ ३–'६९ । श्वसनः स्पर्शनो वायुर् मातरिश्वा सदा-गतिः । पृषद्वो गन्ध हो गन्ध-वाहाऽनिलाऽऽशु-गाः ॥ इति सर्वत्र ना० अ० । २४ भट्टि काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे द्वितीयो वर्गः, ३८ - लताऽनुपांतं कुसुमा॑न्य॒गृह्णात् स, नद्यवस्कन्दमुपास्पृशच् च ॥ कुतूहलाच, चारु-शिलोपवेशं काकुत्स्थ ईपत् स्मयमान आस्त ॥ ११ ॥ लतेत्यादि – '३३७८ । विशि-पति-पदि-स्कन्द व्याप्यमानासेव्यमानयोः ॥३॥ ४॥५६॥ इति द्वितीयान्त उपपदे णमुल्विधीयते । तत्र व्याप्यमाने द्रव्यवचनस्य आसेव्यमाने च क्रियावचनस्य '३१३७॥ नित्य-वीप्सयोः ।८।१।४।' इति द्विवचनं विधीयते । अत्र तु समासेनैवोक्तत्वात् नोपयुज्यत इति स्थितम् । स काकुत्स्थो रामो गच्छन् लतां लतामनुपात्य कुसुमान्यगृह्णात् गृहीतवान् । लतामनुपात्या- नुपात्य च । '७८४ । तृतीयाप्रभृतीन्यन्यतरस्याम् ।२।२।२१।' इति समासः । अहे- लेडू । श्वाप्रत्ययस्य, अपिदिति ङित्त्वे '२४१२ । ग्रहि-ज्या-६ ॥१॥१६॥' इत्यादिना सम्प्रसारणम् ॥ नद्यवस्कन्दमिति नदीं नदीम् अवस्कन्द्य सर्वा नदीमवस्कन्द्य ढौकित्वा नदीं वा अवस्कन्द्यावरकन्य, उपास्पृशत् आचमनं कृतवान् । कुतूहला- दिति सर्वत्र योज्यम् ॥ चारुशिलोपवेशमिति चारुशिलाः चारुशिला उपविश्य चारुशिला उपविश्योपविश्य वा आस्त आसितवान् । आसेर्लङि रूपम् । ईषत् स्मयमानः ईपद्धसन् ॥ ३९ - तिग्मांशु-रश्मिच्-छुरितान्य-दूरात् प्रात्रि प्रभाते सलिलान्येपश्यत् ॥ गभस्ति-धाराभिरि॑िव द्रुतानि तेजांसि भानो भुवि संभृतानि ॥ १२ ॥ तिग्मांश्वित्यादि-अदूरात्समीपे सलिलान्यपश्यत् । इशेर्लङि '२३६० पा-घ्रा–१७७३।७८।' इति पश्यादेशः । तिग्मांशोरादित्यस्य रश्मिभिः छुरितानि रञ्जितानि । तुकू । प्राचि पूर्वस्यां दिशि अवस्थितानि । प्रपूर्वादञ्चतेः '३७३॥ ऋत्विग्- ।३।२।५९॥' इत्यादिना विप् । अनुषङ्गलोपः । शिः । नपुंसकस्य नुम् । भानोरिव तेजांसि भुवि संभृतानि पिण्डीकृतानि । गभस्तिभिः रश्मिमिः धाराभिरिव द्रुतानि गलितानि । धारा प्रपात इति भिट्टा पाठाद्रष्टव्यम् ॥ १-'अलं- खल्वोः प्रतिषेधयोः प्रचां समान कर्तृकयोः पूर्व-काले आमीक्ष्ण्ये णमुल ( अम्) चसमासे ऽनन् पूर्वे क्त्वो ल्यप् (त्र) इति सर्वत्राष्टाध्याय्य पाणिनिः' वै० भ० च । क्त्वा ( त्वा) ● ।३।४।१८॥ ३३१६। ।३।४।२१॥३३२० ।३।४।२२॥३३४३। २७।२१।३७॥३३३२। तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- ४० - दिग्-व्यापिनीर् लोचन-लोभनीया मृजाऽन्वयाः स्नेहमिव स्रवन्तीः ॥ ऋज्वाऽऽयताः शस्य-विशेष पङ्कीस् तुतोष पश्चन् वितृणाऽन्तरालाः ॥ १३ ॥ दिव्यापीत्यादि-शस्यविशेषाणां शाल्यादीनां पङ्कीः पश्यंस्तुतोप तुष्टवान् । दिग्व्यापिनीः सर्वदिग्व्यापनशीलाः । लोभयन्तीति लोभनीयाः । बहुवचना- त्कर्तर्यनीयः । लोचनानां लोभनीया इति षष्टीसमासः । मार्जनं सृजा शुद्धिः । '३२८१ । षिद्भिदादिभ्योऽङ् ।३।३।१०४ । तया, अन्वयोऽनुगमो यासाम् । शुद्ध्यनुगता इत्यर्थः । ततः स्नेहमिव स्रवन्तीः । ऋजवश्च ता आयताश्च वितृणा- न्तरालाः । उत्पाटितानि तृणानि अन्तराले मध्यभागे यासां ताः ॥ ४१ - वियोग- दुःखाऽनुभवाऽनभिज्ञैः काले नृपंऽशं विहितं ददद्भिः ॥ आहार्य - शोभा-रहितैरमायै२५ रैक्षिष्ट पुम्भिः प्रचितान् स गोष्ठान् ॥ १४ ॥ वियोगेत्यादि — पुम्भिः गोपैः प्रचितान् व्याप्तान् गोष्टान् गावस्तिष्ठन्ति येष्विति २९१६ सुपि स्थः ।३।२।४।' इति कः । '२९१८। अम्बाम्ब।८।३।९७।' इत्यादिना मूर्धन्यः । तान् स राम ऐक्षिष्ट दृष्टवान् । अनुदात्तेत्त्वात्तङ् । इट् । वियोगदुःखस्य योऽनुभवः अनुभवनं तस्यानभिज्ञैः तेषां पुत्रदारैः सहैव सर्वत्र गमनात् एतावता कालेन एतावद्देयमिति विहितं कृतम् । दुधातेर्हिः । नृपाशं करं ददद्भिः । आहार्या कटकादिभिः आहरणीया या शोभा दीतिः तथा रहितैः । अमायैः ऋजुभिः । आहार्येति २८७२ । ऋ-हलोयंत् ।३।१।१२४॥ शोभयतीति शोभा पचाद्यच् । ८३२८४ । ण्यासश्रन्थो युच् ।३।३।१०७ ।' इति युच् न भवति, तस्य स्त्रीलिङ्गे भावे अकर्तरि च कारके विधानात् । नन्द्यादिपाठात् ल्युर्न भवति, तस्य ' २८३० । वासरूपोऽस्त्रियाम् ।३।१।१४ । इति विकल्पितत्वात् । अथवा शोभनं शोभा स्त्रीलिङ्गे भावे घन् । '२८४१॥ कृत्य-व्युटो बहुलम् ।३।३॥३१॥ इति बहुलवचनादन्येऽपि कृतः प्राप्तमपि स्वाभिधेयं व्यभिचरन्ति ॥ ४२ - स्त्री - भूषणं चेष्टितर्म-प्रगल्भं चारूण्यं चक्राण्य॑पि वीक्षितानि ॥ ऋजूंव विश्वास - कृतः स्वभावान् गोपाऽङ्गनानां मुमुदे विलोक्य ॥ १५ ॥ M भ० का० ३ भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे द्वितीयो वर्गः, स्त्रीभूषणमित्यादि — गोपाङ्गनानां चेष्टितं गमनागमनादि । अप्रगल्भं लज्जावत् । तच्च स्त्रीविभूषणं स्त्रीणामलङ्कारः । तथा वीक्षितानि विलोकितानि अवक्राण्यपि कटाक्षादिरहितान्यपि चारूणि शोभनानि । स्वभावान् स्वाभिप्रायान् ऋजून् अकुटिलान् विश्वासकृतो विश्वासस्य जनकान् विलोक्य मुमुदे हृष्टवान् । स रामः । लिटोsपित्वात्कित्त्वे गुणाभावः । कार्याणां दर्शनात् स्वभावानां दर्शनमित्युक्तम् ॥ ४३ - विवृत्त - पार्श्व रुचिराऽङ्गहारं समुद्रहच्- चारु - नितम्ब रम्यम् ॥ आमन्द्र मन्थ- ध्वनि- दत्त-तालं गोपऽङ्गना-नृत्यम॑नन्दयत् तम् ॥ १६ ॥ विवृत्तेत्यादि-गोपाङ्गनानां दधिमन्थनाय यत् स्थानं कृतं तत् नृत्यमिवेति गोपाङ्गनानृत्यं कर्तृ तं रामं अनन्दयत् सन्तोषितवत् । नन्देर्ण्यन्तस्य लड रूपम् । विवृत्ते निर्यक्चलिते पार्श्वे यन्त्र नृत्ये । रुचिरः शोभनोऽङ्गहारोऽङ्गविक्षेपो यत्र । समुद्वहता तिर्यक् समुद्रच्छता चासनेतम्बेन मनोरमकटिभागेन रम्यं मनोहरम् । आमन्द्र ईषद्गम्भीरो यो मन्थकृतो ध्वनिः तेन दत्तस्तालो यत्र ॥ ४४ - विचित्रमुच्चैः प्लवमानमारात् कुतूहलं त्रस्तु ततान तस्य ॥ मेघाऽत्ययोपात्त-वनो॒पशोभं कदम्बकं वातमजं मृगाणाम् ॥ १७ ॥ विचित्रमित्यादि ॥ मृगाणां कदम्बकं वृन्दं तस्य रामस्य कौतूहलं तनान विस्तृतवत् । विचित्रम् कृष्णश्वेतत्वात् । उच्चैः प्लवमानम् ऊर्ध्वं जिहानम् । आरात समीपे त्रस्नु त्रसनशीलम् ' ३१२० । त्रसि - गृधि ।३।२।१४०।' इत्यादिना क्रुः । मेघात्ययेन मेवापगमेन उपात्तवनोपशोभम् । उपात्तं गृहीतं वनम् उपशोभा च येनेति व्यधिकरणबहुव्रीहिः । वातमजति वातमजम् । वाताभिमुखं गच्छती- त्यर्थः । 'वात- शुनी-तिल-शर्धेषु -' इति खश् । '२९४२ । अरुषि-१६।३।६७ ।' इति मुम् ॥ ४५ - सिताऽरविन्द - प्रचयेषु लीनाः संसक्त-फेणेषु च सैकतेषु ॥ कुन्ददा॒ऽवदाताः कलहंस-मालाः प्रतीयिरे श्रोत्र - सुखैर् निनादैः ॥ १८ ॥ सितेत्यादि — सितारविन्दानां प्रचयेषु समूहेषु ।'३२३१॥ एरच् ।३।३।५६।' ।'३२१४। सङ्घे चानौत्तराधर्ये ।३।३।४२।' इति घञकौ न भवतः आणिषु तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः सङ्घशब्दस्य रूढत्वात् । लीना: कलहंसमालाः । तथा संसक्तफेणेषु च सैकतेपु पुलिनेपु लीनाः सिकता येषु विद्यन्त इति । '१९१२ । देशे लुबिलचौ च ।५।१।१०५।' इति चकारादण् । कुन्दावदाताः कुन्दमिवावदाताः शुक्लाः । ७३४ उपमानानि ।२।१।२२।' इत्यादिना समासः । प्रतीयिरे ज्ञाताः । तेन रामेणेति विभक्तिविपरिणामेन सम्बन्धः । कर्मणि लिट् । २४५५ । इणो यण् ॥४।८॥ । '२२४३। द्विर्वचनेऽचि ।१।१।५९॥ इति स्थानिवद्भावाविर्वचनम् । श्रोत्रसुखैर्मचुरौर्ननादैः करणभूतैः। '३२४१ । नौ गढ़ – ।३।३।६४ । इत्यादिना घञ् ॥ शरद्वर्णनमुपसंहरन्नाह ४६ - न तज् जलं, यन् न सुचारु-पङ्कजं, न पङ्कजं तद्, यर्द - लीन-पट्-पदम् ॥ न षट्- पदोऽसौ, न जुगुञ्ज यः कलं; न गुञ्जितं तन्, न जहार यन् मनः ॥१९॥ न तज्जलमित्यादि । किम्बहुनोक्तेन सर्वथा न तज्जलं यत् सुचारुपङ्कजं न बभूव । पङ्कजमपि यदलीनषट्पदं तदपि न । असौ षट्पदोऽपि तथाविधो नाभूत् । यः कलं मधुरं न जुगुञ्ज न गुञ्जितवान् । '२१२ । गुजि अव्यक्ते शब्दे' । '२२६२ । इदितो नुम् धातोः ।७।१।५८।' इति नुमि लिटि रूपम् । गुञ्जि- तमपि तत् नैवासीत् । यन्मनो न जहार न हृतवत् रामस्य लोकस्य वा ॥ ४७ – तं यायेजूकाः सह भिक्षुं-मुख्यैस् तपः - कृशाः शान्त्युदकुम्भ-हस्ताः यायावराः पुष्प फलेन चऽन्ये प्राणचुरर्ध्या जगदर्चनीयम् ॥ २० ॥ ५ ॥ १ –पद्येऽस्मिन्नेकावल्यलङ्कारः । तलक्षणं काव्यप्रकाशे भट्ट- मम्मटः- 'स्थाप्यतेऽपोह्यते वाsपि यथा पूर्व परं परम् ॥ विशेषणतया वस्तु यत्र, सैकावली द्विधा ॥" इति । स्थापने यथा — पुराणि यस्यां स वराङ्गनानि, वराऽङ्गना रूप- पुरस्कृता-ज्जयः ॥ रूपं समुन्मीलित-सद्विलासम विलासा: कुसुमा-ऽऽयुधस्य ॥' किंवा — 'स पण्डितो, यः स्वहिताऽर्थ-दर्शी; हितं च तद्, यत्र पराऽनपक्रिया ॥ परे च ते, ये श्रित-साधु-भावाः; सो साधुता, यत्र चकास्यु॑माधवः ॥ अपोहने यथा— 'निरत्ययं साम न दान वर्जितं; न भूरि दानं विरहय्य सत्-क्रियाम् ॥ प्रवर्तते तस्य विशेष-शालिनी; गुणा॒ाइनुरोधेन विना न सत्-क्रिया. ॥' इति श्री - भारवि किरातार्जुनीये –१।१२। किं वा–'ना॑ऽऽर्थः स, यो न स्वहितं, समीक्षते; न तद् हितं, यत् न पराऽनुतोषणम् ॥ न ते परे, यैर् नहि साधुता श्रिता; न साधुता सा, नहि यत्र माधवः ॥२–७१४॥ इज्या शीलो यायजूक: ॥ ३-७४९। भिक्षुः परित्राट् कर्मन्दी पाराशर्यपि मस्करी ॥" २८ भट्ट- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे द्वितीयो वर्गः, तमित्यादि – यायजूकाः, अत्यर्थं यजनशीलाः । '३१४६। यज-जप दशांथङः १३।२।१६६।' इत्यूकः । '२३०८। अतो लोपः ॥४।४८॥ '२६३१॥ यस्य हरुः ।६।४।४९।' ते तपोवनस्थितास्तं राममागच्छन्तमानर्चुः सुठु पूजितवन्तः । अर्चलिंटि द्विर्वचनम् । '२२४८ । अत आः ।७।४।७० ।' इति दीर्घत्वम् । '२२८८। तस्मान्नुड् दिहलः ।७।४।७१॥ इति नुट् । सह भिक्षुमुख्यैः । भिक्षणशीला भिक्षवः परिव्राजकाः । '३१४८। सनाशंसभिक्ष उः ।३।२।१६८।' तेषां ये प्रधानास्तः सह । तपःकृशाः तपसा दुर्बलाः । शान्त्यर्थमुदकं तेन पूर्ण: कुम्भः । '९९७१ एकहलादौ-।६।३।५९१' इत्यादिना उदकस्य उदद्भावः । म हस्ते येपामिति बहुव्रीहिः । परनिपातश्चात्र वाहिता म्यादिदर्शनात् । प्रहरणार्थेभ्य इति वा । शान्त्युदकुम्भस्त्वहित निवारणसाधर्म्यात् उपचारेण प्रहरणम् । ते शिरःसूदकदानेन प्राणर्चुः । अन्ये मुनयो यायावरा एकत्रानियतनिलयाः । यातेर्यङन्तात् । '१३५६। यश्च यङः ।३।२।१७६।' इति वरच् । अतोलोपादि । पुष्पफलेन प्राणचुः । पुष्पाणि च फलानि चेति '९१०। जातिरप्राणिनाम् ।२।४।६॥ इत्येकवद्भावः अर्ध्या अर्चना: । '२८२२ । अर्हे कृत्य । ३।३।१६९।' अर्चनीयमित्यत्रापि । जगत जगद्भिर्वा, अर्चनीयम् । '६२९। कृत्यानां कर्तरि वा १२॥ ३॥७३॥ । इति पक्षे पष्ठी नतु '६२३ । कर्तृ-कर्मणोः कृति – ।२।३।९५॥ इति पढ़ी । ४८ - विद्यामधनं विजयां जयां च रक्षो-गणं क्षिप्नुम॑-विक्षता॒ऽऽत्मा ॥ अध्यापिपद् गाधि- सुतो यथावन् निघातयिष्यन् युधि यातुधानान् ॥ २१ ॥ विद्यामित्यादि – तपोवनं प्राप्तः गाधिसुतः एनं रामम् । '३५१॥ द्वितीया टौ~।२।४।३४।' इत्येनादेशः । विद्यां नाम्ना विजयां जयां च । यथावत् यथाविधि । अध्यापिपत् पाठितवान् । '२६०१ । णौ च संचङः ।६।१।३१।' इति गाङभावपक्षे रूपम् । अधिपूर्वादिङो हेतुमण्णिाच '२६०० । क्रीजीनां णौ ।६॥१॥४८॥ इत्या- त्वम् । पुगादिविधयः । रक्षोगणम् । क्षिप्तुं प्रेरयितारम् । '३१२० । त्रसि-मृद्धि - ।३।२।१४०।' इत्यादिना क्ल: । '६२७ । न लोका- ।२।३।६९ ।' इति षष्ठीप्रतिषेधात् द्वितीयैव । अविक्षतात्मा रागादिभिरनभिभूतचित्तवृत्तिः । तस्य हि विद्या अमोघा भवति । संग्रामे युधि । यातुधानान् रक्षांसि । निधातयिष्यन् मारयिष्यन् । हन्तेर्हेतुमणिच् । त्वं । लृट् लुटः सदादेशः ॥ - ४९ - आयोधने स्थायुकम॑स्त्रजात- म॑मोघम॑भ्यर्ण-महाऽऽहवाय ॥ १–१०७५। निराकरिष्णुः क्षिः स्यात् ॥ तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः ददौ वधाय क्षणदा = चराणां तस्मै मुनिः श्रेयसि जागरूकः ॥ २२ ॥ आयोधन इत्यादि —स मुनिः तस्मै रामायास्रजातम्, अस्त्रसमूहं ददौ दत्तवान् । ददातेर्लिट् । णल ' २३७१ । आत औ पलः ।७।११३४' आयुध्यन्ते अस्मिन्निति आयोधनं संग्रामः । अधिकरणे ल्युट् । तत्र स्थायुकं स्थितिकरणशी- लम् जयावहत्वात् । '३१३४ । लप पत - । ३।२।१५४ । इत्यादिना उकञ् । आतो युक् । अत एवामोघं अवन्ध्यम् । अवृथामोक्षत्वात् । अभ्यर्णो निकटो महाहवो यस्य तस्मै । अभिपूर्वादर्देर्निष्टायाम्, '३०६५ । अभेश्चाविदूर्ये ।७।२२५ इतीप्रतिषेधः । '३०१६ । र-दा- भ्याम् । ८।२।४२।' इति नत्वम् । अभ्यर्णः । आहव इति आहूयन्ते अस्मिन्युवायेति ह्वयतेराङ्पूर्वात् '३२५० । आडिङ युद्धे १३।३।७३।' इति सम्प्रसारणम् । अप्प्रत्ययः । गुणावादेशौ । वधाय क्षणदाचरा- णामिति क्षणदा रात्रिः तत्र चरन्तीति '२९३० । चरेष्टः ।३।२।१६।' तंत्र हि महाहवे रामो राक्षसान् हनिष्यतीति । '३२५३ । हनश्च वधः । ३।३२।७६।' इति वधादेशः । कृत्प्रयोगे क्षणदाचराणामिति कर्मणि षष्ठी । श्रेयसि जागरूक: तत्कल्याणे सावधानः जागर्तेरूकः ॥ ५० - तं विप्र-दर्श कृत-घात- यत्ना यान्तं वने रात्रि - चरी डुढौके, ॥ जिघांसु - वेदं धृत-भासुराऽस्त्रस् २९ तां ताडकाऽऽख्यां निजधान रामः ॥ २३ ॥ तमित्यादि - विद्यामस्त्रजातं चादाय यज्ञकर्मणि विघ्नोपशमनार्थ वने यान्तं रामम् रात्रिचरी राक्षसी ताडकाभिधाना डुढौके ढौकते स्म । ढौकतेरात्मनेप- दिनो लिटि रूपम् । तां च रामो निजवान निहतवान् । विप्रदर्श कृतघातयत्ना विप्रान् ब्राह्मणान् दृष्ट्वा कृतमारणाभियोगा रात्रिचरी । रामोऽपि जिघांसुवेदं वृतभासुरास्त्रः । जिघांसुं विदित्वा धृतं भासुरं भासनशीलम् अस्त्रं येनेति बहु- व्रीहिः । विप्रदर्श जिघांसुवेदमिति । '३३५० । कर्मणि दृशि-विदोः साकल्ये ।३।४॥२९।' इति णमुल ॥ ५१ - अर्थाss लुलोके हुत-धूम-केतु- शिखाऽञ्जन - स्निग्ध-समृद्ध-शाखम् ॥ तपोवनं प्राध्ययाऽभिभूत- समुच्चरच्- चारु पतत्रि-शिञ्जम् ॥ २४ ॥ अथेत्यादि – अथासौ रामो राक्षसीं हत्वा तपोवनं आलुलोके दृष्टवान् । २ - '१०११ ढौ गत्यर्थः ।' २–'लोकॅ दर्शने ।" ३० भट्टि- काव्ये - प्रथमे प्रकीर्ण काण्डे लक्षण रूपे द्वितीयो वर्गः, कथम्भूतम् । हुतधूमकेतुशिखाञ्जन स्निग्धसमृद्धशाखम् । हुतश्चासौ धूमकेतुरशिश्र हुत धूमकेतुः । तस्य शिखाञ्जनेन स्निग्धाः समृद्धाश्च फलादिना शाखा स्थ तपोवनस्य । प्राध्ययनेन वेदपाटेन अभिभूता तिरस्कृता समुच्चरन्ती चाव शोभना पतन्त्रिणां पक्षिणां शिक्षा ध्वनियंत्र । '१०९८ । शिजि अव्यक्ते शब्दे । शिक्ष शिक्षा '३२८०। गुरोच हलः ।३।३।१०३।' इत्याकारप्रत्ययः । पतन्तं चायन्त इति पतन्त्राणि पक्षाः । '२९१५) आतोऽनुपसर्गे कः । ३।२।३। । । तानि येषां भन्तीति पतन्त्रिणः । पतङ्गशिञ्जमिति पाठान्तरम् ॥ , ५२ - क्षुद्रान् न जक्षुर् हरिणान् मृगेन्द्रा, विशश्वसे पक्षि-गणैः समन्तात् ॥ नन्नम्यमानाः फल-दित्सयैव चकांशिरे तत्र लता विलोलाः ॥ २५ ॥ क्षुद्रानित्यादि — तत्र तस्मिंस्तपोवने तपोधनानां मित्रभावात् क्षुद्रानि- तरानपि हरिणान्मृगेन्द्राः सिंहाः न जक्षुः न बाधितवन्तः । क्षुद्यन्तांत क्षुद्राः । स्फायितञ्जीयादिना औणाढिको रक् । '२४२४ । लिट्यन्यतरस्याम् ।२।१४।४०।' इति अदेर्धस्ऌ । '२३६३ । गम-हन-१६।४।९८।' इत्यादिनोपधालोपः '१२१ वरि च ।८।४।५५॥' इति चर्ध्वम् । '२४१० । शासि-वास- १८।३।६० ।' इत्यादिना यध्वम् । पक्षिगणैः समन्तात्सर्वत्र विरुद्धैरपि काकोलूकादिभिः परस्परं विशश्वसे विश्वम्तम् । भावे लिट् । लताश्च विलोलाश्चपलाञ्चकाशिरे शोभन्ते स्म । फलदिन्सयेव मुनिभ्यः फलं दातुमिच्छयेव नन्नम्यमानाः अत्यर्थ नमन्यः । दातुमिच्छा दिस्सा । ददातेः सन् । '२६५३। सनि मी-मा- १७/४/५४।' इत्यादिना इस् । '२६२० । अत्र लोपो- ऽभ्यासस्य ।७।४।५८।' इति अभ्यासलोपश्च । '२३४२ । सः सि– ।७।४।४९।' इत्या दिना सकारस्य तकारः । '३२७९। अ प्रत्ययात् ।३।३।१०२।' इत्यकारप्रत्ययः । फलानां दित्सेति कर्मणि षष्टीं विधाय कृद्योगे समासः । ननम्यमाना इति नमे- यडि '२६४३ । नुगतोऽनुनासिक - 1७।४।८५१' इति नुक् । यङन्ताच्छानच् । आने मुक् ॥ ५३ - अपूपुजन् विष्टर- पाद्य-मॉल्यैरातिथ्य - निष्णा वन-वासि मुख्याः ॥ प्रत्यग्रहीष्टां मधुपर्क मिश्रं तावा॑ सना॒ऽऽदि क्षिति- पाल-पुत्रौ ॥ २६ ॥ १ – '६९४। का दीप्तौ ।' २ – १३७८ । विष्टरो बिटपी दर्भमुष्टिः पीठाऽऽथर्मासनम् ।' ३. '७३८। पाद्यं पादाय वारिणि ।' ४ – १६९९ । माल्यं मालास्रजौ मूर्ध्नि । तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- अप्रूपुजन्नित्यादि – वनवासिमुख्याः महर्षयो विष्टरादिभिः अपूपुजन् पूजितवन्तः । तौ क्षितिपालपुत्रावित्यर्थात् द्वितीयान्तेन योज्यम् । वनवासीनि '९७६। शय - वास - ।६।३।१८।' इत्यादिना विकल्पेन सप्तम्या अलुक् । पूजेः स्वार्थिकण्यन्तस्य णौ चङि ह्रस्वः '२३१८ । दीर्घो लघोः ।७।४।१४॥ इति अभ्यासस्य दीर्घः । विष्टरमासनम् । ८३२३३। वृक्षासनयोर्विष्टरः ॥८।३।९३११ इति निपातनात् । पाद्यं पादार्थमुदकम् । २०५३ । पादार्घाभ्यां च ॥५॥४॥२५॥ इति यत् । तदर्थत्वात्पद्भावाभावः । माल्यानि कुसुमानि । मालायां साधूनि । '१६५० / तत्र साधुः ।४।४।१८। इति यत् । आतिथ्य-निष्णा: अतिथ्यर्थम् आतिथ्यम् । '२०९४ । अतिथेः ।५।४।२६।' तत्र निष्णाः कुशलाः । '३०८२। नि-नदीभ्यां स्नातेः कौशले १८३१८९१ । इति षत्वम् । तौ च क्षितिपालपुत्रौ रामलक्ष्मणौ तदासनादि प्रत्यग्रहीष्टां प्रतिगृहीतवन्तौ । प्रतिपूर्वाद् ग्रहेर्लुङ् । तसस्ताम् । '२५६२। ग्रहोलिटि ।७।२।३७ । इति दीर्घः । षत्वष्टुत्वे । मधुपर्क- मिश्रम् मधुपर्केण सहेत्यर्थः ॥ ५४ - दैत्याऽभिभूतस्य यु॒वाम॑वोढं , मनस्य दोर्भिर् भुवनस्य भारम् ॥ हवींषि संप्रत्यपि रक्षतं, तौ तपो = धनैरि॑ित्थर्मभाषिषाताम् ॥ २७ दैत्येत्यादि — दितेरपत्यानि दैत्याः । '१०७७ । दित्यदित्या –।४।११८५।' इत्या- दिना ण्यः । तैरभिभूतस्य भग्नस्य शरण्यस्य भुवनस्य भारमितिकर्तव्यतालक्षणं दोर्भिर्भुजैः युवामवोढम् ऊढवन्तौ । नरनारायणौ युवामित्युक्तौ । त्वं चत्वं चेति एकशेषः । अवोढमिति वहेर्लुङ् । थसस्तम् । हलन्तलक्षणा वृद्धिः । सिजलोपः । '२३५७। सहि होः ।६।३।११२ । इत्योत्वम् । ढत्वष्टुत्वढलोपाः ॥ दोरिति दमेडर्डोसित्यौणादिको डोस् । हवींषि होतव्यानि । सम्प्रत्यपि रक्षतम् ॥ अर्चिरुचिद्दुसृपिच्छादिच्छर्दिभ्य इसिरित्यौणादिक इसिः । राक्षसैरुपहन्यमानानि रक्षतम् । प्रार्थनायां लोट् । शप् । थसस्तम् । इत्थमिति १९६५ । इदमस्थमुः ।५।३।२४।' अनेनोक्तप्रकारेण । तपोधनैस्तप एव धनं येषामिति । अभाषिषाताम् अभिहितौ । भाषतेः कर्मणि लुङ् । सिजिटौ ॥ ५५ - तान् प्रत्यवादीदथ राघवोऽपि, यथो॒प्सितं प्रस्तुत कर्म धर्म्यम्, ॥ १ – '६४४ । भुजबाहू प्रवेष्टो दोः ।' ३२ भट्टि काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीय वर्गः, तपो- मरुद्भिर् भवतां शराऽग्निः संधुक्ष्यतां नोऽरि-समिन्धनेषु ॥ २८ ॥ तानित्यादि — अथैतस्मिन् प्रस्तावे राववोऽपि रघुसुतः तान्मुनीन् प्रत्यवादी- त् । '२२६७। वद-व्रज - ।७।२।३।' इत्यादिना वृद्धिः । यथेप्सितं यथाभिमतम् । आप्नोतेः '२६१९॥ आप्-ज्ञ्प्यृधामीत् ॥७॥४॥५५॥ इतीत्वम् अभ्यासलोपश्च । सन्नन्तात्कर्मणि निष्टा । धर्मादनपेतं धर्म्यम् यागादि कर्म । प्रस्तुत प्रारभध्वम् । प्रपूर्वः स्तौतिः प्रारम्भे वर्तते । तस्मान्निमन्त्रणे नियोगकरणे लोट । थस्य तः । शपो लुक् । तपांसि मस्त इव तपोमरुद्भिः । भवतां तपोमरुद्भिर्नाऽस्माकम् । '४०५ । बहुवचनस्य वस् नसौ ।८॥२१॥ इति नसादेशः । शराभिः शरोऽझिरिव । यतां दीप्यताम् । '६४४ । थुक्ष, धिक्ष, सन्दीपन-क्लेदन - जीवनेषु ।' तस्मा- कर्मणि लोट् । अरिसमिन्धनेषु अरिकाष्ठेषु । समिध्यते एभिरिति समिन्धनानि । करणे ल्युट् । अरयः समिन्धनानीव ॥ । ५६ प्रतुष्टुवुः कर्म ततः प्रकृतैस् ते यज्ञियैर् द्रव्य-गणैर् यथावत् ॥ दक्षिण्य - दिष्टं कृतमर्खिजीनस् तद् यातुधानैश् चिचिते प्रसपत् ॥ २९ ॥ प्रतुष्टुवुरित्यादि — ततो रामवचनादनन्तरं तपोधनाः कर्म यागकियां प्रतु- ष्टुवुः । यथावत् यथाविधि प्रारब्धवन्तः । यज्ञियैः यज्ञकर्म: द्रव्यगणैः प्रक्लृप्तः मिलितैः । '२३५०। कृपो से लः ॥२।१८ । दक्षिणामर्हन्तीति दक्षिण्याः महामुनयः १७३३ । कडङ्कर-दक्षिणाच्छ च ५१११६९॥ इति चकाराग्रत् । तैर्दिष्टमुकम् । कृतमाविंजीनैः ऋत्विकर्मा हैरनुष्टितम् । ऋत्विजश्च ब्रह्मादयः पोडश पठिताः । तच्च कर्म असर्पत् वृद्धिं गच्छत् । यातुधानै राक्षसः चिचिते ज्ञातम् । '३९ । चिती संज्ञाने' इत्यस्मात् कर्मणि लिट् । यज्ञियैरा- विजीनैरिति '१७३५॥ यज्ञविंग्भ्यां घखजौ ॥५॥१३॥७१॥ इति तस्कर्मातीति ॥ ५७ - आपिङ्ग - रूक्षोर्ध्व-शिरस्य- बालैः शिराल-जङ्घैर् गिरि-कूट-दमैः ॥ 9 १ ~ पद्येऽस्मिन् रूपकाऽलंकारः । तलक्षणं का० प्र० भ० मम्मट:--:- तद् रूपकममेदो य उपमानो॒पमेययोः ॥' इति । यथा - 'एष मनः- स्वैर - पशुर् धावति पर कनक-कामिनीनिकटम् ॥ तस्माद् विवेक-पाशैः कण्ठे वैराग्य - काष्ठ मानध्यम् ॥' किंवा - दुष्यन्तसद्म पद्मं सा स्त्री - श्रीः कण्ठ-भानु-शिष्य-करैः । नीता 'स-सुत-सुगन्धा सद्-धर्म- नया॒ऽभ्युपूर्ण-पुर-सरसि ॥' स्वकृतसंस्कृत-भाषान्तर-पद्य-मालायाम् । २–१४३४/ रूक्षस् त्व-प्रेम्ण्य-चिकणे ।' इति ना० अ० । '२०५६ । रूक्ष पारुष्ये ।" इति धा० पा० । तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः ततः क्षपाऽटैः पृथु - पिङ्गलाऽक्षैः खं प्रावृषेण्यैरि॑िव चा॑ऽऽनशेऽन्दैः ॥ ३० ॥ . आपिनेत्यादि – ततः कर्मप्रवर्तनादनन्तरम् । क्षपाटे: निशाचरैः । अट- न्तीयटाः प्रचाद्यच् । क्षपायामटा इति । सप्तमीति योगविभागात् समासः । खमाकाशमानशे व्याप्तम् । अश्नोतेः कर्मणि लिट् । '२५३३॥ अश्नोत्र ।७।४।७२।' इति लुङ् ॥ शिरसि जाताः शिरस्याः । १६६६। शरीरावयवाद्यत् ॥५॥१६॥ आपिङ्गा आ समन्तात् पिङ्गा विधुदिव । रूक्षाः सूक्ष्माः ऊर्ध्वशिरस्या बाला येषां तैः । अन्योऽपि शिरस्यो भवति इति बालग्रहणम् । अमङ्गलबाला इत्यर्थः । शिराः सन्ति यासामिति '५९०३ । प्राणिस्थादातो लजन्यतरस्याम् ।५।२।१६॥ इति लच् । शिराला जङ्घा येषां तैः । गिरिकूटनैर्गिरिकूटप्रमाणैः । १८३८ । प्रमाणे द्वयसच्—।५।२।३७ ।' इति दघ्नच । पृथूनि विस्तीर्णानि । पिङ्गलानि चाक्षीण येषां तैः '८५२ । बहुव्रीहौ सक्थ्यक्ष्णोः ।५।५।११३।' इति षच् । प्रावृषे- ण्यैरिवेति '१३८८। प्रावृष एण्यः ।४।३।१७।' अदघैः कृष्णसाधर्म्यात् । अपो ददतीति अब्दाः । चकारः पादपूरणार्थः ॥ ५८ - अधि - ज्य-चापः स्थिर-बाहु-मुष्टि- रु॑दञ्चितता॒ऽक्षोऽञ्चित - दक्षिणोरुः ॥ तान् लक्ष्मणः सन्नत-चाम-जङ्घो जघान शुद्धेषुर-मन्द - कर्णी ॥ ३१ ॥ ★ ३३ अधीत्यादि- तान् क्षपाटान् गगनस्थान् लक्ष्मणो जघान हतवान् । की- दृशः । अधिज्यचापः । अध्यारूढा उत्कलिता ज्या गुणो यस्य चापस्य तदधि- ज्यम् । प्रादिभ्यो धातुजस्येति समासः । अधिज्यं चापं यस्य लक्ष्मणस्य । स्थिरो निश्चलो बाहुर्मुष्टिश्च यस्य । उदञ्चिते उत्क्षिप्ते अक्षिणी येन स उदचिताक्षः । आका- शस्थापितदृष्टिरित्यर्थः । अञ्चितः सङ्कोचितो दक्षिणोरुर्येन सोऽञ्चितदक्षिणोरुः । अञ्चेः पूजायामितीटोऽनुत्पन्नत्वात् ण्यन्तस्य रूपम् । न चात्र पूजा गम्यते किन्तु गतिविशेष एव । अनुषङ्गलोपोऽपि न भवति णिलोपस्य स्थानिवद्भावात् । समन्तात् नता वामजङ्घा यस्य स सन्नतवामजङ्घः । शुद्धेषुः निशितबाणः । अमन्दमत्यन्तं ऋष्टुं शीलमस्यासावमन्दकर्षी । कर्णान्ताकृष्टचाप इत्यर्थः ॥ ५९ - गाधेय-दिष्टं विरसं रसन्तं रामो ऽपि माया - चणम॑स्त्र - चुचुः ॥ स्थास्तुं रणे स्मेर- मुखो जगाद मारीचर्मुच्चैर् वचनं महाऽर्थम् ॥ ३२ ॥ स्थिर तरः स्थेयान् ॥ १–१११८ । स्थास्तु ३४ भट्ट काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः, गाधेयेत्यादि — गाधेरपत्यं गाधेयो विश्वामित्रः । यच इत्यनुवर्तमाने '११२५ । इतश्चानिजः ।४।१२।१२२।' इति ढक् । तेन दिष्टं कथितं मारीचं नाम राक्षसं रामो जगाद गदितवान् । रसन्तम् वदन्तम् । विरसमश्राव्यमिति क्रियाविशेषणम् । मायाचणं मायया वित्तम् । अस्त्रचुचुः अस्त्रैः प्रतीतो रामः । '१८२७ । तेन वित्तञ्जुञ्चुपचणपौ ।५।२।२६।' इति । स्थास्तुं रणे स्थितिशीलम् । तस्य सेनापतित्वात् । स्पेरमुखः चित्तस्याक्षोभादपद्धसनशीलवदनः । '३१४७ नमिकम्पि ।३।२।१६७।' इत्यादिना रः । उच्चस्तरां जगादेति क्रियाविशेषणम् । वचनं वक्ष्यमाणं महार्थं प्रधानार्थम् । ब्रुविशासीत्यत्र जुत्रीत्यर्थग्रहणाद्विकर्म- कता । मारीचं वचनं च ॥ ६० - आत्मं-भरिस् त्वं पिशितैर् नराणां फले- ग्रीन हंसि वनस्पतीनाम् ॥ शौवस्तिक त्वं विभवा न येषां व्रजन्ति, तेषां दयसे न कस्मात् ॥ ३३ ॥ आत्मेत्यादि-नराणां पिशितैमासैः आत्मानं विभपि पुष्णासि । नान्यदपि शरीरस्थितिहेनुर्भवतीति भावः । स त्वमात्मम्भरिः आत्मभरणाय फलानि गृह्णन्ति ये वनस्पतीनां तान् फलेग्रहीन् फलाशिनो मुनीन् हंसि मारयसि । शपो लुक् । '२९४० । फलेग्रहिरात्मम्भरिश्च ।३।२।२६।' इति निपातितौ । श्वो भवितारः शौवस्तिकाः । '१३८५ । श्वसस्तुट् च । ४ । ३ । १५ ।' इति ठञ् तुडागमश्च । द्वारादित्वादैजागमः । शौवस्तिकत्वं तद्येषां विभवा न व्रजन्ति तेपामश्वस्तनिकवृत्तीनां कस्मान्न दयसे न रक्षसि । '६१३ । अधीगर्थ-दयेशाम् । २।३।५२ ।' इति कर्मणि षष्ठी । , ६१ - अझो द्विजान्, देवयजीन् निहन्मः, कुर्मः पुरं प्रेत- नरा॒ऽधिवासम् ॥ धर्मो ह्येयं दाशरथे ! निजो नो, नैर्वाऽध्यकारिष्महि वेद-वृत्ते ॥ ३४ ॥ अद्म इत्यादि-राक्षसः प्राह । द्विजान् ब्राह्मणक्षत्रियवैश्यान् अग्नो भक्षयामः । देवयजीन् देवान् यजन्ति आराधयन्ति ते तान्निहन्मः । 'अच इः' इत्यनुवर्तमाने खनीत्यादिषूह्यमानेष्वौणादिकेषु सूत्रेषु यद्यपि यजिर्न पठितस्तथापि यजेरिः १–'१०६६।उभौ त्वत्मम्-भरिः कुक्षिम् = भरिः खोदर-पूरके !!' २– '३५४। वानस्पत्यः फलैः पुष्पात् तैर-पुष्पाद् वनस्पतिः ॥ ओषध्यः फल-पाकाऽन्ताः स्युरेवन्ध्यः फले=प्रहिः ॥' इति सर्वत्र ना० अ० । ३–१३४७। धर्माः पुण्य-यम-न्यार्य-स्वभावाऽऽचार-सोम-पाः । इति ना० अ० । तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः३५ प्रकृतेश्च तद्यमिति वचनात् । '६१७ । जासि-निग्रहण । २।३।५६ ।' इत्यत्र सङ्घा. तविगृहीतविपर्यस्तग्रहणात् षष्ठी प्राप्तापि न भवति । कर्मणः शेषत्वेनाविवक्षितत्वात् । पुरं नगरं प्रेतनराणां मृतनराणाम् । अधिवासमवस्थानं कुर्मः । नित्यहननेन स्मशानतुल्यमित्यर्थः । कस्मादेवमित्याह - धर्म इति । दशरथस्यापत्यं दाशरथिः । '१०९५ । अत इज् ।४।१।१५।' । हे दाशरथे । हि यस्मादर्थे वर्तते । यस्मादयं धर्मः आचारः । निजो नित्यः । न इत्यस्माकम् । वेदविरुद्ध इति चेत् - नैवाध्यकारिष्महि वेदवृत्ते । वेदविहितं वृत्तमिति लोपी समासः यद् ब्राह्मणानामुक्तमनुष्टानं तत्र वयं नैवाधिकृता अधिपूर्वात्करोतेः कर्मणि लुङ् । ८२७५७ । स्यसिच्- ।६।४॥६२।' इत्यादिना चिण्वदि ॥ मध्यमपद इत्यर्थः । ६२ - धर्मोऽस्ति सत्यं तव राक्षसांडय- मन्यो व्यतिस्ते तु ममा॑ऽपि धर्मः ॥ ब्रह्म - द्विषस ते प्रणिहन्मि येन, राजन्य-वृत्तिर् घृत कार्मुकेषुः ॥ ३५ ॥ धर्म इत्यादि — रामः प्राह । हे राक्षस रक्ष एव राक्षसः । प्रज्ञादित्वा- दण् । स्वार्थिका अतिवर्तन्त इति पुँल्लिङ्गता । तवायं पूर्वोक्तः पराभिद्रोहलक्षणो 'धर्मोऽस्तीति सत्यमेतत् किन्तु ममापि रामस्य अन्यो धर्मोऽशिष्टनिग्रहलक्षणो व्य व्यतिभवते । इदमुक्तं भवति – यद्यप्येवंप्रकारस्त्वद्ध भविष्यति तथापीदानीमेव या त्वद्धर्मेण विद्यमानतया निष्पाद्या सा अस्मद्धर्मेणैव निष्पाद कत्वेन व्यतिस्ते । ततश्चान्य सम्बन्धिनीं क्रियामन्यः करोति इतरसम्बन्धिनीमि- तर इति धर्मव्यतिहारसम्भवात् । अस्तेः '२६८०० कर्मव्यतिहारे ।१।३।१४। तङ् । तथाहि यो यदवसरे यां कांचित् क्रियां करोति स तत्क्रियाकारीत्युपचा- राल्लोक उच्यते । येन धर्मेण हेतुना ब्रह्मद्विषस्ते प्रणिहन्मि मारयामि स व्यति- स्ते इति योज्यम् । '२२८५ । नेर्गद- ।८।४।१७।' इत्यादिना णत्वम् । '६१७॥ जासि-नि- २।३।५६ ।' इत्यादिना कर्मणि षष्ठी। तथा कथं तव धर्म इति चेदाह- राजन्यवृत्तिरिति । क्षत्रियवृत्तिः । ततो राज्ञोऽपत्यम् । ११५३ । राजश्वशुराद्यत् ।४।१।१३७।'। '११५४। ये च ।६।४।१६८।' इति प्रकृतिभावः । धृतं कार्मुकम् इष- वश्च येन सः । यतः अहं राजन्यवृत्तिः ततोऽहं धृतकार्मुकेषुरिति । 'धृतकार्मुके इति पाठान्तरम् । क्व राजन्यवृत्तिः सायुधेष्वित्यर्थः ॥ ६३ - इत्थं प्रवादं युधि संप्रहारं प्रचऋतू राम - निशा - विहारौ ॥ १ – '१३४७ धर्माः पुण्य-यम-न्याय-स्वभावाचा- रसोम-पाः' इति ना० अ० । भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः, तृणाय मत्वा रघु-नन्दनो ऽथ बाणेन रक्षः प्रर्धनान् निरास्थत् ॥ ३६ ॥ इत्थमित्यादि – इत्थम् अनेन प्रकारेण प्रवादः अन्योन्याभिधातो यत्र संत्र- हारे तं संप्रहारं परस्पराभिभवलक्षणं प्रकृतवन्तौ । युधि रणभूमौ । युध्यन्ते अस्यामिति । सम्पदादित्वादधिकरणे किप् । रामनिशाविहारौ । रामो निशावि- हारो निशाचरो मारीचश्वेत्यर्थः । निशायां विहारो यस्येति समासः । अथानन्द रघुनन्दनो रघुवंशस्य नन्दयिता रामो रक्षः मारीचं वाणेन तत्सम्बन्धिनि सत्यपि तृणाय मत्वा तृणमिव अवमत्य -। '५८४ । मन्यकर्मण्यनादरे- । २।३।१७।' इति चतुर्थी तत्र प्रकृष्टकुत्सितग्रहणं कर्तव्यम् । इह मा भूत् । तृणं मध्वेति । प्रधनात् संग्रामात् निरास्थत् अपनीतवान् ॥ ६४ - जग्मुः प्रसादं द्विज-मानसानि, द्यौर वर्षका पुष्प-चयं वभूव ॥ निर-व्याजर्मिज्या ववृते. वचश् च भूयो बभाषे मुनिना कुमारः ॥ ३७ ॥ जग्मुरित्यादि — यागविघ्नकारिपु निरस्तेषु द्विजानां मानसानि मनांस्येव मानसानि । '२१०६ । प्रज्ञादि - ५१४ । ३८।' इत्यण् । प्रसादम् अव्याकुलस्वं जग्मुः तानि । '२३६३ ।' गम । ६१२१९८।' इत्युपधालोपः । द्यौः पुष्पचयं वर्षका वर्षण- शीला बभूव भवति स्म । '३१३४ । लप-पत-पद- ३।२।१५४।' इत्यादिना उकज् । '६२७ । न लोका– ।२।३।६९। इति पष्टीप्रतिषेधः । निर्व्याजं निर्विघ्नम् । इज्या यागः । '३२७५ । ब्रज-यजोर्भावे - ।३।३।९८।' इति क्यप् । ववृते वृतः लिट् । भूयः पुनरपि मुनिना गाधेयेन । कुमारः । अकृतदारकर्मत्वात् । वचो वक्ष्य- माणं बभापे । कर्मणि लिट् । बुवीत्यर्थग्रहणात् द्विकर्मकता । वचः कुमारश्च ॥ ६५ - महीय्यमाना भवताऽतिमात्रं सुराऽध्वरे घस्मैर-जित्वरेण ॥ दिवोऽपि वज्राऽऽयुध-भूषणाया हिणीयते वीरवती न भूमिः ॥ ३८ ॥ १ – ८६९ । युद्धमायोधनं यिकम् ॥' इति ना० अ० । भक्षको घस्मरो ऽमरः । जन्यं प्रधनं प्रविदारणम् ॥ मृधमास्कन्दनं संख्यं समीकं साम्परा२ – १२३६ । दन्त- विप्राण्ड=जा द्विजाः ।' ३–'१०६५। ४–१८४२ जेता जिष्णुश च जित्वरः ॥ इति सर्वत्र ना० अ० । तथा लक्ष्य रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः-- महीत्यादि – भवता भूमिः पृथिवी महीय्यमाना पूज्यमाना । अतिमात्रं सुष्टु सम्यक् पालनाहिवोऽपि स्वर्गस्य न हिणीयते न लज्जते किंतु प्रतिस्पर्धत इति भावः । '२१३८ । हिणी महीङ्' इति कण्ड्यादिपाठाद्यक् । ङित्वात्तङ् । अवयवे कृतं लिङ्ग समुदायस्य विशेषकं भवतीति महीयशब्दात्कर्मणि लकारः । शानच् । यक् । अतो लोपः । मुक् । महीय्यमानेति रूपम् । सुराध्वरे सुरानुद्दिश्य योsध्वरो यज्ञः क्रियते तत्र । वस्मरा: अदनशीला राक्षसाः । '३१४०। सुघ- स्यदः क्मरच्–३।२।१६०।' तेषां जित्वरेण जयशीलेन भवता । '३१४३ । इण् नश्-जि-३।२॥१६३।' इत्यादिना करप् । बज्रायुधभूषणायाः शक्र एवालङ्कारो यस्याः दिवः । वीरवती त्वद्विधो वीरो यस्त्रां भूमाविति ॥ संक्षेपेण स्तुतिमाह ६६ वलिर् वबन्धे, जल-धिर् ममन्थे, जहेऽमृतं, दैत्य-कुलं विजिग्ये, ॥ कल्पाऽन्त दुःस्था वसुधा तथहे येनैप भारोऽति - गुरुर् न तस्य ॥ ३९ ॥ । वलिरित्यादि – येन भवता बलिर्बबन्धे बद्धः । जलधिर्ममन्थे सथितः । मन्दरं दोर्भिगृहीत्वा । '४३ । मन्थ विलोडने ।' इत्यस्य रूपम् । संयोगान्तत्वा- लिटोsकित्चे अनुनासिकलोपो न भवति । जद्वेऽमृतम् । स्त्रीरूपधारिणा । दैत्य- कुलं विजिग्ये विजितमनेकधा । '२३३१॥ सन्- लिटोर्जेः ।७।३।५७ ।' इति कुत्वम् । '२७२ । एरनेफाचः ।६।४।८२॥ इति यणादेशः । तथा कल्पान्ते प्रलये दुःस्था दुःस्थिता वसुधा पृथिवी । ऊहे उद्धृता । वराहरूपिणा । वहेर्यजादित्वात् संप्र- सारणम् । तस्य भवत एष भारो मुनिजनरक्षणम् अतिगुरुर्न भवति । सर्वत्र कर्मणि लिद ॥ ६७ - इति ब्रुवाणो मधुरं हितं च तमा॑जिहन् मैथिल-यज्ञ-भूमिम् ॥ रामं मुनिः प्रीत-मना मखाऽन्ते यशांसि राज्ञां निजिघृक्षयिष्यन् > ॥ ४० ॥ इतीत्यादि — इति यथोक्तप्रकारेण मधुरं श्रोत्रसुखं हितं च ब्रुवाणः अभिदधानः । '३१०३ । लक्षण हेत्वोः - ३।२।१२६।' इति शानच् । मुनिः प्रीतमनाः मखान्ते यज्ञावसाने तं रामं मैथिलस्य यज्ञभूमिं आजिहत् गमितवान् मिथिलानां राजेति । '११८६ । जनपदशब्दात् क्षत्रियाद ।४।१।१६८।' इत्यत्र तस्य राजन्यपत्यवदित्यतिदेशादञ् । '६७८। अहिं गतौ ।' '२२६२ । इदितो नुम् - ७॥१॥ ५८ ।' प्रयोजकव्यापारे णिच् । लुङ् आटू चङि णिलोपः । '२२४३ । द्विवेचनेऽचि । १।१।५९॥ इति स्थानिवद्भावात् '२१७६ । अजादेर्द्वितीयस्य ।६।१।२।' इति हिशभ० का० ४ ३८ भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-पे द्वितीयो वर्गः, उस द्विचनम् । '२४५६ नन्द्राः - ६ । १।३।' इति नकारस्य प्रतिषेधः । अभ्या- सकार्यम् । आहिदिति रूपम् । राज्ञां यशांसि निजिवृक्षयिष्यन् निग्रहीतुम- भिभवितुमेषयिष्यन् । ग्रहे: सन् । '२६१० । सनि ग्रह-गुहोश्च ॥२।१२। इति इप्रतिषेधः । द्विवचनादि । १६०९ । रुद्र-विद ॥२॥ इत्यादिना सनः किम् । '२४१२॥ ग्रहि-ज्या । ६।१।१६।' इत्यादिना संप्रसारणम् । ढव्वभप्रभावौ । गकारस्य घकारः । कत्वषत्वे । पश्चाण्णिच् । तद्न्ताद्भविष्यत्सामान्यविवक्षायां लट् । तेन भविष्यद्नद्यतने लुट् न भवति ॥ । > ६८ - एतौ स्म मित्रा-वरुणौ किमतौ, किम॑श्विनौ सोम-रसं पिपासू ॥ जनं समस्तं जनाऽऽश्रम-स्थं रूपेण तावौजिहतां नृ-सिंहौ ॥ ४१ ॥ — एतावित्यादि – एतौ तत्रागतौ नृसिंहो नरौ सिंहाविव । जनकाश्रमस्थं जनं रूपेण स्वरूपतया औजिहतां वितर्क कारितवन्तौ । सिंहाविव । '६९५। ऊ वित- र्के ।' इत्यस्तोः ण्यन्तात् कर्तुः क्रियाफलाविवक्षायां '२५६३ । णिचश्च ।३।३। ६४ ।' इति तङ् न भवति । चङि णिलोपस्य स्थानिवद्भावात् । '२१७६३ अजादेहिं दीयस्य ।६॥२।' इति द्विवचनम् । ऊहमाह - मित्रावरुणौ आदित्यवरुणौ । '९२२ । देवता-द्वन्द्वे च ।६।३।२६।' इत्यानङ् । तयोर्महानुभावत्वात् । मोमरमं पिपासू पातुमिच्छू । '६२७॥ न लोका- । २।३।६९ । इनि षष्टीप्रतिषेधः । एतावा- गतौ । आङ्पूर्वस्यैणो निष्टायां रूपम् । किमश्विनौ अश्विनीकुमारौ सोमरमं पिपासू ताविति । एवं जनम् औजिहताम् । सुशब्दपाठे एतौ सुमित्रति पाठः । गुतो स्म मित्रेति स्मशब्दो निपातः पादपूरणार्थः ॥ ६९ - अजिग्रहत् तं जनको धनुस् तद् 'येऽद् दैत्य- पुरं पिनाकी', ॥ जिज्ञासमानो बलम॑स्य बाह्वोर्. हस अजिग्रहदित्यादि – येन धनुषा दैत्यपुरं पिनाकी महादेव आदित् हिंसितवान् । अर्दे: स्वार्थिकण्यन्तात् चङि । '२१७६ । अजादेद्वितीयस्य ।७११।२।' इनि दिशब्दो विरुच्यते । रेफस्य प्रतिषेधः । तद्धनुः तं रामं जनकः अजिअहत् योधितवान् । रघुनन्दनस् तत् ॥ ४२ ॥ . १ – नृ-सिंहावित्युपमान- पूर्वपदः कर्मधारय समासस्तत्रोदाहरणं समास- कुसुमावल्याम् '- रामोऽयं पुरुषव्याघ्रः संवृतः कपि-कुंजरैः ॥ हनिष्यति बाद युद्धे रावणं राक्षसर्षभम् ॥ १७ ॥' । 'स्युरुत्तरपदे व्याघ्र पुनवर्षभ- कुञ्जराः ॥ ११०५ । सिह-शार्दूल-नागाऽऽथा: पुंसि श्रेष्ठार्श्वगोचराः ॥" इति ना० अ० । तथा लक्ष्य-रूपे कथान के सीता-परिणयो नाम द्वितीयः सर्गः - ३९ अनेन धनुषा त्रिपुरं दग्धमिति । ग्रहेर्हेतुमण्ण्यन्ताच्चङि णिलोपः । '२३१४१ णौ चङ् – ।७।४।१॥' इति ह्रस्वः । सन्वद्भावाद्वित्वम् । ग्रहेश्च बुद्ध्यर्थत्वात् । '५४०३ गतिबुद्धि-।१।४।५२।' इत्यादिना रामस्य कर्मसंज्ञा । अस्य रामस्य बाह्वोर्भुजयो- र्बलं जिज्ञासमानो जनकः । एवंभूतं धनुः हसन् स्मयमानो रघुनन्दनो रामः अभाङ्क्षीत् भग्नवान् । भञ्जेर्लुङि सिचि हलन्तलक्षणा वृद्धिः । तत्र हि हल- ग्रहणं समुदायप्रतिपत्त्यर्थमित्युक्तम् ॥ ७० - ततो नदी ष्णान् पथिकान् गिरि-ज्ञा- ना॑ह्वायकान् भूमि-पतेर॑योध्याम् ॥ दित्सुः सुतां योध-हरैस् तुरङ्गैर् व्यसर्जयन् मैथिल- मर्त्य मुख्यः ॥ ४३ ॥ .. तत इत्यादि —–— धनुर्भङ्गादनन्तरं महानयमिति ज्ञात्वा जनकः सुतां दुहितरं दित्सुः दातुमिच्छुः । ददातेः । '२६२३। सनि मी मा ।७।४।५४ ।' इत्यादिना अच इस् । द्विर्वचनम् । '२६२०/ अत्र लोप - ।७।४।१८।' इत्यभ्यासलोपः । '२३२७ । सः सि–७॥४॥७९॥ इति तत्वम् । '३१४८ । सनाशंस भिक्ष उः ।३।२। १६८।' भूमिपतेर्दशरथस्य आह्वायकान् आह्वयन्ति आकारयन्तीति कर्तरि बुल । ' २७६१ । आतो युक्- ।७।३।३॥ कृत्प्रयोगे भूमिपतेः कर्मणि षष्टी । तान् अयोध्यां व्यसर्जयत् विसर्जितवान् । विपूर्वस्य सृजेर्हे तुमण्ण्यन्तस्य लङि रूपम् । गत्यर्थत्वात् द्विकर्मकता । नद्यां स्त्रान्तीति नदीष्णाः । '२९१६ । सुपि स्थः ।३।२। ४ । ' योगविभागात्कः । '२३७२ । अतो लोपः-।६।४।४॥ ३०८२ । नि नदी भ्यां स्नातेः- ।८।३।७९॥ इति षत्वम् । नदीं तरीतुं कुशलानित्यर्थः । पथिकान् पथि कुशलान् । '१८६३ । तत्र कुशलः पथः ।५।२।६३॥ इति ठक् । गिरिज्ञान् । यथाप्रदेशं गिरिज्ञान् । '२८९७ । इगुपध-।३।१।१३५।' इत्यादिना कः । तुरङ्गैः अश्वैः करणभूतैः । युध्यन्त इति योधाः । पचाद्यच् । तानाहर्तुं क्षमैः । '२९२४ वयसि च ।३।२।१०।' इत्यच् । हसिमृग्रिण्वामिदमिल पूर्विभ्यस्तन्' इत्यौणादि- कस्तन् । म्रियन्ते प्राणिनोऽस्मिन्निति मर्त्यो भूर्लोकः । तत्र भवा मर्त्या मनुष्याः । 'दिगादेराकृतिगणत्वात् यत् । आकृतिगणत्वस्य लिङ्गं 'देवमनुष्यपुरुषपुरुमर्येभ्यः' इति निर्देशः । मुखमेव मुख्यः प्रधानम् । '२०५८ शाखादिभ्यो यत् । ५।३।१०३।१। मर्त्यानां मुख्यो मर्त्यमुख्यः । मैथिलश्चासौ मर्त्यमुख्यश्चेति विशेषणसमासः । जनक इत्यर्थः ॥ ७१ - क्षिप्रं ततो ऽध्वन्य-तुरङ्ग-यायी यविष्ठ वद् वृद्ध तमो ऽपि राजा ॥ आख्याय केभ्यः श्रुत- सूनु-वृत्तिरे - ग्लान- यानो मिथिलामंगच्छत् ॥ ४४ ॥ भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः, क्षिप्रमित्यादि — आख्यान्ति कथयन्ति ये ते आख्यायकान्तेभ्यः सुनुवृत्तिर्येन स राजा दशरथः । सूयत इति सूनः पुत्रः । 'दाभाभ्यां दुः' इति वर्तमाने 'सुवः किञ्च' इत्यौणादिको नुप्रत्ययः । ततोऽनन्तरमेव क्षिमं शीघ्रम् । 'स्फायि तञ्चि-' इत्यादिना रक् । क्रियाविशेषणं चैतत् । मिथिलामगच्छत् । भरतशत्रुघ्नाभ्यां सहेत्यर्थादनुषक्तव्यम् । गमेर्लंङि '२४००१ इयु गमि-यमां छः ३७।३।७७।' अध्वानम् अलंगामिनो ये तुरङ्गा अश्वाः ते अध्वन्याः । अहंगामीत्यस्मिन्नर्थे '१८१७। अध्वनो यत्-खौ ।५।२।१६।' इति यत् । ११५६॥ ये चाभावकर्मणोः ।६।४।१६८।' इति प्रकृतिभावः । तैः साधु यातीति साधुकारिणी णिनिः । अध्वन्यतुरङ्गयायी । एवं च कृत्वा अग्लानयानः न विद्यते ग्लानं ग्लानिर्यम्मि न्याने तत् अग्लानं । अग्लानं यानं यस्य । तादृशैस्तुरः सुख़यानः । ग्लानेन भावे निष्ठा । '३०१७। संयोगादेरातः ।८।२।४३।' इति नत्वम् । वृद्धतमोऽपि यविष्टदन् । युवशब्दस्येष्टाने २०१५ । स्थूल-दूर । ६।४।१५६।' इत्यादिना यणादिपरलोपः पूर्वस्य च गुणः । पश्चात् '१७७८ । तेन तुल्यम्- ।५।१।११५॥' इति वतिः ४० ७२ - वृन्दष्ठमचद् वसुधाऽधिपानां तं प्रेष्ठ गुरु-वद् गरिष्ठम् ॥ सहङ्-महान्तं सुकृताऽधिवासं बंहिष्ठ-कीर्ति यशसा वरिष्ठम् ॥ ४५ ॥ वृन्दिष्टमित्यादि – तं राजानमेतमायान्तं जनक आर्चीत् पूजितवान् । अर्च र्लुङि रूपम् । वृन्दिष्टं वृन्दारकतमम् । प्रशस्ततममित्यर्थः । केषां वसुवाधिपानां पृथ्वीपतीनाम् । श्रेष्टं प्रियतमम् । गुरुवत् गुरुणा तुल्यं वर्तमानं गरिष्टम् गुस्तम- म् । सदृक् समानान्ययोश्चेत्युपसंख्यानाद् ः विप् । रूढिशब्दश्चायम् । नाय दर्शनक्रिया विद्यते । अभिजनादिभिस्तुल्यो जनक इत्यर्थः । महान्तं महानुभावं सदृशां मध्ये महान्तम् । सुकृताधिवासं सुकृतनिलयम् । अधिवसत्यस्मिन्निति अधिकरणे घज् । बंहिष्ठा बहुलतमा कीर्तिर्यस्य स बंहिष्ट-कीर्तिः । यशसा वरिष्टं गुरुतमम् । अत्र वृन्दारकप्रियगुरुबहुलोरूणामिष्टनि यथासंख्यं '२०१६ । प्रिय-स्थिर –।६।४।१५७ ।' इत्यादिना वृन्दप्रगहवर इत्येते आदेशा भवन्ति ॥ ७३ - त्रि-वर्ग- पारीणम॑सौ भवन्त- म॑ध्यासयन्नसन मैकमैन्द्रः ॥ १- '११५७। क्षेपिष्ठ-क्षोदिष्ठ-प्रेष्ठ - वरिष्ट स्थविष्ठ- बंहिष्टाः ॥ क्षिप्र क्षुद्रामीप्सित-पृथु-पीवर:बहुल-प्रकर्षाऽर्थाः ॥११५८ साधिष्ठ-द्राधिष्ठ-स्फेष्ठ-गरिष्ठ - हसिष्ठ वृदिष्ठाः ॥ बाढव्यायत-बहुगुरुचामन-वृन्दारकाऽतिशये ॥" इति ना० अ० । २ – त्रिवर्गो धर्मकामाऽर्थेश चतुर्-वर्ग: सन्मोक्ष-कैः, ॥ ७६६ । सबलैस् तैश् चतुर्-भगम्. ।' " तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः विवेक-दृश्व त्वम॑गात् सुराणां, तं मैथिलो वाक्यभिदं बभाषे ॥ ४६ ॥ त्रिवर्गेत्यादि – तं दशरथं सैथिलो जनकः वाक्यमिदं बभाषे । ब्रवीत्यर्थ- हणात् द्विकर्मकता । किं तवाक्यमित्याह – असाविन्द्रो भवन्तम् एकासनमध्या- सयन् आरोदयन् विवेकश्वत्वमगादिति संबन्धः । आसनस्य १५४२ । अधिशीङ्- ।१।४।४६।' इत्यादिना अधिकरणे कर्मसंज्ञा । भवन्तमिति ५५० गति बुद्धि- ।१।४।१२।' इत्यादिना अस्तेरण्यन्तावस्थायामकर्मकत्वात् पारंगामी त्यस्मिन्याक्ये '१८१२। अवार-पार - ।५।२।११।' इत्यादिना पारशब्दात् खः । तत्र विगृहीत विपर्य- स्तग्रहणात् । त्रिवर्गस्य धर्मार्थकामस्य पारीणमिति षष्टीसमासः । त्रिवर्गपारीणं भवन्तम् । सुराणां मध्ये स एवैको विवेकश्वत्वं विवेकज्ञतासगात् । '२४५८॥ इणो गाङ ।२॥४।४॥२२२३ गति-स्था- । २१४१७७१' इत्यादिना सिचो लुक् । विवेकं दृष्टवानिति शे: वनिप् ॥ ७४ - हिरण्मयी साल - लतैव जङ्गमा ४१ च्युता दिवः स्थास्वा॒ऽचिर-प्रभा ॥ शशाङ्क-कान्तेर॑धिदेवता॒ऽऽकृतिः सुतां ददे तस्य सुताय मैथिली ॥ ४७ ॥ . हिरण्मयीत्यादि — तस्य दशरथस्य सुताय रामाय । सूयत इति सुतः । '१००७। षु प्रसवैश्वर्ययोः' इत्यस्मात् कर्मणि निष्ठा । सुता मैथिली सीता दढ़े जनकेनेत्यर्थात् । कर्मणि लिट् । मैथिलस्यापत्यं '१०९५ । अत इञ् ।४।११९५१ तद न्तात् '५२०। इतो मनुष्य-जातेः ।४।१॥६५॥ इति ङीप् । रामस्य ज्येष्ठत्वात्तस्यैव कविना परिणय उक्तः न शेषाणाम् । तेन अन्या अपि तदैव दुहितरो दत्ताः । हिरण्मयी सुवर्णनिर्मितेव साललता वृक्षलता। सुवर्णच्छ विश्वात् तस्याः । हिरण्यविकार इति मयटि ११४५ । दाण्डिनायन-।६।४।१७४ ।' इत्यादिना यलोपनिपातनम् । जंगमा संचारिणी नतु स्थावरा । अत्यर्थ गच्छतीति यङि '२६४३। नुगतः - ।७।४।८५॥' इति नुक् । यङन्तास्पचाद्यचि '२६५०। यङोऽचि च । २।१४।७४ ।' इति यङो लुक् । च्युता दिवः आकाशापतिता । अचिरप्रभेव विधुदिव तेजस्वित्वात् तन्वीत्वाञ्च । किन्तु स्थानुरचञ्चला । सा तु चञ्चलेति व्यतिरेकः । '५२१ । अतः ।४।१॥६६॥ इति ऊ न भवति क्रियाशब्दत्वात् । तत्र मनुष्यजातेरिति वर्तते । शशाङ्ककान्तेर्याधिदेवता अधिष्ठात्री देवता तस्या आकृतिर्यस्याः । सौम्यत्वात् । आक्रियते अनयेत्याकृतिः संस्थानम् । '३१८८ । अकर्तरि च कारके - ।३।३।१९।' इति स्त्रियां किन् । १-~~'आत्म-जस् तनयः सूनुः सुतः पुत्रस्, स्त्रियां त्व॑मी ॥ ५९१ । आहुर् दुहितरं सर्वे ऽपत्यं तोकं तयोः समे । इति सर्वत्र ना० अ० । भट्टि-काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीय वर्गः ७५ - लब्धा ततो विश्वजनीन-वृत्तिस्- तामात्मनीनार्मुदवोढ रामः ॥ सद्-रत्न-मुक्ता-फल-भर्म-शोभां संबंहयन्तीं रघु-वर्ग्य - लक्ष्मीम् ॥ ४८ ॥ लब्धामित्यादि — ततो दानानन्तरम् लब्धां तामात्मनीनाम् आत्मने हिता- म्। '१६७०। आत्मन्विश्व- ।५।१।९।' इति खः । रामः उदवोढ । वढेः स्वरितेत्त्वात् कर्तुः क्रियाफलविवक्षया तङ् । विश्वजनीना विश्वजनाय हिता वृत्तिः प्रवृत्तिर्यस्य रामस्य सः । पूर्ववत् खः । सती उत्कृष्टा रखादिशोभा यस्याः । तैरलंकृतत्वात् । तां सद्- वमुक्ताफलभर्मशोभाम् । भर्म स्वर्णम् । सर्वधातुभ्यो मनिन् । 'भर्म भूषाम्' इति पाठान्तरम् । सद्लादिभूपा अलंकारो यस्या इति योज्यम् । '३२८० । गुरोच हलः ।३।३।१०३।' इत्यकारः । संवहयन्तीं संबहुलामतिस्थिरां कुर्वाणाम् । बहुलश- व्दात् 'तत्करोति - ' इति णिचि इष्टवद्भावात् '२०१६ । प्रिय-स्थिर ।६।४।१५७१' इत्यादिना वंहादेशः । पश्चात्तदन्तस्य संपूर्वस्य साधनेन योगः । कामित्याह- रघुवर्ग्यलक्ष्मीमिति । रघुवर्गे भवां विभूतिम् । '१४४२ । वर्गान्ताच्च ।३।३॥३॥ इत्यनुवृत्तौ '१४४३ । अशब्दे यत्वावन्यतरस्याम् । ४ । ३।६४ ।' इति यत् ॥ ७६–सु-प्रातमा॑सादित-संमदं तद् वन्दारुभिः संस्तु॒तम॑भ्य॒योध्यम् ॥ अश्वीय-राजन्यक-हँस्तिका॒ऽऽढ्य- म॑गात् स-राजं वलम॑ध्वनीनम् ॥ ४९ ॥ सुप्रातेति - विवाहं निर्वर्त्य प्रभाते अयोध्याभिमुखं तद्दलं दशरथस्यागान् गतवत् । सुप्रातं निरुपद्रवत्वात् । शोभनं प्रातर्दिनमुखं यस्य बलस्य । '८६०। सुप्रात-सुश्व-/५/४/१२०।' इत्यादिना समासान्तष्टिलोपश्च निपात्यते । आसादिनसंमदं प्राप्तहर्षम् । '३२४५ । प्रमद - संमढ़ौ हर्पे । ३।३।६८।' इति निपातनम् । वन्द्वारुभिः संस्तुतं कृतस्तवम् । अभ्ययोध्यम् अयोध्याभिमुखम् । '६६८ । लक्षणेनाऽभि-प्रती आभिमुख्ये ।२।१।१४।' इति अव्ययीभावः । अश्वानां समूहो अश्वीयम् - १२५७ । केशाश्वाभ्यां यञ्छौ।४॥४८ इति छः । राजन्यानां क्षत्रियाणां समू४२ २ – ९८० । स्वर्ण सुवर्ण कनकं हिरण्यं हेम हाटकम् । तपनीयं शातकुम्भंगायं भर्म कर्वुरम् ॥' इति ना० अ० । २ – मुत् प्रीतिः प्रमदो हर्पः प्रमोदाssमोद-संमदाः ॥ १४७ यादा॑न॒न्दथुरानन्दः शर्म-शात सुखानि च. ।' ३ – '८१३ । वृन्दे त्वैश्वीयमाश्व॑वत्' ॥ ४–'७६९ । अथ राजकम् । राजन्यकं च नृपति क्षत्रियाणां गणे क्रमात् ॥' ५–८०२ हास्तिकं गजता वृन्दे ॥ ६-७८२ । अध्वनीनोऽध्वगो ध्वन्यः पान्थः पथिक इत्यपि ॥" तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः४३ हो राजन्यकम्। '१२४६ । गोत्रोक्ष - १४ ।२।३१।' इत्यादिना वृञ् । 'प्रकृत्याके राजन्यमनुष्ययुवानः' इति प्रकृतिभावादपत्ययकारलोपो न भवति । हस्तिनां समूहो हास्तिकम् । '१२५६ । अचित्त-हस्ति-१४/२।४७ ।' इति ठक् । एषां सेनाङ्गत्वात् द्वन्द्व एकवद्भावः । तेनाढ्यमुपचितमिति तृतीयेति योगविभागात् समासः । सह राज्ञेति विगृह्य साकल्यवचने यौगपद्ये वाव्ययीभावः । १६६० । अव्ययीभावे चाकाले - १६।३।८१॥ इति स-भावः । '६७८। अनश्च - ।५।४।१०८।' इति टच् समासान्तः । अध्वनीनमध्वानमलंगामीति '१८१७ ॥ अध्वनो यत्-खौ ॥२।१६। ११६७१ । आत्माध्यानौ से । ६।४।१६९।' इति प्रकृतिभावः ७७ - विशंङ्कटो वक्षसि बाण-पाणिः संपन्न - ताल-द्वयसः पुरस्तात् ॥ भीष्मो धनुष्मानु॑पजान्वरलि- रैति स्म रामः पथि जामदग्न्यः ॥ K विशङ्कटेत्यादि — एवमस्य गच्छतः पथि मार्गे । सप्तम्यां '३६८॥ भस्य टेर्लोपः ।७।११८८।' पुरस्तादग्रतः । १९६६। अस्ताति च ।५।३।४० ।' इति पूर्वस्य पुरादेशः । रामो जामदयः । जमदग्नेरपत्यं रामोऽयम् । गर्गादिपाठाद्यत् । स ऐति स्म आगतवान् । पूर्वाद लट् । '७३ । येसु ।६॥१।८९॥ इति वृद्धिः । विशङ्कटो वक्षसि विशाल उरसि । '१८२९ । वेः शालच्छङ्कटचौ ।५।२।२८। इति शङ्कटच् । बाणः पाणावस्येति बाणपाणिः । 'प्रहरणार्थेभ्य' इत्यादिना सप्तम्य- न्तस्य परनिपातः । संपन्नो निप्पन्नो यस्तालवृक्षः स प्रमाणं यस्य स तथोक्तः । '१८३८ । प्रमाणे द्वयसच्- । ५।२।३७ ।' भीयते अस्मादिति भीष्मः । 'भियः पुग्वा' इति औणादिको मक्प्रत्ययः । वा पुगागमश्च । '३१७३ । भीमादयोऽपादाने ॥३॥ ४॥७४।' इत्यपादाने साधुः । धनुष्मान् धनुषा युक्तः । संसर्गे मतुप् । जानुनोः समीपमुपजानु । सामीप्येऽव्ययीभावः । उपजानु अरतिर्यस्य स तथोक्तः प्रल- म्बबाहुरित्यर्थः ॥ ७८ - उच्चैरसौ राघवमा॑ह्ववे॑दं धनुः स वाणं कुरु, माऽतियासीः ॥ पराक्रम-ज्ञः प्रिय-सन्ततिस तं नम्रः क्षितीन्द्रो ऽनुनिनीषुरूंचे ॥ ५१ ॥ · उच्चैरित्यादि — उच्चैर्ममता ध्वनिना राघवं दाशरथिं एवं वक्ष्यमाणमाहृत १- ११०६ । विशङ्कदं पृथु बृहद् विशालं पृथुलं महत् ।" इति सर्वत्र ना० अ० । २ - 'भूम- निन्दा - प्रशंसा सु नित्य- योगेऽति-शायने ॥ संसर्गेऽस्ति - विवक्षायां भवन्ति मतुवादयः ॥ १ ॥' इति वै० भ० । ३ – 'रामम्' इति वा क्वचित्पाठः ॥ भट्टिकाव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्गः, 1 आहूतवान् । '२७०४॥ स्पर्धामाङः ।१।३।३१।' इत्यात्मनेपदम् । २६९६। आत्म- नेपदेष्वन्यतरस्याम् ।२।४।४॥ इति चलेर । धनुः सवाणं कुरु । धनुषि बाण- मारोग्य युद्धाय सज्जीभवेत्यर्थः । मातियासी: मातिक्रम्य गमनं कार्योः । याने मीङि लुङ् । अडभावः । २३७७॥ यम-रम-नमातां सक ।७।२।७३।' इति इद ।' ८२२६६ । इट ईटि-।८।२।२८।' इति सिचो लोपः । अथ क्षितीन्द्रो दशरथः तमूचे । '२४५३। जुत्रो वचिः २४४ । आदेशस्य स्थानिवद्भावेन कर्तुः क्रियाफलावे- वक्षायां तङ् न । वचेः परस्मैपदित्वात् ।' २४०९। वचिस्वपि ।६।३।१५ इत्यादिना संप्रसारणम् । पराक्रमज्ञः यतस्तस्य पराक्रमं जानानि राजा । प्रियसन्ततिः प्रिया सन्ततिर्यस्य । रामे व्यापादिते मा भूत्सन्तानविच्छेद इति नम्रः प्रणतो भूत्वा अनुनिनीपुः अनुनेतुमिच्छुः ॥ । ४४ तद्नुनयमाह७९ - अनेक शो निर्जित-राजकंस त्वं, पिताप्सर् नृप-रक्त-तोयैः ॥ संक्षिप्य संरम्भर्म - सद्-विपक्षं, का SSस्था ऽर्भके ऽस्मिस्व राम ! रामे. ५२ अनेकश इत्यादि – संरम्भ क्रोधं संक्षिप्य उपसंहर । क्षिपेः लोटि मध्य- मैकवचने रूपम् । इयन् । एकमेकमिति विगृह्य । '२११० सङ्ख्यैकवचनाच- १९४।४३॥ इति शस् । पश्चान्नञ्समासः । अनेकशोऽनेकप्रकार मिति क्रियावि शेषणमेतत् । निर्जितं पराजितं राजकं राज्ञां समूहों येन स निजितराजकः । '१२४६ गोत्रोक्ष - । ४।२।३९१९ । इत्यादिना वुन् । त्वं पुनः पितृनतासः प्रीणि- तवानसि । कै:- नृपरक्ततोयैः । '१२७१। तृप प्रीणने ।' इत्यस्माल्लुङ् । सिच् । हलन्तलक्षणा वृद्धिः । असद्विपक्षम् असन्न विद्यमानो विपक्षो यस्मिन् संरम्भे । निर्जितराजकत्वात् । रामो विपक्ष इति चेदाह-कास्थार्भकेऽस्मिंस्तव राम रामे । हे परशुराम अर्भके वालके-रामे तव का आस्था क आदरोऽम्ति । नैवेत्यभिप्रायः ॥ ८० - अजीगणद् दाशरथं न वाक्यं यदा स दर्पेण तदा कुमारः ॥ धनुर् व्यकाङ्क्षद् गुरु बाण - गर्भ, लोकार्नलावीद् विजितांश्च तस्य ॥ ५३ ॥ अजीगणदित्यादि – दाशरथं दशरथस्येदं दाशरथम् । '१५००। सस्येदम् । टीकनं १ – वामभागीयैकोनपञ्चाशत्तमा (४९) पद्यगत राजन्यक-शब्दोपरितनं प्रेक्ष्यताम् । तथा लक्ष्य-रूपे कथानके सीता-परिणयो नाम द्वितीयः सर्गः- । ४ । ३॥२०।' इत्यण् । वाक्यं वचनम् । यदा दर्पण मदेन हेतुना स जामद- इयः नाजीगणत् न गणितवान् । '१९९६ । गण संख्याने ।' इत्यस्यादन्तत्वान वृद्धिः । २३१५ । चङि ।६।१।१५।' इति द्विवचनम् । ८२५७३ । ई च गणः । ।७।४।१७।' इति अभ्यासस्येकारः । तदा कुमारो रामो धनुर्व्यकाक्षत् आकृ- टवान् । '१०५९॥ कृप आकर्षणे ।' स्पृशमृशेत्यादिनोपसंख्यानेन सिचि पक्षे रूपम् । हलन्तलक्षणा वृद्धिः । ८२९५॥ ष-ढोः कः सि ।८१२॥४१॥ इति ऋत्वम् । कृतदारकर्मापि पुत्रः पितरि जीवति कुमार इति व्यपदिश्यते । गर्भयतीति गर्भ: । गुरुर्खाणो गर्यो यस्य धनुपः । लोकांश्च स्वप्रभावाद्विजि- तान् । तस्य परशुरामस्य । अलावीत् छिन्नवान् । लुनातेर्लुङि सिचि वृद्धौ रूपम् । समुच्छिद्यन्तामस्य लोका इति अमोघमस्त्रं मुक्तवानित्यर्थः । ततःप्रभृति तस्य सर्वं तेजोऽपहृतम् ॥ ८१ - जिते नृपडरौ, सुमनीभवन्ति शब्दायमानान्य॑ - शनैरं - शङ्कम् ॥ वृद्धस्य राज्ञो ऽनुमते बलानि जगाहिरे ऽनेक मुखानि मार्गान् ॥ ५४ ॥ जित इत्यादि - जिते नृपारौ । परशुरामे बलाने सैन्यानि मार्गन् पथः । जगाहिरे अवष्टब्धवन्ति । वृद्धय राज्ञो दशरथस्यानुमते सति गच्छतेति । जामद- यसंरम्भादसुमनांसि सुमनांसि सन्ति सुमनीभवन्ति बलानि । '२१२१ । अरु- र्मन-१५॥४॥५१॥' इत्यादिना च्वावन्त्यस्य लोपे ' २११८ । अस्य च्वौ ।७।४।३२।' इतीत्वे रूपम् । शब्दायमानानि । अशनैः सुष्टु शब्दं कुर्वाणानि । एवं जित- स्तथा जितो नृपारिरिति । '२६७३ । शब्द-वैर - ।३।१।१७।' इत्यादिना क्यङ् । अशङ्क निर्भयं जगाहिरे इति क्रियाविशेषणम् । अनेकमुखानि पृथग्भूतानि पूर्व भयेन बहुलीभूतत्वादनीकानां बहुवचनमिति ॥ ८२ - अथ पुरु - जव योगान् नेदयद् दूर - संस्थ दवयदेति - रयेण प्राप्तमुर्वी - विभागम् ॥ क्लम-रहितम॑चेतन् नीरजीकारित-क्ष्मां, बलमु॑पहित-शोभां तूर्णर्मायादयोध्याम् ॥५५॥ ३ १ – प्रभूतं प्रचुर प्राज्यमंदभ्रं बहुलं बहु ॥ ११०९ । पुरुहूः पुरु भूयिष्ठं स्फारं भूयश् च- भूरि च. ।' २ – 'ऽथ शीघ्रं त्वरितं लघु क्षिप्रम॑रं द्रुतम् ॥ ७३ । सत्वरं चरलं तूर्णम-विल ग्वितमांशु च. ॥" ३ –पद्येऽस्मिन्वृत्तं मालिनी । तलक्षणम्- वामभागीय षड्विंशतितमाङ्क- (२६) पद्य-टी कनान्तर्द्रष्टव्यम् । भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे द्वितीयो वर्ग, अथेत्यादि — अथेत्यानन्तर्ये । बलं दाशरथम् । तूर्ण शीघ्रम् । '३०६९४ रुप्यमत्वर - ।७।२।२८।' इत्यादिना पक्षे इडभावः । '२६५४/ ज्वर त्वर- ।६।४।२०।' इति वकारोपधयोरूड् । '३०१६ । र दाभ्याम्-१८।२॥४२ इति नत्वम् । अयोध्यामायात् आगतम् । आङ्पूर्वाद्याङि रूपम् । पुरुर्महान् वैगो जवः तेन योगात् । पूर्यते वर्धते इति पुरुः । 'कुर्भश्च' इत्यधिकृस 'पू मिदि-व्यवि -' इत्यादिना कुप्रत्ययः । दूरसंस्थं दूरे सन्तिष्ठत इति कः । उवीं- विभागम् । नेदयन् अन्तिकं कुर्वन् । अन्तिकशब्दात् समीपत्राचिन: तत्कशेतीति णिच् । इष्टवद्भावात् '२०१४ । अन्तिक बाढयोनंदसाधौ ।५।३।६३।' इति नेदादेशः पश्चालट् । शतरि शप् अयादेशः । प्राप्तं विषयीकृतं चोवि भागं भूविभागम् । अतिरयेण अतिवेगेन । दवयत् दूरीकुर्वत् पश्चाद्धा- गेन । दूरशब्दात् पूर्ववण्णिचि इष्टवद्भावे च ' २५१५ । स्थूल-दूर - १६॥४॥ १५६।' इत्यादिना यणादिपरलोपः पूर्वस्य च गुणः । पश्चात्तथा एव लडादयः । कुमरहितम् अपगतश्रमम् । अचेतत् कियहूरमागतोऽहमित्यबुध्यमानम् ३ '३९ । चिती " संज्ञाने ।" इत्येतस्य शतरि रूपम् । अनीरजा नीरजाः कारि- तेति '२१२१॥ अरुर्मन- १५॥४॥५१॥ इत्यादिना च्वावन्त्यलोपः । ८२३१८ । अस्य च्वौ ।७।४।३२' इतीत्वम् । नीरजीकारिता क्षमा भूमिर्यस्यामयोध्यायां ताम् । सिक्कसंमृष्टभूतलामित्यर्थः । उपहितशोभाम् छत्रध्वजपताकाभिरारोपि- तशोभाम् ॥ ४६ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे द्वितीयः परिच्छेदः ( वर्गः ) तथा लक्ष्य रूपे कथानके श्री सीता-परिणयो नाम द्वितीयः सर्गः पर्यवसितः । तृतीयः सर्गः ८३ - चधेन संख्ये पिशिताऽशनानां क्षत्रा॒ऽन्तकस्या॑ ऽभिभवेन चैव ॥ आढ्यंभविष्णुर् यशसा कुमारः प्रियंभविष्णुर् न स यस्य ना॑ऽऽसीत् ॥ १ ॥ वधेनेत्यादि — संख्ये संग्रामे पिशिताशनानां राक्षसानाम् । पिशितं मांसम् अशनं येषामिति । तेषां वधेन हननेन । '३२५३ । हनश्च वधः ।३।३।७६ ।' इति अप् प्रत्यये वधादेशः । कृत्प्रयोगे कर्मणि षष्ठी । क्षत्रान्तकस्य परशुरामस्य । अभिभवेन पराजयेन च ' ३२३२ । ऋोरप् ।३।३।५७ ।' चैवशब्दो निपातसमुदायः समुच्चये । तेन हेतुभूतेन । यशसा आढ्यंभविष्णुः । अनाढ्य आढ्यो भूतः । '२९७४ । कर्तरि भुवः । ३।२।७५७७ ॥ इति खिष्णुच् । २९४२ । अरुद्विषत् । ६. तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः३।६७ ।' इति मुम् । कुमारो यस्य स प्रियंभविष्णुः । यस्यापि प्राक् मियो न जातः पश्चादपि तथैव न प्रियो भूतः स नासीत् न बभूव । ८४ - ततः सुचेतीकृत पौर-भृत्यो 'राज्ये ऽभिषेक्ष्ये सु॒त॑मि॑त्य-नीचैः ॥ आघोषयन् भूमि-पतिः समस्तं भूयोऽपि लोकं सुमनीचकार ॥ २ ॥ ४७ तत इत्यादि — ततः प्रियंभविष्णुताया अनन्तरं भूमिपतिर्दशरथो लोकं सुमनीचकार । किमयं सम्यक् पालयिष्यति न चेति असुचेतसः पौरा भृत्याश्च जाता: ते सम्यक्पालनात् सुचेतसः कृता येन स सुचेतीकृतपौरभृत्यः । भूयोऽपि पुनरपि लोकं समस्तं सुमनीचकार । कथमित्याह – राज्ये राजकर्मणि पालनलक्षणे सुतं रामं अभिषेक्ष्ये तदभिषेकं करिष्यामीति । मिचेरुभयपदित्वा- त्तङ् । अनीचैर्महता ध्वनिना । आघोषयन् घोषणां कारयन् । सुचेती सुमनीश- दौ २१२१॥ अरुर्मन /५/४/५१।' इत्यादिना साधू ॥ । ८५ - आदिक्षादीप्त - कृशानु- कल्पं सिंहासनं तस्य स-पाद-पीठम् ॥ सन्तप्त - चामीकर - वल्गु-वज्रं विभाग - विन्यस्त - महार्घ रत्नम् ॥ ३ ॥ . आदिशदित्यादि — तस्य रामस्य सिंहासनमादिक्षत् आदिष्टवान् एवंविधं कारयेति । दिशेः स्वरितेतो लुङि '२३३६ शल इगुपधात्- ।३।१।४५।' इत्यादि- ना च्ले: क्सः । अकर्तृगामिक्रियाफलत्वात्तिप् । आदीप्तकृशानुकल्पं ज्वलिताग्नि- तुल्यम् । तस्य कारणमाह– सन्तप्तचामीकरवर्णानि उत्तप्तसुवर्णवर्णानि वज्राणि यस्मिन् । तथा विभागेषु विन्यस्तानि अतिमहार्वाणि रत्नानि पद्मरागादीनि यत्र । सपादपीठं सह पादपीटेन ॥ ८६ - प्रास्थापयत् पूग - कृतान् स्व-पोषं पुष्टान् प्रयत्नाद् दृढ - गात्र बन्धान् ॥ स - भर्म - कुम्भान् पुरुषान् समन्तात् पत्काषिणस् तीर्थ-जहा॒ऽर्थमा॑शु ॥ ४ ॥ प्रास्थेत्यादि – तीर्थजलार्थ पुरुषान् प्रयत्नात् आदरेण । समन्तात् सर्वासु दिक्षु । आशु शीघ्रं प्रास्थापयत् प्राहिणोत् । प्रपूर्वस्तिष्ठतिर्गमने वर्तते तस्य हेतुम-' ण्ण्यन्तस्य लङि रूपम् । पूगकृतान् अपूगाः पूगाः कृता इति । 'श्रेण्यादिषु च्व्यर्थ १ टीकनं ( टिप्पणं ) नोत्सहे कर्तु प्रवासे नायकस्य मे ॥ भट्टि - काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-स्पे तृतीयो वर्गः, वचनम्' इति समासः । सङ्गीकृतानित्यर्थः । स्वपोपंपुष्टान् । '३३६१। स्चे पुपः । ३।४।४० ।' इति णमुल । '७८३ । अमेवाव्ययेन ।२।२।२०॥ इति समासः । यथाविध्यनुप्रयोगश्च । दृढो गात्रवन्धो येषां तान् । संयतकायान् महाभागे- दहनक्षमत्वात् समकुम्भान् ससुवर्णकलशान् । पत्कापिणः । पादौ कपितुं हिंसितुं शीलं येषामिति । '२९८८ । सुष्यजाती । ३।३।७७ ।' इति णिनिः । ९९२। हिमाहितिषु च ।६।३।१४।' इति पढ़ादेशः । पढातीनित्यर्थः । अखिति 'कृवापाजि -' इत्यादिना उण् ॥ ४८ ८७ - उक्षान् प्रचक्रुर् नगरस्य मार्गान्, ध्वजान् बबन्धुर्, मुमुचुः ख धूपान्, दिशश्च॑ पुष्पैश्च॑करुर् विचित्रै- रेर्थेषु राज्ञा निपुणा नियुक्ताः ॥ ५ ॥ अक्षामित्यादि – ये निपुणा अर्येषु कार्येषु राज्ञा दशरथेन नियुक्ताः अधि कृतास्ते नगरस्य मार्गान् पथः । उक्षान् सेकवतः प्रचक्रुः । उक्षणमुक्षा । '३२८०१ गुरोश्च हलः ।३।३।१०३।' इत्यकारः । सा विद्यते येपामिति '१९३३ अर्शआ- दिभ्योऽच् ॥५॥१॥१२७ ।' । '२२३७७ । इजादेव गुरुमतः - ।३।१।३६।' इत्यादिना आम्प्रत्यये प्रचक्रुरित्यनुप्रयोगो न घटते । '२२३९ । कृञ्चानुप्रयुज्यते ॥ ३ ॥१०। इत्यनुशब्दस्य व्यवहित निवृत्त्यर्थत्वात् । ध्वजान् बबन्धुः उच्छ्रायितवन्तः । मुमु सुः खधूपान् आकाशे घटिकादिभिर्धूपान्मुमुचुः प्रमुक्तवन्तः । दिशश्च पुष्पैश्चक: छादितवन्तः । '१५०३ कॄ । विक्षेपे ।' इत्यस्य लिटि २३८३ । ऋच्छत्यृताम् ॥७॥ ४।११।' इति गुणः । विचित्रैः नानाप्रकारैः ॥ ८८ ~ मातामहा॒ऽऽवासमु॑पेयिवांसं मोहार्द - पृष्ट्वा भरतं तदानीम् ॥ तत् केकयी सोदुर्म शक्नुवाना ववार रामस्य वन प्रयाणम् ॥ ६ ॥ · मातेत्यादि – तत्पूर्वोक्तमभिषेकसंविधानं सोडुमशक्नुवाना असहमाना केक यी रामस्य वनप्रयाणं ववार प्रार्थितवती राज्ञ इत्यर्थात् । सहेः शक्नोतावुप- पदे ' ३१७७। शक-धृष - ।३।४।६५॥ इत्यादिना तुमुन् । तत्र नजा शक्त्यर्थस्य प्रतिषेधेऽपि न दोषः प्रतिषेधस्य बहिरङ्गस्वात् । शक्नोतेः परस्मैपदिश्वात् ज्ञानज् नास्ति । '३१०९। ताच्छील्यवयोवचन- ।३।२।१२९।' इत्यादिनां यानश् । स्वादित्वाच्छः । '२७१ । अचि श्रु धातु । ६।४।७७ इत्यादिना उवङ् । किं कृत्वेत्याह – इदानीं प्रार्थनाकाले देशान्तरावस्थितत्वात् किमेवं क्रियते न वेति न भरतं पृष्टवती । देशान्तरावस्थिति दर्शयवाह-मातामहावासमिति । तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्ग:- मातुः पिता मातामहः । '१२४२ । पितृव्यमातुल-।४।२।३६।' इत्यादिना निपा- तनात् डामहच् । आवासः निलयम् । आवसत्यस्मिन्निति अधिकरणे घन् । उपेयिवांसम् । '३०९८ । उपेयिवाननाश्वाननूचानश्च ।३।२।१०९॥ इत्यादिना निपातितः । मोहादज्ञानात् । दूतप्रेषणेनापृष्ट्वा । रामस्येति कर्तरि षष्ठी । वनाय प्रयाणं गमनमिति । चतुर्थीति योगविभागात् समासः । ८५८५१ गत्यर्थकर्मणि- ।२।३।१२।' इत्यादिना चतुर्थी । परत्वात्कृल्लक्षणया पध्या भवितव्यमिति चेत् न । पुनर्द्वितीयाग्रहणात्परामपि षष्ठीं बाधित्वा द्वितीयैव यथा स्यादिति । यद्येवं द्वितीयैव स्यात् न चतुर्थी । नैष दोपः । द्वितीयाग्रहणस्योपलक्षणार्थ- त्वात् । तथा च वृत्तावुभयमुक्तं-- ग्रामं गन्ता ग्रामाय गन्तेति ॥ ८९ - कर्णे- जपैराहित - राज्य- लोभा स्त्रैणेन नीता विकृतिं लघिम्ना ॥ राम- प्रवासे व्यमृशन् न दोषं जनाऽपवाद स- नरेन्द्र मृत्युम् ॥ ७ ॥ · कर्ण इत्यादि - कर्णे जपन्ति कर्णेजपा: सूचका: मन्थरादयः । '२९२७ । स्तम्ब - कर्णयोः - ।३।२।१३।' इत्यच् । '९७२ । तत्पुरुषे कृति बहुलम् ।६।३।१४॥ इति सप्तम्या अलुक् । तैराहितः आनायितो राज्यलोभो यस्याः सैवम् । स्त्रैणेन स्त्रिया अयम् । '१०७९॥ स्त्री-पुंसाभ्यां नञ् स्रजौ ।४।११८७।' इति नञ् । लघो- भवो लघिमा । '१७८४ । पृथ्वादि ।५।१।१२२।' इत्यादिना इमनिच् । टिलोपः । तेन विकृतिमन्यथात्वं नीता केकयी रामप्रवासे सति दोषं न व्यमृशत् नालो- चितवती । '१५१९॥ मृश आमर्शने ।' इति तौदादिकस्य लङि रूपम् । किंस्वरूपं दोषम् – जनापवादं लोकवैमुख्यम् । राज्या ज्येष्टः पुत्रोऽनया प्रव्राजित इति । नरेन्द्रस्य दशरथस्य मृत्युना सह वर्तमानम् ॥ ९० - वसूनि देशांश्च निवर्तयिष्यन् रामं नृपः संगिरमाण एव । तया ऽवजज्ञे, भरताऽभिषेको विषाद-शङ्कुश्च॑ म॒तौ निचख्ने. ॥ ८ ॥ वस्नीत्यादि — रामं निवर्तयिष्यन् रामं निवर्तयितुं वसूनि द्रव्याणि देशांश्च सङ्गिरमाण एवं प्रतिजानान एव दास्यामीति नृपो राजा कैकेय्या तदनङ्गीकरणादवजज्ञे अवज्ञातः । ज्ञा इत्ययं धातुरवपूर्वोऽवज्ञाने वर्तते । तस्मात्कर्माणि लिट् । '२३६३। गम-हन - । ६।४।१८।' इत्युपधालोपः । तत्र वृतेर्हेतु मण्ण्यन्तात् क्रियार्थोपपदे लट् । सङ्गिरणं च क्रिया । गिरेस्तौदादिकात् '२७२४ । अवाइः ॥१॥ ।३।५१॥' इति अधिकृत्य २७२५५ । समः प्रतिज्ञाने ।१।३।५२।' इति तङ् । शानच् । '२३९० । ऋत उत् ।७।१।१००।' । '३१०१ । आने मुक् ।७।२।८२॥ इदं चापरभ० का० ५ । भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूप तृताया वगः, मनुष्टितं तथा भरतो राज्येऽभिषिच्यतामिति भरताभिषेको मतौ मनसि निच- निखातः । कर्मणि लिट् । '२३६३ । गमहन । ६।४।१८।' इत्यादिना उपधा लोपः । तथा विपाड़ः शङ्कुरित्र शल्यमिव निचरने । ज्येष्टत्वात् नायं समभिपि- च्यत इति विपाः । संग्रामकिल परिश्रान्तमानतं दशरथं केकयी परिचचार । तेन परितुष्टेनोक्तं किं ते दास्यामीति । सा प्राह यदार्थयिष्यते तदा यूयं दास्यथेति । सा तदवसरं बुद्ध्वा वरद्वयं प्रार्थितवती । एको रामस्य वनगमनं द्वितीयो राज्ये भरतोऽभिषिच्यतामिति ॥ ९१ - ततः प्रवित्राजयिषुः कुमार- मददस्या॑ ऽभिगमं वनाय ॥ सौमित्रि - सीताऽनुचरस्य राजा सुमन्त्र - नेत्रेण रथेन शोचन् ॥ ९ ॥ तत इत्यादि – केकयी प्रार्थनानन्तरं राजा कुमारं रामं प्रविवाजयिषुः प्रव्रज- न्तमेनं प्रव्राजयितुमिच्छुः । जेर्हेनुमण्ण्यन्तात्सन् । अस्य कुमारस्य । रथेन वना- भिगममभिगमनम् । '३२३४ । ग्रह-वृ-ह-निश्चि-गमश्च ।३।३।५८ ।' इत्यप् । आदि- क्षत् आदिष्टवान् । अस्येति कर्तरि पष्टी । वनायेति । १५८५ गत्यर्थकर्मणि-।२।३ ।१२।' इति चतुर्थी । सौमित्रिसीतानुचरस्य लक्ष्मणसीतासहायस्य । सुमित्राया अपत्यम् । बाह्लादित्वादिञ् । सहचरत्वेनाभ्यर्हितत्वात् पूर्वनिपातः । अनु पश्चाच्च- रतीति अनुचरः । '२९३१ । भिक्षा-सेनादायेषु च । ३।२।१७।' इति चकारस्थानु- तसमुच्चयार्थत्वात् टः । अनुचरश्चानुचरी च । '९३३ । पुमान् स्त्रिया ।१।२।६७ । •तावनुचरौ सौमित्रिसीते अनुचरौ सहायौ यस्य । कालापिकास्ततोऽन्यत्रापि पठन्ति अनधिकरणोपपदे चरेष्ट इत्यर्थः । नीयतेऽनेनेति नेत्रं लोचनम् । '३१ ६२ । दानी ।३।२।१८२।' इत्यादिना हुन् । सुमन्त्रनामा रथवाहको नेत्रमिव यस्य रथस्य तद्वशात्तस्य प्रवृत्तेः । शोचन् परिदेवयमानो राजा ॥ ९२ - केचिन् निनिन्दुर् नृपर्म-प्रशान्तं, विचुक्रुशुः केचन सा॒ऽस्रमु॑च्चैः ॥ ऊचुस् तथा ऽन्ये भरतस्य मायां, धिक् केकीमत्यपरो जगाद ॥ १० ॥ केचिदित्यादि — राज्ञा वनगमने समादिष्टे सति केचिजना नृपं निनिन्दुः कुत्सितवन्तः। '६८। णिदिं कुत्सायाम् ।' अप्रशान्तं वृद्धभावेऽपि स्त्रीवशम् । केचन केचित्सास्रं सबाप्पमुच्चैः सुष्टु विचुक्रुशुः सुतरामाक्रन्दितवन्तः । तथान्ये भरतस्य मायां शाठ्यमूचुः उक्तवन्तः । तत्कृतोऽयं प्रयोगो येनात्मरक्षणार्थ मातामहनिवासे स्थित इति । अपरो धिक्केकयीं ययैवमनुष्ठितमिति जगाद गदितवान् । 'धिगुपर्यादिषु त्रिषु' इति धिग्योगे द्वितीया ॥ तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः ९३ - 'गतो वनं वो भवितेति रामः, ' शोकेन देहे जनता ऽतिमात्रम् ॥ धीरास् तु तत्र च्युत-मन्यवो ऽन्ये दधुः कुमाराऽनुगमे मनांसि ॥ ११ ॥ गत इत्यादि – श्व आगामिनि दिवसे वनं गतो रामो भवितेति तास् । जनता जनसमूहः । '१२५११ ग्राम-जन-बन्धु । ४।२।१३।' इत्यादिना तळ । देहे दग्धा । कर्मणि लिट् । '२२६० । अत एकहल । ६।४।१२०।' इत्येत्वाभ्यासलोपौ । गत इति भूतकालः श्वो भवितेति भविष्यत्कालेन संबध्यमानः साधुः । '२८२४ । धातु-संबन्धे प्रत्ययाः ।३।४ । १ । इति । ये तु तन्त्र वीराः ते च्युतमन्यवो विगत- शोकाः सन्तः कुमारानुगमे कुमारस्य पश्चागमननिमित्तं मनांसि दधुः कृतवन्तः । राममनुब्रजाम इति । निमित्तात्कर्मसंयोगे सप्तमीति । मनांसीति कर्मणा योगात् ॥ .3 ९४–प्रस्थास्यमानायु॑पसेदुषस् तौ शोशु॒च्यमानानंदमू॑च॒तुस् तान् ॥ 'किं शोचतेहा॑ ऽभ्युदये वता॑ ऽस्मान् नियोग-लाभेन पितुः कृतता॒ऽर्थान् ॥ १२ ॥ 3 प्रस्थेत्यादि – तौ रामलक्ष्मणौ प्रस्थास्यमानौ गमिष्यन्तौ । १२६८९ । सम- व-प्र-वि-भ्यः स्थः ।१।३।२२।' इति तङ् । जनान् इदं वक्ष्यमाणमूचतुः उक्तवन्तौ . ब्रुवीत्यर्थग्रहणात् बचेर्द्विकर्मकता । उपसेदुषस्तौ ढौकितवतः जनान् । '३०९७ भाषायां वद-वस ——।३।२।१८० ।' इत्यादिना वसुः । शोशुच्यमानानू अत्यर्थं शोकं कुर्वतः । भृशार्थे यङ् । किमूचतुरित्याह– किं शोचतेति । हे जनाः ! कस्मादस्मान् शोचत परिदेवयध्वम् । विधावपूर्वार्थप्रकाशने लोट् । इहाभ्युदये बतशब्दो विस्मये । तस्मिन् आश्चर्यभूते अभ्युदये वृद्धौ सत्याम् । कुत इत्याह - पितुर्नि योगलाभेन वनगमनाज्ञालाभेन कृतार्थान् लब्धप्रयोजनान् । कृतार्थत्वादशोच्या वयमित्यर्थः ॥ 3 ९५ - असृष्ट यो, यश्च॑ भयेष्वरक्षीद्, यः सर्वदा ऽस्मानपुषत् स्व-पोषम्, महोपकारस्य किम॑स्ति तस्य तुच्छेन यानेन वनस्य मोक्षः, ॥ १३ ॥ असृष्टेत्यादि — असृष्ट जनितवान् । सृजेंदँवादिकस्यात्मनेपदित्वात् लुङि रूपम् । न तौदादिकस्य परस्मैपदत्वात् '२४०५। सृजि-दृशोः- १६।१।५८ ।' इत्यम् । यश्च भयेषु सत्सु अरक्षीत् पालितवान् । '७०६। रक्ष पालने ।' इत्यस्य लुङि ५२ भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः, रूपम् । यः सर्वदा सर्वकालम् । १९६४ । सर्वैकान्य ।५।३।१५।' इत्यादिना दाम- त्ययः । यश्चापुपत् पुष्टवान् । स्वपोषं धनेनास्मानपुपत् । पुषेर्लुङि रूपम् । '२३- ४३ । पुपादि-।३॥५५।' इत्यङ् । '३३३१ । स्वे पुषः ।३॥४।१०।' इति णमुल । '७८३ । अमैवाव्ययेन ।२।२।२०।' इति समासः । '२८२७ । यथाविध्यनुप्रयोगश्च ।३।४।१४॥' तस्य पितुः संबन्धिनो महोपकारस्य किमस्ति मोक्षः प्रत्युपकारो नैवेनि भावः । केनेत्याह—तुच्छेन असारेण वनस्य यातेन । यातेभावे ल्युट् । वनस्येति शेषसामान्ये षष्टी । कुलक्षणायास्तु षष्ठ्या गत्यर्थकर्मणि चतुर्थ्या बाध्यमानत्वात् ॥ ०६ - विद्युत् प्रणाशं स वरं प्रनष्टो, यद्वौर्ध्व-शोषं तृण-वद् विशुष्कः ॥ अर्थे दुरापे किमुत प्रवासे न शासने sवास्थित यो गुरूणाम् ॥ १४ ॥ विद्युदित्यादि — अर्थे कार्य विशेषे दुरापेऽपि कृच्छ्रप्राप्येऽपि । '३३०५ । ईप- हुः सुषु ।३।३॥२६।' इत्यादिना खल । गुरूणां यच्छासनमादेशः तस्मिन् यो नावा- स्थित नावस्थितवान् । अवपूर्वात्तिष्ठतेर्लुङ् । '२६८९। समव–११।३।२२।' इत्यादिना तङ् । '२३८९। स्था-व्वोरिच्च ।१।२।१७।' इति कित्वमित्वं च । '२३६९ । ह्रस्वा- दङ्गात् ।८।२।२७।' इति सिचो लोपः । स वरं विद्युत्प्रणाशं प्रनष्टः । विद्युदिवो- स्पयनन्तरमेव विनाशं गतः । ३३६६ उपमाने कर्मणि च ।३।४।४५।' इति चकारात् । '३३६४ । कर्त्रार्जीव-पुरुषयोः ।३।४।४३।' इत्यतः कर्तृग्रहणानुवृत्तौ कर्तृ- वाचिनि विधुच्छन्द उपपदे णमुल । '२२८७ । उपसर्गादसमासे - ।८।४।१४। इत्यादिना णत्वम् । यद्वेत्यथवा । स ऊर्ध्वशोपं तृणवद्विशुष्कः । '३३६५। ऊर्ध्वे झुषि-1३।४।४४।' इत्यादिना णमुल । उभयत्रामैवेत्यादिना समासः । '२८२७॥ यथाविध्यनुप्रयोगश्च ।३।४।१४॥ किमु प्रवासे किम्पुनः प्रवासविषये यच्छासनं तत्र तावदनवस्थितस्य सुतरामेव पूर्वोक्तं प्रयुज्यते ॥ ९७ - पौरा ! निवर्तध्वमिति न्यगादीत्, 'तातस्य शोकाऽपनुदा भवेत, ॥ मा दर्शताऽन्यं भरतं च मत्तो, ' निवर्तये॑त्या॑ह॒ रथं स्म सूतम् ॥ १५ ॥ पौरा इत्यादि – हे पौरा: ! यथागतं निवर्तध्वम् । विधौ लोद । इति तान् न्यगादीत् उक्तवान् । रामः । गदेः '२२८४ । अतो हलादेः ।७।२।७।' इति वृद्धिः । '२२६६ । इट इंटि ।८।२।२८।' इति सिचो लोपः । तातस्य पितुः । शोकापनुदाः शोकस्यापहर्तारो भवेत । तुन्दशोकयोरित्यादिना कः । भवतेर्विधौ प्रार्थनायां वा लिङ् । मध्यमपुरुषबहुवचनम् । भरतं च मत्तो मत्तः सकाशात् । अस्मदः १९- ५३॥ पञ्चम्यास्तसिल ।५।३।७।' । '१३३७ । प्रत्ययोत्तरपदयोश्च ।७।२।९८ ' इति तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः- मढ़ादेशः । अन्यं भरतं मा दर्शत मा द्रष्टारः स्थ । अपि तु योऽहं स एव भरतः स च प्रतिष्ठितः राज्यं पालयिष्यतीत्येव न्यगादीत् । दृशेर्माङि लुङ् । '२२६९॥ इरितो वा ।३।१।५७ ।' इत्यङ् । '२४०६। ऋ-दृशोऽङि गुणः ।७।४।१६।' निवर्तय रथमिति सूतं च सुमन्त्रमाह स्म । '२७७८ । लट् स्मे ।३।२।११८।' इति लट् । '२४५० । बुवः पञ्चानाम् ।३।४।८४।' इत्याहादेशः । तिपो गलू ॥ ९८ - ज्ञात्वैङ्गितैर् गत्वरतां जनाना- मैकां शयित्वा रजनीं स-पौरः ॥ रक्षन् वने-वास - कृताद् भयात् तान् प्रातश छलेना॑ ऽपजगाम रामः ॥ १६ ॥ ज्ञात्वेत्यादि – निवर्तध्वमित्युक्ते ये तत्रानिवृत्ताः तेषां जनानां रामो गत्व- रतां गमनशीलतां ज्ञात्वा । '३१४४ । गत्वरश्च ।३।२।१६४।' इति निपातितः । तैरिङ्गितैरभिप्रायसूचकैश्चेष्टितैः । इङ्गर्भावे निष्टा । वनेवास इति सप्तमीति योगविभागात् समासः । '९७६ । शय-वास- वासिषु ।६॥३।१८॥ इति विभाषा- सप्तम्या अलुक् । तेन कृतात्सिंहादिभयात् रक्षन् पालयन् तान् पौरान् सपौरः पौरै: : सह एकां रजनीं शयित्वा । ८५५८। काला ध्वनोः- २।३।५।' इति द्वितीया । शयित्वेति '३३२२॥ न क्त्वा सेट् ।१।२।१८॥ इति । कित्त्वप्रतिषेधात् गुणो भवति । प्रातः प्रातःकाले । छलेन सन्ध्यावन्दनादिव्याजेन अपजगाम गतवान् ॥ ९९ - अस्राक्षुरस्रं करुणं रुवन्तो, मुहुर्मुहुर् न्यश्वसिषुः कवोष्णम् ॥ हा राम ! हा कष्टमिति ब्रुवन्तः पराङ्-मुखैस् ते न्यवृतन् मनोभिः ॥ १७ ॥ अस्त्राक्षुरित्यादि- ते पौरा राममपश्यन्तः । करुणं रुवन्तो विलपन्तः । ' ११०७। रु शब्दे ।' इत्यस्य शतरि रूपम् । अत्रम् अश्रु । अस्राक्षुः मुक्तवन्तः । सृजेस्तौदादिकस्य परस्मैपदिन: सिचि '२४०५। सृजि शोः- १६॥१॥५८ ।' इत्यम् । हलन्तलक्षणा वृद्धिः । ३२८ । चोः कुः । ८।२।३०।' । '१३१ । खरि च ।८।४।१५। इति चर्खम् । मुहुर्मुहुः भूयोभूयः कवोष्णमीषदुष्णमन्तःसन्तापात् ।१०३३॥ कवं चोणे । ६॥ ३ । १०७ ।' इति कोः कवादेशः । न्यश्वसिपुः । श्वसेर्लुङ् । '२२९९। इयन्त ।७।२।५।' इत्यादिना श्वसेर्वृद्धिप्रतिषेधः । '२२८४ । अतो हलादेघोः ।७।२।७।' इति विकल्पस्य प्राप्तत्वात् । हा राम हा कष्टं कृच्छमिति ब्रुवन्तः । परामुखै: येन गतो `रामस्तेन गतैर्मनोभिरित्थंभूतैः । न्यवृतन् निवृत्तवन्तः । —२३४५॥ लुङ ।१।३।९॥ इति परस्मैपदविकल्पात् । चुताढिव्वादङ् ॥ ५४ भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः, १०० - सूतो ऽपि गङ्गा-सलिलैः पवित्वा सहा॒ऽऽश्वमा॑त्मानम॑नल्प-मन्युः स-सीतयो राघवयोरधीयन् ॥ श्वसन् कदुष्णं पुरमा॑विवेश ॥ १८ ॥ सूत इत्यादि — सूतोऽपि सुमन्त्रः सहाश्वमश्वैः सह । अनल्पमन्युः प्रवृद्धशोकः । राघवयोः रामलक्ष्मणयोः । '१८८। रूपाणां ॥२।६॥ इत्येकशेषः । समीतयोः सीतासहितयोः । अधीयन् स्मरन् । '११२० । इक् स्मरणे ।' इत्यस्य शतरि रूपम् । यणादेशः । ६१३ । अधीगर्थ । २ ।३।५२॥ इति कर्मणि पष्टी । श्वसन् । कटुष्णं ईषदुष्णम् । १०३३ । कवं चोणे । ६।३।१०७१' इति चकारात् कदादेशः । गङ्गातटाव्यतिनिवृत्य पुरमयोध्यामाजगाम आगतवान् । गङ्गासलिलैः आत्मानं बाह्यमाभ्यन्तरं च पवित्रीकृत्य । '३०५०। पूच ।७।२।५॥ इति विकल्पेनेट् । '२०५१। पू: क्त्वा च ॥।२।२२।' इति कित्त्वप्रतिषेधात् गुणः ॥ १०१ - प्रतीय सा पूर् दहशे जनेन द्यौर् भानु - शीतांशु - विनाकृतैव ॥ राजन्य नक्षत्र समन्विता ऽपि शोका॒ऽन्धकार-क्षत- सर्व चेष्टा ॥ १९ ॥ प्रतीयेत्यादि - जनेन रामानुयायिना प्रतीय प्रतिनिवृत्य । पूरयोध्या दहशे दृष्टा । कर्मणि लिट् । प्रतीय इति ईङ् गतावित्यस्य रूपं न पुनरिणः । तस्य हि तुकि प्रतीत्येति स्यात् । '३३३३ । षत्वतुकोरसिद्धः ।६॥।८६ ।' इत्येकादेशस्या- सिद्धत्वात् । प्रतियुषा सा दहशे इति पाठान्तरम् । प्रतिनिवृत्तेन मा पूर्ददृशे दृष्टेत्यर्थः । अस्मिन् पाठे तु '३०९८ । उपेयिवान् ।३।२।१०९।' इत्यादिना इण: कसौ रूपं दृष्टव्यमत्रोपसर्गस्यातन्त्रत्वात् । शोकोऽन्धकार इव शोकान्धकारः । तेन क्षता नीतानुष्ठेयकर्मणि चेष्टा परिस्पन्दो यस्यां पुरि सा तथोक्ता । राज्ञो- उपत्यानि । '११५३। राज-श्वशुराद्यत् ।४।१।१३७ ।' राजन्याः क्षत्रियाः । ११५४॥ ये चाभावकर्मणोः।६।४।१६८।' इति प्रकृतिभावः । राजन्याः नक्षत्राणीव तैः समन्वितापि द्यौः भानुशीतांशुविनाकृतेव धौराकाशः यथा नक्षत्रसमन्वितापि रात्रौ भानुचन्द्राभ्यां विनाकृता रहिता अन्धकारच्युतसर्वचेष्टा तद्वत्यापि भानु- चन्द्रस्थानीययोः राघवयोर्विरहात् ॥ १०२ - विलोक्य रामेण विना सुमन्त्र- म॑च्योष्ट सत्वान् नृ-पतिश् च्युताऽऽशः ॥ मधूनि नैषीद् व्यलिपन् न गन्धैर्, मनो-रमे न व्यवसिष्ट वस्त्रे ॥ २० ॥ तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः____ विलोक्येत्यादि — रामेण विना सुमनं विलोक्य दृष्ट्वा नृपतिर्दशरथः सत्वात् स्वभावादच्योष्ट च्युतः । च्यवतेरकर्मकालुङ् । गतोऽपि मचनमतिक्रम्य आगच्छेद्राम इति अस्य या आशा सा च्युता यस्य स च्युताशः । सत्वात् च्युतश्च मधूनि पातुं नैषीत् नेष्टवान् । '२२६८। नेटि ।७।२।४॥ इति सिचि वृद्धि - प्रतिषेधः । गन्धैश्चन्दनादिभिर्नालिपत् । लिपेः '२४१८ । लिपि-सिचिह्नश्च ।३॥१॥ ५३ ।' इत्यङ् । मनोरमे चेतोहारिणी वस्त्रे न व्यवसिष्ट न परिहितवान् । '१०९२ । यसँ आच्छादने ।' इत्यस्मात् लुङ् । अनुदात्तत्त्वात्तङ् ॥ १०३ - आसिष्ट नैकत्र शुचा, व्यरंसीत् कृताऽकृतेभ्यः क्षिति-पाल-भाग्- भ्यः ॥ स चन्दनोशीर - मृणाल-दिग्धः शोकाऽग्निना Sगाद् - निवास-भूयम् ॥२१॥ 8 आसिऐत्यादि — एकत्र स्थाने शुचा शोकेन नासिष्ट नोपविष्टः । आसेरात्म- लुङ् । कृतानि चाकृतानि चेति । १७३९॥ तेन नविशिष्टेनानज् ।२।१।६०।' इति समासः । असमापितेभ्य इत्यर्थः । क्षितिपालं भजन्ते यानि दूतप्रेषणादीनि तेभ्यः क्षितिपालभाग्भ्यः । व्यरंसीत् विरतः । विमुखोऽभूदि- त्यर्थः । जुगुप्साविरामप्रमाढार्थानामुपसंख्यान मिति अपादानसंज्ञा । रमेर्लुङ् । '२७४९॥ व्याङ्- परिभ्यो रमः ॥।३।८३।' इति तिप् । '२३७७॥ यम-रम- । ७॥२॥ ७३।' इत्यादिना सगिटौ । स एवम्भूतो राजा चन्दनोशीरमृणालैः शोकाग्निप्रती- कारभूतैर्दिग्ध उपलिप्तोऽपि उद्वेगाग्निनैव युनिवासभूयं देवत्वमगात् गतवान् । दिहेर्निष्ठायां '३२५ । दार्धातोः ॥२।३२।' इति घः । '२२८० । झपस्तथो- धः ।८।२॥४० ।' । '५२ । झलां जश झशि ।८।४।१५३।' इति जश्त्वम् । दिवि निवासो येषां ते युनिवासा देवाः तेषां भाव इति । '२८५५) भुवो भावे ।३।१।१०७।' इति क्यप् ॥ 3 १०४ - विचुक्रुशुर् भूमि-पतेर् महिष्यः, केशॉल् लुलुबु:, स्व- वपूंषि जनुः ॥ विभूषणान्यु॑न्मुमुचुः, क्षमायां पेतुर, बभञ्जुर् वलयानि चैव ॥ २२ ॥ विचुक्रुशुरित्यादि – भूमिपते राज्ञो महिष्यः पतयः । 'अविमह्योष्टिषच्' इत्यौणादिकष्टिषच् । विचुक्रुशुः रुढ़ितवत्य इत्यर्थः । हा स्वामिन्निति । तथा केशान् लुलुचुः उत्पाटितवत्यः । स्ववपूंषि स्वशरीराणि जघ्नुस्ताडितवत्यः । विभूषणानि हारादीनि उन्मुमुचुर्मुक्तवत्यः । क्षमायां भुवि पेतुः । वलयानि अवैध व्यचिह्नानि बभञ्जुः चूर्णितवत्यः । एते लिडन्ताः । पतेरेत्वाभ्यासलोपौ ॥ भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः, १०५ - ताः सान्त्वयन्ती भरत- प्रतीक्षा तं वन्धु ता न्यक्षिपदा॑शु तैले, ॥ दूतांश्च॑ राजा॒ऽऽत्मजमा॑निनीषून् प्रास्थापयन् मन्त्रि मतेन यूनः ॥ २३ ॥ " ता इत्यादि - बन्धुता बन्धुसमूहः । १२५१ । ग्राम-जन-बन्धुभ्यम्तल ।४।२।४३।' ता महिपी: सान्त्वयन्ती संस्थापयन्ती । सान्त्वं करोतीति णिच् । तं दशरथं मृतं तैले न्यक्षिपत् निक्षिप्तवती । आशु शीघ्रं । मा भूत्यूनिरिति । क्षिपेर्लुङ् । '२३४३ । पुपादि-।३।१॥५५॥ इत्यङ् । कस्मात्तमक्षिपदित्याह - भर- तप्रतीक्षा तेन संस्कारः कर्तव्य इति सा भरतं प्रतीक्षते । 'ईक्षि-क्षमिभ्यां च ।' इत्युपसंख्यानाण्णः । दूतान् प्रास्थापयत् प्रहितवती । राजात्मजं भरतमानिनी- षून् आनेतुमिच्छून् । अन्यया केकयी वैमुख्याद्भरतेऽपि वैमुख्याता अपनाने- तुमिच्छन्ति । तत्रापि मन्त्रिमतेन न स्वमतेन । यूनः तेषां गन्तुं समर्थत्वात् ॥ १०६ - 'सुप्तो नभस्तः पतितं निरीक्षां- चक्रे विवस्वन्तम॑धः स्फुरन्तम् ॥ आख्यद् वसन् मातृ-कुले सखिभ्यः पश्यन् प्रमादं भरतो ऽपि राज्ञः ॥ २४ ॥ सुप्त इत्यादि - भरतोऽपि मातृकुले वसन् सखिभ्यो मित्रेभ्यः आख्यत् कथि- तवान् । ख्यातेर्लुङ् । '२४३८ । अस्यति वक्ति ।३।१।५२।' इत्यादिना अङ्ग । क्रियाग्रहणं कर्तव्यमिति संप्रदानसंज्ञायां चतुर्थी । किमाख्यदित्याह- अहं सुप्तः सन् नभस्तो नभस्तलात् आकाशात्पतितं विवस्वन्तमादित्यं स्फुरन्तं चलन्तं निरीक्षांचत्रे निरीक्षितवान् । ईक्षे: '२२३७ । इजादेः-।३।१।३६।' इत्याम् । उत्तमविषये सुप्त- प्रमत्तावस्थायां चित्तव्याक्षेपात् परोक्षे लिट् । पश्यन् विलोकयन् । राज्ञो दशर- अस्य । प्रमादमनिष्टम् ॥ १०७ - अशिश्रवन्नत्ययिकं तमे॑त्य दूता यदा ऽथं प्रयियासयन्तः ॥ आंहिष्ट जाताऽञ्जिहिषस् तदा ऽसा - यु॑त्कण्ठमानो भरतो गुरूणाम् ॥ २५ ॥ अशीत्यादि – दूता एत्य आगत्य भरतमातृकुलमित्यर्थः । आपूर्वादिणः क्त्वाप्रत्ययस्य ल्यपि तुकि च रूपम् । यदा तं भरतमर्थं वचनमशिश्रवन् श्रावि- तवन्तः । अर्थयतेऽनेनेति णिच् घञ्च । शृणोतेर्ण्यन्ताल्लुङ '२३१५॥ चङि ।६।१।११।' इति द्विर्वचनम् । '२५७८ । स्रवति-शृणोति - ।७।४।८१ । इत्यभ्यास- स्येत्वम् । आत्ययिकम् अत्ययो विनाशः स प्रयोजनमस्येति तदस्य प्रयोजनमिति तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः- ठञ् । पिता ते म्लानस्त्वां द्रष्टुमिच्छतीति आत्ययिकं वचनम् । तमिति '५४०१ गति-बुद्धि-।१।४।५२।' इत्यादिना कर्मसंज्ञा । शृणोतेः शब्दकर्मध्वात् अर्थमिति । '५३५ । कर्तुरीप्सितत । १।४।४९। इत्यनेन । प्रयियासयन्तः प्रयातुमिच्छन्तं भरतं प्रयोजितवन्त: । सन्नन्तण्यन्तोऽयम् । तदा असौ भरतो जाताञ्जिहिषः । जाता अञ्जिहिषा गमनेच्छा यस्य सः । १९३३ । अहिं गतौ ।' '२२६२ । इदितो नुम्-।७।१।५८।' तस्मादंहितुमिच्छतीति सन् । इद । २१७६ । अजादेर्द्विती- यस्य । ६।१।२।' इति हिशब्दो द्विरुच्यते । नकारस्य २२४६ । नन्द्रा:- ६॥११३।' इति प्रतिषेधः । अभ्यासकार्यम् अनुस्वारपरसवणौं । ' ३२७९ । अः प्रत्ययात ।३।३।१०२।' इत्यकारप्रत्ययः । टाप् ! आंहिष्ट गतवान् । तस्मादेवात्मनेपदिनो लुङ् । उत्कण्ठमानः स्मरन् । '२७२ । माठ्' २७३ । अठं शोके ।' इत्यस्मादात्म- नेपदिनो रूपम् । अनेकार्थत्वाद्धातूनाम् । गुरूणां पितामहादीनाम् । '६१३॥ अधीगर्थ-।२।३।५३।' इति कर्मणि षष्ठी ॥ १०८ – वन्धून॑शङ्कष्ट समाकुलत्वाददा॑से॒दुषः स्नेह-वशाद॑पायम् ॥ गोमायुसारङ्ग-गणाश् च सम्य " वन्धूनित्यादि – दुःस्वप्नदर्शनेन ना॑ ऽयासिषुर्, भीमम॑रासिषुश्च॑ ॥ २६ ॥ अकस्माच पितृदूतागमनेन स्नेहवशाद चेतसि समाकुलत्वाद्भरतो बन्धूनशकिष्ट शक्तिवान् । उत्प्रेक्षितवानित्यर्थः । शङ्क- तेरात्मनेपदनो लुङि रूपम् । कीदृशान् - आसेदुष: अपायं विनाशं गतवतः । '३०९७ । भाषायां सद-वस - ।३।२।१०८।' इत्यादिना वसुः । '२२६० । अत एक-हल्र-।६।४।१२०।' इत्येत्वाभ्यासलोपौ । अस्मद्वन्धुः कश्चित् व्यसनमापन्नो- ऽभूदिति । गच्छतस्तस्य गोमायुसारङ्गगणाः शृगालमृगगणाश्च सम्यगनुकूलं नायासिपुः नागताः । यातेर्लुङि '२३७७ । यम-रम- ।७।२।७३ ।' इति सगिटैौ । शृगाला: प्रदक्षिणं गताः मृगाश्च सव्यमित्यर्थः । भीममुद्वेगकरमरासिषुः रसिताः । रसेः परस्मैपदिनो लुङ् । '२२८४ । अतो हलादेः ।७।२।७।' इति वृद्धौ रूपम् । न रासे: तस्यात्मनेपदित्वात् ॥ १०९ - स प्रोषिवानैत्य पुरं प्रवेक्ष्यन् शुश्राव घोषं न जनौघ-जन्यम् ॥ आकर्णयामास न वेद-नादान्, न चौपलेभे वणिजां पणाऽयान् ॥ २७ ॥ स इत्यादि –स भरतः प्रोषिवान् मातामहकुलात् प्रोषितः सन् । '३०९७१ भाषायां - ।३।२।१०८ ।' इत्यादिना वसुः । यजादित्वात् सम्प्रसारणं द्विवचनम् । '३०९६ । वस्त्रेकाजासां ।७।२।७।' इति इद । पुरमयोध्यामेत्य आगत्य प्रवेभट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः, + क्ष्यन् गृहमित्यर्थात् पुरं प्रविष्टः । घोषं शब्दं न शुश्राव न श्रुतवान् । जनौव- जन्यं जनसमूहेन जन्यमुत्पाद्यम् । 'शकि-शसि चति यति । ' इति जनेर्यत् तथा वेदध्वनीन्नाकर्णयामास न श्रुतवान् । प्रातिपदिकाद्धात्वर्थ इति णिच् । तदन्तात् लियामि । '२।३।१ अयामन्त - १६॥४॥५५॥ इत्ययादेशः । न चोपलेभे नोपलब्धवान् । वणिजां पण्यजीविनाम् । पणायान् पणलाभान् । क्रयविक्रयरूप व्यवहारस्योच्छिन्नत्वात् । पणन्ते इति वणिजः पणेरिजादेश्च व इत्यौणादिकः । पण्यन्त इति पणाः । ३२४३ । नित्यं पणः परिमाणे ।३।३।६६।' इत्यप् । व्यव- हर्तव्याः ईयन्ते प्राप्यन्ते वणिग्भिरित्ययाः लाभाः । ३२३१॥ एरच् ।३।३।५६ । इति इणः कर्मणि अच् । पणानामयाः पणायाः तान् । पणायामिति पाठान्तरम् । वणिजां स्तुतिं संव्यवहारविषयां नोपलेभे । संव्यवहारकुशलाः साधव इति गुपादिपु स्तुत्यर्थपणिना साहचर्यात् पणेरपि तदर्थादेवायप्रत्ययः । '३२७९। अः प्रत्ययात् ।३।३।१०२।' इत्यकार: । टापू । वणिजां प्रलापानिति तृतीयः पाठः । वणिक् प्रसारकलहानित्यर्थः ॥ ११० - चक्रन्दुरुच्चैर् नृ-पतिं समेत्य चऋन्दुरित्यादि तं मातरो ऽभ्यर्णमुपा॑गतता॒ऽस्राः ॥ पुरोहिताऽमात्य - मुखाश् च योधा विवृद्ध मन्यु - प्रतिपूर्ण-मन्याः ॥ २८ ॥ —तं भरतं गृहगतमभ्यर्ण समीपीभूतं समेत्य ढौकित्वा मातरः कौशल्याद्याः नृपतिमुच्चैरत्यर्थं चक्रन्दुः ऋन्दितवत्यः । हा स्वामिन् ! हा राजन् ! क्व गतोऽसीति । उपागतं प्राप्तमस्रमथुजलं यासां ताः एवंविधाः । युध्यन्त इति योधाः पचादित्वादच् । ते च तं समेत्य नृपतिं चक्रन्दुः । पुरो धी- यत इति पुरोहितः । '८९९। ष्ट । २।२।३६।' '३०७६ । दधातेर्हिः ।७।४।४२॥ अमाशब्दः सहार्थे । सह राज्ञा कार्येषु भवतीत्यमात्यः । 'अमेहक्वतसित्रेभ्यः' इति निपातात् पुरोहितामात्यौ मुखं प्रधानं येषां योधानां ते पुरोहितामात्यमुखाः । अमात्यस्याजाद्यदन्तत्वेऽपि पुरोहितस्याभ्यर्हितत्वात् पूर्वनिपातः । विवृद्धमन्युना शोकेन प्रतिपूर्ण मन्ये गलशिरे येषामिति ॥ १११ - दिहक्षमाणः परितः स-सीतं रामं यदा नैक्षत लक्ष्मणं च ॥ रोरुद्यमानः स तदाऽभ्यपृच्छद्, यथावदा॑ख्यन्न॑थ वृत्तम॑स्मै ॥ २९ ॥ दिदृक्षमाण इत्यादि- इस भरतो यदा ससीतं रामं लक्ष्मणं च परितः सर्वतो दिदृक्षमाणः द्रष्टुमिच्छन् । '२७३१॥ ज्ञा-श्रु-स्मृ-दृशां सनः ॥३।५७१' इति तङ् । '२६१३। हलन्ताञ्च ।१।२।१०।' इति सनः कित्त्वे '२४०५। सृजि-ह- तथा लक्ष्य-रूपे कथानके राम- प्रवासो नाम तृतीयः सर्गः- शोः—।६।१।५८।' इत्यम् न भवति । नैक्षत न दृष्टवान् । तदा रोरुद्यमाणः अत्यर्थं रुदन् । यङि रूपम् । अभ्यपृच्छत् पृष्टवान् । ऐक्षताभ्यपृच्छदिति भूतसामान्य- विवक्षया लङ् । अन्यथा कवेः परोक्षत्वात् लिट् स्यात् । अथैतस्मिन् प्रस्तावे यथावत् यादृशं वृत्तं भूतं तथावत् आख्यन् कथितवन्तः पुरोहितामात्यमुखा अस्मै भरताय । ख्याते: '२४३८ । अस्यति ।३।१।५२।' इत्यादिना चलेरङ् । आतो लोपः ॥ ११२ - आवद्ध - भीम - भ्रुकुटी विभङ्गः शेश्वीयमानाऽरुण - रौद्र-नेत्रः ॥ उच्चैरुपालब्ध स केकयीं च, शोके मुहुश् चविरतं यमीत् ॥ ३० ॥ आवद्धेत्यादि –स भरत उच्चैर्महता ध्वनिना केकय च मुहुर्मुहुर्भूयो भूय उपालब्ध उपालब्धवान् । उपाङ्पूर्वो लभिरुपालम्भे वर्तते । तस्मादात्मनेपढ़िनो ८२२८१ । झलो झलि ।८।२।२६॥ इति सिजलोपे धत्वजश्त्वे रूपम् । शोके च मन्यौ अविरतमजस्रं न्यमात् निमझा । मस्जेर्लुङ (२५१७ । मस्जिनशोर्झलि १७।१।६० ।' इति नुम् । तत्रापि मस्जेरन्त्यादिनियमात् नुम् । संयोगादिलोपः । हलन्तलक्षणा वृद्धिः । हलग्रहणं समुदायप्रतिपत्त्यर्थमित्युक्तम् । कीदृशः । आबद्ध- भीमभ्रुकुटीविभङ्गः । 'भ्रमेश्च डु.' इत्यौणादिको डुः । कुडे स्त्रीलिङ्गे भावे कृशा- दिभ्य इतीः । तदन्तात् कृदिकारादिति ङीप् । भ्रुवोः कुटी कौटिल्यं अकुटी । ९९९। इको हस्त्रोऽङयो गालवस्य । ६।३।६॥' इति ह्रस्वः । तस्या विभङ्गो विर- चनम् । आबद्धः कृतः प्रयत्नेनायासवृत्तेन भीमो भयानको भ्रुकुटीविभङ्गो येन यस्य वेति । शेश्वीयमाने अत्यर्थ शूयमाने अरुणे लोहिते रौद्रे भयानके नेत्रे यस्य सः । श्वयतेर्यङि '२४२० । विभाषा श्वेः । ६।१।३०।' इति वा सम्प्रसारणम् ॥ तमुपालम्भमाह- ११३ - नृपऽऽत्मजौ चिक्लिशतुः स-सीतौ, ममार राजा, वि-धवा भवत्यः, ॥ शोच्या वयं, भूरे-नृपा, लघुत्वं केकय्युपज्ञं बत वह्वनर्थम् ॥ ३१ ॥ नृपेत्यादि नृपात्मजौ रामलक्ष्मणौ ससीतौ सीतया सह चिक्किशतुः क्लिष्टौ । ममार मृतो राजा । '२५३८ । म्रियतेर्लुङ् - लिङो ।१।३।६१॥ इति नियमात्तङोऽभावः । विधवाः धवो भर्ता तेन विना भवत्यो जाताः । शोच्या: शोचनीया वयम् अयशोभाजनत्वात् । २८७२ । ऋ-हलोत् । ३।१।१२४।' शङ्क्या इति पाठान्तरम् । शङ्कनीया वयम् । एतत्कृतोऽयं प्रयोग इति । भूचानृपा न विद्यते नृपो यस्यामिति । 'नशोऽस्त्यर्थानाम् इति बहुव्रीहिः । लघुत्वं राज्यप्रार्थनालक्षणं भट्टि- काव्ये – प्रथमे-प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः, केकय्युपज्ञम् । केकय्याः प्रथमतो ज्ञातं नान्यस्य कस्यचित्पूर्व ज्ञातम् । उपज्ञायत इत्युपज्ञम् । '२८९८ । आश्चोपसर्ग ।३।१।३३६।' इति स्त्रियाम । कुलक्षणा षष्ठी । केकय्या उपज्ञेति समासः । '८२४ । उपज्ञोपक्रम ।२।४।२१॥ इति नपुंसकता । बत कष्टम् । बह्वनथं बहुदोपम् । शमरणाद्यनिष्टानां सम्भवात् ॥ भरतकृत एवायं प्रयोग इत्येतत्परिहरन्नाह ११४ - नैतन् मतं मत्कमि॑िति ब्रुवाण सहस्र - शो ऽसौ शपथान॑शप्यत् ॥ उद्वाश्यमानः पितरं स रामं लुठ्यन् स-शोको भुवि रोरुदावान् ॥ ३२ ॥ नैतदित्यादि — यदेतत्केकय्यनुष्ठितं मतमभिप्रायः । न मत्कृतं तत् । नाह- मस्य ग्रामणीर्न प्रभुरिति । अस्मच्छब्दात् '१८७८॥ स एषां ग्रामणीः ।५।२।७८ । इति कन् । '१३७३ । प्रत्ययोत्तरपदयोश्च ।७।२।१८॥ इति मपर्यन्तस्य मादेशः । नास्मन्मताढनुष्ठितमनयेत्यर्थः । इत्येवं बुवाणः सहस्रशो बहुवारानसौ भरतः शपथान् सम्प्रत्ययकारणवचनानि अशष्यत् कृतवान् । अनेकार्थत्वाद्धातूनां शपे- र्देवादिकस्य उभयपदिनो लङि रूपम् । उद्वाश्यमानः आह्वयन् । '१२३८ वाट शब्दे ।' देवादिकः अनुदात्तेत् । पितरं सरामं हा तात ! हा रामेति । लुख्यन् भुवि लुठन् । '१३०१ । लुं विलोडने ।' देवादिकः परस्मैपदी । सशोक इनि शाठ्यपरिहारार्थम् । रोरुदावान् अत्यर्थं रोदनं कुर्वन् । यङन्तात् '३२७९। अप्र- त्ययः ।३।३।१०२।' इत्यकार: । '२३०८। अतो लोपः ।६।४।४८।' '१२६३३॥ यस्य हलः ।६॥४।४९।' स्त्रियामष्टाप् । सा विद्यते यस्येति मतुप् ॥ ११५ - तं सुस्थयन्तः सचिवा नरेन्द्र दि॒िधक्षयन्तः समुदूहुरा॑रात् ॥ अन्त्यऽऽहुतं हावयितुं स - विप्राश् चिचीषयन्तोऽध्वर- पात्र - जातम् ॥ ३३ ॥ तमित्यादि – सचिवा अमात्याः । कार्येषु सचन्ते समवयन्तीति सचेरिव चित्यौणादिक इवन् । तं भरतं सुस्थयन्तः सुस्थं कुर्वाणाः । तत्करोतीति णिच् । नरेन्द्रं दशरथं । समुदूहुः उद्वाहितवन्तः । शिबिकायामारोप्य । वहिरन्तर्भावितण्यर्थोऽत्र द्रष्टव्यः । यजादिश्वात्सम्प्रसारणम् । आरात् नातिदूरे । दिधक्षयन्तः दुग्धुमिच्छन्तं भरतं प्रयोजितवन्तः । दहेः सनि '३२५ । दादेर्धातोर्घः ।८।२।३२॥ ' भष्भावचवें । प्रयोजकव्यापारे णिच् । अन्ते विनाशे भवा या आहुतिः । *१४२९। दिगादि-।४।३।५४ । इति यत् । तामन्त्याहुतिं हावयितुमभौ प्रक्षेप्रयितुं । सविप्राः ब्राह्मणैः सहिताः सचिवाश्चिचीषयन्तः चेतुं निधातुमिच्छन्तः प्रयोजितवन्तः । किं तत् । अध्वरपात्रजातं यज्ञोपयोगिपात्राणां खुवादीनां समूहम् ॥ तथा लक्ष्य रूपे कथानके राम- प्रवासो नाम तृतीयः सर्गः ." ११६ - उदक्षिपन् पट्ट-दुकूल-केतू- न॑वादयन् वेणु-मृदङ्ग - कांस्यम् ॥ कम्बूश च तारानंघमन् समन्तात्, तथाऽऽनयन् कुङ्कुम- चन्दनानि ॥ ३४ ॥ उदेत्यादि पदुकूलविरचितान् केतून् ध्वजानुदक्षिपन् उच्छ्रितवन्तः ये नियुक्ताः । क्षिपेस्तौदादिकस्य ग्रहणम् । वेणुमृदङ्गकांस्यं वंशमुरजकांस्यतालमवादयन् वादितवन्तः । वर्ण्यन्तस्यैव प्रयोगः । '९१० । जातिरप्राणिनाम् ॥२॥४॥६॥' इत्येकवद्भावः । न पुनस्र्याङ्गत्वात् । तत्र हि प्राणिनां तूर्याङ्गाणां द्वन्द्वैकवद्भावः । यथा मार्दङ्गिकपाणविकमिति । 'वृ-तृ-वदि-हनि - कामे-कषि-भ्यः सः ।' इत्यौणादिकः कंसशब्दः । तदर्थाय हितं कंसीयम् । त्रपुणा दृढद्रव्यम् । प्रकृतिविकारभावे छः । तस्य विकार इति । '१५४७॥ कंसीय परशव्ययोर्यजजौ लुक् च ४।३।१६८।' इति छस्य लुक् यञ् च प्रत्ययः । कम्वून् शङ्खान् । तारान् उच्चैस्वरध्वनीन् । अधमन् शब्दितवन्तः । '२३६० । पा घ्रा ।७।३।७८।' इत्यादिना i धमादेशः । तथा कुकुमचन्दनानि आनयन् आनीतवन्तः । सर्वत्र लङि रूपम् ॥ अन्त्येष्टिं दर्शयन्नाह - ११७ - श्रोत्राऽक्षि - नासा वदनं स-रुक्म कृत्वाऽजिने प्राक्-शिरसं निधाय । सञ्चित्य पात्राणि यथा-विधान६१ मृत्विग् जुहाव ज्वलितं चिताग्निम् ॥ ३५ ॥ श्रोत्रेत्यादि — अजिने कृष्णसारचर्मणि प्राकू पूर्व शिरो मूर्धा यस्येति तं प्राकूशिरसं शवं निधाय स्थापयित्वा पश्चात् श्रोनाक्षिनासावदनम् । प्राण्यङ्गत्वादेकवद्भावः । वृत्तृवदीत्यादिसूत्रस्यानन्तरं 'नयतेरा चेति प्रकृतेराकारे नासेत्यौणादिकं रूपम् । सरुक्मं ससुवर्ण कृत्वा । सञ्चित्य विन्यस्य अङ्गप्रत्यङ्गेषु । पात्राणि स्रुगादीनि । यथाविधानं यादृशं विधानमुक्तं गृह्यशास्त्रे । ऋत्विग्याजकः । ऋतौ यजनीति '३७३ । ऋत्विग्-दष्टग्- ।३/२/५९।' इत्यादिना निपातितः । ज्वलितं चिताभिम् । ज्वलनं चितं तदर्थमनिं जुहाव जुहोति स्म ॥ ११८ - कृतेषु पिण्डोदक-सञ्चयेषु, हित्वाऽभिषेकं प्रकृतं प्रजाभिः ॥ प्रत्यानिनीपुर विनयेन रामं प्रायादरण्यं भरतः स पौरः ॥ ३६ ॥ कृतेष्वित्यादि — पिण्डोदकदानास्थि सञ्चयेष्वनुष्ठितेषु प्रजामिः प्रकृतं प्रस्तुतमभिषेकम् । आदिकर्मणि क्रः। हित्वा त्यक्त्वा । '३३३१॥ जहातेच क्त्वि । ७।४।४३ । ' भ० का०६ ६२ भट्टि - काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे तृतीयो वर्गः, इति हिरादेशः । रामं प्रत्यानिनीपुः प्रत्यानेतुमिच्छुः । विनयेन प्रसादुनया न भयादरण्यं वनं प्रायात् गतवान् । भरतः सह पौरैः । अयोध्यानवेर्जनैर्मयकेन प्रसाद्यमानः कदाचिन्नागमिष्यतीति ॥ ११९ - शीघ्रायमाणैः ककुभोऽश्नवानैर् जनैरं - पन्थानमुपेत्य सृतैः ॥ शोकाद॑- भूषैर॑पि भूश् चकासा। ञ्चकार नागेन्द्र स्थाऽश्व-मिश्रैः ॥ ३७ ॥ शीघेत्यादि-जनैर्हेतु भूतैर्भूश्वकासाञ्चकार शोभते स्म । कर्तुः क्रियाफल- योगेऽपि नात्मनेपदम् । आम्प्रत्ययवदित्यत्र पूर्वग्रहणानुवृत्तेः । चकासेश्च परस्मै- पदित्वादिति विधिनियमौ स्थितौ । शीघ्रायमाणैः अशीधैः शीधैर्भवद्भिर्झटिति गच्छद्भिरित्यर्थः । '२६६७। भृशादि ।३।१।१२॥ इति क्यङ् । ङित्त्वात्त ककुभोऽनुवानैः दिशो व्याप्नुवद्भिः । अश्नोतेः सौवादिकस्य आत्मनेपदिनो रूपम् । अपन्धानमुपेत्य सृप्तैः बहुत्वादमार्गमपि गत्वा गतैः । ९४० । ऋक्पूर्-१५।४।७४' इत्यादिना समासान्तः प्राप्तो '९५६ । नज स्तत्पुरुषात् ।५।४।७१॥ इति प्रतिषिद्धः सन् '९५७। पथो विभाषा ।५।४।७२ । इति विकल्पितः । शोकाद्धेतोरभूपैरन- लङ्कारैरपि चकासाञ्चकार । भूः भूमिः । भूपेति ' ३२८० । गुरोच हलः । ३।३। १०३।' इत्यकारप्रत्ययः । ११४८ । चकास दीप्तौ' इत्यस्मात् कास्यनेका ग्रहणं चुलुम्पाद्यर्थमित्याम् । नागेन्द्ररथाश्वमिति द्वन्द्वे एकवद्भावः । अल्पाचतरस्य न पूर्वनिपातः । 'बहुप्वनियमः ।' इति वचनात् । तेन सेनाङ्गत्वात् कृनैकवद्भावेन मिश्रैर्युक्तैः ।'६९३। पूर्व-सदृश - ।२।१।३१।' इत्यादिना तृतीयासमासः ॥ १२० - उच्चिक्यिरे पुष्प - फलं वनानि, सस्नुः, पितॄन् पिप्रियुरोपगासु ॥ आरेटुरि॑ित्वा पुलिनान्य॑शङ्कं, छायां समाश्रित्य विशश्रमुश्च॑ ॥ ३८ ॥ उच्चीत्यादि — ते जनाः गच्छन्तः पुष्पफलं पुष्पाणि फलानि चेति '९६० ॥ जातिरप्राणिनाम् । २।४।६।' इत्येकवद्भावः । उञ्चिक्यिरे उच्चितवन्तः । जिवात्तङ् कर्तुः क्रियाफल्योगात् । '२५२५ । विभाषा चेः ।७।३।५८।' इति धातोः कुत्वम् । —२७२ । एरनेकाचः – १६४८२ । इति यणादेशः । उच्चिच्चिर इति पाठान्तरं युक्तम् । वनानीति हेतुत्वेन '५३९१ । अकथितं ।१।४॥५१॥ कर्म । वनानि विधट्र्यन्तः फलानि जगृहुरित्यर्थः । ततः सस्नुः स्नातवन्तः । स्नातेर्लिटि '२२१४॥ उस्यपदान्तात् ।६।११९६ ।' इति पररूपम् । पितॄन् पिप्रियुः उदकाञ्जलिना तर्पितवन्तः । प्रीणातेर्लिटि इयङादेशः । आपगासु नदीपु । एतत् कृत्वा पुलिनानि सैकतानि इत्वा आरेटुः आरटिता: । आरेमुरिति पाठान्तरम् । शोकापनोदनार्थं तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः६३ कियन्तमपि कालमारमन्ति स्म । '२७७९। व्याङ्- परिभ्यो रमः । १।३।८३ ।' इति परस्मैपदम् । अशङ्कं विस्रब्धम् । छायां समाश्रित्य विशश्रमुः विश्रान्ताः ॥ १२१ - संप्राप्य तीरं तमसाऽऽपगाया गङ्गाऽम्बु- सम्पर्क - विशुद्धि-भाजः ॥ विगाहतुं यामुनम॑म्बु पुण्यं ययुर् निरुद्ध श्रमवृत्तयस् ते ॥ ३९ ॥ संप्राप्येत्यादि–तमसापगायाः तमसाख्यायाः आपगाया: नद्याः । 'अत्यवि- चमि- तमि-नमि-रभि-लभि-तपि-पति-जनि-पणि-गहि-भ्योऽसच्' । यस्याः स्मरणात्पापं ताम्यति सा तमसा । तरसा इति पाठान्तरम् । तत्र तरसा वेगेन आपगाया अर्थात्तमसाया नद्या गङ्गाम्बुसम्पर्कात् विशुद्धिं पवित्रतां भजते या तस्यास्तीरं कूलं सम्प्राप्य गत्वा ते जना निरुद्धश्रमवृत्तयः ययुः गताः । गङ्गेति गन् गम्यद्योरित्यौणादिको गन् । विगाहितुं विगाहिष्यामह इति कृत्वा । यामुनमम्बु यमुनाया इदं यमुनासम्वन्धि जलम् । पुण्यं पुण्यहेतुत्वात् पुण्ययुक्तत्वाद्वा ॥ १२२ - ईयुर् भरद्वाज-मुनेर् निकेतं, यस्मिन् विशश्राम समेत्य रामः । च्युताऽशनायः फलवद्-विभूत्या व्यस्यन्नु॑दन्यां शिशिरैः पयोभिः ॥ ४० ॥ ईयुरित्यादि — भरद्वाजमुनेर्निकेतं आश्रममीयुः गताः । '२४५५। इणो यण् ।६।४।८१॥ इति यत्वम् । अभ्यासस्य '२४५६ । दीर्घ इणः किति १७१४/६९ । इति दीर्घत्वम् । यस्मिन्निकेते रामो विशश्राम विश्रान्तः । समेत्य मिलित्वा । तमीयुर्जना इति योज्यम् । फलवद्विभूत्या फलवतां वृक्षाणां समृद्ध्या हेतुभूतया च्युताशनायोऽपगतबुभुक्षः । '२६६१ । अशनायो – ।७।४।३४।' इत्यादिना निपा- तितः । व्यस्यन् उदन्यां वारयन् । असेदेवादिकस्य रूपम् । उदन्यां पिपासां शिशिरैः शीतलैः पयोभिः ॥ १२३ - वाचं यमान् स्थण्डिल-शायिनश च यु॒यु॒क्षमाणा निशं मुमुक्षून् ॥ अध्यापयन्तं विनयात् प्रणेमुः पना भरद्वाज-मुनिं स-शिष्यम् ॥ ४१ ॥ वाचमित्यादि – ते भरद्वाजमुनिं सशिष्यं शिष्यैः सह वर्तमानं प्रणेमुः प्रण- मन्ति स्म । विनयात् विनयेन । अत एव पदाः पदातयः पादाभ्यां गच्छन्तीति । '३०११। अन्येष्वपि दृश्यते ।३।२।१०१॥ इति डः । '९९२ । हिमकाषिहतिषु च । ६।३।५४।' इति चकारस्य अनुक्तसमुच्चयार्थत्वात् गमोत्तरपदे पदादेशः । पदिति भट्टि काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे तृतीयो वर्गः, योगविभागाद्वा । कीदृशम् । अध्यापयन्तं पाठयन्तम् । कान् वाचंयमान् मौनत्र- तान् । '२९५६ वाचि यमो व्रते ।३।२।५०।' इति खच् । '२९५७ । वाचंयम पु- रंदरौ च ।६।३।६९ ।' इति निपातनात् पूर्वपदस्य अमन्तता । स्थण्डिलशायिनः भूशायिनः ।'१२१६। स्थण्डिलाच्छयितरि व्रते ।४।२।१५। इति णिनिः । युयुक्ष- माणान् योक्तुमिच्छतः । योगाभ्यासनिष्ठानित्यर्थः । अनिशमविच्छेदेन मुमुक्षुन् । मोक्षाभिलाषिण इत्यर्थः । अतएव योगाभ्यासमिच्छन् ॥ ६४ १२५ - आतिथ्यमे॑भ्यः परिनिर्विवप्सोः कल्प- द्रुमा योग-वलेन फेलुः ॥ धाम - प्रथिम्नो नदिमाऽन्वितानि वासांसि च द्राघिम-वन्त्युहुः ॥ ४२ ॥ आतिथ्यमित्यादि — अतिथ्यर्थमातिथ्यमन्नपानादि । '२०९४। अतिथेर्ग्यः ।५।४।२६॥ एभ्यो भरतादिजनेभ्यः इति संप्रदाने चतुर्थी । परिनिर्विवप्सो: निर्व- सुमिच्छोः । दातुमिच्छोरित्यर्थः । निर्पूर्वो वपिड़ोंने वर्तते । धामप्रथिनः । धाम्ना तेजसा प्रथिमा पृथुत्वं यस्य । तेजसो बहिर्निर्गतत्वात् शरीरस्य पृथुत्वं जायते । तस्य भरद्वाजमुनेर्यागवलेन समाधिबलेन । '१२५३ । युज समाधौ ।' इत्यस्य रूपम् । कल्पद्रुमाः फेलुः फलिताः । भक्ष्यान्नपानादिकमित्यर्थः । '२३०३ । तृ-फल-भज- त्रपश्च] । ६ । ४ । १२१' इत्येत्वमभ्यासलोपश्च । वासांसि च वस्त्राणि उद्द्दुः उद्बह- न्ति स्म । यजादित्वात् संप्रसारणम् । दिमान्वितानि मृदुत्वमुपगतानि । द्वाधि- मवन्ति दैर्घ्ययुक्तानि । पृथुमृदुदीर्घशब्देभ्यस्तस्य भाव इत्यर्थे '१७८४ । पृथ्वा- दिभ्य इमनिच्–।५।१॥२२।' । पृथुमृदुशब्दयोः (१७८५५ र ऋतो हलादेः । ६- ।४।१६१॥ इति रादेशः । दीर्घशब्दस्य '२०१६ । प्रिय स्थिर - १६६४।३५७ ।' इत्या- दिना द्वाघादेशः पश्चान्मतुप् ॥ १२५ - आज्ञां प्रतीपुर्, विनयादुपास्थुर् जगुः सरागं, ननृतुः स-हावम् ॥ स - विभ्रमं नेमुरुंदारर्मूचुस् , तिलोत्तमाऽऽद्या वनिताश्च॑ तस्मिन् ॥ ४३ ॥ आशामिति – तस्मिंस्तपोवने तिलोत्तमाद्या वनिता दिव्यस्त्रियः आगता आज्ञामादेशं मुनेः प्रतीपुः प्रतीष्टवत्यः । चेटीभवत्य इत्यर्थः । प्रतिपूर्व इषिग्रहणे वर्तते तस्य लिटि रूपम् । विनयादुपास्थुः उपस्थिताः । पादप्रक्षालनादिदानेन उपस्थानं कृतवत्यः । उपपूर्वात्तिष्ठतेर्लुङि सिच् । '२२२३ । गाति-स्था । २।४।७७१' इति सिचो लुक् । '२२२६ । सिजभ्यस्तविदिभ्यश्च ।३।४।१०९।' इति शेर्जुस् । '२२१४ । उस्यपदान्तात् ।६।१।९६ ।' इति पररूपम् । जगुः सरागं सरकं गीत- तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम तृतीयः सर्ग:- वत्यः । ननृतुः सहावं सशृङ्गारचेष्टं नर्तितवत्यः । सविभ्रमं नेमुः सविलासं प्रणताः । उदारमूचुः अग्राम्यमुक्तवत्यः ॥ १२६ – वस्त्राऽन्न पानं शयनं च नाना - कृत्वाऽवकाशे रुचि - संप्रकृतम् ॥ तान् प्रीति - मानह मुनिस् ततः स्म 'निवध्वमा॑ध्वं, पिवऽत्त शेध्वम् ॥ १४ ॥ वस्त्रेत्यादि — ततो वनितोपस्थानानन्तरमवकाशे प्रदेशे यथाभिमते वस्त्रान्नपानम् । सर्वो द्वन्द्वो विभापैकवद्भवतीत्येकवद्भावः । शयनमित्यधिकरणे ल्युट् । नाना कृत्वा पृथक् कृत्वा । रुचिसंप्रक्लृप्तम् । यस्य यावदभिरुचितं तत्तथैव संपादितम् । '२३५० । कृपो रो लः ।८।२।१८।' । प्रीतिमान्मुनिस्तान् भरतादीनाह स्म उक्तवान् । किमाह - निवध्वं परिधत्त वस्त्राणि । '१०९२ । वसँ आच्छादने ।' इत्यस्य विधौ लोट् । '५२ । झलां जश् झशि ।८।४।१३॥ इति सकारस्य दुकारः । आध्वं उपविशत । आसे: पूर्ववत् दादेशः । अत्त खादत अन्नादिकम् । '१०८० । अ भक्षणे ।' इत्यस्मात् लोट् । पानादिकं पिबत । पिबतेः '२३६०। पा-ध्रा१७१३।७८ ।' इति सूत्रेण पिबादेशः । शेध्वम् स्वपित शयने । सर्वत्र विधौ लोट् ॥ १२७ ते भुक्तवन्तः सु-सुखं वसित्या वासांस्यु॑षित्वा रजनीं प्रभाते ॥ द्रुतं समध्वा रथ-वाजि - नागैर् मन्दाकिनीं रम्य वनां समीयुः ॥ ४५ ॥ ते भुक्तेत्यादि — ते भरतादयः सुसुखमिति क्रियाविशेषणम् । भुक्तवन्तः सन्तो वासांसि । वसित्वा परिधाय । रजनीमुषित्वा रजनीं रात्रि । ३०४६। वसति-क्षुधोः-।७।२।५२।' इतीट् । '५५८। कालाऽध्वनोः । २।३।५।' इति द्वि- तीया । द्रुतं शीघ्रं प्रभाते मन्दाकिनीं नदीं समीयुः संभूय गताः । समध्वा अविच्छिन्नाध्वानः । सङ्गता अध्वन इति प्रादिसमासः । १९५३। उपसर्गादध्वनः ।५।४।८५।' इति समासान्तष्टच् । रथवाजीति द्वन्द्वैकवद्भावः । तेन सहिता नागा इति शाकपार्थिवादित्वात् समासः । अन्यथा सेनाङ्गत्वात् समुदायस्यैकव- द्भावः स्यात् । रम्यवनां रमणीयकाननां रमणीयजलां वा ॥ १२८ - वैखानसेभ्यः श्रुत-राम-वार्तास् ततो विशिञ्जान-पतत्रि-सङ्घम् ॥ अभ्भ्रं लिहाऽग्रं रवि-मार्ग-भङ्गम् आनंहिरे ऽद्रिं प्रति चित्रकूटम् ॥ ४६ ॥ वैखानसेत्यादि — ततो मन्दाकिनीगमनानन्तरं वैखानसेभ्यस्तृतीया श्रमिभट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे तृतीय वर्गः, म्यः । चित्रकूटे रामोऽस्तीति श्रुतरामवार्ताः । चित्रकूटनामानमा पर्वतं प्रति । '५५२॥ लक्षणेत्थम्भूनाख्यान-११।४।१०।' इत्यादिना कर्मप्रवचनीयसंज्ञा । '५४८ । कर्मप्रवचनीययुक्त - ।२।३।८।' इति द्वितीया । तं लक्ष्यीकृत्य आनंहिरे जग्मुः । अंहतेलिंटि द्विवचनम् । '२१७९। हलादिः शेषः ।७।४।६।' । '२२४८। अत आदेः ।७।४।७०।' इति दीर्घः । ८२२८८ तस्मान्नुड् द्विहल: ७ि४।७। इति नुट् । विशिञ्जानपतन्त्रिसंघं कूजत्पक्षिगणम् । अभ्रंलिहाग्रं अभ्रस्पृशिख- रम् । '२९४७ । वहाऽभ्रे लिहः । ३॥२॥३३ ।' इति खश् । '२९४२ । अरुद्विपत्- ॥५॥४॥५१॥ इत्यादिना मुम् । रविमार्गभङ्गम् । उच्चैस्तत्वात् वेर्मार्गभगो यस्मि अनाविति ॥ १२९ इत्यादि-बलौघा वानान् ककुभो बघान् वितत्य शार्ङ्ग कवचं पिना ॥ तस्थौ सिसंग्रामयिषुः शितेषुः सौमित्रिरक्षि- भ्रुवमु॑जिहानः ॥ ४७ ॥ सौमित्रिस्तस्थौ स्थितः । अभ्यासस्य '२२५९॥ दार्पूर्वाः खयः ।७।४।६१॥ इनि खयः शेषः । कीदृशः । ककुभो दिश ऊर्णुवानान् आच्छादयतः । ऊर्णोतेरदा दिकस्योभयपदिनः शानचि उवङादेशे च रूपम् । शार्ङ्गशृङ्गस्य विकार धनुर्वितत्य आरोपितगुणं कृत्वा । '३३३४ । वा ल्याप ।६।४।३८।' इत्यनुनासिकलोपः । कवचं पिना बवा । '१२४१॥ गहँ बन्धने ।' इत्यस्य ल्यपि । अपिशब्दाकारलोपस्तु - 'वष्टि भागुरिरह्योपमवाप्योरुपसर्गयोः । धाञ्कृञोस्तनिनह्योश्च बहुलत्वेन शौनकिः ॥ इति । सिसंग्रामयिपुः संग्रामयि- तुमिच्छुः । '२०७१। संग्राम युद्धे ।' इति चौरादिको णिच् । तदन्तस्य सनि प्रथ- मस्यैकाचो द्विवचनम् । शितेपुः तीक्ष्णशरः । अक्षिणी च भ्रुवौ च अक्षिश्रुवम् । '९४५ । अचतुर–१५॥४॥७७।' इत्यत्र निपातितः । उज्जिहानः ऊर्ध्वं नयन् । '११६४॥ ओ हा-ङ् गतौ ।' इत्यस्य जुहोत्यादिकस्य '२४९६ । भृजामित् ।७।४।१७६३ इतीत्वम् ॥ ८ १३० - शुक्कोत्तरासङ्ग भृतो वि-शस्त्रान् पादैः शनैरापततः ग्रं-मन्यून् ॥ औहिष्ट तान् वीत विरुद्ध-बुद्धीन् विवन्दिषून् दाशरथिः स्व-वर्ग्यान् ॥ ४८ ॥ शुक्लेत्यादि - दाशरथिस्तान् स्ववर्ग्यान् स्ववर्गे भवान् । '१४४३। अशब्दे यत्खौ ।४।३।६४।' इति यत् । आत्मीया अपि कदाचित् दुष्टबुद्धयो भवन्तीत्याह - वीतविरुद्धबुद्धीन् । औहिष्ट ऊहितवान् । ऊहतेरात्मनेपदिनो लुहि आट् १ - 'स-मन्यून्' इति पाठान्तरम् । तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम तृतीयः सर्गः- वृद्धिः । तदेवाविरुद्धबुद्धित्वं दर्शयन्नाह - शुक्कोत्तरासङ्गभृतः शुक्लो य उत्तरा- सङ्गः उत्तरीयं तं बिभ्रतीति क्विप् । विशस्त्रान् निरायुधान् । पादैरापतत आग- च्छतो मुक्तवाहनत्वात् । शनैर्न त्वरया । प्रमन्यून् प्रकृष्टशोकान् आगतशोकान् वा। विवन्दिपून् वन्दितुमिच्छून् ॥ १३१ - स-मूल-कापं चकषू रुदन्तो रामऽन्तिकं बृंहित-मन्यु - वेगाः ॥ आवेदयन्तः क्षिति- पालमु॑च्चैः कारं मृतं राम-वियोग-शोकात् ॥ ४९ ॥ समूलेत्यादि - ते रामान्तिकं रामसमीपं प्राप्ताश्चकपुः पिष्टवन्तः । समू- लकापं समूलं कषित्वा भूमेरधोभागमुत्खन्य । '३३५५ । निमूल समूलयोः कषः । ३ । ४॥३४॥ इति कषेर्णमुल । '३३६७। कपादिषु यथाविध्यनुप्रयोगः ।३।४।४।१ रुदन्तः रोदनं कुर्वन्तः बृंहितमन्युवेगा विवृद्धशोकवेगाः । '७८६ । बृहि॰वृद्धौ ।' इत्यस्य रूपम् । रामवियोगशोकात् कारणात् क्षितिपालं दशरथमुञ्चैःकारं कृत्वा । मृतं निधनंगतं आवेदयन्तः । '३३८१ । अव्यये यथाभिप्रेताख्यान-१३।४।५९।१ इति कृजो णमुल । एतद्यथाभिप्रेताख्यानमिति नीचैराख्यातुमभिप्रेतत्वात् उच्च- रावेदयन्ति ॥ १३२ - चिरं रुदित्वा करुणं स-शब्द गोऽभिधायं सरितं समेत्य ॥ मध्ये- जलाद् राघव-लक्ष्मणाभ्यां प्रतं जलं व्यञ्जलम॑न्तिकेऽपाम् ॥ ५० ॥ चिरमित्यादि – चिरं महान्तं कालं करुणं समन्यु सशब्दं प्रतिकृत्य रुदित्वा । '२६१७ । र लो-व्युपधाद्धलादेः-।१।२।२६ ।' इति कित्त्वे विकल्पिते २६०९ । रुद - विद । १।२।८।' इत्यादिना कित्त्वम् । सरितं समेत्य नदीं संभूय गत्वा । मध्येजलात् जलस्य मध्यात् तस्माद्वा स्नात्वोत्थाय अवतीर्य । ल्यब्लोपे पञ्चमी । '६७२ । पारे मध्ये षष्ठ्या वा ।२।१।१८। इत्यव्ययीभावः । अपञ्चम्या इति प्रतिषेधात् अम्न भवति । नाव्ययीभावादिति लुक्प्रतिषेधश्च । राघवलक्ष्मणाभ्याम् । अपामन्तिके समीपे जलं प्रत्तं दत्तम् । '३०७८। अच उपसर्गात्तः ।७।४। ४७ ।' गोत्राभिधायं नामाभिधायम् । '३९० । द्वितीयायां च १७१२१८७१' इति णमुल । व्यञ्जलमिति अञ्जलिपरिच्छिन्नम् । जलमञ्जली द्वौ विगृह्य । तद्धितार्थे समासः '८०४ । द्वि- त्रिभ्यामञ्जलेः ।५।४।१०२ ।' इति टच् । ताभ्यां प्रत्येकमञ्जलिमदानात् द्वावजली प्रमाणमस्येत्यस्मिन्वाक्ये प्रमाणप्रत्ययस्य प्रमाणे लुक् द्विगोनित्यमिति लुक् । ततः समासान्तो न प्राप्नोति । अतद्धितलुकीत्यधिकारात् ॥ भट्टिकाव्ये -- प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयो वर्गः, १३३ - 'अरण्य - याने सु- करे पिता मा प्रायुङ्क, राज्ये वत दुप्- करे त्वाम् ॥ मा गाः शुचं वीर !, भरं वहा॑ ऽमुम्, 2 , आभाषि रामेण वचः कनीयान् ॥ ५१ ॥ अरण्ययान इत्यादि - अरण्याय यानं अरण्ययानं तस्मिन् सुकरे सुखसाध्ये पिता मां प्रायुत नियुक्तवान् । युजे रौधादिकस्य लङि रूपम् । कर्त्रभिप्राये '२७३'५। प्रोपाभ्यां यजेः-।१।३।६४ । इत्यात्मनेपदम् । राज्ये दुष्करे दुःग्वसाध्ये त्वां प्रायुत । एवं च सति हे वीर, शुचं शोकं मा गाः । मा कार्पीरित्यर्थ: । '२४५८। इणोगलुङ ।२।४।४५॥ २२२३ । गाति-स्था - ।२।४।७७ ।' इति सिचो लुक् । यत इति खेढे । किन्तु भरममुं पितुर्नियोगम् । १९६४ । भृ-ज् भरणे ।' इत्यस्मात् '३२३२। ऋदोरप् ।३।३।५७ । वह संपादय । विधौ लोट् । एवं वचः रामेण कनीयान् अनुजो भ्राता भरतः आभाषि भाषितः । कर्मणि लुङ् । ब्रुवी- त्यर्थग्रहणात् द्विकर्मकता । अल्पशव्दादीयसुने २०१९ । युवाल्पयोः ॥३।६४ । ' इत्यादिना कनादेशः ॥ ૬૮ १३४ - कृती श्रुती वृद्ध मतेषु धीमांस् त्वं पैतृकं चेद् वचनं न कुर्याः ॥ विच्छिद्यमाने ऽपि कुले परस्य पुंसः कथं स्यादिह पुत्र काम्या ॥ ५२ ॥ कृतीत्यादि - वृद्धानां पण्डितानां मतेपु श्रुतानि कृतानि चानुष्टितानि येने- ति । श्राद्धमनेनेत्यधिकृत्य । '१८८८ । इष्टादि ।५।२।८८।' इतीनिः । तस्येन्विष- यस्येति कर्मणि सप्तमी । स्वमते भावक्ता वक्तान्तादस्त्यर्थे इन् । स त्वमेवंविधः धीमान् नेतृकं पितुरागतम् । '१४५८। पितुर्यच्च ।४।३।७९॥ इति चकारादृतष्ठजि '१२२१॥ {सुसुक्तान्तात्कः।७।३।५१॥' चेद्यदि वचनं न कुर्याः । मध्यमपुरुपैकवचने लिङि रूपम् । तदा विच्छिद्यमाने कुले वंशे परस्यापि अन्यस्यापि पुंसः । अपिशब्दो भेन्चक्रमः । कथं स्यादिह लोके पुत्रकाम्या आत्मनः पुत्रेच्छा । नैवेत्यर्थः । पुत्रश- द्वात् '२६६३। काम्यञ्च ।३।१।९।' इति काम्यच् । तदन्तादप्रत्ययः । टाप् ॥ १३५ - अस्माकमुक्तं बहु मन्यसे चेद्, यदीशिषे त्वं न मयि स्थिते च ॥ जिष्य - तिष्ठन् यदि तात-वाक्ये, जहीहि शङ्कां, व्रज, शाधि पृथ्वीम्.' ॥ ५३॥ अस्मत्सम्बन्धि वचनं चेद्र यदि बहु न्यसे आद्वियसे । पितृतुल्यो भ्राता अस्यानुमतः कथमेवं न कुर्यामिति यदि अस्माकमित्यादि — अस्माकमुक्तं तथा लक्ष्य रूपे कथानके राम- प्रवासो नाम तृतीयः सर्गः च मयि स्थिते नेशिषे न प्रभुत्वं करोषि । प्रभुस्त्वमहं स्वदाज्ञाकर इति । ईशेरा- दादिकस्य '२४३९ । ईश: से ।७।२।७७१' इतीडागमः । गुरुवचनमनतिक्रमणीयं विशेषतस्तातवाक्यं तस्मिन्नतिष्टन् वचनमकुर्वाण: यदि जिहेषि लजसे । '२४९० । लौ ।६।१।१०।' इति द्विवचनम् । एतनिश्चित्याह-जहीहि शङ्कां त्यज विक ल्पम् । ब्रज गच्छ अयोध्याम् । शाधि पालय पृथ्वीम् । '२४९८ । जहातेश्च १६।४।११६।' इति इत्वे विकल्पिते । '२४९७ । ई हल्योः ।६।४।११३ ।' इतीत्वम् । शासे: '२४८७ । शा हौ ।६॥४॥३५॥ इति शाभावः । तस्याभीयत्वेनासिद्धत्वात् '२४ २५५ । हु-झल्भ्यो हेधिः ।६।४।१०१॥ ॥ १३६ - 'वृद्धौरसां राज्य- धुरां प्रवोढुं कथं कनीयानहर्मुत्सहेय, ॥ 6 मा मां प्रयुक्थाः कुल-कीर्ति-लोपे, ' ग्राह स्म रामं भरतोऽपि धर्म्यम् ॥ ५४ ॥ वृद्धौरसामित्यादि — भरतः प्राह । धूर्वहनशीला धूर्नयनशीला इत्यर्थः । अनेकार्थत्वाद्धातूनाम् ' ३१५७ । आज भास - । ३।२।१७७१' इति विप् । '२६५५ । राल्लोपः ॥६।४।२१।' इति वलोपः । राज्यस्य सप्ताङ्गस्य धूर्धात्री । प्रकृतिरिति विगृह्य । '९४०। ऋक् पूः-/५/४/७४ ।' इत्यकारप्रत्ययः । ८१२ । परवलिङ्गं । २। ४।२६।' इति धूरिति स्त्रीलिङ्गम् । ततष्टाम् । कीदृशीम् । वृद्धौरसां वृद्धो ज्येष्ठः औरसः पुत्रो यस्याम् । उरसा निर्मित इति छन्दसो निर्मित इत्यनुवृत्तौ १६४६ । उरसोऽण् च ॥४।४।१४।' इत्यण् । तां तिष्ठति रामे प्रवोढुं कथमुत्सहे । कनीयान् सन् । नैवेत्यर्थः। '३१७७ । शक- ध्रुष-।३।४।६५ ।' इत्यादिना वहे: सहावुपपड़े तुमुन् । गर्हायां लडपिजा वोरित्यनुवृत्तौ '२८०० । विभाषा कथमि लिङ् च ।३।३।१४३।' इति लिङ् । सहेरुत्पूर्वस्य आत्मनेपदित्वात् सीयुट् । '२२५७। इटोऽत् । ३।४।१०६।' । '२३११ । लिङः सलोपोऽनन्त्यस्य ।७।२।७९१ । अतो मा मां प्रयुक्थाः मा नियोजय । '२२१९ । माङि लुङ् ।३।३।१७५॥ २२८॥ झलो झलि ।८।२।२६।' इति सिचो लोपः । कुलकीर्तिलोपे । लोपयतीति लोपः पचायच् । रघुवंशस्य या कीर्तिः तस्या लोप इति समासः । पूर्वैरनाचरितत्वात् एवं च धर्म्यं धर्मादनपेतं भरतोऽपि प्राह स्म उक्तवान् । पुनश्चाह १३७ - 'ऊर्जस्वलं हस्ति-तुरङ्गमे॑तद्, अमूनि रत्नानि च राज-भाञ्जि, ॥ राजन्यकं चैतदहं क्षितीन्द्रस् त्वयि स्थिते स्यामि॑िति शान्तमेतत् ' ॥ ५५ ॥ ऊर्जेत्यादि-एतद्वस्तितुरङ्गम् । सेनाङ्गत्वादेकवद्भावः । ऊर्जस्वलं बलवत् । भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थो वर्गः, ऊर्जनमूर्क । संपदादित्वात् किप् । सा विद्यते यस्येति । १९२३॥ ज्योत्स्ना मिस्रा – ।५।२।११४।' इत्यादिना वलच् । असुगागमश्च । अमूनि च रखानि राज भाञ्जि राजगृह्याणि । एतच्च राजन्यकं क्षत्रियसमूहः । क्षितीन्द्रो राजा अः त्वयि स्थिते स्यामिति भवामीति शान्तमेतत् । स्यामिति निमन्त्रणे नियोगक रणे लिङ् । vo १३८ - इति निगदितवन्तं राघवस् तं जगाद - 'व्रज भरत ! गृहीत्वा पादुके त्वं मदीये, ॥ च्युत - निखिल विशङ्कः पूज्यमानो जनौघैः सकल-भुवन राज्यं कारया॑ ऽस्मन्- मतेन', ॥५६॥ इतीत्यादि — इति एवं निगदितवन्तं उक्तवन्तं तं भरतं राघवो रामो जगाद उक्तवान् । किमित्याह–हे भरत ! मदीये पादुके उपानहौ गृहीत्वा त्वं व्रज गच्छ । विधौ लोट् । अस्मदस्त्यदादित्वे '१३३६ । त्यदादीनि च ।१।१।७४ । इति वृद्ध- संज्ञायां तस्येदमर्थे ' १३३७। वृद्धाच्छः ।४।२।११४।' '१३७३ । प्रत्ययोत्तरपदयोश्च ।७।२।१८।' इति मदादेशः । ततश्च पूज्यमानो जनौवैर्जनसमूहैः । च्युत निखि- लविशङ्कः अपगताशेषविकल्पः । सकलभुवनराज्यं सर्वत्र भूमण्डले राज्यं कारय अनुष्टापय । पाटुके इति योज्यम् । अस्मन्मतेन अस्माकमभिप्रायेण । अत्र मदादेशो न भवति अस्मदो बहुवचनान्तस्य विवक्षितत्वात् । तत्र ह्येकवचन इति वर्तते । ननु कथं मदीय इत्यत्र मदादेशः बहुवचनान्तत्वादिति जिरोधः । पादुके रामस्यैव तर्ह्यस्मन्मतेन इत्यत्रापि एकवचनम् । आवयो रामलक्ष्मणयोर्मतेनेति पष्टीसमासे न दोपः ॥ इति श्री जयमङ्गलाऽऽख्यचा व्याख्यया समलंकृते श्री भट्टिकाव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे तृतीयः परिच्छेदः ( वर्गः ), तथा लक्ष्य रूपे कथानके श्री राम - प्रवासो नाम तृतीयः सर्गः पर्यवसितः । चतुर्थः सर्गः- १३९ - निवृत्ते भरते धी- मानु॑त्रे रामस् तपोवनम् ॥ प्रपेदे, पूजितस् तस्मिन् दण्डकारण्यमयिवान् ॥ १॥ निवृत्त इत्यादि — धीमान् बुद्धिमान् अत्र स्थिते मयि कदाचिद्भरतः पुनरेव्यतीत्येवं बुद्धिमान् रामः अत्रेर्महर्षेस्तपोवनं प्रपेदे गतः । तस्मिंश्च तपोवने अर्घ्यपाद्यादिभिः पूजितः । दाण्डक्यो नाम भोजो भार्गवकन्यामहरत् । तच्छा- पात् पांसुवर्षेणाकान्तः सबन्धुराष्ट्रविनाशो यस्मिन् स्थाने तत्वोपलक्षितम् १ - मालिनी च्छन्दः । तलक्षणे, (२६) श्लोकोक्तं टीकनं प्रेक्ष्यम् । तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः- अरण्यमभूत् । तदीयिवान् गतवान् । '३०९८ । उपेयिवान् ।३।२।१०९ ।' इत्यत्र उपसर्गस्यातन्त्रत्वात्केवलादपीण: वसुः ॥ १४० - अटाट्यमानो ऽरण्यानीं स-सीतः सह-लक्ष्मणः ॥ वलाद् बुभुक्षुणौत्क्षिप्य जो भीमेन रक्षसा ॥ २॥ अटाट्येत्यादि-महदरण्यमरण्यानी । '५०५॥ इन्द्र वरुण - ।४।१।४९ । ' इत्यादिना हिमारण्ययोर्महवे ङीपानुकौ । तां अटाट्यमानः अत्यर्थमटन् रामः । 'सूचि - सूत्रि- ' इत्यादिना यङ् । ससीतः सहलक्ष्मणः १८४९। वोपसर्जनस्य ।५।३॥८२ ।' इति विकल्पेन सभावः । बलात् बलवत्तया जहे हृतः । गृहीन इत्यर्थः । कर्मणि लिट् । उत्क्षिप्य उत्थाप्य हस्ताभ्यां केनापि रक्षसा । वैश्रवण- शापात् तुम्बुरुनाम्ना गन्धर्वेण राक्षसीभूतेन विराधाख्येन बुभुक्षुणा भोक्तुमिच्छु- ना । भीमेन भयानकेन । 'भियः पुक्' इत्यौणादिकपुगभावपक्षे रूपम् ॥ १४१ - अवाक् - शिरसमुत्पाद कृ॒तान्तेना॑ ऽपि दुर्-मम् ॥ भङ्क्त्वा भुजौ विराधऽऽख्यं तं तौ भुवि निचनतुः ॥ ३ ॥ अवागित्यादि – तं विराधाख्यं राक्षसम् । कृतान्तेनापि यमेनापि । दुर्दम दुःखेन दम्यत इति खल । तौ रामलक्ष्मणौ भुवि निचरखतुर्निखातवन्तौ । कीदृशम् । अवाशिरसं अवाक् शिरो यस्येति अधोमस्तकम् । ऊर्ध्वं पादौ यस्येति उत्पादम् । भुजौ भङ्क्त्वा मोटयित्वा । '३।३३० । जान्त-नशां विभाषा ६४ ३२।' इत्यनुनासिकलोपाभावपक्षे रूपम् ॥ १४२ - आंहिषातां रघु-व्याघ्रौ शरभऽऽश्रमं ततः ॥ अध्यासितं श्रिया ब्राह्म्या शरण्यं शरणैषिणाम् ॥४॥ आंहीत्यादि — ततो विराधवधानन्तरं रघुव्याघ्रौ शरभङ्गनाम्नो सुनेराश्रमम् आंहिषातां गतवन्तौ । अहेर्लुङि रूपम् । अध्यासितं आश्रयीकृतम् । श्रिया लक्ष्म्या । ब्राह्म्या ब्रह्मसम्बन्धिन्या । ब्रह्मण इयमित्यण् । '११५८। ब्राह्मोऽजातो ।६।४।१७१।' इति निपातनात् टिलोपः । '४७० । टिड्ढाणञ्- ।४।१।१५।' इत्या दिना ङीप् । शरणे अवस्थाने साधु अनुकूलं शरण्यम् । १६५० । तन्त्र साधुः ।४।४।१८।' इति यत् । शरणैषिणां शरणं त्राणमेषितुं शीलं येषाम् ॥ १४३ - पुरो रामस्य जुहवाञ्चकार ज्वलने वपुः ॥ शरभङ्गः प्रदिश्या॑ssरात् सुतीक्ष्ण-मुनि- केतनम् ॥५॥ पुर इत्यादि — शरभङ्गो रामस्य पुरः अग्रतः वपुः शरीरं ज्वलने अनौ जुहवाञ्चकार कुष्टित्वात्तस्य । '२४९१॥ भी -ही-भृ-हुवां - ३॥१॥३९॥ ' इति आम् ७२ भट्ट- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थी वर्गः, आमि लुभावे द्विवचनम् । किं कृत्वेत्याह- प्रदिश्य कथयित्वा । किम्-आरात् समीपे सुतीक्ष्णनानो मुनेः केतनं आश्रमम् । तत्र वासमुपकल्पयेति ॥ तब किमत्रावस्थानमिति चेदाह -- १४४ - यूयं समैष्ययै॒त्य॑स्मि- नासिष्महि वयं वने, ॥ P दृष्टाः स्थ, स्वस्ति वो, यामः स्व-पुण्य - विजितां गतिम् ॥ ६ ॥ यूयमित्यादि – अपि नाम यूयं समैप्यथ आगमिष्यथ । आङ्पूर्व इण् आगमने वर्तते । '७३ । एत्येवत्यू । ६।१।८९।' इति वृद्धिः । इत्यस्मास्कारणात् । अस्मिन्वने वयमासिष्महि स्थिताः । असेलुंङि रूपम् । '८१८ । अस्मदो द्वयोश्च ॥२।५९ । इति चकारस्यानुनसमुच्चयत्वादेकत्वे बहुवचनम् । अस्मदागमने किं ते फलामे- ति चेदाह - दृष्टाः स्थ अधुना दृष्टा भवथ । अस्तेर्मध्यमपुरुपबहुवचने '२४६९॥ श्वसोरल्लोपः ।६।४।११।' इत्यकारलोपः । स्वस्ति कल्याणम् । वः युष्मभ्यम् । नमः- स्वस्ति ।२।३।१६।' इत्यादिना चतुर्थी । '४०५ । बहुवचनस्य वस्त्रसौ 1८।३ ।२१॥ स्वपुण्येन विजितां लब्धां गतिं जन्म । यामः व्रजामः । रामरूपेण वि- ष्णुरवतीर्णः तं दृष्ट्वा यास्याम इत्यत्र वयं स्थिता इति ॥ ८५८३३ १४५ - तस्मिन् कृशानु-सा भूते सुतीक्ष्ण-मुनि-सन्निधौ ॥ उवास पर्ण-शालायां भ्रमन्न॑निशर्माऽऽश्रमान् ॥७॥ तस्मिन्नित्यादि — तस्मिन् शरभने कृशानुसाते कार्येनाशीभृते । '२१- २२ । विभाषा साति का ।५।४।५२॥ इति सातिः । रामः सुतीक्ष्णस्य मुनेः सन्निधौ समीपे पर्णशालायां पर्णकुट्यामुवास उपितवान् । तत्र कृताधिवासस्य वृत्तिमाह - भ्रमन्ननिशमाश्रमान् पर्यटन् सदा तपोवनानि मुनीन् उपासिनुम् ॥ १४६ - वनेषु वासतेयेषु निवसन् पर्ण-संस्तरः ॥ शय्योत्थायं मृगान् विध्यन्नतिथेयो विचक्रमे ॥ ८ ॥ वनेष्वित्यादि – वासतेयेषु वसतौ साधुपु । '१६५६ । पथ्यतिथि- ।४।४।१०४।' इत्यादिना ढज् । निवसन् शयानः । संस्तीयंत इति संस्तरः । '३२३२। 'ऋोरप् ।३।३।६७ ॥ पर्णानि संस्तरो यस्येति पर्णसंस्तरः । शय्योत्थायं शय्याया उत्थाय । उत्पूर्वात्तिष्ठतेः । '३३७३ । अपादाने परीप्सायां ।३।४।१२। इति णमुल । शय्यते अस्यामिति शय्या । ' ३२७६ । संज्ञायां ॥३।३।९९१ ।' इत्यादिना क्यप् । त्वरया मुखधावनादीन्यपि न कृत्वा । मृगान्विध्यन् ताडयन् । '२४१२॥ ग्रहि·ज्या–६।१।१६।' इत्यादिना सम्प्रसारणम् । तत्रापि नारमार्थ लुब्ध इत्याह -आतिथेयः अतिथौ साधुः । पूर्ववत् ढञ् । विचक्रमे विहरति स्म । '२७१४॥ वेः विहरणे ।१।३।४-१॥ इति तङ् ॥ तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः- १४७ - ऋग्- यजुषम॑धीयानान् सामान्यांश्च समर्चयन् ॥ बुभुजे दैव-सात् - कृत्वा शूल्यमुख्यं च होम-वान् ॥९॥ ऋग्यजुषमित्यादि — ऋक् च यजुश्च ऋग्यजुषम् । ८९४५। अचतुर– १५॥४॥७७१' इत्यादिना निपातितम् । '९३० । द्वन्द्वाच्चु -द-ष-हाऽन्तात् समाहारे ।५।४।१०६।' इति टच् । ऋग्वेदं यजुर्वेदं च अधीयानान् पठतः । इङोऽधि- पूर्वस्य लटि शानचि रूपम् । '६२७ । न लोक ।२।३।६९ ॥ इति षष्टीप्रतिषेधः । सामान्यांश्च सामसु साधून् द्विजान् । '१६५० । तत्र साधुः ।४।४।१८।' इति यत् । '११५४ । ये चाभावकर्मणोः । ६।४।१६८।' इति प्रकृतिभावः । समर्चयन् पूजयन् । शूल्यमुख्यं च मांसं बुभुजे भुक्तवान् । झूले उखायां च स्थाल्यां संस्कृतम् '५२१८ । शूलोखाद्यत् ।४।२।१७॥ २७३७॥ भुजोऽनवने ।१।३।६६।' इति तङ् । किं कृत्वा - देवसात्कृत्वा देवेभ्यो दत्वा । तदधीनं कृत्वा । '२१२४ । देये त्रा च । ५/४/५५।' इति चकारात् सातिश्च । होमवान् होमो विद्यते यस्येति । कृताग्निकार्य इत्यर्थः ॥ ७३ युग्मम् ( २ ) १४८ - वसानस् तन्त्रक - निभे सर्वाङ्गीणे तरु-त्वचा ॥ काण्डीरः खाङ्गिकः शाङ्क रक्षन् विप्रांस्त॑नुत्र-वान् १० वसान इत्यादि — असौ रामो वनेष्वानभ्र भ्रान्तवानिति वक्ष्यमाणेन लोकेन सम्बन्धः । वसानः परिधानः । १०९२ । वसँ आच्छादने ।' इत्यस्मात् शानच् । तरुत्वचौ वल्कले प्रत्यग्रे । तत्रकः '१८७० । तन्त्रादचिरापहृते ॥५॥२॥ ७० ।' इति कन् । तन्निभे तत्तुल्ये । सर्वाङ्गीणे सर्वाङ्गाणि व्याप्नुवत्यौ । '१८०८ तत्सर्व-।५।२।७।' इत्यादिना खः । काण्डीर: काण्डोऽस्यास्तीति । १९१८। काण्डाण्डादी रन्नीरचौ ।५।२।१११११ । खाङ्गिकः खड्गोऽस्यास्तीति । '१९२२ । अत इनिठनौ ।५।२।११५।' खाङ्गिक इति पाठान्तरम् । तत्र खड्गः । १६०७ प्रहरणं ।४।४।५७१' इति ठक् । शाङ्ग सधनुः । तनुत्रवान् तनुं शरीरं त्रायत इति तनु- त्रम् । '२९१५ । आतोऽनुपसर्गे कः । ३।२।३।' इति संसर्गे मतुप् । पिनद्धकवच इत्यर्थः । स एवंविधो विप्रान् ब्राह्मणान् रक्षन् ॥ १४९–हित्वाऽऽशितङ्गवीनानि फलैर् येष्वशितम्भवम् ॥ तेष्व॑सौ दन्दशूऽरिर् वनेष्वा॑नत्र निर्भयः ॥ ११ ॥ हित्वेत्यादि — आशितास्तृप्ता गावो येषु भवन्ति तृणप्रायत्वात् । २०७१। अपडक्षा - 1५॥४॥७॥' इत्यादिसूत्रेण खः पूर्वपदस्य च मान्तत्वं निपात्यते । तान्यरण्यानि हिरवा येषु वनेषु फलैराशितम्भवमाशितस्य भवनं तृप्तिर्वर्तते । १ - 'द्वाभ्यां युग्ममिति प्रोक्तं, त्रिभिः श्लोकैर् विशेषकम् ॥ कलापकं चतुर्भिः स्यात् तदूर्ध्वं कुलकं स्मृतम् ॥ १ ॥ भ. का. ७ ७४ भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थी वर्गः, '२९६२ । आशिते भुवः - ।३।२।४५।' इत्यादिना भावे खच् । तेष्वानभ्र । ५९७ ॥ अनँ, ५९८ । वाँ' इति गत्यथां धातुः । लिटि '२२४८ । भत आदेः १७।४।७०।' इनि दीर्घे '२२८८ । तस्मान्नुहलः ।७/४/७१॥ इति नुट् । दन्दशुकारिः च्यालानां हन्ता । '२६३५ । लुप-सद-।३।१।२४।' इत्यादिना दंशेर्यङ् । तदन्तात् '३३४६। यज-जप - ।३।२।१६६।' इत्यादिना ऊकः ॥ १५० - व्रातीन-व्याल- दीप्राऽस्त्रः सुत्वनः परिपूजयन् ॥ पर्षलान् महा- ब्रह्मरोट नैकटिकाऽऽश्रमान् ॥ १२ ॥ त्रातीनेत्यादि — तेषु वनेषु भ्रमन् नैकटिकाश्रमानाट गतवान् । अटेरभ्या- सस्य '२२४८। अत आदेः ।७।४/७०।' इति दीर्घत्वम् । ग्रामस्थान्तिके क्रोशमात्रं व्यक्त्वा यतयो भिक्षवो ये निवसन्ति ते नैकटिका: । '१६२४ । निकटे वसति ।४।४।८३ ।' इति उफ् । तेषामाश्रमांस्तपोवनानि । कीदृशः । व्रातीनव्यालदीशास्त्रः । •नानाजातीयाः अनियतवृत्तयः शरीरमायास्य ये जीवन्ति ते व्राताम्तेपां यत्कर्म तदपि व्रातं तेन जीवन्ति इति व्रातीनाः । '१८२२ । व्रातेन जीवति ।५।२।२१॥ इति खन् । तेषां व्याला हिंस्राः उपघातकाः तेषु दीप्रास्त्रः ज्वलदायुधः । सप्त- मीति योगविभागात्सः । सुत्वनः सुतवतः परिपूजयन् । सोमपायिन इत्यर्थः । '३०९१ । सुयजोर्ङ्गनिप् । ३ । २ । १०३ । ' तुक् । ८३५५ । न संयोगा।६॥४।१३७।' इत्यल्लोपो न । पर्षद्लानिति । 'पर्ष स्नेहने' अस्मात्पर्पते स्त्रिद्यतीति । शृष्णमो दिरित्यत्र पर्बाहुलंका दौणादिको दिः पर्षत् । तत्र यदि १९१९ । रजः- कृप्या सुति- पर्षदो वलच् ।५।२।११२।' इति तदा पर्षत् विद्यते येषां सुत्वनामिति वलच् । अत्र परिपीदतीति परिषत् क्विबन्तो यथा 'परिषद्प्येषा गुणग्राहिणी' तदा परिषदलं सहायो येषामिति बहुव्रीहिः । महाब्रह्मैर्महाब्राह्मणैः । '८०६' कुमहद्भ्यामन्यतरस्याम् । ५।४।१०५ ।' इति टच् । तैः सहाट ॥ युग्मकम् ( २ ) १५१ - परेद्यव्य॑द्य पूर्वेद्युर॑न्येश् चऽपि चिन्तयन् ॥ वृद्धि - क्षयौ मुनीन्द्राणां प्रियं-भावुक ताम॑गात् ॥ १३ ॥ परेद्यवीत्यादि ― परेद्यवि परस्मिन् आगामिनि दिवसे इत्यर्थः । अद्यैतस्मि- बहाने । पूर्वेद्युः पूर्वस्मिन्नहनि । अन्येयुरन्यस्मिन्नहनि चिरातिकान्ते चिरगामिनि दिवसे परेद्यवीत्यादिषु दिवसेषु मुनीन्द्राणां वृद्धिक्षयौ उदयापचयौ चिन्तयन् । •प्रियम्भावुकतां पूर्व प्रियाप्रियस्वभावनिर्मुक्तत्वादतथाभूतः सन् प्रियो भवतीति 'प्रियम्भावुकः । आढ्यसुभगेत्यधिकृत्य '२९७४ । कर्तरि भुवः खिष्णुच् खुकजौ । ३।२।५७।' इति खुकञ् । तद्भावः । तामगात् गतः । अर्थान्मुनीन्द्राणामेव । परेद्यव्यादयः शब्दाः १९७० । सद्यः - परुत् ।५।३।२२॥ इत्यादिना निपातिताः ॥ १५२ - आ-तिष्ठद्-गु जपन् सन्ध्यां प्रक्रान्तामायतीगवम् ॥ प्रावस्तरां पतत्रिभ्यः प्रबुद्धः प्रणमन् रविम् ॥ १४ ॥ तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः ७५ आतीत्यादि - जपन्मन्त्रमिति सामर्थ्यलभ्यम् । सन्ध्याकालोऽधिकरणम् । तेन अत्यन्तसंयोगे द्वितीया । सम्यक् ध्यायन्त्यस्यामिति । '३२८३ । आतश्लो- पसर्गे ।३।३।१०६ ।' इत्यङ् । किमवधिं सन्ध्यामित्याह - प्रक्रान्तमायतीगवम् । आयत्या आयान्त्यो भवन्ति यस्मिन् काले गावः अस्मिन्नायतीगवं आरब्धाम् । '६७१ । तिष्ठद्दु प्रभृतीनि - ।२।१।१७।' इत्यव्ययीभाव समासत्वात्साधुः । '६५७ नाव्ययीभावात् ।२।४।८३।' इति सप्तम्या अम्भाव: । आङ्पूर्वादिणः शतारे '२४५५ । इणो यण् ॥६॥४।८॥ इति यणि ङीपि च रूपं आयतीति । गावोऽपि गोचरात् गोष्ठमायान्ति दिवसस्यार्धनाडिकावशेषे सन्ध्यापि तदैव प्रवर्तते । कियन्तमेवं जपन्नित्याह- आतिष्ठद्गु इति । तिष्ठन्ति गावो यस्मिन् काले दोहाय । गावो हि रात्रिप्रथमयामस्य नाडिकायामतीतायां विश्रान्ताः सत्यः उत्थाप्य दुह्यन्ते । आतिष्ठदिति '६६७ । आङ् मर्यादाभिविध्योः ।२।१।१३।' इत्यव्ययी- भावः । '६७१ । तिष्ठदु-प्रभृतीनि च ।२।१।१७।' इति चकारस्यानुक्तसमुच्चयार्थ- त्वाद्रव्ययीभाव एव । पुनः समासान्तरं न भवति । प्रातस्तरामिति । प्रातरित्य- व्ययं प्रभातवाचि । प्रकर्षविवक्षायां तरम् । तदन्तात् '२००४ । किमेत् - १५/४।११॥' इत्यादिना आम् अतिप्रभाते । पतत्रिभ्यः कुक्कुटादिभ्यः प्रथमं प्रबुद्ध उत्थितः । '६३९। पञ्चमी विभक्के ।२।३।४२।' इति पञ्चमी । रविमादित्यं प्रणमन् यदा चरति तदा प्रियम्भावुकतामगादिति पूर्वेण योज्यम् ॥ । १५३ - दहशे पर्ण- शालायां राक्षस्या ऽभीकया ऽथ सः ॥ 13 भायो॒ तम॑वज्ञाय॒ तस्थे सौमित्रयेऽसकौ ॥ १५ ॥ दहश इत्यादि - पर्णानां शालायां स्थितः स रामः राक्षस्या ददृशे दृष्टः । कीदृश्या । अभीकया कामुक्या । ११८७४ अनुकाऽभिका- ।५।२।७४ ।' इत्यादिना निपातितः । दृशेः कर्मणि लिट् । अथ दर्शनानन्तरं भार्योढं ऊढभार्यमूढा भार्या यस्येति । आहिताम्यादिषु दर्शनात् निष्ठान्तस्य परनिपातः । अवज्ञाय अनादृत्य । सद्भार्यत्वात् । असकौ राक्षसी पापासौ । कुत्सायां '२०२५॥ अध्यय-सर्वनाम्ना- मकच्-।५।३।७१।' सौमित्रये लक्ष्मणाय । '५३२ । लाघ-हुई-।१।४।३४।' इत्यादिना सम्प्रदानसंज्ञा । तस्थे स्वाभिप्रायं मैथुनायाविष्कृतवती । '२६९० । प्रकाशन- स्थेयाख्ययोश्च ।१।३।२३।' इति प्रकाशने तङ् ॥ कलापेकम् (8) १५४ - दधाना वलिभं मध्यं कर्ण-जाह-विलोचना ॥ वाक्-त्वचेनाऽति-सर्वेण चन्द्र लेखेव पक्षतौ ॥ १६ ॥ द्धानेत्यादि — सा तं प्रार्थयाञ्चक इति वक्ष्यमाणेन सम्बन्धः । कीदृशी । मध्यं स्तनजधनयोरन्तरम् । वलिभं वलयोऽस्मिन् सन्तीति । १९४५॥ तुन्दिवलि-वटेभः ।५।२।१३९।' दधाना धारयन्ती । कर्णजाहविलोचना । कर्णजाहं १ – (१४८) श्लोकोक्तं टीकनं प्रेक्ष्यम् । भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थी वर्गः, कर्णमूलसमीपमित्यर्थः । '१८२५ । तस्य पाकमूल ।५।२।२४।' इत्यादिना जाहच् । कर्णजाहयोर्विश्रान्ते विलोचने यस्या इति सप्तम्युपमानेत्यादिना उपपदलोपी बहु- व्रीहिः । वाक्त्वचेन याक् च त्वक् चेति प्राण्यङ्गत्वादेकवद्भावः । '९३०। द्वन्द्वाचु- द-ष-हान्तात् - 1५।४।१०६।' इति ट्च् । अतिसर्वेण अतिक्रान्तेन सर्वम् । अत्यादय इति समासः । '६५५ । एकविभक्ति चापूर्वनिपाते । १॥२॥४४॥ इति सर्वेशब्दस्योप- सर्जनत्वेऽपि पूर्वनिपातो न भवति अपूर्वनिपात इति प्रतिषेधात् । वाक्त्वचेन वाङ्मयेन माधुर्येण मार्दवेन चासाधारणेनोपलक्षितेनत्यर्थः । इत्यम्भूते तृतीया । चन्द्रलेखेव पक्षतौ तनुत्वात् । पक्षोऽत्रार्धमासः । तस्य मूले प्रतिपदि । १८२६ । पक्षात्तिः ।५।२।२५॥ ॥ १५५ - सुपाद् द्वि-रद-नासोरूर् मृदु-पाणि-तलाऽङ्गुलिः ॥ प्रथिमानं दधानेन जघनेन घनेन सा ॥ ३७ ॥ सुपादित्यादि – शोभनौ पादौ यस्याः असौ सुपात् । १८७९। सङ्ख्यासुपू वस्य ।५।४।१४०।' इति पादान्तलोपः '४५७ । पादोऽन्यतरस्यां ।४।११८।' इति यदा ङीप् नास्ति तदेत्थं रूपम् । द्विरदनासोरुदिनासे इब करिपोतकराविव ऊरू यस्याः । उपमानपूर्वो बहुव्रीहिः । '५२४ । ऊरूत्तरपदा दौपम्ये ।४।११६९।१ इति ऊङ् । रद्यते अनेनेति रदः दन्तः । '३२९६ । पुंसि संज्ञायां घः । ३।३।११८।' करणे । द्वौ रदौ यस्येति द्विरदः । मृदुपाणितलाङ्गुलिः । तलं च अङ्गुलिश्चेति द्वन्द्वः । तत्र ध्यन्ताल्पाच्तरयोः अल्पाचूतरस्य पूर्वनिपातः । पाण्योस्तलाङ्गुलि पाणितला- जुलि । मृदु पाणितलाङ्गुलि यस्य इति योज्यम् । अथिमानं पृथुतां दुधानेन धारयता । धनेन उपचितेन जघनेनोपलक्षिता सा राक्षसी ॥ १५६ - उन्-नसं दधती वक्रं शुद्ध-दल-लोल-कुण्डलम् ॥ कुर्वाणा पश्यतः शंयून् स्रग्विणी सु-हसाऽऽनना ॥१८॥ उन्नसमित्यादि — उच्यते अनेनेति वक्रम् । सर्वधातुभ्य औणादिकः ट्रन् तत्र वक्रशब्दो मुखैकदेशे वर्तमानोऽपि कविभिः समुदाये प्रयुज्यते । वॐ मुख- मुन्नसं दधती । '४२७॥ नाभ्यस्ताच्छतुः ॥७॥१॥७८।' इति नुम् न भवति । उन्नता नासिका यस्मिन्निति । अञ्नासिकायाः संज्ञायां नसं चेत्यधिकृत्य '८५८। उपम- र्गाच्च ।५।४।११९॥' इत्यच् । नासिका च नसादेशमापद्यते । शुद्धत् शुद्धाः शुक्ला दन्ता यस्तच्छुत् '८८३ । अग्रान्तशुद्ध ।५।४।१४५।' इत्यादिना ददादेशः । लोले चञ्चले कुण्डले यस्मिन् तत् लोलकुण्डलम् । पश्यतो जनान् शंयून् विद्य- • मानसुखान् कुर्वाणा शं सुखं तदस्यास्तीति । '१९४४ । कं-शंभ्यां ब-भ-युस्ति- तु-त-यसः ।५।२।१३८ ।' इति युस् । सित्वात्पदसंज्ञा । अनुस्वारः । अपश्यतो वा शंबून् कुर्वाणा पश्यतां तु पीडाकरी । स्रग्विणी मालावती । ५९२८। अस्माया- १५।२।१२१॥ इत्यादिना विनिः । सुहसानना हसनं हसः । '३२३९। स्वन-ह- सोर्चा ।३।३।६२।' इत्यप् । शोभनहसनमाननं यस्याः सा ॥ तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः- १५७ – प्राप्य चञ्चूर्यमाणा ऽसौ पतीयन्ती रघूत्तमम् ॥ अनुका प्रार्थयाञ्चक्रे प्रिया कर्तुं प्रियंवदा ॥ १९ ॥ प्राप्येत्यादि प्राप्य ढौकित्वा । चञ्चूर्यमाणा गर्हितमाचरन्ती । प्राणिनो हन्तव्या इति । चरेः '२६३५॥ लुप-सद - ।३।१।२४।' इत्यादिना भावगयां यङ् । '२६३६ । चर-फलोश्च ।७।४।८७१' इत्यभ्यासस्य नुक् । '२६३७॥ उत्परस्यातः । १७१४१८८।' इत्युत्वम् । '३५४ । हलि च ।८।२।७७॥ इति दीर्घत्वम् । पतीयन्ती आत्मनः पतिमिच्छन्ती । '२६५७ । 'आत्मनः क्यच् ।३।१।८।' अनुका अभि- लापुका । '१८७४ । अनुका ।५।२।७४ ।' इत्यादिना निपातितः । रघूत्तमं लक्ष्मण प्रार्थयाञ्चके प्रार्थितवती । प्रियाकर्तुमनुलोमयितुम् । पति स्या इति । '२१३४॥ सुखप्रियादानुलोम्ये ।५।१४॥६३ ।' इति डाच् । प्रियंवदा प्रियवादिनी । '२९५३। प्रिय-वशे वदः खच् । ३ । २।३८।' ॥ 13V तां प्रार्थनामाह १५८ - 'सौमित्रे ! मार्मुपायंस्थाः कत्रामिच्छुर् वशं वदाम् ॥ त्वद् - भोगीनां सह-चरीम॑ शङ्कः पुरुषऽऽयुषम्.' ॥२०॥ सौमित्रे इत्यादि - हे सौमित्रे । इच्छुरेषणशीलः । '३१४९ । विन्दुरिच्छुः ।३।२।१६९ । ' इति निपातितः । अशङ्कः निर्विकल्पः सन् । किं मां वञ्चयिष्य- तीति । मामुपायंस्था: परिणय । '२७९० । आशंसायां भूतवच्च ।३।३॥३२।' इति लुङ् । '२७२९। उपाद्यमः स्वकरणे ।१।३।५६ ।' इति तङ् । '२७३० । विभाषो पयमने ॥२।१६।' इत्यत्त्विपक्षे रूपम् । कम्राम् । '३१४७॥ नमि-कम्पि-।३। २।१६७।' इत्यादिना रः । वशंवदाम् । अहं ते वइयेति वदन्तीम् । स्वद्भोगीनां त्वच्छरीराय हिताम् । अवैधव्यादिलक्षणयोगात् '१६७० आत्मन्विश्वजन । ५। ११९।' इत्यादिना खः । सहचरीं सहगामिनीम् । '२९३१' भिक्षा-सेना-दायेषु च ३।२।१७।' इति चकारस्यानुक्तसमुच्चयार्थत्वात् प्रत्ययः । कियन्तं कालम् - पुरुषायुषं पुरुषस्यायुर्यावत् । १९४५ । अचतुर ।५।४।७७ । इत्यादौ निपातितः । '६९१ । अत्यन्तसंयोगे च ।२।१॥२९।' इति द्वितीया । चरणक्रियायाः कृत्स्नसं- योगात् । यथा मासमुपित इति ॥ १५९ - तार्मुवाच स - गौष्ठीने वने स्त्री-पुंस भीषणे ॥ अ- सूर्य पश्य-रूपा त्वं किम - भीरुरंरार्य से ॥ २१ ॥ तामित्यादि — राक्षसीं लक्ष्मण उवाच उक्तवान् । किमित्याह - गौष्ठीने वने गोष्ठं भूतपूर्वं यस्मिन्वने । इदानीं नामापि न ज्ञायते । १८१९ । गोष्ठात् खञ् भूतपूर्वे ॥५॥२॥१७॥' इति खञ् । स्त्रीपुंभीषणे । स्त्री व पुमांश्चेति स्त्रीपुंसौ । '९४५। अचतुर–१५॥४॥७७॥ इत्यादौ निपातितौ । तयोर्भीषण इति षष्ठीसमासः । बिभेतेर्णिचि हेतुभये षुक् । तदन्तात् '२८४१॥ कृत्यल्युटो बहुलम् ।३।३।११३।' इति कर्तरि ल्युट् । तस्मिन्नभीरुः सती किमित्यरायसे अत्यर्थमटसि । भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थी वर्गः, अर्तेः 'सूचि-सूत्रि-' इत्यादिना यङ् । '२६३३ । यङि च ।७।४।३०' इति गुणः । '२४४६ । नन्द्राः ।६।१।३।' इति प्रतिषेधस्य प्रतिषेधो यकारपरस्य न द्वित्वनि- पेध इति रेफो द्विरुच्यते । भयशीला भीरुः । '३१५४ । भियः क्रुकुकनौ ।३।२।श १७४।' क्रियाशब्दत्वात् '४२१॥ ऊङुतः ।४।१।६६।' इति ऊ न भवति । अम- नुष्यत्वाच्च । तथाहि लक्ष्मणेनामानुपीयमिति ज्ञाता । तथाच भङ्ख्या दर्शय- नाह - असूर्यम्पश्यरूपा । अतिगोपनीयतया सूर्यमप्यनिषिद्धदर्शनं न पश्य- नीति । '२९५१॥ अ-सूर्य- ललाटयोः - ।३।२।३६।' इत्यादिना खश् । '२३६०। पा- त्रा ।७।३।७८।' इत्यादिना पश्यादेशः । असूर्यम्पश्यं रूपं यस्या इति समासः । सा न पश्यतीति रूपमपि न पश्यतीत्युक्तम् ॥ ७८ १६० - मानुषानु॑भिलप्यन्ती रोचिष्णुर् दिव्य-धर्मिणी ॥ त्वम॑प्सरायमाणैह स्वतन्त्रा कथर्मञ्चसि ॥ २२ ॥ मानुषानित्यादि- मनोरपत्यानि मानुषाः । ११८५ । मनोजतावञ्यतौ धुक् च ।४।१।१६१।' तानभिलप्यन्ती कामयन्ती रन्तुमिच्छन्ती । '२३२११ वा आाश । ३ । १॥७०' इत्यादिना श्यन् । रोचिष्णु: रोचनस्वभावा । '२११६) अलंकृञ्- ।३।२।१३६।' इत्यादिना इष्णुच् । अत एव दिव्यधर्मिणी । दिवि भा दिव्या देवाः । राक्षसा अपि देवयोनित्वात् । तेषां धर्मः स्वभावः सोऽस्या अम्तीति । '१९३८ । धर्म-शील-।५।२।१३२।' इत्यादिनेनिः । अप्सरायमाणा अप्सरा इवाचरन्ती । राक्षसभावं गोप्नुमिति भावः । 'उपमानादाचारे' इत्यधिकारे '२६६५। कर्तुः क्यङ् स-लोपश्च ।३।१।११।' 'ओजसोऽप्सरसो नित्यम्' इति वचनात् । इह बने स्वतन्त्रा कथमञ्चसि भ्रमसि । स्व आत्मा तन्त्रः प्रधानं यस्याः । अपराधीनत्वात् । अनयोक्त्या राक्षसीत्वं दर्शयति । १६१ - उग्रं पश्या॒ऽऽकुले करण्ये शालीन-त्व- विवर्जिता ॥ कामुक प्रार्थना-पट्टी पतिवत्नी कथं न वा ॥ २३ ॥ उग्रमित्यादि — उग्रम्पश्यन्तीत्युग्रम्पश्याः । पापाशयत्वान् शबरादयः 1 २९५२ । उग्रम्पश्य । ३।२।३७।' इत्यादिना खश निपात्यते । तैराकुले व्याप्ते अरण्ये । पतिवली जीवत्पतिः कथं केन प्रकारेण न वा नैवं भवसीत्यर्थ: । '४८९॥ अन्तर्वत्पतिवतोर्नुक् ।४।१॥३२।' इत्यत्र पतिर्विद्यते अस्या इति मतुप् सिद्धः । जीवत्पत्यां मतुपो यत्वं निपात्यते । नुक् सूत्रेणैव विधीयते । ङीप्प्रत्ययस्तूगिवादेव सिद्धः । शालीनत्वविवर्जिता । अधृष्टतया वर्जिता । शालाप्रवेशमर्हतीति '१८२१। शालीन-कौपीने - ।५।२।२०।' इति खञ् निपात्यते । अधृष्टेऽभिधेये प्रवेशशब्दस्य लोपः । तस्य भावः शालीनत्वम् । कामुकः कामशीलः । '३१३४॥ लष-पत—।३।२।१५४।' इत्यादिना उकञ् । तस्य प्रार्थनायां पट्टी चतुरा । '५०२॥ वोतो 'गुणवचनात् ।४।१।४४ ॥ इति ङीप् ॥ तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गःM ॥ २४ ॥ १६२ - राघवं पर्ण-शालायामि॑च्छा ऽनुरहसं पतिम् ॥ यः स्वामी मम कान्ता-वानौपकार्णक-लोचनः राघवमित्यादि - रामं पर्णशालायामवस्थितं पतिमिच्छ । अनुरहसं विवेक- प्राप्तमनुगतो रह इति विगृह्य '९४९ अन्ववतप्ताद्रहसः ।५।४।८१॥ इत्यच् । यो राघवो ममापि स्वामी प्रभुः । '२९३२ । स्वामिन्नैश्वर्ये ।५।२।१२६ ।' इति निपाति- तम् । कान्तावान् सभार्यः । प्रवृत्तसम्भोगोऽसौ नाहमिति दर्शयति । तमेव रूप- शौर्याभ्यां वर्णयन्नाह - औपकर्णिकलोचनः । कर्णयोः समीपमुपकर्णम् । समीपार्थे- ऽव्ययीभावः । तत्र प्रायभव इति । '१४१५॥ उपजानूपकर्णोपनीवेष्ठक् । ४ । ३ । ४० ।' शेषमपि शब्दद्वयं प्रयोक्ष्यते । औपकर्णिके लोचने यस्य । कर्णान्तायतलो- चन इत्यर्थः ॥ , १६३ - वपुश् चान्दनिकं यस्य, कार्णवेष्टकिकं मुखम् ॥ संग्रामे सर्व कर्मीणौ पाणी यस्यौपजानुकौ ॥ २५ ॥ वपुरित्यादि- - यस्य राघवस्य वपुः शरीरं चान्दनिकं चन्दनेन सम्पद्यते प्राप्त- शोभं भवति । मुखं च कार्णवेष्टकिकम् । कर्णवेष्टकाभ्यां कर्णालङ्काराभ्यां कार्णवेष्ट- किकम् । तन्नोभयत्र १७६३ । सम्पादिनि ।५।१।१९९१ । इति ठक् । पाणी हस्तौ संग्रामे युद्धे सर्वकर्मीणौ धनुःखमा दिव्यापारकर्माणि व्याभुतः । १८०८ । तत्स- देः- ।५।२।७।' इति खः । औपजानुकौ आजानुकौ । आजानुलम्बावित्यर्थः । अन्र ठक् । १२२१ । इसुसुक्तान्तात्कः ।७।३।५१॥ ॥ १६४ - बद्धो दुर्बल- रक्षाऽर्थम॑सिर् येनोपनीविकः ॥ यश् चापमा॑श्मन-प्रख्यं सेषु॑ धत्तेऽन्य दुर्वहम् ॥२६॥ बद्ध इत्यादि —– येन असिः खड्गः औपनीविकः । नीविसमीपे प्रायेण भव - तीति । स हि नीवीं प्राप्य वर्तमानः पार्श्वयोश्चोर्ध्वं निबद्धः । किमर्थ-दुर्बलर- क्षार्थं दुर्बलरक्षायै इदमित्यस्मिन्नर्थे चतुर्थी । तदर्थेत्यादिना सः । तत्रार्थेन नित्य- समासः सर्वलिङ्गता च । यश्चापं धनुर्धत्ते धारयति । आइमनप्रख्यम् । अश्मनो विकार इत्यण् । '११५५॥ अन् ।६।४।१६७१' इति प्रकृतिभावे प्राप्ते अइमनो विकार उपसङ्ख्यानमिति टिलोपः पाक्षिकः । विभाषर्जोरित्यतो मण्डूकडत्या विभाषाग्रहणानुवृत्तेर्विकारे वाच्ये । अन्यत्राश्मन एव भवति । आश्मनेन प्रख्या सादृश्यमस्य तदाश्मनप्रख्यमुपलघटितमिव । सेपुं सशरम् । अन्यदुर्वहं दुःखेनो- ह्यत इति खल । रामादन्येन दुर्वहमित्यर्थः ॥ १६५ जेता यज्ञ द्रुहां संख्ये धर्म-सन्तान - सूर् वने ॥ प्राप्य दार - गवानां यं मुनीनाम॑ भयं सदा ॥ २७ ॥ जेतेत्यादि-यज्ञाय दुह्यन्तीति यज्ञद्रुहो राक्षसाः । ८२९७५१ सत्सूद्विष१३।२।६१॥ इत्यादिना किप् । तेषां संग्रामे जेता । तृजन्तोऽयम् । ततश्च कृत्प्रभट्टि-काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थी वर्गः, योगे कर्मणि षष्टी । धर्मसन्तानसूः पूर्ववत् विप् । धर्मरत इत्यर्थः । वने वर्त मानानां मुनीनां वानप्रस्थादीनामित्यर्थः । तेषां भार्याग्निपरिग्रहात् यानि दार- गवानि । दाराश्च गावश्चेति दारगवानि '९४५॥ अचतुर-१५॥४॥७७॥ इत्यादिना निपातितानि । दारयन्तीति दाराः । 'दारजारौ कर्तरि णिलुक् च' इति वञ् । तेषां च येनाभयं सदा दत्तमिति योज्यम् । येषामेव प्राप्तिक्रिया तेषामेवाभय- मिति समानकर्तृकत्वम् ॥ १६६ - ततो वावृत्यमाना ऽसौ राम शालां न्यविक्षत ॥ ॥ 20 - 'मार्मुपायंस्त राम ति वदन्ती सऽऽदरं वचः ॥ २८ ॥ तत इत्यादि - ततो लक्ष्मणवचनानन्तरमसौ राक्षसी वावृत्यमाना रामं वृण्वाना । '१२३५ । वा वृतु वरणे ।' इति देवादिकः आत्मनेपदी । रामशालां रामस्य पर्णकुटीरं न्यविक्षत प्रविष्टा । विशे: '२३३६ । शल इगुपधादनिट: क्स: ।३।१।४५।' । '२६८३ । नेर्विशः ।१।३।१७।' इति तङ् । मामुपायंस्त रामेति हे राम, अहं प्रार्थये भवान् मामुपायंस्त परिणयत्विति वाक्यभेदेन योज्यम् । '२७ - ९० । आशंसायां भूतवञ्च ।३।३।१३२।' इति लुङ् । '२७२९ । उपाद्यमः स्वकरणे ।१।३।१६।' इति तङ् । '२७३० । विभापोपयमने ।१।२।१६ । इत्यकित्त्वपक्षे रूपम् । इत्येवं वचः सादरं वदन्ती ॥ १६७ - 'अ-स्त्रीको ऽसवुहं स्त्री मान्, स पुष्यतितरां तव ॥ पतिरि॑ित्यब्रवीद् रामस्- 'तमे॑व व्रज, मा मुचः ॥ २९ ॥ अस्त्रीत्यादि - असौ लक्ष्मणोऽस्त्रीकः । न विद्यते अस्य स्त्रीति । '८३३। नघृतश्च ॥५॥४।१५३।' इति कप् । '८३५३ न कपि १७/४/१४' इति इस्त्रप्रतिषे धः । अहं पुनः स्त्रीमान् सभार्य: । प्रशंसायां मतुप् । स एव लक्ष्मणः । पुष्य तितराम् अतीव पुष्यति लक्ष्मणस्तव पतिः । '२००२ । तिङच ।५।३।५६ । इति तरप् । '२००४ । किमेत्ति-।५।४।११।' इत्याम् । तस्मात्तमेव लक्ष्मणं व्रज गच्छ । मा मुचः मा त्याक्षी: । मुचेर्लङ् । हृदित्वादङ् । इति एवमब्रवीद्रामः उक्त- वान् । आदादिकस्य ब्रूजो लङि '२४५२। ब्रुव ईट् ।७।३।९३ ।' इति ईटि रूपम् ॥ १६८ - लक्ष्मण सा वृषस्यन्ती महोक्षं गौरि॑िवो ऽगमत् ॥ मन्मथाऽऽयुध-सम्पात-व्यथ्यमान - मतिः पुनः ॥३०॥ लक्ष्मणमित्यादि – लक्ष्मणं पुनर्भूयोऽगमत् लक्ष्मणं प्रति गता । यथा गौर्वृषस्यन्ती मैथुनेच्छावती महोक्षं महावृषम् । वृषस्यन्तीत्युपमान विशेषणमे तत् । तेन वृषं लब्धुमिच्छन्तीति क्यचू । '२६६९। अश्व-क्षीर – १७११॥५१॥ इत्यादिना असुक् । तच्यश्ववृषयो मैंथुनेच्छायामिति । तद्वदागमत् । महोक्ष मिति १९४५॥ अचतुर–।५।४।७७१' इत्यादिसूत्रेण निपातितम् । मन्मथस्वायुधानि शराः । आयुध्यन्ते एभिरित्यायुधानि । घनर्थे कविधानमिति कः । तेषां सम्पातः संमः । तस्मात् व्यथ्यमाना पीढ्यमाना मतिर्मनो यस्याः ॥ तथा लक्ष्य-रूपे कथानके राम- प्रवासो नाम चतुर्थः सर्ग:- १६९ - तस्याः सासद्यमानाया लोलूया-वान् रघूत्तमः ॥ असं कौक्षेयमु॒द्यम्य चकारोऽप-नसं मुखम् ॥ ३१ ॥ तस्या इति – सासद्यमानाया: समीपे गर्हितं सीदन्त्याः प्रविशन्त्याः । '२६३५। लुप-सद-।३।१।२४॥ इत्यादिना यङ् । रघूत्तमो लक्ष्मणः । मुखमप- नसमपगतनासिकं चकार । '८५८ । उपसर्गाच्च । ५।४।११९ ।' इत्यच् । नासिका च नसादेशमापद्यते । तत्र संज्ञायामिति नानुवर्तते । किं कृत्वा । कौक्षेयमसिमुद्यम्य उत्क्षिप्य । कुक्षौ भव इति '१४३३॥ इति - कुक्षि - ।४।३।५६ ।' इत्यादिना ढञ् । कौय: । लोलूयावान् अत्यर्थं लवनक्रियायुक्तः । लुनातीति लोलूया । यङन्ताद् ८३२७९। अप्रत्ययात् ।३।३।१०२।' इत्यकारः । सा विद्यते यस्येति मतुप् ॥ १७० - 'अहं शूर्पणखा नाम्ना नूनं नो ऽज्ञायिषि त्वया, 11 दण्डो ऽयं क्षेत्रियो येन मय्यपाती ति सा ऽब्रवीत् ॥ ३२ ॥ ८१ अहमित्यादि-सा राक्षसीत्यब्रवीत् । अहं शूर्पणखेति नाम्ना नूनमवश्यं त्वया नाज्ञायिपि न ज्ञातास्मि । ज्ञा इत्यस्मात्कर्मणि लुङ् । '२७५७ । स्य-सि- ।६।४॥६२।' इत्यादिना अजन्तत्वात् चिण्वदि । '२७६१ । आतो युक् ।७।३।३३।' इति युक् । '५१०। स्वाङ्गाच्च - १४॥ १॥५४॥ इति ङीषि प्राप्ते ८५१४॥ नखमुखात् संज्ञायां ।४।११५८॥ इति प्रतिषेधः । '८५७ । पूर्वपदात्संज्ञायां - 1८४।३।' इति णत्वम् । अज्ञाने कारणमाह - येनायं दण्डो नासाच्छेदनलक्षणों मय्यपाति पातितः । पातेः कर्मणि लुङ् । चिणादेशः । '२२८२ । अत उपधायाः ।७।२॥१६॥ इति वृद्धिः । '२३२९ । चिणो लुक् । ६।४।१०४ । क्षेत्रियः परक्षेत्रे चिकित्स्यः । परक्षेत्रे जन्मान्तरशरीरे यदि शक्यश्चिकित्सितुं तदा नासिकायाः सम्भवात् । १८९२ । क्षेत्रियच् परक्षेत्रे चिकित्स्यः ।५।२।१२।' इति निपातनम् ॥ १७१–पर्यशाप्सीद् दिवि-ष्ठा ऽसौ संदर्य भय-दं वपुः ॥ अपिस्फवच्च बन्धूनां निनङ्क्षुर् विक्रमं मुहुः ॥ ३३॥ पर्यशाप्सीदित्यादि - असौ राक्षसी पर्यशाप्सीत् आक्रुष्टवती । शपेरनिट: सिचि हलन्तलक्षणा वृद्धिः । शप उपालम्भन इति तङ् न भवति । उपालम्भनं हि वाचा शरीरस्पर्शनम् । दिविष्ठा नभसि वर्तमाना । १९७२ । तत्पुरुषे कृति बहुलम् ।६।३।१४।' इति सप्तम्या अलुक् । ८२९१८ । अम्बाम्ब - ।८।३।९७ । ' इति षत्वम् । भयदं रौद्रं वपुः शरीरं संदर्य दर्शयित्वा । बन्धूनां विक्रमं शौर्य मुहुः पुनः पुनः । अपिस्फवत् स्फीतीचकार । '२५७०१ अर्तिही- ।७।३।३६॥ इत्यादिना णावित्यनुवृत्तौ '२५९७॥ स्फायो वः ।७।३।४१।' इति वकारः । स्फाय८२ भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थी वर्गः, तेश्चङि णिलोपः । ह्रस्वद्विवचनादि । अभ्यासस्य खयः शेपः । चवमित्वं च सन्वद्भावे । निनङ्क्षुः नष्टुमिच्छुरित्यर्थः । नशेः सनि '२५१७ । मस्जि-नशोझलि ।७।१।६०।' इति नुम् ॥ १७२ - खर-दूपणयोर् भ्रात्रोः पर्यदेविष्ट सा पुरः ॥ विजिग्राहयिषू रामं दण्डकारण्य - वासिनोः ॥ ३४ ॥ खरेत्यादि — खरदूषणयोर्भ्रात्रोर्दण्डकारण्यवासिनोः पुरः अग्रतः पर्यदेविष्ट परिदेवनं कृतवतीति । '५३४ । देवें देवने ।' इत्यस्मादात्मनेपदिनः सेटो लुङि रूपम् । परिदेवने कारणमाह - विजिग्राहयिषुः रामं विग्राहयितुं योधयितुमि- च्छुः । ग्रहेर्ण्यन्तस्य सन्नन्तस्य रूपम् । '१७३। रोरि ।८।३।१४।' इति रेफलोपः । '१७४ । ढ्-लोपे- । ६।३।१११॥' इति दीर्घत्वम् ॥ किं पर्यदेविष्ट इत्याह १७३ - ' कृते सौभागिनेयस्य भरतस्य विवासितौ ॥ पित्रा दौर्भागिनेयौ यौ, पश्यतं चेष्टितं तयोः ॥ ३५ ॥ कृते इत्यादि – भरतस्य कृते कार्यनिमित्तं राज्ये अभिषेक्तव्यमिति । सुभगा केकयी तस्या अपत्यं सौभागिनेयः '११२३ । स्त्रीभ्यो ढक् ॥४।१।१२० ।' कल्या- ण्यादीनामिनङ् तत्र सुभगा दुर्भगा चेति पठ्यते । '११३३ । हृद्भग – ।७।३।१९।' इत्युभयपदवृद्धिः । पित्रा यौ विवासितौ निष्कासितौ दौर्भागिनेयौ कौसल्या सुमित्रा च दुभंगे तयोरपत्ये रामलक्ष्मणौ तयोश्चेष्टितं नासाच्छेदनं पश्यतम् । विधौ प्रार्थनायां वा लोट् । थसस्तम् ॥ १७४-मम रावण-नाथाया भगिन्या युवयोः पुनः ॥ अयं तापसकाद् ध्वंसः, क्षमध्वं, यदि वः क्षमम् ॥ ३६ ॥ ममेत्यादि - रावणो नाथः प्रभुर्यस्याः मम विशेषणम् । युवयोर्भगिन्या अयं तापसकात् कुतापसात् । कुत्सायां कन् । ध्वंसो नासिकाविनाशः । यादे वः युष्माकं गुरूणां क्षमं युक्तम् क्षन्तुमित्यर्थात् । युष्मदि गुरावेकेषामिति बहुवचनं तयोर्ज्येष्ठत्वात् । तर्हि क्षमध्वं उपेक्षध्वम् । रावण एव ज्ञास्यतीति भावः ॥ पुनरप्येजयितुमाह १७५-अ-संस्कृत्रिम-संव्यानाव॑नु॒ष्त्रिम-फलाशिनौ ॥ अ-भृत्रिम - परीवारौ पर्यभूतां तथापि माम् ॥ ३७॥ असमित्यादि – संस्कारेण वापेन भरणेन च निर्वृत्तं संस्कृत्रिमम् । उप्तिमं भृत्रिमं च । '३२६६ । तिः क्लिः । ३।३।८८ । क्सेर्मम् नित्यम् । '२५५० । संपर्युपेस्यः—।६।१।१३७।' इति सुट् । सम्पूर्वस्य क्वचिदभूषणेऽपीष्यते । संस्कृत्रिमं तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम चतुर्थः सर्गः८३ न विद्यते येषामिति नजुसमासः । असंस्कृत्रिमाणि संव्यानानि परिधानानि उत्त- रीयाणि ययोः । वल्कवाससावित्यर्थः । अनुप्तिमाणि फलानि अशनमाहारो ययोः तौ वन्यफलाहारौ न शालिभोजनौ । परिव्रियतेऽनेनेति घञ् '२०४४ । उपसर्गस्य वजि-।६।३।१२२।' इति दीर्घः । मृगाणाममनुष्यत्वात् । अभृत्रिमः परीवारोऽनुजी- बिलोको ययोस्तौ मृगपरीवारौ । तथापि मां पर्यभूतां परिभूतवन्तौ । लुङि रूपम् ॥ १७६ - 'श्वःश्रेयसम॑वाप्तासि भ्रातृभ्यां प्रत्याणि सा ॥ E प्राणिवस् तव माना॒ऽर्थं, ब्रजा॑ऽऽश्वसिहि, मा रुदः ॥ श्वःश्रेयसमित्यादि – श्वः शब्दः प्रशंसामाह । शोभनं श्रेय इति वाक्ये '९४८ । श्वसो वसीयः श्रेयसः ।५।४।८०।' इत्यच् । मयूरव्यंसकादित्वात् सः । श्वःश्रेयसं कल्याणमवाप्तासि प्राप्स्यसि । भविष्यदनद्यतने लुट् । मारयावस्तावित्युक्तं भवति ताभ्यां भ्रातृभ्यां प्रत्यभाणि प्रतिभणिता सा । कर्मणि लुङ् । प्राणिवस्तव मानार्थम् । तव मानखण्डनं मा भूदिति जीवावः । '११४३। श्वसँ प्राणने' '११४४ अनँ च'।'२४७४। रुड़ादिभ्यः सार्वधातुके । ७।२।७६ ।' इति इट् । '२४७८ । 'अनितेः ।८।४।१९।' इति णत्वम् । तस्माद् व्रज यथास्थानं गच्छ । आश्वसिहि उद्वेगं त्यज । विधौ प्रार्थनायां वा लोट् । मा रुदः । '२२१९। माङि लुङ् ।३।३।१७५/ ' २२६९ । इरितो वा ।३।१।५७।' इत्यङ् यदा नास्ति तदा मा रोदीरिति ॥ १७७ - जक्षिमो ऽनृपराधेऽपि > नरान् नक्तं - दिवं वयम् ॥ कुतस्-त्यं भीरु ! यत् तेभ्यो दुह्यन्यो ऽपि क्षमामहे ॥ ३९ ॥ जक्षिम इत्यादि – वयं अनपराधेऽपि । नक्तं च दिवा च नक्तन्दिवम् । '९४५। अचतुर-।५।४।७७।' इति निपातितम् । नरान् जक्षिमो भक्षयामः । ११४५॥ जक्ष भक्ष-हसनयोः ।' इति भक्षार्थस्य '२४७४ । रुदादिभ्यः - ।७।२।७६ ।' इतीद । '८१८ । अस्मदो द्वयोश्च ।१।२।५९ । इति द्वित्वे वयमिति बहुवचनम् । यत एवं हे भीरु ! संबुद्धौ गुणो न भवति 'संज्ञापूर्वको विधिरनित्यः' इति । कुतस्त्यम् कुत एतदागतम् । '१३२४॥ अव्ययात् त्यप् ।४।२।१०४॥' अमेहक्कतसिवेभ्य इति त्यप् । तेभ्यो नरेभ्यो दुह्ययोऽपि दोहं कुर्वाणेभ्योऽपि क्षमामहे । नैवेत्यर्थः । '५७५ । क्रुध-द्रुह- १॥४॥३७॥ इति सम्प्रदानत्वम् । क्षमेर्गम्यमानो नजर्थस्तस्या- सूयार्थत्वात् क्षमध्वं यदि वः क्षममित्यस्य प्रतिवचनम् ॥ १७८ - तौ चतुर्दश साहस्रबलौ निर्ययतुस् ततः ॥ पारश्वधिक-धानुष्क-शाक्तिक-प्रासिकाऽन्वितौ ॥४० तावित्यादि - ततो निगदनादुत्तरकालं निर्ययतुर्निर्गतवन्तौ । चतुर्दशसहस्राणि परिमाणं यस्य बलस्य । तदस्य परिमाणमित्यस्मिन्विषये '१६९२ । शत८४ भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे चतुर्थो वर्गः, मानविंशतिक सहस्रवसनादण् ।५।१।२७।' प्राग्वतेः । '१७५२। सङ्ख्यायाः संवत्सर ।७।३।१५।' इत्युत्तरपदवृद्धिः । चतुर्दशसाहस्रं बलं ययोः तौ । तथा पारश्वविकधानु- कयाष्टिकप्रासिकान्वितौ । परश्वधः प्रहरणमेषामिति '१६०८। परश्वधात् ठञ् । अ ४॥५८।' तथा धनुः प्रहरणमेषाम् । यष्टिः प्रहरणमेपामिति ५६०९। शक्ति-यष्ट्यो- रोकक् ॥ १।४।५९/' प्रासः कुन्तः प्रहरणमित्यौत्सर्गिकष्ठक् । तत्र धनुषष्ठ । १२२१॥ इसुसुक्तान्तारकः ।७।३।५१॥ ततः सेनाङ्गत्वात्कृतैकवद्भावः तेनान्वितावनुगतौ ॥ १७९ - अथ सम्पततो भीमान् विशिखै राम-लक्ष्मणौ ॥ बहु-मूर्ध्नो द्वि-मूर्धाश्च॑ त्रि-मूर्धाश् च ऽहतां मृधे. ४१ अथेत्यादि - अथ एतस्मिन् प्रस्तावे रामलक्ष्मणौ मृधे संग्रामे विशिखैः शरै- रहतां हतवन्तौ । हन्तिः परस्मैपदी तस्माल्लङि तसस्ताम् । तस्य ङिचे '२४२८। अनुदात्त-।६।४।३७।' इत्यादिना अनुनासिकलोपः । कानू-राक्षसान् । विशे पणोपादानात् विशेष्यप्रतिपत्तिः । प्रकृतत्वाद्वा । सम्पततोऽभिपततः । बहुमूर्ध्ना बहुशिरसः । तथा द्विमूर्धांत्रिमूश्च ।८५४।द्वि-त्रिभ्यां प मूर्तः ।५।४।११५' इति समासान्तः पः । अत एव भीमान् भयानकान् । त्रिमूर्वाश्चेत्यत्र '१४०॥ नछव्यप्रशान् ।८।३।७।' इति रुः । पूर्वस्य त्वनुनासिकः । १३८। विसर्जनीयस्थ सः ।८।३।३४।' इति चुत्वम् ॥ १८० - तैर् वृक्ण रुग्ण-सम्भुग्न- क्षुण्ण-भिन्न-विपन्न - कैः ॥ निमग्नशो॒द्विग्न-संहीणैः पत्रे दीनैश् च मेदिनी ॥ ४२ ॥ तैरित्यादि — तैः राक्षसैर्मेदिनी पत्रे पूरिता '११३५१ मा पूरणे ।' इत्य स्मात्कर्मणि लिट् । वृक्णैः छिन्नैः । रुग्णैः भद्महस्तपादैः । सम्भुमैः वीकृतदेहैः । क्षुण्णैः सम्पिष्टशरीरैः । भिन्नैः विदारितैः । विपन्नकैः नष्टैः । '२०३१ । अनुक- म्पायां कन् । ५।३।७६।' निममैः परिभूतैः । उद्वितैः । संहीणैर्लजितैः । वयमपीदृशीं दशां प्राप्ता इति । दीनैः हा मातः हा भ्रातरित्येवं भाषमाणैः । तत्र वृश्चि-रुजि-भुजि-मस्जि- विजि-भ्यो निष्ठायां '३०१९ । ओदित ।८।२॥४५॥ इति नत्वम् । '३७८। चोः कुः ।८।२।३०॥ इति कुः । क्षुदि- भिदि-पदि-भ्यो '३०१६॥ र दाभ्यां - ।८।२।४२।' इति दस्य च नः । संहीण इति '३०३७ । नुद-विद-दारा । '१२०९ । दी - ङ् क्षये ।' इत्यस्य स्वादय ओदितः इति '३०३९॥ ओदितश्च ।८।२॥४५।' इति नत्वम् ॥ " १८१ -के-चिद् वेपथुमा॑सेदुर॒न्ये दवथुर्मुत्तमम् ॥ स-रक्तं वमथुं केचिद्, भ्राजथुं न च के चन. ॥ ४३॥ केचिदित्यादि — तेषां मध्ये केचित् वेपथुं कम्पम् । '३९३ । टु-वेष्टँ कम्पने ।' आसेदुः प्राप्ताः । अन्ये दवथुमुपतापमुत्तमं महान्तम् । '१३३६ टु दु उपपे ।' केचिद्वमथुं छर्दनं सरकं सशोणितम्। '९०६ - व उद्भिरणे ।' भ्राजधुं 4 तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम चतुथः सर्गः शोभां नैव केचन न केचिदपि '८०८ । टु भ्राजू दीप्तौ ।' सर्वत्र '३२६७ । द्वितो- ऽथुच् ।३।३।८९ ।' ॥ १८२ - मृगयुमिंव मृगो ऽथ दक्षिणेर्मा, दिशमिव दाह-वर्ती मरार्बुदन्यन् ॥ रघु-तनयर्मुपाययौ त्रि-मूर्धो; > विषभृदि॑िवग्र- मुखं पतत्रि-राजम् ॥ ४४ ॥ ." मृगयुमित्यादि – अथैतस्मिन् राक्षसविध्वंसनग्रस्तावे त्रिमूर्ध: त्रिशिरा नाम राक्षसः रघुतनयमुपाययौ उपागतः । मृगयुमिव लुब्धकमिव । मृगान् यातीति मृगयुः । मृगय्वादयश्चेत्यौणादिककुप्रत्ययान्तः । दक्षिणेर्मा दक्षिणे ईर्म व्रणं यस्येति । '८३५ । दक्षिणेर्मा लुब्धयोगे ।५।४।१२६।' इत्यानिच् । यथा मृगो लुब्धकनाणे- तदक्षिणाङ्गः तमेव मरणायोपयाति । दिशमिव दाहवतीं यथा दिशं दावाग्नियुतां मरौ निर्जले देशे मृग उदन्यन् उदकपानाभिलाष उपयाति । उदकमिच्छति । '२६५७। सुप आत्मनः । ३ । १।८।' इति क्यच् । उदकस्योदनू भावः । '२६६१ । असनायो—।७।४।३४।' इत्यादिना निपातितः । तदन्तालट् शतृप्रत्ययः । विषभू- दिव यथा विषधरः सर्प उग्रमुखं भीषणमुखं पतत्रिराजं गरुडमुपयाति तद्वत्त- मिति । '७८८। राजाऽहः सखिभ्यष्टच् ।५।४।११॥ ॥ १८३ - शिंत - विशिख- निकृत्त कृत्स्त्र - चक्रः क्षिति- भृर्दिव क्षिति कम्प-कीर्ण-शृङ्गः ॥ भयमु॑पनिदधे स राक्षसानाम् अ-खिल-कुल- क्षय- पूर्व-लिङ्ग-तुल्यः ॥ ४५ ॥ शितेत्यादि - त्रिमूर्धो राक्षसानां भयमुपनिदधे उपनिहितवान् । कीदृशः । शित विशिखैस्तीक्ष्णविशिखैः निकृत्तानि छिन्नानि कृत्स्नानि सर्वाणि वक्राणि मुखानि यस्य सः । क्षितिभृदिव भूधर इव । कीदृशः । क्षितिकम्पकीर्णशृङ्गः क्षितेर्भूमेः कम्पेन कीर्णानि क्षिप्तानि शृङ्गाणि यस्य क्षितिभृतः । अखिलस्य सर्वस्य कुलस्य क्षये विनाशे यत् पूर्व लिङ्गं तेन तुल्यः असावप्य खिलराक्षसक्षयस्य पूर्वलिङ्गतुल्यः ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये प्रथमे प्रकीर्ण-काण्डे लक्षणरूपे चतुर्थः परिच्छेदः (वर्गः ), तथा लक्ष्य रूपे कथानके श्री राम-प्रवासो नाम चतुर्थः सर्गः पर्यवसितः । १ –सर्गान्तत्वाद् वृत्त-भेदः । तदर्धसमजातौ 'पुष्पिताम्रा' नाम । तलक्षणम् "अयुजि न-युग- रेफत्तो यकारो, युजि च न जौ जरगाश् च पुष्पिताग्रा ॥" इति वृत्तरत्नाकरे भट्ट-केदारः । २८ (१८२) लोकस्थं टीकनं प्रेक्ष्यम् । भ० का० ८ भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पचमो वर्गः, पञ्चमः सर्गः— १८४ - निराकरिष्णू वर्तिष्णू वर्धिष्णू परतो रणम् ॥ उत्पतिष्णू सहिष्णू च चेरतुः खर-दूषणौ ॥ १ ॥ निरेत्यादि – खरदूषणौ रणं परितः समन्तात् । 'अभितः - ' इत्यादिना द्वि- तीया । चेरतुः भ्रान्तौ । निराकरिष्णू शत्रुनिराकरणशीलौ । वर्तिष्णू अभिमुग्वं वर्तनशीलौ न पलायनशीलौ । वर्धिष्णू मायया महाप्राणोद्भावनशीलो । उत्प तिष्णू नभ उत्पतनशीलौ । सहिष्णू शस्त्रप्रहारसहनशीलौ । सर्वत्र '३११६॥ अलंकृञ्- ।३।२।१३६ ।' इत्यादिना इष्णुच् ॥ १८५ - तौ खड्ग - मुसल - प्रास-चक्र-वाण-गदा-करौ ॥ अकामा॑युध-च्छायं रजः-सन्तमसे रणे ॥ २ ॥ तावित्यादि —रणे रणभूमौ रजःसन्तमसे । सङ्गतं तमः सन्तमसम् । १९४७॥ अवसमन्धेभ्यस्तमसः ।५।४।७९ । इस्यच् । रजसा सन्तमसं अस्मिन् इति रजःसन्तमसं तस्मिन् रजसा कृतान्धकारे तो खरदूषणौ आयुधच्छायमायुधबा- हुल्यमका कृतवन्तौ । आयुधानां छायेति '८२५ । छाया बाहुल्ये ।२४।२२। इति नपुंसकत्वे हस्त्रत्वम् । खड्डादीनां बाणान्तानां द्वन्द्वैकवद्भावं कृत्वा पश्चात्तेन सहिता गदेति शाकपार्थिवादित्वात् सः । अन्यथा समुदायस्य ' ९१० । जातिर प्राणिनाम् ।२।४॥६।' इत्येकवद्भावेन नपुंसकलिङ्गता स्यान् बाणगदमिति । खड्गमुसलप्रासचक्रबाणगढाः करे येषामिति समासे प्रहरणार्थेभ्य इत्यादिना करशब्दस्य परनिपातः ॥ ८६ १८६ - अथ तीक्ष्णाऽऽयसैर् बाणैरधि-मर्म रघूत्तमौ ॥ व्याधं व्याधर्म-मूढौ तौ यम - साच्चऋतुर् द्विपाँ. ॥ ३ ॥ अथेत्यादि —अथैतस्मिन् संग्रामे रघूत्तमौ रामलक्ष्मणौ कर्तृभूतौ । कर्मभूतौ द्विषाविति । '२९७५ । सत्सूद्वि-।३।२।६१।' इत्यादिना विप् । यमसाच्चऋतुः यमाधीनौ कृतवन्तौ । '२१२५ । तदधीनवचने ।५।४।५४।' इति सातिः । तीक्ष्णा- न्यसैर्बाणैः । तीक्ष्णमायसं फलं येषामिति । व्याधं व्याधं विवा विछ्वा । '३३- ४३ । आभीक्ष्ण्ये णमुल । ३ । ४॥२२।' तत्र '३३२० । समानकर्तृकयोः पूर्वकाले ३।४॥२१।' इति वर्तते । 'भाभीक्ष्ण्ये द्वे भवतः' इति द्विवचनम् । अधिमर्मेति विभक्त्यर्थेऽव्ययीभावः । अमूढौ सावधानौ रामलक्ष्मणौ ॥ मर्मवेधमेवाह१८७ हत- बन्धुर् जगाम ऽसौ ततः शूर्पणखा वनात् ॥ पारे - समुद्रं लङ्कायां वसन्तं रावणं पतिम् ॥ ४ ॥ हृतेत्यादि — असौ शूर्पणखा हतबन्धुः व्यापादितभ्रातृद्वया ततो वनाहुण्ड• c " तथा लक्ष्य रूपे कथानके राम- प्रवासो नाम पञ्चमः सर्गः - कारण्यात् रावणं पतिं प्रभुं शरणं जगाम गतवती । पारेसमुद्रम् । समुद्रस्य पार इति '६७२ । पारे मध्ये षष्ठ्या वा ।२।१।१८।' इत्यव्ययीभावः । तत्सन्नियोगेन पूर्वपदस्यैकारान्तत्वम् । पश्चात्सप्तमी । '६५७॥ नाव्ययीभावात् ।२।४।८३।' इत्य- म्भावः । समुद्रस्य पारे स्थितायां लङ्कायां वसन्तं रावणमिति ॥ १८८ - संप्राप्य राक्षस - सभं चऋन्द क्रोध-विह्वला ॥ ८७ ढौकित्वा । राक्षसानां नाम- ग्राहमरोदीत् सा भ्रातरौ रावणाऽन्तिके ॥ ५॥ संप्राप्येत्यादि-सा शूर्पणखा राक्षससभं सं सभेति '८२६ । सभा राजा - ।२।४।२३।' इत्यादिना नपुंसकता । चक्रन्द ऋन्दनं कृतवती । क्रोधविह्वला क्रोधविवशा । भ्रातरौ खरदूषणावरोदीत् रुदितवती । नामग्राहं नाम गृहीत्वा । भ्रातरौ खरदूषणाविति । '३३८० । नायादिशिग्रहोः ।३।३।५८।' इति णमुल । अत्र नामग्रहणविशिष्टाया रोदनक्रियाया व्याप्तुभिष्ट. त्वादिः सकर्मकः । रावणान्तिके रावणसमीपे । सप्तम्यधिकरणे चेति चकारा- दूरान्तिकार्थेभ्य इति सप्तमी ॥ तयोः किं जातमिति रावणेन पृष्टाह, १८९ - 'दण्डकान॑ध्य॒वात्तां यौ वीर ! रक्षः प्रकाण्ड कौ ॥ नृभ्यां संख्येऽकृषातां तौ स-भृत्यौ भूमि-वर्धनौ ॥ ६ ॥ दण्डकानित्यादि — हे वीर ! दण्डकान् दण्डकारण्यसन्निवेशान् अध्यवात्ताम् अध्युषितवन्तौ । '१०७४ । वसँ निवासे ।' इत्यस्मालुङ् । हलन्तलक्षणा वृद्धिः । ' २३३२ । सः सि ।७।४।४९॥ इत्यादिना धातुसकारस्य तत्वम् । '२२८१ । झलो झाल ।८।२।२६।' इति सिचो लोपः । रक्षःप्रकाण्डको प्रशस्तौ राक्षसौ । '७४७। प्रशंसा - वचनैश्च ।२।१।६६।' इति समासः । ततः स्वार्थे कन् 'स्वार्थिकाश्च प्रकृ तितो लिङ्गवचनान्यतिवर्तन्ते' इति नपुंसको न भवति । अन्यथा रूढिशब्दाः प्रशंसावचना आविष्टलिङ्गत्वादन्यलिङ्गेऽपि जातिशब्दे स्वलिङ्गोपादानादेव समा- नाधिकरणाः स्युः । यथा गोप्रकाण्डमिति । तौ नृभ्यां मनुष्याभ्यां सङ्ख्ये युद्धे भूमिवर्धनावकृषातां कृतौ । कर्मणि लुङ् । अचिण्वद्भावे रूपम् । वर्धेते इति वर्धनौ । '२८४१॥ 'कृत्यल्युटो बहुलम् ।३।३।११३।' इति कर्तरि ल्युट् । भूमेर्व- र्धनाविति सः । भस्मीकृतशरीरस्य भूमौ लीयमानत्वात् । सभृत्यौ नैकाकिनौ ॥ ९९० - विग्रहस् तव शक्रेण बृहस्पति-पुरोधसा ॥ सार्धं कुमार-सेनान्या, शून्यश् चऽसीति को नयः. विग्रह इत्यादि — बृहस्पतिः पुरोधा मन्त्री यस्य शकस्य तेन । कार्येषु पुरो घीयत इति पुरोधाः । पुरःपूर्वाद्वाजः सर्वधातुभ्योऽसुन् । तथा कुमारः कार्तिकेयः सेनानीर्यस्य । सेनां नयतीति '२९७५ । सत्सू - द्विष - ।३।२।६१।' इत्यादिना क्विप् । तेन शक्रेण सार्धं सह तव विग्रह आसीत् । इदानीं कार्यनिपुणाभावात् ८८ भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः, शून्यश्चासि २१९११ तासस्योर्लोपिः ।७।४।५०।' इति सकारलोपः । तस्माको नयः । नय एव न भवतीत्यर्थः ॥ तदेव दर्शयन्त्याह१९१ - यद्यहं नाथ ! नो ऽयास्यं विनासा हत-वान्धवा, । नो ऽज्ञास्यस् त्वमिदं सर्वे प्रमाद्यैश् चार-दुर्-बलः ८ यदीत्यादि - विनासा विगता नासा यस्याः । नासैव नासिकेति '८३४] केऽणः ।७।४।१३।' इति हस्वत्वे रूपं, तस्या नसादेशस्य विधीयमानत्वादत्र संभव एव नास्ति । विनसेति पाठान्तरम् । तत्र विगता चासौ नासिका च विनासिका । तत इत्थम्भूतलक्षणायां तृतीयायां '२२८। पहनोमास्- । ६।3। ६३।' इत्यादिना नसादेशः । विगतया नासिकयोपलक्षितेत्यर्थः । विगता नासि- का अस्या इति बहुव्रीहिणा व्याख्याने अजूनासिकेत्यादिना अच् नसादेशश्च प्राप्तुतः । तस्य संज्ञाविषयत्वादुपसर्गाच्चेत्यसंज्ञायां विधीयमानो न भवति वक्तव्य इति ग्रादेशो बाधकः । हे नाथ ! यद्यहं विनासा हतवान्धवा नायास्यं न याताsभविष्यम्; तर्हि तदिदं सर्व भ्रात्रोर्वधं नासाच्छेदं च नाज्ञास्यः न ज्ञातोऽ भविष्यः । क्रियातिपत्तौ लङ् । अज्ञाने कारणमाह - प्रमाद्यन् विषयेषु प्रमादं गच्छन् । चारदुर्बलः चारहीनः । चारा हि चक्षू राज्ञां कार्याकार्यज्ञानाय लोके । चरतीति चरः पचाद्यच् । चर एव चारः '२१०६ । प्रज्ञादि ।५।४।३८ ।' इत्यण् ॥ १९२ - करिष्यमाणं विज्ञेयं कार्य, किं नु कृतं परैः ॥ " अपकारे कृते ऽप्यज्ञो विजिगीषुर् न वा भवान् ॥ ९ ॥ करिष्यमाणमित्यादि - परैः शत्रुभिरपचयचिकीर्पया करिष्यमाणं कार्य विज्ञेयम् । किं नु कृतमेव यत्तदवश्यमेव विज्ञेयमित्यर्थः । त्वं पुनः परैरप्रकृ तोऽपि अज्ञोऽविदितस्वरूपः । अतो विजिगीपुर्न वा भवान् । अतो न राज्यं संभावयतीत्यर्थः ॥ १९३ - वृतस् त्वं पात्रे - समितैः खट्टाऽऽरूढः प्रमाद-वान् ॥ पान-शौण्डः श्रियं नेता ना ऽत्यन्तीन-त्वमु॒न्मनाः ॥ १० ॥ वृत इत्यादि — अत्यन्तं नामिनीति '१८१२ । अवारपार ।५।२।११।' इत्या- दिना खः । तस्य भावोऽत्यन्तीनत्वम् । नैवात्यन्तीनामत्यन्तगामिनीं श्रियं नेता न प्रापणशीलः । '३११५॥ तृन् ।३।२।१३५।' इति ताच्छीलिकस्तृन् । '६२७॥ न लोक-।२।३।६९।' इति षष्ठीप्रतिषेधः । यद्यपि महोदयं राज्यं प्राप्तवानसि तथापि न चिरकालमित्यर्थः । यतस्त्वमुन्मनाः आन्तचित्तः । यतः पानशौण्डः तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- पाने प्रसक्तः । '७१८। सप्तमी शौण्डैः ।२।१।४०।' इति सः । अत एव प्रमाद्वान् । अतोऽपि खनारूढः उत्पथप्रस्थितः '६८८। खट्दाक्षेपे ।२।१।२६॥ इति द्वितीया सः । तत एव पात्रेसमितैः भोजन एव सन्निहितैः अनुजीविभिर्वृतः । '७२५॥ पात्रेसमितादयश्च ।२।१।४८।' इति क्षेपे सः ॥ १९४ - अध्वरेष्वग्निचित्वत्सु सोमसुत्वत आश्रमान् ॥ अत्तुं महेन्द्रियं भागमे॑ति दुश्यवनो ऽधुना, ॥ ११ ॥ अध्वरेष्वित्यादि-स्वय्येवम्भूतेऽधुना दुश्यवन इन्द्रः आश्रमानैति आग- च्छति । आङ्पूर्वस्येणः ७३ । एत्येधत्यू । ६ । ११८९ । इति वृद्धिः । सोमसु- स्वतः सोमं सुनोतीति '३०००। सोमे सुजः ।४।२।१०॥ इति क्वि । सोमसुतः सन्ति येवमेवति मतुप् । १८९६ । तसौ मत्वर्थे ।१।४।१९।' इति भावे तकारस्य जश्त्वं न भवति । १८९८ । झयः ।८।२।१०।' इति मतोर्वत्वम् । किमर्थमेतीत्याह-अत्तुं भक्षयितुं महेन्द्रियं भागम् । महेन्द्रो देवता अस्येति । '१२३१॥ महेन्द्राद्वाणौ च ॥४।२।२९॥ इति वः । क्व । अध्वरेषु यज्ञेषु । अग्नि- चित्वत्सु । अग्निं चितवन्तोऽग्निचितः आहितामयः । '३००१ । अग्झौ चेः १३।२।११।' इति विप् । ते सन्ति येष्विति पूर्ववन्मतुप् ॥ १९५ - आमिक्षीयं दधि-क्षीरं पुरोडाश्यं तथैौषधम् ॥ हविर् हैयङ्गवीनं च ना॑ऽप्युपघ्नन्ति राक्षसाः ॥ १२॥ । आमीत्यादि - दना सहितं शृतं पय आमिक्षा । तस्मै हितमामिक्षीयम् । '१६६४। विभाषा हविरपूपादिभ्यः ।५।१।४।' इति छयतौ । दधि च क्षीरं चेति । '९१६ । विभाषा वृक्ष । २।४।१२।' इत्यादिना व्यञ्जनत्वादेकवद्भावः । पुरोडाशाय हितमौषधं नीवारतण्डुलादि पुरोडाइयम् । अपूपादित्वाद्यत् । ओषधिरेवौषधम् '२१०५ । ओषधेरजातौ ।५।४।३७।' इत्यण् । तण्डुलानामजातित्वात् । 'स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते' इति नपुंसकलिङ्गता । हविः हुयत इति हविः । 'अर्चि - शुचि' इत्यौणादिक इस् । हैयङ्गवीनं घृतम् । ह्येगोदोहस्य विकार इत्यर्थे ' १८२४ । हैयङ्गवीनं संज्ञायाम् ।५।२।२३।' इति निपात नात् खञ् हियंग्वादेशश्च । तानि नाप्युपघ्नन्ति राक्षसाः त्वय्युदासीने सति ॥ इदानीं कार्य प्रदर्शनेन प्रोत्साहयितुमाह १९६ - युव- जानिर् धनुष्- पाणिर् भूमिष्ठः ख- विचारिणः ॥ रामो यज्ञ द्रुहो हन्ति काल- कल्प-शिलीमुखः ॥१३॥ युवेत्यादि — युवतिः यौवनवती जाया यस्य युवजानिः । '८७२ । जायाया निङ् ॥६॥१॥७६॥' वलि लोपः । '८३१ । स्त्रियाः पुंवत् । ६।३।३४।' इत्यादिना युंवद्भावात् स्त्रीप्रत्ययो निवर्तते । धनुष्पाणिः पाणौ धनुर्यस्य । प्रहरणेत्यादिना ९० भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे पञ्चमो वर्गः, परनिपातः । भूमिष्टः भूमौ तिष्ठतीति भूमिष्ट: । नाकाशचरः । २९१६ सुपि स्थः । ३।२॥४।' इति कः । ८२९१८ । अम्बाम्ब - ।८।३।९७१' इत्यादिना पत्वम् । कालकल्पशिलीमुखः मृत्युतुल्यशरः । रामो यज्ञ द्रुहो राक्षसान् हन्ति खविचा- रिणः आकाशचिचरणशीलान् । '२९८८ । सुयजाती-।३।२।७८।' इति णिनिः ॥ १९७ - मांसान्यो॑ष्ठऽवलोप्यानि साधनीयानि देवताः ॥ अश्नन्ति, रामाद् रक्षांसि विभ्य त्य॑श्च॒वते दिशः ॥१४॥ मांसेत्यादि - ओष्ठावलोप्यानि ओष्टाभ्यां छेदाणि शक्यानि वा । अर्थे शक्यार्थे वा कृत्यः । '६९५॥ कृत्यैरधिकार्थवचने ।२।१।३२॥ इति सः । साध- नीयानि यज्ञस्य साधनाय हितानि । '१६६५ । तस्मै हितम् ।५।११५ । ' इति छः । सावनीयानीति पाठान्तरम् । तत्र सवनं स्नानं तद्योगात्स्नातकोऽपि तथोच्यते तत्र भवः सावनो यज्ञः । १६६५५१ तस्मै हितम् ।३।१।५।' इति छः । तानि मांसानि देवता अनन्ति भुञ्जते न राक्षसा रक्षांसि किन्तु रामादिभ्यति । '४४४१ वा नपुंसकस्य १७१११७९॥ इति शतुर्नुमभावपक्षे रूपम् । दिशोऽश्चवते च्याप्नुवन्ति ॥ १९८ - कुरु बुद्धिं कुशाग्रीयाम॑नु॒कामीन-तां त्यज, ॥ लक्ष्मीं परम्परीणां त्वं पुत्र-पौत्रीण-तां नय. ॥ १५ ॥ कुर्वित्यादि- कुशाग्रीयां कुशाग्रमिव सूक्ष्माम् । '२०६०। कुशाग्राच्छः । ५।३।१०५।' इति इवार्थे छः । स्थूलबुद्धिम भूदित्यर्थः । अनुकामीनतां यज यथेच्छगामितां त्यज । १८१२। अवार-पार-1५।२।११॥ इत्यादिना वः । परम्परीणां परांश्च परतरांश्च अनुभवतीत्यर्थे परशब्दात् '३८११॥ परोवर- ।५।२।१०।' इत्यादिना खः परम्परादेशश्च । तां लक्ष्मी क्रमायातां स्वं पुत्रपौत्री- णतां नय पुत्रांश्च पुत्रांश्चानुभवतीति खः । तस्य भावः । पुत्रपौत्रानुगामिनीं कुर्वित्यर्थः ॥ 1. १९९ - सहाय-वन्त उद्युक्ता बहवो निपुणाश् च याम् ॥ श्रियमा॑शासते, लोलां तां हस्ते कृत्य मा श्वसीः ॥ १६ ॥ सहेत्यादि — यां च श्रियं त्वदीयां शौर्योपात्तां सहायवन्तः ससहाया उयुक्ता उत्साहवन्तो निपुणाः कुशला आशासते इच्छन्ति । '१०९१ । आङः शासुँ इच्छायाम्' इत्यादादिकस्यात्मनेपदिनो रूपम् । '२२५८ । आत्मनेपदेवनतः ।७।१।५।' इत्यदादेशः । तां हस्तेकृत्य स्वीकृत्य । मा श्वसी: आश्वासं मा कार्षीः । चञ्चलत्वात् । यदाह लोलामिति । '२२९९ । हृयन्त-क्षण- श्वस- जागृ-णि१७॥२॥५॥' इति वृद्धिप्रतिषेधः । '२२६६ । इट ईटि ।८।२।२८।' इति सिचो लोपः । ७७८३ नित्यं हस्ते पाणौ-।१।४।७७।' इति गतिसंज्ञायां समासे ल्यबादेशः ॥ तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गःतां लोलतां दर्शयन्त्या २०० - लक्ष्मीः पुं- योगमा॑शंसुः कुलदैव कुतूहलात ॥ अन्तिके ऽपि स्थिता पत्युश् छलेना॑ऽन्यं निरीक्षते ॥ १७ ॥ लक्ष्मीरित्यादि — त्वयैवं न मन्तव्यम् अन्यैः प्रार्थ्यमानापि न मां परित्यजतीति । यतः छलेन व्याजेन अन्यं निरीक्षते । किमर्थं - पुंयोगमाशंसुः अभिलपन्ती । '३१४८ । सनाशंस - भिक्ष उः ।३।२।१६८ । कुतूहलात् कोऽस्य विशेष इति । स्नेहादन्तिके अदूरेऽपि स्थिता पत्युः । ८६११ । दूराऽन्तिकार्थैः।२।३।३४।' इत्यादिना पष्ठी । कुलदेव बन्धकीव । शकन्ध्वादिषु दर्शनात्पररूपम् ॥ युवजानिरित्युक्तं तद्योपित्प्रलोभनायाह २०१ – योषिद् - वृन्दारिका तस्य दयिता हंस-गामिनी ॥ दूर्वा - काण्डमिंत्र श्यामा न्यग्रोध-परिमण्डला ॥ १८ ॥ योषिदित्यादि — योपिञ्चासौ वृन्दारिका चेति । ८७४१॥ वृन्दारक - १२॥१॥ ६२ ।' इत्यादिना सः । रूपेण प्रियेत्याह-दयिता प्रिया । प्रशस्तत्वे कारणमाह - हंस इव गन्तुं शीलं यस्याः । २९८९। कर्तर्युपमाने ।३।२।७९॥ इति णिनिः । दूर्वाकाण्डमिव श्यामा दुर्वास्तम्बं तदिव श्यामा । न्यग्रोधपरिमण्डला । १७३४ । उपमानानि - ।२।१।५५।' इत्यादिना सः ॥ २०२ नोऽऽस्यं पश्यति यस् तस्या, स्तेि दन्त च्छदं न वा ॥ 3 संशृणोति न चौक्तानि, मिथ्याऽऽसौ विहितेन्द्रियः ॥ १९ ॥ ओष्टम् । नास्यमित्यादि — तस्या आस्यं मुखं यो न पश्यति । दन्तच्छ छाद्यते अनेनेति घः । '३२९७ । छादेर्घेऽव्युपसर्गस्य । ६ ॥४॥९६ ॥ इति स्वः । दन्तानां छदं नवा स्तेि न चुम्बति । १०९६ । णि िचुम्बने ।' इत्यादा दिक आत्मनेपदी । '२२६२ । इदितो नुम् धातोः ।७।१।५८ । उक्तानि उदितानि न संशृणोति । '२६९९ । समो गमि-।१।३।२९।' इत्यादिना तङ् न भवति । अक- र्मकादित्यधिकारात् । मिथ्यासौ विहितेन्द्रियः । वृथैव तस्य वेधसा विहितानि इन्द्रियाणि चक्षुरादीनि ॥ १ – स्तनौ सु-कठिनौ यस्या, नितम्बे च विशालता, !! मध्ये क्षीणा भवेद् या, सा न्यग्रोध-परिमण्डला ॥ १ ॥ २२ भट्टिकाव्ये -- प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे पञ्चमो वर्गः, २०३ - सारो ऽसावि॑िन्द्रियाऽर्थानां, यस्या॑ ऽसौ तस्य नन्दथुः ॥ तल्पे कान्ताऽन्तरैः सार्ध मन्ये ऽहं धिङ् निमज्जथुम् ॥ २० ॥ सार इत्यादि — इन्द्रियार्थानां मध्ये सारोऽसौ दयिता इन्द्रियार्थः । रूपाद्यतिशययोगात् । यस्यासौ संपद्यते तस्य नन्दथुः आनन्दश्चेतसः । तल्पे शयनीये यस्य कान्तान्तरैरन्यस्त्रीभिः सार्धं निमज्जथुं शयनम् । सर्वत्र '३२६७ । द्वितोथुच् ।३।३।८९१ । तस्य धिक् कुत्सितमहं मन्ये । 'उभसर्वतसोः' इत्यादिना धिग्योगे द्वितीया । तया सार्धं शोभनमित्यर्थादुक्तं भवति ॥ २०४ - न तं पश्यामि, यस्या॑ ऽसौ भवेन् नोंदेजया मतेः ॥ त्रैलोक्येना॑ऽपि विन्दस् त्वं तां क्रीत्वा सुकृती भव ॥ २१ ॥ नतमित्यादि – सर्वथा न तं पश्यामि जानामि जगति यस्य संबन्धिन्याः मतेश्वेतसः उदेजया उत्कम्पिकासौ न भवेत् । चित्तक्षोभजनिकेत्यर्थः । उद्वेजय- तीति ' २९००। अनुपसर्गाल्लिम्प-।३।१।१३८ ।' इति कर्तरि शः कृयोगे कर्मणि षष्टी । तस्मात् त्रैलोक्येनापि । त्रयश्च ते लोकाश्च त्रिलोकाः । त एव त्रैलो- क्यम् । चातुर्वर्ण्यादित्वात् स्वार्थे प्यञ् । 'स्वार्थिका अतिवर्तन्ते' इति नपुंसक- त्वम् । तेनापि तां क्रीत्वा लब्ध्वा विन्दस्त्वं सुकृती भव पण्डितो भव । आढ्यो वा भव । पाण्डित्यमस्य त्रैलोक्यमात्रेणापि स्त्रीरलं कीत्वा लब्धमिति । विन्द- तीति तेनैव सूत्रेण शः ॥ अन्या अपि स्त्रियः सन्तीति चेदाह २०५ - नैवेन्द्राणी, न रुद्राणी, न मानवी, न रोहिणी, ॥ वरुणानी न, नो ऽनायी तस्याः सीमन्तिनी समा. ' ॥ २२ ॥ नैवेत्यादि — तस्यास्तु सीतायाः । '६३०। तुल्यार्थैरतुलोपमाभ्याम् ।२।३। ७२।' इति षष्टी । न काचित् सीमन्तिनी स्त्री समा तुल्या । 'सीमन्तः केशवेशे' इति पररूपत्वम् । अन्यत्र सीमाऽन्तः । स विद्यते यस्या इति इनिः । इन्द्राणी इन्द्रभार्या । न सम्यक् किं पुनरन्या । तथा रुद्राणी रुद्रभार्या । वरुणानी वरुणभार्या । ८५०५ । इन्द्र वरुण । ४।१।४९॥ इत्यादिना आनुक् । मानवी मनुभार्या । '४९५। मनोरौ वा ।४।१।३८।' इत्यौकारः । अनायी अभिभार्या । तथा लक्ष्य रूपे कथानके राम- प्रवासो नाम पञ्चमः सर्गः '४९४ । वृषाकप्यग्नि-कुसित-कुसिद- ।४।१।३७।' इत्यादिना ऐरिति सर्वत्र '५०४ । पुयोगादाख्यायां ।४।१॥४८॥ इति ङीष् । रोहिणी चन्द्रभार्या । रोहितशब्दात् '४९६ । वर्णादनुदात्तात् ।४।१॥३१।' इत्यादिना ङीय् नकारश्च । वरुणानी न नाम्नायीत्यत्र प्रतिषेध एकः पूर्वेण योज्यः द्वितीयः परेणेति । न चानायीति पाठान्तरम् ॥ , २०६ - प्रत्यूचे राक्षसैन्द्रस् ताम्- 'आश्वसिहि, विभेषि किम् ॥ त्यज नक्तञ्चरि ! क्षोभं, वाचाटे ! रावणो ह्य॑हम् ॥ २३ ॥ प्रत्यूच इत्यादि - राक्षसेन्द्रो रावणः । राक्षसीं प्रत्यूचे । प्रतिवचनमुक्त- वान् । आश्वसिहि खेदं त्यज । '२४७४ । रुदादि ।७।२।७६ ।' इत्यादिना इट् । बिभेषि किमर्थं तापसकात् । हे नक्तञ्चार ! मद्विषये क्षोभं रोषं यज । वाचाटे बहुभाषिणि । '१९३१। आलजाटचौ बहुभाषिणि ।५।२।१२५॥ यस्माद्रावणो- ऽहम् । अनेनात्मोत्कर्षमावेदयति ॥ तमेव स्फुटयन्नाह २०७ - मार्मुपास्त दिदृक्षा चान् याष्टीक-व्याहतो हरिः ॥ आज्ञा-लाभोन्मुखो दूरात् काक्षेणा॑ ऽनदरेक्षितः ॥ २४ ॥ मामित्यादि मामुपास्त सेवितवान् । हरिरिन्द्रः । दिदृक्षावान् द्रष्टुमिच्छा- वान् । आत्मदर्शनेच्छावानित्यर्थः । दूरादेव याष्टीकैः वेत्रग्राहिभिर्व्याहतोऽपसा- रितः । '६९४ । कर्तृ- करणे कृता ।२।१।३२।' इति सः । यष्टिः प्रहरणमेषामिति '१६५९। शक्ति-यष्ट्योरीक ।४।४।१९॥ आज्ञालाभे किमभिधास्यतीत्युत्सुक उन्मुखः तत्परः । सप्तमीति योगविभागात् सः । अनादरेक्षितः अवज्ञाविलो- कितः । काक्षेण कुदृष्ट्या । '१०३० । का पथ्यक्षयोः ।६।३।१०४।' इति कुशब्दस्य कादेशः । यदि तत्पुरुष इत्यनुवर्तते तदा कुत्सितमक्षमिति विग्रहः । अक्षशब्द- स्थेन्द्रियसामान्याभिधायित्वेऽपि ईक्षितशब्दोपपदत्वाच्चक्षुषि वर्तते । अथ तत्पु- रुष इति नानुवर्तते सामान्येनादेशस्तदा कुत्सितमक्षि यस्येति । '८५२ । बहुव्री- हौ सक्थ्यक्ष्णोः ।५।४।११३। इति षच् । काक्षेण मयेत्यर्थः ॥ . २०८ - विरुग्णो-दग्र-धाराऽग्रः कुलिशो मम वक्षसि ॥ अ-भिन्नं शत-धा ऽऽत्मानं मन्यते बलिनं बली ॥ २५ ॥ . भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पन्चो वर्गः, विरुग्णेत्यादि — विरुग्णानि अवसन्नानि कुण्ठितानि उदग्राणि महान्ति धारामाणि यस्य स कुलिशो वज्रः मम वक्षसि पतितः सन् । वली । आत्मानम- भिनं शतधा शतप्रकारम् । १९८८ संख्याया विधार्थे धा ।५।३।४२३ बलिनं मन्यते । अहो वलवानहं न येन शतधा भग्न इति । तस्य देवता रूपत्वात् बल- मस्त्येव । आत्मानं वलिनं मन्यत इवेत्युत्प्रेक्षा ॥ ९४ . २०९ - कृत्वा लङ्कामाऽऽलानम॑हमैरावतं गजम् ॥ वन्धने ऽनुपयोगित्वान् नतं तृण-वर्दत्यजम् ॥ २६ ॥ कृत्वेत्यादि - एप्वालीयत इत्यालानम् । अधिकरणे युट् । '२५०९॥ वि- भाषा लीयतेः ।६।१॥५१॥ इत्यात्वम् । लङ्कामा आलानानि यस्यैरावताख्य गजस्य तं कृत्वा । नतं नम्रमुखम् । तृणमिव मत्वा । सोऽहमत्यजं त्यक्तवान् । बन्धनेऽनुपयोगित्वात् प्रयोजनाभावात् ॥ २१० - आहो पुरुषिकां पश्य मम, सद् रत्न - कान्ति-भिः ॥ ध्वस्तता॒ऽन्धकारे ऽपि पुरे पूर्णेन्दोः सन्निधिः सदा ॥ २७ ॥ आहो इत्यादि - अहोपुरुषस्य भावः । मनोज्ञादित्वाञ् । आहोपुरुषिका कार्यसिद्धावपि तत्साधने वृत्तिः । तां मम शूर्पणखे पश्य । सद्लकान्तिभिः ध्वस्तान्धकारेऽपि पुरे पूर्णेन्दोः पूर्णचन्द्रस्य सन्निधिः सदा सन्निधानं । न पुनस्तेन कृत्यं रत्नप्रभाभिरेव तत्कृत्यस्य कृतत्वात् ॥ २११ - हृत - रत्नश् च्युतोद्योगो रक्षोभ्यः कर दो दिवि ॥ पूतक्रतायीम॑भ्येति सन्त्रपः किं न गोत्र-भित् ॥ २८ ॥ हृतेत्यादि — हृतोचैःश्रव आदिरखो गोत्रभिदिन्द्रः । अत एव च्युतोद्योगः । दिवि वर्तमानोऽपि रक्षोभ्यः करदः । राजग्राह्यं वित्तं प्रयच्छन् । पूततायीं शचीं '४९३। पूतक्रतोरै च ।४।११३६॥ इति ङीष् । पुंयोगादाख्यायामिति । सत्रपः सव्रीडः । किं नाभ्येति न ढौकते । २१२ - अ - तुल्य - महसा सार्धं रामेण मम विग्रहः ॥ त्रपा-करस्, तथाप्यैष यतिष्ये तद्-विनिग्रहे ॥ २९ ॥ अतुल्येत्यादि —तदेवं विधस्य मम अतुल्यमहसा अतुल्यतेजसा रामेण सह विग्रहस्त्रपाकरः । '२९३४ । कृञो हेतु - ३ । २ । २० ।' इत्यादिना टः । तथापि त्वत्प्रार्धनया । एष चं यतिध्ये तद्विनिग्रहे विविधनिग्रहविषये तस्य यतिष्ये यत्नं करिष्यामि । '२.७८९ । वर्तमान सामीप्ये वर्तमानवद्वा ।३।३।१३१।' इति विकल्पेन लटो विधानांत् लुडुदाहृतः ॥ तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः९५ २१३ - उत्पत्य खं दश-ग्रीवो मनो-यायी शिताऽस्त्र भृत् । M समुद्र - सविधाssवासं मारीचं प्रति चक्रमे ॥ ३० ॥ उत्पत्येत्यादि — उक्त्वैवं खमाकाशमुत्पत्य मारीचं प्रति चक्रमे । यत्र मारी - चो राक्षसस्तन्न गत इत्यर्थः । '२७१६ । अनुपसर्गाद्वा ।१।३।४३।' इति क्रमेस्त । मनोवदाशु यातुं शीलमस्येति । '२९८९ । कर्तर्युपमाने ।३।२।७९।' इति णिनिः । शितास्त्रभृत् गृहीततीक्ष्णचन्द्रहासः । समुद्रस्य सविधे समीपे आवासो यस् मारीचस्य । सह विधेन सविधमिति व्युत्पत्तिमात्रं शब्दस्तत्समीपवाची ॥ ." - २१४ - सम्पत्य तत्- सनीडेऽसौ तं वृत्तान्तम॑शिश्रवत् ॥ त्रस्तु॒नाऽथ श्रुता॒ऽर्थेन तेना॑ऽगादि दशा॒ऽऽननः ३१ सम्पत्येत्यादि – असौ दशग्रीवः तत्सनीडे मारीचस्य समीपे । अत्रापि सह नीडेनेति व्युत्पत्तिमात्रम् । समेत्य यात्वा । तं वृत्तान्तम् शूर्पणखाकथितम- शिश्रवत् श्रावितवान् । शृणोतेर्ण्यन्तस्य लुङि रूपम् । तेन मारीचेन तान त्रस्तुना त्रसनशीलेन दशाननः अगादि उक्तः । कर्मणि लुङ् ॥ २१५ - 'अन्तर्धत्स्व रघु- व्याघात् तस्मात् त्वं राक्षसेश्वर ! ॥ 3 यो रणे दुरुपस्थानो हस्त-रोधं दधद् धनुः ॥ ३२ ॥ अन्तरित्यादि — हे राक्षसेश्वर ! त्वं तस्माद्वंदुव्याघ्रादन्तर्धत्स्व अन्तर्हितो भव व्यवहितो भवेति यावत् । दुधातेर्लोटि '२४८३ । श्वाभ्यस्तयोः । ६।४।११२॥१ इत्याकारलोपः । अभ्यासस्य '२५०१ । दुधस्तथोश्च ।८।२।३८।' इति भवभावः । ५९१ । अन्तर्छौं येना- ।१।४।२८।' इत्यपादानसंज्ञा । यस्मात् स रामः रणे पस्थानः दुःखेन उपस्थीयते उपगम्यत इति । आतो युच् । यतो हस्तरोधं दूध- द्धनुः हस्तेन रुवा सदैव यो धनुर्धत्ते स कथं दुरुपस्थानो न भवति । हस्तशब्दे तृतीयान्त उपपदे '३३७० । सप्तम्यां चोपपीड-रुधः- कर्षः ।३।४।४।१९।' इति णमुल । चकारेण तृतीयायाः समुच्चितत्वात् । अत्र '७८४॥ तृतीयाप्रभृतीन्यन्यतरस्याम् ।२।२।२१।' इति सः ॥ तदेव दुरुपस्थानत्वं स्फुटयन्नाह २१६ - भवन्तं कार्तवीर्यो यो हीन - सन्धिम॑चीकरत् ॥ " जिगाय तस्य हन्तारं स रामः सार्वलौकिकम् ॥ ३३॥ भवेत्यादि — यः कार्तवीर्यः कृतवीर्यस्यापत्यं सहस्रबाहुः भवन्तं हीनसन्धिमचीकरत् । हीनेन दुर्बलेन यः सन्धिः तं भवन्तं कारितवान् । तेन हीनत्वम् । बलानिर्जित्य कारित इति दुरुपस्थानमुक्तम् । १५४१ । हृ-क्रोरन्यतरस्याम् ॥१॥४॥५४॥' इति द्विकर्मकता । तस्य कार्तवीर्यस्य यो हन्ता परशुरामः । कृत्प्रयोगे कर्मणि षष्ठी । तेन हि तस्याग्निहोत्रधेनुमपहृत्य गच्छतः परशुना बाहुसहस्रं छिन्नम् । तस्य हन्तारं स रामो जिगाय जितवान् । जयतेर्लिटि धातुजकारस्य भट्टि- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पञ्चमो वर्गः, '२३३१। सँल्लिटोजेंः ।७।३।५७ ।' इति कुत्वम् । सार्वलौकिकं सर्वलोके विदितम् । ८१७१० । लोक-सर्वलोकाभ्यां ठञ् ।५।१।४४॥ १४३८ । अनुशतिकादि- १७॥३॥ २०।' इत्युक्तत्वादुभयपदवृद्धिः । सार्वलौकिक इति पाठान्तरम् । अत्र राम इति योज्यम् ॥ → २१७–यमा॒ऽऽस्य-दृश्वरी तस्य ताडका वेत्ति विक्रमम् ॥ शूरं - मन्यो रणाच् चऽहं निरस्तः सिंह नर्दिना ३४ यमेत्यादि – तस्य रामस्य विक्रमं ताडका वेत्ति ज्ञातवती । '२७८९१ । वर्त मानसामीप्ये-।३।३।१३१॥ इति भूते लट् । कीदृशी । यमास्यदृश्वरी । तच्छ्ररताडिता यममुखं दृष्टवती मृतेत्यर्थ: । '३००४ । दृशेः क्वनिप् ।३।२१९४॥' '४५७१ नोरच ।४।१।७॥' इति ङीब्रेफौ । अहमपि शूरम्मन्यः शूरमात्मानं मन्यमानः '२९९३ । आत्ममाने खश्च । ३ । २ । ८३ ।' सिंहनर्दिना रामेण सिंह इव नतीति '२९८९ । कर्तर्युपमाने । ३।२।७९॥ इति णिनिः । रणान्निरस्तः बहिष्कृत इत्यर्थः ॥ २१८ - न त्वं तेना॑ ऽन्वभाविष्ठा, नां ऽन्वभावि त्वया ऽप्यमौ ॥ अनुभूतो मया चां, ऽसौ, तेन च॑ ऽन्वभविष्य॑ह॒म् ॥ ३५ ॥ " न त्वमित्यादि – तेन रामेण त्वं नान्वभाविष्टाः । त्वमनेन नानुभूतः । कर्मणि लुङ् । थासि २७५७१ स्य- सिच्- ।६।४॥६२।' इत्यादिना चिण्वदि त्वम् । नान्वभावि त्वयाऽप्यसौ नानुभूतः । येनैवमुच्यते । अत्र '२७५८ । चिण् भाव-कर्मणोः ।३।१।६६ ।' इति चिण् । अनुभूतो मया चासौ । चशब्दः पुनरित्यर्थे । मया पुनरसावनुभूतः न शक्यो जेतुमिति । तेन रामेण चान्वभविष्यहमनुभूतोऽहम् । तेन सह योद्धुमक्षम इति । अत्र चिण्वद्भावो न कृतः किन्तु लुङि उत्तमपुरुषैकवचने वलादिलक्षण इट् । तेन वृद्ध्यभावात् गुण एवेति ॥ २१९-अध्यङ् शस्त्र-भृतां रामो, न्यञ्चस् तं प्राप्य मद्-विधाः ॥ स कन्या शुल्कर्मभनङ् मिथिलायां मखे धनुः ॥ ३६॥ अध्यङ्कित्यादि -- शस्त्रभृतां मध्ये रामोऽध्यङ् अधिकः । अध्यञ्चत्याधिक्येन वर्तत इति ' ३७३ । ऋत्वि । ३।२।५९ । इत्यादिना किन् तस्मिन् लुप्ते 'अनुनासिकलोपे '३६१॥ उगिदचां-।७।१।७० ।' इति नुम् । तस्यानुस्वारपरसवर्णत्वे कृते च हलङयादिसंयोगान्तलोपौ । नकारस्य ' ३७७ । क्विन्प्रत्ययस्य कुः ।८।२।६२।' इति कुत्वेन इन्कारः । तं तादृशं प्राप्य मद्विधा न्यञ्चो हीनाः । निशब्दोऽन्नाधो तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः भावे वर्तते । न्यञ्च इति पूर्ववत् किन् । अनुनासिकलोपः । नुम् । अहोपो नास्ति अहलत्वात् कुवं च नास्ति अपदसंज्ञत्वात् । यो मिथिलायां महद्धनुरभनक भग्नवान् सोऽस्मादपि कारणात् शस्त्रभृतामध्यङ् । भञ्जेलेङि '२५४४॥ नान्नलोपः ।६॥४॥२३।' हल्ड्यादिलोपः । कुत्वं च । कन्याशुल्कं कन्यामूल्यम् । तद्धि यो रौद्रं धनुरारोपितगुणं करोति तस्मै कन्या दीयत इति मूल्यीकृत्य स्थापितम् ॥ २२० - सं वित्तः सह युध्वानौ तच्छत्तिं खर-दूषणौ ॥ , यज्वानश् च स-सुत्वानो, यान॑गोपीन् मखेषु सः ३७ संवित्त इत्यादि — नाहमेव रामशक्तिमवैमि अपि तु खरदूषणावपि संवित्तः ज्ञातवन्तौ । '२७८९ । वर्तमानसामीप्ये ।३।३।१३१॥ इति भूते लट् । सकर्म- कत्वात् '२६९९। समो गम्य-।१।३।२९।' इत्यादिना तङ् न भवति तत्राकर्मका- दिति वर्तते । सहयुध्यानौ सह तेन युद्धवन्तौ । '३००६ । सहे च । ३।२।१६। इति युधेः क्वनिप् । यज्वानश्वाहिताग्नयः ससुत्वानः सोमयाजिसहिताः । ८३०९१॥ सु-यजोनिप् ।३।२।१०३।' संविदन्तीति वचनविपरिणामेन योज्यम् । यान- गोपीत् अरक्षीत् मखेषु स रामः । लुङि रूपम् । तथा मखद्रुहो राक्षसान् नतो रामस्य शक्तिं ज्ञातवन्तः ॥ २२१ - सुख जातः सुरा-पीतो नृ-जग्धो माल्य-धारयः ॥ अधि-लङ्क स्त्रियो दीव्य, मा ssरब्धा बलि-विग्रहम् ' ॥ ३८ ॥ ✔ सुखेत्यादि – यत एवं दुरुपस्थानः स तस्माइलिना रामेण विग्रहं माऽऽ- रब्धाः मा कार्पा: । रभेराङ्पूर्वात् । '२२१९॥ माङि लुङ् ।३।३।१७५ ॥' थास् । ८२२८१ । झलो झाल ।८।२।२६॥ इति सिलोप: । '२२८० । झषस्तथोऽर्धोऽधः १८।२।४।१ । ५२ । झलां जश् झशि ।८।४/५३ । १ । किं कार्यमित्याह — अघिलङ्क लङ्कायामधि । विभक्त्यर्थेऽव्ययीभावः । स्त्रियो दीव्य क्रीड । लोटि रूपम् । ८५६२ । दिवः कर्म च ।१।१४।४३ ।' इति कर्मसंज्ञायां '३०२ । वाऽम्-शसोः ।६। ३८० । इतीयङ् । कीदृशः । सुखजातः । जातं सुखमस्येति बहुव्रीहिः । कृतास- वपानत्वात् । यदा — सुरापीतः पीतमदिरः । नृजग्धः भुक्तमानुषः । निष्ठायामदो जग्धिः । पूर्ववद्धुत्वम् । एषु वाहिताभ्यादिदर्शनात् परनिपातः । माल्यं धारय- तीति माल्यधारयः । '२९०० अनुपसर्गात् लिम्प-।३।१।१४८।' इत्यादिना शः ॥ २२२ - तं भीतं कारमाक्रुश्य रावणः प्रत्यभाषत - ॥ 'यात यामं विजितवान् स रामं यदि, किं ततः ॥ ३९॥ तमित्यादि —तं मारीचं पूर्वोक्तं निराकुर्वन् रावणः प्रत्यभाषत प्रत्युक्तवान् । लङि रूपम् । भीतकारमाक्रुश्य । भीतं कृत्वा नीतोऽसीति । '३३४६ । कर्मण्याभ० का० ९ भट्टि-काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पचमो वर्गः, क्रोशे कृञः खमुज् ।३।४।२५॥ यातयामं गतवयसम् । यदि विजितवान् रामो दाशरथिः । किं ततः किं तापसः शूरः ॥ २२३ - अघानि ताडका तेन लज्जा-भय-विभूषणा, ॥ स्त्री - जने यदि तच् छाघ्यं, ९८ धिग् लोकं क्षुद्र मानसम् ॥ ४० ॥ अघानीत्यादि – तेन रामेण ताडका अधानि व्यापादिता । हन्तेः कर्मणि लुङ् । लजा च भयं च विभूषणं यस्याः । स्त्रीत्वान्न शौर्यम् । एवंविधाया अनेन रामेण यदि गर्ह्यमपि हननं स्त्रीजने श्लाव्यं श्लाघनीयम् । '६२९। कृत्यानां कर्तरि वा । २।३।७१।' इति तृतीया । तं घिकू लोकं क्षुद्रमानसं हीनमानसम् ॥ २२४ – यद् गेहे- नर्दिनम॑सौ शरैर् भीरुम॑भाययत् ॥ कु-ब्रह्म- यज्ञ के रामो भवन्तं, पौरुपं न तत् ॥ ४१ ॥ यह इत्यादि — असौ रामो यद्भवन्तं भीरुं दारैरभाययत् भायितवान् । युगात्मनेपदे न भवतः भयहेतोरभावात् । अत्र हि शरेभ्यो भयम् नतु रामात् । तत् किम् । पौरुषकारः किमसौ । युवादित्वादण् । गेहेनर्दिनं गेह एव नर्दिनम् । '७२५॥ पात्रे समितादयश्च ।२।१।४८।' इति सः । कुब्रह्मयज्ञके । कुत्सिता ब्रह्माणः कुब्रह्माः । कुः पापार्थ इति सः । ८८०६ । कु-महद्भ्यामन्यतरस्याम् ।५।४।१०५१ इति समासान्तष्टच् । तेषां कुत्सितो यज्ञः । तस्मिन् सति कुत्सायां कन् । तेन शूरम्मन्योऽहं रणात्तेन निरस्तः इत्यपुष्कलमुक्तम् ॥ २२५ - चिर - काोषितं जीर्ण कीट निष्कुषितं धनुः ॥ किं चित्रं यदि रामेण भग्नं क्षत्रिय काऽन्तिके ॥४२॥ चिरेत्यादि – यदि रामेण क्षत्रियकान्तिके । कुत्सितक्षत्रियसमीपे । भग्नं धनुः किं तच्चित्रमाश्चर्यम् । क्षत्रिया जनकादयः तस्य कुत्सायां कन् । क्षत्रियक- स्यान्तिके । दूरान्तिकार्ययोगे पष्टीसमासं विधाय पश्चात् । '६३३ । सप्तम्यधि- करणे च ।२।३॥३६ ।' इति चकाराद्दूरान्तिकार्थेभ्यश्चेति सप्तमी । किमिति न चित्रमित्याह – चिरकालमुपितमिति । '५५८० कालाऽध्वनो:-।२।३।५। इति द्वितीयां विधाय । ६९१ । अत्यन्त संयोगे च ।२।१।२९।' इति द्वितीयासमासः । जीर्णं चिरकालोषितत्वात् । '१२०५ । लृप् वयोहानौ' । निष्ठा । '२३९०। ऋत इद्धातोः ।७।१।१००।' इको '३५४ । हलि च ।८।२।७७ ।' इति दीर्घः । '३०१६ । र दाभ्याम् । ८।२।४२।' इति निष्ठानत्वम् । कीटैर्युणैर्निष्कुषितं खादितम् । निरः कुषः इत्यनुवर्तमाने '३०४५ । इण् निष्ठायाम् ।७।२।१७।' इती ॥ तथा लक्ष्य रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- २२६ - वन - तापस के वीरौ विपक्षे गलितता॒ऽऽदरौ ॥ किं चित्रं यदि सऽवज्ञौ मत्रतुः खर-दूषणौ ॥४३॥ वनेत्यादि – वने तापसो वनतापसः । कुत्सायां कन् । तस्मिन् वनतापसके रामे सावज्ञत्वाद्गलितादरौ विपक्षे किमयं करिष्यतीत्यश्रद्धयैव योधितवन्तौ खरदूषणौ वीरौ यदि मत्रतुः मृतौ को दोषः किं चित्रम् । '२५३८ । म्रियतेलु- लिङोश्च । १।३।६१।' इति नियमात् लिट्यात्मनेपदं न भवति ॥ २२७ - त्वं च भीरुः सुदुर्बुद्धे ! नित्यं शरण-काम्यसि ॥ ॥ गुणांश् चऽपहुषेऽस्माकं, स्तौषि शत्रूश् च नः सदा ॥ त्वं चेत्यादि — हे सुदुर्बुद्धे ! त्वं पुनः भीरुश्च भवसि नित्यं शरणकाम्यसि । आत्मनोऽनिश शरणमिच्छसि । आत्मेच्छायां काम्यच् । अस्माकं च सतो गुणा- नपहुषे अपनयसि । '११५६ । हुङ् अपनयने' आदादिकः । ङित्त्वात्तङ् । शत्रूंश्च नोऽस्माकं स्तौषि । स्तौतेः '२४४३ । उतो वृद्धिलुकि हलि ।७।३।८९॥ ॥ २२८ - शीर्षच्- छेद्यम॑तोऽहं त्वा करोमि क्षिति-वर्धनम् कारयिष्यामि वा कृत्यं विजिघृक्षुर् वनौकसौ ॥४५॥ शीर्षेत्यादि- - यत एवंविधस्त्वं दुष्टः अतोऽहम् । '४०७ । त्वा- मौ द्वितीया - याः ।८।१॥२३॥' इत्याष्टमिकलक्षणेन त्वादेशः । शीर्पच्छेद्यं शीर्पच्छेदार्हम् । '१७३० । शीर्षच्छेदात् ।५।१।६५ । क्षितिवर्धनं करोमि । शिरश्छित्वा व्यापा- दयामीत्यर्थः । अथवा कृत्यं करणीयम् । '२८७१। विभाषा कृ-वृपोः । ३।१।१२०॥ इति क्यप् । कारयिष्यामि । १५४१ । हृ-क्रोः- ११४/५३।' इति द्विकर्मकता । विजिघृक्षुः विग्रहीतुमिच्छुः । '२६१० । साने ग्रह-गुहोश्च ।७।२।१२ ।' इतीट्स- तिषेधः । '२६०९ । रुद - विद - ।१।२।८।' इत्यादिना सनः कित्त्वे '२४१२॥ ग्रहि- ज्या–१६।१।१६।' इत्यादिना संप्रसारणम् । '३२४ । हो ढः ॥२।३१।' । '३२६॥ एकाचो बशो भष्- ॥२।३७॥ '२९५ । पढोः कः सि ।८।२॥४।१॥ वनौकसौ रामलक्ष्मणौ । वनमोको गृहं ययोः । '६२७ । न लोक-।२।३।६९ । इति कर्मणि षष्ठ्याः प्रतिषेधः ॥ २२९ - तमु॑द्यत - निशाता॒ऽसिं प्रत्युवाच जिजीविषुः ॥ मारीचो ऽनुनयंस् त्रासाद् 'अभ्यमित्र्यो भवामि ते ॥ ४६ ॥ , ९९ तमित्यादि —तं रावणं एवमुक्तवन्तम् । निशात इति '३०७५ । शाच्छो- रन्यतरस्याम् ।७।४।४१॥' इतीत्वाभावपक्षे रूपम् । उद्यत उत्थापितः निशात- तीक्ष्णोऽसिन तं मारीचस्वासात् प्रत्युवाच वचनमुक्तवान् । अभ्यमित्र्यो १०० भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पचनो वर्गः, भवामि ते । अमित्रस्याभिमुखमभ्यमिन्यमाभिमुख्येऽव्ययीभावः । अभ्यमित्र- मलंगामीत्यस्मिन्नर्थे ' ३८१८ अभ्यमित्राच्छ च ।५।२।१७।' इति चकाराद्यन्सौ चेति यत् । त्वदमित्राभिमुखं गच्छामीत्यर्थः । अनुनयन् अनुकूलयन् । किमर्थं जिजीविपुः जीवितुमिच्छुः ॥ 3 २३० - हरामि राम - सौमित्री मृगो भूत्वा मृग-युवौ ॥ उद्योगम॑भ्यमित्रीणो यथेष्टं त्वं च सं-तनु.' ॥ ४७ ॥ हरेत्यादि — अहं मृगो भूत्वा रामसौमित्री हरामि । देशान्तरं प्रापयामि । आखेटकाभिरतत्वात् । यदाह मृगधुवौ मृगव्यत इति विप् । '२५६१ । च्छोः शूडनुनासिके च । ६।४।१९। इति चकारात् कौ च ऊद्र यणादेशः । उचङ् । मृगधुताविति पाठान्तरम् । तत्र 'यु अभिगमने' मृगान् द्यौति अभिगच्छतीति विप् । त्वं च यथेष्टं यथारूचि । तमुद्योगं संतनु विस्तारं कुर्वित्यर्थः । तनोते- टि '२३३४ । उतश्च –।६।४।१०६।' इति हेर्लुक् । अभ्यमित्रीणः अमित्राभिमु खमलंगामी । ७१८१८। अभ्यमित्राच्छ च ।५।२।१७।' इति चकाराद्यत्खौ चेति खः ॥ २३१ - ततश चित्रीयमाणो ऽसौ हेम-रन-मयो मृगः ॥ यथामुखीन: सीतायाः पुष्टुवे बहु लोभयन् ॥ ४८ ॥ तत इत्यादि — उक्तानन्तरमसौ मारीचो मायामृगीभूतः सन् हेमरत्नमयः रत्वं च हेम चेति विगृह्य । १५२३ । मयतयोर्भाषायाम् ।४।३।१४३।' इति विकारे मयट् । निर्मलत्वात् । सीताया अग्रतो यथामुखीन: प्रतिबिम्बाश्रय इच भूत्वा पुडुवे भ्रमति स्म । इवशब्दलोपो द्रष्टव्यः । १८०७ । यथामुखसंमुखस्य दर्शनः खः ।५।२।६।' बहु लोभयन् सुटु स्पृहां जनयन् । यतश्चित्रीयमाणः आश्चर्य भवन् । हेमरत्नमयत्वात् । '२६७५॥ नमोवरिव - ।३।१।१९।' इत्यादिना क्यच् । 'चित्र - ङू आश्चर्ये' । ङकारस्यात्मनेपदार्थत्वात् शानच् । अवयवकृतं लिङ्गं समुदायस्य भवतीति ॥ २३२ - तेना॑ ऽदुद्यूषयद् रामं मृगेण मृग-लोचना ॥ मैथिली विनो॒रस्क प्रावुवर्षुर् मृगाजिनम् ॥४९॥ ते नेत्यादि - तेन मृगेण मैथिली सीता राममदुधूपयत् क्रीडितुमिच्छन्तं प्रयु- क्वती गृह्यतामय मिति । इवन्तस्य दिवेः '२६१८। सनीवन्त ।७।२।४९।' इत्या- दिना यदा नेट् तदा ८२५६१ । शूद्र - १६।४।१९। द्विवेचनम् । तस्मात् सन्नन्तण्यन्वात् लङि रूपम् । मृगलोचना मृगस्य लोचने इव लोचने यस्याः । मध्यमपदलोपी सः । विपुलोरस्कं विस्तीर्णवक्षस्थलम् । १८८९। उरःप्रभृतिभ्यः कप् ।५।४।११५१॥ किमर्थयदुद्यूषयत् मृगाजिनं मृगचर्म प्रावुवूर्षुः प्रावरीतु- मिच्छु: । प्राङ्पूर्वस्य '२६२५ । इद सनि वा ।७।२।४१॥ इत्यनिपक्षे '२६१४८ तथा लक्ष्य-रूपे कथानके राम-प्रवासी नाम पञ्चमः सर्गः- अज्झनगमां सनि ।६।४।१६।' इति दीर्घः । '२२९४॥ उदोष्ठ्यपूर्वस्य ।७॥१०२।१ इत्युत्वम् । रपरत्वम् । '४३३ । वोरुपधाया दीर्घ इकः ।८।२।७६ । द्विवचनम् । '२११। इण्कोः ।८।३।५७१' इति षत्वम् । रेफस्येण्ग्रहणेन ग्रहणाद्दन्त्योध्योऽपि वकार ओट्यग्रहणेन गृह्यते ॥ १०१ २३३ -- योग क्षेम-करं कृत्वा सीताया लक्ष्मणं ततः ॥ ★ मृगस्याऽनुपदी रामो जगाम गज - विक्रमः ॥ ५० ॥ योगेत्यादि- ततो दुचूषानन्तरं रामो जगाम । योगक्षेमौ शरीरस्थितिपा- लने करोतीति '२९३४। कृञो हेतु ।३।२।२०।' इत्यादिना हेतौ टः । ग्रहणवता तदन्तविधेरभावात् '२९६१। क्षेमप्रियमद्देऽण् च ।३।२।१४।४॥ इत्यखचौ न भवतः । सीतायाः स्थितिपालन हेतुभूतं लक्ष्मणं कृत्वा रामः मृगस्यानुपदी अन्वेष्टा '१८९०१ अनुपद्यन्वेष्टा ।५।२।१०।' इति निपातनात् साधुः । गजविक्रमः । गज- गमनमिव गमनं यस्येत्यर्थः ॥ २३४ - स्थायं स्थायं क्वचिद् यान्तं कान्त्वाकान्त्वा स्थितं क्वचित् ॥ वीक्षमाणो मृगं रामश् चित्र वृत्तिं विसिष्मिये ॥ ५१ ॥ स्थायमित्यादि – मृगं चित्रवृत्तिमद्भुतशरीरचेष्टं वीक्षमाणो रामो विसि- प्मिये विस्मितः । प्मिङो ङिच्वादात्मनेपदम् । षोपदेशत्वाच्चाभ्यासेण: परस्य सस्य षः । चित्रवृत्तितां दर्शयन्नाह -- स्थायं स्थायं स्थित्वा स्थित्वा । क्वचित् प्रदेशे यान्तं त्वा क्रान्त्वा । क्वचित्प्रदेशे उल्लुत्यो स्थितम् । आभीक्ष्ण्ये णमुलि क्वाणमुलौ द्विर्वचनं च ॥ २३५ - चिरं क्लिशित्वा मर्मा-विद् रामो विलुभित-प्लवम् ॥ शब्दायमानम॑व्यात्सीत् भय दं क्षणदाचरम् ॥५२॥ चिरमित्यादि - रामः क्षणदाचरं मारीचमण्यात्सीत् विद्धवान् । व्यर्लंड हलन्तलक्षणा वृद्धिः । मर्माविद्रामः मर्माणि विध्यतीति विप् । '१०३७॥ नहि- वृति – ।६।३।११६।' इत्यादिना पूर्वपदस्य दीर्घत्वम् । चिरं क्लिशित्वा महान्तं काल- मायस्य । अत्यन्तसंयोगे द्वितीया । '३०४९ । किश: क्त्वानिष्ठयोः ।७।२।५० । इति विकल्पेनेट् । तत्र '२६१७ । रलो व्युपधात्- । १।२।२६।' इति किवबिकल्पे '३३२६ । मृद - मृद ।१।२।७।' इत्यादिना कित्वम् । विलुभितलवं व्याकुलितग- मनम् । '३०४८। लुभो विमोहने ।७।२।५४ । इतीट् । विमोहनं व्याकुलीकर- णम् । शब्दायमानं शब्दं कुर्वाणम् । ८२६७३ । शब्द - वैर - ।३।१।१७।' इति क्यङ् । भयदं निशाचरम् । शब्दविशेषणं वा ॥ १०२ भट्टिकाव्ये -- प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पचगो वर्गः, २३६ - श्रुत्वा विस्फूर्जथु-प्रख्यं निनादं परिदेविनी ॥ मत्वा कष्ट-श्रितं रामं सौमित्रिं गन्तुमैजिहत् ॥५३॥ श्रुत्वेत्यादि — विस्फूर्जथुप्रख्यं वज्रनिर्वोपतुल्यम् । '२४३ । टुओ स्फूर्जो वज्र-निर्वोपे' । '३२६७। द्वितोऽथुच् । ३॥३॥८९१ । निनादं शब्दम् । '३२४१ । नौ गद - नद - ।३।३।६४।' इति विकल्पनात् पक्षे घन् । श्रुत्वा मैथिली कष्टश्रितं कृच्छ्रप्राप्तं रामम् । '६८६ । द्वितीया ति ।२।१।२४।' इत्यादिना सः । मत्वा बुवा । कृच्छ्रप्राप्तेन रामेण मृतमिति परिदेविनी परिदेवनशीला शङ्कमाना । '३१२२ । संपृचानुरुध - । ३।२।१४२।' इत्यादिना घिनुण् । सौमित्रिं गन्तुमैजिहत् । ईहां कारितवती । ईहेर्ण्यन्तात् लुङि द्विवचनेऽचीति स्थानिवद्भावादजादेर्द्विती- यस्येति हिशब्दस्य द्विवचनम् । अभ्यासकार्यं च ॥ २३७ - ' एप प्रावृषि-जा॒ऽम्भो-दनादी भ्राता विरौति ते, ॥ ज्ञातेयं कुरु सौमित्रे ! भयात् त्रायस्व राघवम् ॥ ५४ ॥ एष इत्यादि - एष ते भ्राता रौति । '२४४३ । उतो वृद्धिः - । ७।३।८९ । १ इत्यौकारः । प्रावृपि जातः प्रावृषिजः । '३००७॥ सप्तम्यां जनेर्डः ।३।२।१७॥ —९७३। प्रावृट्-।६।३।१५।' इत्यादिना सप्तम्या अलुक् । स चाम्भोदश्चेति विशेष- णमिति सः । तद्न्नदतीति २९८९। कर्तर्युपमाने ।३।२।७९॥ इति णिनिः । तस्मात् सौमित्रे ! ज्ञातेयं ज्ञातिभावं तत्कर्म वा कुरु । १७९२ । कपि- ज्ञात्योर्ढक् ।५।३।१२७॥' तेन भयान्त्रायस्व राघवम् ॥ २३८ - 'राम-संघुषितं नैतन्, मृगस्यैव विवञ्चिषोः ॥ राम-स्वनित सङ्काशः स्वान', इत्येवदत् स ताम्. ५५ रामेत्यादि — रामसंधुषितं रामशब्दितमेतन्न भवति । १८५९ । घुषिरॅविशब्दार्थ: ।' तस्य निष्ठायां '३०६९। रुप्यमत्वर - ।७।२।२८।' इत्यादिना विकल्पेनेट् । मृगस्य विवञ्चिषोः छलयितुमिच्छोः । १९८ । वञ्जु गतौ ।' भौवादिकः । तस्यानेकार्थत्वात् । प्रलम्भन इति चौरादिकस्याण्यन्तस्य वा प्रयोगः । येषामनित्यण्यन्ताश्वराय इति दर्शनं तेषां मतेनात्रापि सिध्यति । एष स्वानो ध्वानः । '३२३९ । स्तन-हसोर्वा ।३।३।६२ ।' इति पक्षे घन् । कीदृशः । रामस्वनितसङ्काशः रामशब्दानुकारीति । तां सीतां एवमवदत् उक्तवान् । स लक्ष्मणः ॥ तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः२३९ - 'आप्यान- स्कन्ध-कण्ठांडर्स रुषितं सहितुं रणे ॥ प्रोर्णुवन्तं दिशो बाणैः १०३ काकुत्स्थं भीरु ! कः क्षमः ॥ ५६ ॥ आप्येत्यादि – १०३३ । प्यै- वृहौ ।' अस्मादाङ्पूर्वात् '३०१७ । संयो गादेरातो वातोर्यण्वतः ।८।२।४३ ।' इति निष्टातो नः । ओ प्यायी वृद्धावित्यस्य वा रूपम् । ८३०१९। ओदितश्च ।८।२।४५॥ इति निष्ठानत्वम् । पीभावस्तु आडू- पूर्वस्य त्वन्धूसोरिति वचनात् इह न भवति आप्यानस्कन्ध इति । आप्यानं स्थूलं स्कन्धकण्ठांसं यस्य काकुत्स्थस्य । बाहुशिखरसंसः तस्य पश्चिमो भागः स्कन्धः तं । रुपितं क्रुद्धम् । रणे संग्रामे सहितुं हे भीरु कातरे ! कः क्षमः शक्तः ॥ अपि तु न कोऽपीत्यर्थः । क्षमेः शक्नोत्यर्थत्वात् तदुपपढ़े '३१७७ । शक-धृष- ।३।४।६५।' इत्यादिना तुमुन् । '२३४० । तीष - सह - ।७।२।४८ ।' इत्यादिना वेद्र । फकुत्स्थस्यापत्यं काकुत्स्थः । '१११५॥ शिवादिभ्योऽण् ॥४।१॥११२ । कस्मान्न क्षम इत्याह ~~-प्रोर्णुवन्तं दिशो बाणैः । यतः सर्वाः दिशः बाणैः छादयन्तम् । ऊर्णोतेः शतरि उवङ् । क्षमत इति क्षमः । पचाद्यच् ॥ २४० - देहं विभ्रक्षुर॑ ऽग्नौ मृगः प्राणैर् दिदेविषन् ॥ ज्या घुष्ट- कठिना॒ऽङ्गुष्ठं राममायान् मुमूर्पया ॥५७॥ देहमित्यादि – एष मृगो राममायात् आगतवान् । यातेर्लंङि रूपम् । किमर्थं देहं शरीरं अस्त्रानो अस्त्रे अनाविव । विभ्रक्षुः भ्रष्टुमिच्छुः । भ्रस्जेः '२६१८। सनीवन्तर्ध–।७।२।४९।' इत्यत्रेडभावपक्षे '३८०/ स्को: संयोगाद्यो:- ।८॥२॥२९॥' इत्यनेन सलोपे षत्वकुत्वयोश्च रूपम् । प्राणैर्दिदेविषन् क्रीडितुमि- च्छन् । '५६२ । दिवः कर्म च ॥१॥४॥४३॥ इति चकारात् करणसंज्ञा । '२६१८। सनीवन्त –।७।२।४९।' इतीपक्षे रूपम् । ज्यया गुणेन घुष्टौ निघृष्टौ अत एव कठिनौ अङ्गुष्ठौ सव्यापसव्यकर्षणाद्यस्य । '३५६३ । घुषिरविशब्दने ।७।२।२३। इति निष्ठायामनिट् । मुमूर्षया मर्तुमिच्छया । मृङ: साने '२४९४ । उदोष्ठ्य- पूर्वस्य ।७।१।१०२ ।' इत्युत्वम् । '३२७९ । अ प्रत्ययात् ।३।३।१०२।' ॥ २४१ - शत्रून् भीषयमाणं तं रामं विस्मापयेत कः ॥ , मा स्म भैषीस्, त्वया ऽद्यैव कृताऽर्थो द्रक्ष्यते पतिः' शत्रू नित्यादि – तं रामं शत्रून् भीषयमाणं भीतान् कुर्वाणम् । '२५९५॥ मियो हेतुभये पुक् ।७।३।४॥ २५९४। भी स्म्योर्हेतुये ।१।३।६८ ।' इति तङ् । विस्मापयेत कः क्षुभितचित्तं कः कुर्यात् । नैवेत्यर्थः । '२५९६ । नित्यं स्मयतेः ।६।१।५७ ।' इति णावात्वम् । '२५७०। अर्तिही-।७।३।३६।' इत्यादिना पुक् । निमन्त्रणे नियोगे वा लिङ् । पूर्ववदात्मनेपदम् । तस्मान्मा स्म भैषीः मा भूर्भी१०४ भट्टि- काव्ये प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पयमो वर्गः, ता '२२२०। स्मोत्तरे लङ् च ।३।३।१७६।' इति चकारात्लुङ् । सिचि वृद्धिः । त्वया अद्यैव कृतार्थ: पूर्णमनोरथः पतिक्ष्यते । शेः कर्मणि लृट् ॥ २४२ - 'यायास् त्वमिति कामो मे, गन्तुर्मुत्सहसे न च ॥ इच्छुः कामयितुं त्वं माम्', इत्यसौ जगदे तया. ५९ याया इत्यादि – तदन्वेषणाय यायास्त्वमिति कामोऽभिलापः । २८१०। कामप्रवेदनेsकञ्चिति ।३।३।१५३ । इत्यकञ्चित्युपपदे लिङ् । न च गन्तुमुल्स- हसे । '३१७७। शक-धृप - १३ । ४॥७५ । इति तुमुन् । तस्मान्नूनं मां कामयितु मिच्छुः एषणशीलः। '३१७६। समानकर्तृकेषु तुमुन् ।३।३।१५८।' । '३१४९। विन्दुरिच्छुः ।३।२।१६९ ।' इति निपातनात्साधुः । इत्येवमसौ लक्ष्मणो जगदे गदितस्तया सीतया ॥ २४३ मृषा॒द्यं प्रवदन्तीं तां सत्य-वद्यो रघूत्तमः ॥ निरगात् 'शत्रु-हस्तं त्वं यास्यस 'ति शपन् वशी ॥६०॥ मृषोद्यमित्यादि-मां कामयितुमिच्छुरित्येतन्मृषोद्यम् मृषावादम्। '२८- ६५। राजसूय - ।३।१।११४।' इत्यादिना भावे क्यप् । यजादित्वात् सम्प्रसारणम् । प्रवदन्तीं तां सीताम् । रघूत्तमो लक्ष्मणः । शपन् शत्रुहस्तं त्वं यास्यसीति शापं प्रयच्छन् । भौत्रादिकोऽन्न शपिर्न दैवादिकः । निरगात् निर्गतः । तस्मादुटजादि- त्यर्थात् । कथं मृषोद्यमित्याह –वशी वशनं वशः इन्द्रियसंयमनम् । 'वशिर- ण्यो रुपसंख्यानम्' इत्यप् । स यस्यास्ति स वशी जितेन्द्रियः । अत एव सत्यवधः अवितथवादी । शत्रुहस्तं यास्यसीति सत्यं वदतीति '२८४१॥ कृत्य-ल्युटो बहु- लम् ।३।३।११३।' इति कर्तरि यत् । '२८५४ । वदः सुपि क्यप् च ।३।३।१०६ । ' इति चकाराद्यत् । भावे वा यतं विधायाच् अर्शआदित्वात् ॥ कैलापकम् ( ४ ) २४४ गते तस्मिन्, जल-शुचिः शुद्ध-दन् रावणः शिखी ॥ जञ्जपूको ऽक्ष माला-वान् धारयो मृदुलाबुनः ॥ ६१ ॥ गत इत्यादि — तस्मिन् लक्ष्मणे गते सति रावणः सीतामूच इति वक्ष्यमा णेन सम्बन्धः । कीदृशः । जलशुचिः स्नात इत्यर्थः । शुद्धदन् निर्मलदशन: शुद्धा दन्ता यस्य । '८८३ । अग्रान्त ।५।४।१४५।' इत्यादिना दन्तस्य ददादेशः । शिखा १- (१४८) लोकोक्तं टीकनं प्रेक्ष्यम् । तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः अस्यास्तीति शिखी परिव्राजकः । बाह्लादित्वादिनिः । जंजपूकः पापाशयत्वात् गर्हितं जपतीति । '२६३५॥ लुप-सद - ।३॥२४।' इति यङ् । '२६३८। जप-जभ -१७१४।८६।' इत्यभ्यासस्य नुक् । '३१४६। यज- जप-दशां यङः । ३।२।१६६॥ इत्यूकः । अक्षमालावान् अक्षसूत्रयुक्तः । संसर्गे मतुप् । धारयतीति धारयः । ' २९०० । अनुपसर्गात् - । ३॥।१३८ ।' इति शः । कस्य मृदलावुनः । 'नजि लम्बे- र्नलोपश्च' इत्यौणादिक ऊकारे प्रत्यये अलाबूः । तस्य विकारः फलमिति १५१९॥ ओरञ् ।४।३।१३९।' । तस्य फले लुक् । नपुंसकहस्त्रत्वम् । मृत्पूर्णमलाबु इति मध्यमपदलोपी सः । कृत्प्रयोगे कर्मणि । '३२० । इकोऽचि विभक्तौ ॥७॥१॥ ७३।' इति नुम् ॥ २४५ - कमण्डलु कपालेन शिरसा च मृजा-वता ॥ संवत्र्य लाक्षिके वस्त्रे मात्राः संभाण्ड्य दण्ड-वान् ६२ कमेत्यादि – कमण्डलुना कपालेन च '९१०१ जातिप्राणिनाम् ।२॥४॥६॥ इति द्वन्द्वैकवद्भावः । मृजावता निर्मलेन शिरसा च उपलक्षितः । इत्थम्भूते तृतीया । संवरूय परिधाय । 'वस्त्रात्समाच्छादने' इति '२६७७ । मुण्डमिश्र - -।३।१।२१।' इत्यादिना णिच् । लाक्षिके वस्त्रे । लाक्षया रक्ते । '१२०३। लाक्षा- रोचनात्- ।४।२।२।' इत्यादिना ठकू । मात्रा: कमण्डल्वादिकं सम्भाण्ड्य समा- चित्य राशीकृत्येत्यर्थः । 'भाण्डात् समाचयने' इति '२६७६ । पुच्छ-भाण्ड - 1३। १।२०।' इत्यादिना णिङ् । दण्डवान् गृहीतत्रिदण्डः । संसर्गे मतुप् ॥ २४६ - अधीयन्नात्म-विद् विद्यां धारयन् मस्करि-व्रतम् ॥ वदन् बङ्गुलि स्फोटं भ्रू-क्षेपं च विलोकयन् ॥ ६३॥ अधीत्यादि — मा कुरुत कर्माणि शान्तिर्वः श्रेयसीत्येवं घोषयन्ति ये ते मस्करिणः परिव्राजकाः । तेषां व्रतमकृच्छ्रमसौ धारयन् । १०६८ मस्कर-म- स्करिणौ—।६।१।१५४।' इति परिव्राजके सुद । आत्मविदां योगिनाम् । विद्यामु- पनिषदमधीयन् जपन् '३११० । इङ्-धार्योः । ३।२।१३०।' इतीङो धारेश्च अकृ- च्छ्रवति कर्तरि शतृप्रत्ययः । अन्तरा बहु प्रभूतं वदन् । अङ्गुलिस्फोटं पुनः पुनः स्फोटिकान्दवा भ्रूक्षेपं च विलोकयन् भ्रुवावुत्क्षिप्योत्क्षिप्य विलोकयन् । उभ- यत्रापि '३३७६। स्वाङ्गेऽध्रुवे ।३।४।५४ । इति णमुल ॥ २४७ – संदिदर्शयिषुः साम निजुहूषुः क्षपाट ताम् ॥ चंक्रमा -वान् समागत्य सीतार्मूचे - 'सुखाभव.' ॥ ६४ ॥ संदीत्यादि — इह भयं मा भूदिति साम सान्त्वं संदिदर्शयिषुः संदर्शयि तुमिच्छु: । वदन् बढङ्गुलिस्फोटमिति योज्यम् । दृशेर्ण्यन्तसन्नन्तत्वे रूपम् । पा राक्षसत्वं निजुहूपुर्निहोतुमिच्छुः । धारयन्मस्करिव्रतमिति योज्यम् ॥ होतेः '२६१४ । अज्झनगमां सनि ।६।४।१६।' इति दीर्घः । कुटिलं क्रमणं चंक्रमा । १०६ भट्टि काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण हो पन्चमो वर्गः, २६४३ नुगत क्रमेः '२६३४ । नित्यं कौटिल्ये गतौ ।३॥२३।' इति य -।७।४।८५।' इत्यभ्यासस्य नुक् । '३२७९ । अः प्रत्ययात् ।३।२।१०२।' इत्याकारः । '२३०८। अतो लोपः ।६।४।४८।' । '२६३१॥ यस्य हलः ।६।४।४९॥' टाप् । सा यस्यास्ति चंक्रमावान् । कुटिलगतिमानित्यर्थः । समागत्य ढौकित्वा । सीतामूचे । किमित्याह - सुखाभवेति अनुकूला भवेत्यर्थः । यदहं प्रार्थये तत्र प्रतिकूला न भवेति भावः । '२१३४। सुखप्रियादानुलोम्ये ।५।४।६३ ।' इति कृम्वस्तियोगे डाधू ॥ युग्मम्२४८ - सायं तनीं तिथि-प्रण्यः पङ्कजानां दिवा-तनीम् ॥ कान्ति कान्त्या सदा-तन्या हेपयन्ती शुचि-स्मिता. सायमित्यादि का त्वमिति वक्ष्यमाणेन संबन्धः । सायं दिनावसानं तत्र भवां कान्तिम् । यदा घोऽन्तकर्मणीत्येतस्मात् घञ्प्रत्ययान्तः तदा '१३९१॥ सायंचिरं~।४।३।२१।' इति ट्युट्युलौ नुट् च मकारान्तत्वं च निपात्यते । यदा सायंशब्दो मकारान्तः तदाप्यव्ययत्वादेव प्रत्ययागमौ स्याताम् । कस्येत्यपेक्षायां तिथिप्रण्यः चन्द्रमसः पञ्चदश कलाः तासां वृद्धिहासाभ्यां पञ्चदश तिथीः प्रणयति प्रवर्तयति । '२९७५ । सत्सू - द्विप - १३/२/६१॥' इति विप् । '२२८७ । उप- सर्गादसमासे - 1८।४।१४ ।' इति णत्वम् । ८२७२ । एरनेकाच:-।६।४।८२॥ इति यणादेशः । पङ्कजानां च क्रान्ति कीदृशीम् । दिवातनीं दिवाभवाम् । कान्त्या त्वदी- यया सदातन्या सदाभवया हेपयन्ती लजयन्ती । दिवातन्याः सायन्तन्याच सदाभवत्वात् । जितेः '२५७० । अर्ति । ७।२।३६ । इत्यादिना णौ पु । शुचि- स्मिता शुभ्रहासा ॥ २४९ का त्वमेकाकिनी भीरु ! निरन्वय-जने वने, ॥ क्षुध्यन्तो ऽप्यंघसन् व्यालास् त्वार्म-पालां कथं न वा. का त्वमित्यादि- का त्वं देवी मानुषी राक्षसी वेति । एकाकिनी असहाया । १९९८ । एकादाकिनिञ्चासहाये ।५।३।५२।' इति आकिनिच् । भीरु इत्यामन्त्रणं भयप्रकृतित्वात् स्त्रीणाम् । निरन्वया निरनुगमा जना यस्मिन्वने यत्र न कथंचिन्मनुष्याणां सम्भवः । क्षुध्यन्तोऽपि बुभुक्षमाणा अपि । दिवादित्वात् श्यन् । व्याला हिंसा व्याघ्रादयः कथं वा त्वां नाघसन् न भक्षितवन्तः । अदे: '२४२७ । लुङ्सनोस्ट ।२।४।३७॥ द्वित्वात् चलेरङ् । क्षुध्यन्तो नावसन्निति पाठान्तरम् । तत्र कथं न वा अपरिचितानेवाघसन् इति योज्यम् । अपालां सतीं अविद्यमानः पालो यस्या इति । '१७२६ । पाल रक्षणे' इति चौरादिकः । पालयतीति पालः । पचाद्यच् । यदा प्रयोजकविवक्षा तदा पातेलुगागमो णौ वक्तव्य इति लुक् । ततः पचाद्यच् ॥ तथा लक्ष्य - रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः२५० - हृदयं - गम-मूर्तिस् त्वं सुभगं भावुकं वनम् ॥ कुर्वाणा भीमम॑प्यैतद् वदा॑ ऽभ्यैः केन हेतुना ॥६७ ॥ हृदयमित्यादि – केन हेतुना इदं वनमभ्यैः अभिगतासि वद कथय । अभिपूर्वादिणो लङ् । मध्यमपुरुषैकवचनम् । ८२२५४ । आडजादीनाम् ॥६॥४॥७२॥ '२६९। आटश्च ।६।१।९० ।' इति वृद्धिः । हृदयं गच्छति या मूर्तिः शरीरमत्यन्तसौन्दर्यात् । '२९६४ । गमत्र । ३ । २।४७ ।' इति खच् । सा एवंविधा सूर्तिर्यस्याः सा त्वं भीममप्येतद्वनं सुभगम्भावुकं सर्वस्यैवाप्रियं प्रियं कुर्वाणा । असुभगं भूत्वा सुभगं भवतीति '२९७४ । कर्तरि भुवः । ३।२।५७ ।' इति खुकञ् ॥ २५१ - सुकृतं प्रिय-कारी त्वं कं हरस्यु॑पतिष्ठसे, }} पुण्य-कृच् चाटु-कारस् ते किङ्करः सुरतेषु कः ॥ ६८॥ सुकृतमित्यादि – सुकृतं पुण्यकारिणं शोभनं कृतवानिति ८ २९९९ / सुक- र्म-पाप-।३।११८८।' इत्यादिना किप् । कं रहसि विजने त्वमुपतिष्ठसे उपश्लि- प्यसि । संगतकरणे तङ् । प्रियकारी अनुकूलवर्तिनी सती । प्रियमनुकूलं करो- तीति ' २९६१ । क्षेम-प्रिय-मद्वेऽण् च ।३।२।४४।' इति अण् '४७० । टिड्ढाणज् - ४॥ १।१५।' इत्यादिना ङीप् । पुण्यकृत् कृतपुण्यः । तस्य पूर्ववत् किप् । चाटुकारः प्रियवाक्यकरः । '२९३७ । न शब्दश्लोक - ।३।२।२३।' इत्यादिना टे प्रतिषिद्धे- Sणेव भवति । ईशस्ते किङ्करः दासः । '२९३५ । दिवा- विभा - ।३।२।२१॥ इति ट: । किंयत्तद्वहुपु कृञोऽज्विधानमिति तत्स्त्रीविषये द्रष्टव्यम् । सुरतेषु शोभन- रतेपु । '३०९० । नपुंसके भावे क्तः ।३।३।११४।' । '२४२८ । अनुदात्तो- ६॥४॥ ३७।' इत्यादिनानुनासिकलोपः । अनेनोभयरुचिराख्याता ॥ १०७ २५२ - परि पर्युदधे रूपमा॑ द्यु-लोकाच् च दुर्लभम् ॥ भावकं दृष्टवत्स्वे॑तद॑स्मास्व॑धि सु जीवितम् ॥ ६९ ॥ परीत्यादि – एतद्रूपं भावकं भवत्या इदमिति '१३१९॥ भवतष्ठक्छसौ ।४।२।११४।' इति ठक्छसौ । 'ठक्छसोचोपसंख्यानम्' इति पुंवद्भावः । १२२१॥ इसुसुक्तान्तात्कः ।७।३।५१॥ दुर्लभं परिपर्युदधेः १५९६ । अपपरी वर्जने । ।१।४।८८ । इति कर्मप्रवचनीय संज्ञायां द्वितीयायां प्राप्तायां '५९८ पञ्चम्यपापरिभिः ।२।२।१०।' इति पञ्चमी । '६६६ । अप-परि बहिरञ्चवः पञ्चम्या ।२।१।१२।' इति विभाषासमासश्च । असमासपक्षे '२१४१ । पर्व ।८॥ इति द्विर्षचनम् । उदधिं वर्जयित्वा चतुरुदधिमेखलायां भुवि दुर्लभमायुलोकाञ्च स्वर्गलोकान्तं च यावत् दुर्लभम् । अत्रापि पूर्ववत्पञ्चमी । तादृशं दृष्टवत्स्वस्मासु अधि सुजीवितमस्मद्विषये आधिक्येन सुजीवितम् । अहो वा सुजीवितमिति अहोशब्दार्थे अधिशब्दो वर्तते ॥ १०८ भट्ट- काव्ये -- प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पचनो वर्गः, २५३ - आपीत- मधुका भृङ्गैः सुदिवैर्वाऽरविन्दिनी ॥ सत्-परिमल - लक्ष्मीका नो ऽ- पुंस्काऽसीति मे मतिः. आपीतेत्यादि – परि सर्वतो मार्जनमिति परिमलः । कलत्रपक्षैत्यधिकृत्य मृजेष्टिलोपश्चेति कलप्रत्यय औणादिकः । इह सुरतोपभोगविमर्दः परिमलोऽभि- प्रेतः । तस्य लक्ष्मीः तत्कृतत्वात् । सती विद्यमाना परिमलशोभा यस्याः । ८८९ उरःप्रभृतिभ्यः कप् । ५।४।१५१॥ सा स्वमपुंस्का अविद्यमानभर्तृका नासीति मे मतिः । पूर्ववस्कप् । किमिव सुदिवेवारविन्दिनी पद्मिनी । शोभनं दिवा नीहा- राद्यभावाद्दिवा दिवसं यस्याः । १८६० । सुप्रात ।५।४।१२०।' इत्यादिना अच् । आपीतमधुका भृङ्गैः आपीतं मधु यस्याः । १८९१ । शेषाद्विभाषा ।५/४/१५४ इति कप् । यथेयं सत्परिमललक्ष्मीका तथा त्वमपीति ॥ २५४ - मिथ्यैव श्रीः श्रियं मन्या, श्रीमन् मन्यो मृषा हरिः ॥ साक्षात्कृत्या॑ऽभिमन्येऽहं त्वां हरन्तीं श्रियं श्रियः ७१ मिथ्यैवेत्यादि - श्रियः श्रियं रूपसम्पदं हरन्तीममिभवन्तीं त्वां साक्षा- स्कृत्य प्रत्यक्षीकृत्य । विभाषा कृजीत्यनुवर्तमाने '७७५१ साक्षात्प्रभृतीनि च 131- ४।७४।' इति गतिसंज्ञा । गतिसमासे ल्यबादेशः । अहमभिमन्ये किं मिथ्या श्रीः श्रियंमन्या अहमेव श्रीर्नान्येति मन्यमाना श्रीर्मिथ्या नैव श्रीः किन्तु त्वमेवेति । ८२९९३ । आत्ममाने खश । ३।२।८३ ।' । '२५०५ । दिवादिभ्यः श्यन् । ३।१।६९ । ' । '२९९४ । इच एकाचोऽम्प्रत्ययवच्च । ६।३।६८।' इत्यम्भावः । तस्यामः प्रत्ययस्वा- 'न्मलोपाभावः । १९० । न विभक्तौ तुस्माः ।१।३।४।' इति वचनात् । अचीतीय- ङादेशः । क्विबन्ता धातुत्वं न जहतीति क्विब्वचीत्यादिना श्रयतेरौणादिकः विप् । हरिश्चात्मानं श्रीमन्तं मन्यमानो मृपा न श्रीमानित्यहमभिमन्ये ॥ २५५ - नौदकण्ठिप्यता॑ ऽत्यर्थं, त्वामैक्षिष्यत चेत् स्मरः ॥ खेलायन्ननिशं ना॑पि सजूः कृत्य रतिं वसेत् ॥७२॥ " नोदेत्यादि—– स्मरभार्या रतिः सापि रूपेण निकृष्टेति दर्शयति । चेत् यदि स्मरः त्वामैक्षिय्यत दृष्टवानभविष्यत् तदा अत्यर्थं नोदकण्ठिप्यत रतिं प्रति भृशमुत्कण्ठितो नाभविष्यत् । '६५२ । ईक्ष दर्शने' इति, '२७३ । कठि शोके' इति भौवादिकात् क्रियातिपत्तौ ऌङ् । नापि रर्ति स्वभार्या सजूः कृत्य सहायीकृत्य वसेत्, अपि तु परित्यजेत् । अत्र क्रियातिपत्तिर्न विवक्षिता किन्तु हेतुहेतुमझावः । नापि रतिं सजूःकृत्य वसेत् यदि त्वामीक्षेतेति हेतुपदमभ्यूह्य हेतुमद्भावदर्शनात् । ऊर्यादिषु 'सजूः सहार्थः' इति वचनात् गतिसंज्ञा । खेलायन् अनिशं क्रीड़न सर्वदा । खेलाशब्दात् कण्ड्वादित्वात् यक् ॥ तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- १०९ २५६ - वल्गूयन्तीं विलोक्य त्वां स्त्री न मन्तूयतीह का, ॥ कान्ति नोऽभिमनायेत को वा स्थाणु-समो ऽपि ते ॥ ७३ ॥ वल्ग्वित्यादि - त्वां वल्गूयन्तीं शोभमानां विलोक्य न मन्त्यति स्त्रीह का । इह जगति का स्त्री न मन्त्येत् कुप्येत् । सर्वदा कुप्यत्येव ईर्ष्यायुक्तत्वात् स्त्रीणाम् । असम्भावने लिङ् । वल्गु-मन्तुशब्दाभ्यां कण्ड्डादित्वाद्यक् । को वा को नाम स्थाणुसमोऽपि काष्ठतुल्योऽपि गुणदोषानभिज्ञत्वात्ते तव कान्ति विलोक्य नाभिमनायेत पूर्वमदृष्टत्वादनभिमनाः सन् अभिमनाः सचेता न भवेत् । पूर्ववल्लिङ् । अभिमनसो भृशादित्वात्क्यङ् सलोपश्च । महादेवतुल्यो वा आस्तामन्यः सोऽपि तावदभिमनायेत् ॥ 5 ▬▬▬▬ २५७ - दुःखायते जनः सर्वः, स एवैकः सुखायते ॥ यस्यौत्सुकायमाना त्वं न प्रतीपायसेऽन्तिके ॥ ७४ ॥ दुःखेत्यादि – स एवैको जनः सुखायते सुखं वेदयते । यस्यान्तिके समीपे न त्वं प्रतीपायसे न प्रतिकूलवर्तिनी भवसि । उत्सुकायमाना सती । यस्य पुनरन्तिके उत्सुकायमाना प्रतीपायसे स सर्वो जनः दुःखायते दुःखं वेदयते । सुख-दुःखशव्दाभ्यां '२६७४ । सुखादिभ्यः कर्तृवेदनायाम् ।३।१।१८।' इति क्यङ् । उत्सुक प्रतीपशब्दाभ्यां भृशादित्वात् ॥ २५८ - कः पण्डितायमानस् त्वा- मा॑दाया॑ऽऽमिष - सन्निभाम् ॥ त्रस्यन् वैरायमाणेभ्यः शून्यमन्ववसद् वनम्.' ॥ ७५ ॥ क इत्यादि - पण्डितायमानः अपण्डितः कथमपि पण्डितो भवन् । भृशा- दित्वात् क्यङ् । त्वामामिषसन्निभां सर्वजनप्रार्थनीयत्वात् । आदाय गृहीत्वा क्रः शून्यं वनमन्ववसत् । शून्ये वने अवसदित्यर्थः । '५४४ । उपान्वध्याङ्वसः ।१।४।४८॥ इति कर्मसंज्ञा । कीदृशः । त्रस्यन् बिभ्यत् । वैरायमाणेभ्यः वैरं कुर्वाणेभ्यः । '२६७३। शब्द - वैर ।३।१।१७।' इत्यादिना क्यङ् । ८५८८। भीत्रा- र्थानाम्- ।१।४॥२५।' इत्यपादानसंज्ञा ॥ २५९ - ओजायमाना तस्यां ऽर्ध्य प्रणीय जनकाऽऽत्मजा ॥ उवाच दश मूर्धानं॑ सा॒ाऽऽदरा गद्गदं वचः ॥ ७६ ॥ ओजेत्यादि – एवमुक्तवति रावणे जनकसुता दशमूर्धानमुवाच । दश मूर्धान: शिरांसि यस्य तस्यार्ध्य प्रणीय दुत्वा अतिथिरयमिति । सम्प्रदानस्य YT- F ११० भट्ट- काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे पचमो वर्गः, शेषत्वेन विवक्षितत्वात् पष्ठी । ओजायमाना ओज इकाचरन्ती '२६६५५१ कर्तुः क्य सलोपश्च ।३।१।११।' 'ओजसोऽप्सरसो नित्यम्' इति वचनात् : मां माभिभूदित्यतितेजस्विनी भवन्तीत्यर्थः । किमुवाच वचो वक्ष्यमाणम् । सादरा सती । परिव्राजक इति । गद्गदमनभिव्यक्तमसंस्कृतत्वात् ॥ कलापकम् ( ४ ) - २६० - महा - कुलीन ऐक्ष्वाके वंशे दाशरथिर् मम ॥ पितुः प्रियं-करो भर्ता क्षेमं कारस् तपस्विनाम् ॥७७ महेत्यादि –– यदुनं तेन कं रहस्युपतिष्ठस इति अस्य प्रतिवचनं मम भर्ता महाकुलीनः महाकुलस्यापत्यमिति । '११६४ । महाकुलादञ्- खजौ ।४।११४१॥ इति खन् । किमादित्यवंशसंभवः, किं सोमवंशसंभवो वा महाकुलस्यापत्य- मित्याह । ऐक्ष्वाके वंशे इक्ष्वाकूणामयमैक्ष्वाकः ।११४५ । दाण्डिनायन-१६।४।- १७४।' इत्यादिना टिलोपनिपातनम् । अन्ये तत्र सन्तीत्याह । दाशरथिः दशरथ- स्थापत्यं यः स मम भर्ता । महाकुलीनः । कीदृशः । पितुः प्रियंकरः अनुकूल- कारी । तपस्विनां च क्षेमंकारः । १२९६१ । क्षेमप्रियमद्वेऽण् च ।३॥२।४। इति चकारात् खच् ॥ २६१ - निहन्ता वैर काराणां सतां वहु-करः सदा ॥ पारश्वधिक रामस्य शक्तेरन्त-करो रणे ॥ ७८ ॥ निहन्तेत्यादि — वैरकाराणां शत्रूणाम् । वैरपूर्वात् कुञ: '२९३७ । न शब्द- लोक-।३।२।२३।' इत्यादिना टे प्रतिषिद्धे अणेव भवति । निहन्तेति तृजन्तस्य प्रयोगः । तत्र कर्मणि षष्टी । सतां धर्मे स्थितानां बहुकरः बहुकार्यं करोतीति । ८२९३५ । दिवा- विभा । ३।२।२१।' इति ठः । स्त्रीविवक्षायां तु 'किं यत्तद्रहुपु - ' इति करोतेरच् । आङ्परयो ः 'खनिगृभ्यां हिच्च' इत्यौणादिकः कुः परशुशब्दः । तत्पर्याय एवाव्युत्पन्नः परश्वधशब्दः । स प्रहरणं यस्य '१६०८ । परश्वधाटूच्च ।४।४।५८ । तस्य परशुरामस्य सम्बन्धिन्याः शक्तेः सामर्थ्यस्यान्तकरो विनाश- यिता । अन्तं करोतीति पूर्ववः । रणे संग्रामे तत्र भवः ॥ २६२–अध्वरेष्विष्टिनां पाता पूर्ती कर्मसु सर्वदा ॥ पितुर् नियोगाद् राज-त्वं हित्वा योऽभ्यागमद् वनम् ॥ अध्वरेष्वित्यादि–इष्टमेभिरिति इष्टिनो यज्वानः । १८८८ । इष्टादिभ्यश्च १५/२१८८।' इतीनिः । किमिष्टवतः । अध्वरान् कर्माणि तत्र 'कस्येन्विषयस्य - ' इति कर्मणि सप्तमी । अध्वरेविष्टिनामिति कर्मणि षष्ठी कृधोगे। पाता रक्षि ता । पूर्वी कर्मसु सर्वदा । पृणोतेर्निष्ठायां '२४९४ । उदोश्यपूर्वस्य ।७।१। १०२।' इत्युत्वम् । '३०४० । न ध्याख्या ।८।२।५७१' इत्यादिना निष्ठानत्वप्रखिषेधः । पूर्तमनेनेति पूर्ववदितिः । किं पूर्तमिति सर्वदा श्राद्धादिकर्मणि । पूर्ववतमीस राजवं राज्यम् । हिव्वा त्यक्त्वा । वनमभ्यागमत् । अभितथा लक्ष्य-रूपे कथान के राम-प्रवासो नाम पञ्चमः सर्गः-- १११ मुख्येन आगतवान् । लुङ् । चलेरङि रूपम् । पितुर्नियोगात् । नायोग्यत्वात् । स मे भर्तेति योज्यम् ॥ २६३ - पतत्रि क्रोष्टु - जुष्टानि रक्षांसि भय- दे वने ॥ यस्य बाण निकृत्तानि श्रेणी-भूतानि शेरते ॥ ८० ॥ * पतत्रीत्यादि – यस्य बाणैर्निकृत्तानि छिन्नानि रक्षांसि भयदे वने दीर्घनि- गया शेरते स मम भर्तेति योज्यम् । शेरत इति '२४४२॥ शीडो रुट् १७१११६।' कीदृशानि । अश्रेणयः श्रेणयो भूतानि । '७६२। ऊर्यादिचिवडाचश्च ।३।४॥६॥ इति ध्यन्तानां '७६१ । कुगतिप्रादयः ।२।२।१८।' इति सः । '२१२० । च्वौ च ।७।४।२६।' इति दीर्घः । च्व्यर्थानां तु '७३८। श्रेण्यादयः कृतादिभिः ।२।१। ५९३' इत्ययं चिपयः । पतत्रिभिः क्रोष्टुभिश्च जुष्टानि परिवृतानि ॥ २६४ - दीव्यमानं शितान् वाणान॑स्य॒मानं महा-गदाः ॥ निघ्नानं शात्रवान् रामं कथं त्वं नोऽवगच्छसि ॥ ८१ ॥ दीव्येत्यादि — शितांस्तीक्ष्णान् बाणान् । दीव्यमानं क्षेप्तुं शक्तं तच्छीलं वा । अनेकार्थत्वाद्धातूनां दिवेः '३१०९ । ताच्छील्य- वयोवचन- ।३।२।१२९१ ।' इत्या- दिना शानच् । '२०५ । दिवादिभ्यः इयन् ।३।१।६९। महागदाः अस्यमानं क्षेप्तुं शक्तं तच्छीलं वा । पूर्ववच्छानच् । शान्रवान् शत्रून् । प्रज्ञादित्वादण् । निम्नानं हन्तुं शकं तच्छीलं वा । पूर्ववत् प्रत्ययः । हन्ते '२६६३। गमहन- ।६।४।१८।' इत्युपधालोपः । '३५८। हो हन्तेः ।७।३।१४।' इति कुध्वम् । एवं- विधं रामं कथं नावगच्छसि । तेन कर्मणा सर्वलोकविदितत्वादिति भावः ॥ २६५ - भ्रातरि न्यस्य यातो मां मृगाविन् मृगयाम॑सौ, ॥ एषितुं प्रेषितो यातो मया तस्या॑ ऽनु- जो वनम् ॥८२ ॥ भ्रातरीत्यादि – यद्येवं क्वासावित्याह । असौ रामो मां भ्रातरि न्यस्य अर्प- यित्वा मृगयामाखेटकं यातः । मृगेः स्वार्थिको णिच् । अन्तत्वाच्च गुणो न भवति । तदन्तात् '३२७७। कृञः श च ।३।३।१००।' इत्यधिकृत्य 'परिचर्या-परि- सर्या-मृगयाटाट्यानामुपसंख्यानम्' इति भावे शप्रत्ययः । यक् । अल्लोपाभा- वश्च । टापू । मृगान्विध्यतीति मृगावित् । क्वासौ, भ्रातेति चेदाह । तस्यानुजः कनिष्ठो मया प्रेषितः सन् यातो वनम् । अनु पश्चाज्जायत इति । '३०११॥ अन्येष्वपि दृश्यते ।३।२।१०१ ।' इति डः । अनौ कर्मयुक्तमकर्मण्यपि भवति । किमर्थं । एषितुम् । तमेव ज्ञातुम् । '१२०२ । इर्षं गतौ' इत्यस्य रूपम् । ज्ञाना- र्थत्वात् । प्रेषित इति तस्यैव रूपम् ॥ २६६ - अर्था ssयस्यन् कषायाऽक्षः स्यन्न स्वेद - कल्वणः ॥ भट्टि काव्ये - प्रथमे प्रकीर्ण-काण्डे लक्षण रूपे पञ्चमो वर्गः, संदर्शितता॒ऽऽन्तरा॒कूतस् ताम॑वादीद् दशाननः ॥ ८३ ॥ । अधेत्यादि – अथैवमुक्तो जानक्या दशाननस्तामवादीत् उक्तवान् । आय- स्यन् क्रोधाविष्टत्वात् शरीरं खेदयन् । '२२८७ । यसुँ प्रयत्ने' इति देवादिकः पर- स्मैपदी । क्रोधादेव कषायाक्षः । १८५२ । बहुव्रीहौ सक्थ्यक्ष्णोः– ।५।४।१३। इति षच् । स्यनैः सृतैः स्वेदकणैरुल्वणः उद्भटः व्याप्त इत्यर्थः । स्सन्देर्निष्टायां रूपम् । संदर्शितमान्तरमन्तर्गतमाकूतमभिप्रायो येन स एवंविधः ॥ २६७ - 'कृते कानिष्ठिनेयस्य ज्यैष्ठिनेयं विवासितम् ॥ ११२ को नग्न मुषित प्रख्यं बहु मन्येत राघवम् ॥ ८४ ॥ कृत इत्यादि – कनिष्ठाया अपत्यं ज्येष्ठाया अपत्यमिति ११२३ । स्त्रीभ्यो ढक् ।४।१।१२०।' । '११३१॥ कल्याण्यादीनामिनङ् ।४।१।१२६।' तयोः कल्या- ण्यादिषु पठितत्वात् । कनिष्ठासुतस्य भरतस्य कृते निमित्ते । ज्येष्टायाः सुतः निरु- पयोगितया विवासितः विसर्जितः । विपूर्वस्य वसतेर्हेतुमण्ण्यन्तस्य निष्ठायां रूपम् । तं नम्नमुपितप्रख्यं यथा कश्चिन्मुषितो नमो भवति तद्वद् भूतम् । '७२६। पूर्वकाल – ।२।१॥४९॥ इति सः । तयोः पूर्वापरकालत्वात् । राजदन्तादि- त्वात्परनिपातः । ईदृशं राघवं को बहु मन्येत लाघेत । नैवेत्यर्थः ॥ २६८ - राक्षसान् बटु-यज्ञेषु पिण्डी-शूरान् निरस्तवान् ॥ ॥ यद्यसौ कूप- माण्डूकि ! तवैतावति कः स्मयः ॥ ८५ ॥ यद्यसौ राक्षसान् - 1 राक्षसानित्यादि — अध्वरेष्विष्टिनामि त्यस्योत्तरमाह पिण्डीशूरान् पिण्ड्यामेव शूरानू भोजने एव शूरान् । '७२५३ पात्रेसमिताद- यश्च ।२।१॥४८।' इति सः । बटुयज्ञेषु कुब्राह्मणयज्ञेषु । निरस्तवान् तिरस्कृतवान् । हे कूपमाण्डूकि कूपे माण्डूकीव । पूर्ववत् सः । '११२२ । ढक् च मण्डू- कात् ॥४।१॥१९॥ इति चकारादण् वापत्ये । एतावति स्वल्पे वस्तुनि तव कः स्मयः । नैव युज्यते ॥ मत्पराक्रमे तु युक्तः तत्रापि मम न युक्तं वक्तुमित्याह- २६९ मत् पराक्रम-संक्षिप्त राज्य-भोग-परिच्छदः ॥ युक्तं ममैव किं वक्तुं दरिद्राति यथा हरिः ॥ ८६ ॥ मत्परेत्यादि – राज्यभोगादयः परिच्छदो हस्त्यश्वादिः स मत्पराक्रमे संक्षिप्तो ऽपहृतो यस्य हरेरिन्द्रस्य स यथा दरिद्वाति निरर्थको भवति तन्ममैव किं वक्तुं युक्तमात्मगुणवादस्य लज्जाकरत्वात् । दरिद्वातेरादादिकत्वाच्छपो लुक् ॥ २७० - निर्- लङ्को वि-मदः स्वामी धनानां हृत पुष्पकः ॥ तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः - ११३ अध्यास्ते ऽन्तर्-गिरं यस्मात्, कस् तन् न ज्वैति कारणम् ॥ ८७ ॥ निर्लङ्क इत्यादि – यस्मात्कारणात् धनानां स्वामी धनदः । अन्तर्गिरम- ध्यास्ते अध्यासितवान् । गिरेः कैलासस्यान्तर्मध्ये । विभक्त्यर्थेऽव्ययीभावः । '६८३ । गिरेश्च सेनकस्य ।५।४।११२।' इति टच् । '५४२ । अधि-शीङ्-स्थाऽऽसा- म्—।१।४।४६।' इति कर्मसंज्ञा । तेन '६५८ । तृतीयासप्तम्योर्बहुलम् ।२।४।४। इत्यम्भावो न भवति । १६५७ । नाव्ययीभावात् । २।४।८३।' इत्यमेव भवति । तत्कारणं मम पराक्रमं मां वा को नावैति न जानाति । कीदृशः । निर्लङ्कः लङ्का- तो निष्क्रान्तः । 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति सः । ८६५५ । एकविभक्ति च–।१।२।४४।' इत्युपसर्जनसंज्ञायां स्वत्वम् । हृतपुष्पकः हृतं आच्छिन्नं पुष्प- काख्यं विमानं यस्य । अत एव विमदोऽपेतदर्पः । लङ्का पुष्पकं च धनदस्यासीत् तदाच्छित्वा अनेन गृहीतमिति ॥ २७१ - भिन्न नौक इव ध्यायन् मत्- तो बिभ्यद् यमः स्वयम् ॥ कृष्णि-मानं दधानेन मुखेना॑ ऽऽस्ते निरु॒द्यतिः ॥ ८८ ॥ भिन्नेत्यादि – स्वयं साक्षान्मत्तो विभ्यत् त्रस्यन् यमो वैलक्षण्यात् सुखेन कृष्णिमानं कृष्णवर्णत्वम् । '१७८७ । वर्णदृढादिभ्यः व्यञ्च । ५।१।१२३ ।' इति चका- रादिमानचू । दुधानेन धारयता । इत्थम्भूते तृतीया । निरुद्यतिः निरुद्यमः आस्ते । उत्पूर्वाद्यमेः '३२७२ । स्त्रियां क्तिन् ।३।३।९४ । अनुनासिकलोपः । कीदृशः । ध्यायन् चिन्तयन् । 'किं मामापतितं यदहमनेन हृतसर्वस्वः' इति । भिन्ननौक इव विपन्न पोतवाणगिव । '८८९। उरःप्रभृतिभ्यः ।५।४।१५१ ॥ एवं स्वपौरुपं प्रदर्थ स्वीकर्तुमाह - २७२ – समुद्रोपत्यका हैमी पर्वताऽधित्यका पुरी ॥ रत्न - पारायणं नाम्ना लङ्केति मम मैथिलि ! ॥ ८९ ॥ समुद्रेत्यादि - हे मैथिलि ! लङ्केति नाम्ना मम पुरी । कीदृशी । समुद्र एवोपत्यका आसन्ना भूर्यस्याः सा समुद्रोपत्यका । समुद्रस्य पर्वतोपत्यकात्वात् । समुद्रौपत्यकेति समासे साधुत्वं न भवति । यतः संज्ञाधिकारात् पर्वतस्यासचे अधिरूढे उपाधिभ्यां त्यकन्प्रत्ययान्तयोरुपत्यकाधित्यकाशब्दयोः साधुत्वमुक्तम् । प्रतिषेधे त्यकन उपसंख्यानम्' इति '४६३ । प्रत्ययस्थात् -।७।३।४४।' इतीकारो न भवति । हैमी हेमविकारा । ११५३२। प्राणिरजतादिभ्योऽञ् ।४।३।१५४।' पर्वताधित्यका । त्रिकूटपर्वतस्योपरि स्थिता । रखपारायणं यत्र रत्नानां पारमवसानमयन्ते बुध्यन्ते तत्परीक्षकाः । सर्वरत्वस्थानमित्यर्थः ॥ ११४ भट्टि- काव्ये – प्रथमे प्रकीर्ण-काण्डे लक्षण-रूपे वर्गः, दुर्गावस्थित्यानभिभवनीयतां रखोपचयात्समृद्धतां कथयन् प्रलोभयति२७३ - आवासे सिक्त-संमृष्टे गन्धैस् त्वं लिप्त-वासिता !। अर्पितोरु-सुगन्धि-स्रक् तस्यां वस मया सह ॥ ९० ॥ आवास इत्यादि-तस्वां पुर्या आवासे गृहे । आवसत्यस्मिन्निति अधिक- रणे घञ् । मया सह त्वं वस । प्रार्थनायाँ लोट् । सिक्तसंमृष्टे पूर्व सिक्के पश्चा- संमृष्टे । गन्धैर्लिप्तवासिता सती पूर्व लिप्ता चन्दनादिभिर्गन्धैः पश्चाद्वासिता धूपिता । संभृष्टादिभिः '७२६ । पूर्वकाल - १२।१।४९॥ इत्यादिना सः । अर्पिता न्यस्ता उर्वी महनी सुगन्धित्र सुरभिमाला यस्यां सा त्वम् ॥ किमिति त्वया सह वसामीति चेदाह २७४ - संगच्छ पौंस्त्रि ! स्त्रैणं मां युवानं तरुणी शुभे ! ॥ राघव: प्रोप्य - पापीयान्, जहीहि तर्म किं-चनम्. ९१ संगच्छेत्यादि-हे पौंस्त्रि ! पुमांसमर्हति तद्धिता वा । अर्हार्थे हितार्थे चा '१०७९॥ स्त्री-पुंसाभ्यां नज्-स्त्रजौ-1५/११८७१' स्त्रीप्रत्यये 'नञ्-स्त्रञीकक्- ख्युंस्तरुण-तलुनानामुपसंख्यानम्' इति । मां युवानं तरुणं संगच्छ अङ्गीकुरु । गमे: प्रार्थनायां लोट् । '२४००। इषु गमि-।७।३१७७ ।' इत्यादिना छत्वम् । '२६९९। समो गम्वृच्छि-।१।३।२९।' इत्यादिना तङ् न भवति सकर्मकत्वात् । विशेषतः स्त्रैणं स्त्रियै हितमर्हन्तं वा । पूर्ववव्यत्ययः । तरुणी युवती सती शुभे कल्याणि शोभत इति इगुपधलक्षणः कः । ममापि तादृशो भर्तास्तीति चेदाह- राघवः प्रोष्यपापीयानिति । पापशब्दात् '२०२० । विन्मतोर्लुक् । ५।३॥६५।' इति ईयसुन् लुक्क मतुपः । प्रोष्यपापीयानिति ८७५४ । मयूरव्यंसकादयश्च ।२।११७२ इति सः । देशान्तरं यात्वा पापवत्तरः । तमकिञ्चनं दरिद्वम् । न विद्यते किंचन यस्येति । 'सर्वनामाव्ययसंज्ञाया उपसर्जनप्रतिषेधः' इति वचनान्नाव्ययसंज्ञा । तेन न विभक्तिलोपः । जहीहि त्यज । ईत्वस्य '२४९८। जहातेश्च । ६।४।११६ । ' इति वा वचनाद्विकल्पः ॥ २७५ - अनीत- पिबतीयन्ती प्रसिता स्मर-कर्मणि ॥ वशे-कृत्य दश - ग्रीवं मोदस्व वर मन्दिरे ॥ ९२ ॥ · अनीतेत्यादि-अनीतपिबतेति '७५४ । मयूरव्यंसक - ।२।१।७२१' इत्यादित्वात् सः । तत्र हि 'आख्यातमाख्यातेन क्रियासातत्ये' इति पठ्यते । सततमश्रीत पिबतेत्येवं भृत्यजनानादेष्टुमिच्छतीति '२६५७ । सुप आत्मनः क्यच् ।३।१।८।' अनीतपिबतीयन्ती । प्रसिता स्मरकर्मणि आधिक्येन प्रवृत्ता कामव्यापारे । '६४१॥ प्रसितोत्सुकाभ्यां तृतीया च ।२।३।४४।' इति चकारात् सप्तमी । वशेकृत्यानुवर्तिनं दशग्रीवं कृत्वा । '७७५ । साक्षात्प्रभृतीनि च ।१।४।७४ । इति गतिसंज्ञा । मोदस्व हर्ष जनय । वरमन्दिरे श्रेष्ठगृहे स्थिता ॥ तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः११५ २७६ मा स्म भूर् ग्राहिणी भीरु ! गन्तुमु॑त्साहिनी भव ॥ उद्भासिनी च भूत्वा मे वक्षःसंमर्दिनी भव' ॥ ९३॥ मा स्पेत्यादि - हे भीरु ! मा स्म भूर्ग्राहिणी प्रतिकूला मा भूः । न यास्या- मीत्यसमर्थ गृह्णामीति कृत्वा । '२२२० । स्योत्तरे लडू च ।३।३।१७६।' इति चकारात् लुङ् । गन्तुमुत्साहिनी उयुक्ता भव । '३१७७ । शक-प-।३।४।६५। इत्यादिना तुमुन् । उत्साहिनीति सहोपपदत्वात् । ततश्चालंकृतशरीरत्वादुङ्गा- सिनी शोभमाना भूत्वा नो ऽस्माकं वक्षःसंमर्दिनी स्तनाभ्यामुरःस्थलस्य पीडिका भव । ग्रहोत्साहोद्भाससँमर्दानां ग्रहादिपु पठितत्वात् कर्तरि णिनिः । '३०६॥ ऋन्नेभ्यो डीप् ॥४।१५॥ २७७- तां प्रातिकूलिकीं मत्वा जिहीपुर भीम-विग्रहः ॥ वाहूपपीडमाश्लिष्य जगाहे द्यां निशा चरः ॥ ९४ ॥ तामित्यादि —— यदैवमभिधीयमाना न प्रतिपन्ना तदा तां प्रातिकूलिकों प्रतिकूलवर्तिनी मत्वा ज्ञात्वा । 'ओजःसहोम्भसा वर्तते' इत्यधिकृत्य प्रतिकूलं वर्तत इत्यस्मिन्नर्थे ' १५७८ । तत्प्रत्यनुपूर्व । ४।४।२८।' इत्यादिना ठक् । जिहीर्षुः हर्तुमिच्छुः । भीमविग्रह: भीषणशरीरः । दृष्टराक्षसशरीररूपः । सुखेन ह्रियत इति बाहूपपीडमालिप्य बाहुभिरुपपीड्य । '२३७० । सप्तम्यां चोपपीड- ।३॥४।४।१९॥ इति चकारात् तृतीयान्त उपपदे णमुल । जगाहे रथेनोत्पत्य द्यामा- काशं निशाचरी गाहते स्म । दिवशब्दसमानार्थी द्योशब्द औणादिकः । 'गमेडर्डोः ' इत्यत्र तेश्चेति वचनात् । '२८५४ औतोऽम्शसोः ।६।१।१३।' इत्याश्वम् । कालापिनस्तु दिवशव्दादेव व्युत्पादयितुं सूत्रमधीयते वाम्येति । दिवः अमि विकल्पेनाकारा देश इति ॥ २७८ - त्रस्यन्तीं तां समादाय यतो रात्रं- चराऽऽलयम् ॥ तूष्णीं भूय भयादासांचक्रिरे मृगपक्षिणः ॥९५ ॥ त्रस्यन्तीमित्यादि – त्रस्यन्त च तां तद्रूपदर्शनात् समादाय गृहीत्वा यतो गच्छतो रावणात् । याते: शतरि पञ्चम्या रूपम् । किं यातो रात्रिचरालयं लङ्काम् । रात्रौ चरतीति '२९३० । चरेष्टः । ३।२।१६॥१००८ रात्रेः कृति विभाषा ।६।३॥७२।' इति मुम् । तस्माद्रावणाद्यद्भयं ततो भयात् तूष्णीम्भूय । '३३८५॥ तूष्णीमि भुवः ।३।४।६३॥ इति '७८५ । क्त्वा च ।२।२।२२।' इति समासे ल्यबादेशः । आसांचक्रिरे आसिताः । '२३२४ । दयायासश्च ।३/१/- ३७ ।' इत्याम् । मृगपक्षिणः मृगाश्च पक्षिणश्च । समानजातीयानामिति वचना- देकवद्भावोऽत्र न भवति ॥ २७९- उच्चै रारस्यमानां तां कृपणां राम-लक्ष्मणौ ॥ जटायुः प्राप पक्षीन्द्रः परुषं रावणं वदन् । ९६ ॥ ॥ इति प्रकीर्ण-काण्डः प्रथमः समाप्तः ॥ ११८ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे पवमो वर्गः, २८५ - न विभाय, न जिहाय, न चक्लाम, न विव्यथे ॥ आम्नानो विध्यमानो वारणान् निववृते न च ॥ १०२३॥ नेत्यादि-आनानः पक्षी ग्रहरन् । '२६९५ । आङो यमहनः ॥३।२०। इति तङ् । न विभाय न भीतः । तस्मान्न जिह्वाय न लज्जितः । सभ्यङ् मया न हत इति न चक्काम न क्लान्तः । न विव्यथे । '२३५३ । व्यथो लिटि १७॥४॥ ६८।' इति सम्प्रसारणम् । जितश्रमत्वात् । विध्यमानो वा । वाशब्दश्चार्थे । परेण हन्यमानश्च न विव्यथे न पीडां भेजे । सत्याधिकत्वात् । रणाच्च न निव- वृते न निवृत्तः । अभग्नोत्साहत्वात् ॥ २८६ - पिशाच-मुख- धौरेयं स च्छत्र-कवचं रथम् ॥ युधि कद् रथ-वद् भीमं वभञ्ज ध्वज-शालिनम् १०३ पिशाचेत्यादि - युधि संग्रामे पक्षी रथं बभञ्ज भनवान् । तस्य पुष्पका- दन्यत्वात् । तथा हि कद्र्थवत् कुत्सितरथमिव । '१०२८। रथ वयोश्च ।६।३। १०२ । ' इति कदादेशः । धुरं वहन्ति धौरेया अश्वाः । १६२८ । धरो यड्ढको ।४।४।७७।' । पिशाचस्येत्र सुखं येषां ते धोरेया यत्र रथे तं पिशाचमुखधौरेयम् । सच्छोभनं छत्रं कवचं च यस्मिन् । तं भीमं भयानकं तथा धुर्यत्वात् । ध्वज- शालिनं ध्वजवन्तम् । शालिन्शब्दः किन्प्रत्ययान्तस्तद्वन्तमाह । अन्यस्त्वाह ध्वजेन शालितुं श्लाघयितुं शीलमस्येति णिनिः । अनेकार्थत्वादातूनामिति ॥ एते प्रकीर्णकाः ॥ अतः परं आमधिकारः । इतः प्रभृत्याममधिकृत्याह, २८७ - संत्रासयांचकारोऽरिं, सुरान् पिप्राय पश्यतः ॥ स त्याजयांचकारोऽरि सीतां विंशति-बाहुना ॥ १०४॥ सन्त्रासयामित्यादि – अथैतस्मिन् युद्धप्रस्तावे स पक्षी सीतां विंशतिबाहुना रावणेन त्याजयांचकार त्याजितवान् । गत्यादिषु त्यजेरसंग्रहात् तृतीयैव भवति । कस्मात्याजितवानित्याह । सन्त्रासयांचकारारिं यस्मादरिं रावणं त्रासितवान् । अकर्मकत्वात् त्रासेर्ण्यन्तावस्थायामरेः कर्मस्वम् । आभ्यां हेतुमण्ण्यन्ताभ्याम् '२३०६ । कास्प्रत्ययात् - ३।१।३५।' इत्यादिना आम्। आमोsमित्वमदन्तत्वात् । '२२३८ । आमः ।२।४॥८१ ।' इति लुक् । '२३११॥ अयामन्त- ६।४।५५।' इत्यादिना अयादेशः । आमकारान्तस्य कृत्संज्ञायां प्रातिपदिकत्वे प्रथमैकवचनम् । तस्य ४५२ । अव्ययात् ।२।१४।८२॥ इति लुक् । स्वरादिषु 'अम् भाम्' इति पठितत्वादव्ययत्वम् । आमन्तस्यानमिव्यक्ऋपदार्थत्वात् '२२३९। कृञ्चानुप्रयुज्यते ।३।१।४० ।' इत्यादिना लिट्परस्य कृञो ऽनुप्रयोगः । कर्त्रतथा लक्ष्य रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः११९ भिप्रायाभावाभावेऽनुप्रयोगे तङ् न भवति । सुरांच पश्यतो युद्धं जटायुः पिप्राय प्रीणितवान् । शत्रुत्रासनं सीतात्याजनं च देवानां प्रीतेः कारणम् ॥ २८८ - अ - सीतो रावणः कासांचकें शस्त्रैर् निराकुलः ॥ भूयस् तं भेदिकांचक्रे नख - तुण्डाऽऽयुधः खं गः. १०५ असीत इत्यादि - असीतः परित्यक्तसीतो रावणः आकाशस्थः कासांचक्रे कुत्सितमभिहितवान् । एह्येहीति विहगाधिपेति । '६६६ । का शब्दकुत्लायाम् इत्यनुदात्तेत् । '२३८६ । कास्- ।३।१।३५।' इत्यादिना आम् । शस्त्रैः । इत्थ- म्भूते तृतीया । निराकुलः पूर्वं बाहुभिः सीताग्रहणे व्याकुलत्वात् । भूयः पुन- रपि । खगः पक्षी । डप्रकरणे ' ३०११ । अन्येष्वपि दृश्यते ।३।२।१०१॥ इति वचनात् गमेड: । तं निशाचरं बेभिदांचक्रे अत्यर्थ भिन्नवान् । वेभिद्यतेर्यङ- न्तादाम् । नख-तुण्डान्येवायुधानि यस्य ॥ २८९ - हन्तुं क्रोध वशादीहांचऋाते तो परस्परम् ॥ " नवा पलायांचक्रे विरं दयांचक्रे न राक्षसः ॥ १०६ ॥ हन्तुमित्यादि -- तौ पक्षि- रावणौ क्रोधवशात् क्रोधाधीनतया परस्परम- न्योन्यं हन्तुमीहांचक्राते चेष्टां कृतवन्तौ । '२२३७ । इजादेः -- ।३॥।३६।' इत्या- दिना आम् । विः पक्षी । जनि-वसिभ्यामित्यधिकृत्य 'वेजो डिच्च' इत्यौणादिक इक् । न वा नैव । वाशब्द एवार्थे । पलायांचक्रे पलायितः । '२३२६ । उपसर्ग- स्वायतौ ।८।२।१९। इति लत्वम् । राक्षसश्च न दयांचक्रे न दयतेस्म । पक्षिणं खल्वहं कथं व्यापादयामीति । उभयत्रापि '२३२४ । दयायासश्च । ।३।१।३७।' इत्याम् ॥ २९० - उपासांचक्रिरे द्रष्टुं देव- गन्धर्व - किन्नराः ॥ छलेन पक्षौ लोलूयांचत्रे क्रव्यात् पतत्रिणः ॥ १०७ ॥ उपेत्यादि – देवगन्धर्वकिन्नरा द्रष्टुं युद्धं द्रक्ष्याम इति उपासांचक्रिरे उपगताः । पूर्ववदाम् । ऋव्याद् रावणः । ऋव्यं मांसमत्तीति ऋव्यात् । '२९७७॥ अदोन ।३।२।६८॥ इति विट् । पतत्रिणः पक्षिणः पक्षौ लोलूयांचत्रे अत्यर्थ लूनवान् । यङ्प्रत्ययान्तत्वादाम् । छलेन मायया प्रसह्य जेतुं न शक्यत इति । भल्लेनेति पाठान्तरम् ॥ १ – '१२२५॥ शराऽर्क विहगाः खगाः ॥ २- '५३३ । पतत्रि-पत्रि-पतग-पतत्-पत्ररथाsण्डजाः । नगौको-वाजि - विकिर - वि- विकिर-पतत्रयः ॥' ३ - '६७। राक्षसः कौणपः ऋव्यात् कन्यादोऽनप आशरः ॥ इति सर्वत्र ना० अ० । ११६ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे पथगो वर्गः, उच्चैरित्यादि — तां सीतां जटायुः पक्षीन्द्रः । रावणं परुपं निष्ठुरं वदन् प्राप प्राप्तवान् । कीदृशीम् । उच्चै रारस्यमानाम् । 'हा राम, हा लक्ष्म 'इत शब्द उच्चैर्महता ध्वनिना पुनः पुना रसन्तीमित्यर्थः । रसे: शब्दकर्मक- त्वात् क्रियासमभिहारे यङ् । कृपणां दीनाम् ॥ । ॥ इति प्रकीर्ण-काण्डम् ॥ ॥ अतः परमधिकार काण्डम् ॥ तत्र प्रथमं टाधिकारःइतः परमधिकारकाण्डमुच्यते । यत्र प्राधान्येनैकैकमधिकृत्य लक्षणं प्रदर्शितं तदधिकारकाण्डम् । शेपलक्षणेपु प्रकीर्णकमेव दृष्टव्यम् । एवं च कृत्वा अन्तरान्तरा तत्सूचनार्थ प्रकीर्णकश्लोकाभिधानम् । अन्न च काण्डे निर्दिष्टसंज्ञकाचत्वारः परिच्छेदाः । तत्र प्रथमे आद्यं प्रत्ययमधिकृत्योच्यते । सर्वार्थस्य विव क्षितस्यापरिसमाप्तत्वात् तमेवाभिसन्धायाह २८० - 'द्विषन् ! वने- चरायाणां त्वर्मादाय-चरो वने ॥ अग्रेसरो जघन्यानां मा भूः पूर्व-सरो मम ॥ ९७॥ द्विपन्नित्यादि — एवं कृत्वा मिश्रक उच्यते द्वयोरप्यत्र प्राधान्येन विव- क्षितत्वात् । परुपं वदन् । कीदृशम् । हे द्विषन् ! मा भूः पूर्वसरो ममेति । ममाग्रतो भूत्वा मा गा इत्यर्थः । पूर्व सरतीति २९३३ । पूर्वे कर्तरि ।३।२।१९॥ इति टः । यतस्त्वमग्रेसरो जघन्यानाम् । अग्रेसरतीति '२९३२ । पुरोऽग्रत:- १३।२।१८।' इत्यादिना : । जवन्य इति '२०५८ । शाखादिभ्यो यः ।५।३।१०३ । ' इतीवार्थे यः । पापानां प्रथमस्त्वम् । कुतः आदायचरो वने । आदाय चरतीति '२९३१ । भिक्षा-सेना । ३।२।१७।' इत्यादिना । वने चरन्तीति वनेचराः । अधि- करणे चरेष्टः । तेषामग्र्याः प्रधाना ऋषयः । तानादाय चरसि भक्षयसि । कर्मणि षष्ठी ॥ २८१ - यशस् - कर - समाचारं ख्यातं भुवि दया करम् ॥ पितुर्वाक्य-करं रामं धिक् त्वां दुन्वन्तर्म-त्रपम् ॥ ९८ ॥ यशस्करेत्यादि — रामं दुन्वन्तमुपतापयन्तमत्रपं निर्लज्जं धिक् त्वाम् । गर्हा । '१३३६। टुहुँ उपतापे' इत्यस्य भौवादिकस्य शतरि '२३८७ । हु-ध्रुवो:- -सार्वधातुके ॥६।४।८७ ।' इति यणादेशे रूपम् । कीदृशं रामम् । यशस्करसमा चारम् । समाचरणं समाचार: चरितं भावे घञ् । यशस्करोतीति यशस्करः । '२९३४ । कृञो हेतु । ३।२।२०।' इत्यादिना टः । ११३८ विसर्जनीयस्य सः ।८।३।३४।' यशस्करणहेतुभूतः समाचारो यस्य । ख्यातं भुवि प्रसिद्धं दयाकरं करुणाकरणशीलम् । ताच्छील्ये ट: । पितुर्वाक्यकरं पितुर्वचनानुष्ठाने अनुकूलम् । आनुलोम्ये टः ॥ तथा लक्ष्य-रूपे कथानके राम-प्रवासो नाम पञ्चमः सर्गः- ११७ २८२ - अहम॑न्त करो नूनं ध्वान्तस्यैव दिवा-करः ॥ ( तव राक्षस ! रामस्य नेयः कर्म-करोपमः ॥ ९९ ॥ अहमित्यादि — हे राक्षस ! अहं तव नूनमवश्यमन्तकरः विनाशयिता । कीदृशः । रामस्य नेयो वश्यः । २८४२। अचो यत् ।३।१।९७१' कर्मकरोपमः भृतकतुल्यः । '२९३६। कर्मणिभृतौ । ३।२।२२।' इति: । ध्वान्तस्येव दिवा- करः । यथान्धकारस्यान्तकरो दिवाकरः सूर्यः तथा । अन्तकरदिवाकरौ '२९३५ - दिवा- विभा –।३।२।२१।' इति टप्रत्ययान्तौ । एवमुक्त्वा खं पपातेति सम्बन्धः ॥ २८३ - सताम॑रुप्-करं पक्षी वैर-कारं नरा॒ऽशिनम् ॥ हन्तुं कलह-कारोऽसौ शब्द-कारः पपात खम् ॥१००। सतामित्यादि — एवमुक्त्वा असो जटायु: पक्षी खमाकाशं पपात पतितः । किमर्थं नराशिनं राक्षसं हन्तुं हनिष्यामीति । कीदृशं राक्षसम् । सतामरुष्करं धर्मे स्थितानां पीडाकरम् । अरुःशब्दः पीडोपलक्षणपर: । '२९३५ । दिवा-वि- भा - ३।२।२१।' इति टः । वैरकारं वैरकरणशीलम् । कलहकारः पक्षी कलहयि- तुमनुकूलः । अनयो: ' २९३७ । न शब्द- श्लोक - ।३।२।२३॥ इति टे प्रतिषिद्धे- Sणेव भवति । कर्मण्यणः प्राप्तिरस्तीति टाधिकार उदाहृतः । कियत्वं पपात । यावति दूरे शब्दपातस्तावत्खमिति ॥ ॥ टाधिकारः समाप्तः ॥ अतः परं प्रकीर्णकाः । इतः प्रकीर्णकश्लोकानाह २८४ - धुन्वन् सर्व-पथीनं खे वितानं पक्षयोरसौ ॥ मांस - शोणित - संदर्श तुण्ड-घातम॑युध्यत ॥ १०१ ॥ धुन्वन्नित्यादि-असौ पक्षी अयुध्यत युध्यते स्म । युधैर्देवादिकस्य लङि रूपम् । तुण्डवातमिति क्रियाविशेषणम् । तुण्डेन चळवा घातो हननं यस्मिन् युद्ध इति । '३४५८ । करणे हनः । ३ । ४ । ३७' इति न णमुल ' ३३६७ । कषादिपु यथाविध्यनुप्रयोगः ।३।४।४६॥ इति वचनात् अहिंसार्थव्वाच्च तदारम्भस्य यथा पादघातं भूमिं हन्तीति । '३३६८ । हिंसार्थानां च समानकर्मकाणाम् ।३।४/४८८' इत्यनेनापि न भवति समानकर्मकताभावात् । अकर्मकत्वायुधेः । तेन भावे घञ् । धुन्वन् कम्पयन् खे आकाशे पक्षयोर्वितानम् । सर्वपथीनं सर्वः पन्था इति '७२७ । पूर्वकाल ।२।१॥४९॥ इत्यादिना सः । '९४० । ऋक् - पू:-५॥४॥७२॥ इति समासान्तोऽकारः । सर्वपथान् व्यामोतीति '१८०८ । तत्सर्वादेः५॥२॥७॥' इत्यादिना खः । मांसशोणितसन्दर्श कार्येन मांसं शोणितं च दृष्ट्वा । '३३५०। कर्मणि दृशि-विदोः साकल्ये । ३।४।२९॥ इति णमुल् । '७८३ । अमैवाम्ययेन ।२।२।२०।' इति सः ॥ १२० भट्टि काव्ये — द्वितीयेऽधिकार-काण्डे लक्षण-रूपे षष्टो वर्गः, २९१ - प्रलुठितम॑वनौ विलोक्य कृत्तं दश वदनः ख-चरोत्तमं प्रहृष्यन् ॥ रथ - वरम॑धिरुह्य भीम-धुर्य स्व पुरम॑गात् परिगृह्य राम-कान्ताम् ॥१०८॥ प्रलुठितमित्यादि- - खचराः पक्षिणः । खे चरन्तीति अधिकरणे '२९३० । चरेष्टः ।३।२।१६।' तेषामुत्तमं जटायुं कृत्तं छिन्नं लूनपक्षत्वात् । अवनौ भुवि प्रलुठितं विलोक्य ग्रहृप्यन् हर्षं प्राप्नुवन् विवृत्तो विघ्नकारीति दशाननो रथवरं स्मरणात् प्राप्तं पुष्पकाख्यमारुह्य भीमथुर्य रामकान्तां सीतां तथैव परिगृह्य खपुरमगात् गतवान् ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये - द्वितीयेsधिकार-काण्डे लक्षण-रूपे पञ्चमः परिच्छेदः (वर्गः ) तथा लक्ष्य रूपे कथानके सीता हरणः श्री-राम-प्रवासो नाम पञ्चमः सर्गः पर्यवसितः ॥ ५ ॥ षष्ठः सर्गः- अत्राधिकारस्यापरिसमाप्तत्वात्तमेवाममधिकृत्याह- २९२ - ओषांचकार कामऽग्निर् दश वक्रम॑हर् - निशम् ॥ विदांचकार वैदेहीं रामादन्य- निरुत्सुकाम् ॥ १ ॥ ओपांचकारेत्यादि – अथशब्दो वक्ष्यमाणतृतीय होके यः सोऽत्र दृष्टव्यः । अथ तस्मिन् सीतापरिग्रहे जाते कामाग्निः कामोऽझिरिव दशवक्रं दशाननमो- पांचकार ददाह । '७४६ । उपँ दाहे' । '२३४१॥ उष- विद - ।३।१।३८।' इत्याम् । अहर्निशं अहश्च निशा च । 'सर्वो द्वन्द्वो विभाषैकवद्भवति' इत्येकवद्भावात् । ८५५८। कालाध्वनोरत्यन्तसंयोगे ।२।३।५।' इति द्वितीया । अह्नो नकारस्य १७२ । रो सुपि ।८।२१६९१ । इति रत्वम् । कस्माद्द्दाह इत्याह । रावणो वैदेहीमन्य निरुत्सुकां रामादन्यस्मिन् सर्वत्र निरभिलाषां विदांचकार अगुणत्वं विदेस्तथेति विदेरकारान्तनिपातनात् गुणाभावः ॥ १९३ - प्रजागरांचकारारेरौहास्व॑निशर्मादरात् ॥ ." प्रविभयांचकारो ऽसौ काकुत्स्थादभिशङ्कितः ॥ २ ॥ प्रजागरांचकारेत्यादि- अरे रामस्य ईहासु चेष्टासु । '३२८०। गुरोश्च।३।३।१०३।' इत्यकारः । आदरादादरेण प्रजागरांचकार जागरितवान् । शत्रुचि१ - ( १८२ ) लोकस्थं टीकनं प्रेक्ष्यम् । तथा लक्ष्य-रूपे कथानके सुग्रीचाऽभिषेको नाम पष्ठः सर्गः- १२१ कीर्षितज्ञानपरो बभूवेत्यर्थः । पूर्ववदाम् । अनिशम् अविच्छेदेन । ( अनिशमिति निशाक्रियाविच्छेदो नास्ति यस्मिन् प्रजागरण इति । निशेति क्रियाविच्छेदोपल- क्षणम् । प्रायेण हि निशायां क्रियाणामप्रवर्तनम् । ) किमिति जागरितवानित्याह । काकुत्स्थादसौ प्रबिभयांचकार प्रभीतवान् । '२४९१॥ भी ही ।३।१।३९ ।' इत्यादिनाम् । ध्रुवत्कार्ये धातोर्गुणायादेशौ । अभिशङ्कितः किमयं करिष्यतीति ॥ २९४ - न जिइयांचकारा ऽथ सीताम॑भ्यर्थ्य तर्जितः ॥ नप्यूर्जी बिभरामास वैदेह्यां प्रसितो भृशम् ॥ ३॥ M न जिड़यांचकारेत्यादि- सीतामभ्यर्थ्य याचित्वा न जियांचकार न लज्जितः । तर्जितः भसितोऽपि तयैवेत्यर्थात् । नाप्यूर्जा बलं बिभरामास धारि- तवान् । '२२३९॥ कृञ्- । ३।१॥४०॥' इति प्रत्याहारग्रहणादस्तेरप्यनुप्रयोगः । हीधातोर्गुणायादेशौ । '११६२ । डुभृञ् धारणपोषणयोः' उभयत्रापि पूर्ववदाम् ध्रुवच्च । कथं न धारितवान् इत्याह । वैदेह्यां प्रसितः प्रसक्तः । भृशमत्यर्थम् ॥ २९५ - विदांकुर्वन्तु रामस्य वृत्तमित्येवदत् स्वकान, ॥ रक्षांसि रक्षितुं सीतामा॑शिषच् च प्रयत्नवान् ॥ ४॥ विदांकुर्वन्त्वित्यादि – स्वकानात्मीयान् शुक्रतारणादीन् अवददुतवान् । किमित्याह -- रामस्य वृत्तमनुष्ठितं किं तस्येहागन्तुमुद्यमोऽस्ति न वेति विदांकुर्व- न्तु । '२४६५ । विदांकुर्वन्त्वित्यन्यतरस्याम् ।३।१॥४१॥ इति निपातितम् । सीतां रक्षितुं रक्षांसि आशिषदादिष्टवान् । शास: '२३८२ । सर्ति ।३।१।५६।' इत्यङ् । '२४८६ । शास इदङ्हलोः ।६।४॥३४॥ इति शासेरुपधाया इत्वं '२४१०१ शा- सि-वसि - ।८।३।६०।' इति षत्वम् । प्रयत्नवान् प्रयत्नपरः । आमधिकारो गतः ॥ अथ प्रकीर्णका:अथ प्रकीर्णश्लोकानाह २९६ - रामोऽपि हत- मारीचो निवर्त्स्यन् खर-नादिनः ॥ क्रोष्टून् समशृणोत् क्रूरान् रसतो ऽशुभ-शंसिनः ॥५॥ राम इत्यादि - हतमारीचो रामोऽपि निवर्त्स्यन् प्रत्यागमिष्यन् । वलादि- लक्षण इटि प्राप्ते ' २३४८ । न वृद्भ्यः ।७।२।५९ ।' इतीनिषेधः । क्रोष्टून् शृगा- लान् । रसतः शब्दायमानान् । समशृणोत् संश्रुतवान् । सकर्मकत्वात् । २६- ९९। समो गम्यृच्छि—।१।३।२९।' इत्यात्मनेपदं न भवति । लङि रूपम् । क्रूरान् भीषणान् । यतः खरनादिनः खरवन्नदन्ति । '२९८९ । कर्तरि । ३।२।७९१ । इति णिनिः । अशुभशंसिनः अनिष्टसूचनशीलान् ॥ भ० का० ११ १२२ भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे अथमो वर्गः, २९७ - आशङ्कमानो वैदेहीं खादितां निहतां मृताम् ॥ स शत्रु प्रस्य सोदर्य दूराददा॑यान्तमैक्षत ॥ ६ ॥ आशङ्कमान इत्यादि- तथा विधाशुभश्रवणादाशङ्कमानो वितर्कयन् वैदेहीं किं खादितां निशाचरादिना । ततः निहतां त्यक्तप्राणाम् । आहो स्वयमेवायुःक्ष- यान्मृतां वा । स रामः शत्रुघ्नस्य सोदर्य भ्रातरम् । १६६० । सोदराद्यः ॥४॥४/- १०९।' आयान्तमागच्छन्तमारादैक्षत दृष्टवान् । ईङि रूपम् ॥ २९८ - सीतां सौमित्रिणा त्यक्तां सधीचीं त्रस्नुमैकिकाम् ॥ विज्ञाया॑ ऽम॑स्त काकुत्स्थ:- 'क्षये क्षेमं सु- दुर्लभम् ७ सीतामित्यादि — सौमित्रिरेकाकिनो दृष्टत्वान्नियतमनेन त्यक्तेति तां विज्ञाय ज्ञात्वा काकुत्स्थो रामः । क्षये गृहे । क्षीयतेऽस्मिन्निति अधिकरणेऽच् । क्षेमं कल्याणम् । सुटुर्लभं सुदुःखेन लभ्यत इति । '३३०५ । ईषद्- । ३।३॥२६। इत्यादिना खल । अमंस्त ज्ञातवान् । कथं क्षये क्षेमं सुदुर्लभमिति आह-सधीचीं सहचारिणीं न क्वचिदेकाकिनीं तिष्टन्तीम् । सहाञ्चतीति '३७३ । ऋत्विग् ।३। २॥ ५९॥ इत्यादिना किन् । '४२२ । सहस्य सधिः ।६।३।९५।' इत्यञ्चतौ वप्रत्यये सहस्य सध्यादेशः । 'अञ्चतेश्योपसंख्यानम्' इति ङीप् । '४१६ । अच: (६।४।- १३८।' इत्यकारलोपः । '४१७ । चौ ॥६॥३॥१३८।' इति दीर्घः । कुतः त्रस्तुं त्रसनशीलाम् । क्रियाशब्दत्वादू न भवति । एकिकां लक्ष्मणेन त्यक्तत्वात् । '१९९८। एकादाकिनिञ्चासहाये ।५।३॥१२॥ इति चकारात्कन् । '४६३ । प्रत्यय - स्थात् – ।७।३।१४।' इतीत्वम् ॥ ॥ एते प्रकीर्णकाः ॥ अतः परं दुहादि:इतो द्विकर्माधिकारः २९९-सोऽपृच्छल् लक्ष्मणं सीतां याचमानः शिवं सुरान् ॥ रामं यथास्थितं सर्वं भ्राता ब्रूते स्म विह्वलः ॥ ८ ॥ सोऽपृच्छदित्यादि – ८५३९। अकथितं च ।१।४।११।' इत्यत्र 'दुहिया- चीत्यादिश्लोकैस्थान् धातॄन् प्रयुके कविः । तन्त्र रामोऽपृच्छत् सीतामिति प्रधानं कर्म । लक्ष्मणमित्यकथितं कर्म । याचमानः प्रार्थयमानः । शिवं कल्याणम् । अर्थात् सीतायाः शिवं प्रधानं कर्म सुरान् देवान् इत्यकथितं कर्म । भ्राता लक्ष्मणः सर्वं यथावत् स्थितं ब्रूते स्म उक्तवान् । सर्वमिति प्रधानं कर्म राममित्यकथितम् ॥ १–'५९७ । समानोदर्य सोदर्य - सगर्थ्य - सहजाः समाः । इति ना० अ० २–१३५४ । निलयाऽपचयौ क्षयौ ।" इति ना० अ० । ३ ~ दुहू-याच्-पच्–दण्डू - रुधि- प्रच्छि-चि-चू-शासु - चि - मथु-भुषाम् । कर्म युक् स्याद -कथितं तथा स्यान् नी - हृ कृष चहाम् ॥ १ # - तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- ३०० - संदृश्य शरणं शून्यं भिक्षमाणो वनं प्रियाम् ॥ प्राणान् दुहन्निवा॑ ऽऽत्मानं शोकं चित्तम॑वारुधत्. ९ संदृश्येत्यादि — रामः शरणं गृहं शून्यं संदृश्य दृष्ट्वा । शोकं चित्तमवारु- धत् चित्तं शोकं प्रावेशयत् । कीदृशः । प्रियां जानकीं वनं भिक्षमाणः । प्राणान् दुहन्निव त्यजन्निव । प्राणानिति प्रधानं कर्म आत्मानमित्यकथितम् । आत्मनः प्राणान् त्यजन्निव ॥ । ३०१ - 'गता स्थाद॑वचिन्वाना कुसुमान्यश्रम-दुमान् ॥ आ यत्र तापसान् धर्म सुतीक्ष्णः शास्ति, तत्र सा. १० गतेत्यादि- - यत्र यस्मिंस्तपोवने सुतीक्ष्णो नाम ऋषि: धर्म शास्ति शिक्ष- यति । धर्ममिति प्रधानं कर्म तापसानित्यकथितम् । तत्र तपोवने गता स्यात् । सम्भावने लिङ् । आकारो निपातः स्मरणे । किं कुर्वती । कुसुमान्यवचिन्वाना । कुसुमानीति प्रधानं कर्म आश्रमद्रुमानित्यकथितम् । अवचिन्वानेति चिनोतेः कर्त्रभिप्राये तङ् । दुह्यादिदण्डको गतः ॥ इति दुहादिर्द्विकर्मकः । अतः परं प्रकीर्णकाः१२३ प्रकीर्णकानाह३०२ - आः, कष्टं, वत, ही चित्रं, हूं, मातर्, दैवतानि धिक्, हा पितः !, क्वो ऽसि हे सु-भ्रु !,' बह्रैवं विललाप सः, आः कष्टमित्यादि – शोकेनाक्रान्तमना विलपन्नाह - आः पीडायाम् । पितृवियोगपीडितः आः इत्याह । अस्मद्वियोगेन पिता प्राणांस्त्यक्तवानित्यभि प्रायः । कष्टमित्याह । कष्टं कृच्छ्रम् । भर्तृमरणादस्मद्वियोगाच्च मातुः कावस्थेत्यभिप्रायेणाह बत इति । बतशब्दः खेदे । सौमित्रिरपि तया सीतया अन्याइशः सम्भावित इति विस्मितो हीलाह । हीशब्दो विस्मये । यदि नाम स्त्रिया मूर्खतया तथामिहितं सौमित्रिणा विदुषा कथं तादृशः शापो दत्त इत्यभिप्रायेणाह चित्रमिति । चित्रमाश्चर्ये । तदेवंविधोऽपि स्खलतीति । सर्वमेव दुर्जातं कैकेयीप्रभवमिति क्रुध्यन् हूं मातरित्याह । हूंशब्द: क्रोधे । अथवा सर्वमेतत् दैवचेष्टितं न ममानुष्ठितमित्यभिप्रायेणाह धिग्दैवतानीति । धिक् कुत्सायाम् । प्राणांस्त्यक्तवन्तमपि पितरं पुनरहं द्वष्टास्मीत्यभिप्रायेणाह । हा पितः क्व द्रष्टव्योऽसीति । हा शोके । हे सीते क्व गतासीति । भ्रूशब्दात् 'अप्राणिजातेः' इत्यादिनोङ् । उवर्णान्तमात्रस्य विधानाद्वहुव्रीहिः । उपसर्जनत्वं च । पुनः स्त्रियामूह । '७५॥ अन्तादिवञ्च ।६॥।८५।' इति पूर्व प्रत्यन्तवत्वात् प्रातिपदि१–१२५९ । शरणं गृह रक्षित्रोः ।' इति ना० अ० । १२४ भट्टि काव्ये द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, कत्वम् । अतः सम्बुद्धौ हस्वत्वम् । विललाप स एवं कृत्वा बनेकप्रकारं विलपं कृतवान् ॥ 3 ३०३ - इहां ssसिष्ट ऽशयिह सा, स-खेलमतो ऽगमत् ॥ अग्लासीत् संस्मरन्नित्थं मैथिल्या भरताऽग्रजः ॥ १२ ॥ इहेत्यादि – इह प्रदेशे आसिष्ट उपविष्टा । '१९५८॥ इदमो हः । ५।३। ११॥' । '१९४९ । इदम इश् ।५।३।३।' इह । अशयिष्ट शयितवती । आसे: शीच लुङ् । सखेलं सलीलम् । इतः प्रदेशाद्गमत् गतवती इत्थमेवं प्रकारम् । मैथिल्याः स्मरन् । '६१३ । अधीगर्थ - २ ।३।५९२ ।' इति कर्मणि पष्टी । भरता- ग्रजो रामोऽग्लासीत् ग्लानिं गतः । ग्लायते । २३७७ । यम-रम- १७७२१- ७३।' इति सगिटौ ॥ ३०४ - 'इदं नक्तं तनं दाम पौष्पमैतद् दिवा-तनम् ॥ (3 शुचैवौद्वध्य शाखायां प्रग्लायति तया विना, ॥ १३ ॥ इदमित्यादि – नक्तंतनं निशाभवं इदं दाम पुष्पमाला पुनर्दिवातनं दिवस- भवम् । '१३३३॥ सायम् । ४ । ३।२३।' इत्यादिना ट्युट्युलौ तुद् च । पौष्पं पुष्पाणामिति तस्येदमित्यण् । शुचेव शोकेनेव । सम्पदादित्वात्विप् । शाखाया- • मुद्धध्य । आत्मानमित्यर्थात् । प्रग्लायति ग्लानिं गच्छति । ग्लायते: शिव्याया- देशः । शाखायां प्रलम्बमानं ग्लानिं गच्छन्तं वीक्ष्येदमुव्येक्षितम् । कुतः शोका- त्तया विना सीताविच्छेदेन ॥ ३०५ - ऐक्षिष्महि मुहुः सुप्तां यां मृतता॒ ऽऽशङ्कया वयम् ॥ अ-काले दुर्मरम॑हो, यज् जीवामस् तया विना, ॥१४॥ ऐक्षिप्महीत्यादि—यां वयमैक्षिप्महि ईक्षितवन्तः । ईक्षेः सेटो लुङ् । मुहुः सुप्तां अविच्छिन्ननिद्रत्वात् । मृताशङ्कयेति अनिष्टशंसित्वात् प्रियजनहृदयस्य इदानीं तया विना अहो वयं यज्जीवामस्तदुकाले दुर्मरणमिति विललाप । जीवि तस्यापूर्णकाले दुःखेन मरणमिति भावे खल ॥ ३०६ - अ क्षेमः परिहासो ऽयं परीक्षां मा कृथा मम ॥ मत्तो मा ऽन्तर्धिथाः सीते ! मा रंस्था जीवितेन नः, 11 अक्षेम इत्यादि — परिहसनं परिहासः क्रीडा । अक्षेमो न कल्याणकरः । मम परीक्षां किं मामपश्यन् दुःखित आस्ते न वेति मा कृथाः मा कार्षीः अपि तु दर्शयात्मानम् मा निलीयस्व । '२३६८ । उश्च ।१।२।१२॥ इति कित्त्वागुणा- भाव: । '२३६९ । ह्रस्वादङ्गात् ।८।२।२७।' इति सिचो लोपः । तस्माद्धेतोः सीते मान्तर्धिथाः । अन्तर्हिता मा भुः । ५९१ । अन्तर्घौ ॥४॥२८।' इत्यपादानसं- शायां 'पञ्चम्यास्तसिः' । '१३७३ । प्रत्ययोत्तरपदयोश्च ।७।२।१८॥ इति मदा- देशः । लुङि '२३८९ । स्था-ध्वोरिञ्च ।१।२।१७।' इति सिचः कित्त्वमिश्वं च । तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः- १२५ '२३६९। हूस्वात्- ।८।२।२७।' इति सिचो लोपः । नोऽस्माकं जीवितेन मा रंस्थाः क्रीडां मा कार्षीः । रमेरात्मनेपढित्वात्तङ् ॥ एते प्रकीर्णकाः ॥ अतः परं सिजधिकारः- सिचं सापवादमधिकृत्याह- ३०७ - अहं न्यवधिषं भीमं राक्षसं क्रूर - विक्रमम् ॥ , मा घुक्षः पत्युरोत्मानं, मा न श्लिक्षः प्रियं प्रिये. १६ अहमित्यादि — यतोऽहं राक्षसं मारीचं क्रूरविक्रमं भीमं भयानकं न्यव- धिषं निहतवानस्मि । हन्तेः '२४३४ । लुङि च ।२।१४।४३॥ इति वधादेशः । अन्तत्वावृच्यभावः । तस्मान्मा घुक्षः न गोपय पत्युरात्मानम् । अन्तर्धावित्य- पादानत्वम् । '२५५ । ख्यत्यात्परस्य ।६।१।११२।' इत्युत्वम् । गुहे: '२३३६ । शल इगुपधादनिटः क्सः । ३।१।४५॥ '३२४ । हो ढः ।८।२।३१।' भण्भाव-कत्व- षत्वानि । सिपश्च विसर्जनीयः । मान शिक्षः मा न परिरब्धाः अपितु लिष्य प्रियं माम् । हे प्रिये । '२५१४। श्लिष आलिङ्गने ।३।१॥४६॥ इति क्सः ॥ ३०८ मा स्म द्राक्षीर् मृषा दोषं, भक्तं मां मातिचिकिशः ॥ शैलं न्यशिश्रियद् वामा, नदीं नु प्रत्यदुद्रुवत् ॥ १७॥ मा स्मेत्यादि — मृपा दोषं व्यलीकं दोपं मा द्राक्षीः । मयीत्यर्थात् ' २२२० स्मोत्तरे लङ् च । ३।३।१७६।' इति चकाराल्लुङ् । '२३३६ । शल इगुपधात् ।३।१। ४५।' इति क्सस्य ' २४०७ न दृशः । ३।२।४७ ।' इति निषेधः । '२२६९ । इरितो वा ।३।१।५७।' इत्यङभावे सिच् । '२४०५५। सृजि-दृशो:-।६।१।५८ ।' इत्यम् । हलन्तलक्षणा वृद्धिः । २९४ । - ।८।२।३६ ।' इत्यादिना षत्वम् । यतोऽहं भक्तस्ततो मां भक्तं मातिचिकिशः नातिक्लेशय । किशेर्ण्यन्तात् सिपि । '२३७२। [णि श्रि - ।३।१॥४८।' इत्यादिना चडू । णिलोप-हस्व-द्विर्वचनानि । पुनर्विकल्पय- नाह । मयि दोपदर्शनाद्वामा मप्रतिकूलवर्तिनी सती शैलं नु पर्वतं कमप्यशि- श्रियदाश्रिता उत नदीं प्रत्यदुद्रुवत् प्रतिगतेत्यर्थः । शब्दो वितर्फे । पूर्ववञ्च ॥ ३०९ - ऐ वाचं देहि धैर्य नस् तव हेतोरसुस्रुवत् ॥ त्वं नो मतमि॑a sधासीर् नष्टा, प्राणानिर्वाऽदधः. ऐ वाचमित्यादि – ऐशब्दो निपातोऽभिमुखीकरणे वर्तते । वाचं देहि । प्रार्थनायां लोट् । '२४७१ । ध्वसोरेद्धौ । ६।४।११९१ । इत्येत्वम् । किमिति चेदा ह । धैर्य नोऽस्माकं घीरता तव हेतोरसुखवत् गलितम् । नष्टा अदर्शनं गता सती त्वं नोऽस्माकं मतिं बुद्धिमधासीरिव पीतवतीव । बुद्धेरपगमात् । '२३७५ । विभाषा धेट् इव्योः ।३।१।४९॥ इति यदा न च तदा ' २३७७ । यम-रम।७।२।७३ ।' इति सगिटौ । प्राणानदधः पीतवती । कायस्याचेष्टत्वात् । चढि रूपम् । '२३८२ । आतो लोपः ॥६।४।६॥ ॥ १२६ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, ३१० - रुदतो ऽशिश्वयच् चक्षु> रास्यं हेतोस् तवा॑ ऽश्वयीत् ॥ त्रिये ऽहं, मां निरास्थश चेन्, मा न वोचश् चिकीर्षितम् ॥ १९ ॥ रुदत इत्यादि —तवार्थे त्वां पश्यामीति रुदतो मम चक्षुरशिश्वियत् उच्छ्रनम् । आस्यं मुखं चाश्वयीत् । '२३७५ । विभाषा धेट्-व्योः ।३।१॥४९॥ इति चङ्-सिचौ । चङीयङ् । '२२९९। यन्त - ।७।२।५।' इति न वृद्धिः । '२२६६। इट ईटि ।८।२॥२८।' इति सिचो लोपः । गुणायादेशौ । मां निरास्थश्चयदि मम दर्शनं निरस्तवती त्वं तदा नियेऽहम् । '२५३८ । म्रियतेर्लुङ्लिङोश्च ॥।३।६१॥' इति चकाराच्छित्यात्मनेपदम् '२३६७। रि-श-यग्- ।७।४।२८।' इति रिङ् । अतो यत्वया चिकीर्पितं कर्तुमिष्टं तन्मा नावोचः मा नाभाषिष्टाः अपि तु ब्रूहि । '२४३८ । अस्यति वक्ति-।३।१।५२।' इत्यङ् । ८२४५४ । वच उम् ।७।४।२०॥ ॥ ३११ - लक्ष्मण ऽऽचक्ष्व, यद्यख्यत् > सा किञ्चित् कोप- कारणम् ॥ दोषे प्रतिसमाधान- म॑ज्ञाते क्रियतां कथम् ॥ २० ॥ लक्ष्मणेत्यादि – हे लक्ष्मण ! यदि सा किञ्चित्कोपकारणमाख्यदुक्तवती । इदं तेनाप्रियमाचरितम् । पूर्ववदङ् । तदाचक्ष्व कथय । अज्ञाते दोषे अनिर्धा- रिते प्रतिसमाधानं कथं क्रियतां अनुष्ठीयतां । नैवेति भावः । कर्मणि लोटू । '२३६७ । रिङ् – ।७।४।२८।' इत्यादिना रिङ् ॥ ३१२ - इह सा व्यलिपद् गन्धैः, स्नान्तहा॑ऽभ्यषिचज् जलैः, इहा॑ ऽहं द्रष्टुमा॑ह्वंं तां,' स्मरन्नो॑वं मुमोह सः ॥ २१ ॥ इहेत्यादि — इह प्रदेशे सा सीता गन्धैर्ग्यलिपत् समालिप्तवती । मामा- त्मानं चेत्यर्थात् । इह स्नान्ती क्रीडापूर्वकमभ्यषिचत् । हस्तयन्त्रमुक्तसलिलेन मामभिमुखं सिक्तवतीत्यर्थः । '२२७६ । प्राक्सितात्- ।८।३।६३।' इति पत्वम् । इह द्रष्टुं तामाहं आहूतवान् । '२४१८। लिपि - सिचिह्नश्च ।३।१॥५३॥' इति च्लेरङ् । एवं स्मरन् मुमोह मोहं गतवान् ॥ ३१३ – तस्या॑ ऽलिपत शोका॒ऽग्निः स्वान्तं काष्ठमि॑िव ज्वलन्, अलवा॑ ऽनिलः शीतो वने तं, न त्वजिह्रदत्. २२ : १–५६५३ । वक्रा ऽऽस्ये वदनं तुण्डमाननं लपनं मुखम् ।' इति ना० अ० । २ – '१५३ । चित्तं तु चेतो हृदयं स्वान्तं हृन् मानसं मनः ।' इति ना० अ० । तथा लक्ष्य-रूपे कथानके सुत्रीचाऽभिषेको नाम षष्ठः सर्गः १२७ तस्येत्यादि - तस्य रामस्य स्वान्तं मनः । '३०५८। क्षुब्ध-स्वान्त - ।७।२११८।' इत्यादिना निपातितम् । शोकानिः शोकोऽग्निरिव । अलिपत दीपितवान् । परस्मैपदेषु '२४१८ । लिपि - १३ । ११५३।' इत्यादिना नित्ये प्राप्ते '२४१९॥ आत्मनेपदेष्वन्यतरस्याम् ।३।१।५४॥ इति विकल्पेनाङ् । १२१५८ । स्वरित जि तः – ।१।३।७२।' इति क्रियाफलविवक्षायामात्मनेपदम् । काष्टमिव स्वान्तं ज्वलन् अभिवर्धमानः । अनिलो वायुः शीतोऽपि सन् वने तं राममलिप्तेव दीपितवानिव । अङभावपक्षे '२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः । नतु नैवाजिह्वदत् ह्लादितवान् । शोकानेरुहुद्धत्वात् । हादेयंन्तात् । ८२३१२॥ [णिश्रि - । ३।१।४८।' इति च ३१४ - स्नान॑भ्यषिचता॑ ॥ ऽम्भो ऽसौ रुदन् दयितया विना ॥ तथा ऽभ्यपित वारीणि पितृभ्यः शोक-मूर्च्छितः २३ स्नानित्यादि — असौ रामो दयितया विना । शोकमूर्च्छितः शोकेन मोहं नीतः । स्नातुमारब्धः । मूर्च्छर्हेतु मण्ण्यन्तस्य रूपम् । ११२६ । प्णा शौचे' शतृ- प्रत्ययः । रुदन् भनु विमुञ्चन् । अम्भः सलिलं अभ्यषिचत क्षिप्तवान् । शिरस्यञ्ज- लिना । तथा स्त्रातः पितृभ्यो वारीणि अभ्यषिक्त दत्तवान् । सिचेः पूर्ववद्विभा पाऽङ् । सिचिरत्रोत्सर्गे वर्तते । ततश्चार्थान्तरवृत्तित्वाजलस्य कर्मत्वम् । अभ्यु- क्षणे तु करणत्वं यथा जलेन सिञ्चतीति ॥ " ३१५ - तथा ऽऽ ऽपि क्रियां धर्म्यं स काले नो ऽमुचत् क्वचित् ॥ महतां हि क्रिया नित्या छिद्रे नैवा ऽवसीदति ॥ २४ ॥ तथेत्यादि – स रामस्तेन प्रकारेणार्तोऽपि क्वचिदपि धर्म्या क्रियां काले नामुचत् न त्यक्तवान् । यतो महतां सत्यपि छिद्रे व्यसने नित्या क्रिया नावसी- दति नापयाति । आङ्पूर्वादऋणोतेर्वा निष्टायां ऋति धातौ वृद्धिः । मुचेः लदनुबन्धवादङ् । '३२७७ । कृञः श च ।३।३।१००।' रिङियौ ॥ ." 2 ३१६ - आह्वास्त स मुहुः शूरान्, मुहुराहृत राक्षसान् ॥ 'एत सीताद्रुहः संख्ये, प्रत्यर्थयत राघवम् ॥ २५ ॥ आह्वास्ते त्यादि – पुनः पुनरभिभवितुं शूरानाह्वास्त आहूतवान् तथा राक्षसानाह्वत । पूर्ववद्विकल्पः । '२७०४ । 'स्पर्धायामाङः ।१।३।३१।' इत्यात्मनेपदम् । कथमाहूतवानित्याह । हे सीताद्रुहः सीताहिंसकाः शूरा राक्षसा वा एत आगच्छत । आङ्पूर्वादिणो लोट् । संख्ये संग्रामे । राघवं प्रत्यर्थयत प्रत्यर्थिनं कुरुत । १–१८६९ । युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् । मृधमास्कन्दनं संख्यं समीकं सांपरायिकम् ॥' इति ना० अ० । १२८ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, प्रत्यर्थिनूशब्दात्तत् करोतीत्यर्थे णिच् । तदन्ताल्लोट: परस्मैपदम् । २०१३ । अर्थ याच्यायाम्' इत्यस्य तु स्वार्थिकण्यन्तस्य सर्वदात्मनेपदित्वात् प्रत्ययेयध्वमिति स्यात् ॥ ३१७ - स्व-पोषम॑पुषद् युष्मान् या पक्षि-मृग-शावकाः ! ॥ अद्युतच् चैन्दुना सार्धं, तां प्रब्रूत, गता यतः ॥२६॥ स्वपोषमित्यादि — हे मृगपक्षिणां शावकाः पोताः ! या सीता युष्मान् स्व- पोषमपुत् पुष्टवती । '३३६९ । स्वे पुषः । ३ । ४।१०॥ इति णमुल । २८२७। यथाविध्यनुप्रयोगश्च ।३।४।४।१।२३४३ । पुपादि-३११॥५५॥ इत्यङ् । तां प्रब्रूत कथयत । यतो यत्र । आद्यादित्वात्तसिः । गता सत्ययुतत् द्योतते स्म । पूर्वव ढुङ् । इन्दुना सार्धम् । चन्द्रमसा तुल्यकान्तित्वात् ॥ ३१८-गिरि॑िम॒न्वसृपद् रामो लिप्सुर् जनक- संभवाम् ॥ तस्मि॒न्योधनं वृत्तं लक्ष्मणार्याऽशिषन् महत् - २७ गिरिमित्यादि – गिरिमन्वसृपत् लक्ष्यीकृत्य गतः । हृदित्वादङ् । किमर्थं लब्धुमिच्छुः '२६२३। सनि मी मा - १७/४/५४ ।' इत्यादिना इस् । '२६२० । अन्न लोपः-।७।४।५८।' इत्यभ्यासलोपः । '१२१ । खरि च ।८।४।५५।' इति चर्वम् । जनकसम्भवाम् । सम्भवत्यस्मादिति सम्भवः । '३२३२ । ऋदोरप् ।३।३।५७ । । जनकः सम्भवो यस्यास्तस्माद्वा संभवो यस्यास्तां सीताम् । तस्मिन् गिरौ आयो- धनं युद्धं महदतिशयत्वात् । वृत्तं लक्ष्मणायाशिपत्कथितवान् । क्रियायोगे चतुर्थी । '२३८२ । सर्ति । ३।२।१६।' इत्यादिनाऽङ् । २४८६ । शास इदङ्-हलोः ॥४। ३४ ।' इतीत्वम् । '२४१० । शासि वसि - ।८।३।७०।' इति पत्वम् ॥ कथमकथयदित्याह- ३१९ - ' सीतां जिघांसू सौमित्रे ! राक्षसावरतां ध्रुवम् ॥ " इदं शोणितम॑भ्यग्रं संप्रहारै ऽच्युतत् तयोः ॥ २८ ॥ H सीतामित्यादि - ( इत्येवं लक्ष्मणायाशिषदिति श्लोकचतुष्टयं यावत् सम्बध्यते ) हे सौमित्रे ! सीतां हन्तुमिच्छन्तौ राक्षसावारता मागताविति ध्रुवं निश्चितम् । अर्तेराङ्पूर्वापूर्वदङ् । ८२४०६ । ऋ-दृशोऽङि- ।७।४।१६।' इति गुणः । कीदृशौ । सीतां जिघांसू हन्तुमिच्छू । हन्तेः सनि '२७१४ । अज्क्षनगमां सनि । ६।४।१६।' इति दीर्घः । '२४३० । अभ्यासाच ।७।३।५५॥' इति कुत्वम् । तथाहि । तयोः सीताद्वेषानुनयाभ्यां संग्रहारे युद्धे इदं शोणितम् अच्युतत् गलितम् । '४१॥ च्युतिर् क्षरणे'। अकर्मकोऽत्र । '२२६९ । इरितो वा ।३।१।५७ । १ इत्यंङ् । अभ्यत्रं प्रत्यग्रम् ॥ १- (३१६) श्लोक-स्थं टीकनं प्रेक्ष्यम् । २–१८७० । अस्त्रियां समराइनीकरणा: कलह-विग्रहौ । संग्रहाराऽभिसंपात कलि-संस्फोट-संयुगाः ॥' इति ना० अ० । तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गःP १२९ ३२० - इदं कवचम॑च्योतीत्, सऽश्वो ऽयं चूर्णितो रथः ॥ ए॒ह्य॑मुं गिरिम॑न्वेष्टुमवगाहावहे द्रुतम् ॥ २९ ॥ इदमित्यादि – इदं कवचमच्योतीत् भ्रष्टम् । अङभावे सिजेव भवति । अयं रथः साश्वचूर्णित आस्ते । यतश्चैवं तस्मादेहि आगच्छ द्रुतम् । किं पश्चाद्वि- लम्बसे । अभुं गिरिमवगाहावहे विलोडयावः । किमर्थं अन्वेष्टुम् । सीता मित्य- र्थात् । एतत्सर्वं पर्वतसमीपे कथ्यते ॥ ३२१ - मन्युर् मन्ये ममो ऽस्तम्भीद्, विषादो ऽस्तभद्यतिम् ॥ अजारीदिंव च प्रज्ञा, , बलं शोकात् तथा॑जरत् ॥ ३० ॥ मन्युरित्यादि — मन्युः शोकः । मन्ये धमन्यौ । (ऋन्दतः उच्छूने ) । अस्तम्भीत् स्तब्धवान् । विषाद उद्यतिमस्तभत् । अत्र पक्षे अनुनासिकलोपः । प्रज्ञा च तत्वविवेकिनी बुद्धिः अजारीत् विवेकवैकल्यात् जीर्णेव । तथाशब्दः समुच्चये । बलं शोकादजरत् जीर्णम् । स्वकार्याकरणात् ॥२४०६ ऋशोऽङि।७।४।१६।' इति गुणः । '२२९१ । -स्तम्भु ।३।१।५८।' इत्यादिना सिजडौ ॥ ३२२ - गृध्रस्यैहाश्वतां पक्षौ कृत्तौ, वीक्षस्व लक्ष्मण ! । जिघत्सोर् नूनमा॑पादि ध्वंसो ऽयं तां निशा-चरात् '॥ गृध्रस्येत्यादि – हे लक्ष्मण । इह प्रदेशे गृध्रस्य पक्षौ कृत्तौ छिन्नौ । अश्वतां शूनौ । पूर्ववदङि '२४२१।श्वरः ।७।४।१८।' इति । वीक्षस्व नूनमवश्यं सीतां जिघरसोरत्तुमिच्छोर्गृध्रस्य । अदे: '२४२७ । लुङ्- सनोस् ॥२॥४॥३॥ निशाचरादयं ध्वंसः पक्षच्छेद आपादि उत्पन्नः । कर्तरि लुङ् । '२५१३॥ चिण् ते पदः ।३।१॥६०। ' इति च्लेश्चिणादेशः । तशब्दस्य २३२९ । चिणो लुक् ।६।४।१०४।' ॥ ३२३ - क्रुद्धो ऽदीपि रघु-व्याघ्रो, रक्त नेत्रो ऽजनि क्षणात्, अबोधि दुःस्थं त्रैलोक्यं, दीप्तैरांपूरि भानु-वत् ॥ ३२ ॥ क्रुद्ध इत्यादि – तदेवं रघुव्याघ्रो रामः क्रुद्धो अदीपि दीप्तवान् । क्षणाच रक्तनेत्रो ऽजनि जातः । '२५३२ । जनि-वध्योश्च ।७।३।३५।' इति न वृद्धिः । त्रैलोक्यं निहन्मि यस्मिन् हन्यमाने सीताद्रुहोऽपि नश्यन्ति इत्यभिप्रायेण दुःस्थमबोधि बुध्यते स्म । किंवा रामस्य द्वारा ह्रियन्ते तदान्येषु का कथा इति दुःस्थं त्रैलोक्यमबोधि । दीप्तैस्तेजोभिर्हेतुभिरापूर वर्धते स्म । भानुवदादित्यवत् । ६–'११०४ । स्युरुत्तरपदे व्याघ्र पुङ्गव-र्षभ- कुञ्जराः ॥ सिह-शार्दूल-नागाऽऽद्याः पुंसि श्रेष्ठाऽर्थ-गोचराः ।' १३० भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, दीप्तैरिति भावे निष्टा । सर्वत्र कर्तरि लुङ् । ८२३२८ । दीप-जन - । ३३११६६।१ इत्यादिना चिण् ॥ ३२४ - अताय्यस्यौत्तमं सत्वर्मप्यायि कृत कृत्य-वत् ॥ , उपाचायिष्ट सामर्थ्य तस्य संरम्भिणो महत् ॥ ३३ ॥ अतायीत्यादि- – अस्य रामस्य उत्तमं सत्वमभिप्रायः शोकव्यसनयोरविका- रित्वात् अतायि सन्ततं नान्तरा विच्छिद्यते स्म । अप्यायि बृंहितम् । कृतकृ त्यवत् समाप्तक्रियवत् । हस्ततलस्थं शत्रुवधं मन्यमानस्य । उभयत्रापि पूर्वव- चिण् । तस्य रामस्य संरम्भिणः शत्रुचिपये क्षुभितचित्तस्य सामर्थ्य बलं महदुपा- चायिष्ट स्वयमेवोपचीयते स्म । चिनोतेः '२७६८ । अचः कर्मकर्तरि ।३।१।६२ । ' इति वा चिण् । पक्षे चिण्वदि ॥ ३२५ - अदोहीव विपादो ऽस्य, समरुद्धैव विक्रमः ॥ समभावि च कोपेन, न्यश्वसीच् चऽऽयतं मुहुः ॥ अदोहीत्यादि — अस्य रामस्य विपादः प्रागुत्पन्नो ऽदोहीन स्वयं क्षरित इव । अथवा अदोहीव प्रपूर्यते स्मेव । '२७६९ । दुहश्च ।३॥।६३ ।' इति चिण् । विक्रमः पुरुषकारः समरुदेव स्वयं संरुध्यते स्म इव । '२७६६ । कर्मवत् । ३।१।८७ । ' इत्यादिना कर्मवद्भावेन प्राप्तस्य चिण: १२७७० । न रुधः । ३।१।६४ । इति निषेधः । तेन सिजेव भवति । १२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः । '२२८० । झषस्तथोर्धो ऽवः ।८।२।१०।' । '५२ । झलां जश् झशि ।८।४। ५३ ।' इति धत्व - जश्त्वे । कोपेन च समभावि सम्भूतम् । ८२७५९ । चिण् भावकर्मणोः ।३।१।६६।' इति भावे चिण् । त्रैलोक्य दौःस्थ्यावबोधाज्जातखेदः सन् आयतं दीर्घं न्यश्वसीत् निःश्वसितवान् । '२२९९ । हृयन्त ।७।२।५।' इति वृद्धिर्न भवति । मुहुरिति सर्वत्र योज्यम् ॥ ॥ इति सिजधिकारः ॥ श्नम् प्रकरणं कथ्यतेइतः प्रभृति नम्-प्रकरणमधिकृत्याह। ३२६–अर्था ऽऽलम्ब्य धनू रामो जगर्ज गज - विक्रमः, ॥ 'रुणध्मि सवितुर् मार्ग, भिनद्मि कुल पर्वतान् ॥३५॥ अथेत्यादि – अथानन्तरं रामो धनुरालम्ब्य गृहीत्वा जगर्ज विस्फूर्जित- वान् । धनू राम इति '१७४ । ठूलोपे । ६।३।१११।' इति दीर्घः । '२३५। गर्ज गर्जने' । किं जगर्ज । सवितुः सूर्यस्य मार्ग पन्थानं रुणधिम आवृणोमि । शरै- रित्यर्थात् । '२५४३ । रुधादिभ्यः श्नम् ।३।१।७७।' तथा भिनभि विदारयामि कुलपर्वतान् ॥ १-१८६८। विक्रमस् त्वतिशक्तिता ।" इति ना० अ० । २ – 'महेन्द्रो मलयः सद्यः शक्तिमान् ऋक्षपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः ॥' तथा लक्ष्य रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १३१ ३२७ - रिणचिम जलधेस् तोयं, विविनच्मि दिवः सुरान् ॥ क्षुणझि सर्पान् पाताले, छिनझि क्षणदा- चरान्. ३६ रिणच्मीत्यादि — जलधेस्तोयं रिणच्मि रिक्तीकरोमि । '१५३५॥ रिचिर् विरेचने ।' दिवः स्वर्गात् सुरान् विविनचिम पृथक्करोमि । १५३६ । विचिर् पृथ- ग्भावे ।' क्षुणद्मि चूर्णयामि सर्पान् पाताले । '१५३७ । क्षुदिर् पेषणे' । १९७। अट्-कु-प्वाङ्- ।८।४।२।' इति णत्वम् । छिनझि क्षणदाचरान् राक्षसान् द्विधा करोमि । '१५३४ । छिदिर् द्वैधीकरणे' ॥ ३२८ - यमं युनज्मि कालेन समिन्धानो ऽस्त्र - कौशलम् ॥ शुष्क - पेषं पिनष्म्युर्वीम॑खिन्दानः स्त्र - तेजसा ॥३७॥ M यममित्यादि – यममपि कालेन तदधीनेन मृत्युना युनज्मि सम्बध्नामि । अस्त्रकौशलं समिन्धानः संवर्धयन् । १५४२ । जि-इन्धी दीप्तौ' । आत्मनेप- दिनो लट: शानच् । '२५४४ । मान्नलोपः ॥४॥२३॥२४६९। सोरल्लोपः ।६।४।१११।' उर्वी शुष्कां कृत्वा चूर्णयामि । '१५४६ । पिप्ऌ संचूर्ण' ।'३३५६॥ शुष्कचूर्णरूक्षेषु पिषः । ३ । ४ । ३५ ॥ इति णमुल । अखिन्दानः स्वतेजसा दैन्यमभ- जन् अपरिश्राम्यन् । '१५४३ । खिद् दैन्ये' । पूर्ववल्लोपः ॥ ३२९ - भूतिं तृणझि यक्षाणां, हिनस्मीन्द्रस्य विक्रमम् ॥ भनज्मि सर्व मर्यादास्, तनच्मि व्योमं विस्तृतम् ३८ भूतिमित्यादि – यक्षाणां भूतिं सम्पदं तृणझि उत्सादयामि । १५४० । उ-तृदिर हिंसाऽनादरयोः' । इन्द्रस्य विक्रमं हिनस्मि अपनयामि । १५५०। हिसि हिंसायाम्' । '२२६२ । इदितो नुम् । ७।१।५८॥ तस्य नान्नलोपः । सर्वमर्यादाश्च व्यवस्थाः सर्वेषां भनज्मि मर्दयामि । १५४७ । भञ्जो आमर्दने ।' ८२५४४ । श्वान्नलोपः ।६।४॥२३॥ तनच्मि व्योम विस्तृतं सङ्कोचयामि । ' १३३१॥ स्तृञ् आच्छादने' सौवादिकस्य रूपं न १५६९ । स्तृञ् आच्छादने' इति क्रैयादिकस्य । '१५५३। त सङ्कोचे' । '१९४४ । आनलोपः ॥६॥४।२३॥ ॥ कस्मादेवं प्रवृत्तस्त्वमिति चेदाह ३३० - न तृणेह्मति लोकोऽयं मां विन्ते निष्-पराक्रमम्,' ॥ ॥ एवं वदन् दाशरथिर॑पृणम् धनुषा शरम् ॥ ३९ ॥ न तृणेह्मीत्यादि-न तृणेझि न मारयामि इति कृत्वा । '१५४९। तृहँ हिसि हिंसायाम्' । नम्। '२५४५ । तृणह इम् ।७।३।१२॥ अयं लोको मां निष्पराक्रम निर्वीर्यं विन्ते विचारयति । १५४४ । विदँ विचारणे' इत्यस्मादात्मनेप१ – ३०२ । सर्वसहा वसुमती वसुधोर्वी वसुंधरा । गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर् मेदिनी मही ॥ इति ना० अ० । २-८० । 'द्यो- दिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नमोऽन्तरिक्षं गगनमनन्तं सुरवमै खम् ॥" इति ना० अ० । १३२ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, दिनः श्नम् । अल्लोषः । एवमुक्तेन प्रकारेण वदन् दाशरथि: धनुषा शरम् अष्ट णक् पृणक्ति स्म । '१५५७ । लङि नम् । हल्ड्यादिलोपः कुत्वम् ॥ इति श्चविकरणनिदर्शनम् ॥ इतः प्रकीर्णक लोकानाह- ३३१ - न्यवर्तयत् सुमित्रा भूस् तं चिकीर्षु जगत्-क्षयम्, ऐक्षेतामा श्रमाद् गिरिकल्पं पतत्रिणम् ॥ ४० ॥ न्यवर्तयहित्यादि – तं रामं जगत्क्षयं चिकीर्षु कर्तुमिच्छुम्। सुमित्राभू लक्ष्मणो न्यवर्तयत् निवर्तितवान् । 'भ्रातः । अलं कोपेन, त्वया साधं कः संग्रामे युद्धं दातुं समर्थः ? यदन युक्तं तत्प्रतिविधीयताम्' इति । भवनं भूः । सम्पदा- दित्वात् चिप् । सुमित्रायां भूर्यस्य । ऐक्षेतां रामलक्ष्मणौ दृष्टवन्तौ । लङि रूपम् । पक्षिणं गिरिकल्पं महाप्रमाणत्वात् । आश्रमादारात् समीपे । '६११॥ दूरान्ति- कार्यैः-।२।३।३४।' इति पञ्चमी ॥ ३३२ - तं सीता-घातिनं मत्वा हन्तुं रामो ऽभ्यधावत ॥ 'मा वधिष्ठा जटायुं मां सीतां रामा॑ऽहमैक्षिपि.' ॥४१॥ तमित्यादि - तं सीताघातिनं सीता हतानेनेति मत्वा रामो हनिष्यामील भ्यधावत । '६४३ । धावँ गति शुद्ध्योः' । इत्यस्माल्लङि स्वरितेच्वादात्मनेपदम् । तं हन्तुमुद्यतं रामं जटायुराह मा वधिष्टा इति । हे राम, मां जटायुं मा वधिष्ठा मा वधीः । 'वध बन्धने' इत्यस्याइनेकार्थत्वादात्मनेपदिनः सेटो लुङि रूपं, न हन्तेः तस्य परस्मैपदित्वात् । सत्यप्याङि '२५९५ । आङो यमहनः ।१।३।२८॥ इत्यात्मनेपदं न भवति तत्राकर्मकाढित्यनुवृत्तेः । स्वनामपरिकीर्तनं तव पितुरहं सखेति ख्यापनार्थम् । सीतामैक्षिपि दृष्टवानहम् । लुडुतमैकवचने रूपम् । अतो मां मा वधिष्ठाः ॥ ३३३-उपास्थितैवर्मुक्ते॒ तं सखायं राघवः पितुः ॥ पप्रच्छ जानकी वार्ता संग्रामं च पतत्रिणम् ॥ ततो रावणमाख्याय द्विपन्तं पर्ततां वरः ॥ ४२ ॥ उपास्थितेत्यादि-पक्षिणैवमुक्ते सति राघवस्तं व्रणभङ्गाद्यनुष्टानेन उपास्थित परिचरितवान् । सङ्गतकरणे आत्मनेपदम् । २३८९ । स्थाध्वोरिच ॥१॥२/१७ ।' इतीत्वम् । '२३६९ । हस्वादङ्गात् ।८।२।२७।' इति सिचो लोपः । पितुः सखायमिति सखिशब्दस्य द्वितीयैकवचने रूपम् ' २५३ । सख्युरसम्बुद्धौ ।७।१।९२ ।' इति णित्वाद्वृद्धिरायादेशः । पप्रच्छ पृष्टवान् । तं पक्षिणं जटायुम् । किं १- २४५१ । आराद् दूरसमीपयोः ।' ना० अ० । २-(२८९ ) श्लोकोक्तं टीकनं प्रेक्ष्यम् । तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः-- १३३ जानकीवार्ता संग्रामं च । तत उपस्थानानन्तरं रावणं द्विषन्तम् '३१११॥ द्विषो- ऽमित्रे । ३।२।७३१।' इति शतृप्रत्ययः । आख्याय सीता रावणेन हृतेति कथ- यित्वा । पततां पक्षिणां वरो जटायुर्ममारेति परेणान्वयः ॥ ३३४ - व्रण - वेदनया ग्लायन् ममार गिरि-कन्दरे, ॥ तस्या॑न्य॒म्ब॑-क्रियां कृत्वा प्रतस्थाते पुनर् वनम् ॥४३॥ व्रणेत्यादि – व्रणकृता वेदना पीडा । मध्यमपदलोपी समासः । तथा ग्लायन् ग्लानिं गच्छन् । शतर्यांयादेशः । ममार मृतः । क्व गिरिकन्दरे यं गिरिम- न्वसृपत् तस्य निम्नप्रदेशे । कन्दं रातीति (कं दारयतीति वा ) व्युत्पत्तिमात्रम् । तस्य जटायोरयम्बुकियां दाहमुदकदानं च कृत्वा पुनर्भूयो वनमरण्यं प्रतस्थाते प्रस्थितौ । '२६८९। समव-प्र-विभ्यः - ।१।३।२२।' इत्यात्मनेपदम् ॥ ३३५ – सत्त्वान॑जस्रं घोरेण वहा॒ऽपकर्षम॑श्चता ॥ क्षुध्यता जगृहाते तौ रक्षसा दीर्घ-बाहुना ॥ ४४ ॥ सत्त्वानित्यादि – तौ रामलक्ष्मणौ रक्षसा राक्षसेन जगृहाते गृहीतौ । कर्मणि लिट् । किंनाम्ना । दीर्घबाहुना । अन्वर्था चेयं संज्ञा । एक एकेन बाहुना द्वितीयो द्वितीयेनेति । क्षुध्यता बुभुक्षमाणेन घोरेण भीमेन । सत्त्वान् अजस्रं सदा । नज्पूर्वाजसः '३१४७ । नमिकम्पि-।३।२।१६७।' इति रः । अश्वता भुञ्जानेन । किं कृत्वा । बलापकर्षं बलादाकृष्येव पाकादिकमनपेक्ष्य । '३३७३। अपादाने परीप्सायाम् । ३ । ४ । ५२ ॥ इति णमुल ॥ ३३६ - भुजौ चकृततुस् तस्य निस्त्रिशांभ्यां रघूत्तमौ ॥ स छिन्न-वाहुरंपतद् विह्वलो ह्वलयन् भुवम् ॥ ४५ ॥ इति प्रकीर्णकाः । भुजावित्यादि – रघूत्तमौ रामलक्ष्मणौ तस्य योजनबाहो: बाहू यथास्थान- मागतौ चकृततुः च्छिन्नवन्तौ । '१५२९। कृतीं छेदने' । इत्यस्य रूपम् । काभ्यां निस्त्रिंशाभ्यां खड्गाभ्याम् । निर्गतस्त्रिंशतोऽङ्गुलिभ्य इति वाक्ये 'डच्प्रकरणे संख्यायास्तत्पुरुपस्योपसंख्यानम्' इति त्रिंशच्छब्दाड्डुज्विधिः 'निरादयः' इति समासः । टिलोपः । स छिन्नबाहुः कृत्तभुजः सन् । अपतत् पतितः । पतेर्लुङि रूपम् । ऌदिवादङ् । विह्वलो व्याकुल: भुवं भूमिं ह्वलयन् । ८६२ । इल चलने' । घटादित्वे ह्रस्वत्वम् ॥ इति प्रकीर्णकाः ॥ १ – '२५८। अम्भोऽर्णस्-तोय-पानीय-नीर-क्षीराऽम्बु-शम्बरम् ।' इति ना० अ० । २-१८५४॥ खन्ने तु निस्त्रिंश चन्द्रहासा- ऽसि - रिष्टयः । इति ना० अ० । भ० का० १२ १३४ भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, अथ कृत्याऽधिकारः- इतः परं कृत्याधिकारः- ३३७ - प्रष्टव्यं पृच्छतस् तस्य कथनीयमेवीवचत् ॥ आत्मानं वन-वासं च जेयं च sरिं रघूत्तमः ॥४६॥ प्रष्टव्यमित्यादि- - स योजनबाहुः निहतो रामं पप्रच्छ 'को भवान्, कस्य पुत्रः, कथं तव वनवासः, कस्माञ्चोद्दिनः सन् भ्रमसि' इति । प्रष्टव्यं मनाई पृच्छतस्तस्य । '२७३४ । तव्यत् तव्यानीयरः ।३।१।९६ । इति तव्यत् ।'२९४। ब्रश्च–।८।२।३६॥ इति पत्वम् । ष्टुत्वं च । रघूत्तमस्तदान कथनीयं कथनाहं प्रश्नानुरूपम् । तेनैवानीयर् । अवीवचद्वक्ति स्म । '१९८५ । वचँ भाषणे ।' चौरा- दिकः । स्वार्थिको णिच् लुङ् चङ् । णिलोपः ह्रस्वः । द्विवचन-सन्वद्भावेत्वदीर्घ- त्वानि । किं तदित्याह- आत्मानं अहं रामो दाशरथिरिति । वनवासं पितुरा- देशात् वनवासः । जेयं चारिं जेतव्यं यः कनकमृगच्छलेन रावणः सीतामप- हृतवानिति ॥ ३३८ - 'लभ्या कथं नु वैदेही, शक्यो द्रष्टुं कथं रिपुः ॥ सह्यः कथं वियोगश् च, गद्यमैतत् त्वया मम.' ॥४७॥ लभ्येत्यादि – कथं केन प्रकारेण उपायेन वैदेही लभ्या प्राण्या । '२८४४॥ पोरदुपधात् ।३।१।१८।' इति यत् । शत्रुः केन प्रकारेण द्रष्टुं शक्यः । '३१७७। शक-टप-।३।४/६५।' इत्यादिना तुमुन् । वियोगश्चार्य सीतायाः कथं केन प्रका- रेण सह्यः सोढव्यः । '२८४७ । शकि सहोश्च ।३।१।९९॥ इति यत् । गद्यमेतत् कथनीयमेतत् । '२८४८। गद-मद - । ३।१।१001' इत्यादिना यत् । समेति शेषविवक्षायां षष्टी ॥ , ३३९-'अहं राम ! श्रियः पुत्रो मद्य-पीत इव भ्रमन् ॥ पाप-चर्यो मुनेः शापाज् जात' इत्येवदत् स तम्. ४८ अहमित्यादि–हे राम ! अहं श्रियः पुत्रः मद्यपीत इव । '९००। वाहिता- यादिषु ॥२।२॥३७।' इति निष्टान्तस्य परनिपातः । कार्याकार्यविवेकाभावात्पाप- चय राक्षसः । मुनेः स्थूलशिरसः शापाजात उत्पन्नः । माद्यत्यनेनेति मद्यं चरितव्यं चर्यमेतौ पूर्ववत्प्रत्ययान्तौ । पापं चर्यं यस्येत्यवदत् स योजनबाहुस्तं रामम् । वाक्यार्थोऽत्र कर्म ॥ ३४० - 'प्रयातस् तव यम्यत्वं शस्त्र पूतो ब्रवीमि ते ॥ 5 रावणेन हृता सीता लङ्कां नीता सुरारिणा ॥ ४९ ॥ अयात इत्यादि - इदानीं तव यम्यत्वं वश्यत्वं प्रयातः । यमेः पूर्ववत् यत् । पुतव शस्त्रेण पावितः सन् ब्रवीमि ते तुभ्यं कथयामि । युष्मदश्चतुर्ये- तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः- १३५ कवचनस्य '४०६ । ते मयावेकवचनस्य ।८।१।२२।' इति ते आदेशः । क्रियायोगे चतुर्थी । कथनीयमाह - रावणेन सुरारिणा हृता सीता लङ्कां नीता ॥ वैदेही प्राप्या कथमिति यमुपायं पृष्टवान् तं कथयन्नाह - ३४१ - ऋष्यमूके ऽनवंद्यो ऽस्ति पण्य - भ्रातृ वधः कपिः ॥ सुग्रीवो नाम, वर्यो ऽसौ भवता चारु - विक्रमः ॥ ५० ॥ ऋष्यमूक इत्यादि - ऋष्यमूकपर्वते सुग्रीवो नाम कपिः चारुविक्रमो महा- पराक्रमोऽस्ति । असौ भवता वय वरणीयः प्रार्थनीयः '१९९५ । वरें ईप्सा- याम्' इति चौरादिकात्स्वार्थिकण्यन्तात् '२८४२ । अचो यत् ॥३॥१॥१९७१' यहा '२८४९। अवद्य-पण्य - ।३।१।१०१।' इत्यत्र वृडो वर्येति स्त्रियामनिरोधे अप्रति- बन्धे निपातितत्वात् । सततप्रवर्तिनी अनिरोध्या वर्या प्रीतिर्यस्येत्यर्शआद्यच् । स च भवता सह वर्यः प्रीतिमान् समानव्यसनत्वात् । यतः पण्यभ्रातृवधः सः पण्यो विक्रेतव्यो भ्रातुर्वालिनो वधो येन । यद्येवं तदा कथं मया पापीयान् बर्य इत्यत आह - अनवद्यः अगर्हणीयः । दारापहारित्वेन आततायिनो भ्रातु- येधेन निर्दोषत्वादिति भावः ॥ ३४२ - तेन वह्येन हन्तासि त्वम॑यं पुरुषा॒ऽशिनाम् ॥ राक्षसं क्रूर-कर्माणं शा िदूर वासिनम् ॥ ५१ ॥ तेनेत्यादि – तेन सुग्रीवेण त्वं राक्षसं हन्तासि निहनिष्यसि । वह्येन वह- त्यभिप्रेतमनेनेति '२८५० । वह करणम् ॥३।१।१०२॥ इति यत् । कीदृशम स्वामिनम् । पुरुषाशिनां राक्षसानाम् । ८२८५१ । अर्य: स्वामि-वैश्ययोः ।३।११- १०३।' इति यन्निपात्यते । क्रूरकर्माणं पापाचारं शऋारिं रावणम् । यद्येवमहमेव हन्तुं समर्थ इत्यभिप्रायेणाह- दूरवासिनं समुद्रान्तरितवासिध्वात् एकाकिना हन्तुं न शक्यत इति भावः ॥ यद्यनवद्यस्तदा कथमस्य पण्यो भ्रातृवध इत्याह ३४३ - आस्ते स्मरन् स कान्ताया हृताया वालिना कपिः ॥ वृषो यथपसर्याया गोष्ठे गोर् दण्ड-ताडितः ॥ ५२ ॥ आस्ते इत्यादि — वालिना हृतायाः कान्तायाः स्मरन्नास्ते । कोऽन्यः सम्भवेत् यस्तं हत्वा त्वया मां योक्ष्यते, '६१३ । अधी-।२।३।५२॥ इति कर्मणि षष्ठी । कस्येव । वृषो यथा उपसर्याया आसन्नगर्भकालायाः गोः स्मरन् गोष्ठे १ – ११०० । कुपूय-कुत्सिताऽवद्य-खेट-गणकाः समाः ॥ २ – '४७॥ इन्द्रो मरुत्वान् मघवा बिडौजा: पाकशासनः ॥ वृद्धश्रवाः सुनासीरः पुरुहूतः पुरंदर: । जिष्णुर् लेखर्षभः शक्रः शतमन्युर् दिवस्पतिः ॥' ३ – '९५६ । काल्योपसर्या प्रजने । इति सर्वत्र ना० अ० । १३६ भट्टि- काव्ये – द्वितीयेऽधिकार काण्डे लक्षण रूपे प्रथमो वर्गः, आस्ते । '२८५२ । उपसर्या काल्या प्रजने ।३॥।१०४।' इति निपातितम् । दण्ड- ताडितः सन् दण्डस्थानीयोऽत्र वाली ॥ ३४४ - तेन सङ्गतमार्येण रार्मा ऽजर्यं कुरु द्रुतम् ॥ लङ्कां प्राप्य ततः पापं दश-ग्रीवं हनिष्यसि ॥ ५३ ॥ तेनेत्यादि – हे राम ! तेन वानरेण संगत सख्यं अजयं अनपायम् । न जीर्यंत इत्यस्मिन् वाक्ये २८५३ । अजयं संगतम् ।३।१।१०५।' इति निपातितम् । भादौ विशेष्यत्वेनोपात्तं संगतं तद्विशेषणमजयं कुरु द्रुतं यावतस्यानेन युष्मद्विधेन संगतं न भवति । आर्येण सदाचारेण । '२८७२ । ऋ-हलोत् ।३।१।१२४॥' ततः सङ्गतात् लङ्कां प्राप्य गत्वा पापं पापीयांसं रावणं हनिष्यसि ॥ यावत्कार्य न सिध्यति तावत्संगतं गच्छति कृतकृत्यस्तु नैवेत्यत आह ननु 4 ३४५ - अनृतौद्यं न तत्रस्ति, सत्य वद्यं ब्रवीम्य॑हम् ॥ मित्र-भूयं गतस् तस्य रिपु-हत्यां करिष्यसि ॥ ५४ ॥ अनृतोद्यमित्यादि – सत्यमुद्यत इति कर्मणि यत् । अहं सत्यं वचो ब्रवीमीयर्थः । अनृतोद्यं तत्र सुग्रीचे नास्ति । अनृतमसत्यं उद्यं वचनं अनृतो- द्यम् । भावे क्यप् । यजादित्वात्संप्रसारणम् । उभयत्रापि '२८५४ । वदः सुपि क्यप् च ।३।१।१०६।' इति चकाराद्यत् । यस्मादेवं तस्मान्मित्रभूयं मित्रभावं गतः । '२८५५ । भुवो भावे ।३।१।१०७ । क्यप् । रिपुहत्यां करिष्यसि '२८५६ । हनस्त च ।३।१।१०८।' इति क्यप् तकारश्चान्तादेशः ॥ ३४६-आदृत्यस् तेन वृत्येन स्तुत्यो जुष्येण संगतः ॥ इत्यः शिष्येण गुरुवद् गृध्यम॑र्थम॑वाप्स्यसि ॥ ५५ ॥ आदृत्य इत्यादि —तेन संगतः सन् गृध्यमभिलपणीयमवाप्स्यसि । '२८५९॥ ऋदुपधातू - 1३।१।११०।' इति क्यप् । कीदृशः कीदृशेनेत्याह- आदृत्यः आदरणीयः । वृत्येन वरणीयेन । स्तुत्यः स्तवार्हः । जुष्येण सेव्येन हनुमत्प्रभृतीनाम् । क इव । शिष्येण गुरुरिव । यथोपाध्यायः शिष्येण शासनीयेन इत्यः अनुगम्यस्तद्वदिति । '२८५७ । एति-स्तु शास्त्र - ।३।१।१०९।' इत्यादिना क्यप् । हूस्वस्य तुकू ॥ ३४७ - नांsखेयः सागरो ऽप्यन्यस् तस्य सद्-भृत्य शालिनः, मैन्युस् तस्य त्वया मार्ग्यो, मृज्यः शोकश् च तेन ते.' नाखेय इत्यादि — तस्य सुग्रीवस्य सद्भुत्यशालिनः हनूमदादिभृत्ययुक्तस्य । '२८६१। भृञोऽसंज्ञायाम् ।३।१।११२।' इति क्यप् । अन्यो द्वितीयः सागरो१- '६५२ । ग्रीवायां शिरोधिः कन्धरेत्यपि ।" २ – '१४५७॥ गर्दा समुच्चयप्रश्न-शङ्कासम्भावनास्वपि ।' ३ – '१३६२ । मन्युर दैन्ये ऋतौ ऋषि ।' इति सर्वत्र ना० अ० । तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः- १३७ ऽपि नाखेयो न खननीयः अपि तु खननीय एव । अपिशब्दः सम्भावनायाम् । तस्य कारणं सद्भृत्यशालित्वम् । '२८६० । ई च खनः । ३।१।१११।' इति क्यबी- कारौ । तस्य मन्युस्त्वया सार्योऽपनेयः । ते तव तेन च शोको मृज्यः १२८६२। मृजेर्विभाषा ।३।१।११३।' इति यद्विकल्पे ण्यत् ॥ ३४८ - स राजसूय याजीव तेजसा सूर्य-सन्निभः ॥ अ-मृद्यं वदन् रुच्यो जगाहे द्यां निशाचरः ॥५७ ॥ स इत्यादि –स निशाचरो द्यामाकाशं जगाहे गतः । राजसूययाजीव । राज्ञा सूयते राजा वा अनेन सूत इति राजसूयः ऋतुः । तेनेष्टवान् स राज- सूययाजी । २९९६ । करणे यजः ।३।२।८५ ।' इति णिनिः । तदित्यर्थः । रुच्यः प्रियो जातो रामस्येत्यर्थात् । २८६५ । राजसूय -१३।१।११४।' इत्यादिना क्यबन्ता राजसूयादयः ॥ ३४९ - अ-कृष्ट-पच्याः पश्यन्तौ ततो दाशरथी लताः ॥ . रत्ना॒ऽन्न-पान - कुप्यानार्माटतुर् नष्टसंस्मृती ॥ ५८ ॥ अकृटपच्या इत्यादि — ततो निशाचरगमनानन्तरं दाशरथी रामलक्ष्मणा- वाटतुर्गतवन्तौ । कीदृशौ । नष्टा संस्मृतिः ययोः । केषां संस्मृतिः । रत्नान्नपान- कुप्यानाम् । रत्नान्नपानानि प्रसिद्धानि । कुप्यं स्वर्णरजताभ्यामन्यत् वस्तु तत् । संज्ञायां क्यप् । गुपेरादेः गकारस्य ककारः । कर्मणि पष्टी । लताः पश्यन्तौ । कृष्टे पच्यन्ते इति कृष्टपच्याः । पूर्ववत् क्यप् । पश्चान्नञ्समासः । स्वयमेव पच्यन्ते यास्ता इत्यर्थः ॥ ३५० - समुत्तरन्ताव व्यथ्यौ नदान् भिद्योद्ध्य-सन्निभान् ॥ - ॥ सिध्य-तारामिव ख्यातां शबरीमापतुर् वने ॥ ५९ ॥ समुत्तरन्तावित्यादि — तौ तस्मिन् वने शबरीमापतुः प्राप्तवन्तौ । अन्यथ्यौ न व्यथेते इति पूर्ववत् क्यप् । परिश्रमवर्जिताबित्यर्थः । नदानू समुत्तरन्तौ । कीदृशान् । भिद्योद्ध्यसन्निभान् । भिद्योद्ध्यौ नदविशेषौ । '२८६६ । भिद्योद्ध्यौ- ।३।१।११५।' इति पूर्ववत् निपातितम् । भिनत्ति कूलमिति भिद्यः । उज्झत्यु - दुकमिति उच्चः। '१३८८ । उज्झँ उत्सर्गे' । दुकारात्परस्य धकारो निपात्यते । तत्सदृशान् नदान् । सिध्यतारामिव ख्याताम् । सिध्यन्त्यस्मिन्निति -सिध्यः । ' २८६७ । पुष्य- सिध्यौ नक्षत्रे ।३।१।११६।' इति निपातनात् । पुष्याख्यां तारा- मित्र ख्यातां शबरीम् ॥ ३५१ - वसानां वल्कले शुद्धे विपूयैः कृत-मेखलाम् ॥ १ – ९७७ । स्यात् कोशश् च हिरण्यं च हेम रूप्ये कृताकृते । ताभ्यां यदन्यत् तत् कुप्यम् ॥ इति ना० अ० । १३८ भट्टि-काव्ये — द्वितीयेऽविकार-काण्डे लक्षण-रूपे प्रथमो वर्गः, क्षामाम॑ञ्जन - पिण्डदा॒ऽऽभा दण्डनीम॑जिना ऽऽस्तराम् ॥ ६० ॥ वसानामित्यादि – वसानां परिधानां वल्कले वचौ । चिपूयैर्मुक्षैः कृत- मेखलां कृतकटिसूत्राम् । यद्यपि विपूर्वस्य पवतेर्विय इत्यादिना मुझे निपातितं, तथापि मुञ्जानामनुपहतत्वं ज्ञापयितुं विपूयैरिति विशेषणं, पवित्रै रित्यर्थः । मुजशब्दस्तदानीं सामान्यमाह । विपूयैरित्युक्ते मुक्षैरिव्युपादानमनर्थकम् । एवं कृत्वा पाठान्तरमुच्यते वसानां वल्कले शुद्धे विपूयैरिति । क्षामां कृशाम् । '३०३१ । क्षायो मः ।८।२।५३।' इति निष्टामत्वम् । अञ्जनपिण्डस्येवाभा यस्था अस्तीति तां कृष्णाम् । दण्डिनीं गृहीतदण्डाम् । आस्तीर्यत इति आस्तरः '३२३२ । ऋदोरप् ।३।३।५७ । अजिनमास्तर उत्तरासङ्गो यस्यास्तामजिनास्तराम् ॥ ३५२ - प्रगृह्य-पद-वत् साध्वीं स्पष्ट रूपाम - विक्रियाम् ॥ — अ- गृह्यां वीत काम त्वाद् देव-गृह्याम- निन्दिताम् ६१ प्रगृह्येत्यादि — अविक्रियामजातविकारां अत एव स्पष्टरूपाम् । एवं च साध्वी साधुचरिताम् । किमिव प्रगृह्यपदवत् । यस्य पदस्य प्रगृह्यसंज्ञा तत् प प्रगृह्यम् । '२८६९ । प्रत्याभ्यां ग्रः ।३।१।११८।' इत्यनुवृत्तौ '२८७०। पढ़ा- स्वैरि—।३।१।११९।' इत्यादिना प्रपूर्वाह्न हेः पदेऽभिधेये क्यप् । यथा तत्पदमवि- काररूपत्वात् स्पष्टं साधु च । '९०। द्रुतप्रगृह्या अचि-।६।१।१२५।' इति प्रक- तिभावेन स्वरसन्ध्यभावादित्यर्थः । कथमजातविक्रियेति चेदाह - अगृह्यां ग्रहेर- स्वैरविषये क्यप् । गृह्या अस्वैरिणी अस्वतन्त्रा न भवतीत्यगृह्या । कस्मात् । वीत- कामत्वात् । वीतरागा हि स्वतन्त्रा भवन्ति । देवगृह्याममरपक्षाम् । पक्षविषये क्यप् । एवं चानिन्दितामगर्हिताम् ॥ ३५३ - धर्म - कृत्य - रतां नित्यम-वृष्य फल भोजनाम् ॥ दृष्ट्वा ताम॑मु॒चद् रामो युग्याऽऽयात इव श्रमम् ॥६२॥ धर्मकृत्यरतामित्यादि- पुण्यकर्मरतां नित्यम् । अवृष्यफलभोजनाम् । अवृष्याणीन्द्रियाविकारनिमित्तानि फलानि भोजनं यस्याः । '२८७१॥ विभाषा कृ· वृषोः ।३।१।२०।' इति क्यप् । दृष्ट्वा तां तथाविधाम् । श्रमममुचत् मुक्तवान् । तदर्शनाह्लादित्वात् । युग्यायात इव वाहनं प्राप्त इव क्यप् । '२८७३। युग्यं व पत्रे ।३।१।१२१॥' इति निपातितम् ॥ ३५४ - स तार्मूचे ऽथ - 'कच्चित् त्वम॑मावास्या समन्वये ॥ पितॄणां कुरुषे कार्यम-पाक्यैः स्वादुभिः फलैः ॥ ६३ ॥ स इत्यादि — अथानन्तरं त्यक्तश्रमः स रामः तां शबरीमूचे उक्तवान् । कच्चित्वं किं त्वं पितॄणां कुरुषे कार्यम् । क्यबभावपक्षे '२८७२ । ऋ-हलोर्ण्यत् । १-७५४॥ अजिनं चर्म कृत्तिः स्त्री ।" इति ना० अ० । तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः:- १३९ ३।१।१२४॥ कदा अमावास्यासमन्वये अमावास्यायाः सम्प्राप्तौ अमावास्याया- मित्यर्थः । ८२८७४ । अमावस्यदन्यतरस्याम् ।३।१॥२२॥ इति निपातनम् । तत्र हि अमाराब्दे उपपदे वसेर्धातोरमा सह वसतो यस्मिन्काले सूर्याचन्द्रमसौ इति कालेऽधिकरणे ण्यत् । तस्मिन्नन्यतरस्यां वृद्ध्यभावः । कैः । फलैः स्वादुभिः मिष्ठैः । अपचनीयैः अनुपहतत्वात् '२८७२। ऋहलोर्ण्यत् ॥३।१।१२४॥ ॥ , ३५५ - अवश्य - पाव्यं पवसे कञ्चित् त्वं देव-भाग्ध॑विः ॥ आसाव्यमध्वरे सोमं द्विजैः कञ्चिन् नमस्यसि ॥६४॥ M अवश्यपाव्यमित्यादि - देवभाक् देवान् भजत इति '२९७६ । भजो विः ।३।२।६२ । तद्धविः कचित् किं पवसे पवित्रीकरोपि मन्त्रादिना । ११९। झयो होऽन्यतरस्याम् । ८।४।६२।' इति हकारस्य पूर्वसवर्ण: । '१०३७॥ पूइ पवने' इति भौवादिकः । कीदृशम् । अवश्यपाव्यमवश्यम्भावेन पावयितव्यमित्यर्थः । ८२८८६ । ओवश्यके ।३।१।१२५ । इति ण्यत् । '७५४ । मयूरव्यंसकादय:।२।१२।७२ ॥ इति समासः । 'लुम्पेदवश्यमः कृत्ये तुं काम- मनसोरपि' इति मकारलोपः । सोममोषधि विशेषम् । असाव्यमभिषवार्हम् । आङ्पूर्वा सुनोतेः '२८८७ । आसुयु-वपि - । ३ । १ । १२६।' इत्यादिना ण्यत् । अध्वरे यज्ञे द्विजैः सह कञ्चित्वं नमस्यसि नमस्करोषि । ३५६ - आचाम्यं संध्ययोः कैच्चित् सम्यक् ते न प्रहीयते ॥ कच्चिदग्निमि॑िवो ssनाय्यं काले संमन्यसे ऽतिथिम् ॥ > आचाम्यमित्यादि – प्रभातेऽपराहे च सन्ध्ययोर्यदाचाम्यमुपस्पर्शनम् । पूर्ववत् ण्यत् । कञ्चित्सम्यक् यथावत्तव तत्र न प्रहीयते न तस्य हतिर्भवति । काले आतिथ्योचिते काले कञ्चित् अतिथि संमन्यसे पूजयसि । अग्निमिवानाय्यम् यथा अग्निं आनाय्यम् । दक्षिणाझिं मन्यसे तहत् । '२८८८ आनाय्यो नित्ये । ३।१।१२७।' इति नयतेरापूर्वस्य ण्यदायादेशौ निपात्येते । ३५७ - न प्रणाय्यो जनः कच्चिन् निकाय्यं ते ऽधितिष्ठति ॥ देव - कार्य - विघाताय धर्मद्रोही महोदये ! ॥ ६६ ॥ १–'७१९। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर् मखः ऋतुः ।' इति ना० अ० । २- १२३६ दन्त- विप्रा Sण्डजा द्विजाः । इति ना० अ० । द्विज शब्दार्था स्त्रयः सुन्दरीवृत्तेन- 'द्विजेराज-शिरो-मणेर्भिदां द्विजे-राज- ध्वज - शालिनश्च यः । कलयेन् मनसाऽपि, पात्यतेऽन्तक-भृत्यैः खलु तद्-द्विजाँऽऽवलिः ॥' इति कोशावतंसः । द्विजो विप्रः । द्विजोऽण्डजः पक्षी । द्विजो दन्तः । ३-१४८९ । कच्चित् काम-प्रवेदने ।' ४ – '६९७ । यो गार्हपत्यादानीय दक्षिणाग्नि: प्रणीयते । तस्मिन्नानाय्यः ॥ ५ – '३२४ । गृहाः पुंसि च भूस्येव निकाय्य-निलयाऽऽलयाः' सर्वत्र ना० अ० । 1 १४० भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, न प्रणाय्य इत्यादि महानुदयः स्वर्गापवर्गाणां यस्याः सा तथा हे महो- दये ! देवकार्यविधाताय देवकार्य विहनिष्यामीति । '२१८० । भाववचनाच ।३।३।११।' इति भविष्यति घञ् ॥५८२ । नुमर्थाच्च भाववचनात् ।२।३।१५॥ इति चतुर्थी । प्रणाय्योऽसंमतो जनः । २८८९॥ प्रणाय्योऽसंमतौ ।३।१॥२८। इति निपातितम् । कञ्चित् निकाय्यं गृहं ते तव नाधितिष्ठति नाधिवसति । '२८९०। पाय्य - ।३।१।१२९।' इत्यादिना निवासे चिनोतेर्निपूर्वात् ण्यदायादेशौ आदेः कुत्वं च । '५४२ । अधि-शीङ्- स्थाऽऽसां कर्म ।१।४।४६ ।' इति कर्मसंज्ञा । धर्मद्रोही धर्मद्रोहशीलः ॥ ३५८ - कुण्ड पाय्यत्वतां कच्चिदग्निचित्या-वतां तथा ॥ कथाभी रमसे नित्यमुपचाय्य वतां शुभे ! ॥ ६७ ॥ कुण्डपाय्यवतामित्यादि — कुण्डेन पीयतेऽत्र ऋतौ कुण्डपाय्यः ऋतुः । '२०९१ । ऋतौ कुण्डपाय्य - संचाययौ ।३।१।१३०। ' इति निपातितम् । कञ्चित्क- थासी रमसे । '१७४ । ढलोपे-।६।३।११। इति दीर्घः । तथाग्निचित्यावतां आहिताग्निकानां कथाभी रमसे । २८९३ । चित्यानिचिये च ।३।१।१३२।' इति निपात्यते । अग्निचयनमन्निचित्या । भावे क्यप् । तुक् । तद्वतां यथोपचाय्यवतां उपचीयते इत्युपचाययोऽग्निः । २८९२ । अग्नौपरिचाय्य - ।३।१।१२१।' इति निपातितः । उपपूर्वाच्चिनोतेर्ण्यदायादेशौ । तद्वतां कथाभी रमसे शुभे कल्याणि ॥ इति कृत्याधिकारः ॥ अथ प्रकीर्णका:- अतः परं प्रकीर्णका:- ३५९ - वर्धते ते तपो भीरु ! व्यजेष्ठा विघ्न-नायकान् ॥ अजैषीः काम- संमोहौ, संप्राप्था विनयेन वा ॥६८॥ वर्धत इत्यादि — हे कातरचित्ते, तव तपो वर्धते तस्य च ये विघ्नास्तेषां ये नायकाः प्रणेतारस्तान् व्यजेष्ठाः जितवत्यसि । लुङि '२६८५ । विपराभ्यां जेः ।१।३।१९।' इत्यात्मनेपदम् । कामसंमोहौ कञ्चिदजैषीः जितवत्यसि । '२२९७ । सिचि वृद्धिः -- ।७।२।१। विनयेन वा संप्राप्थाः संप्राप्तासि । कर्मणि लुङ् । '२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः । अत्रानुक्तमपि कञ्चिदिति पदमर्थायोज्यम् ॥ ३६० - नो ऽऽयस्यसि तपस्यन्ती, गुरुन् सम्यगतूतुषः ॥ यमान् नौद विजिष्ठास् त्वं, निजाय तपसे ऽतुषः ६९ १-- ९१७ । पिठरः स्थाल्युखा कुण्डम् ॥ इति ना० अ० । तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १४१ नायस्यसीत्यादि — तपस्यन्ती तपश्चरन्ती कञ्चिन्नास्यसि न खिद्यसे । तपश्चरणशीलीभूतेत्यर्थः । '२६७१। कर्मणो रोमन्थ ।३।१।१५।' इति क्यङ् । 'तपसः परस्मैपदं च । गुरून् आचार्यादीन् सम्यक् यथावदनुवृत्त्याऽतूतुषः तोषितवत्यसि । तुषेर्ण्यन्तस्य लुङि रूपम् । चडि णिलोपादि । यमान्मृत्योर्नो- दुविजिष्टाः नाभैषीः । पुण्यकृतां न मृत्युभयमित्यर्थः । ओविजेरात्मनेपदम् । लुङि सिच इट् । '२५३६। विज इट् ।१।२।२।' इति सिचो ङित्वे न गुणः । निजायात्मीयाय तपसे । अतुषः तुष्टवत्यसि । '२३४३ । पुपादि-।३।१।५५॥' इत्यङ् ॥ ३६१ - अर्थाऽर्घ्यं मधुपर्काऽऽद्यमु॑पनीया॑ ऽऽदराद॑सौ ॥ H अर्चयित्वा फलैरच्या सर्वत्रा ऽऽख्यदनामयम् ॥ ७० ॥ अथेत्यादि – अथानन्तरमसौ शबरी अर्ध्यमर्घार्थम् । '२०९३ । पादार्घाभ्यां च । ५।३।२५॥ इति यत् । मधुपर्काद्यम् । दधिमथुमिश्रमुदकं मधुपर्कः तदाद्यं आदौ भवमाद्यं तदुपनीयादरात् फलैरर्चयित्वा । अच्यौं अर्चनाहौं ण्यत् । राम- लक्ष्मणौ सर्वत्रोकेषु अनामयं कल्याणं आख्यत्कथितवती । '२४३८ । अस्थति- ।३।१।५२।' इत्यङ् ॥ इति प्रकीर्णकाः । अतः परं कृदधिकारः अथ कृदधिकारमाह- कृत्यानां कृदन्तर्भावेऽपि भावकर्मणोः कृत्या इति विशेषप्रतिपादनार्थः पृथगधिकारः । शेषास्तु कृतः कर्तरि भवन्ति '७८ १ । तत्रोपपदं सप्तमीस्थम् । ३।१।९२।' इत्येतदधिकृतम् । यत्रैतन्नावतिष्ठते तान् कृतो दर्शयन्नाह - ३६२ - 'सख्यस्य तव सुग्रीवः कारकः कपि-नन्दनः ॥ त्याह- द्रुतं द्रष्टासि मैथिल्याः,' सैवर्मुक्त्वा तिरो ऽभवत् ॥ सख्यस्येत्यादि — सा शबरी तिरोऽभवदन्तर्भूता । एवमुक्त्वा । किं तदि- इ - तव सख्यस्य सखित्वस्य । ८ १७९१ । सख्युर्यः ।५।१।१२६ । कर्मणि षष्ठी । कारक: सुग्रीवः । २८९५ । - तृचौ ।३।१।१३३।' इति ण्वुल । त्वया सह मैत्रीं करिष्यति । कपिनन्दनः कपीनां नन्दयिता । २८९६ । नन्दि अहि- ।३।१।१३४।' इत्यादिना ल्युः । कृद्योगे षष्ठी । ततो द्रुतं द्रष्टासि मैथिल्याः । पूर्ववत्कर्तरि तृच् कर्मणि षष्ठी । असीति वर्तमाने लट् ॥ ३६३ नन्दनानि मुनीन्द्राणां रमणानि वनौकसाम् ॥ वनानि भेजतुर् वीरौ ततः पाम्पानि राघवौ ॥७२॥ १ – '६१३ । अनामयं स्यादारोग्यम् । इति ना० अ० । १४२ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, नन्दनानीत्यादि – तत उक्तादनन्तरं वीरौ राघवी राजलक्ष्मणौ वनाई भेजतुः सेचितवन्तौ । एत्वाभ्यासलोपौ ' २३०१ । तृ-फल-।६॥४।१२२।' इत्या दिना । पाम्पानीति पम्पाया अदूरम् । १२८२॥ अदूरभवश्च ।४।२।७० इय ण् । मुनीन्द्राणां नन्दनानि प्रमोदकारीणि । वनौकसां वनेचराणाम् । '१३०२ उच्च समवाये ।' अस्मादौणादिकोऽतुम् । पृषोदरादित्वाद्वर्णविपर्ययः । वनमोको येषां तेषां रमणानि रतिजनकानि । '२८९६ । नन्दि - । ३।१।१३४ ।' इत्यादिना ल्युः । कर्मणि षष्टी ॥ ३६४–'भृङ्गाऽऽली-कोकिल-क्रुद्भिर् वाशनैः पश्य लक्ष्मण ! । रोचनैर् भूषितां पम्पा- ॥ म॑स्माकं हृदयाविधम् ॥ ७३ ॥ " भृङ्गालीत्यादि – हे लक्ष्मण ! पम्प पश्य । अस्माकं हृदयाविधम् । चेत:- पीडयन्तीम् । हृदयं विध्यतीति कि । '२४१२ । ग्रहि ज्या । ६।१।१६।' इत्या- दिना संप्रसारणम् । '१०३७ । नहि वृति । ६।३।११६ । इति पूर्वपदस्य दीर्घः । भूषितां । काभिः । भृङ्गालीभिः भ्रमरपतिभिः । कोकिलैः । क्रुभिः क्रौञ्चः । वाशनैः कूजद्भिः । रोचनैः शोभनैः । क्रुङ् इति ' ३७३ । ऋत्विग्- । ३।२।५९ । इत्यादिना क्किन् । निपातनसामर्थ्यादनुनासिकलोपाभाव: । '५४ । संयोगान्तस्य लोपः ।८।२।२३।'। '३७७ । क्विन्प्रत्ययस्य - ।८।२।६२॥ इति कुत्वम् ॥ ३६५ - परिभावीणि ताराणां पश्य मन्थीनि चेतसाम् ॥ उद्भासीनि जले- जानि दुन्वन्त्यै दयितं जनम् ॥७४॥ परिभाचीणीत्यादि –जलेजानि पद्मानि पश्य । १९७२ । तत्पुरुषे कृति- ।६।३।१४।' इत्यादिनाऽलुक् सप्तम्याः । उद्भासीनि भासमानानि । अत एव ताराणां परिभावीणि तिरस्कर्तॄणि । ततश्चेतसा मन्थीनि पीडाकराणि । अतो जनमदयितं प्रियारहितं दुन्वन्ति । १३३६ । टुहुँ उपतापे सौवादिकः । मन्थो- द्भासपरिभूभ्यो ग्रहादित्वाणिनिः ॥ ३६६ - सर्वत्र दयिताऽधीनं॑ सुव्यक्तं रामणीयकम् ॥ येन जातं प्रिया॒ऽपाये कद् वदं हंस- कोकिलम् ॥ ७५॥ सर्वत्रेत्यादि – हे लक्ष्मण ! सर्वत्र यत्किञ्चिद्रामणीयकं रमणीयस्य भावः । ' १७९७ । योपधात्- ।५।१॥३२।' इति वुञ् । तत्सर्वं दयिताधीनं दयितायतम् । '२०७९॥ अषडक्ष- ५॥४॥७॥' इत्यादिनाध्युत्तरपदात्खः । सुव्यक्तं स्पष्टम् । कुतः । प्रियाया अभावे सति हंसकोकिलं हंसाश्च कोकिलाश्चेति शकुनिश्वात् त्वम् । कद्वदं कुत्सितप्रलपितं वदतीति पचाद्यच् । कुत्सितं वदतीति तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः- १४३ ८ १०२८ । रथ वयोश्च । ६।३।१०२।' इति कोः कढ़ादेशः 1 दयितायां सत्यां मधुरमलापमासीदित्यर्थः ॥ ३६७ - पक्षिभिर् वितृदैर् यूना शांखिभिः कुसुमो॒त्किरैः ॥ अ-ज्ञो यो, यस्य वा नो ऽस्ति प्रियः, प्रग्लो भवेन् न सः ॥ ७६ ॥ पक्षिभिरित्यादि – '१५४० । उत्तृदिर हिंसाऽनादरयोः ।' इत्यस्मादिगुप- लक्षणः कः । यूना वितृढैः हिंसकैः पक्षिभिः शाखिभिवृक्षैश्च । ब्रीह्मादित्वा- दिनिः । कुसुमोत्किरैः । उत्किरन्ति उत्क्षिपन्तीत्युत्किराः । पूर्ववत्कः । कुसुमा- नामुत्किराः । कृद्योगलक्षणां पष्ठीं विवाय समासः । तैर्हेतुभूतैः करणभूतैर्वा स प्रग्लो न भवेत् । प्रकर्पेण ग्लायते प्रग्लः । २८९८ आतश्चोपसर्गे ।३।१।- १३६ ।' इति कः । योऽज्ञः गुणदोषानभिज्ञः । जानातीति ज्ञः । पूर्ववत्कः । यस्य वा प्रियो जनो नास्ति तस्य प्रयोजनाभावः सर्वत्र विवेकित्वात् । प्रीणातीति प्रियः । पूर्ववत् कः ॥ ३६८ - ध्वनीनार्मुद्धमैरैभिर् मधूनार्मुद्धयैर् भृशम् ॥ आजिप्रैः पुष्प-गन्धानां पतगैर् ग्लपिता वयम् ॥७७॥ ध्वनीनामित्यादि - पतगैर्भ्रमरैग्लपिताः पीडिताः वयम् । 'ग्ला-स्ना-व- नु-वमां च ' इति मित्त्वात् हस्खः । 'पतेरङ्गच् पक्षिणि' इत्यौणादिकः । कीदृशैः । ध्वनीनामुद्धमैः ध्वनीन् कुर्वद्भिः । १२३६०। पात्रा-ध्मा - ।७।३।७८।' इति धमा- देशः । मधूनामुद्धयैः मधूनि पुनः पुनः पिबद्भिः । ९६८ । धेट् पाने' इत्यस्याया- देशः । आजित्रैः पुष्पगन्धानां पुष्पगन्धान् जिद्भिः । पूर्ववजिघ्रादेशः । सर्वत्र '२८९९ । पा-घ्रा ध्मा - वेट्-दृशः शः । ३।१।१३७।' इति शः । कृद्योगलक्षणा पष्ठी ॥ ३६९ - धारयैः कुसुमा॑मो॒णां पारयैर् बाधितुं जनान् ॥ शाखिभिर् हा हता भूयो हृदयानामुदेजयैः ॥ ७८ ॥ धारयैरित्यादि - हा कष्टं शाखिभिर्दुमैर्भूयोऽत्यर्थं वयं हताः । कीदृशैः । हृदयानामुदेजयैः चेतसामुकम्पकैः । धारयैः कुसुमोमणां कुसुमनिचयान् धार- यद्भिः । जनान् मद्विधान् बाधितुं पीडयितुं पारयद्भिः समः । १९६६। ट्ञ् धारणे', '११६०। यूँ पालन-पूरणयोः', '२३३। एजूँ कम्पने च ।' एभ्यो णिजन्ते- भ्यः '२९००। अनुपसर्गाल्लिम्प - विन्द - 1३।१११३८ ।' इत्यादिना शः ॥ १ – '३५३ । वृक्षो महीरुहः शाखी विटपी पादपस् तरुः । अनोकहः कुट: शाल: पलाशी द्रु-द्रुमागमाः ॥ इति ना० अ० । १४४ भट्टि - काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, ३७० - ददैर् दुःखस्य माहग्भ्यो धायैरामोदर्मुत्तमम् ॥ । लिम्पैरिव तनोर वातैश चेतयः स्याज् ज्वलो न कः. ददै रित्यादि – वातैर्ददैः दुःखस्य दुःखं ददद्भिः । केभ्यः । मादृग्भ्यः । अस्सा- दृशेभ्यो विरहिभ्यः । '४२९ । यदादिपु दशोऽनालोचने कञ्च ॥३।२।६० ।' इति क्किन् । '१०१७। दृग्–श - चतुषु ।६।३।८९१ । ' इत्याकारः । धायैरामोदमुत्तमं आमोदं प्रियासङ्गमेन हर्ष यावरहियो दत्तस्य दुःखस्य धायैः पोषकैरियर्थः । उत्तममिति क्रियाविशेषणम् । उत्तममामोदं धायैः कुसुमानां परिमलं धारय- द्भिरिति व्याख्याने अनित्यत्वात् कृत्प्रयोगे कर्मषष्ट्यभावः । लिम्पैरिव तनोः शरीरं लिम्पनिर । वर्हेतुभिः । को नाम विरहाग्निना यश्चेतयमानः ज्वलन्ननिरिव न स्यात् । किन्तु भवेदेवेति भावः । दुदैर्धायैरिति २९०३ । श्याव्यधा । ३।११- १४१॥ इति आकारान्तलक्षणे शे प्राप्ते ' २९०१ । ददाति दधात्योः । ३ । १ । १३९ । ' इति शाणों भवतः । शे आतो लोपः । णे चातो युक् । लिम्पश्चेतय इति '२९००। अनुपसर्गात्- । ३।१।१३८ ।' इति शः । ज्वल इति ' २९०२ । ज्वलिति- कसन्तेभ्यो णः ।३।१।१४० ।' इति णस्य विकल्पनात्पचाद्यच् ॥ ३७१ - अवैश्याय काऽऽस्रावाश् चारु-मुक्का-फल- त्विषः ॥ कुर्वन्ति चित्त संस्रावं चलत् पर्णाऽग्र-संभृताः ॥ ८० ॥ अवश्यायेत्यादि —– अवश्यायत इत्यवश्यायः । तस्य कणा विन्दवः । आस्र- वन्तीत्याखावाः क्षरन्तः । '२९०३ । इयाव्यधा-।३।१।१४१॥ इति णः कर्तरि । तयोविंशेषणसमासे राजदन्तादित्वात्परनिपातः । ते कुर्वन्ति चित्तसंस्रावम् । संस्रवतीति संस्रावः । पूर्ववत् णः । चित्तं संस्रावं चलत्कुर्वन्ति इत्यर्थ: । पूर्ववत् समास - परनिपातौ । कीदृशाः, चलत्पर्णाग्रसंभृताः संगलिताः । अत एव चारु. मुक्ताफलत्विषः दर्शनीयमुक्ताफलानुकारिणः । सीताहारस्थमुक्ताफलानि स्मार- यन्तीत्यर्थः ॥ ३७२ - अवसायो भविष्यामि दुःखस्या॑ ऽस्य कदा न्व॑हम् ॥ न जीवस्या॑ ऽवहारो मां करोति सुखिनं यमः ॥ ८१ ॥ अवसाय इत्यादि - कदा नु काले अहं दुःखस्यानुभूयमानस्य अवसायो- उन्तकरो भविष्यामि येन जीवस्यावहारोऽवहर्ता यमो मां सुखिनं न करोति मारयतीत्यर्थः । अवस्यति इति अवसाय: । '१२२२ । षोऽन्तकर्मणि' । अवहर- तीत्यवहारः । '२९०३ । श्याच्यघा - ।३।१।१४१॥ इति सर्वत्र णः । युक् ॥ ३७३ - दह्ये ऽहं मधुनो हैर् दारुयैर् यथा गिरिः, ॥ १ नायः कोऽत्र स, येन स्यां वता॑ ऽहं विगत-ज्वरः ॥८२ ॥ १-१०१ अवश्यायस तु नीहारस तुषारस् तुहिनं हिमम् । प्रालेयं मिहिका न्च । इति ना० अ० । तथा लक्ष्य-रूपे कथानके सुग्रीचाऽभिपेको नाम षष्ठः सर्गः- १४५ दह्य इत्यादि — मधुनो हैर्भुङ्गैः अहं दो । '२९०३। श्याद्व्यधा-।३।११- १४१।' इति णः । दावैर्वनाग्निभिस्यैः प्रचण्डैर्यथा गिरिर्दयते तद्वत् । अत्र को नायः नयतीति नायः उपाय: ईप्सितप्रापकः । उभयत्र '२९०४ । दु-न्योः-१३।- १।१४२ । ' इति णः । येन नायेन विगतज्वरः विगतपीड: स्यामिति । आशंसायां लिङ् । बत खेदे ॥ ३७४ - समाविष्टं ग्रहेणैव ग्राहेणैवा ऽऽत्तर्मर्णवे ॥ दृष्ट्वा गृहान् स्मरस्यैव वना॒ऽन्तान् मम मानसम्. ८३ समाविष्टमित्यादि – वनान्तान् वनपर्यन्तान् । स्मरस्य कामस्य गृहमेिव । उन्मादकत्वात् । '२९०६ । गेहे कः । ३ । १ । १४४ । इति ग्रहेः कः । अर्धर्चादि- पाठात् पुंलिङ्गता । दृष्ट्वा मम स्थितस्येत्यर्थात् योज्यम् । अन्यथा कथं समा- नकर्तृकत्वम् । मानसं चेतः ग्रहेणाङ्गाकारकादिना । समाविष्टमिव विगृहीतमिव । ८२९०५ । विभाषा ग्रहः ।३।१।१४३।' इति णप्रत्ययः । अचोऽपवादः । तत्र व्यवस्थितविभाषाविज्ञानात् जलचरे ग्राहः ज्योतिपि ग्रह इति जलचरे वाच्ये- sचोपवादो णप्रत्ययः । ज्योतिपि वाच्येऽच् प्रत्ययः । ग्राहेणेवात्तमर्णवे। अर्णः पानीयं यत्रास्तीति । १९१६ । केशादोऽन्यतरस्याम् ।५।२।१०९ ।' इत्यत्र 'अर्ण- सो लोपश्च' इति भूनि नित्ययोगेऽतिशायने वा वः सलोपश्च । अर्णवे समुद्रे वर्तमानेन ग्राहेण नक्रादिना आत्तं गृहीतम् । आइपूर्वस्य दाज: '३०७८ । अच उपसर्गात्तः ।७।४।४७॥ ॥ ३७५ - वाताऽऽहति चलच्-छाखा नर्तका इव शाखिनः ॥ दुःसहा ही परिक्षिप्ता: कणद्भिर॑लि-गाथकैः ॥ ८४ ॥ वातेत्यादि – ही कष्टं एते शाखिनः नर्तका इव । '२९०७ । शिल्पिनि ध्वुन् । ३।१।१४५ ।' दुःसहा दुःखेन सह्यन्त इति '३३०५ । ईषद् - । ३।३॥२६। इत्यादिना खल । नर्तकैः साधर्म्यमाह । वाताहतिचलच्छाखा वाताहतिभिः चलन्त्यः शाखा बाहुलता इव येषां ते । अलयो भ्रमराः वणन्तः । गाथका गा- यना इव । २९०८ गस्थकन् ।३।१।१४६ ।' तैश्च परिक्षिप्ताः परिवेष्टिता इति ॥ ३७६-एक-हायैन-सारङ्ग-गती रघु-कुलोत्तमौ ॥ लवकौ शत्रु-शक्तीनामृष्यमूकम॑गच्छताम् ॥ ८५ ॥ एकहायनेत्यादि – रघुकुलोत्तमौ रामलक्ष्मणौ ऋष्यमूकमगच्छतां गत वन्तौ । लङि रूपम् । हायनः संवत्सरः स एको यस्य सारङ्गस्य मृतस्य तस्येव गतिर्ययोः शीघ्रगामित्वात् । '२९१० । हश्र व्रीहि-कालयोः ।३।१।१४८ । इति हा धातोर्युट् । आतो युक् । तौ शत्रुशक्तीनां लवकौ अपनेतारौ । '२९११॥ - 'भूम निन्दा- प्रशंसासु नित्ययोगेऽतिशायने ॥ इति मत्वर्थीय इत्यर्थः । २ – '१५२॥ संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत् समा: ।' इति ना० अ० । भ० का० १३ १४६ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, शु-सृ-ल्वः समभिहारे - 1३११११४९ ।' इति । तत्र समभिहार सका रित्वोपलक्षणार्धम् ॥ "" ३७७ - तौ वालि- प्रणिधी मत्वा सुग्रीवो ऽचिन्तयत् कपिः ॥ 'वन्धुना विगृहीतोऽहं भूयासं जीवकः कथम् ' ॥८६॥ तावित्यादि – तौ रामलक्ष्मणौ वालिनः प्रणिधी चरौ भत्वा सुग्रीवः कपिरचिन्तयत् चिन्तितवान् । प्रणिधीयते नियुज्यते कार्येषु प्रणिधिः । '३२७०। उपसर्गे धोः किः ।३।३।१२॥ बन्धुना भ्रात्रा विगृहीतो विरोधितः सन् कथं जीवको भूयासमिति । आशंसायां लिङ् । जीवेः '२९१२ । आशिषि च ।३।१११५०।' इति कुन् ? इति निरुपपदकदधिकारः । इतः प्रभृति '७८१॥ तत्रोपपढ़ सप्तमीस्थम् । ३।१।९२॥ इति अस्योपस्थापनेन कृतो दर्शयन्नाह ३७८-स शत्रु लावौ मन्वानो राघवौ मलयं गिरिम् ॥ जगाम स-परीवारो व्योम-मायमि॑िवत्थितम् ॥ ८७ ॥ स इत्यादि- इस सुग्रीवः सपरीवारः सपरिकरः । '१०४४ । उपसर्गस्य धजि- ।६।३॥२२।' इति दीर्घः । कपीनाममनुष्यत्वात् । मलयं गिरिं जगाम । राववौ शत्रुलावौ शत्रून् लुनातीति २९१३ । कर्मण्य । ३।२।१॥ शत्रूणामुन्मूलकाविति मन्वानोऽवगच्छन् । '१५६६। मनु अवबोधने ।' इत्यस्मादात्मनेपदिनः '२४६६। तनादिकृञ्भ्य उः ।३।१।७९। व्योममायमिवोत्थितं व्योम आकाशं मिमीत इति ८२९१४॥ ह्वावामश्च ।३।२।२।' इत्यण् । नभः परिच्छेत्तुमिवोत्थितं किय प्रमाणमस्येति ॥ ३७९ - शर्म दं मारुतिं दूतं विषम स्थः कपि- द्विपम् ॥ . शोकऽपनु॒दम॑ व्यग्रं प्रायु कपि- कुञ्जरः ॥ ८८ ॥ शर्मदमित्यादि-कपिकुअरः सुप्रीवः हनूमन्तं दूतं प्रायुद्ध प्रस्थापितवान् '७४१॥ वृन्दारक-नाग- कुञ्जरैः-।२।१।६२।' इत्यादिना कर्मधारयः सः । वृत्तान्तं ज्ञातुमित्यर्थात् प्रायुत इति '२७३५ । प्रोपाभ्यां युजेः- ।१।३।६४।' इत्यात्मनेपदम् । '२५४३ । रुधादिभ्यः श्रम् ।३।१।७८ । कपिकुञ्जरः किम्भूतः । विषमे दुर्गपर्वते तिष्ठतीति विषमस्थः । '२९१६। सुपि स्थः ।३।२।४।' इति कः । मारुतिं कीदृशम् । शर्म कल्याणं ददातीति शर्मदः । '२९१४ । आतोऽनुपसर्गे कः । ३।२।३।' इति कः । श्रेष्टत्वमाह । कपिद्विपं कपिश्रेष्ठम् । द्वाभ्यां पिबतीति द्विपः । कपिरयं द्विप इव । '७३५ । उपमितं व्याघ्रादि ।२।१॥५६॥ इत्या– १७७६ । यथार्हवर्णः प्रणिधिरंपसर्पश् चरः स्पशः । चारश् च गूढपुरुषः ॥ इति : ना० अ० । तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १४७ दिना कर्मधारयः । पुनः कीदृशम् । शोकापनुदं शोकमपनुदति । '२९१९ । तुन्द शोकयोः - ।३।२॥५॥' इति कः । अव्यग्रं सुचित्तमित्यर्थः ॥ ३८० - विश्वास-प्रद-वेपो ऽसौ पथि प्रज्ञः समाहितः ॥ चित्त-संख्यो जिगीषूणामुत्पपात नभस्तलम् ॥८९॥ विश्वासेत्यादि-- असौ मारुतिनभस्तल मुत्पपात । विश्वासं प्रददातीति विश्वासप्रदः । '२९२० । ये दाज्ञः । ३।२।६॥ इति कः । विश्वासप्रदो वेषो यस्य भिक्षुवेष इत्यर्थः । वेष्यते आत्मानेनेति ३१८८१ अकर्तरि च कारके - ।३।३।१९॥ इति घञ् । '११७० । विप् व्याप्त इत्यस्य रूपम् । पन्थानं प्रजानातीति पथि- प्रज्ञः समाहितः अभ्रान्तचित्तः 'इदमादिष्टं इदं च मया तत्र वक्तव्यम्' इति । जिगीपूणां जेतुमिच्छताम् । चित्तसंख्यः चित्तं संख्याति परिच्छिनत्तीति '२९२१ । समि ख्यः । ३।२।७।' इति कः ॥ ३८१ – सुरा-पैरि॑िव घूर्णद्भिः शाखिभिः पवना॒ऽऽहतैः ॥ ऋष्यमूकम॑गाद् भृङ्गैः प्रगीतं साम-गैरव ॥ १० ॥ सुरापैरित्यादि —मारुतिर्ऋष्यमूकमगात् । शाखिभिरुपलक्षितम्। धूर्णद्भिः कम्पमानैः पवनाहतत्वात् । अत एव सुरापैरिव मत्तैरिव । '२९२२ । गापोष्टक् ।३।२।८।' इत्यत्र 'पिबतेः सुरा- शीध्वोः' इति टफ् । प्रगीतं प्रगीयतेऽन्नेति । अधिकरणे क्तः । कैर्भृङ्गैः सामगैरिव सामवेदपाठकैरिच । साम गायन्तीति '२९२२॥ गापोष्टक् ।३।२।८।' ॥ ३८२ - तं मनो-हरमा॑गत्य गिरिं वर्म- हरौ कपिः ॥ M वीरौ सुखा ssहरो ऽवोचद् भिक्षुर् भिक्षार्ह-विग्रहः ॥ तमित्यादि — ऋष्यमूकं गिरिमागत्य कपिवरौ रामलक्ष्मणौ अवोचत् उक्त- वान् । कीदृशम् । मनोहरं रम्यत्वात् । मनो हरतीति '२९२३ । हरतेरनुद्यमनेऽच् ।३।२।९।' वर्महरौ कवचं हर्तुं क्षमौ । संभाव्यमानवयसावित्यर्थः । '२९२४ । वयस च । ३।२।१०।' इत्यच् । सुखाहरः सुखाहरणशीलः । '२९२५॥ आङि ताच्छील्ये ।३।२।११।' इत्यच् । भिक्षुः परिव्राङ्केषः न कपिरूपः यतो विश्वासप्रदद्वेष इत्युक्तम् । भिक्षार्ह विग्रहः भिक्षायोग्यशरीरः कृशत्वादित्यर्थः । भिक्षामर्हतीत्यच् ॥ ३८३ - 'बलिनावमुद्रीन्द्रं युवां स्तम्वे रमावि॑व ॥ आचक्षाथां मिथः कस्माच्छेङ्करेणा॑ ऽपि दुर्गमम् ॥ ९२॥ १ – ८८२९ । तनुत्रं वर्म दंशनम् ।' २ - '६३४ । अथ कलेवरम् । गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ३–७९९ । दन्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः ॥ मतङ्गजो गजो नागः कुञ्जरो वारणः करी । इभः स्तम्बेरमः पद्मी ।" इति ना० अ० ॥ १४८ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, चलिनावित्यादि-युव अ अन्द्रम् । कस्मात् कारणान्जिथः प्राप्ती : ८ १११८ । इण् गतौ ।' इलस्मात् '२७८९ । वर्तमानसामीप्ये वर्तमानवद्वा ।३।३॥३१।' इति यसि रूपम् । भूते लट् थस् । मुतदाचक्षार्थी कथयतस् ! लोटि रूपम् । बलिनौ बलवन्तौ । यतः शङ्करेणापि महादेवेनापि दुर्गमं दुःखेन गम्यते । काविव । स्तम्बेरमाविव यथा मत्तद्विपौ ग्रानुतस्तद्वत् । २९२७ । स्तम्ब कर्णयोः– ।३।२।१३।' इत्यच् । कर्तरि हस्तिन्यभिवेये 'हतिसूचकयो:: इति वचनात् । शङ्कर इति '२९२८। शमि धातोः - ।३।२।१४।' इत्यच् ॥ दुर्गमत्वदर्शनायाह ३८४ व्याप्तं गुहा- शयै: क्रूरै: ऋव्याद्भिः स - निशाचरैः ॥ तुङ्ग-शैल- तरु-च्छन्नं मानुपाणार्म - गोचरम् ॥ १३ ॥ व्याप्तमित्यादि- कीदृशमद्रीन्द्रं ऋव्यमपक्कमांस भक्षयद्भिः । क्रव्योपपदा- दुदेः '२९७८। क्रव्ये च ।३।२।१९॥ इति । क्रूरैः हिंसकैः सिंहादिभिः सनिशाचरैः राक्षससहितैर्व्याप्तम् । गुहाशयैः गुहायां शेरते इति शीङ: '२९२९॥ अधिकरणे शेतेः ।३।२।१५।' इत्यच् । तुङ्गाः उच्चा: शैलाः झिलायां भवा ये तरवस्तैश्छन्नं व्याप्तम् । अत एव मानुषाणामगोचरं अगम्यम् । १३२९८ । गोचर- सञ्चर - ।३।३।११९॥' इत्यादिना निपातितः ॥ प्रागुक्तष्टाधिकारः । इत ऊर्ध्वं खशादिप्रत्ययानाह- ३८५ - सत्त्वमेजय सिंहा॒ऽऽढ्यान् स्तनं - धय-सम-त्विपौ ॥ कथं नाडिंधमान् मार्गानगतौ विषोपलान् ॥९४॥ सत्त्वमित्यादि — युवामिमान् मार्गानागतौ । सत्त्वमेजयसिंहाढ्यान् । सत्त्व भेजयन्ति ये सिंहाः । '२९४१ । एजेः खश ।३।२।२८॥ '२९४२ । अरुद्विषत् –।६।३।६७७' इति मुम् । तैराढ्यान् व्याप्तान् । सिंहग्रहणं तद्वद्धिंस्रोपलक्षणार्थम् । हिनस्तीति सिंहः । पृपोदरादित्वाद्वर्णविपर्ययः । नाडिन्धमानिति । उच्चनीचाधि- रोहणात् मुहुर्मुहुर्निःश्वासैनडिं धमन्तीति '२९४५ । नाडी- मुट्यो । ३ । २।३०॥ इति खश् । '२९४३ । खत्यनव्ययस्य ॥६॥३॥६६ ।' इति हस्वः । विपमोपलान् उन्नतपाषाणयुक्तान् । स्तनन्धयसम त्विषौ बालवत्सुकुमारौ । सामर्थ्यं पुनर्युवयो- रचिन्त्यम् । स्तनं धयतः पिबतः । २९४४ । नासिका स्तनयोः -- । ३।२।२९॥ इति खश् । '२९४२। अरुर्द्विपद् । ६।३।६७।' इति मुम् ॥ । · ३८६ - उत्तीर्णौ वा कथं भीमाः सरितः कूलमुद्रहाः ॥ आसादितौ कथं ब्रूतं न गजैः कूलमुद्रुजैः ॥ ९५ ॥ उत्तीर्णा वित्यादि – कथं वा केनोपायेन युवां सरितो नदीरुत्तीगौं । भीमा- – '१११५। उच्च प्रांशून्नतोदग्रोच्छ्रिताम् तुङ्गे०' इति ना० अ० । तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षाढ़ः सर्गः- १४९ २९४६ । उदि कुले - १३॥२॥३१॥ इति खश । गजैः कूलमुद्रुजैः कूलं भिन्दद्भिः कथं नासादितौ न व्यापादितौ इति ब्रूतं कथयतम् ॥ स्त्रासकरीः यतः कूल मुद्दहाः कूलमापूर्व वहन्त्यः । ३८७ - रामो ऽवोचर्द्धनूमन्तम् 'आवाम॑त्रं लिहं गिरिम् ॥ ऐव विद्वन् ! पितुः कामात् पान्तावल्पं पचान् मुनीन् ॥ ९६ ॥ राम इत्यादि – हनुर्वदनैकदेशः स निन्दितोऽस्यास्तीति निन्दायां मतुप् । '३५३९। अन्येषामपि दृश्यते ।६।३।१३७।' इति दीर्घः । 'हनुमान् हनुमानपि' इति विश्वदर्शनात् । तत्य किल जातमात्रस्य आदित्यरथं गृह्णतो हनुद्रयं भग्नमिति श्रूयते । तं रामोऽदोवत् उक्तवान् । तत् किमियाह - हे विद्वन्, यदमुं गिरि- मावामैव आगतौ तत् पितुः कामादभिप्रायात् । आङ्पूर्वादिणो लङि रूपम् । अश्रंलिहमुच्चैस्तरम् । अञं लेढीति '२९४७ । वहाभ्रे लिहः । ३॥२।३२।' इति खश । किं कुर्वाणौ । पान्तौ रक्षन्तौ । मुनीन् अल्पम्पचान् अल्पसन्तुष्टान् । अल्पं पचन्तीति २९४९ । मितनखे च ।३।२॥३४॥' इति मितेत्यर्थग्रहणात् खश । चकारस्यानुक्तसमुच्चयार्थत्वाद्वा ॥ कः पुनः पिता यदादेशादागतावित्यत आह - ३८८ - अ - मितं - पचमीशानं सर्व-भोगीणमुत्तमम् ॥ आवयोः पितरं विद्धि ख्यातं दशरथं भुवि ॥ १७ ॥ अमितम्पचमित्यादि — आवयोः पितरं दशरथनामानं भुवि विख्यातं विद्धि जानीहि । '२४२५। हु-झलभ्यो हेर्धिः ।६।४।१०१॥' अमितम्पचं महास- त्रिणं पूर्ववत् खश मुम् च । ततो नसमासः । ईशानमीशनशीलं स्वामिनमि- त्यर्थः । '३१०९ । ताच्छील्य । ३।२।१२९।' इत्यादिना चानश् । सर्वभोगीणं सर्वसच्चभोगाय हितम् । '१६७० । आत्मन् विश्वजन - ।५।१।९।' इति खः । भोग- शब्दोऽत्र शरीरवाची । १९७ अट्-कुप्वाङ्- ।८।४।२।' इत्यादिना णत्वम् ॥ यदि पितुरादेशादागतौ किमत्र गमनेनान्वेषयथ इत्याह - ३८९ - छलेन दयिता करण्याद् रक्षसा ऽरूं तुदेन नः ॥ अ- सूर्य-पश्यया मूर्त्या हता, तां मृगयावहे.' ॥ ९८ ॥ छलेने त्यादि — नोऽस्माकं दयिता अरण्याद्वाक्षसेन हृता । कीदृशेन । अरुन्तुदेन मर्मस्पृशा । '२९५० । विध्वरुषोस्तुदः ।३।२।३५॥ इति खश् । मुम् । असूर्यम्पश्यया आदित्यगोप्यया मूर्त्या शरीरेणोपलक्षिता । '२९४१ । असूर्य-लला१–१४४६ । इच्छामनोभवौ कामौ ।' इति ना० अ० । १५० भट्टिकाव्ये द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथगो वर्गः, टयोः - ।३।२।३६।' इति खश् । तां हृतां मृगयावहे गवेषयावः । २०४६। मृग अन्वेषणे' स्वार्थिकण्यन्तः । युवयोः पौरुपान्वितत्वात् कथं हृतेत्याह-लेन छद्मना ॥ त्वं पुनः कस्य बेत आहWASYO ३९० - प्रत्यूचे मारुती रामम्-'अस्ति वालीति वानरः ॥ शमयेदपि संग्रामे यो ललाटं तपं रविम् ॥ ९९ ॥ प्रत्यूच इत्यादि — रामं मारुतिः प्रत्यूचे प्रत्युक्तवान् । अस्ति वालीति नाम्ना कपीश्वरः यः संग्रामे युद्धे ललाटन्तपं सर्वेषामुपरि वर्तमानं रविं पूर्ववत् खश् । शमयेत् पराजयेदिति सम्भावने लिङ् । वालिशब्दो नान्तः इदन्तश्च । तथा च 'वाली वालिश्च कथ्यते' इति शब्दभेदः ॥ ३९१ - उग्रं पश्येन सुग्रीवस् तेन भ्राता निराकृतः ॥ 3 तस्य मित्रीयतो दूतः संप्राप्तो ऽस्मि वशं बदः, १०० उन्नम्पश्येने त्यादि — तेन भ्राता उग्रम्पश्यता पापं विजानता । '२९५२ उग्रम्पश्य-।३।२।३७।' इत्यादिना निपातितम् । यश्च सुग्रीवो निराकृतोऽभिभू- तस्तस्य हि दूतः प्राप्तोऽस्मि । वशंवदः । वशमनुकूलं वदतीति वशंवदुः । '२९३५। प्रिय -वशे वदः खच् ।३।२।३८ ।' कीदृशस्य । मित्रीयतो मित्रमिच्छतः । '२६५७ । सुप आत्मनः क्यच् ।३।१॥८॥ ॥ किं तेन सख्येति चेदाह, ३९२ - प्रियं वदो ऽपि नैवा॑ ऽहं ब्रुत्रे मिथ्य परं-तप ! ॥ सख्या तेन दश ग्रीवं निहन्तासि द्विपं तपम् ॥१०१॥ प्रियंवद इत्यादि - प्रियंवदतथा लोको मिथ्या वदति । अहं प्रियंवदोऽपि नैव मिथ्या ब्रुवे वदामि । पूर्ववत् खच् । परन्तप शत्रूणामुपतापयितः । २९५४ । द्विषत्-परयोः- ।३।२।३९॥ इति खच् । तेन सुग्रीवेण सख्या मित्रेण दशग्रीवं निहन्तासि हनिष्यसि । हन्तेर्लुटि रूपम् । कीदृशं द्विपन्तपम् । शत्रूणामुपतापयि- तारम् । पूर्ववत् खच् ॥ ३९३ - वाचं - यमोऽहम॑नृते सत्यमेतद् ब्रवीमि ते ॥ एहि, सर्व-सहं मित्रं सुग्रीवं कुरु वानरम् ॥ १०२ ॥ वाचंयम इत्यादि – '२९५७ वाचंयम- पुरन्दरौ च ।६।३।६९ । ' इति मुमागमो निपात्यते । तस्मात् सत्यमेतत् पूर्वोक्तम् । ब्रवीमि ते तुभ्यम् । ताद १ – ११३८ । सत्यं ब्रूयात् प्रियं ब्रूयात् न ब्रूयात् सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥' मनुस्मृतिः अ० ४ । इति मर्म जाननाह - 'नैवाऽहं ब्रुवे मिथ्या' इत्यादि । २-७४९। तपस्वी तापसः पारिकाङ्क्षी वाचंयमो मुनिः ।" इति ना० अ० । तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १५१ चतुर्थी । यत एवं तस्मादेहि आगच्छ । सुग्रीवं वानरं मित्रं कुरु । कीदृशम् । सर्वसह सर्व सहत इति २९५८ । पूःसर्वयोः ।३।२।४॥' इति खच् ॥ ३९४ - सर्व कष- यशः - शाखं राम-कल्प-तरुं कपिः ॥ आदायs भ्रं कपं प्रायान् मलयं फल-शालिनम्. १०३ सर्वकषेत्यादि- - रामः कल्पतरुरिव यस्तमादाय गृहीत्वा कपिः प्रायात् गतः । कीदृशं रामम् । सर्वङ्कपयशः शाखं सर्वे कपन्ति व्यामुवन्ति यानि यशांसि '२९५९। सर्व-कूल-।३।२।१२।' इत्यादिना खच् । तान्येव शाखा यस्य । फल- शालिनमभिमतफलसम्पादनात् । अभ्रकपमुच्चैस्तरं मलयम् । पूर्ववत् खच् ॥ ३९५ - मेघं-करमियान्तभृ॑तुं राम॑ मा॒न्वितः ॥ दृष्ट्वा मेने न सुग्रीवो वालि- भानुं भयं-करम् ॥१०४॥ मेघङ्करमित्यादि — राममायान्तं दृष्ट्वा । सुग्रीवो वालिर्न भानुमिव भयंकरं भीतिजनकं न मेने न बुद्धवान् । '२९६० । मेघर्ति । ३।२।४३ ।' इत्यादिना खच् । कुमान्वितो ग्लानो वालिभानुना पीडितत्वात् । कीदृशं रामम् । मेघङ्करं ऋतुमिव प्राकालमिव । पूर्ववत् खच् ॥ ३९६ - उषा॒ न्य॑कुरुतां सख्यमंन्योन्यस्य प्रियं-करौ, ॥ क्षेमं कराणि कार्याणि पर्यालोचयतां ततः ॥ १०५ ॥ उपानीत्यादि – उपानि अझिसमीपे रामसुग्रीवौ सख्यमकुरुतां 'इतःप्रभृ- त्यावयोः सख्यम्' इति । अन्योन्यस्य प्रियकरौ । १२९६१ । क्षेम प्रियमद्वेऽपच ।३।२॥४।४।' इति चकारात् । ततः सख्यकरणानन्तरं क्षेमङ्कराणि हितजनकानि यथास्वं कार्याणि प्रत्यालोचयतां निरूपितवन्तावित्यर्थः । पटपुटेत्यत्र चुरादिकाण्डे धातौ लोच पठ्यते तस्य लङि रूपम् ॥ ३९७ - आशितं भवर्मुत्क्रुष्टं वगितं शयितं स्थितम् ॥ बहमन्यत काकुत्स्थः कपीनां स्वेच्छया कृतम्. १०६ आशितम्भवमित्यादि — आशितम्भवमशनम् । ८२९६२ । आशिते भुवः करण-भावयोः । ३।२।४५ ॥ इति खच् । उत्क्रुष्टं किलकिलायितम् । वल्गितं धाव- नम् । तथा शयितं स्थितं च कपीनां स्वेच्छया कृतं एतत्काकुत्स्थो बह्वमन्यत लाधितवान् । पुण्यभाज इमे यदेषां स्वेच्छाविहारिणां चेष्टितं, अस्माकं तु शोकसन्तप्तानां न किंचिदस्तीति । सर्वत्र भावे निष्ठा ॥ ३९८ - ततो बलिं दम - प्रख्यं कपि - विश्वं-भराऽधिपम् ॥ सुग्रीवः प्राब्रवीद् रामं वालिनो युधि विक्रमम् ॥ १०७॥ तत इत्यादि- - ततः कार्यालोचनानन्तरं सुग्रीवोऽब्रवीत् । लडि '२४५२॥ ब्रुव ईट् ।७।३। ९३ । ' किमुक्तवान् । वालिनो युषि विक्रमं शौर्यमिति प्रधानं कर्म . १५२ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे गथमो वर्गः, राममित्यकथितम् । कीदृशं रामम् । बलिन्दमप्रख्यं विष्णुतुल्य । दालें दमय- तीति '२९६३) संज्ञायां भृ-तृ-वृजि - ।३।२।४६ । इत्यादिना खच् । अनन्तस्य निव्वहस्रत्वे । तथा विश्वं बिभर्तीति विश्वम्भरा तस्या अधिपं अधिपातीयधिपः । '२८९८ । आतश्योपसर्गे - ।३।१।१३६ ।' इति कः ॥ ३९९ - 'वसुं धरायां कृत्स्त्रायां नोऽस्ति वालि-समो वली ॥ हृदयं -गममेतत् त्वां ब्रवीमि, न पराभवम् ॥ १०८ ॥ वसुन्धरायामित्यादि - वसुन्धरायाम् । पूर्ववत् खच् । बालिना समो- ऽन्यो वली बलयुक्तो नास्तीति हृदयङ्गमं मम । स्वानुभवं हि वस्तु हृदयङ्गममि- व्युच्यते । तेन संज्ञायामित्यधिकृत्य '२९६४ । गमश्च ।३।२।४७ ।' इति खच् । न पुनस्त्वां पराभवमभिभवं ब्रवीमि ॥ इति खजधिकारः । एवंपराक्रमोऽसौ तत्र किं त्वं करिष्यसीत्याह- ४०० - दूर-गैरन्त गैर वाणैर् भवान॑त्यन्त-गः श्रियः ॥ अपि संक्रन्दनस्य स्यात् क्रुद्धः किमुत वालिनः १०९ दूरगैरित्यादि – यतो भवान् क्रुद्धः सन् संक्रन्दनस्यापि शक्रस्यापि । '२८- ९६। नन्दि-ग्रहि ।३।१।१३४ ।' इत्यादिना ल्युः । बाणैः करणभूतैः । दूरगैः दूरं गच्छन्तीति । अन्तगैः कार्यसमापकैः । '२९६५ । अन्तात्यन्त - ।३।२।४८।' इत्या दिना डः । श्रियो लक्ष्म्या अत्यन्तगः विनाशयिता स्यात् । अत्यन्तं पर्यवसानं गच्छतीति । किं पुनर्वालिनो लक्ष्म्या अत्यन्तगो भवान्विनाशयितेति ॥ ४०१ - वरेण तु मुनेर् वाली संजातो दस्युहो रणे ॥ अ-वार्य प्रसरः प्रातरुद्यन्नव तैोऽपहः ॥ ११० ॥ वरेणेत्यादि — मुनेस्तु वरेण दम्युहः दस्यून् शत्रून् वध्यादिति । '२९६६॥ आशिषि हनः ।३।२।४९।' डः । अतो रणे अवार्यप्रसरोऽनभिभवनीयगतिः सञ्जातः । क इव । तमोऽपह इव तमोऽपहः आदित्यः । तमोऽपहन्तीति । १२९६७ । अपे क्लेशतमसोः । ३।२।५९॥ इति डः । प्रातः प्रभाते उद्यन् उद्गच्छन् । उत्पूर्वादिणः शतरि इणो यण् । अवार्यप्रसरस्तद्वदसावपि । सर्वं वाक्यं सावधारणं भवतीति प्रातरप्युद्यन्नवार्यप्रसर एवेति तेन सर्वकाले अस्यावार्थप्रसरत्वं सिद्धं न प्रातरे- वोद्यन्नवार्यप्रसर इति ॥ १ – ०५०। संक्रन्दनो दुश्यवनस् तुरापाण मेघवाहनः । आखण्डल: सहस्राक्ष ऋभुक्षाः ॥ २–'७७६। रिपौ वैरि-सपार, द्विपद्पणदुर्हृद: । द्विडूविपक्षाऽहिता - मित्र- दस्यु - शात्रव- शत्रवः ॥ ३–'१४४९ । राहौ ध्वान्ते गुणे तमः ।' इति सर्वत्र ना० अ० । तमः शब्दार्था- स्त्रयः- - 'तैमः करि-हरिं सोमं प्रपीड्य कुरुते तैमः । चकोरात् स-तमस् कान् यद् तद् युक्तं तमसोऽस्य वै ॥ इति कोशावतंसः । १ - तमोऽन्धकारः । २ - तमो राहुः । ३- तमो गुणः । स–तमस्कान् शोकयुक्तानित्यर्थः । तथा लक्ष्य-रूपे कथानके सुग्रीवाऽमिषेको नाम षष्ठः सर्गः- १५३ ४०२ - अतिप्रियत्वान् न हि मे कातरं प्रतिपद्यते ॥ चेतो वालि-वधं राम ! क्लेशापहमु॑पस्थितम् ॥ १११ ॥ अतीत्यादि — हे राम ! मदीयं चेतो वालिवधं कर्मीभूतमुपस्थितं प्राप्तं न हि प्रतिपद्यते नैव प्रत्येति । यस्मात् कातरं व्याकुलम् । वालिनोऽतिबलयुक्त- त्वात् । कीदृशं वधम् । क्लेशापहं दुःखस्योन्मूलकम् । पूर्ववड्डः । अतिप्रिय- वालवधस्य । यस्य हि यत्प्रियं तत्सिद्धमपि असौ न प्रत्येति ॥ इति डाधिकारः ॥ उपस्थितोऽस्य वध इति कथं ज्ञायत इत्याह- ४०३ - शीर्ष - घातिनमा॑यातमरीणां त्वां विलोकयन् ॥ पतघ्नी-लक्षपेतां मन्येऽहं वालिनः श्रियम्. ११२ शीषैत्यादि–अरीणां शोर्पघातिनम् । ८२९६८ । कुमार-शीर्पयोणिनिः ।३।२।५१॥ इति निपातनात् शिरसः शीर्षभावः । आयातं विलोकयन् वालिनः श्रियं पतिघ्नीलक्षणोपेतामहं मन्ये । पति हन्ति यल्लक्षणं तेनोपेतामिवेतीवार्थोऽत्र दृष्टव्यः । '२९७०। अमनुष्यकर्तृके च । ३।२।५३।' इति ठक् । '२३६३॥ गमहन।६।४।९८।' इत्युपधालोपः । '३५८। हो हन्तेः- ।७।३।५४॥ इति कुत्वम् ॥ ४०४ - शत्रुघ्नान् युधि हस्तिनो गिरीन् क्षिप्यन्न कृत्रिीमान् ॥ शिल्पिभिः पाणिघैः क्रुद्धस् त्वया जय्यो ऽभ्युपाय-वान् ॥ ११३ ॥ शत्रुघ्नानित्यादि – किञ्च युधि संग्रामे वाली त्वया जय्यः जेतुं शक्यो यदि युष्मदस्त्राणां शक्तिर्दृष्टा तां च द्रष्टुमिच्छामीति वक्ष्यमाणाभिप्रायः । '६५॥ क्षय्यजय्यौ शक्यार्थे ।६।१।८१।' इत्ययादेशनिपातनम् । कीदृशः । अभ्युपायवान् युद्धोपाययुक्तः । 'किं कुर्वन् । क्रुद्धः क्षिप्यन् गिरीन् । दिवादित्वाच्छयन् । अकृत्रि- मान् देवनिर्मितान् । शत्रुघ्नान् शत्रून् हन्तीति । '२९७० । अमनुष्य । ३।२।५३॥ इति ठक् । हस्तिघ्न इव हस्तिनः हन्तुं शक्तः । १२९७१॥ शक्तौ हस्ति- कपाटयोः ३।२।१४॥ इति सूत्रस्य मनुष्यकर्तृकार्यारम्भकत्वात् । वाली चामनुष्यः । शिल्पिभिर्युद्धकुशलैः वानरैः सह क्षिप्यन् । सहार्थस्य गम्यमानत्वात् सहयोगे तृतीया । पाणिघैः पाणिवादकैः । ते हि हस्तियुद्धेऽन्यस्य वाद्यस्यासंभवात् हस्तिमुखमेव वादयित्वा गिरीन् प्रहरणान् क्षिप्यन्ति । '२९७२ । पाणिध-ताडघौ शिल्पिनि ।३।२।१५।' इति कर्तरि निपातनम् ॥ ४०५ - आठ्यं करण - विक्रान्तो महिषस्य सुरद्विषः ॥ प्रियं-करणमिन्द्रस्य दुष्करं कृतवान् वधम् ॥ ११४॥ १५४ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे प्रथमो वर्गः, आढ्यमित्यादि – अनाढ्यमाढ्यं करोत्यनेनेति । '२२७३ । आध्य-सुन- ।३।२।५६।' इत्यादिना करणे ख्युन् । आट्यकरणं विक्रान्तं यस्य वालिनः । अना- ढ्यः सन् विक्रान्तेनाढ्यो भूत इत्यर्थः । महिपस्य सुरद्विषो दुन्दुभेववं मरणं यः कृतवान् दुष्करं कृच्छ्रसाध्यं प्रियकरणमिन्द्रस्य तुष्टिकरम् । अप्रियं प्रियं करोस- नेनेति पूर्ववत् ख्युन् ॥ ४०६ - प्रियं- भावुकतां यातस् तं क्षिपन् योजनं मृतम् ॥ स्वर्गे प्रियं-भविष्णुश् च कृत्स्नं शक्तो ऽप्येवाधयन् ॥ प्रियमित्यादि — तमेवं सुरद्विषं मृतं पादाङ्गुष्टेन योजनमध्वानं क्षिपन् प्रेर- यन् । क्षिपेस्तौदादिकस्योभयपदिनो रूपम् । प्रियम्भावुकतां यातस्तथा स्वर्गे ग्रियम्भविष्णुश्वासीत् । '२९७४ । कर्तरि भुवः । ३।२।५७१' इत्यनेनाट्यादिषूपपदेपु खिष्णुच्खुकज । शक्तोऽपि समर्थोऽपि कृत्स्नं लोकमित्यर्थात् । अबाधयन् अपीड- यन् । '१६५१। वध संयमे' इति चौरादिकः तस्य शतरि रूपम् । स ईदृशस्त्वया शक्यो जेतुं यदि त्वदत्राणां सामर्थ्य दृष्टमित्यभिप्रायेणाब्रवीत् सुग्रीवः ॥ रामोऽपि तदभिप्रायं विन् यत् कृतवान् तदाह - ४०७ - जिज्ञासोः शक्तिम॑स्त्राणां रामो न्यून-धियः कपेः ॥ अभिनत् प्रतिपत्त्यर्थं सप्त व्योम - स्पृशस् तरून्. ४१६ जिज्ञासोरित्यादि – अस्त्राणां शराणां शक्ति जिज्ञासोः ज्ञातुमिच्छोः कपेः सुग्रीवस्य न्यूनधियः स्वल्पवुद्धेः । यतः प्रमाणान्तरेणापरिज्ञानात् प्रत्यक्षेण ज्ञातु- मिच्छतीति प्रतिपत्त्यर्थं संप्रत्ययार्थं रामः सप्त तरून् तालान् पङ्ख्या स्थितान् एकेन शरेणाभिनत् व्योमस्पृशः । '४३२ । स्पृशोऽनुदके किन् ।३।२।५८।' ॥ १४०८ - ततो वालि- पशौ वध्ये राम-विंद्र - जित-साध्वसः ॥ अभ्यभून् निलयं भ्रातुः सुग्रीवो निनदन् दधृ. ॥ तत इत्यादि —– ततस्तरभेदादनन्तरं सुग्रीवो आतुर्निलयमभ्यभूत् अभिभूत- वान् । कीदृशः । दुष्ट धृष्टः । '३७३। ऋत्विग्- ।३।२।५९ । इत्यादिना निपातितम् । धृषेः किन् । द्विर्वचनम् । '३७७॥ किन्प्रत्ययस्य कुः । ८।२।६२ ॥ इति कुत्वं खकारः चवं ककारः । यस्माद्वालिनि पशाविव वध्ये वधार्हे । रामेण ऋत्विजा याजकेन जितसाध्वसः अपनीतसाध्वसः तस्माद्द्धृक् । ऋतौ यजति ऋतुं वा यजति ऋतुप्रयुक्तो वा यजतीति ऋतुपूर्वाद्यजेः क्विन् । यजादित्वात् सम्प्रसारणम् । इदमृत्विक्शब्दनिर्वचनम् । रूढितस्तु याजयितृपु ब्राह्मणेपु क्विन्प्रत्ययस्य कुः । निनदन् किलकिलाशब्दं कुर्वन् ॥ ४०९ - गुहाया निरगाद् वाली सिंहो मृगर्मिव ध्रुवन् ॥ भ्रातरं युङ् भियः संख्ये घोषेणा॑ ऽऽपुरयन् दि ॥ गुहाया इत्यादि — तस्य शब्दमाकर्ण्य गुहाया निरगाद्वाली निर्गतः । तथा लक्ष्य रूपे कथानके सुश्रीवाऽभिषेको नाम षष्ठः सर्गः- १५५ '२४५८ । इणो गा लुङि ।२।४।४५॥ '२२२३ । गाति-स्था । २।४।७७१' इति सिचो लुक् । भ्रातरं युवन् अभिगच्छन् । '१११३ । यु अभिगमने' अस्यादादि- कस्य वर्तमानसामीप्ये लटः शतारे उवङादेशे रूपम् । संख्ये युद्धे । भियो य भीतेर्योक्ता कर्मणि पष्टी । भीतिं युञ्जन्नित्यर्थः । यजे: पूर्ववत् किन् । '३७६ । यु- जेरसमासे ।७।१।७१।' इति नुम् । संयोगान्तलोपः । क्विन्प्रत्ययस्य कुः । इकारः । कः कमिव । सिंहो मृगमिव युवन् । घोपेण दिश: आपूरयन् । दिशन्ति इति दिश: पूर्ववत् छिन् ॥ कलहायमानयोः ४१० - व्यायच्छमानयोर् मूढो भेदे सदृशयोस् तयोः ॥ वाणमु॑द्यतमा॑यंसीदि॑िक्ष्वाकु - कुल-नन्दनः ॥ ११९ ॥ व्यायच्छेत्यादि — तयोर्वालि सुग्रीवयोर्व्यायच्छ मानयोः सहशयोः समानयोः भेढ़े पृथक्त्वे मूढो भ्रान्तः सन् इक्ष्वाकुकुलनन्दनो रामो बाणमुद्यतं सज्जीकृतमासीत् उपसंहृतवान् । '२७४२ । समुदाभ्यो यमो ग्रन्थे ।१।३।७५।' इति तङ् न भवति । अकर्त्रभिप्रायत्वात् । तत्र 'कर्त्रभिप्राये' इति वर्तते । '२६९५ । आङो यमहनः ।१।३।२८।' इत्यनेनापि न स्यात् सकर्मकत्वात् तत्र 'अकर्मकात्' इति वर्तते । समानपूर्वस्य दृशेः 'समानान्ययोश्च' इत्युपसं- ख्यानात् '४२९। त्यदादिषु ।३।२।६० ।' इत्यादिना कञ् । ८१०१७ । दृग्-दृश्-व- तुषु । ६।३।८९।' इति समानस्य सभावः ॥ ४११ ऋष्यमूकमगा॑त् क्लान्तः कपिर् मृग-सदृग् द्रुतम् ॥ किष्किन्धाऽद्रिसदाऽऽत्यर्थ निष्पिष्टः कोष्णर्मुच्छ्रसन् ॥ १२० ॥ ऋष्यमूकमित्यादि कपिः सुग्रीवः किन्धाद्विसदा वालिना किं किं दुधातीति किष्किन्धा गुहा । '२९१५ । आतोऽनुपसर्गे कः ।३।२॥३।' पारस्क- रादिदर्शनात् पूर्वस्य सुडागमो मलोपः पत्वं च निपात्यते । तदुपलक्षितोऽद्भिः किष्किन्धाद्रिः । तत्र सीदतीति '२९७५ । सत्सूद्विष - ।३।२।६१॥ इत्यादिना किप् । तेनात्यर्थं निप्पिष्टः पीडितः । निष्पिष्टत्वात् क्लान्तः सन् ऋष्यमूकं मृगसदृक् द्रुतमगात् । समानोपपदात् दृशेः पूर्ववत् क्विन् । कोष्णमीषदुष्णमुच्छ्वसन् । '१०३३ । कवं चोष्णे । ६।३।१०७।' इति चकारात् कोः कादेशः ॥ ४१२ - कृत्वा वालि दुहं रामो मालया स-विशेषणम् ॥ अङ्गद - स्वं पुनर् हन्तुं कपिघ्नाऽऽह्वाययद् रणे. १२१ कृत्वेत्यादि - वालिदुहं सुग्रीवम् । वालिनं द्रुह्यतीति ८२९७५ । सासू- ।३।२।६१॥' इत्यादिना किप् । मालया सविशेषणं सचिह्नं कृत्वा भेदपरिज्ञानार्थं रामः अङ्गदवं वालिनम् । अङ्गदं सूत इति पूर्ववत् किन् । '२८१॥ ओः सुपि १५६ भट्टि- काव्ये – द्वितीयेऽविकार काण्डे लक्षण-रूपे प्रथमो वर्गः, ।६॥४।८३ ।' इति यणादेशः । तं रणे हन्तुं कपिना सुग्रीवेणाह्वाययत् अभिभवं कारितवान् । ह्वयतेर्हेतुमण्णिचि '२५८५। शा-च्छा ।७।३।३७१' इत्यादिना युक् ॥ ४१३ - तयोर् वानर सेनान्योः संग्रहारे तनुच्छिदम् ॥ वालिनो दूर भाग् रामो वाणं प्राणा॒ऽदम॑त्यजत् १२२ तयोरित्यादि – वानरसेनान्योः वानरस्वामिनोः ८२७२ । एरनेकाचः ॥४- ८२ ।' इति यण् । संग्रहारे युद्धे प्रवृत्ते रामो बाणमयजत् । वालिनम्तनुच्छिदं तनुं शरीरं छिनत्तीति पूर्ववत् किप् '१४६ । छे च ।६।१।७३॥ इति तुक् । प्राणादं प्राणापहारिणम् । प्राणानत्तीति प्राणाम् । '२९७७ । अदोऽनन्ने ।३।२।- ६८ ।' इति विट् । दूरभाक् दूरमवस्थितो रामो दूरं भजत इति २९७६ । भजो ण्विः ।३।२।६२।' ॥ ४१४ - वालिनं पतितं दृष्ट्वा वानरा रिपु-घातिनम् ॥ बान्धवाऽऽक्रोशिनो भेजुर॑नाथाः ककुभो दश. १२३ वालिनमित्यादि – रिपुघातिनं रिपून् हन्तुं शीलमस्येति २९८८) सुय जातौ णिनिः-१३।२१७८६' तं चालिनं पतितं दृष्ट्वा वानरा दश ककुभो दश दिशो भेजुः । अनाथा: सन्तः स्वामिनो हत्त्वात् । बान्धवाक्रोशिनो बान्धव इव आक्रोशन्तीति '२९८९। कर्तर्युपमाने । ३ । २ । ७९ । इति णिनिः ॥ ४१५ – घिग् दाशरथिमि॑ित्यूचुर् मुनयो वन-वर्तिनः ॥ .. उपेयुर् मधु-पायिन्य: क्रोशन्त्यस् तं कपि- स्त्रियः ॥ १२४ ॥ · घिगित्यादि – येषां सत्यन्यस्थाने वृत्तौ च वन एव वर्तितुं शास्त्रतो नियमः ते वनवर्तिनो मुनयः । २९९० ते ।३।२।८०।' इति णिनिः । धिगिमं दाशर- थिमित्यूचुः उक्तवन्तः । येनानपराधेऽपि वालिनीदृशं कृतमिति । कपिस्त्रियश्च वालिनमुपेयुः मधुपायिन्य: । आभीक्ष्ण्येन मधु पिबन्त्यः । ८२९९१ । बहुलमा भीक्ष्ण्ये ॥३॥२।८॥' इति णिनिः । क्रोशन्त्यः । 'हा नाथ !' इति रुदन्त्यः ॥ ४१६ - रामर्मुच्चैरु॑पालव्ध शूर-मानी कपि-प्रभुः ॥ व्रण - वेदनया ग्लायन् साधु-मन्यम - साधुवत् ॥१२५॥ राममित्यादि – कपिप्रभुवीली राममुच्चैर्महता शब्देनोपालब्ध उपालब्धवान् । लभिरात्मनेपद्यनिट् । तस्य लुङि '२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः । '२२८० झपस्तथोऽधः ।८।२४॥ ५२ । झलां जश् झशि १८ । १४ । ५३॥ शूरमानी शूरमात्मानं मन्यमानः ।२९९३ । आत्ममाने खश्च । ३ । १-८२ । दिशस् तु ककुभः काष्ठा आशाश् च हरितश् च ताः ।" इति ना० अ० । तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्टः सर्गः- १५७ २१८३ ।' इति चकाराण्णिनिः । व्रणवेदनया ग्लायन् ग्लानिमुपगच्छन् । साधु- मन्यं साधुमात्मानं मन्यमानं रामम् । तेनैव खश । तस्मिन् सार्वधातुके परतो दिवादित्वात् श्यन् । पूर्वपदस्य सुम् । असाधुवदसाधुमिव । असाधुना तुल्यं वर्तते इति वतिः ॥ ४१७ - 'भूषा ऽसि त्वं हविर्-याजी राघव ! छद्म-तापसः ॥ अन्य - व्यासक्त-पातित्वाद् ब्रह्मनां पाप-संमितः १२६ मृषेत्यादि - हे राघव ! त्वं छद्मना तापसः स त्वं मृपैव मिथ्यैव हविर्याजी हविषा करणेनेष्टवानसि न लोकप्राप्तय इत्यभिप्राय: । '२९९६ । करणे यजः ।३।२।८५।' इति भूते णिनिः । इतः प्रभृति भूत इत्यधिक्रियते । यतो ब्रह्मनां पापसंमितः ब्रह्म हतवन्ति इति '२९९८ ब्रह्म - १३ । २१८७ ।' इत्यादिना किप् । तेषां पापेन तुल्यः । कुतः । अन्यव्यासक्तवातित्वात् अन्यस्मिन् सुग्रीवे व्यासक्तं मां हतवान् । '२९९७ । कर्मणि हनः । ३।२।८६ ।' इति णिनिः । तत्र 'कुत्सितग्रहणं कर्तव्यम्' इत्युक्तम् । 'यदि सुग्रीवेण मम विरोधः किं तवायात- मिति कुत्सितहननम् ॥ तदेव दर्शयन्नाह ४१८ - पाप कृत् सुकृतां मध्ये राज्ञः पुण्यकृतः सुतः ॥ मार्मपापं दुराचार ! किं निहत्य ऽभिधास्यसि. १२७ पापकदित्यादि - हे दुराचार ! मामपापं निहत्य पापकृत् कृतकिल्विषः राज्ञो दशरथस्य पुण्यकृतः सुतः सुकृतां मध्ये किमभिधास्यसि वक्ष्यसि । किं क्षेपे । नकिंचिदभिधातव्यमस्तीति भावः । सर्वत्र २९९९। सुकर्म-पाप-।३।२।८९ ।' इत्यादिना किप् ॥ ४१९ - अग्नि चित् सोम - सुद् राजा रथ-चक्र - चिदाऽऽदिषु ॥ अनलेष्विष्टवान् कस्मान् न त्वया ऽपेक्षितः पिता ॥ अग्निचिदित्यादि – कस्मात्त्वया पिता नापेक्षितः नानुवृत्तः । येनैवं कृतवानसीति । कीदृशः । अग्निचित् आहिताग्निः । अग्निं चितवानिति '३००१ । अझौ चेः ।३।२।९१ ।' इति विप् । सोमसुत् सोमं सुतवान् सोमयाजी । '३००० । सोमे सुञः ।३।२।९० ।' इति विप् । अनलेषु अग्निषु इष्टवान् । रथचक्र चिदादिषु रथचक्रवचीयत इति ' ३००२ । कर्मण्यमयाख्यायाम् ।३।२।१२॥ इति विप् । १-१४८० । मृषा मिथ्या च वितथे ।" इति ना० अ० । २ – ९० । न कूटेरायुधैर् हन्याद् युध्यमानो रणे रिपून् । न कर्णिमिर् नापि दग्धैर् नाग्नि-ज्वलित-तेजनैः ॥' '१०४ अमाययैव वर्तेत न कथंचन मायया ।" मनुस्मृतिः अ० ७ । इत्यादिराजधर्मान् स्मारयन्नाह -छद्मतापसः' इति । '२३० कपटोsस्त्री व्याजदम्भोपथयश् छद्म- कैतवे ॥ ३ – '७१७ । चितवानग्निमन्निचित् " इति ना० अ० । भ० का० १४ १५८ भट्टि- काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, आदिशब्दाच्छ्येनचिढादिग्रहणम् । अभ्यर्थो हि तदाकार इष्टकाचय इत्युच्यते तारेणानिरपि ॥ ४२० - मांस विक्रयिणः कर्म व्याधस्य ऽपि विगर्हितम् ॥ मां नता भवता Sकारि निःशङ्कं पाप-दृश्वना. १२९ मांसेत्यादि- मांसविऋयिणः कुत्सितकर्मकारिणो व्यावस्थापि विगर्हितं निन्दितम् । '३००३ । कर्मणीनिविक्रियः । ३।२।१३।' इति इनिः । तत्र 'कुत्सित- ग्रहणं कर्तव्यम्' इत्युक्तम् । लिकृष्टकर्मकरणेनेति यद्भवता पापद्यश्वना पापं दृष्ट- वता । '३००४ । दृशेः कतिप् ॥३।२।१४॥ '३५५/ न संयोगासन्तात् । ६।४।- १३७७' इति अल्लोपप्रतिषेधः । कर्म अकारि कृतम् । कर्मणि लुङ् । निःशङ्क शङ्कां त्यक्त्वा । किं कुर्यता । मां नता मारयता । हन्तेः शतार '२३६३। गम-हन- -।६।४।९८।' इत्युपधालोपः । '३५८। हो हन्तेः । ७।३।५४ ।' इति कुत्वम् ॥ ४२१ बुद्धिपूर्व ध्रुवन् न त्वा राज-कृत्वा पिता खलम् ॥ सहयुध्वानम॑न्येन यो ऽहिनो माम॑नागसम् ॥ १३० ॥ बुद्धिपूर्वमित्यादि- त्वत्पिता त्वां खलं असाधुचरितं ध्रुवन् गच्छन् '१४- ९२ । तु गतिस्थैर्ययोः' इति तुदादौ पठ्यते । तस्य गतौ ज्ञानार्थे वर्तमानस्य शतरि विकरणलोपे उवङादेशे रूपम् । यन्न राजकृत्वा । कस्य तदेत्यर्थात् । '३००५ । राजनि युधि कृञः ।३॥२।१५॥ इति क्वनिप् । तत्तस्य बुद्धिपूर्वम् ध्रुवमवश्यं तस्येति व्याख्याने कृत्प्रयोगे कर्मणि षष्ठ्या भवितव्यम् । यस्त्वं मामनागसमपा- पमन्येन सहयुध्वानं अन्येन सुग्रीवेण सह योद्धुं प्रवृत्तम् । '३००६ । सहे च ।३।२।९६ ॥ इति क्वनिप् । अहिनः हिंसितवान् । हिंसेलेडि मध्यमपुरुषैकवचने श्रमि मान्नलोपे हलङ्यादिलोपे रुत्वे च रूपम् ॥ मांसार्थं हत इति चेदाह ४२२ - पञ्च पञ्चनखा भक्ष्या ये प्रोक्ताः कृत-जैर् द्विजैः ॥ कौशल्या-ज! शशाऽदीनां तेषां नैको sप्यहं कपिः. पञ्च पञ्चेत्यादि - हे कौशल्याज कौशल्याजात । '३००७ । सप्तम्यां जनेर्ड: ।३।२।१७॥ ये पञ्च पञ्चनखाः । 'शशकः शल्लकी गोधा खड्गी कूर्मश्च पञ्चमः' इति । कृतजैः कृतयुगजातैः । सप्तम्यां जनेडः । द्विजैर्द्वतैः । '३०११॥ अन्ये - ध्वपि दृश्यते ।३।२।१०१॥ इति डः । सप्तम्यामित्युपलक्षणम् । असप्तम्यामपि दृश्यते । भक्ष्याः भक्षणीयाः प्रोक्ताः । तेपामहमेकोऽपि न भविता अहं कपिः । तत्किमिति हतोऽहं त्वयेति ॥ १ - ७९२ । आगोऽपराधो मन्तुश् च इति सर्वत्र ना० अ० । 3 तथा लक्ष्य रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः- १५९ ४२३ - कथं दुष्ठुः स्वयं धर्मे प्रजास् त्वं पालयिष्यसि ॥ आत्माऽनुजस्य जिहेषि सौमित्रेस् त्वं कथं न वा. १३२ कथमित्यादि – स्वयमात्मना धर्मे दुष्टुः दुःस्थः सन् । 'अपदुःसुपु स्थ: ' इत्यौणादिकः कुप्रत्ययः । कथं प्रजाः पालयिष्यसि नैवेति भावः । '३००९। उप- सर्गे च संज्ञायाम् ।३।२।१९। इति जनेः । कथं वा सौमित्रेर्भ्रातुरात्मानुजस्य कनीयसः । आत्मानमनुजात इति '२०१०। अणौ कर्मणि।३।२।१००१' इति डः । न जिह्वेष न लजसे ॥ ४२४ मन्ये किं जर्महं मन्तं त्वार्म क्षत्रिय जे रणे ॥ लक्ष्मणा ऽधिज ! दुर्वृत्त ! प्रयुक्तर्मनुजेन नः १३३ मन्य इत्यादि - किंजं त्वामहं कुतोऽपि जातं न राजजातं मन्ये । '३००८॥ पञ्चम्यामजातौ ।३।२।१८।' इति डः । नन्तं मारयन्तम् । अक्षत्रियजे रणे क्षत्रि- यादजाते । हे लक्ष्मणाधिज लक्ष्मणाग्रज ! दुर्वृत्त ! नोऽस्माकमनुजेन भ्रात्रा प्रयुक्तं प्रेरितम् । तत्र 'पञ्चम्यामजातौ' इत्युक्तं जातावपि दृश्यते अक्षत्रियज इति । 'उपसर्गे च संज्ञायाम्' इत्युक्तं असंज्ञायामपि दृश्यते । लक्ष्मणाधिज इति 'अनौ कर्मणि' इत्युक्तं अकर्मण्यपि दृश्यते । अनुज इति सर्वत्रान्येष्वपि दृश्यत इति डः ॥ इत्युपपदाधिकारः ॥ ४२५ - प्रत्यूचे वालिनं रामो- 'नौ ऽकृतं कृतवान॑हम् ॥ यज्वभिः सुत्वभिः पूर्वैर् जरद्भिश च कपीश्वर ! १३४ प्रत्यूच इत्यादि - रामोऽपि वालिनं प्रत्यूचे प्रत्युक्तवान् । किमित्याह । हे कपीश्वर ! पूर्वैर्जरद्भिर्वृद्धैः । '३०९२ । जीर्यतेरतृन् । ३।२।१०४ ।' यज्वभिः याज्ञिकैः सुव्वभिः सोमयाजिभिः । '३०९१ । सु-यजोनिप् । ३ । १ । १०३ ।' । नाकृतं कृतवानहं अपि तु कृतमेव कृतवानहम् । ८९९। निष्ठा । २।२।३६॥ इति भूते तक्तवत् ॥ ४२६ - ते हि जालैर् गले पारौंस तिरश्चार्मुपसेदुषाम् ॥ ऊषुषां पर दारैश् च सार्धं निधनमैषिषुः ॥ १३५ ॥ त इत्यादि – यस्मात्ते पूर्ववृद्धाः जालैर्गले पाशैश्च तिरश्चां मृगपक्षिसरीसृपाणां १ – '२ । ब्राह्मं प्राप्तेन संस्कारं क्षत्रियेण यथाविधि । सर्वस्याऽस्य यथान्यायं कर्तव्यं परिरक्षणम् । मनु० अ० ७ इति स्मृत्या राज्ञां प्रजारक्षणमेव मुख्यो धर्मः स च दुष्टाचरणेन न संपद्येतेति द्योतयन्नाह —'कथं दुष्टुः स्वयं धर्मे-' इत्यादि । २ – ततो रामः परदार सेवनादिदुष्कर्नकरणात् दण्ड्य एव त्वं तथाभूतस्य च दण्डाकरणं '२० यदि न प्रणयाद्राजा दण्डं दण्ड्येष्वतन्द्रितः । शूले मत्स्यानिवाऽपक्ष्यन् दुर्बलान् बलवत्तराः ।' म० अ० ७ । इति स्मृते राज्ञां दोषायैवेति युक्तमेवैतदित्याह– 'नाऽकृतं कृतवान्' इत्यादि । ३ – १६०५ । प्रवयाः स्थविरो वृद्धो जीनो जीर्णो जरन्नपि । ना० अ० । १६० भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे प्रथमो वर्गः, तिरोऽञ्चतीति '३७३। ऋविन्- ।३॥२।१९। इत्यादिना छिन् । आमि ४१६१ अचः ।६॥।१३८।' इसल्लोपः । तेषां निधनं विनाशमैपिपुः इष्टवन्तः । इपेलुदि रूपम् । कीदृशाम् । उपसेदुषां समीपमुपगतवतां तेषां समीपवर्तिनामुपद्रवका- रित्वात् । '३०९७ । भाषायाम् ।३।२।१०८॥ इति वसुः । परदारैश्च सार्धमूपुपां उषितवताम् । पूर्ववत्कसुः वसेर्यजादित्वात्संप्रसारणम् ॥ ४२७ - अहं तु शुश्रुवान् - खात्रा स्त्रियं भुक्तां कनीयसा ॥ उपेयिवान॑नूचानैर् निन्दितस्त्वं लता-मृग ! ॥ १३६॥ अहमित्यादि — हे लतामृग हे शाखामृग ! अहं पुनः शुश्रुवान् श्रुतवान् । पूर्ववत् वसुः । यहुत आात्रा कनीयसा भुक्तां स्त्रियं त्वमुपेयिवान् सन् अनूचानैर्वे- दविद्भिर्निन्दितस्ततो मे नैव दोषः । '३०९८। उपेयिवाननाश्वाननूचानश्च ।३।२। १०९ ।' इति उपेयिवानित्यादिना निपातितौ ॥ ४२८ - अन्वनैषीत् ततो वाली त्रपा-वार्निव राघवम् ॥ न्यक्षिपच् चा॑ऽङ्गन्दं यत्नात् काकुत्स्थे तनयं प्रियम् ॥ अन्वित्यादि – ततो रामवचनानन्तरं वाली राघवमन्वनैषीत् अनुनीत- वान् । 'देव क्षम्यतां यदजानता मयोक्तम्' इति । नयतेलुङियनेन भूतसामान्ये लुङ्ग । त्रपावानिव यथा लज्जावान् कश्चिदनुनयति तद्वत् । अङ्गदं च प्रियं तनयं काकुत्स्थे रामे न्यक्षिपत् न्यस्तवान् । यत्तादादरात् । क्षिपेरनद्यतने लडू । लकारप्रत्ययस्यातिङीति प्रतिषेधान्न कृत्संज्ञा ॥ ४२९ - त्रियमाणः स सुग्रीवं प्रोचे सद्-भावमा॑गतः - ॥ 'संभविष्याव एकस्याम॑भिजानासि मातरि ॥ १३८ ॥ . म्रियमाण इत्यादि – स वाली म्रियमाणः सन् सद्भावं शोभनभावमागतः सन् सुग्रीवं प्रोचे । किमित्याह । अभिजानासि स्मरसि । एकस्यां मातरि संभ- विष्यावः । समभवाव इत्यस्मिन्नर्थे ' २७७३ । अभिज्ञावचने लट् ।३।२।११२॥ इत्यनद्यतने लृट् । अभिजानासीत्यभिज्ञावचनस्योपपदत्वात् ॥ ४३० - अवसाव नगेन्द्रेषु, यत् पास्यावो मधूनि च ॥ M अभिजानीहि तत् सर्वे, बन्धूनां समयो ह्ययम्. १३९ अवसावेत्यादि-अभिजानीहि स्मर । यन्नगेन्द्रेषु अवसाव उपितवन्तौ । अत्राभिज्ञावचनस्य यच्छब्दसहितत्वात् '२७७४ । न यदि ।३।२।११३।' इत्यनेन लुटि प्रतिषिद्धे लडेव भवति । अत्र वासमात्रं स्मयंते । मधूनि च यत्पास्यावः तत्र पीतवन्तौ तत्सर्वमभिजानीहि । अत्र '२७७५ । विभाषा साका १–'१४४३॥ वृद्धप्रशस्ययोर् ज्यायान् कनीयांस तु युवा ऽल्पयोः ।' २-१७६५) अनूचानः प्रवचने साऽऽधीती।" इति सर्वत्र ना० अ० । तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नाम षष्ठः सर्गः१६१ ।३।२।११४।' इति पक्षे ऌद । साकाङ्क्षता च प्रयोक्तुर्लक्ष्यलक्षणयोः संबन्धे । तत्र वासो लक्षणं पानं च लक्ष्यमिति । यस्माद्वन्धूनामयमेष समयः कालः ॥ ४३१ - दैवं न विदधे नूनं युगपत् सुखमा॑वयोः ॥ , शश्वद् बभूव तद् दुःस्थं यतो न इतिहा॑ ऽकरोत् ॥ दैवमित्यादि – नूनमवश्यं देवमावयोः सुखं युगपदेकफालं न विदधे न हि विहितवत् । परोक्षे लिट् । जित्वात्त । अतो लोपः । यतो यस्नात्तत् दैवं शश्वत् नित्यं दुःस्थमननुकूलं नोऽस्माकं बभूव तस्मादितिह एवमकरोत् इत्येवं कृतवान् । यद्युगपदावयोः सुखविधानं तद्दुःस्थं शश्वद्वभूव । हाकरोदिति भूता- नद्यतनपरोक्षे लिटि प्राप्ते '२७७६ । ह-शश्वतोर्लङ् च ।३।२।११६।' इति लड़् । चकारात् लिट् । तत्र शश्वच्छब्दे उपपदे लिडेवोदाहृतः न लङ् । हशब्दे लडेव न लिडपीति ॥ ४३२ - ददौ स दयितां भ्रात्रे मालां चाऽत्र्यां हिरण्मयीम् ॥ राज्यं संदिश्य भोगांश च ममार व्रण पीडित: १४१ ददावित्यादि – स वाली दयितां ताराख्यां आत्रे सुग्रीवाय ददौ मालां चाभ्यां श्रेष्ठां हिरण्मयीं सुवर्णघटिताम् । राज्यं सामात्यादिद्रव्यप्रकृतिम् । संदिश्य दत्त्वा । भोगांश्च राज्याङ्गानि । ममार व्रणपीडितः । तत्रापि परोक्षे लिट् ॥ ४३३ - तस्य निर्वर्त्य कर्तव्यं सुग्रीवो राघवाऽऽज्ञया ॥ किष्किन्धाऽद्रि गुहां गन्तुं मनः प्रणिदधे द्रुतम् १४२ तस्येत्यादि — तस्य मृतस्य कर्तव्यं पिण्डोदकादिकरणीयं कृत्वा सुग्रीवो राघवाज्ञया 'गच्छ वर्षासमयमतीत्य शरद्यागमिष्यास' इति आज्ञया किष्किन्धाद्विगुहां गन्तुं मनः द्रुतं प्रणिदधे कृतवान् । अन्नापि परोक्षे लि । ४३४ नाम ग्राहं कपिभिर॑शनैः स्तूयमानः समन्ताद॑न्वग्-भावं रघु वृषभयोर् वानरेन्द्रो विराजन् ॥ अभ्यर्णे ऽम्भः पतन समये पर्णलीभूत- सानुं किष्किन्धाद्रिं न्यविशत मधु-क्षीब-गुञ्जदू-द्विरेफम्. १ – मन्दाक्रान्तावृत्तमिदम् । तल्लक्षणं तु - ९७ । मन्दाक्रान्ता जलधिषडगैर् म्-भौ नत्तौ तागुरू चेत् ।" इति वृत्तरत्नाकरे भट्टकेदारः । १६२ भट्टि काव्ये — द्वितीयेऽधिकार - काण्डे लक्षण-रूपे द्वितीयो वर्गः, नामेत्यादि ॥ वानरेन्द्रः सुग्रीवः किष्किन्धादि न्यविशत निविष्टवान् । ८२६८३ । नेविंशः ।१।३।१७।' इति तङ् । अशनैः सुष्टु कपिभिः स्तूयमानः । वर्तमाने लट् । तस्य कर्मणि विहितत्वात् । '३१०३ । लक्षणहेत्वोः क्रियायाः ।३। २१३२६ ।' इति शानच् । नामग्राहं नाम गृहीत्वा । '३३८०१ नाझ्या दिशि-ग्रहोः शि४।१८।' इति णमुल । समन्तात्सर्वतः । विराजन् शोभनानः । अत्र परस्मैप- दुसंकः शतृप्रत्ययः । किं कृत्वा । रघुवृषभयोरन्वग्भावं अनुकुलो भूत्वा । अन्व- वपूर्वाद्भवतेः '३३८६ । अन्वयानुलोये ।३।४।६॥' इति णमुल । तदनुकूलव- र्तित्वादिराजन् । कढ़ा न्यविशत । अभ्यर्णे निकटे । अम्भःपतनसमये ग्रावृपी- त्यर्थः । पर्णलीभूतसानुं पर्णानि सन्ति येषामिति सिध्मादिपाठालच् । तदन्ता- दभूततद्भावे च्विः । पर्णलीभूताः सानव एकदेशा यस्याः । मधुक्षीबा मधुमत्ता गुञ्जन्तो द्विरेफा यत्र । क्षीब इति '३०३५॥ अनुपसर्गात् फुल- क्षीब-कृशोल्लावाः ।८॥५५॥ इति निपातितः । '४०७ । क्षीवृ मदे ।' इत्यस्मात् कमवयस्य लोप इडभावश्च निपात्यते । गुजेर्लट् । क्वचित् प्रथमासमानाधिक- रणेऽपि शतृप्रत्ययः ॥ इति सोपपदकृतः ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये द्वितीयेऽधिकार-काण्डे लक्षण-रूपे प्रथमः परिच्छेदः (वर्गः ), तथा लक्ष्य-रूपे कथानके सुग्रीवाऽभिषेको नामः षष्ठः सर्गः पर्यवसितः । सप्तमः सर्गः ॥ इतस्ताच्छीलिकं कृतमधिकृत्योच्यते । ताच्छीलिकमित्युपलक्षणम् । तद्धर्मतसाधुकारिष्वपि द्रष्टव्यम् । यतः '३११४॥ आकेम्तच्छील-तद्धर्म-तत्साधुकारिषु ।३।२।१५४।' इति तत्राधिक्रियते 3 ४३५ - ततः कर्ता वऽऽकम्पं ववौ वर्षा-प्रेभञ्जनः ॥ नभः पूरयितारश् च समुन्नेमुः पँयो धराः ॥ १ ॥ तत इत्यादि ॥ ततः प्रवेशानन्तरं वर्षाप्रभञ्जनः प्रावृड्डातो ववौ वाति स्म । '११२४ । वा गति - गन्धनयोः' इति । कर्ता वनाकम्पं साधु कुर्वन् । ३११५ । तृन् ।३।२।१३५।' इति तृन् । '६२७ । न लोक । २।३।६९॥ इति षष्ठीप्रतिषेधः । पयोधरा मेघाश्च समुन्नेमुः समुन्नताः । कीदृशाः । नभः पूरयितारः । तृन् ॥ १ – १९४११ स्त्रियां प्रावृट् स्त्रियां भूम्नि वर्पाः' । २-५७० । नभस्वद्-वात-पवन-पव- मान-प्रभञ्जनाः' । ३ – १३७२ । स्त्री स्तनाब्दौ पयोधरौ' । ना० अ० तथा लक्ष्य-रूपे कथान के सीताइन्वेषणं नाम सप्तमः सर्गः- ४३६ - तर्पणं प्रजनिष्णूनां शंस्यानार्म- मलं पयः ॥ रोचिष्णवः स विस्फूर्जा मुमुचुर् भिन्न वद् घनाः ॥२॥ d तर्पणमित्यादि – घना अमलं पयो मुमुचुः । भिन्नवत् भिन्ना इव । कीदृशं पयः । तर्पणं शस्यानां तर्पणं तर्पयतीति '२८४१॥ कृलल्दुटो बहुलम् ।३।२१- ११३ ।' इति कर्तरि व्यु । प्रजनिष्णूनां साधु प्रादुर्भवताम् । रोचिष्णवः साधु दीप्यमानाः । सविस्फूर्जा: सवज्रनिस्वनाः । ८३११६ । अलंकृञ् ।३।२।१३६॥ इत्यादिना इष्णुच् ॥ ४३७ - निरौकरिष्णवो भानुं दिवं वर्तिष्णवो ऽभितः ॥ अलंकरिष्णवो भान्तस् तर्डिंत्वन्तश् चॅरिष्णवः ॥ ३॥ निरेत्यादि - भानुं निराकरिष्णवो निराकरणशीला घनाः पयो मुमुचुरिति योज्यम् । दिवमभितो वर्तिष्णव आकाशमभितो वर्तनस्वभावाः । पूर्वपश्चिमयो- वर्तनहेतुत्वात् । पर्यभिभ्यां सर्वोभयार्थे तसिः । 'अभितः परितः -' इति द्वितीया । तडित्वन्तः सवितः । अत एव भान्तो दीप्यमानाः । एवं च कृत्वा अलंकरिष्णवोऽलङ्करणशीला इव । दिशश्चरिष्णवः इतस्ततो गमनशीलाः । पूर्ववदिष्णुच् ॥ ४३८ - तान् विलोक्यो ऽसहिष्णुः सन् विललापौन्मदिष्णुं -वत् ॥ वसन् माल्यवति ग्लास्तू रामो जिंष्णुरे- धृष्णु-वत् ॥ ४ ॥ C तानित्यादि ॥ तान् घनान्विलोक्य असहिष्णुरसहनशीलो रामः माल्यवति पर्वते वसन्विललाप । उन्मदिष्णुवत् उन्मदनशील: उन्मत्तस्तद्वत् । पूर्ववदिष्णुच् । ग्लास्रुः ग्लानशीलः । जिष्णुर्जयशीलः । अटष्णुवदप्रगल्भ इव । शोकाभिभूतत्वात् । '३११९॥ ग्ला-जि-स्थश्च स्तुः ।३।२।१३९॥ । धृष्णुरिति '३१२० । त्रसिगृधि ।३।२।१४०।' इत्यादिना नुः १–'३६३। वृक्षाऽऽदीनां फलं शस्यम् । २–१६६५ । विभ्रा भ्राजिष्णु-रोचिष्णू' इति ना० अ० । ३ - २०७५ । निराकरिष्णुः क्षिनुः स्यात्' । ४/५-२०७४/ उत्पतिष्णुस् तूप- तिता, डलंकरिष्णुस् तु मण्डितः । भूष्णुर् भविष्णुर् भविता वर्तिष्णुर् वर्तनः समौ ।'६-- '९० । अभ्रं मेघो वारिवाइः स्तनयित्नुर् बलाहकः । धाराधरो जलधरस् तडित्वान् वारिदोऽम्बु भृत् ।' ७ – '१११९ । चरिष्णुजङ्गम-चरम्' । ८-१०७६ । सहिष्णुः सहनः क्षन्ता । ९ – १०६८। सोन्मादस् तन्मदिष्णुः स्यात् । १० – ६२१। ग्लान-ग्लास्नू, आमयावी विकृतो व्याधितोऽपटुः' । ११-१८४२ जेता जिष्णुश् च जित्वरः ।' इति सर्वत्र ना० अ० । १६४ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितोयो वर्गः, किं तद्विलपनमित्याह- ४३९ - 'अमी कदम्व-संभिन्नः पवनः शमिनाम॑पि ॥ M कुमि-त्वं कुरुतेऽत्यर्थं मेघ-शीकर-शीतलः ॥ ५॥ भ्रमीत्यादि — भ्रमी भ्रमणशीलः । कदम्बसँभिन्नः कदम्बगन्धसंश्लिष्टः शमिनामपि शमनशीलानामपि कृमित्यं कुरुते अत्यर्थं ग्लानिं कुरुते । '३१२॥ शमित्यष्टाभ्यो धिनुण् । ३।२।१४।१॥ '२७६३ । नोदात्तोपदेश - ।७।३।३४।' इत्या- दिना उपधावृद्धिप्रतिषेधः ॥ ४४०- संज्वारिणे॑व मनसा ध्वान्तमा॑यासिना मया ॥ द्रोहि खद्योत-संपर्कि नयनाऽमोषि दुःसहम् ॥ ६॥ संज्वारिणेत्यादि- मयैतत् ध्वान्तं तमो दुःसहं दुःखेन सह्यत इति । मनसा करणभूतेन । कोहदोन । संज्वारिणेव रोगशीलेनेव । आयासिना आयास- शीलेन मयेति । द्रोहि अपकारशीलम् । ध्वान्तं खद्योतसंपर्क ज्योतिरिङ्गणसं- सर्गशीलम् । नयनामोषि चक्षुर्मोषणशीलम् । '३१२२ । पृचानुरुध-।३।२।१४२।' इत्यादिना सर्वे विनुणन्ताः ॥ ४४१ - कुर्वन्ति परिसारिण्यो विद्युतः परिदेविनम् ॥ T अभ्याघातिभिरा॑मिश्राश् चातकैः परिराटिभिः ॥ ७ ॥ कुर्वन्तीत्यादि ॥ एता विद्युतः परिदेविनं परिदेवनशीलं कुर्वन्ति । मामि- त्यर्थात् । कीदृश्यः । परिसारिण्यः परिसरणशीलाः । चातकैः पक्षिविशेषैः परिरा- टिभिः परिरटनशीलैः । एवंचाभ्याघातिभिः अभिहननशीलैः । दुःखोत्पादनात् । आमिश्रा युक्ता विद्युतः । पूर्ववद्विनुण् ॥ ४४२ - संसर्गी परिदाहीव शीतो ऽप्या॑भाति शीकरः ॥ , सोढुमक्रीडनो ऽशक्याः शिखिनैः परिवादिनः ॥८॥ संसर्गीत्यादि — संसर्गी संसर्जनशीलः । शीतोऽपि शीकरो बिन्दुः । परि- दाहीव परिदहनशील इवाभाति । शिखिनश्च मयूराः सोढुमशक्याः । आक्री- डिनो नर्तनशीलाः । परिवादिनः परिवदनशीला इव । इवशव्दश्चात्र लुप्तो द्रष्टव्यः । पूर्ववद् घिनुण् ॥ ४४३ - एता देवानुरोधिन्यो द्वेषिण्य इव रागिणम् ॥ पीडयन्ति जनं धाराः पतन्त्यो ऽनुपकारिणम् ॥९॥ १-९५ धारासंपात आसार: शीकरोऽम्बुकणाः स्मृताः । २-५४८ समौ पतङ्ग शलभौ, खद्योतो ज्योतिरिङ्गणः । ३–५३६ । अथ सारङ्गः स्तोककश् चातकः समाः ।' ४-१५५९ । मयूरो बर्हिणो बहीं नीलकण्ठो भुजङ्ग-भुक् । शिखावलः शिखी केकी मेघनादाउनुलास्यपि । इति सर्वत्र ना० अ० ॥ तथा लक्ष्य-रूपे कथानके सीताऽन्वेपणं नाम सप्तमः सर्गः - १६५ एता इत्यादि-एताः धाराः पतन्त्यो द्वेषिण्य इव द्वेषणशीला इव जनं रागिणं रागशीलम् । अनपकारिणमनपराधशीलं पीडयन्ति । दैवानुरोधिन्यः भाग्यानुरोधात् प्रवर्तनशीला: । पूर्ववत् धिनुण् । धिनुणि च 'रञ्जेरुपसंख्यानम्' इत्यनुनासिकलोपः । कृताननुनासिक निर्देशाद्वा लोपनिपातनम् ॥ ४४४–कुर्याद् योगिनमप्ये॑ष स्फूर्जा-वान् परिमोहिनम् ॥ त्यागिनं सुख-दुःखस्य परिक्षेप्य॑म्भसामृतुः ॥ १० ॥ कुर्यादित्यादि – एष ऋतुरम्भसां जलानां परिक्षेपी परित्यजनशीलः । कर्मणि षष्टी । योगिनमपि योगशीलमपि । सुखदुःखस्य त्यागिनं त्यागशीलम् । कर्मणि षष्ठी । परिमोहिनं परिमोहनशीलम् । कुर्यात् । कीदृशः । स्फूर्जावान् वज्र- निर्घोषयुक्तः । पूर्ववद् धिनुण् ॥ ४४५ - विकत्थी याचते प्रत्तम-विश्रम्भी मुहुर् जलम् ॥ । पर्जन्यं चातकः पक्षी निकृन्तन्निव मानसम् ॥ ११ ॥ विकत्थीत्यादि – चातको मानसं निकृन्तन्निव खण्डयन्निव । प्रत्तं प्रदत्तम् ।' ३०७८ । अच उपसर्गात् तः ।७।४।४७१' जलं याचत इति प्रधानं कर्म । पर्ज- न्यमित्यकथितम् । विकत्थी विकत्थनशील इव पर्जन्योऽपि मह्यं जलं ददाति । इवशब्दो लुप्तोऽत्र द्रष्टव्यः । अविश्रमभी अविश्वासशीलः । मानसखण्डनात् ' ३१२३ । वौ कष-लस - ।३।२।१४३॥ इति घिनुण् ॥ ४४६- प्रलापिनो भविष्यन्ति कदा न्वैते ऽपलाषिणः ॥ प्रमाथिनो वियुक्तानां हिंसकाः पाप-दर्दुराः ॥ १२ ॥ प्रलापिन इत्यादि - एते पापदर्दुराः पापाश्च ते दर्दुराश्चेत्याक्रोशाभिधानम् । कदा नु अपलापिणो भविष्यन्ति । अपलषणशीला: व्यपगतकामा इत्यर्थः । '९५३। लष कान्तौ ।' '३१२४ । अपे च लषः । ३।२।१४४।' इति घिनुण् । प्रला- पिनः प्रलपनशीलाः प्रमाथिनः प्रमथनशीलाः । चेतसामित्यर्थात् । '३१२५ । प्रे- लप - ३।२।१४५।' इत्यादिना धिनुण् । अत एव वियुक्तानां मादृशां हिंसकाः हिंसन- शीलाः । इत्येवं विललाप । '३१२६ । निन्द - हिंस- । ३।२।१४६।' इत्यादिना वुज् ॥ ४४७ - निन्दको रजनिंमन्यं दिवसं क्लेशको निशाम् ॥ प्रावृष्यनैषीत् काकुत्स्थः कथंचित् परिदेवकः ॥१३॥ निन्दक इत्यादि-काकुत्स्थो दिवसं रजनिंमन्यं रजनीमात्मानं मन्यमानं घनान्धकारित्वात् । '२९९३ । आत्ममाने खश च ।३।२।८३।' । '२९४३॥ खित्यनव्ययस्य । ६।३।३६ ।' इति इस्वत्वम् । निशां च प्रावृषि कथमप्यनैषीत् नीतवान् । निन्दकः निन्दनशीलः । नक्तंदिनस्येत्यर्थात् । क्लेशकः क्लेशनशीलः । परिदेवकः परिदेवनशीलः । आत्मन इत्यर्थात् ॥ १६६ भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे द्वितीयो वर्गः, ४४८ - अथौपचरदे ऽपश्यत् क्रौञ्चानां चेष्टनैः कुलैः ॥ उत्कण्ठा-वर्धनैः शुभ्रं रैवर्णैरम्वरं ततम् ॥ १४ ॥ : अथेत्यादि – अथानन्तरमुपशरदे शरत्समीपे इति । १६७७ । अव्ययीभावे शरप्रभृतिभ्यः ।५।४।१०७ । इति समासान्तष्टच् । '६५८ । तृतीया-सप्तम्योर्बहु- लम् ।२।४।८॥' इत्यमभावः । क्रौञ्चानां कुलैस्ततं व्यासमम्दरं शुभ्रं शुकुमपश्यत् दृष्टवान् । चेष्टनैः व्यापारशीलैः । रवणैः शदनशीलैः । अनयोश्चलनशब्दार्थ- च्वात् '३१२८ । चलनशब्द - । ३।२।१४८।' इत्यादिना युच् । उत्कण्ठावर्धनैः उत्क- ष्ठावर्धनशीलैः। '३१२९ । अनुदात्तेतश्च ।३।२।१४९ । इतिच् । क्रौञ्च इति क्विन्प्रत्ययान्तत्वात् प्रज्ञादिव्वादण् ॥ ४४९ - विलोक्य द्योतनं चन्द्रं लक्ष्मणं शोचनो ऽवदत् - ॥ "पश्य दन्द्रमणान् हंसान॑रविन्द - समु॒त्सुकान् ॥ १५ ॥ विलोक्येत्यादि–च विलोक्य द्योतनं साधु द्योतमानम् । '३१२९॥ अनुदात्तैतश्च—।३।२।१४९ । इति युच् । शोचनः शोचनशीलः । '३१३० । जुचङ्क्रम्य–।३।२।६५०।' इत्यादिना युच् । रामो लक्ष्मणनवदत् । पश्य हंसान् दन्द्रमणान् शनैर्द्रमणशीलान् । इमेर्नित्यं कौटिल्य एव भवति नतु क्रियासमभिहार इत्युक्तम् । तदन्तायुच् । अतो लोपः । यस्य हलः । अरविन्द्र- समुत्सुकान् '६४१ । प्रसित ।२।३।४४ । इति सप्तमीं विधाय 'सप्तमी' इति योगविभागात् सः ॥ , ४५० - कपिश् चङ्क्रमणो ऽद्यापि नो ऽसौ भवति गर्धनः ॥ कुर्वन्ति कोपनं तारा मण्डना गगनस्य माम् ॥१६॥ कपिरित्यादि-नासौ कपिः सुग्रीवोऽद्यापि चङ्क्रमणः शनैर्गमनशीलो न भवति । यतो गर्धनो ऽभिलापशीलः स्त्रीण्वित्यर्थात् । पूर्ववच् । ताराश्च मां कोपनं कोपनशीलं तद्विषय एव कुर्वन्ति । कीदृश्यः । गगनस्य मण्डना भूषणाः । '३१३१॥ क्रुध–मण्डार्थेभ्यश्र । ३ । २।१५१॥ इति युच् ॥ ४५१ नो॑ ऽवैत्या॑प्यायितारं किं कमलानि रविं कपिः ॥ — दीपितारं॑ दिना॒ऽऽरम्भे निरस्त - ध्वान्त-संचयम् ॥ १७॥ नावैतीत्यादि – किमसौ कपिः रविं नावैति नावगच्छति । कमलान्याप्या- यितारं साधु वर्धयन्तम् । '३१२९। अनुदात्ततश्च - ।३।२।१२९ । ' इति प्राप्ते । '३१३२ । नयः। ३।२।१५२।' इति प्रतिपिद्धे तृन्नेव भवति । ततश्च '६२७। न लोक-२।२।६९।' इति षष्टीप्रतिषेधः । दिनारम्भे दीपितारं साधु दीप्यमानम् । पूर्ववधुचि प्राप्ते १-'१०८३ रवणः शब्दनो, नान्दीवादी नान्दीकरः समौ ।' २ – २०६७ । गृनुस् तु गर्धनः । लुब्धो ऽभिलापुकस् तृष्णक्, सभी लोलुप लोलुभौ " ना० अ० । तथा लक्ष्य रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १६७ ८३१३३ । सूद-दीप-दीक्ष-।३।२।१५३।' इति प्रतिषेधः । निरस्तध्वान्तसंचयं अप- नीतान्धकारसंहतिकं किमसौ शरत्समयं नावैतीत्यर्थः ॥ ४५२- अतीते वर्षके काले, प्रमत्तः स्थायुको गृहे ॥ गामुको ध्रुवम॑ध्वानं सुग्रीवो वालिना गतम् ॥ १८ ॥ अतीतेत्यादि — वर्षुके वर्षणशीले काले अतीतेऽपि गृहे स्थायुकः स्थिति- शीलः शरदि नागतत्वात् प्रमत्तः सन् सुग्रीवो वालिना गतं अध्वानं प्राप्तमार्ग ध्रुवमवश्यं गामुकः साधु गन्ता । '३१३४ । लप-पत । ३।२।१५४ ।' इत्युकञ् । '६२७ । न लोक - ।२।३।६९॥ इति षष्टीप्रतिषेधः ॥ ४५३ - जल्पाकीभिः सहा॑ ssसीनः स्त्रीभिः प्रजविना त्वया ॥ गत्वा लक्ष्मण ! वक्तव्यो जयिना निष्ठुरं वचः ॥ १९ ॥ जल्पाकीभिरित्यादि- हे लक्ष्मण ! त्वया प्रजावना प्रकृष्टगमनशीलेन । '३१३६ । प्रजोरिनिः । ३ । २ । १५६ । 'जयिना अभिभवनशीलेन । '३१३७। जि-ह-क्षि- ।३।२।१५७।' इत्यादिना इनिः । सुग्रीवो निष्ठुरं वचोऽभिधातव्यः । जल्पाकीभिः जल्पनशीलाभिः स्त्रीभिः सहासीनः । '३१३५॥ जल्प- भिक्ष- ।३।२।१५५।' इति पाकन् । षिवात् ङीष् । तन्मध्ये हि परुषमभिधीयमानः परिभवं मन्यत इति भावः ॥ ४५४ - शैले विश्रयणं क्षिप्रम॑नादरिणम॑भ्यमी ॥ न्याय्यं परिभवी ब्रूहि पापर्म व्यथिनं कपिम् ॥ २० ॥ शैल इत्यादि – कपिं क्षिप्रं गत्वा ब्रूहि इत्य कथितं कर्म । न्याय्यं वच इति प्रधानं कर्म । अस्य चातिस्पष्टार्थत्वादिदं तदिति संदिष्टम् । अनादरिणमनादर- शीलं कपिं कालातिक्रमणात् । आपूर्वो दृङ् । अत एव पापं दुराचारम् । अव्य- थिनं निर्भयशीलम् । नज्पूर्वो व्यथिः । शैले विश्रयिणं तत्र स्थितिशीलम् । विपूर्वः श्रयतिः । त्वं चाभ्यमी अभिमुखगमनशीलः । अभिपूर्वोऽमगत्यादिषु । परिभवी साधु परिभवं जनयन् । परिपूर्वो भवतिः । अत्र 'सर्वत्र ' ३१३७॥ जिदृक्षि-।३।२।१५७।' इत्यादिना इनिः ॥ १–'१८१ । स्याज् जल्पाकस् तु वाचालो वाचाटो बहुगर्हावाक् ॥ इत्यनुशासनात् त्रिषु लिङ्गेष्वयं शब्दः । १६८ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः, ४५५- स्पृहयातुं कपिं स्त्रीभ्यो निद्रालुमै दयालुवत् ॥ श्रद्धालुं भ्रामरं धारुं सद्रुम॑द्रौ वद द्रुतम् ॥ २१ ॥ स्पृहयालुमित्यादि—स्त्रीभ्यः स्पृहयालुं कपिं साधु स्पृहयन्तम् । स्पृहिः स्वार्थिकण्यन्तो ऽदन्तश्च । २३११॥ अयमन्त-।६॥५५॥ इत्ययादेशः ५७४॥ स्पृहेरीप्सितः ॥४।३६।' इति सम्प्रदानसंज्ञा । द्रुतं वद ब्रूहि । अयालुवत् अदयनशील इव । निद्रालु निद्राशीलं अस्मत्कार्ये वनवधानत्वात् शयनीय एव सर्वदा स्थितत्वात् त्रीभिः सह । श्रद्धालुं साध्वभिलपन्तम् । किम् । भ्रामरं भ्रमरैः : कृतम् । १४९९। क्षुद्रामर - 1४।३।११३।' इत्यादिना अन् । मध्वियर्थात् । '६२७ । न लोक-।२।३।६९।' इति पष्ठीप्रतिषेधः । '३१३८ । स्पृह- गृहि -।३।२।१५८।' इत्यादिना आलुच् । श्रद्धालुत्वादेव धारुं साधु पिबन्तं भ्रामरमेव । सर्दु साधु सीदन्तम् । व । अनौ ।'३१३९। दा धेट्र-मि-शद-सदो रुः ।३।२।१५९।' ॥ ४५६ - सृमरो भङ्गुर प्रज्ञो गृहीत्वा भासुरं धनुः ॥ विदुरो जित्वरः ग्राप लक्ष्मणो गत्वरान् कपीन्.॥२२॥ सृमर इत्यादि – लक्ष्मणः कपीन् प्राप । कीदृशः । समरः साधु गन्ता । * ३१४० । सृघस्यदः क्मरच् । ३।२।६०॥ भकुरा ये स्वयमेव भज्यन्ते । '३१४१ ॥ भञ्ज-भास ।३।२।१६१।' इति घुरच् । तान् प्रजानातीति भङ्गुरप्रज्ञः '२९२० । प्रे दाज्ञः । ३।२।६।' इति कः । विदुरः साधु वेदी । '३९४२ । विदि-भिदि-च्छिदेः कुरच् ।३।२।१६२ । । जिव्वरः साधु जयशीलः । '३१४३ । इण्-नश्-जि- ।३।२।१६३।' इत्यादिना करप् । गृहीत्वा धनुर्भासुरं भासनशीलम् । गत्वरान् गमनशीलान् कपीन् । अस्थिरप्रकृतीनित्यर्थः । 'गत्वरश्च' इति निपातितम् । गमेः करप्यनुना- सिकलोपः ॥ ४५७ - तं जागरूकः कार्येषु दन्दशर्के - रिपुं कपिः ॥ अ- कैम्पं मारुतिर् दीप्रं नम्रः प्रावेशयद् गुहाम् ॥ २३॥ तमित्यादि – तं लक्ष्मणं कपिर्मारुतिः गुहां प्रावेशयत् । विशेर्हेतुमण्ण्यन्तात् लङि रूपम् । कार्येषु कृत्येषु जागरूक: सावधानः । '३१४५। जागरूकः ।३।२।१६५।' इति जागरूकः । दन्दशकरिपुं हिंस्रारिम् । '३१४६। यज-जप -।३।२।१६६।' इत्यादिना दंशेर्यङन्तादूकः । '२६३५ । लुप-सद - ।३॥।२४। १- ११०७८। स्वप्नक् शयालुर् निद्रालुर् निद्राण-शयितौ समौ' । २ - 'श्रद्धालु श्रद्धया युक्ते' । ३–'१०७७ जागरूको जागरिता' । ४ – 'दन्दशकस् तु पुंलिङ्गो राक्षसे च सरीसृपे ।" इति कोशान्तरम् । ५-१९२० चलनं कम्पनं कम्प्रं, चलं लोलं चलाचलम् । इति सर्वत्र ना० अ० । ; तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १६९ इत्यादिना यङ् । दीमं साधु दीप्यमानम् । अकम्पं अकम्पनशीलं अभीरुमित्यर्थः । नम्रः साधु प्रह्लीभूतः । सर्वत्र ३१४७ । नसि-कम्पि-।३।२।१६७।' इत्यदिना रः ॥ ४५८ - कैनाभिरावृतः स्त्रीभिरीशंसुः क्षेममा॑त्मनः ॥ इच्छुः प्रसादं प्रणयन् सुग्रीवः प्रावदन नृपम् ॥२४॥ कम्राभिरित्यादि – सुग्रीवः प्रावदन् नृपं लक्ष्मणम् । स्त्रीमिरावृतः परि वृतः सन् प्रणमन् । ताभिः सहेत्यर्थः । कम्राभिः कमनशीलाभिः । पूर्ववदः । आत्मनः क्षेमं कल्याणमाशंसुः प्रार्थयमानः । '३१४८ । सनाशंसभिक्ष उः ।३।२। १६८।' '६२७ । न लोक-।२।३।६९। इति षष्ठीप्रतिषेधः । इच्छुः प्रसादं प्रसाद- ग्रिपणशीलः । 'अपि मे स्वामी प्रसन्नः स्यात्' इति । '३१४९। विन्दुरिच्छुः । ३।२।१६९ ।' इति निपातनम् ॥ ४५९–'अहं स्वप्नक् प्रसादेन तव वन्दारुभिः सह ॥ अ- भीरुर॑वसं स्त्रीभिर् भासुराभिरि॑िहेश्वरः ॥ २५ ॥ अहमित्यादि — अहं तव प्रसादेन इह गुहायामवसं उषितवान् स्वप्नक् निद्रालु: चिन्ताभावात् । '३१५२। स्वपितृपोर्नजिङ्- ।३।२।१७२ । ' वन्दारुभिर्व- न्दनशीलाभिः सह । '३१५३। गृ-वन्द्योरारुः ।३।२।१७३।' अभीरुः अभयशीलः । '३१५४ । भियः क्रु-कुक्रौ ।३।२।१७४॥ भासुराभिः भासनशीलाभिः । ईश्वरः ईशनशील: । '३१५५ । स्थेश-भास - ।३।२।१७५ ।' इति वरच् ॥ ४६० - विद्यन्- नाशं रवेर् भासं विभ्राजं शश-लाञ्छनम् ॥ राम-प्रत्तेषु भोगेषु नहमज्ञासिषं रतः ॥ २६ ॥ विद्युदित्यादि — रामप्रत्तेषु रामदत्तेषु भोगेषु रतः सक्तः । नाहमज्ञासिषं नाहं ज्ञातवान् । लुङि २३७७ । यम-रम- । ७१२।७३।' इत्यादिना सगिटौ । विद्यु- नाशं द्योतनशीला विधुतः तासां नाशम् । वेर्भाः भासनशीला दीप्तिः । ताम् विभ्राजं साधु दीप्यमानं शशलाञ्छनं चन्द्रम् । प्रावृडतिक्रान्ता शरदायातेति नाज्ञासिषमित्यर्थः । सर्वत्र '३१५७ । भ्राज-भास - ।३।२।१७७।' इति क्रिप् ॥ १–'२०६९। कम्रः कामयिताऽसीकः कमनः कामनोऽभिकः ॥ २-१०७२ । आशंसुराशंसितरि' । ३ (४५५ ) श्लोकस्थं टिप्पणं प्रेक्षणीयम् ।' ४–'१०७३ । चन्दारुभिवादके' इति स० ना० अ० ॥ भ० का० १५ १७२ भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः, अतः परं सादे कर्तरि च कारक इत्यधिकृत्य कुटुच्यते-४६८ -- ततः कपि- समाहारमैऽकनिश्चयमागतम् ॥ उपाध्यायsइर्वाऽऽयामं मुग्रीवोऽध्यापिपद् दिशाम् ३४ तत इत्यादि- - ततः कपिसमागमानन्तरं सुग्रीवः कपिसमाहारं कपिस- मूहं दिशामायाममध्यापिपत् बोधितवान् । अमुका अमुका दिक् इदशीति । ८५४०॥ गतिबुद्धि –।१॥४॥५२॥ इत्यादिना समाहारस्य कर्मसंज्ञा । आयामपरि- ज्ञानं चास्य वालि भयाद्दूरपरिभ्रमणात् । एकनिश्चयमागतं एकरा शितां प्राप्तं आया- ममित्यर्थः । निश्चायमिति '३३९० । परिमाणाख्यायाम् ।३।३।२०।' इति धज् । पश्चादेवशब्देन '७२६ । पूर्वकालैक- ।२।१।४९।' इति सः । क इव । उपाध्याय इवेति । उपेत्याधीयते अस्मादिति '३१९१ । इङश्च ।३।३।२१।' इति घञ् ॥ ४६९ - स - जाऽम्भो-द-संरावं हनु- मन्तं सहाऽङ्गदम् ॥ जाम्बवं नील-सहितं चारु- सैन्द्रावर्मब्रवीत् ॥ ३५ ॥ सजलेत्यादि-सुत्रीवो हनुमन्तमब्रवीत् । सजलाम्भोदसंरावं सजलमेव- स्यैव संरावो यस्य हनुमतः । '३१९२ । उपसर्गे रुवः । ३।३॥२२।' इति घन् । सहाङ्गदं भङ्गदसहितम् । तथा जाम्बवं ऋक्षाधिपतिं नीलसहितमब्रवीत् जाम्बवशब्दोऽकारान्तो द्रष्टव्यः । चारुसद्वावं चारुगतिम् । '३१९४ । समि युद्रुदुवः ।३।३।२३।' इति घञ् ॥ कुलकम् ३६-४०- ४७० - 'यात यूयं यम- श्रीयं दिशं नायेन दक्षिणाम् ॥ विक्षवस् तोय - विश्रावं तर्जयन्तो महो॒दधेः ॥ ३६ ॥ यातेत्यादि — यूयं यात गच्छत । यमश्रायं यमस्थानम् । श्रयत्येनमिति '३१९५ । श्रि - णी-भुवोऽनुपसर्गे ।३।३।२४॥ इति धज् कर्मणि । काम् । दक्षिणां दशम् । सामान्याभिधानाद्विशेषाभिधानम् । नायेन नीत्या सामादिना । नीय- तेऽनेनेति पूर्ववत्करणे घञ् । महोदधेस्तोयविश्रावं तोयध्वनिं तर्जयन्तो न्यक्कु - र्वाणाः । कैः । विक्षावैः स्वैः शब्दः । उभयत्रापि २१९६ । वौ क्षुश्रुवः ।३।३।२५।' इति कर्मणि घञ् ॥ } १-७१२ । उपाध्यायोऽव्यापकः' । २– '१९५ । शब्द निनाद - निनद- ध्वनि-ध्वान रवस्वनाः । १९६ । स्वान-निर्घोष-निद-नाद-निवाननिःस्वनाः । आरवाऽऽराव-संराव-विरावाः ।' ३–१८७६ । प्रद्रावोद्राव-संद्राव-संदावा विद्रवोद्रवः ।' ४ – ५११७०] उन्नाय उन्नये, श्रयणे, जयने जयः । ५- ११९५॥ निगारोद्वारविक्षावोद्-ग्राहाम् तु गरणा दिपु ।' इति श्रायः स० ना० अ० ॥ तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १७३ ४७१ - उन्नांयानंधिगच्छन्तः प्रद्रावैर् वसुधा-भृताम् ॥ वऽभिलावान् कुर्वन्तः स्वेच्छया चारु - विक्रमाः ३७ उन्नायानित्यादि – वसुधाभृतां पर्वतानां उन्नायानुच्चयानुच्चत्वान्यधिग- च्छन्तः जानन्तः। '३१९७। अवोदोर्नियः । ३।३।२६।' इति भावे घञ् । कैः । प्रद्वावैः प्रकृष्टगतिभिः । '३१९८ । द्रु-स्तु-स्रुवः । ३।३॥२७।' इति धन् । वनाभिलावान् वनविध्वंसान् । '३१९९। निरभ्योः पू-ल्वोः ।३।३।२८॥ इति भावे घञ् । स्वेच्छया कुर्वन्तः । चारुविक्रसा: असाधारणपराक्रमाः । यात यूयमिति संबन्धः ॥ ४७२ - सोद्गार-सुगन्धीनां फलानार्मलमशिताः ॥ प्रे उत्कारेषु च धान्यानाम॑नभीष्ट परिग्रहाः ॥ ३८ ॥ सदेत्यादि – सदा सर्वदा उद्वारे भक्षणानन्तरं श्वसनपूर्वके शब्दोच्चारणे यानि सुगन्धीनि तेषामलं पर्याप्तमाशिताः । '१५९५ । 'गृ शब्दे' इत्यस्यादुत्पू- र्वात् ' ३२०० । उन्योः । ३।३।२९।' इति घञ् । आङ्पूर्वादश्नोतेः । '३०५३॥ आदिकर्मणि क्तः कर्तरि च ।३/४/७११' इति कर्तरि क्तः । कृत्प्रयोगे कर्मणि षष्ठी न लोकेति निषिद्धाऽतः शेषे पष्ठी । उत्कारेषु च राशिपु धान्यानाम् । '१५०३। विक्षेपे' इत्यस्मादुत्पूर्वात् '३०२१ । कृ धान्ये ।३।३।२०॥ इति कर्मणि घन् । अभीष्टपरिग्रहाः अनभिलापुका इत्यर्थः ॥ ४७३ - संस्तावमि॑िव शृण्वन्तश् छन्दोगानां महाध्वरे ॥ शितिं मधु-लेहानां पुष्प प्रस्तार-शायिनाम् ॥ ३९ ॥ संस्तावमित्यादि – मधुलेहानां भ्रमराणां पुष्पप्रस्तारशायिनाम् । '३२०३ प्रेोऽयज्ञे । ३॥३॥३२।' इति वञ् । शिञ्जितं शृण्वन्तः यूयं यात । छन्दोगानां महाध्वरे संस्तावमिव सम्भूय स्तवनमिव पाठध्वनिविशेषमिव वा । '३२०२॥ यज्ञे समि स्तुवः ।३।३।३१॥ इति धज् ॥ ४७४ - आलोचयन्तो विस्तारम॑म्भस दक्षिणो॒दधेः ॥ स्वादयन्तः फल-रसं मुष्टि-संग्राह- पीडितम् ॥ ४० ॥ १ - (४७०) लोकस्थं टीकनमवलोक्यम् । २ - ( ४६९ ) श्लोकस्थं टिप्पणमालोचनी- यम् । ३- '२१८२ लवोऽभिलावो लवने निष्पावः पवने पवः' । ४ - (४७०) श्लोकस्थं टीकनं प्रेक्ष्यम् । ५– ११९४ । उत्कारशू च निकारश् च द्वौ धान्योत्क्षेप- प्रार्थको' । ६ – १९७॥ अथ मर्मरः । स्वनिते वस्त्र पर्णानां भूषणानां तु शिक्षितम्' इति सर्वत्र ना० अ० ॥ १७६ भट्टि-काव्ये — द्वितीयेऽविकार-काण्डे लक्षण-रूपे द्वितीय वर्गः, ४८२ - 'अवैग्राहे यथा वृष्टिं प्रार्थयन्ते कृषीवलाः ॥ , प्रार्थयध्वं तथा सीतां, यात सुग्रीव-शासनम् ॥ ४८ ॥ अवग्राह इत्यादि – अवग्राहो वर्पप्रतिवन्धः । ८३२२६ अवे ग्रह:- ।३।३१५१॥ इति पक्षे अप् । यथा अवग्राहे कृपीवला वृष्टिं प्रार्थयन्ते तथा सीतां सूर्य प्रार्थयध्वम् । तस्या दुर्लभत्वादत्यन्तादरणीयत्वाञ्च । यात सुग्रीव- शासनात् ॥ ४८३ - वणिक प्रग्रह-वान् यद्वत् काले चरति सिद्धये ॥ देशाsपेक्षास् तथा यूर्य यात ऽऽदार्याऽङ्गुलीयकम्.' वणिगित्यादि — तुला प्रगृह्यते येन सूत्रेण स प्रग्राहः । ' ३२३७॥ प्रे वणि- जाम् ।३।३।५२।' इति करणे घञ् । स तुलासंबन्धी विद्यते यस्य वणिजः । संसर्गे मतुप् । यथा तुलामग्राहवान् तदुपलक्षितो वणिक् काले उचिते क्रय- सिद्धये चरति तथा यूयं अङ्गुलीयकं तुलासूत्रस्थानीयं चिह्नमादाय देशापेक्षाः तत्तद्देशस्थितास्तन्त्र हि चिह्वेन रामदूता इति लक्ष्यन्ते ॥ ४८४ - अभिज्ञानं गृहीत्वा ते समुत्पेतुर् नभस्-तलम् ॥ वाजिनः स्यन्दने भानोर् विमुक्त प्रयँहा इव ॥ ५० ॥ · अभिज्ञानमित्यादि – ते वानरा नभस्तलमुत्पेतुः । वाजिन इव विमुक्तप्र- ग्रहाः । विमुक्तः प्रग्रहो नियमरज्जुर्येषामिति । '३२२८१ रश्मौ च । ३।३॥५३॥ इति विभाषाग्रहणमनुवर्तते । घञभावपक्षे '३२३२। ग्रह-वृ-द-निश्चि-गमञ्च ।३।३।५८।' इत्यप् । स्यन्दने रथे भानोरादित्यस्य । किं कृत्वा । अभिज्ञानं गृहीत्वा चिह्नमङ्गुलीयकमादाय ॥ ४८५ - उदक् शतवलिं कोट्या, सुषेणं पश्चिमां तथा ॥ दिशं प्रास्थापयद् राजा वानराणां कृत-त्वरः ॥ ५१ ॥ उगित्यादि - वानराणां राजा सुग्रीवः शतवलिं नाम वानरं वानराणां कोट्या सह उदगुदीचीं दिशं प्रास्थापयत् । तिष्ठतेर्ण्यन्तस्य लङि रूपम् । उदी- चीशब्दात् प्रथमान्ताद्दिशि वर्तमानादस्तातिः । तस्याञ्चतेर्लुक् । लुक् तद्धितलु- कीति स्त्रीप्रत्ययस्य लुक् । तस्मिन्निवृत्ते भसंज्ञाभावादीत्वमपि निवर्तते । तसि- लादिस्तद्धित एधाचपर्यन्त इत्यव्ययत्वे द्वितीयालुकू । तथैव सुषेणं वानरं पश्चिमां दिशं प्रास्थापयत् । कृतत्वरः त्वरितः ॥ १- ९५ । वृष्टिर् वर्षे तद्विघाते ऽवग्राहाऽवग्रहौ समौ ।" २ - ०१४४५ । तुला सूत्रेऽश्वादिरश्मौ प्रग्राहः प्रग्रहोऽपि च ॥ ३ – १ (४८३) लोकस्थं टीकनं प्रेक्ष्यम्' इति ना० अ० । तथा लक्ष्य रूपे कथानके सीताइन्वेषणं नाम सप्तमः सर्गः ५२ ४८६ - प्राचीं तावद्भिर - व्यग्रः कपिभिर् विनतो ययौ ॥ अ - प्रग्रहैरि॑िर्वाऽऽदि॒त्यो वाजिभिर्-दूर-पातिभिः प्राचीमित्यादि—कपिभिस्तावद्भिरित्येककोटिसंघातैः सुग्रीव इत्यर्थात् । अव्यत्रः अनाकुलः । प्राचीं पूर्व दिशं ययौ । यथा आदित्यो वाजिभिरमग्राहैः मुक्तबन्धनैः करणभूतैः । '३२२८। रश्मौ च ।३।३।५३।' इति घञ् । दूरपातिभिः दूरयायिभिः ॥ सह विनतः प्रणतः । ४८७ - ययुर् विन्ध्यं शरन् - मेघैः प्रावारैः प्रवरैरिव ॥ १७७ प्रच्छन्नं मारुति - प्रष्ठाः सीतां द्रष्टुं प्लवङ्गमाः ॥ ५३ ॥ ययुरित्यादि – मारुतिप्रष्ठाः हनुमदग्रेसराः सीतां द्रष्टुं विन्ध्यपर्वतं ययुः । शरन्मेवैः प्रावारैरिव प्रच्छन्नम् ' ३२२९। वृणोतेराच्छादने । ३।३।५४।' इति वज् । प्रवरैः श्रेष्टेः । अनाच्छादने ग्रहेत्यादिना अप् ॥ ४८८ - परिभावं मृगेन्द्राणां कुर्वन्तो नर्ग-मूर्धसु ॥ विन्ध्ये तिग्मांशु - मार्गस्य चेरुः परिभवोपमे ॥ ५४ ॥ परीत्यादि – मृगेन्द्राणां सिंहानां परिभावमभिभवं कुर्वन्तः । विन्ध्ये चेरुः भ्रान्ताः । '३२३० । परौ भुवोऽवज्ञाने ।३।३।५५।' इति घञ् । कीदृशे [ तिग्मांशु- मार्गस्य ] परिभवोपमे । आदित्यमार्गस्य परिभवनम् । अत्युञ्चत्वात् । घञभाव- पक्षे अप् ॥ ४८९ - वेमुः शिलोच्चयांस् तुङ्गानुत्तेरुरंतरान् नदान् ॥ आशंसवो लवं शत्रोः सीतायाश च विनिश्चयम् ५५ भ्रेमुरित्यादि — उत्पूर्वाच्चिनोतेः '३२३१॥ इरच् ।३।३।५६।' इत्यच् । शिला- भिरुचयो येषां तान् शिलोच्चयान् । मुः भ्रमणक्रियाया व्याप्यत्वात् सकर्म- कता । नदान् अतरान् तरितुमशक्यान् उत्तेरुः उत्तीर्णवन्तः । शत्रोलवमुच्छेद- नम् । सीतायाश्च विनिश्चयं विनिर्णयम् । आशंसवः आशंसनशीला: । '३१४८ । सनाशंसभिक्ष उः । ३॥२।१६८।' तरलवौ '३२३२ । ऋोरप् । ३ ।३।५७ ।' इति अप्रत्ययान्तो विनिश्चयमिति ग्रहे त्यप् ॥ ४९० - आदरेण गमं चक्रुर् विषमेष्व॑प्य॑ सङ्घसाः ॥ व्याप्नुवन्तो दिशो ऽन्यादान् कुर्वन्तः स व्यधान् हरीन् ॥ ५६ ॥ १–६८१ । द्वौ प्रावारोत्तरासङ्गो समौ बृहतिका तथा ॥ २ – '१२२४/ शैल वृक्षौ नगावगौ ।' इति ना० अ० । १७८ भट्टि- काव्ये - द्वितीचेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः, । आद्रेणेत्यादि — विपमेष्वपि प्रदेशेषु गर्न गमनं चक्रुः । आदरेणानवज्ञया । ग्रहे त्यप् । असङ्घसाः त्यताहाराः । ३२३५। उपसर्गेऽदः ।३।३।५९१ । इत्यपि '३२३६ । वञपोश्च ।२।७।३८॥ इति अर्घस्लादेशः । हरीन् सिंहान् । सच्यधान् स॒प्रहारान्। '३२३७॥ व्यव-जपोः - ।३।३।६१।' इत्य । सहारत्वादन्यादान् परित्यक्ताहारान् कुर्वन्तः । ३२३७ । नौ ण च ।३।३।१०॥ इति निपूर्वादढोऽण् प्रत्ययः । तस्मिन्नदेर्न घस्लादेशः । चकारादपि तत्र निवसः । दिशो व्यामुवन्तः सर्वव्यापिनः ॥ ४९१ - संचेरुः स-हसाः केचिर्द, स्वनाः केचिदा॑दिपुः ॥ संग्राम-वन्तो यति चन्, निर्गदानपरे ऽमुचन्. ॥१७॥ संचेरुरित्यादि-सहसा: सस्मिताः । अस्वनास्तूष्णीका: । '३२३९। वन- इसोर्वा ॥३।३।६२।' इत्यप् । यतिवत् संयामवन्तः नियमवन्तः '३२४० । यमः समुप-नि- विपु च ।३।३।६३ ।' इति वञ् । आटिपुः अटितवन्तः । अटेर्लुङि रूपम् । अपरे निगदान्वचनान्यमुचन् । '३२४१ । नौ गद – ।३।३।६॥' इत्यादिना विकल्पेनापो विधानात् वञ् ॥ ४९२- अथं कुमार्द-निःकाणा नराः क्षीण - पण इव ॥ अ-मदा: सेदुरैकस्मिन् नितम्बे निखिला गिरेः ॥ ५८ ॥ अथेत्यादि – अथ परिभ्रमणादनन्तरं क्लमेन परिश्रमेण अमदाः गतहर्षाः । ' ३२४४ । मदो अनुपसर्ग ।३।३।६७।' इत्यप् । अत एव निःकाणा: निश्शब्दाः ' ३२४२ । कणो वीणायां च ।३।३।६५।' इत्यपो विकल्पेन घञ् । वीणादि विषयमे- तत् । क्वणेर्निपूर्वादनुपसर्गाद्वीणादिविषयाच्च विकल्पेनाप्प्रत्यय इत्युक्तम् । एक- स्मिन् गिरेर्नितम्बे सेदुः निपण्णाः । निखिला: समस्ता वानराः क्षीणपणा इव अर्थरहिता नरा इव । पण्यन्त इति पणाः । व्यवहाराय कृते पणे व्यवस्थाप्यन्ते । '३२४३ । नित्यं पणः परिमाणे ।३।३।६६।' इत्यप् ॥ ४९३ - ततः स संमदास् तत्र निरक्षन्त पतत्रिणः ॥ गुहा-द्वारेण निर्यातः समजेन पशुनिव. ॥ ५९ ॥ तत इत्यादि — ततो विश्रामानन्तरं ते तत्र तस्मिन् पर्वते पतत्रिणः पक्षिणो निरक्षन्त ईक्षितवन्तः । ईङि रूपम् । कीदृशान् । गुहाद्वारेण निर्यातः निर्ग१ – ११७० । निगादो निगदे, मादो मद, उद्वेग उद्भमः । २–१९७ । निक्काणो निक्कणः क्वाणः कणः क्वणनमित्यपि । १९८ वीणायाः क्वणिते प्रादेः प्रकाण: प्रक्कणादयः । ३ – '१२५३ । पणो द्यूताऽऽदिपूत्सृष्टे भृतौ मूल्ये थनेऽपि च ॥ ४ – '३४४। कटकोऽस्त्री नितम्बोद्रेः स्नुः प्रस्थ: सानुरस्त्रियाम् ।' ५- '५६२ । पशूनां समजोऽन्येषां समाजोऽथ सघाणाम् । इति सर्वत्र ना० अ० ॥ तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः च्छतः । निप्पूर्वाद्यातेः शत्रन्तस्य शसि रूपम् । ससंमदाः सहर्षाः । '३२४५॥ प्रमद- संमदौ -।३।३।६८ ।' इति निपातितम् । समजेन वृन्देन पशूनिव निर्यातः '३२४६। समुदोरजः पशुपु ।३।३।६९।' इत्यप् ॥ ४९४ - वीनार्मुपसरं दृष्टा ते ऽन्योन्योपहवा गुहाम् ॥ प्राविशन्ना हव-प्रज्ञा आहावैर्मुपलिप्सवः ॥ ६० ॥ १७९ इत्यप् । वीनामित्यादि — वीनां पक्षिणामुपसरं नैरन्तर्येण निर्गमनं दृष्ट्वा । उपसर इव उपसरः नैरन्तर्य मात्रेणोपलक्षितत्वात् । उपसरो हि स्त्रीगवीपु पुङ्गवानाम- भिगमनमुच्यते स च नैरन्तर्येण भवति । '३२४८ प्रजनेसः । ३।३१७११ ते वानरा अन्योन्योपहवाः परस्परमाह्वानं येषां आगच्छतागच्छत प्रविशत इति । '२५६८ । ह्रः संप्रसारणम् । ६।१।३२।' इत्यप् संप्रसारणं च । गुहां प्रावि- शन् प्रविष्टवन्तः । आहवप्रज्ञाः युद्धप्रज्ञाः । आहूयते युद्धाय स्पर्धतेऽत्र । '३२- ५० आङि युद्धे ।३।३।७३।' इत्यप् संप्रसारणं च । आहावमुपलिप्सवः उदका- धारमुपलब्धुमिच्छवः । '३२५१ । निपानमाहावः ।३।३।७४ ।' इति वञि संप्रसारणं निपात्यते वृद्धिरस्त्येव । अप्प्रत्यये त्ववृद्धिः ॥ ४९५ कुर्वन्तो हवमा॑प्तानां पिपासा-वध - काङ्क्षिणः ॥ द्वारं तमो पर्ने प्रख्यं गुहायाः प्राविशन् द्रुतम् ॥६१॥ कुर्वन्त इत्यादि — गुहां प्रविश्य तस्याः द्वारमपरं प्राविशन् । आप्तानां स्त्रि- ग्धानां हवमाहानं कुर्वन्तः । '३२५२ । भावेऽनुपसर्गस्य ।३।३।७५ । इत्यप् संग्र सारणं च । पिपासा पातुमिच्छा तस्या वधोऽपनयनम् । ३२५३ । हनश्च वधः ।३।३।७६।' इत्यप् वधादेशश्च । तं काङ्क्षितुं शीलं येषामिति । १७१७ । काक्षि- माक्षि काङ्क्षायाम्' इत्यस्मात् ८ २९८८ । सुप्यजातौ णिनिः । ३।२।७८॥ २२- ६२। इदितो नुम् – ।७।१।५८ । साधुकारिणि वा । कीदृशं द्वारम् । तमोघनप्रख्यं तमसो घनः मूर्तिः काठिन्यं तेन सदृशम् ३२५४ । मूर्ती घनः । ३।३१७७७१' इति हन्तेरप् प्रत्ययो घनादेशश्च निपात्यते । मूर्तिमत्तम इव द्वारमित्यर्थः ॥ ४९६-तस्मिन्न॑न्तर्घणे ऽपश्यन् प्रघणे सौध-सद्मनः ॥ लौहोद्घन-घन- स्कन्धा ललिताऽपर्धेनां स्त्रियम् ६२ तस्मिन्नित्यादि — द्वारमतिक्रम्य यः सावकाशप्रदेशः सो ऽन्तर्घुण इत्युच्यते । तथा ह्यन्तर्हन्यते क्रोडीभवत्यस्मिन्निति अनुगतार्थत्वम् ॥३२५५ । अन्तर्धनो देशे २१ – '११८३ । प्रजनः स्यादुपसरः ॥ २–१८७१ । अभ्यामर्द - समाघात - संग्रामाऽभ्यागमाऽऽहवाः ।' ३–'२८० आहाचस तु निपानं स्यादुपकूप जलाशये ॥ ४- २३१८ । धनो मेघे मूर्तिगुणे त्रिषु मूर्ते निरन्तरे ।" ५ – '३३३ । प्रघाण-प्रघणाऽलिन्दा बहिर्द्वारप्रकोष्ठके ॥ ६–११९३। निधाय तक्ष्यते यत्र काष्ठे काष्ठं स उद्धनः ॥ ७ – ६३४ अङ्गं प्रतीको savaisyari, sथ कलेवरम् ।' इति स० ना० अ० ॥ १८० भट्टिकाव्ये - द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीय वर्गः, ।३।३।७८।' इत्यन्तःपूर्वाद्धन्तेर धनादेशः, घणादेशो वा ये णकारं पठन्ति । यत्तु संज्ञीभूतो वाहीकेषु देशविशेष इत्युक्तं तत् संज्ञाशब्दमाश्रित्य । तस्मिन्नन्तरे यत् सौधसम धवलगृहं तस्य ग्रघणे एकदेशे । '३२५६ । प्रवणः प्रत्राणश्च ।३।३।७९।१ इति निपातितम् । स्त्रियं ललितापधनां ललिताङ्गीमपश्यन् । १३२५९। अपवनो ऽङ्गम् ।३।३।८१।' इति निपातनम् । लौहोघनघनस्कन्धाः । यस्मिन् स्थापयित्वा काष्टादीनि संस्क्रियते स उद्धनः तद्दनः स्कन्धो येपामिति । '३२५७॥ उद्- नोऽत्याधानम् ।३।३।८० । ' इति निपातनम् ॥ ४९७ - सा स्तम्बघ्न-पद-न्यासान् विघनेन्दु-सम-द्युतिः ॥ परिघा॑रु - भुजाना॑ह हसन्ती स्वागतं कपीन् ॥ ६३ ॥ सेत्यादि- इ-सा स्त्री हसन्ती कपीन् स्वागतं वच आह । कीदृशी । विघनेन्दु- समद्युतिः । विहन्यते अभिभूयते अन्या सुतिर्येन स विधनः । '३२५९ करणे- ज्योविद्रुपु ।३।३॥८२ ।' इत्यप् घनादेशश्च । स चेन्दुश्चेति सः । तत्समा सुति र्यस्याः । स्तम्बो हन्यते येन पादन्यासेन स स्तम्बघ्नः । तृणकाष्ठादिः । ३२६०। स्तम्बे क च ।३।३॥८३।' इति करणे कः । '२३६३। गम-हन - ६ । १४॥९८४८ इत्यु- पधालोपः । तादृशः पादन्यासो येषां कपीनामिति । परिहन्यते येन । '३२६१॥ परौ घः । ३।३।८१४।' इत्यप् घादेशश्च । परिवोऽर्गलः । तदनुकारिणो विपुला बाहवो येषामिति ॥ ४९८ - पिप्राय ऽद्र गुहोपनांनुद्घान् संघसमागतान् ॥ फलैर् नाना-रसैश् चित्रैः स्वादु - शीतैश्च वारिभिः६४ पिप्रायेत्यादि- तान्विविधैः फलैर्वारिभिश्च पिप्राय तर्पितवती । अद्विगुहो- पघ्नान् । अद्विगुहेव उपघ्न आश्रयो येषां कपीनाम् ' ३२६३। उपन्न आश्रये ।३।- ३३८५ ।' इत्यप् उपधालोपश्च निपात्यते । संघसभागतान् समूहेनागतान् । उद्घान् प्रशस्तान् । '३२६४। संघोघौ गण- प्रशंसयोः ।३।३।८६ ।' इति समुदोरुपपदयोः हन्तेरपि टिलोपश्च निपात्यते ॥ ४९९–निघऽनिघ-तरु-च्छन्ने तस्मिंस् ते लब्धिमैः फलैः ॥ तृप्तास् तां भ्राजथु-मर्ती पप्रच्छुः - 'कस्य पूरि॑ियम्.' ६५ निघेत्यादि – तस्मिन्प्रघणे निधानिधैर्निमितानिमितैस्तरुभिश्छन्नैः । '३२६५। निघो निमितम् ।३।३।८७।' इति निपूर्वाद्धन्तेरपि टिलोपो निपात्यते । समारोहपरिरोहाभ्यां निमितमित्युच्यते । ते कपयः । लब्धिमैर्लाभनिर्वृत्तैः । '४२६६। द्वितः १ – ११९३ । स्तम्बघ्नस् तु स्तम्बधनः स्तम्बो येन निहन्यते ॥ २ - ११७६ स्यादु नो ऽन्तिकाश्रये ॥ । ३ – १४९ मतलिका मचर्चिका प्रकाण्डमुद्धतष्ठजौ । प्रशस्त- बाचकान्यमूनि ।' इति सर्वत्र ना० अ० । तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः – १८१ क्रिः ।३।३१८८।' फलैस्तृप्ताः सन्तस्तां स्त्रियं भ्राजथुमतीं शोभावतीम् । पप्रच्छुः पृष्टवन्तः कस्येयं पूरिति । '३२६७ । द्वितो ऽथुच् ।३।३।८९॥ तदन्तान्मनुप् ॥ ५०० - 'रंक्ष्णं करोषि कस्मात् त्वं, यलेना॑ऽऽख्यायतां शुभे ! ॥ स्वप्ने निधि-वदा॑भाति तव संदर्शनं हि नः ॥ ६६ ॥ रक्ष्णमित्यादि – हे शुभे ! कस्माद्वा रक्षणं रक्षां करोषि । एतद्यलेनादरेण नोऽस्माकमा ख्यायताम् । उभयत्रापि '३२६८। यज-याच - ।३।३।९० । ' इति न । यस्मात्स्वप्ने निधिवत् निधिरिव तव संदर्शनमाभाति । नोऽस्माकमतिदुर्लभ त्वात् । स्वप्न इति '३२६९ । स्वपो नन् ।३।३।९१ । निधिरित '३२७०१ उप- सर्गे घोः किः । ३।३। ९२ । १ ॥ ५०१ ततो जलधि-गम्भीरान् वानरान् प्रत्युवाच सा ॥ 'इयं दानव-राजस्य पूः सृष्टिर् विश्वकर्मणः ॥ ६७ ॥ तत इत्यादि — ततस्तस्मादनन्तरं सा प्रत्युवाच । जलं धीयते अस्मिन्निति अधिकरणे चेति किः । जलधिः समुद्रः । तद्द्वद्गम्भीरानक्षोभ्यत्वात् । इयं पूः दानवराजस्य विश्वकर्मणः सृष्टिः । सृज्यत इति सृष्टिः । कर्मणि '३२७२। स्त्रियां तिन् ।३।३।९४ । ॥ इतः स्त्रीलिङ्गमधिकृत्योच्यते- ५०२ - निहतश् च स्थितिं भिन्दन् दानवोऽसौ बल-द्विषा, ॥ दुहिता मेरुसावर्णेरहं नाम्ना स्वयं प्रभा ॥ ६८ ॥ निहत इत्यादि — असौ दानवराजः स्थितिं मर्यादां भिन्दन् । '३२७३॥ स्थागा पा-पचो भावे ।३।३।१५॥ इति क्तिन् । बलद्विषा इन्द्रेण निहतः । यस्य चाहं दुहिता । स पिता । नाम्ना मेरुसावर्णिः, अहं च नाम्ना स्वयंप्रभेति ॥ ५० ३ - जूँतिमिच्छथ चेत् तूर्णं, कीर्ति वा पातुर्मात्मनः ॥ करोमि वो बहिर् - यूतीन्, पिधध्वं पाणिभिर्दृशः ६९' जूतिमित्यादि — यदि तूर्णं शीघ्रं जूतिं गमनमिच्छथ । कीर्तिं वा आत्मनः पातुं रक्षितुम् । वः युष्मान् बहिर्यूतीन् बहिर्भूतान् । '३२७४ । ऊति यूति- ।३।३।९७ । ' इत्यादिना निपातितः । तत्र यौतेर्जवतेश्च तिन् दीर्घत्वं च निपात्यते । कीर्तिप '१७७५॥ कृत संशब्दने' स्वार्थिको णिच् । '२५७१। उपधायाश्च ।७।१।१० ११ इतीत्वं तस्मात् तिन् । अतः पाणिभिः । दृशो दृष्टी: पिधध्वं आच्छादयध्वम् । अपिपूर्वाद्धाजो लोटि द्विर्वचने '२५०१ । दूध-स्तथोश्च ।८।२।३८॥ इति अभ्यासस्य भष्भावे '२४८३ । श्वाभ्यस्तयोः ।६।४।११२।' इत्याकारलोपे '५२। झलां जश् झशि ।८।४।५३१' इति धातोर्दकारे 'वष्टि भागुरि:-' इत्युपसर्गाकारलोपे च रूपम् ॥ १–'११६६' रक्ष्णस् त्राणे, रणः कणे ।' इति ॥ २ – ११९६ । जवने जूतिः सातिः । * इति सर्वत्र ना० अ० ॥ भ० का० १६ १८२ भट्टि काव्ये —— द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः, ५०४ -व्रज्या यती निरुद्रा॒ऽक्षान् विद्येवा॑ऽनुष्ठित क्रियान् ॥ निरचित्रमर्दिच्छा तो वानरांश चङ्गमावतः ॥ ७० ॥ व्रजेत्यादि- -सा व्रज्यावती प्रशस्तगमनवती । '३२७५ । व्रज-यजोभावे क्यप् ।३।३।९८१ प्रशंसायां मतुप् । वानरान्निरुद्धाक्षान् निरचिक्रमत् निष्कासितवती । क्रमेर्ण्यन्तस्य लुङि '२३१६ । सन्वल्लघुनि – ।७।४।१३।' इति सन्वद्भावात् '२३१७॥ सन्यतः १७॥४॥७९॥ इतीत्वम् । '२३१८ । दीर्घो लवोः ।७।४।९४।' इति न दीर्घत्वं संयोगपरस्य गुरुत्वात् । अनुष्ठितक्रियानाचरिततदुपदिष्टव्यापारान् । '३२७७१ कृञः श च ।३।३।१०० ।' इति शः । '२७५६ सार्वधातुके यक् ।३।१।६७ । । रिङादेशश्च । चङ्क्रमावतः कुटिलगतिमतः । '३२७९ । अः प्रत्ययात् । ३।३।१०२ । ' इत्यकार: । इच्छात इति वानराणामिच्छायाः । '३२७८ । इच्छा ।३।३।१०१।' इति निपातितम् । इपेः शप् प्रत्ययः छभावश्च निपात्यते । विद्या । '३२७६ । संज्ञा- याम् । ३।३।९९।' इति क्यप् । यथा विद्या अनुष्टितक्रियान् कृतपुरश्चरणान् पुरु- पानिच्छातोऽभीष्टं सम्पादयति तद्वत्सेति ॥ ५०५ - निष्क्रम्य शिक्षया तस्यास् त्रपा-वन्तो रसा-तलात् ॥ ज्ञात्वा मासम॑तिक्रान्तं व्यथाम॑वललम्बिरे. ॥ ७१ ॥ निष्क्रम्येत्यादि - तस्याः शिक्षया उपदेशेन ' ३२८०१ गुरोश्च हलः ।३।३।- १०३ ।' इत्यकारः । तस्मादसातलान्निष्क्रम्य निर्गत्य त्रपावन्तः स्त्रिया उपदेशेन निष्क्रान्ता वयमिति नपेति । '३२८१ । विद्भिदादिभ्योऽङ् ।३।३।१०४।' मास- मतिक्रान्तं ज्ञात्वा बहिर्निर्गताः सन्तः व्यथां भयम् । भिदादित्वादङ् । अवलल म्बिरे वयं मासावधिना प्रेषिताः स च मासो विनैव कार्येणातिक्रान्त इति स्वामिनो भयम् ॥ ५०६-चिन्ता-वन्तः कथां चक्रुरुपर्धा-भेद-भीरवः ॥ 'अ - कृत्वा नृ-पतेः कार्य पूजां लप्स्यामहे कथम्. ७२ चिन्तेत्यादि – उपधानमुपधा परीक्षा । '३२८३ । आतश्लोपसर्गे । ३।३- १०६ । ' इत्यङ् । तत्परिशुद्धो हि भृत्यः कार्येषु नियुज्यते । तदकरणादुपधाया भेदोऽभावः तस्माद्भीरवः । चिन्तावन्त इति कर्तव्यतामूढाः कथां चक्रुः कृतवन्तः । कीदृशीमित्याह । अकृत्वा नृपतेः कार्य पूजां लप्स्यामहे कथमिति, नैवेत्यर्थः । चिन्तादयः । '३२८२ । चिन्ति-पूजि - ।३।३।१०५।' इत्यादिना अङन्ताः ॥ ५०७ - प्रायोपासनया शान्ति मन्वानो वालि संभवः ॥ युक्त्वा योगं स्थितः शैले विवृण्वंश्चित्त-वेदनाम् ॥७३॥ प्राय इत्यादि — उपासनेति । '३२८४ । ण्यासश्रन्थो युच् ।३।३॥१०७।' प्रायेण अविच्छेदेन उपवासेनोपासनया अनशनेनासनमित्यर्थः । तया शान्ति १- '७८७। मेदोपजापावुपधा धर्मांऽऽधैर्यत्परीक्षणम् ।' इति ना० अ० । तथा लक्ष्य-रूपे कथानके सीताऽन्वेषणं नाम सप्तमः : सर्गः-कल्याणं मन्वानोऽवगच्छन् उपायान्तराभावात् । चालिसम्भवोऽङ्गदः । योगश्चित्तवृत्तिनिरोधः । तं युक्त्वा संबध्य शैले स्थितः । चित्तवेदनां चित्तपीडां विवृण्वन् । 'घट्टि - विदि- वन्दिभ्यो युज् वक्तव्यः' इति युच् ॥ ५०८ - प्रस्कन्दिकार्मिक प्राप्तो ध्यात्वा ब्रूते स्म जाम्बवान् ॥ 'धिक् शालभञ्जिका प्रख्यान् विषयान् कल्पना रुचीन, ॥ ७४ ॥ प्रस्कन्दिकामित्यादि- - त्वया का क्रिया कर्तव्येत्यन्तैः पृष्टः सन् जाम्बवान् ध्यात्वा विचिन्त्य ब्रूते स्म । प्रस्कन्दिकामिव रोगविशेषमिव प्राप्तो यातः उत्सा- हाभावात्। '३२७५॥ रोगाख्यायां ण्वुल बहुलम् ।३।३।१०८ शालभञ्जिका क्रीडाविशेषः । '३२८६ । संज्ञायाम् ।३।३।१०९ ।' इति ण्वुल । '७१११' नित्यं क्रीडा ।२।२।१७।' इत्यादिना सः । तत्प्रख्या विषया रूपादयः अतितुच्छत्वात् । अतस्तान् धिक् । किन्तु कल्पनारुचीन् कल्पनीयान् ॥ ५०९ - यां कारिं राज पुत्रो, ऽयमनुतिष्ठति, तां क्रियाम् ॥ अहम॑प्य॑नु॒तिष्ठामि' सो ऽप्यु॑क्त्वैवमु॑पाविशत् ॥ ७५॥ यामित्यादि — अयं राजपुत्रो ऽङ्गदो यां कारिं क्रियामनुतिष्ठति तां क्रियां अहमण्यनुतिष्ठामि । '३२८७ । विभाषा ऽऽख्यान - परिप्रश्नयोरिज च ।३।३।११० । ' इति करोतेरिञ् । पक्षे '३२७७ । कृजः श च । ३।३।१०० ।' इति शः । सोऽप्ये- वमुक्त्वा उपाविशत् अनशनेन स्थितः ॥ ५१० - उवाच मारुतिर् वृद्धे संन्यासिन्यत्र वानरान् ॥ " 'अहं पर्याय - संप्राप्तां कुर्वे प्रायोपवेशिकाम् ॥ ७६ ॥ उवाचेत्यादि – मारुतिर्वानरानुवाच - वृद्धे जाम्बवति संन्यासिनि अनशन वति अहमप्यत्र शैले पर्यायेण परिपाट्या संप्राप्तां प्रायोपवेशिकां अनशनं कुर्वे । '३२८८ । पर्यायार्हण - ।३।३।१११।' इत्यादिना ण्वुल ॥ ५११ - अ - भावे भवतां यो ऽस्मिन् जीवेत् तस्या॑ऽस्त्वं जीवनिः ॥' इत्यु॑क्त्वा सर्व एव ऽस्थुर् बा योगाssसनानि ते ॥ ७७ ॥ अभाव इत्यादि — अभावे विनाशे भवतां योऽस्मिन् लोके जीवेत् तस्यास्त्वजीवनिः धिग्जीवितम् । ३२८९ । आक्रोशे नव्यनिः ।३।३।११२।' एवमुक्त्वा सर्व एव अस्थुः स्थिताः । तिष्ठतेः '२२२३। गाति-स्था । २।४॥७७॥ इति सिचो लुक् । बवा योगासनानि विरचय्य पद्मासनादीनि ॥ , १८४ भट्टि काव्ये -- द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः, इतस्त्रीलिङ्गभावं निवर्त्य कृदुदाहियते-- ५१२ - अ-क्लेश्यमसिना ऽयन्तं कवन्ध-वधमभ्यधुः ॥ धिङ नः प्रपतनं घोरं केदाऽन्तत्वम॑- नाथ-वत्. ७८ अक्लेश्यमित्यादि—कबन्धवधं योजनवाहोर्वधमभ्यधुः अभिहितवन्तः । अभिपूर्वो धाजभिधाने वर्तते । कीदृशम् । अक्लेइयं प्रयासरहितम् । अकस्मात् असिना सुखमरणात् तं चायन्तं अन्ते तस्याग्निरभूत् । अस्माकं धिक् प्रपतनं विनाशम् । दुःखेन घोरत्वात् । क्लेदान्तवं अन्ते पूतीभावं तद्यत्रास्ति । अर्शआ- दिव्वादच् । अनाथानामिव । अक्लेश्यग्रपतनशब्दौ भावसाधनौ । कृत्यल्युटो बहुलमिति ॥ ५१३ - ततो मन्द-गतः पक्षी तेषां प्रायोपवेशनम् ॥ अशनीयमि॑िवशंसुर् महाना॑याद - शोभनः ॥ ७९ ॥ तत इत्यादि — ततो ऽभिहितानन्तरं महान् पक्षी सम्पातिनामा जटायु- आता । आयात् आगतः । मन्दगतो मन्दगमनः । '३०९० । नपुंसके भावे क्तः ।३।३।११४।' आहिताग्नित्वात् परनिपातः । तेषां यत्प्रायोपवेशनं तदशनीयमिव भोजनीयमिव । '२८४१॥ कृत्यल्युटो बहुलम् । ३।३।११३।' इति कृत्यः । आशंसुः आशंसनशीलः । अशोभन: शोभारहितः । दावाग्निना ब्रुष्टशरीरत्वात् । '३२९० । ल्युट् च ।३।३।११५॥' इति भावे ल्यु । '३२९१ । कर्मणि च येन । ३।३॥१६। इत्येतत्परिहृत्योदाहृतत्वात् ॥ y ५१४ - देह ब्रश्च॑न-तुण्डदा॒ऽग्रं तं विलोक्या ऽशुभाऽऽकरम् ॥ पापगोचरमा॑त्मानम॑शोचन् वानरा मुहुः ॥ ८० ॥ देहेत्यादि — वृत्र्यते येन तुण्डाग्रेण । '३२९३ । करणाधिकरणयोश्च ।३।३।- ११७ ।' इति करणे ल्युट् । देहस्य ब्रश्चनमिति कृद्योगे पष्ठी । देहब्रश्चनं तुण्डायं यस्य तं विलोक्य । वानरा अशुभाकरं पापस्योत्पत्तिस्थानम् । आकर इवाकरः । ' ३२९६ । पुंसि संज्ञायां घः - ।३।३।११८।' तत्र हि करणाधिकरणयोरिति वर्तते । एवं उत्तरत्रापि चात्मानं पापगोचरं पापविषयं पापविषये पतिता वयमिति मुहुरशोचन् शोचितवन्तः । '३२९८ । गोचर सञ्चर-।३।३।११९।' इत्यधिकरणे निपातितः ॥ ५१५ - 'जटायुः पुण्य - कृत् पक्षी दण्डकारण्य सञ्चरः ॥ कृत्वा राघव - कार्यं यः स्वरा॒ऽऽरूढो ऽग्नि-संस्कृतः ८१ जटायुरित्यादि — कृत्वा राघवकार्यम् । अग्निसंस्कृत: अग्निना कृतसंस्कारः । स्वः स्वर्गमारूढः । जटायुः पुण्यकृत् । संचरत्यस्मिन्निति संचरः । पूर्ववत् निपा- तितः । दण्डकारण्यं संचरोऽवस्थानं यस्येति ॥ १- '१०२० । ब्रश्चनः पत्रपरशुरीषिका तूलिका समे ।" इति ना० अ० ॥ तथा लक्ष्य रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १८५ ५१६ - नरकस्या ऽवतारो ऽयं प्रत्यक्षो ऽस्माकर्मागतः ॥ अ- चेष्टा यदिहा ऽन्यायाद॑नेना scस्यामहे वयम् ८२ नरकस्येत्यादि – अवतीर्यते येन कर्मणेति । '३२९९१ । अवे तृखोज । ३।३।१२० । ' स एवायं नरकस्यावतारः प्रत्यक्षोऽस्माकमागतः । यद्यस्माद्वयम चेष्टाः निश्चलाः अनेन पक्षिणा अन्यायादयुक्त्या । नीयते अनेनेति निपूर्वादिणः '३३०१। अध्याय-न्याय- । ३ ।३।१२२॥ इति निपातनात् घञ् । अत्स्यामहे भक्ष- यिष्यामहे । कर्मणि लृट् ॥ ५१७ – हृदया॒दङ्क - संस्थानं कृतान्ता॒ऽऽनाय॑ - सन्निभम् ॥ शरीरा॒ऽऽखन-तुण्डऽग्रं प्राप्या- ऽमुं शर्म दुर्लभम् . ८३ हृदयेत्यादि – अमुं पक्षिणं प्राप्य । कीदृशं हृदयोदकसंस्थानम् उदश्यते आ- कृप्यते अनेनेति उत्पूर्वादञ्चतेः । '३३०२ । उदको अनुदके ।३।३॥२३।' इति धञ् निपात्यते । हृदयस्योदङ्क: संदंशः तत् संस्थानं तत्सदृशम् । कृतान्तानायसन्नि- नं यमजालतुल्यम् । तत्प्रविष्टस्य दुःखेन निर्गमत्वात् । '३३०३ । जालमानायः १३।३।१२४।' इति नयतेराङ्पूर्वात्करणे घञ् निपात्यते । आखन्यते येन तुण्डा- ग्रेण । खनो वच् । शरीरस्याखनं तादृक् तुण्डाग्रं यस्येति । प्राप्य शर्म सुख दुर्लभं कृच्छ्रलभ्यम् । '३३०५ । ईषद् । ३।३॥१२६।' इत्यादिना खल् । अत्र कर- णाधिकरणयोश्चेति निवृत्तम् । '२८३३ । तयोरेव कृत्य-क्त खलर्थाः ।३।४।१०। इति योज्यम् । '३३०६ । उपसर्गात् खलू-घजोः ।७।१।६७ ।' इति प्राप्तस्य नुमः '३३०७॥ न सुदुर्भ्याम् ।७।१।६८ ।' इति प्रतिषेधः ॥ ५१८ - ईपाठ्यङ्करो ऽप्ये॑ष न परत्रा ऽशुभ-क्रियः ॥ 5 अस्मान॑त॒मि॑ितो ऽभ्येति परिग्लानो बुभुक्षया ॥४॥ ईपदित्यादि - य एष अस्मानत्तुमितः प्रदेशादभ्येति आगच्छति स परत्र परलोके ईषदाड्यङ्करो ऽपि अनाढ्यैरीषदाढ्यो ऽपि न कृतः । अशुभेन कर्मणेत्य- र्थात् । '३३०८। कर्तृ-कर्मणोश्च भू-कुजोः ।३।३।१२७॥ इति व्यर्थे कर्मोपपदा- त्करोतेः खल । यतः परिग्लानो बुभुक्षया । यो हि कर्मणा शुभेन ईषदाढ्यङ्करो- ऽपि न कृतः स कथं न बुभुक्षया पीड्यते । परिग्लायतीति कर्तरि बहुलवचनात् ल्युट् । निष्टान्तो वा । '३०१७ । संयोगादे:- ।८।२।१३॥ इत्यादिना निष्ठानत्वम् । अशुभक्रियः सत्त्वगोहाभिरतत्वात् ॥ ५१९ - संप्राप्य वानरान् पक्षी जगाद मधुरं वचः ॥ ' के यूयं दुरुपस्थाने मनसा ऽप्यंद्रि-मूर्धनि इति कृदधिकारः । १ – '२७०। आनायः पुंसि जालं स्याच्छणसूत्रं पवित्रकम् ।" इति ना० अ० . ॥ ८५ ॥ १८६ भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः, संप्राप्येत्यादि-वानरान् संप्राप्य पक्षी जगाद गढ़ितवान् । के यूयं अद्वि- मूर्धनि पर्वतशिरसि दुरुपस्थाने दुःखेनोपस्थातुं शक्ये मनसापि किं पुनः शरी- रेण । '३३०९ । आतो युच्- । ३।३॥२८।' तन्नापि ईषदादयोऽनुवर्तन्ते । कर्तृ- कर्मणोरिति न स्मर्यते ॥ इति कृदधिकारः ॥ अथ प्रकीर्णकाः । इतः प्रकीर्णकश्लोकानाह" ५२० - आत्मनः परिदेवध्वे कुर्वन्तो राम-संकथाम् ॥ समानोदर्यम॑स्माकं जटायुं च स्तुथा ऽऽदरात् ॥८६॥ आत्मन इत्यादि- - आत्मनः परिदेवध्वे शोचथ । '५३४ । देव देवने' इति भौवादिकः । शसि '३५५ । न संयोगान्तात् । ६।४।१३७ । इत्यल्लोपो न भव- ति । जटायुं च समानोदर्य भ्रातरमस्माकम् । १६५९। समानोदरे शयित:- ।४।४।१०८।' इति यत् । आदरात् प्रस्तुथ स्तुतिं कुरुथ । जटायुः पुण्यकृढ़ि- त्यादिना । रामसत्कथां च कुर्वन्तः अतः के यूयमिति ॥ G ५२१ – शङ्का-धंवित्र-वचनं प्रत्यूचुर् वानराः खगम् — ॥, 'वयं शत्रु-लॅवित्रे॒षोर् दूता रामस्य भूपतेः ॥ ८७ ॥ शङ्केत्यादि — धुनोत्यपनयत्यनेनेति धवित्रम् । '३१३५ । अर्ति ऌ-धू–।३।२।- १८४ ।' इत्यादिना करणे इत्रः । किमयं करिष्यतीति शङ्काधवित्रं वचनं यस्य तं खगं वानराः प्रत्यूचुः । शत्रुलवित्रा इषवो बाणा यस्य रामस्य भूपतेस्तस्य वयं दूताः । पूर्ववदित्रं कृत्वा सः ॥ ५२२ - केना ऽपि दौष्कुलेयेन कुल्यां माहाकुलीं प्रियाम् ॥ हृतां महाकुलीनस्य तस्य लिप्सामहे वयम् ॥ ८८ ॥ के नेत्यादि- - तस्य रामस्य प्रियां केनापि दौष्कुलेयेन हृताम् । दुष्कुलस्या- पत्यमिति '११६५ । दुष्कुलाइढक् ।४।१।१४२।' कुल्यां कुले साध्वीं '१६५० । तत्र साधुः ॥४।४।१८।' इति यत् । माहाकुलीं माहाकुलीनस्येति महाकुलस्याप- त्यमिति '११६४। महाकुलादञ्-खजौ ।४।१।१४१ ।' इति अञ्खनौ । लिप्सामहे वयं लब्धुमिच्छामः ॥ ५२३ - त्रिंशत्तमम॑हर् यातं मत्वा प्रत्यागमाऽवधिम् ॥ अ - कृतार्था विषीदन्तः परलोकमुपास्महे ॥ ८९ ॥ " १- ५९७। समानोदर्य - सोदर्य - सगर्थ्य-सहजाः समाः ॥ २ – १७२९ । धवित्रं व्यजनं तद् यद् रचितं मृगचर्मणा ॥ ३–१८९८ दात्रं लवित्र मानन्धो योत्रं योक्रमथो फलम् 19 इति सर्वत्र ना० अ० तथा लक्ष्य-रूपे कथान के सीताऽन्वेवर्ण नाम सप्तमः सर्गः- १८७ त्रिंशदित्यादि ——– त्रिंशतः पूरणम् । १८५६ विंशत्यादिभ्यः–।५।२॥५६॥१ इति तमद् । त्रिंशत्तमं यदहः तत् प्रत्यागमावधिं प्रत्यागमनस्यावधिं यातं अती- तं मत्वा अकृतार्था अनिष्पादितप्रयोजना विषीदन्तो विषादं गच्छन्तो वयं पर- लोकमुपास्महे प्रायोपवेशनेन म्रियामहे ॥ ५२४ म्रियामहे, न गच्छामः कौशल्यायनि-वडभाम् ॥ उपलम्भ्यिार्म-पश्यन्तः कौमारी पततां वर ! ॥९०॥' म्रियासह इत्यादि — हे पततां पक्षिणां वर ! म्रियामहे न गच्छामः किमिति कौमारीं अकृत पूर्वदारपतिं लब्धवतीम् । १२१४ । कौमारापूर्ववचने ।४।२।१३। इति साधुः । कौशल्यायनिवल्लभाम् । कौशल्याया अपत्यं कौशल्यायनी रामः । ८ ११७९ । कौशल्य - कार्मार्याभ्यां च ।४।१११५५ ।' इति फिज् । फत्यायनादेशः । तस्य वल्लभां इष्टां उपलभ्यां प्रशस्ताम् । २८४४ । पोरदुपधात् ।३।१।९८ । १ इति यत् । '२८४६ । उपात्प्रशंसायाम् ।७।१।६६।' इति यत्प्रत्यये नुम् । अपश्य- न्तोऽनुपलभमानाः एते प्रकीर्णकाः ॥ इत: क्विदतिशेषमधिकृत्याह- ५२५ - जगाद वानरान् पक्षी - 'नाध्यगीढं ध्रुवं स्मृतिम् ॥ यूयं संकुटितुं यस्मात् काले ऽस्मिन्न॑ध्य॒वस्यथ ॥३१॥ जगादेत्यादि – ध्रुवं अवश्यं स्मृतिं स्मृतिशास्त्रं नाध्यगी नाधीतवन्त इति पक्षी वानरान् जगाद । '२४६०। विभाषा लुङ्-लुङोः ।२।४/५० ।' इति विभाषा गाङादेशः । '२४६१ गाङ्कुटादिभ्यः ॥२॥ इति सिचो ङित्त्वम् । '२३६२। घुमा-स्था । ६।४।६६ । इतीत्वम् '२२४९ । धि च ।८।२।२५॥ इति सि चो लोपः । '२२४७। इणः षीध्वम् । ८।३।७८ ।' इति मूर्धन्यः । यस्माद्ययमस्मिन् काले संकुटितुं अवसातुमध्यवस्यथ अभिप्रायं कुरुथ । कुटादित्वात् ङित्वम् ॥ अयमेवावसातुं काल इति चेदाह ५२६ - नाऽयमुद्विजितुं कालः स्वामि कार्याद् भवादृशाम् ॥ हृत-भार्ये च्युते राज्याद् रामे पर्युत्सुके भृशम् ॥९२॥ नायमित्यादि — भवादृशां युष्मद्विधानां स्वामिकार्यादु द्विजितुं नायं कालः । '२५३६। विजः-।१।२।२।' इति डिवम् । किमिति न भवतीति चेदाह-राज्या- च्युते भ्रष्टे रामे निर्वासितत्वात् । तत्रापि हृतभार्ये भृशमत्यर्थं पर्युत्सुके सीतायाम् ॥ ५२७ - यलं प्रोर्णवितुं तूर्ण दिशं कुरुत दक्षिणाम् ॥ प्रोर्णुवित्र दिवस् तत्र पुरीं द्रक्ष्यथ काञ्चनीम् ॥ ९३ ॥ यतमित्यादि - दक्षिणां दिशं प्रोर्णवितुं आच्छादयितुं छादयिष्याम इति तुमन् । तूर्ण शीघ्रं यत्नं कुरुत । तस्यां दिशि पुरीं द्रक्ष्यथ । काञ्चनीम् । '१५३२। प्राणिरजतादिभ्यो ऽञ् ।४।३।१५४।' प्रोर्णुवित्र अभिव्यापिनीम् । तृचि रूपम् । १९० भट्टि काव्ये — द्वितीयेऽधिकार काण्डे लक्षण-रूपे द्वितीयो वर्गः, ६९। ह्रस्वादुङ्गात् । ८।२।२७।' इति सिचो लोपः । मोदयध्वं रघूत्तमं हर्षयत । तत्कार्यकरणात् । मा च भयमुपायध्वं सूचयत । भयं मा कार्टेत्यर्थः । २६९५५। आङो यमहनः ।१।३।२८।' इति तङ् । २६९८ । यमो गन्ध । १३।२।१५।' इति तङ् । यमो गन्धन इति सिच: कित्चे अनुनासिकलोपः । गन्धनं सूचनम् । अन्यथा युष्मासु गन्धितनयेषु नियतमसौ दशाननः सीतामुपायंस्त स्वीकृतवान् स्यात् । तस्य दुर्वृत्तस्वात् । '२७९०। आशंसायां भूतवञ्च ।३।३।१३२।' इत्यनि- टाशंसायां लुङ् । '२७२९। उपाद्यमः स्वकरणे ।१।३।५६ ।' इति तङ् । स्वक- रणं चात्र विवाहनमुक्तम् । '२७३० । विभाषोपयमने ।१।२।१६।' इति अकि- त्वपक्षे रूपम् ॥ ५३६ - ततः प्रास्थिषता ऽद्रीन्द्रं महेन्द्रं वानरा द्रुतम् ॥ सर्वे किलकिलायन्तो, धैर्यं चाऽऽधिपता ऽधिकम् ॥ तत इत्यादि- ततः सम्पातिवचनानन्तरं सर्वे वानरा महेन्द्रं पर्वतं प्रास्थि- षत प्रस्थितवन्तः । धैर्य चाधिकमाधिपत आहितवन्त आत्मनि । तिष्ठतेर्दधा- तेश्च '२३८९ । स्था-ध्वोरिन्च ।१।२।१७।' इति कित्त्वमित्त्वं च । तिष्ठतेः '२६८९ । समव-ग्र विभ्यः स्थः । १॥३॥२२॥ इति तङ् । किलकिलायन्तः किलकिलाध्वनिं कुर्वाणा: । '८१ । अव्यक्तानुकरण-।६।१।९८।' इत्यादिना डाच् तदन्तात् । '२६- ६८। लोहितादिडाज्भ्यः क्यप् ।३॥१३।' । '२६६९ । वा क्यपः ।१।३।१०॥ इति परस्मैपदम् ॥ N कुलकम् १०३-१०७- ५३७ - निकुञ्जे तस्य वर्तित्वा रम्ये प्रक्ष्वेदिताः परम् ॥ मणि - रत्नाऽधिशयितं प्रत्युदैक्षन्त तोय - धिम् ॥ १०३॥ निकुञ्ज इत्यादि – तस्य पर्वतस्य निकुञ्जे लतादिपिहितस्थाने वर्तित्वा स्थित्वा । '३३२२। न क्त्वा सेट् । १।२।१८।' इति कित्त्वप्रतिषेधः । परं प्रक्ष्वेदिताः उच्चैरव्यक्तशब्दं कुर्वाणाः । ८३०५२ । निष्ठा शीङ्- ।१।२।१९।' इति कित्त्वप्र- तिषेधः । तोयधिं प्रत्युदैक्षन्त दृष्टवन्तः । लङि रूपम् । कीदृशं मणिरत्नाधिशा- यितम् । '३०८७। कोऽधिकरणे च ।३।४॥७६ ।' इति क्तः पूर्ववकित्त्वप्रतिषेधः । मणिर्यदत्तमिति स्त्रीरत्नादावपि रत्नशब्दस्य दृष्टत्वात् एकपदव्यभिचारे विशेष- णविशेष्यभावः । तस्याधिशयितमवस्थानमित्यर्थः ॥ ५३८ - अ - मर्षितमि॑िव घ्नन्तं ताऽद्रीन् सलिलो॒र्मभिः ॥ श्रिया समग्रं द्युतितं मदेनैव प्रलोठितम् ॥ १०४ ॥ १- '३४८ । निकुञ्ज - कुआँ वा कीबे लतादिपिहितोदरे ।" 1 २-२५९॥ भङ्गसू- तर कर्मिर् वा स्त्रियां वीचिरथोर्मिषु " इति ना० अ० । तथा लक्ष्य रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः- १९१ अमर्षित इत्यादि - सलिलोर्मिभिः कल्लोलैः । तटावीन् तटस्थान् पर्वतान् मन्तं प्रत्युदैक्षन्त । अमर्षितमिव '३०५५॥ मृषस्तितिक्षायाम् ॥।२।२०।' इति कित्त्वप्रतिषेधः पश्चात् नज्समासः । श्रिया हेतुभूतया समग्र संपूर्णम् । युति- तमिति कर्तरि निष्ठा । यदि वा श्रिया कर्तृभूतया युतितं शोभितम् । यत्रेय- ध्याहृत्य तमैक्षन्तेति योज्यम् । एवं च कृत्वा '३०५६ । उडुपधात् - ११॥२॥२१॥' इत्यादिना भावे निष्ठायां विकल्पेन कित्त्वप्रतिषेधात् कित्त्वमुदाहृतम् । मदेनेव मत्ततयेव । श्रिया हेतुभूतया प्रलोठितं चूर्णितुमारब्धम् । '३०५३। आदिकर्म- णि-~-।३।४।७१।' निष्ठायामकित्त्वमुदाहृतम् ॥ ५३९ - पूतं शीतैर् नभस्वद्भिर् ग्रन्थित्वैव स्थितं रुचः ॥ गुम्फित्वे॑व निरस्यन्तं तरङ्गान् सर्वतो मुहुः ॥१०५॥ पूतमित्यादि – नभस्वद्भिर्वायुभिः शीतैः पूनं पवित्रीकृतम् । '३०५०। पूङश्च ।७।२।५१॥' इति विकल्पेनेट् । अत एव पक्षे पूजः क्त्वानिष्ठयोः कित्त्व- प्रतिषेधोऽत्र न भवति । तत्र सेडित्यनुवर्तते । रुचो दीप्तीग्रन्थित्वेव संदर्भ्यव स्थितम् । '३३२४। नोपधात्थफान्तावा ॥१॥२॥२३।' इति कित्त्वप्रतिषेधपक्षे रूप- म् । सर्वतस्तरङ्गान् गुम्फित्वेव निरस्यन्तं क्षिपन्तम् । नोपधादिति विकल्पेन कित्त्वप्रतिषेधः । यत्रेत्यध्याहृत्य तमैक्षन्तेति योज्यम् ॥ ५४० - वञ्चित्वा ऽयंम्बरं दूरं स्वस्स् ितिष्ठन्तमात्मनि ॥ तृषित्वा ऽनिशं स्वादु पिबन्तं सरितां पयः ॥ १०६॥ वञ्चित्वेत्यादि — स्थित्यनतिक्रमादम्बरं दूरं वञ्चित्वातिक्रम्य । ८३३२५॥ वञ्चिलुच - १॥२।२४॥ ' इति कित्त्वप्रतिषेधः । स्वस्मिन्नात्मनि स्वरूपे तिष्ठन्तम् । अत्र '१४०। नश्छव्यप्रशान् ।८।३।७।' इति नकारस्य रुत्वम् । पूर्वस्य त्वनुनासि- कादेशः । तृषित्वेव तृषित इव भूत्वा । '३३२६ । तृषि-मृषि - ।१।२।२५।' इत्या- दिना [ कित्त्वविकल्पः । ] प्रतिषेधः । तत्सलिलस्य स्वादुत्वात् । सरितां पयः स्वादु पिबन्तं अनिशमजस्रम् ॥ ५४१ - द्युतित्वा शशिना नक्तं रश्मिभिः परिवर्धितम् ॥ मेरोर् जेतुमि॑िवा ऽऽभोगर्मुच्चैर् दिद्योतिषु मुहुः १०७ . द्युतित्वेत्यादि - शशिना नक्तम् रात्रौ द्युतित्वा दीप्तिमा भूत्वा । रश्मिभिः परिवर्धितं वृद्धिं नीतं सन्तं तोयधिं मेरोराभोगं महत्त्वं जेतुमिव मुहुरुचैर्दिद्योतिषु चार्धेतुमिच्छुमित्यर्थः । अनेकार्थत्वाद्धातूनाम् । धुतित्वा दिद्योतिषुमिति २६१७ । रलो व्युपधात्- ।१।२।२६।' इति कित्त्वाकित्त्वे । तत्र कारो१–०७० । नभस्वदूचात - पवन - पवमान प्रभञ्जनाः । २ – ( ५३८ ) श्लोकस्थं टिप्पणं विलोकनीयम् । ३ – १४७१ । दिवाऽहीत्यथ दोषा च नक्तं च रजनावपि ।' ४–'११८॥ किरणोस्त्रमयूखांऽशुगभस्ति- घृणि रश्मयः । इति सर्वत्र ना० अ० । १९२ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे तृतीयो वर्गः, पधादिकारोपधाञ्च रलतालादेर्धातोः परौ क्त्वासनौ वा न कितौ भवत इति सूत्रार्थः ॥ ५४२ - विलोक्य सलिलो॒च्चयान॑धिसमुद्रम॑लिहान् भ्रमन्- मकर - भीषणं समधिगम्य चा ऽधः पयः ॥ गमाऽऽगम-सहं द्रुतं कपि वृषा: परिप्रेषयन् गजेन्द्र गुरु - विक्रमं तरु-मृगोत्तमं मारुतिम् ॥१०८ ॥ विलोक्येत्यादि-कपिवृषाः कपिमुख्या: मारुतिं हनुमन्तं द्रुतं परिप्रेषयन् व्यसर्जयन् । परिप्रपूर्वात् '१२०२। इप गतौ इत्यस्मात् हेतुमण्ण्यन्तात् लङि रूपम् । किं कृत्वेत्याह । विलोक्य सलिलोच्चयान् सलिलोमन् । ऊर्ध्वं चीयत इति '३२३१ । एरच् ।३।३।५६।' अघिसमुद्रं समुद्रस्योपरि । अभ्रंलिहान् दूर- मुच्छ्रितान् । अधश्च पयः समधिगम्य ज्ञात्वा । कीदृशम् । भ्रमद्भिर्मकपण भयानकम् । भीषयतीति नन्द्यादित्वाल्ल्युः । गमागमसहं गमनागमनयोग्यं मा- रुतिम् । गजेन्द्रस्येव गुरुर्विक्रमो यस्य । तरुमृगेषु वानरेपूत्तममिति । सप्तमीति योगविभागात् सः ॥ ॥ इति ङिवाधिकारः ॥ इति श्री जयमङ्गलाऽऽख्यया व्य व्यया समलंकृते श्री-भट्टिकाव्ये द्वितीयेऽधिकार-काण्डे लक्षण-रूपे द्वितीयः परिच्छेदः ( वर्गः ), तथा लक्ष्य रूपे कथानके सीताऽन्वेषणं नाम सप्तमः सर्गः पर्यवसितः । अष्टमः सर्गः । आत्मनेपदमधिकृत्याह-- ५४३ - अगाधत ततो व्योम हनूमानुरु-विग्रहः, 11 अत्यशेरत तद्-वेगं न सुपर्णाऽर्क - मारुताः ॥ १ ॥ अगाधतेति – ततो विसर्जनान्तरं हनुमान् समुद्रलङ्घनाय व्योमाकाशम- गाधत प्रस्थितवान् । '४ । गाट प्रतिष्ठा लिप्सयोः ।' इत्यस्माल्लङ् । '२१५७ / अनुदा- तङितः—।१।३।१२।' इत्यनुदात्तेत्त्वादात्मनेपदम् । उरुविग्रहः कामरूपिश्वात् तदा- नीमुत्पादितविपुलकायः । तस्य चोत्पततो वेगं गरुडादित्यपवनाः नात्यशेरत नाति- १ – 'पद्येऽस्मिन् पृथ्वी वृत्तम् । तलक्षणं तु - ९४ । ज-सौ ज-स-य-ला वसुतिश् च पृथ्वी गुरुः ।' इति वृत्तरलाकरे भट्टकेदार आइ । २ – १४२९ । शुक्रले मूषके श्रेष्टे सुकृते वृषमे वृषः । ३ – '३३ । 'गरुत्मान् गरुडस, तार्क्ष्यो वैनतेयः खगेश्वरः ॥ ३४॥ नागान्तको विष्णु-रथः सुपर्णः पन्नगाऽशनः । इति सर्वत्र आ० अ० ॥ तथा लक्ष्य-रूपे कथानके 'शोकवनिका भङ्गो' नामाष्टमः सर्गः – १९३ शयितवन्तः । डिवात्तङ् । '२४४२ । शीडो रु १७१११६।' । '२४४१॥ शीड: सार्वधातुके गुणः ।७।४॥२१॥ ॥ ५४४ - अभायत यथाऽर्केण सुप्रातेन शरन-मुखे, ॥ 1 गम्यमानं न तेनाssसीदंगतं कामता पुरः ॥ २ ॥ अभायतेत्यादि- इ— यथा अर्केण सुप्रातेन सुप्रभातेन नीहाराद्यभावात् । शोभनं प्रातरनेनेति । '८६०१ सुप्रात-सुव-।५।४।१२०॥ इति समासान्तनिपात- नम् । शरन्मुखे शरद्वारम्भे । अभायत दीप्यते स्म । '२६७९ । भाव कर्मणोः ।१।३।१३।' इति भावे तङ् । तद्वत्तेनाभायत । पुरोऽग्रतो यदर्केण गम्यमानमव- भ्यमानं वत्यर्थात् कर्मण्यात्मनेपदम् । तेन हनूमता क्रामता गच्छता । शिति क्रम इति दीर्घत्वम् । नागतमासीत् अपि तु सर्वमेव गतमिति ॥ ५४५ - वियति व्यत्यतन्वातां मूर्ती हरि-पयोनिधी, ॥ व्यत्यैतां चौत्तमं मार्गमर्केन्द्रेन्दु-निषेवितम् ॥ ३॥ वियतीत्यादि — हरिपयोनिधी हनूमत्समुद्रौ मूर्ती स्वदेहौ वियत्याकाशे व्यत्यतन्वातां व्यतिविस्तारितवन्तौ । तनोतेर्लङ् । '२६८० । कर्तरि कर्मव्यतिहारे ।१।३।१४।' इत्यात्मनेपदम् । उत्तमं च मार्ग अर्केन्देन्दुनिषेवितं व्यत्यैतां व्यतिग- तवन्तौ । इणः परस्य लङ: कर्मव्यतिहार इत्यात्मनेपदं प्राप्तं ' २६८३ । न गति- हिंसार्थेभ्यः ।१।३।१५।' इति गत्यर्थत्वात् प्रतिषिद्धं, तेन तसस्तामादेशः । तत्र हरेर्गच्छतः पुरतो यस्मिन्वियत्प्रदेशे स्वमूर्ति विस्तारितुमवसरो भविता, तन पयोनिधिरूर्मिभिः स्वमूर्ति वितस्तार । पयोनिधेश्च वेला तटं गच्छतो यत्र स्वमू- तिविस्तारावसरो भावी तत्र हरिः स्वमूर्ति वितस्तार । यथा पयोनिधेर्य मार्ग गन्तुमवसरो भविता, हरिरुत्पत्य तं मार्ग गन्तुमैच्छत् । यं च हरेर्मार्ग गन्तुमव- सरो भविता तं मार्ग पयोनिघिरभ्रंलिहैरूर्मिभिरैच्छत् । यत्र यत्क्रियावसरे क्रियां करोति स तत्र तत्क्रयाकारीत्युपचर्यते । यथा देवदत्तसाध्यां क्रियां यज्ञदत्तः कुर्वन् तत्कारीत्युच्यते । ततश्चेतरेणेतरसंबन्धिन्याः क्रियायाः करणात् अन्यतर- संबन्धिन्याश्चेत् सम्भवति कर्मव्यतिहारः ॥ ५४६ - व्यतिजिग्ये समुद्रोऽपि न धैर्य तस्य गच्छतः ॥ व्यत्यगच्छन् न च गतं प्रचण्डोऽपि प्रभञ्जनः ॥ ४ ॥ व्यतीत्यादि - तस्य हरेर्गच्छतः स्वदेहस्याल्पतां कर्तुं योऽवसरो भावी तत्र समुद्रो नातिशय धैर्यं कृतवान् । तेन तस्य धैर्य न जितं, तदानीं तस्योद्धुतकल्लोलत्वात् । अपिशब्दाच्च हनूमानपि समुद्रस्य शान्तत्वं कर्तुं योऽवसरो भावी तन्त्र नातिशयधैर्यं कृतवान् । तेन तस्य धैर्यं वा न जितं, तदानीं तस्य विपुलकायत्वात् । १–॰१३८३ । यमाऽनिलेन्द्र-चन्द्राऽर्क-विष्णु-सिहांऽशु- वाजियु । शुकाऽहि-कपि- मेकेषु हरिर् ना कपिले त्रिषु ।' इति नानार्थेऽमरः । भ० का० १७ १९४ भट्टि- काव्ये - द्वितीयेऽविकार-काण्डे लक्षण-रूपे तृतीयो वर्गः, तदेवं हनुमतः समुद्रो हनुमानपि समुद्रस्य धैर्य न व्यतिजिग्ये नाभिवभूव । एकवचनस्य प्रत्येकाभिसंबन्धात् । कर्मव्यतीहारे पूर्ववदात्मनेपदम् । '२३३१ । सँलिटोर्जेः ।७।३।५७।' इति कुत्वम् । तस्य हनुमतो गतं गमनं प्रचण्डोsपि महान् प्रभञ्जनो वायुर्न व्यत्यगच्छत् प्राप्तवान् ॥ तस्यातिजवेन गच्छतः पथि राक्षसी संप्राप्ता तामसौ व्यापादितवानित्याह- ५४७ - व्यतिघ्नन्तीं व्यतिघ्नन्तां राक्षसी पवनाऽऽत्मजः ॥ जघानाssविश्य वदनं निर्यात् भित्त्वौदरं द्रुतम् ॥ ५ ॥ व्यतीत्यादि – हनिप्याम्येनमिति राक्षस्या यो वधकरणावसरः तत्र व्यतिघ्नन् व्यतिघ्नन्तीं तस्यैनां हनिप्यामीति यो वधकरणावसरः तत्र मन्तीं तदेवमितरे- तरक्रियाकरणेन व्यतिघ्नन्तीं राक्षसीम् । न गतीत्यादिना हिंसार्थत्वादात्मनेपद्म- तिषेधः । तां पवनात्मजो हनुमान् जघान । कथं वदनमाविश्य उदरं भिवा द्रुतं निर्यात् निर्गच्छन् । यातेः शतरि रूपम् ॥ ५४८ - अन्योन्यं स्म व्यतियुतः शब्दान् शब्दस् तु भीषणान् ॥ उ॒दन्वा॑श् चा॑निोद्भूतो त्रियमाणा च राक्षसी ॥ ६ ॥ । अन्योन्यमित्यादि – अन्योन्यमित्यन्योन्यस्येत्यर्थः । 'कर्मव्यतिहारे सर्व- नाम्नो द्वे भवतः स्त्रीनपुंसक्योरामभाव इति वक्तव्यम्' । अन्योन्यस्य संब- न्विभिः शब्दैः उदन्वद्वाक्षस्यौ शब्दान् भीपणानात्मीयान् व्यतियुतः स मिश्रि- तवन्तौ । ११०६ । यु मिश्रणे' इत्यस्मात् ' २७७८ । लट् स्मे ।३।२।११८' इति भूते लट् । '२६८२ । इतरेतर - ।१।३।१६।' इत्यादिना कर्मव्यतिहार आत्मनेपद- प्रतिषेधः । तत्रोदन्वतः शब्दकरणाद्यो भीपणशब्दमिश्रणावसरो भावी तत्र राक्षसी म्रियमाणा शब्दान् भीषणानुदन्वच्छन्दैर्युयाव । राक्षस्याः शब्दकरणाद्यो सीषणशब्द मिश्रणावसरो भावी तन्त्रोदन्वाननिलोद्धूतः शब्दान् भीपणान् राक्ष- सीशब्देर्युयाव ॥ ५४९ - न्यविक्षत महा-ग्राह-संकुलं मकराऽऽलयम् ॥ सैका वहूनां कुर्वाणा नक्राणां स्वाऽऽशितम्भवम् ॥ ७॥ न्यविक्षतेत्यादि – महद्भिग्रहै: संकुलं मकरालयं समुद्रं न्यविक्षत प्रवि- वती । '२६८३ । नेविंशः ।१।३।१७।' इत्यात्मनेपदम् '२३३६। शल इगुपधा- दुनिटः क्सः ।३।१।४५।' बहूनां नक्राणामेकापि सती स्वाशितम्भवं सुष्टु तृप्तिं कुर्वाणा । '२८६२ । आशिते भुवः ।३।२।४५॥' इति भावे खच् ॥ १ '२७५ । ग्राहोऽवहारो, नक्रस् तु कुम्मीरः ।' इति ना० भ० । तथा लक्ष्य-रूपे कथानके 'ऽशोकवनिका भङ्गो' नामाष्टमः सर्गः- ५५० - कृतेनौपकृतं वायोः परिक्रीणानर्मुत्थितम् ॥ पित्रा संरक्षितं शऋात् स मैनाकाऽद्रिमैक्षत ॥ ८ ॥ कृतेनेत्यादि–स हनूमान् समुद्रादुत्थितं नैनाकामिक्षत । वायोरुपकृत- मुपकारं कृतेन प्रत्युपकारेण परिक्रीणानं परिक्रयं विचिन्वन्तम् । '२६८४ । परि- व्यवेभ्यः क्रियः ।१।३।१८।' इत्यकर्त्रभिप्रायविषयमात्मनेपदम् । पित्रा वायुना रक्षितं शऋात् । तेन हि पक्षच्छेदकाले महता वेगेन समुद्रं नीत्वा रक्षित इति श्रूयते ॥ ५५१ - खं पराजयमानोऽसायु॑न्नत्या पवना॒ऽत्मजम् ॥ www १९५ जगादाऽद्रिर् 'विजेषीष्ठा मयि विश्रम्य वैरिणम् ॥९॥ खमित्यादि – असावद्भिः उन्नत्या उन्नततया खं पराजयमानोऽभिभवन् पव- नात्मजं जगाद । मयि विश्रम्य स्थित्वा वैरिणं शत्रु विजेषीष्टाः त्वमभिभूयाः । आशिषि लिङ् । उभयत्रापि '२६८५ । वि-पराभ्यां जेः ।१।३।१९।' इति तङ् ॥ ५५२ - फलान्यदत्स्व चित्राणि, परिक्रीडस्व सानुषु ॥ . साध्व॑नु॒क्रीडमानानि पश्य वृन्दानि पक्षिणाम् ॥१०॥ फलानीत्यादि — चित्राणि नानाविधानि फलानि आदत्स्व गृहाण । '२६८६३ आङोदोऽनास्य विहरणे ।१।३।२०।' इत्यात्मनेपदम् । सानुषु ममैकदेशेषु परिक्रीड- स्त्र विहर । पक्षिणां च वृन्दानि साधु शोभनं अनुक्रीडमानानि विहरन्ति सन्ति पश्य । उभयन्त्र '२६८७ । क्रीडोऽनु-सं-परिभ्यश्च ।१।३।२१।' इति तङ् ॥ ५५३ - क्षणं भद्राऽवतिष्ठस्व, ततः प्रस्थास्यसे पुनः ॥ न तत् संस्थास्यते कार्य दक्षेणौरीकृतं त्वया ॥ ११ ॥ क्षणमित्यादि - हे भद्र कल्याण ! क्षणमवतिष्ठस्त्र । ततः पश्चात्मस्थास्यसे यास्यसि । यच्च कार्य करणीयं दक्षेणानलसेन त्वया ऊरीकृतमङ्गीकृतं न च संस्थास्यते अपि तु निष्पत्स्यत एवेत्यर्थः । सर्वत्र '२६८९३ समव-प्र-विभ्यः स्थः ।१।३।२२।' इति तङ् ॥ ५५४ – त्वयि नस् तिष्ठते प्रीतिस् तुभ्यं तिष्ठामहे वयम् ॥ उत्तिष्ठमानं मित्राऽर्थे कस् त्वां न बहु मन्यते ॥ १२॥ त्वयीत्यादि —स्वयि विषये अस्माकं प्रीतिरस्ति । तेन संशये अस्माभिरन्यो निर्णेता नान्वेषणीयः । किन्तु नोऽस्माकं प्रीतिरेव निर्णयं पश्यन्ती त्वयि तिष्ठते । '२६९० । प्रकाशन-स्थेयाख्ययोश्च ।१।३।२३।' इत्यात्मनेपदम् । विवादपदनिर्णेता स्थेय उच्यते तुभ्यं तिष्ठामहे वयमिति त्वयि विषये अस्माकं चेतो १ – '२०१६ । दंक्षे तु चतुर-पेशल- पटव: सूत्थान उष्णश् च ॥ २- ११६४। ऊरीकृत भु॑ररीकृ॒तम॑ङ्गीकृतमा॑श्रुतं प्रतिज्ञातम् । इति सर्वत्र ना० अ० ॥ १९६ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः, वर्तत इति स्वाभिप्रायम् । तुभ्यं तिष्ठामहे स्वाभिप्राय निवेदयाम इत्यर्थः । अन्न प्रकाशनं च स्वाभिप्रायकथनम् । १५७२ लाव-हुई-स्था-शपां जीपस्यमानः ।११ ४।३४।' इति सम्प्रदानसंज्ञायां चतुर्थी । कस्मादेवं मां श्लाघस इति चेदाह । मित्रार्थे उत्तिष्ठमानं यतमानम् । '२६९१ । उदोऽनुर्ध्वकर्मणि ।१।३।२४।' इत्यात्म- नेपदम् । कस्त्वां न बहु मन्यते न श्लाघते ॥ ५५५ - ये सूर्यमु॑पतिष्ठन्ते मन्त्रैः संध्या- त्रयं द्विजाः ॥ रक्षोभिस् तापितास् तेऽपि सिद्धिं ध्यायन्ति तेऽधुना. य इत्यादि —- ये द्विजा मन्त्रैः करणभूतैः सूर्यमुपतिष्ठन्ते प्रत्युपासते । २६- ९२ । उपान्मन्त्रकरणे ।१।३।२५॥ इत्यात्मनेपदम् । संध्यात्रयं त्रिसन्ध्यम् । अत्य- ज्तसंयोगे द्वितीया । तेऽपि रक्षोभिस्तापिता उपद्रुताः अधुना ते सिद्धिं ध्याय- न्ति । किं पुनरहं यत्ते पितुः सुहृत् ॥ तदेव दर्शयन्नाह ५५६- अ व्यग्रमुपतिष्ठस्व वीर ! वायोरहं सुहृत् ॥ रविर् वितपतेऽत्यर्थमा॑श्वस्य मयि गम्यताम् ॥ १४ ॥ अव्यग्रमित्यादि —— हे वीर! अव्यप्रमनाकुलं मय्युपतिष्ठस्व सन्निहितो भव । '२६९३ । अकर्मकाञ्च ।१।३।२६॥ इत्यात्मनेपदम् । यतो वायोस्तव पितुरहं सुहृत् । रविरत्यर्थं वितपते दीप्यते । '२६९४ । उद्-विभ्याम् ।१।३।२७।' इत्या- त्मनेपदम् । तत्राकर्मकादिति वर्तते । तस्मादाश्वस्य मयि विश्रम्य गम्यताम् ॥ ५५७ - तीव्रमुत्तपमानो ऽयम॑ शक्यः सोढुर्भातर्पः ॥ आम्नान इव संदीसैरलांतः सर्वतो मुहुः ॥ १५ ॥ तीव्रमित्यादि — तीव्रं सुष्टु उत्तपमानो दीप्यमान आतपः सोढुमशक्यः । पूर्ववदात्मनेपदम् । अलावैः उल्मुकैः संदीप्तैः सर्वत्र आघ्नान इव ताडयन्निव । '२६९५ । आङो यमहनः । १।३।२८।' इत्यविवक्षितकर्मकत्वादात्मनेपदम् ' २३६३ गम-हन—।६।४।९८' इत्युपधालोपः '३५४। हो हन्तेः- । ७।३।५४ ।' इति कुत्वम् ॥ ५५८ - संशृणुष्व कपे ! मत्कैः संगच्छस्व वनैः शुभैः ॥ समारन्त ममा ऽभीष्टाः संकल्पास् त्वर्युपागते. १६ संशृणुष्वेत्यादि – हे कपे ! संशृणुष्व आकर्णय । '२६९९। समो गम्यृ॰ च्छि—।१।३।२९।' इत्यादिविवक्षितकर्मकत्वादात्मनेपदम् । शुभैः शोभमानैः । इगुपधलक्षणः कः । वनैर्मकैः मत्स्वामिकैः । अहं स्वामी येषामिति '१८७७ । १ – १२० । रोत्विः शोचिरुमे क्कीबे, प्रकाशो द्योत आतपः ' खारो, इलातमुल्मुकम् । ३ – '१५५॥ धीर् धारणावती मेधा, सम् ॥ इति सर्वत्र ना० अ० । . २- '९१५॥ अथ स्त्री संकल्पः कर्म मानतथा लक्ष्य-रूपे कथानके 'ऽशोक वनिका-भङ्गो नामाष्टमः सर्गः-१२७ स एषां ग्रामणीः । ९।२।७८ । इति कः । १३७३ । प्रत्ययोत्तरपदयोश्च १७।२।१८। इति मदादेशः । संगच्छस्व संगतो भव । पूर्ववदात्मनेपदम् । समारन्त ममा भीष्टा इति ममाभिप्रेता ये संकल्पा अभिप्रायाः 'कड़ा नु मे सुहृत्तया वा कश्चि- देष्यति यस्याहमुपयोगी स्याम्' इति ते समारन्त आगताः त्वय्युपागते सति । अर्लुङि पूर्वच दात्मनेपदम् । '२३८२ । सर्ति-शास्त्यर्तिभ्यश्च ।३।१।५६ । इत्यि '२४०६ । ऋ- दशोऽडि गुणः ।७।४।१६॥२२५४। आडजादीनाम् । ६।४।७२।' भाषाविषयस्य प्रयोगः ॥ न चैवं मिथ्या वायुर्मे सुहृदियाह५५९–के न संविद्रते, वायोर् मैनाकाऽद्रिर् यथा सखां, " यत्नादु॑पाह्वये प्रीतः, संह्रयस्त्र विवक्षितम् ॥ १७॥' क इत्यादि – वायोमैनाकादियथा सखेति के न संविद्वते न जानन्ति । वेत्तेः पूर्ववदात्मनेपदम् । '२७०१ । वेत्तेर्विभाषा ।७।१।७।' इति रुट् । तस्मात् । प्रीतः सन् अहं यत्रादुपाह्वये भवन्तमाह्वयामि । ततः संहृयस्व कथय विवक्षितमभि- प्रेतम् । '२७०३। नि- समुपविभ्यो ह्रः ।१।३।३०।' इत्यकर्त्रभिप्राये लदलोटोरा- रमनेपदम् । ततोऽकर्मकादिति निवृत्तम् । सामान्येन विधानम् ॥ ५६० - द्योमि॑िर्वावयमानं तम॑वोचद् भूधरं कपिः ॥ उपकुर्वन्तर्मत्यर्थ प्रकुर्वाणोऽनुजीवि-वत् ॥ १८ ॥ द्यामित्यादि – द्यामिवाकाशमिवाह्वयमानं महत्तया स्पर्धमानम् । २७०४ । स्पर्धायामाङः ।१।३।१।' इत्यात्मनेपदम् । अत्यर्थमुपकुर्वन्तं आतिथ्येन तमीदृशं भूधरमवोचत् । कपिः प्रकुर्वाण: सेवमानो अनुजीविवत् भृत्यवत् । '२७०५ । गन्धन - ।१।३।३२।' इत्यादिना सेवने तङ् ॥ ५६१ - 'कुल-भार्यां प्रकुर्वाणम॑हं द्रष्टुं दशाननम् ॥ यामि त्वरा-वान् शैलेन्द्र !, मा कस्यचिदुपस्कृथाः १९ कुलभार्यामित्यादि – अहं दशाननं द्रष्टुं यामि कुलभार्या प्रकुर्वाणं कुल- नारीमभिगच्छन्तम् । तस्यां सहसा प्रवर्तमानमित्यर्थः । साहसिक्ये तडू । त्व- रावान् स्वरायुक्तः । अतः हे शैलेन्द्र ! मा कस्यचिदशनपानादिकस्य उपस्कृथाः अतिशयवन्तं मा कार्षीरित्यर्थः । माङि लुङ् । प्रतियत्वे तङ् । '२५४७ । तनादि- भ्यस्त थासोः ।२।४।७९॥ इति सिचो लुक् । '२५५२। उपाध्प्रतियत्न - । ६।१।- १३९ ।' इति सुदं । कस्यचिदिति '७१४ । कृञः प्रतियत्ने ।२।३।५३।' इति कर्मणि षष्टी ॥ १ '७७७ । वयस्यः स्निग्धः सवया, अथ मित्रं सखा सुहृत् ॥ २-'८० । यो दिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम् । नभोऽन्तरिक्षं गगन मनन्तं सुरवर्त्म खम् । वियद् विष्णुपदं वा तु पुंस्याकाश-विहायसी ॥' ३ – '७७४ । षण्डो वर्ष चरस् तुल्यो' सेवकार्थ्यनुजीविनः । इति सर्वत्र ना० अ० ॥ भट्टि - काव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे तृतीयो वर्गः, १९.८ : ५६२ - योऽपचत्रे वनात् सीतामंधिचक्रे न यं हरिः ॥ विकुर्वाण: स्वरानंद्य वलं तस्य निहन्म्यहम् ॥ २० ॥ य इत्यादि- इ—- यः सीतामपचत्रे अभिबभूव । अवक्षेपणे तङ् । वनादिति चनमुपगम्य । लयब्लोपे कर्मणि पञ्चमी । हरिरिन्द्रो नाधिचक्रे न प्रसेहे । '२७०६ । अधेः प्रसहने ।१।३।३३ ।' इति तङ् । तस्य बलं दशाननस्य सामर्थ्य कीदृशम् । स्वरान् विकुर्वाणं विविधान् स्वरान् कुर्वाणम् । ८२७०७ । वेः शब्द- कर्मणः ।१।२।३४।' इति तङ् । तस्य दशाननस्य वलं निहन्मि ॥ ५६३ - विकुर्वे नगरे तस्य पापस्या ऽद्य रघु-द्विपः ॥ . विनेष्ये वा प्रियान् प्राणानु॑दानेष्येऽथवा यश: २१ विकुर्व इत्यादि- - तस्य रघुद्विषो रामशत्रोः पापस्य नगरे पुर्यां अहमद्य विकुर्वे विविधं चेष्टे । '२७१८ अकर्मकाञ्च ।१।३।४५॥ इति तङ् । तत्र चिकुर्वाणो यदि वा प्रियानपि प्राणान् स्वाम्यर्थे विनेष्ये अपनेप्यामि । '२७०९। समानन --।१।३॥३६।' इत्यादिना व्यये तङ् । यतो धर्मादिषु विनियोगो व्ययः । यशो वा उदानेपये ऊर्ध्वं नेप्यामि तस्यापकारकरणात् । अत्रोत्सञ्जने तङ् । उत्सञ्जन- मुक्षेपणम् ॥ ५६४ विनेध्ये क्रोधर्मथवा क्रममाणोऽरि-संसद ॥ इत्युक्त्वा से परास्त तूर्ण सूनुर् नभँस्वतः. ॥२२॥ विनेष्य इत्यादि —- यदि वा क्रोधमात्मनो विनेप्ये अपनेष्यामि । '२७२० कर्तृस्थे च–।१।३।३७।' इति तङ् । कर्तृस्थस्य क्रोधकर्मणोऽशरीरत्वात् अत्र व्ययो न संभवतीति । अरिसंसदि शत्रुसभायां क्रममाणः । अप्रतिबन्धेन प्रवर्त- मानः । '२७१३। वृत्ति-सर्ग-।१।३।३८।' इत्यादिना वृत्तौ तङ् । वृत्तिरप्रतिबन्धः । इत्येवमुक्त्वा नभस्वतः सूनुर्वायोस्तनयः खे तूर्णं पराक्रंम्त शीघ्रमुस्सेहे । २७१२॥ उप-पराभ्याम् ।१।३।३९ ।' इत्यनेन सर्गे तङ् । सर्ग उत्साहः ॥ ५६५ - परीक्षितुर्मुपास्त राक्षसी तस्य विक्रमम् ॥ दिवर्माक्रममाणैव केतु- तारा भय-प्रदा ॥ २३ ॥ परीत्यादि - तस्य हनुमतो विक्रमं शौर्य परीक्षितुं राक्षसी उपाक्रंस्त उत्से हे पूर्ववत्तङ् । दिवमाक्रममाणेव । यथा केतुः स्वर्भानुः तारा नभस्युद्गच्छति भयं- करा । '२७१३। आङ उद्गमने ।१।३।४० ।' इति तङ्‌ । तत्र हि ज्योतिरुद्रमन इत्युक्तम् । केतुतारायाश्च ज्योतिःस्वभावात् ॥ १- ( ५४५ ) श्लोकस्थं टिप्पणमालोचनीयम् । २–७२० । समज्या परिषद् गोष्ठी सभा-समिति-संसद: ॥ ३ – ( ५३९ ) श्लोकस्थं टीकनं विलोक्यताम् । ४- १२६७ । ग्रहमेदे ध्वजे केतुः; पार्थिवे तनये सुतः । इति सर्वत्र ना० अ० । M तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो' नामाष्टमः सर्गः १९९ ५६६ - जले विक्रममाणाया हनूमान् शत-योजनम् ॥ आस्यं प्रविश्य निरयादणूभूया ऽप्रचेतितः ॥ २४ ॥ जल इत्यादि — विक्रममाणायाः पञ्चां विचरन्त्याः । '२७१४ । वेः पादवि- हरणे ।१।३।४१॥' इति तङ् । जलग्रहणात् गतिविशेषं दर्शयति । आस्यं शतयोजनं शतं योजनानि यस्य प्रमाणतः । तदणूभूय सूक्ष्मीभूय प्रविश्य निग्गात् निर्गतः । उदरं विदार्येत्यर्थात् । अप्रचेतितः अविज्ञातः ॥ , ५६७ - द्रष्टुं प्रक्रममाणो ऽसौ सीताम॑म्भोनिधेस् तटम् ॥ उपास्ता ऽऽकुलं घोरैः क्रममाणैर् निशाचरैः ॥ २५॥ द्रष्टमित्यादि — असौ हनुमान् सीतां द्रष्टुं प्रक्रममाणः आरभमाण: आदिक- र्मणि यथा भोक्तुं प्रक्रमते इति । उद्धेस्तटमुपास्त गन्तुं प्रारब्धवानित्यर्थः । ततश्च प्रोपयोरादिकर्मणि समानार्थत्वात् '२७१५॥ प्रोपाभ्यां समर्थाभ्याम् ॥३१- ४२।' इति तङ् । घोरैः रौद्रैः । निशाचारैराकुलं व्याप्तम् । तटं क्रममाणैः इतस्ततो गच्छद्भिः । '२७१६। अनुपसर्गाद्वा ।१।३।१३।' इति तङ् ॥ ५६८ - आत्मानर्मपजानानः शैश-मात्रो ऽनयद् दिनम् ॥ ज्ञास्ये रात्राविति प्राज्ञः प्रत्यज्ञास्त क्रिया-पेटुः ॥ २६॥ आत्मानमित्यादि —मा कश्चिद्राक्षीदिति तथाविधमात्मानं शरीरमक- जानान अपहुवानः । '२७१७ । अपह्नवे ज्ञः ।१।२।४३॥ इति तङ् । यो हि शश- मात्रो भूत्वा स्थितः तेन कथमात्मा लोके नापलपितः स्यात् । अनयद्दिनं अगम- यद्दिवसम् । ज्ञास्ये रात्राविति प्रत्यज्ञास्त प्रतिज्ञातवानित्यर्थः । ८२७१९। सं-प्रति- भ्यामनाध्याने ।१।३।४६ ।' इत्यात्मनेपदं लुङो भवति । आध्यानं चोत्कण्ठनम् । ज्ञास्ये इत्यकर्मकाञ्चेत्य कर्मक क्रियावचनत्वादात्मनेपदम् । प्राज्ञः क्रियापटुरिनि बुद्धिकौशलं कर्मकौशलं च दर्शयति ॥ ५६९ - संजानानान् परिहरन् रावणाऽनुचरान् बहून् ॥ लङ्कां समाविशद् रात्रौ वदमानोऽरि - दुर्गमाम् ॥२७॥ संजानाना नित्यादि - रावणस्यार्थेषु कार्येषु ये चरन्तीति '२९३० । चरेष्टः ।३।२।१६॥ तान् बहून् संजानानान् चेतयतः परिहरन् । अनाध्याने तङ् । रात्रौ लङ्कां समाविशत् प्रविष्टवान् । अरिदुर्गमां राक्षसदुर्गमाम् । वदमानो भासमा- नः । '२७२० । भासनोपसंभाषा-।१।३।४७ ।' इत्यादिना आत्मनेपदम् ॥ ५७० - कंचिन् नौपावदिष्टा ऽसौ, केनचिद् व्यवदिष्ट न, ॥ शृण्वन् संप्रवदमानाद् रावणस्य गुणान् जनात्. २८ १–'५२९ । गन्धर्वः शरभो रामः सृमरो गवयः शशः ।' इति ना० अ० ॥ २-(५५६) श्लोकस्थं टीकनं द्रष्टव्यम् ॥ · २०० भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे तृतीयो वर्गः, कंचिदित्यादि — असौ प्रविष्टः सन् न कंचिदुपावदिष्ट उपसान्त्वितवान् । उपसम्भाषायां तङ् । केनचिव्यवदिष्ट न, न भाषितवान् । विमतौ तङ् । विम- तिर्नानामतिः शृण्वन् आकर्णयन् । जनान् संप्रवदमानात् संभूय भापमाणात् । रावणस्य संबन्धिनो गुणान् । '२७२१ । व्यक्तवाचाम् । १।३।४८।' इत्यात्मनेपद- म् । जनानां व्यक्तवाक्त्वात् ॥ ५७१ - जंल्पितो॒त्क्रुष्ट-संगीत-प्रनृत्त-स्मित- वैलिगतैः ॥ घोषस्यन्ववदिष्टेव लङ्का पूत ऋतोः पुरः ॥ २९ ॥ जल्पितेत्यादि — पूतक्रतोरिन्द्रस्य या पूः तस्या अमरावत्याः संबन्धिनो घोषस्यान्ववदिष्टेव लङ्का । अनुशब्दः सादृश्ये । सदृशं वादं कृतवती । तैर्जल्पि- तादिभिः । उभयत्रापि जल्पितादिघोषस्य तुल्यत्वात् । लङ्केति तत्स्थो जन उच्य ते । तेन व्यक्तवाग्विपयत्वात् '२७२२। अनोरकर्मकात्- ।१।३।४९। इति तङ् । तत्र व्यक्तवाचामित्यनुवर्तते न समुच्चारण इति ॥ ५७२ – ऐद् विप्रवदमानैस् तां संयुक्तां ब्रह्म-राक्षसैः ॥ तथाऽवगिरमाणैश् च पिशाचैर् मांस-शोणितम्. ३० ऐदित्यादि – तां ब्रह्मराक्षसैः संयुक्तां हनुमानैत् जगाम । इणो लङि रूप- म् । विप्रवद्रमानैः परस्परविरुद्धार्थाभिधायिभिः । विप्रलापात्मके व्यक्तवाचां समुच्चारणे '२७२३ । विभाषा विप्रलापे ।१।३।५० । ' इति तङ् । तथा पिशाचै- र्मांसशोणितमवगिरमाणैः भक्षयद्भिः संयुक्ताम् । गिरतेरभ्यवहारार्थत्वात् । २७२४। अवाद् ग्रः । १।३।५१।' इति तङ् । मांसशोणितमिति १९१०। जातिरप्राणिनाम् १२।४।६।' इत्येकवद्भावः ॥ ५७३ - यथा स्वं संगिरन्ते स्म गोष्ठीर्षु स्वामिनो गुणान् ॥ पान-झौण्डोः पथः क्षीवा वृन्दैरुदचरन्त च ॥३१॥ यथास्वमित्यादि — ब्रह्मराक्षसाः पिशाचाश्च यथास्वमात्मीयस्य स्वामिनो गुणान् गोष्टीषु गोष्ठीमध्ये संगिरन्ते स्म अभ्युपगतवन्तः । '२७२५ । समः प्रति- ज्ञाने ।१।३।५२।' इति तडू । पानशौण्डाः पानसक्ताः क्षीबा मत्ताः सन्तः पथो मार्गानुदचरन्त उत्क्रम्य गच्छन्ति स्म । '२७२६ । उदश्वरः सकर्मकात् ॥ १॥ ३॥ ५३॥' 'इति तङ् । वृन्दैरिति सम्भूयेत्यर्थः ॥ जल्पितमा॑ख्यातमभिहितं लपितम् ।' २–२३५॥ जृम्भस् तु त्रिषु जृम्भणम् ।' ३-८१४ । आस्कन्दितं चौरितकं रेचितं वलितं द्रुतम् । ४ – (५६४) लोकस्थ टिप्पणं विलोक्यताम् । ५-२०६८ १ . मत्त. शौण्डोत्कट-क्षीबाः कामुके कमिताऽनुकः' इति सर्वत्र १- '११५३ । उक्तं भाषितमुदितं कन्दितं रुदितं कुष्टं, ना० अ० ॥ तथा लक्ष्य रूपे कथानके 'ऽशोक वनिका - भङ्गो नामाष्टमः सर्गः – २०१ ५७४–यानैः समचरन्ता ऽन्ये कुञ्जराऽश्व-रथाऽऽदिभिः ॥ संप्रायच्छन्त बेन्दीभिर॑न्ये पुष्प - फलं शुभम् ॥ ३२॥ यानेरित्यादि – अन्ये यानैः कुञ्जरादिभिः समचरन्त संचरन्ते स्म । '२७- २७ । समस्तृतीयायुक्तात् ।१।३।५४॥ इति तङ् । अन्ये बन्दीभिरानीताभिः । सम्प्रदाने तृतीया । अशिष्टव्यवहारे तृतीया चतुर्थ्यर्थे भवति इति वचनाद्वन्दी- भ्य इत्यर्थः । पुष्पफलं शोभनं संप्रायच्छन्त ददति स्म । '२७२६ । दाणश्च सा चेच्चतुर्थ्यर्थे ॥।३।५५।' इति तङ् । पुष्पफलमिति जातेरेकवद्भावः ॥ ५७५ - कोपात् काश्चित् प्रियैः प्रत्तर्मुपायंसत नाऽऽसवम् ॥ ■ प्रेम जिज्ञासमानाभ्यस् ताभ्योऽऽशप्सत कामिनः ३३ कोपादित्यादि — काश्चित् स्त्रियः कोपात् अन्यस्त्रीगमनजनितात् । आसवं मद्यविशेषं नोपायंसत न स्वीकृतवत्यः ।२७३० । विभाषोपयमने ।१।२।१६।' इत्य- कित्त्वपक्षे रूपम् । '२७२९। उपाद्यमः स्वकरणे ।१।३।५६॥ इति तङ् । पाणिग्रहण- पूर्वस्य स्वीकरणस्य तत्र स्थितत्वादौपचारिकमत्र स्वीकरणं द्रष्टव्यम् । '२७४२ । समुदाभ्यो यमो ग्रन्थे ।१।३।७५ ॥ इति वा तङ् । उदाङ्पूर्वस्य यम आदाना- र्थत्वात् । अवसरप्राप्तं सूत्रद्वयमुपाहृतं स्यात् । प्रियैः प्रत्तं दत्तम् । '३०७८ । अच उपसर्गात्तः ।७।४।४७॥ ' प्रेम जिज्ञासमानाभ्यः किमस्मासु प्रेमास्ति वा न वेति कृतकोपप्रकाशेन ज्ञातुमिच्छन्तीभ्यः । '२७३१ । ज्ञा-श्रु-स्मृ-दृशां सनः ।१।३।५७।' इति तङ् । ताभ्यो योषियः । कामिनः अशप्सत न मे त्वदन्या प्रियास्तीति तदीयशरीरस्पर्शनेन शपथं चक्रुः । शप उपालम्भने इत्यात्मनेपदम् । वाचा उपा- लम्भनं शरीरस्पर्शनम् '५७२ । श्लाघ-हुङ्- ।१।४।३४।' इत्यादिना सम्प्रदानसंज्ञया चतुर्थी । तासां ज्ञापयितुमिष्यमाणत्वात् ॥ ५७६ प्रादिक्षत नो नृत्यं, ना ऽशुश्रूषत गायनान् ॥ रामं सुस्मूर्षमाणोऽसौ कपिर् विरह-दुःखितम् ॥३४॥ C प्रादिदृक्षतेत्यादि - असौ कपिलायां नो नृत्यं प्रादिक्षत । गायनान् गायकान् । '२९०८ गस्थकन् ।३।१।१४६ । ' ण्युट् च । नाशुश्रूषत न श्रोतुमिष्ट- वान् किमिति रामं विरहदुःखितं सुस्मूर्षमाणः स्मर्तुमिच्छन् । सन्नन्तेभ्यः पूर्व- चदात्मनेपदम् । '२६१५॥ अज्झनगमां सनि ।६।४।१६।' इति दीर्घत्वम् । '२४९४ । उदोष्ठ्यपूर्वस्य ।७।१।१०२।' इत्युवम् ॥ १–'८२३ । सर्वे स्याद् वाहनं यानं युग्यं पत्रं च धोरणम् ॥२-८६३ । स्युर् मागधास् तु मगधा बन्दिनस् स्तुतिपाठकाः ॥ ३- '१०३९। मैरेयमासवः सीधुर् मेदको जगल: समौ ।" इति सर्वत्र ना० अ० ॥ २०२ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः, ५७७ - अनुजिज्ञासतैवाऽथ लङ्का-दर्शनमि॑न्दुना ॥ तमोऽपहविमुक्तांऽशु पूर्वस्यां दिश्युदैयत ॥ ३५ ॥ अन्वित्यादि – अथैतस्मिन् प्रस्तावे इन्दुना चन्द्रेण उदैयत उदितम् । इणो भावे लङि रूपम् । पूर्वस्यां दिशीति पूर्णेनेति दर्शयति । दृश्यते तत् दर्शनं रूपम् । लङ्काया रूपमनुजिज्ञासतेव । पूर्वेण प्राप्तस्यात्मनेपदस्य '२७३२: नानोर्झः ।१।३।५८।' इति प्रतिषेधः । तमोपहास्तमो ध्वंसमानाः विमुक्ताः ग्रेरिता अंशवो यस्मिन् उदय इति ॥ . ५७८ - आशुश्रूषन् स मैथिल्या वार्ता हेर्म्येषु रक्षसाम् ॥ शीयमानाऽन्धकारेषु समचारीद-शङ्कितः ॥ ३६ ॥ आशुश्रूषन्नित्यादि –स कर्मेिथिल्याः सीताया वार्तामाशुश्रूषन् श्रोतुमि- च्छन् । '२७३३। प्रत्याभ्यां श्रुवः ।१।३।५९।' इत्यात्मनेपदप्रतिषेधः । रक्षसां हर्म्येषु गृहेषु । समचारीत् संक्रान्तवान् । '२३३० । अतो लान्तस्य ।७।२।२। इति वृद्धिः । शीयमानान्धकारेषु अपगच्छत्तमःसु । ८९१२ । शब्द शाने' । '२३६२ । शदेः शितः ।१।३।६०।' इति तङ् । २३६० । पा-घा - १७/३१७८ ।' इति शीयादेशः । अशङ्कितः शङ्कारहितः ॥ ५७९ - शत- साहस्रमरक्षं मध्यगं रक्षसां कपिः ॥ ददर्श, यं कृतान्तोऽपि म्रियेताऽऽसाद्य भीषणम्, ३७ शतेत्यादि - मध्यगं मध्यप्रकोष्टगतं आरक्षं गोपकं शतसाहस्रं रक्षसां लक्ष- मात्रं ददर्श विलोकितवान् । शतसहस्रं परिमाणमस्येति प्राग्वतेः संख्यापूर्वपदानां तदन्तग्रहणमलुकीति वचनात् । १६९२ । शतमानविंशतिक - 1५॥१॥२७॥' इत्या- दिना अणि । '१७५२ संख्यायाः संवत्सर - 1७१३।१५।' इत्युत्तरपदवृद्धिः । भीषणं भयानकं आसाद्य प्राप्य । कृतान्तोऽपि यमोऽपि म्रियेत प्राणान् संत्यजेत् । '२५३८। म्रियतेर्लुङ्गलिङोश्च । १।३।६१।' इति तङ् । तत्र हि शित इत्यनुवर्तते ॥ ५८० - अध्यासिसिषमाणे ऽथ वियन्- मध्यं निशा - करे ॥ कासांचक्रे पुरी साँधैरतीवद्भासिभिः सितैः ॥ ३८ ॥ अधीत्यादि - अथ निशाकरे चन्द्रमास वियन्मध्यं अध्यासिनुमारोढुमिच्छति सति । '२७३४ । पूर्ववत्सनः ॥३।६२।' इत्यात्मनेपदम् । अस्तेरनुदात्तेवमात्म- नेपदनिमित्तम् । तेनैव सन्नन्तादपि भवति । अत्र सनि इटि कृते अजादेर्द्वितीय- १–१४४७१ व्यूहो वृन्देऽप्य॑हिर् वृ॒त्रेऽप्य॑ग्नीन्द्वर्कास् तमोपहाः ॥ २- ३२९॥ हर्म्याsदि धनिनां वासः, प्रासादो देवभूभुजाम् । ३ – '६६ यमुना आता शमनो यमराङ् यमः । कारिका । इति सर्वत्र ना० अ० ॥ कृतान्तो ४ – '३२९। सौधोऽत्री राजसदनमुपकायों प तथा लक्ष्य-रूपे कथानके 'ऽशोक-चनिका-भङ्गो' नामाष्टमः सर्गः- २०३ स्येति द्विवचनम् । पुरी लङ्का कासांचक्रे शोभते स्म । सौघैः सौधानां ज्योत्स्त्रया चोद्भायमानत्वात् । '२२४०। आम्प्रत्ययवत् । १।३।६३।' इति तङ् ॥ ५८१ - इन्दुं चषक - संक्रान्तर्मुपायुङ्ग यथाऽमृतम् ॥ प्रयुञ्जानः प्रिया वाचः समाजाऽनुरतो जनः ॥ ३९ ॥ इन्दुमित्यादि — एवं शोभितायां लङ्कायां समाजानुरतः पानगोष्टीरतो जनः चषकसंक्रान्तं मद्यभाजने प्रतिबिम्बेन संक्रान्तमिन्दुमुपायुत उपभुक्तवान् । प्रतिविम्बावच्छिन्नस्य मद्यस्योपलक्ष्यमाणत्वादेवमुक्तम् । यथाऽमृतं अमृतमिव । प्रिया अनुकूला वाचः प्रयुञ्जानः अभिदधानः । २७३५ । प्रोपाभ्याम्-११।३। ६४ ।' इति तङ् ॥ ५८२ - संक्ष्णुवान इर्वोत्कण्ठामुपाभुङ्ग सुरामलम् ॥ ज्योत्स्नायां विगलन् - मानसू तरुणो रक्षसां गणः ४० संक्ष्णुवान इत्यादि — रक्षसां तरुणो गणः उत्कण्ठां प्रियासु संस्मरणं संक्ष्णुवान इव समुत्तेजयन्निव । '२७३६ । समः क्ष्णुवः ।१।३।६५।' इति तङ् । ज्योत्स्नायां सुरां अलं पर्याप्तमुपाभुङ्ग अभ्याहृतवान् । '२७३७॥ भुजोऽनवने ।१।३।६६ ।' इति तङ् । विगलन्मानः ॥ ५८३ मध्र्ध्वपाययत स्व॒च्छं सोत्पलं दयितता॒ऽन्तिके ॥ आत्मानं सुरता॒ऽऽभोग-विम्भोत्पादनं मुहुः ॥४१॥ मध्वित्यादि — कीदृशम् । मधु स्वच्छत्वात् सोत्पलतया सुरभित्वात् शोभनं जातं यतः स्वयमात्मानं मुहुरपाययत पायितवत् । १२७३८ । रणौ १११३॥ ६७ । ' इति तङ् । दयितान्तिके दयितस्य समीपे । सुरताभोगः सुरतविमर्दः तत्र विश्रम्भः तस्योत्पादनं जनकम् । उत्पादयतीति २८४१॥ कृत्यल्युटो बहुलम् ।३।३।११३।' इति कर्तरि ल्युट् ॥ ५८४ - अभीषयन्त ये शक्रं राक्षसा रण-पण्डिताः ॥ अविस्मापयमानस् तान् कपिरा॑टीद् गृहाद् गृहम्, ४२ अभीषयन्तेत्यादि — एवं रक्षःसु यथायथं चेष्टमानेषु ये राक्षसा रणपण्डिताः संग्रामविज्ञाः शक्रमभीषयन्त भीषितवन्तः । '२५८४ । भी स्म्योर्हेतुभये ।१।३।६८।' इति तङ् । '२५९५ । भियो हेतुभये षुक् ।७।३।४० ।' भयग्रहणमुपलक्षणं तेन स्मयतेरपि भवति । तानसौ कपिरविस्मापयमानः विस्मयमकारयन् । १-१०४० । चषकोऽस्त्री पानपात्रं सरकोऽप्यनुतर्पणम् ।" २ – १०० I चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता ।' ३–१७८९॥ समौ विश्रम्भ-विश्वासौ भ्रेपो भ्रंशो यथोचितात् ।' ४–४७१ इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः । वृद्धश्रुवाः शुनासीरः पुरुहूतः पुरन्दरः । जिष्णुर् लेखर्षभः शक्रः । इति सर्वत्र ना० अ० ॥ २०४ भट्टि काव्ये — द्वितीयेऽधिकार काण्डे 'लक्षण-रूपे तृतीयो वर्गः, ८ २५९६ । नित्यं स्मयतेः ।६।१।५७॥ इत्यास्वम् । गृहाद्गृहमाटीत् गतवान् । लुड़ेि रूपम् ॥ ५८५ - सीतां दिक्षुः प्रच्छन्नः सो ऽगर्धयत राक्षसान्, ॥ — अवञ्चयत मायाश च स्व-मायाभिर् नरद्विपाम्, ४३ सीतामित्यादि –स कपिः सीतां दिक्षुः सीतां द्रष्टुमिच्छुः प्रच्छन्नः राक्ष- सानगर्धयत । व्यामोहयत् । स्वमायाभिश्च नरद्विषां मायाश्च अवञ्चयत अतिसंहि- तवान् । '२७३९ । गृधि-वश्योः प्रलम्भने । १।३।६९ । इति तङ् ॥ ५८६ – अपलापयमानस्य शत्रूस् तस्याऽभवन् मतिः ॥ 'मिथ्या कारयते चारैर् घोषणां राक्षसा॒ऽधिपः' ॥४४॥ अपेत्यादि- - तस्य कपेः शत्रून् राक्षसान् अपलापयमानस्य न्यक्कुर्वतः । '२५२९ । विभाषा लीयतेः ।६।१।५।' इत्यावे '२५९२ । लियः सम्मानन ।१।३- ।७०।' इत्यादिना शालिनीकरणे न्यग्भावने आत्मनेपदम् । मतिरभवत् । कोह- शीत्याह- मिथ्याकारयत इति । अयं राक्षसाधिपतिश्चारैर्दण्डवाहकैः यां घोषणां पुनः पुनः कारयति जागृत जागृतेति तां मिथ्या कारयते येनाहमविज्ञात एव प्रविष्टः । '२७४० । मिथ्योपपदात् कृञोऽभ्यासे ।१।३।७१ । इति तङ् । अभ्या- सश्च पुनः पुनः करणम् ॥ कुलकम् ४५-४९- ५८७ - गूहमानः स्व-माहात्म्यम॑टित्वा मन्त्रि - संसदः ॥ नृभ्यो ऽपवदमानस्य रावणस्य गृहं ययौ ॥ ४५ ॥ गूहमान इत्यादि - स्वमाहात्म्यं स्वपराक्रमं गृहमान: आवृण्वन् । '२३५४॥ ऊदुपधाया गोहः ।६।४।८९ । इत्यूत्वम् । '२१५८ स्वरितजित:- 1१।३।७२।' इति तङ् । अटित्वा मन्त्रिसंसदः शुकसारणादिगृहाणि गत्वा रावणस्य गृहं ययौ । कीदृशस्य । नृभ्यो ऽपवमानस्य कुप्यतः असूयतो वा । '२७४१। अपा- इदः । २।३।७३ ।' इति तङ् । नृभ्य इति '५७५॥ क्रुध-द्रुह-।१।४॥३७।' इति सम्प्रदानसंज्ञायां चतुर्थी ॥ कीदृशं गृहमित्याह - ५८८ - दिशो द्योतयमानाभिर् दिव्य - नारीभिराकुलम् ॥ श्रियमा॑यच्छमानाभिरुत्तमाभिर॑नु॒त्तमाम् ॥ ४६ ॥ १८८७७९ । चार च गुढ़-पुरुषश्, चाऽऽप्त-प्रत्ययितौ समौ ।' २- '१८३ । आम्रेडितं द्विस्- त्रिरुक्तमुच्चैर् घुष्टं तु घोषणा " ३ – १७७० । मन्त्री बीस- चिवोऽमात्यो, ऽन्ये कर्मसचिवास ततः ।" इति सर्वत्र ना० अ० । टीकंनमवलोकयन्तु । इति ॥ ४ - (५६४) श्लोकस्थं तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका - भङ्गो नामाष्टमः सर्गः– २०५ दिश इत्यादि — दिशः द्योतयमानाभिः भासयमानाभिः । '२५६४। णिचश्च ।१।३।७४ ।' इति तङ् । दिव्यनारीभिः उत्तमाभिः प्रधाननायिकाभिराकुलं व्याप्तम् । श्रियमनुत्तमामतिशयवतीं आयच्छमानाभिः स्वीकुर्वाणाभिः । '२७४२। समुदाइभ्यः - ।१।३।७५।' इति तङ् ॥ ५८९ - नित्यमुद्यच्छमानाभिः स्मरसंभोग-कर्मसु ॥ जानानाभिरलं लीला-किलकिंचित-विभ्रमान् ॥४७॥ नित्यमित्यादि – स्मरसंभोगकर्मसु कामोपभोगक्रियासु । नित्यमुद्यच्छमा- नाभिः उत्साहमानाभिः । लीला : स्त्रीणां शृङ्गारचेष्टाविशेषाः । अलं जानानाभिः । '२७४३। अनुपसर्गाज्ज्ञः ।१।३।७६ । इति तङ् । पूर्ववत्त । तथा चोक- नू – 'विलास-लीला: किलकिंचितानि विव्वोक-मोहायित-विभ्रमाणि । विच्छित्त- माकुट्टिमितेक्षितानि योज्यानि तज्ज्ञैः सुकुमारनृत्ते' इति । लक्षणं चैषां नाट्यशास्त्रे ॥ ५९० - स्वं कर्म कारयन्न । स्ते निश्चिन्तो या झप-ध्वजः ॥ स्वाऽर्थं कारयमाणाभिर् यूनो मद-विमोहितान् ॥४८॥ स्वमित्यादि – स्वमात्मीयं मोहनादिकर्म दिव्यनारी: कारयन् अनुष्टापयन् एप झषध्वजः कामदेवः निश्चिन्त आस्ते । ताभिराकुलमिति योज्यम् । ८५४१॥ हृ-क्रोरन्यतरस्याम् । १।४।१३।' इति द्विकर्मकता । यूनः स्वार्थ स्वप्रयोजनं मैथु- नाख्यं कारयमाणाभिः आकुलम् । ता हनुमानिति वक्ष्यमाणेन संबन्धः । कीड- शान् । मदविमोहितान् मधुपानमदपरवशान् । ताभिः ॥ कीदृशीभिरियाह५९१ - कान्ति स्वां वहमानाभिर् यजन्तीभिः स्व-विग्रहान् ॥ नेत्रैरिव पिबन्तीभिः पश्यतां चित्त - संहतीः ॥ ४९ ॥ कान्तिमित्यादि — स्वां कान्ति शोभां वहमानाभिः । यजन्तीभिः स्ववित्रहान् ददतीभिः कामिभ्यः । तत्र स्वं कर्मेति णिचश्वेत्यस्य विषयः । कान्ति स्वां स्वविग्रहानिति स्वरितेत इत्यस्य विषयः । '२७४४ । विभाषोपपदेन प्रतीयमाने ।१।३।७७ ।' इति विभाषा आत्मनेपदम् ॥ इत्यात्मनेपदाधिकारः ॥ शेषभूतत्वात् परस्मैपदविधानमाह – नेत्रैरिति । पश्यतां चित्तसंहतीः । चितसंदोहान् पिबन्तीभिरिव गृह्णन्तीभिरिव । '२१५९ । शेषात्कर्तरि परस्मैपदम् ११।३।७८।' ॥ १–'६३४ । अथ कलेवरम् । गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः । कायो देहः क्लीत्रपुंसोः, स्त्रियां मूर्तिस् तनुस् तनूः ।' इति ना० अ० ॥ भ० का० १८ २०६ भट्टिकाव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः, W ५९२ ता हनूमान् पराकुर्वन्नगमत् पुष्पकं प्रति ॥ विमानं मन्दरस्या॑द्रेर॑नु॒कुर्वदि॑िव श्रियम् ॥ ५० ॥ ता इत्यादि - ता दिव्यनारी: पराकुर्वन्नपक्षिपन् । अगमत् । पुष्पकं प्रति पुष्पकविमानं प्रति । येन पुष्पकविमानेन जगाम । कीदृशं । मन्दरस्यादेः श्रियमजुकुर्वदिव । '२७४५ । अनु-पराभ्यां कृञः ॥३२।७९। कर्नभिप्राये चात्मनेपदस्य प्राप्तत्वात् ॥ युग्मम् ५१, ५२- ५९३ - तस्मिन् कैलास-संकाशं शिरैः- शृङ्गं भुज-द्रुमम् ॥ अभिक्षिपन्तमैक्षिष्ट रावणं पर्वत श्रियम् ॥ ५१ ॥ तस्मिन्नित्यादि- तस्मिन् विमाने रावणमैक्षिष्ट । कैलाससंकाशं कैलासतु- ल्यम् । शिरःशुङ्गं शिरांसि शृङ्गाणीव यस्य । भुजद्रुमं भुजा द्रुमा इव यस्य । तं पर्वतस्य श्रियमभिक्षिपन्तं अभिभवन्तम् । '२७४६ । अभिप्रत्यतिभ्यः क्षिपः ।१।३।८०।' इति परस्मैपदम् । तस्य स्वरितेत्त्वात् कर्त्रभिप्राय आत्मनेपदं प्राप्तम् ॥ ५९४ - प्रवहन्तं सौमोदं सुप्तं परिजनाऽन्वितम् ॥ । मैंघोने परिमृष्यन्तमारंभन्तं परं स्मरे ॥ ५२ ॥ प्रवहन्तमित्यादि —–—सदामोढं कस्तूरिकाढिपरिमलं प्रवहन्तम् । '२७४७ प्राद्वहः । १।३।८१ ।' इति परस्मैपदं स्वरितेत्त्वात् । सुतं शयने संविष्टम्। परिजनान्वितं पारिपार्श्विकाञ्चिष्टितम् । मघोने इन्द्राय परिमृप्यन्तं असूयन्तम् । '२७४८ । परे- र्मृघः । १।३।८२।' इति परस्मैपदं । सृपेः स्वरितेत्त्वात् । ५७५ । क्रुष-द्रुह- ११॥४॥ ३७ ।' इति सम्प्रदानसंज्ञायां चतुर्थी । स्मरे कामे परमत्यर्थ आरभन्तं सक्तिं कुर्वा - णम्। '२७४९। व्याङ्परिभ्यो रमः । १।३१८३।' इति परस्मैपदम् । रमेरनुदात्तेत्त्वात् । ५९५ - व्यरमत् प्रधनाद् यस्मात् परित्रस्तः सहस्र-दृक् ॥ । क्षणं पर्यरमत् तस्य दर्शनान् मारुताऽऽत्मजः ॥५३॥ १–७८॥ अस्यो ( कुवेरस्य)द्यानं चैत्ररथं पुत्रस तु नलकूबरः, । कैलासः स्थान मलका पूर्, विमानं तु पुष्पकम् ।" इति ना० अ० । २ – श्रीर् वेषरचना शोभा भारती सरल-द्रुमे । लक्ष्म्यां त्रि-वर्ग-संपत्तौ वेपोषकरणे मतौं ।" इति विश्व मेदिन्यौँ । ३ – '१०३५ । निभ-संकाश-नीकाश-प्रतीकाशोपमादयः । इति ना० अ० 11 अस्मिन् 'शिरःश' पदे इवादेरुपमावाचकस्य साधारणधर्मस्य च लोपात् समासगा लुप्तोपमा — 'वादेर् लोपे समासे सा कर्माधार क्यचि क्यङि । कर्म-कर्णमुल्येतद् द्विलोपे क्विप् समासगा ।' इति तलक्षणं काव्यप्रकाशे दशम उल्लासे दृश्यते । ५–१६४१ विमर्दोत्थे परिमलो गन्धे जन-मनोहरे । आमोदः सोऽतिनिर्झरी, वाच्य लिङ्गत्वमा गुणात् ॥ ६(५८४) लोकस्थं टिप्पणं पश्यन्तु । ७–८६९। युद्धमायोधनं जन्यं प्रधनं प्रविदारणम् ।' इति ना० अ० ॥ नामाष्टमः सर्गः - २०७ तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका-भङ्गो' व्यरमदित्यादि — यस्माद्वावणात् सहस्रगिन्द्रः परित्रस्तः '५८८ । भीत्रार्था नाम्- । १।४।२५।' इत्यपादाने पञ्चमी । प्रधनात् युद्धात् । व्यरमत् उपरतव्या- पारोऽभूत् । '२७४९ । व्याङ्- परिभ्यो रमः । १।३।८३ ।' इति परस्मैपदम् । जुगुप्सा 'विराम-प्रमादार्थानामपाढ़ाने पञ्चमी । तस्व दर्शनान्मारुतात्मजः हनूमान् क्षणं पर्यरमत् तुष्टिमानभवदित्यर्थः । 'साधु रावण' इति । पूर्ववल्लङः परस्मैपदम् ॥ ५९६ - उपारसीच् च संपश्यन् वानरस् तं चिकीषितात् ॥ रम्यं मेरुमि॑िवाऽऽधूत ननं श्वसनोर्मभिः ॥ ५४ ॥ उपेत्यादि - तं रावणं पश्यन् वानरः चिकीषितात्कर्तुमिष्टात् सीतान्वेषणा- दुपारंसीत् निवृत्तः । उपान्चेयधिकृत्य '२७५१॥ विभाषाऽकर्मकात् ११३८५। इति लुङः परस्मैपदम् । तत्य मेरोरिव रम्यत्वात् तदाह मेरुमिव । श्वसनोर्मिभिः वातसमूहैः । आधूतकाननं प्रचलितवनं मेरुम् । तथा श्वसनोर्मिभिः श्वसित- कल्लोलैः आधूतानि शिरांस्थाननानि च यस्येति ॥ ५९७ - दृष्ट्वा दयितया साकं रहीभूतं दशाननम् ॥ ना ऽत्र सीर्तेयुपास्त दुर्मना वायु- संभवः ॥ ५५ ॥ दृष्ट्वेत्यादि — रहीभूतं विजनस्थं दशाननम् । '२१२१॥ अरुर्मनश्चक्षुः–१५॥४/- ५१॥ ' इत्यादिना च्वौ सलोपः । दयितया साकं दृष्ट्वा नात्र सीतेति कृत्वा उपारंस्त विमना निवर्तते स्म । १२७५१ । विभाषाऽकर्मकात् ।१।३।८५।' इति तङ् । वायुसंभवो हनुमान् ॥ ५९८-ततः प्रौकारमरोहत् क्षपाटानविबोधयन् ॥ ु नाऽयोधयत् समर्थोऽपि सीता दर्शन-लालसः ॥५६॥ तत इत्यादि — तत उत्तरकालं प्राकारमारोहत् आरूढवान् । क्षपाटान् राक्ष- सान् अविबोधयन् अचेतयन् । '२५६४ । णिचश्च ।१।३।७४ ।' इत्यात्मनेपदे प्राप्ते '२७५२। बुध युध-।१।३।८६।' इत्यादिना वा लटः परस्मैपदम् । बुधेरणौ सकर्मकस्य चित्तवत्कर्तृत्वात् हनूमतश्चित्तवश्वात् । तत्र ह्यकर्मका ये तेषामचित्तवकर्तृ- कत्वार्थमुपादानमित्युक्तम् । तान्नायोधयत् समर्थोऽपि न संग्रामितवान् । यतः सीतादर्शनलालसः लम्पट: '२७५४ । अणावकर्मकात्- ।१।३।८८।' इत्यनेन उभयत्रापि लङः परस्मैपदम् । युधेरेकस्याचित्तवस्कर्तृकत्वात् ॥ ५९९ - अध्यासीद्, 'राघवस्या ऽहं नाशयेयं कथं शुचम् ॥ # ■ वैदेह्या जनयेयं वा क॒थमा॑नन्दमुत्तमम् ॥ ५७ ॥ अध्यासीदित्यादि – राघवस्याहं कथं केन प्रकारेण शुचं शोकं नाशयेयम् । कथं वा वैदेयाः सीताया आनन्दं जनयेयमिति हनुमानध्यासीत् चिन्तितवान् । १–'१२०५ । कं शिरोम्बुनोः ।' २ – १०५३ । दुर्मना बिमना अन्तर्मनाः स्यार्दुत्क उन्मनाः ॥ ३–३२२ । प्राकारो वरणः साल: ॥ इति सर्वत्र ना० अ० ॥ २०८ भट्टि- काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः, '९७४ । ध्यै चिन्तायाम्' इत्यस्य लुङि रूपम् । नशिजन्योरकर्मकत्वात् '३७५४६ अणौ–११।३१८८।' इत्यनेन लिङः परस्मैपदम् । न बुधेत्यादिना जनीजूपित्यादिना । जनेर्मित्संज्ञायां ह्रस्वत्वम् ॥ ." ६०० - दृष्ट्वा राघव - कान्तां तां द्रावयिष्यामि राक्षसान् ॥ तस्या हि दर्शनात् पूर्वं विक्रमः कार्य-नाश - कृत् ॥५८॥ दृष्ट्वेत्यादि - इयमसाविति राघवस्य कान्तां दृष्ट्वा द्भावयिष्यामि राक्षसान् पलाययिष्यामि । अत्र अणावियनेन न बुधेत्यादिना तयाकर्मकस्य चित्तवत्कर्तृ- कत्वात् । हि यस्मात् तस्याः सीताया दर्शनात्पूर्व विक्रमः कार्यस्य सीतादर्शन- रूपस्य नाशकृत् ॥ ६०१ - चिन्तयन्नित्यमुत्तुङ्गैः प्रावयन्तीं दिवं वनैः ॥ अशोक - वनिकामरांदपश्यत् स्तवकऽऽचिताम्. ५९ चिन्तयन्नित्यादि-इत्थं पूर्वोक्त प्रकारेण चिन्तयन्नारात्समीपे अशोकवनि- कामपश्यत् । उत्तुङ्गैरुच्चर्वनैदिवमाकाशं प्रावयन्तीं व्याप्मुवानाम् । ८२७५२। बुध- युध-।१।३।८६।' इत्यादिना तिप् । प्रवतेरकर्मकस्याचित्तवत्कर्तृत्वात् । अशोक- वनिकायाश्चाचित्तवतीत्वात् । स्तबकाचितां अशोकपुष्पस्तवकैः छन्नाम् ॥ कुलकम् ६०-६४- ६०२ - तां प्राविशत् कपि- व्याघ्रस् तरूँन-चलयन् शनैः ॥ अ - त्रासयन् वन-शयान् सुशान् शाखाँसु पक्षिणः ६० तामित्यादि – तामशोकवनिकां कपिण्यावः कपिर्थ्यात्र इव शनैर्मेन्द्र प्रा- विशत् । तरूनचलयन् अकम्पयन् । चलेरकर्मकत्वाञ्चित्तवत्कर्तृकाढणावित्यनेन च लटः परस्मैपदं न निगरणेत्यादिना । तद्धि तत्र सकर्मकार्थं अचित्तव कर्तृकार्य चेत्युक्तम् । वनशयान् पक्षिणः शाखासु सुतान् अत्रासयन् । ८२७५४ । अणौ- ।१।३।८८।' इत्यनेन परस्मैपदम् । वने शेरत इति ८२९२९। अधिकरणे शेतेः ।३।२।१५।' इत्यच् । '९७६ । शय वास-वासिपु-।६।३।१८।' इत्यादिना सप्तम्या विभाषा अलुक् ॥ ६०३ - अवाद् वायुः शनैर् यस्यां लतां नर्तयमान-वत् ॥ नाऽऽयासयन्त संत्रस्ता ऋतवोऽन्योन्य संपदः ॥६१॥ " १- '१११५ दूर-समीपयोः।' उच्च-प्रांश॑न्नतो॒दयो॒च्छ्रितास् तुङ्गे ।" २–२४५१ । आरादू ३ – '३६४। स्याद् गुच्छकस् तु स्तबकः, कुडूमलो याम् ।' ४ – '३५३ । वृक्षो महीरुहः शाखी विटपी पादपसू तरुः । समे शाखा-लते, स्कन्धशाखा - शाले, शिफा जटे ।" इति सर्वत्र ना० अ० । मुकुलोऽस्त्रि५-३५९ । तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका - भङ्गो' नामाष्टमः सर्गः– २०९ अवादित्यादि – यस्यामशोकवनिकायां वायुवतः शनैर्मन्दमवात् वाति स्म । तामाटेति वक्ष्यमाणेन संबन्धः । लतां नर्तयमानवत् नृत्यमिव कारयन् । नृतिश्चलने वर्तते । ततश्च । ८२७५३ । निगरण-।१।३।८७।' इत्यादिना परस्मै- पहुं प्राप्तं । '२७५५। न पादमि-।१।३।८९।' इत्यादिना प्रतिषिद्धम् । ऋतवोऽन्यो- न्यसंपदः परस्परस्य विभूती: नायासयन्त नोपपीडयन्ति स्म । संत्रस्ता रावणा- तू । आइपूर्वाद्यसेः चित्तवत्कर्तृकत्वात् अणावित्यादिना परस्मैपदं प्राप्तं 'न पाद- मि' इत्यादिना प्रतिषिद्धम् ॥ ६०४ - ज्योत्स्ना ऽमृतं शशी यस्यां वापीर् विकसितोपलाः ॥ अपाययत संपूर्णः सदा दश मुखाऽऽज्ञया ॥ ६२ ॥ ज्योत्स्नेत्यादि — यस्यां रावणाज्ञया शशी सदा संपूर्ण : सन् ज्योत्स्नामृतं वापीरपाययत पायितवान् । निगरणार्थत्वात्तिपि प्राप्ते न पादमीत्यादिना प्रति- षिद्धे णिचश्चेति तङ् ॥ R M ६०५ - प्रादमयन्त पुष्पेषु॒ यस्यां बेन्द्यः समाहृताः ॥ परिमोहयमाणाभी राक्षसीभिः समावृताः ॥ ६३ ॥ प्रादमयन्तेत्यादि – यस्यां बन्ध: समाहृताः समानीताः पुष्पेपुं कामं प्राद- मयन्त शमितवत्यः । तन्मतस्याचरणात् । कीदृश्यः । परिमोहयमाणाभिः व्यामो- हृयन्तीभिः राक्षसीभिः समावृताः परिवृताः । दमि-परिसुयोः अणावित्यादिना प्राप्तस्य परस्मैपदय न पादमीत्यादिना प्रतिषेधे णिचश्चेत्यात्मनेपदम् ॥ ६०६ - यस्यां वासयते सीतां केवलं स्म रिपुः स्मरौत् ॥ न त्वंरोचयता ऽऽत्मानं चतुरो वृद्धि मान॑पि ॥ ६४ ॥ यस्यामित्यादि — रिपुर्दशाननः स्मरात् कामाद्धेतोः केवलं निष्फलं यस्यां सीतां वासयते स्म वासितवान् । न त्वरोचयत आत्मानं नैवात्मानमुपरोचितवा- नू । चतुरोऽपि योषिदाराधनकुशलोऽपि । वृद्धिमानपि संपयुक्तोऽपि । रोचि- वास्योरणावित्यादिना प्राप्तस्यापि च परस्मैपदस्य न पादमीति प्रतिषेधे णिच- श्वेति तङ् ॥ ६०७ – मन्दायमान-गमनो हरितायत्-तरुं कपिः ॥ 1 द्रुमैः शकशकायद्भिर मारुतेना SSट सर्वतः ॥६५॥ मन्देत्यादि - कपिः सर्वतः सर्वत्र तामाट विजहार । यत्तदोर्नित्यसंबन्धातामिति गम्यते । मन्दायमानगमनः मन्दीभवद्गमनः । कीदृशीम् । हरिताय त्तरुं शादलीभवद्वृक्षाम् । अप्राणिजातेश्चेत्यूङ् । द्रुमैरुपलक्षिताम् । कीदृशैः । १- २८२ वापी, तु दीर्घिका ।" २ बन्दिशालास्थिताः स्त्रिय इत्यर्थः । ८८४१ प्रग्रहोपग्रहौ बन्द्यां, कारा स्याद् बन्धनालये ।" ३ - २७ । मदनो मन्मयो मारः कामः पञ्चशरः स्मरः । इति सर्वत्र ना० अ० । २१० भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण रूपे तृतीयो वर्गः, F शकशकायद्भिः शकस्वभावैः शकीभवद्भिः । केन । मारुतेन । अत्रामन्द मन्दं भवति अहरिता हरिता भवन्तीति लोहितादित्वात् क्यप् । अशकाः शका भव- न्तीति वाक्ये । '२१२८। अव्यक्तानुकरणात्- 1५४५७॥ इति डाच् । तस्मिन्वि- पयभूते 'डाचि बहुलं द्वे भवतः ।' 'नियमात्रेडिते डाचि' इति पररूपत्वम् । डाजन्तात् शकशका शब्दात् क्यप् । २६६९। वा क्यपः । १।३।९०।' इति परस्मैपढ़ आत्मनेपदं च ॥ M ३०८ - अस्यन्दन्निन्दु-मणयो, व्यरुचन् कुमुदाऽऽकराः ॥ अलोठिपत वातेन प्रकीर्णाः स्तवोच्चयाः ॥ ६६ ॥ अस्यन्दन्नित्यादि – चन्द्रोदयादिन्दुमणयः अस्यन्दन् स्यन्दन्ते स्म । तामा- टेति योज्यम् । व्यरुचन् कुमुदाकराः विराजितवन्तः । स्तवकोच्चयाः गुच्छराश- यः । वातेन प्रकीर्णा इतस्ततो विक्षिप्ताः सन्त: अलोठिषत लुठन्ते स्म । सर्वत्र '२३४५। यो लुङ ।१।३।११॥ इति विभाषा परस्मैपदम् । चुनादयश्च कृपूपर्यन्ताः ॥ ६०९ - सीताऽन्तिके विवृत्सन्तं वर्त्स्यत्-सिद्धिं प्लवङ्गमम् ॥ पंतत्रिणः शुभा मन्द्रमा॑नु॒वानास् त्वा॑जिहृदन् ॥ ३७॥ सीतेत्यादि सीतासमीपे विवृत्सन्तं वर्तितुमिच्छन्तं प्लवङ्गमं वर्त्स्यसि द्धिं वन्ती भविष्यन्ती सिद्धिः सीतादर्शनलक्षणा यस्य । '२३४७ । वृद्भ्यः स्य-सनोः ।१।३।९२।' इति विभाषा तिप् । तं पक्षिण: शुभाः प्रशस्ता अजिह्न- दन् सुखयन्ति स्म । णिचि लुङि चङि रूपम् । कीदृशाः । मन्द्रं गम्भीरं मधुर- मानुवाना: वाश्यमानाः । 'आहि नु-प्रच्छयोरुपसंख्यानं' इति तङ् । १६०८। णु स्तुतौ' इत्यादादिकस्य परस्मैपदित्वात् ॥ ६१० - वर्तिष्यमाणर्मात्मानं सीता पत्युरि॑िवा ऽन्तिके । 1 # उदपश्यत् तदा तैथ्यैर् निमित्तैौरि॑ष्ट-दर्शनैः ॥ ६८ ॥ वर्तिष्यमाणमित्यादि – सीतापि तदा तस्मिन् काले पत्यू रामस्थान्तिके आत्मानं वर्तिष्यमाणमिव उदपश्यत् उत्प्रेक्षते स्म । '२३४७ । वृद्भ्यः स्य-सनो- ।१।३।९२।' इति विभाषावचनात्तङ्क । निमित्तैश्चक्षुः स्पन्दनादिभिः । तथ्यैरविसं- वादिभिः इष्टदर्शनैः इष्टार्थप्रकाशकैः । दर्शन मिति । '२८४१ । कृत्यल्युटो बहुलम् ।३।३।११३।' इति कर्तरि युट् ॥ १–'१११२॥ समीपे निकटाऽऽसन्न-सन्निकृष्ट-सनीडवत् । सदेशाभ्याश-सविध-समर्याद-सदे- शवत् ॥ १११३ । उपकण्ठान्तिका - ऽभ्यर्णाऽभ्यग्रा अप्य॑भितो ऽव्ययम् ॥ २-५५२ शकुन्ति- पक्षि-शकुनि-शकुन्त·शकुन-द्विजाः । ५५३ । पतत्रि-पत्रि-पतग-पतत्-पत्ररथा-ण्डजाः ।' '१९५॥ सत्यं तथ्यमृतं सम्यगमूनि त्रिपु तद्वति ॥ ४ – १२८३ । निमित्तं हेतु-लक्ष्मणोः ।' इति सर्वत्र ना० अ० ॥ तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो नामाष्टमः सर्गः - २११ ६११ - 'निरवर्त्स्यन् न चेद् वार्ता सीताया, वितथैव नः ॥ अकल्प्स्यदु॑द्यतिः सर्वा', हनूमानि॑त्य॑चिन्तयत् ॥६९॥ इत्यात्मनेपदाधिकारः । निरवर्त्स्यन्नित्यादि — चेदिति यद्यर्थे । यदि सीताया वार्ता न निरवर्त्स्यत् निर्वृतिं नायास्यत्, तदा वृथैव निष्फलैव नोऽस्माकमुद्यतिः सर्वा अयमुद्यमः समुद्गलङ्घनादिकः। अकल्प्स्यत् अभविष्यत् । इत्येवं हनूमानचिन्तयत् । क्रियातिपत्तौ ऌङ् । तत्र निरवर्त्स्यदिति '२३४७। वृद्भ्यः स्य-सनोः ।१॥३।९२१' इति विभाषापरस्मैपदम् । अकल्प्स्यदिति '२३५१। लुटि च क्लृपः ।१।३।९३।' इति चकारात् स्य-सनोरपि भवति विभाषापरस्मैपदम् । उद्यतिरिति यमेः '३२७२॥ स्त्रियां किन् ।३।३।९४॥ '२४२८ । अनुदात्त । ६।४।३७।' इत्यादिना अनुनासिकलोपः ॥ इत्यात्मनेपदाधिकारः ॥ इतः प्रभृति कारकमधिकृत्याहविशेषकम् ७०-७२– ६१२ - वृक्षाद् वृक्षं परिक्रामन् रावणाद् विभ्यतीं भृशम् ॥ शत्रोस् त्राणम॑ - पश्यन्ती-दृश्यो जनका॒ऽऽत्मजाम् ७० वृक्षादित्यादि – तां जनकात्मजां सीतां स कपिकुञ्जरोऽपश्यदिति वक्ष्य- माणेन संवन्धः । वृक्षात् वृक्षं परिक्रामन् गच्छन् । १५८६ । ध्रुवमपाये ऽपादा- नम् । १।४।२४।' इत्यपादानसंज्ञायां पञ्चमी । रावणात् विभ्यतीं भृशं नस्यन्तीं अत्यर्थं शत्रो रावणाद्वक्षामपश्यन्तीं यतो भयं ततः कुतो रक्षेति '५८८ । भीन्ना- र्थानाम् – ।१।४।२५।' इत्यपादानसंज्ञा । अदृश्यः प्रच्छन्नो भूत्वा । २८५९ । ऋदुपध-।३।१।११०।' इत्यादिना क्यप् ॥ ६१३ - तां पराजयमानां स प्रीते रक्ष्यां दशाऽऽननात् ॥ अन्तर्दधानां रक्षोभ्यो मलिनां म्लान-मूर्धजाम् ॥ ७१॥ तामित्यादि — प्रीतेः रावणसंबन्धिन्या पराजयमानां विमुखीभवन्तीम् । ८५८९॥ पराजेरसोढः ।१।४।२६।' इत्यपादानत्वम् । असोढोऽर्थः प्रीतिः । रक्ष्यां दशाननात् रावणविषये स्वयं निवार्यप्रसराम् । ५९०। वारणार्थानामीप्सितः ।१।४।२७।' इत्यपादानत्वम् । प्रवृत्तिविघातलक्षणया रक्षणक्रियया आत्मसंबन्धि- न्या दशाननस्य व्याप्तुमभिप्रेतत्वात् । अन्तर्दधानां रक्षोभ्यः मा मां रक्षांसि द्राक्षुरिति । ततश्च '५९१ । अन्तर्छौं येनादर्शनम् ॥१।४।२८।' इत्यपादानसंज्ञा । अन्तर्धिनिमित्तं हि रक्षोभिरात्मनो दर्शनस्यानीप्सितत्वात् । मलिनां शरीरेण क्लानमूर्धजां मलिनकेशां बद्धवेणीत्वात् ॥ १- '१७८। वार्ता प्रवृत्तिर् वृत्तान्त उदन्तः स्यात् ।" इति ना० अ० ॥ २१२ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः, ६१४ - रामादधीत - संदेशो वायोर् जातश् च्युत-स्मिताम् ॥ प्रभवन्तीमि॑िवा॑दित्याद॑पश्यत् कपि- कुञ्जरः ॥ ७२ ॥ रामादित्यादि — सत्कृत्य अधीतसंदेशो गृहीतसंदेशः कपिकुञ्जरः । ८७९२१ आख्यातोपयोगे ।१।४।२९॥ इत्यपादानसंज्ञा । रामस्याख्यातृत्वात् । सावधानतया संदेशग्रहणात् नियमपूर्वकविद्यावत् संदेशग्रहणम् । वायोजत इति '५९३ । जनि- कर्तुः-।१।४।३०।' इत्यपादानसंज्ञा । जन्यर्थस्य जन्मनः कर्ता हनुमान् तस्य वायुः प्रकृतिः कारणम् । च्युतस्मितां शोकाक्रान्तत्वात् । प्रभवन्तीमिवादित्यात् ।'५९४॥ भुवः प्रभवः ।१।४।३१।' इत्यनेन भवत्यर्थस्य सीतायाः कर्तृभूतायाः प्रथमत उपलभ्यमानत्वात् । अतः प्रभव आदित्यः तस्याम्तेजस्वित्वात् ॥ ६१५ रोचमानः कुदृष्टिभ्यो रक्षोभ्यः प्रत्तवान् श्रियम् ॥ श्लाघमानः पर स्त्रीभ्यस् तत्राऽऽगाद् राक्षसाऽधिपः ॥ रोचमान इत्यादि- - तन्त्र तस्यामशोकवनिकायां राक्षसाधिपो रावणः आ- गात् आगतः । रोचमानः कुदृष्टिभ्यः त्यक्तत्रयीधर्मत्वात् । ये कुदृष्टयः कुबुद्धयः तान् स्वविषये स्पृहावतः कारयन्नित्यर्थः । १५७१ । रुच्यर्थानां प्रीयमाणः 1918/- ३३।' इति सम्प्रदानसंज्ञायां चतुर्थी । रुचेरभिलाषय तन्नावस्थानात् । कुदृष्टयः प्रीयमाणाः । रक्षोभ्यः श्रियं विभूतिं प्रत्तवान् । '५६९३ कर्मणा यमभिप्रैति- ।१।४।३२।' इति सम्प्रदानम् । ददातिक्रियया राक्षसानामभिप्रीयमाणत्वात् । लावमानः परस्त्रीभ्यः युष्मद्वषये ऽस्माकं ठाघेति परकलत्राणि ज्ञापयितुभेष- यन् । '५७२॥ श्लाघ-हुङ्- ।१।४।३४।' इत्यादिना सम्प्रदानत्यम् । श्लाघया बहु- मानेन ज्ञापयितुमिप्यमाणत्वात्तासाम् ॥ ww ६१६ - अशप्त निहुवानो ऽसौ सीतायै स्मर- मोहितः, ॥ धारयन्निव चैतस्यै वसूनि प्रत्यपद्यत ॥ ७४ ॥ अशप्तेत्यादि – सीतायै निहुवानः क्रौर्यादिकं न मेऽस्तीति सीतां ज्ञापयितुमेषयन्नित्यर्थः । तस्यै सीतायै अशपत् । शपथं सीतां ज्ञापयितुमैपदित्यर्थः । किमित्येवमाह । स्मरमोहितः । अत्र शपथापह्नुतिक्रियया सीतामाज्ञापयितुमिप्यमाणत्वात् । पूर्ववत् सम्प्रदानसंज्ञा । किंचास्यै सीतायै स्वामिनीभूतायै वसूनि द्रव्याणि प्रत्यपद्यत अङ्गीकृतवान् । धारयन्निव गृहीतवित्त इव । अत्र '५७३। धारेरुत्तमर्णः ॥४।३५।' इति सीतायाः कदाचिदुत्तमर्णया तुल्यत्वात् ॥ ६१७ - तस्यै स्पृहयमाणो ऽसौ बहु प्रियर्मभाषत, " सानुनीतिश् च सीतायै ना ऽक्रुध्यन्, नाप्य॑सूयत. ७५ तस्यामित्यादि — असौ राक्षसाधिपः स्पृहयमाणः सीतामातुमिच्छन् बहुप्रियमभाषत वक्ष्यमाणम् । ८५७४ । स्पृहेरीप्सितः ।१।४।३६ ।' इति स्पृहयतेः स्वार्थिकण्यन्तस्य प्रयोगे सीताया ईप्यमानत्वात् । सानुनीतिश्च सानुनयः सीतातथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो नामाष्टमः सर्गः – २१३ ये नाक्रुध्यत् तां प्रति कोपं न कृतवान् । नाप्यसूयत दोषाविष्करणलक्षणामसूयां न कृतवान् । क्रुध्यतिसूयत्योर्दिवादिकयोरुदात्तेङितोर्लङि प्रयोगे '५७५॥ क्रुध- द्रुह–११॥४॥३७॥' इत्यादिना सम्प्रदानम् ॥ , ६१८ - 'संक्रुध्यसि मृषा किं त्वं दिदृशुं मां मृगेक्षणे ! ॥ ईक्षितव्यं पर स्त्रीभ्यः स्व-धर्मो रक्षसाम॑यम् ॥ ७६ ॥ संक्रुध्यसीत्यादि - किं त्वं शुभाशुभे दिदृशुं द्रष्टुमिच्दुं मां हे मृगेक्षणे ! संक्रुध्यसि । '५७६। क्रुध-दुहोरुपसृष्टयोः-।१।४।३८।' इति कर्मसंज्ञा । क्रुधे रुप सर्गेण युक्तत्वात् । कुतस्ते परिज्ञानं यत्परस्त्रीपु शुभाशुभं निरूपयसि अन्यत्र दुष्टाशयत्वात् । अथ कथं मृषा संक्रुध्यामीति चेदाह — ईक्षितव्यं परस्त्रीभ्यः का शुभान शुभेति यदीक्षितव्यमीक्षणीयं तदयं स्वधर्मो रक्षसाम् । १५७७१ राधी- क्ष्योर्यस्य विप्रश्नः ।१।४ । ३९॥ इति सम्प्रदानसंज्ञा । यतः स्त्रीविषये विविधस्य प्रश्नस्य क्रियमाणत्वात् ॥ , ६१९ - शृण्वन्द्भ्यः प्रतिशृण्वन्ति मध्यमा भीरुं ! नो॑ौत्तमाः ॥ गृणद्भ्यो ऽनुगृणन्त्य॑न्ये ऽकृता॒ऽर्था, नैव मद्-विधाः ॥ शृण्वय इत्यादि — अनेनात्मनः प्रभावं दर्शयति । शृण्वन्द्भ्यः प्रार्थयमा- नेभ्यः स्वामिन्निदं क्रियतामिति मध्यमाः प्रभवः प्रतिशृण्वन्ति ओमित्युपगच्छ- न्ति । हे भीरु ! नोत्तमा मादृशाः । ते हि स्वातन्त्र्यात्स्वयमेव हितं प्रतिपद्यन्त इति भावः । ८५७८। प्रत्याभ्यां श्रुवः पूर्वस्य कर्ता ।१।४।४०।' इति सम्प्रदा- नसंज्ञा । पूर्वस्याः प्रार्थनक्रियायाः प्रार्थयितुः कर्तृत्वात् । अन्ये प्रभवोऽकृतार्थाः अलब्धलाभाः गृणद्भ्यः अनुग्राहास्य भृत्यस्य कस्यचिन्न स्तुतिं कुर्वद्भ्यो मन्त्रिभ्यः अनुगृणन्ति तानू प्रोत्साहयन्ति । अनुगृणीत अनुगृणीतेति ममानुगतो भव- तीति नैव मद्विधा अनुगृणन्ति कृतार्थत्वात् । '१५९५ । गृ शब्दे' इत्यस्य प्रयोगे ८५७९ । अनु प्रतिगृणश्च ।१।४।४।१॥ इति सम्प्रदानसंज्ञा । गृणातेः स्तुतिक्रिया- पेक्षया कर्तृत्वात् ॥ ६२० - इच्छ स्नेहेन दीव्यन्ती विषयान् भुवनेश्वरम् ॥ 3 संभोगाय परिक्रीतः कर्तास्मि तव ना ऽप्रियम् ॥ ७८ ॥ इच्छेत्यादि — ईशं पूजितं भुवनेश्वरं त्रिलोकविजयिनमिच्छ अङ्गीकुरु । आत्मानमुद्दिश्य स्नेहेन प्रेम्णा । १५६० । साधकतमं करणम्- ।१।४।४२॥ इति करणसंज्ञा । दीव्यन्ती क्रीडन्ती विषयान् शब्दादिभिरित्यर्थः । १५६२ । दिवः कर्म च - ।१।४।४३ ।' इति करणसंज्ञापवादात् कर्मसंज्ञा । संभोगाय परिक्रीतः त्वद्वि- षयभोगेन परिक्रीत इत्यर्थः । ८५८० । परिक्रयणे सम्प्रदानम्- ।१।४।४। इति सम्प्रदानत्वम् । तव नाप्रियं कर्तास्मि न करिष्यामि ॥ । १–'५६६। विशेषास् त्वद्गना भीरुः कामिनी वामलोचना ।" इति ना० अ० । 'भीरुररावें त्रिलिङ्गः स्याद् वरयोषिति ।" इति मेदिनी च । २१४ भट्टि काव्ये - द्वितीचेऽविकार - काण्डे लक्षण-रूपे तृतीयो वर्गः, ६२१ - आस्स्व साकं मया सौधे, माऽधिष्ठा निर्-जनं वनम् ॥ मा ऽधिवात्सीर भुवं, शय्यामधिशेष्व स्मरोत्सुका. ७९ आस्स्वेत्यादि – मया साकं साधं सौधे धवलगृहे आस्स्व तिष्ठ । आसे- लौटि रूपम् '६७२ । आधारोऽधिकरणम् ॥१४।४५॥ इत्यधिकरणसंज्ञायां सतमी । मा Sधिष्ठा निर्जनं वनम् । ८५४२ । अधि-शी-स्थासां कर्म ।१।४।४।१ इत्यधिकरणे कर्मसंज्ञा । लुङि रूपम् । माऽधिवात्सीः भुवं भूमौ मा शयिष्ठाः । माङि लुङि रूपम् । ५४४ । उपान्वध्याङ्वसः ॥१४।४८।' इति अधिकरणे कर्मसंज्ञा । किंतु । शय्यामधिशेष्व । शीडो लोटि रूपम् । '५४२ । अधिशीङ्- ॥४।४६॥ इति कर्मसंज्ञा । स्मरोत्सुका कामार्थिनी ॥ ६२२ - अभिन्यविक्षथास् त्वं मे यथैवाऽव्याहता मनः ॥ तवाऽप्य॑ध्यावसन्तं मां मा रौत्सीर् हृदयं तथा ॥ ८०॥ अभीत्यादि – यथैव त्वमव्याहता अनिवारिता सती मे मम मनः अभिन्य विक्षथाः अभिनिविष्टासि । लुङि रूपम् । '३६८३ । नेविंशः ।१।३।१७।' इति दङ् । '५४३। अभि-नि-विशश्च ॥४।४७ ।' इत्यधिकरणे मनसः कर्मसंज्ञा । तथा त्वमपि त्वद्धृदयमध्यावसन्तं मां मां रौत्सीः मा निवारय । रुङि रूपम् । ८५४४। उपान्वध्याङ्- 1918।१८।' इति हृदयस्य कर्मसंज्ञा ॥ ६२३ मा ऽवमंस्था नमस्यन्तर्म-कार्य-ज्ञे ! जगत्-पतिम् ॥ संदृष्टे मयि काकुत्स्थमं धन्यं कामयेत का ? ॥८१॥ मैत्यादि- हे अकार्यज्ञे अविशेषज्ञे ! मां जगत्पतिं नमस्यन्तं माऽवसंस्थाः । लुङि रूपम् । '४३५॥ कर्तुरीप्सिततमम् ॥१॥४॥४९॥ इति कर्मसंज्ञा । अवमान- क्रियया कर्तृसंबन्धिन्या जगत्पतेराप्तुमिष्टत्वात् । संदृष्टे मयि काकुत्स्थमधन्यं मन्दभाग्यं का कामयेत का इच्छेत् । नैवेत्यर्थः । १५३८ तथायुक्तं चानीप्सितम् ।१।४।५०।' इति कर्मसंज्ञा । येनैव प्रकारेण कर्तुरीप्सिततमं क्रियया युक्तं तेनैवे- प्सितादन्यस्य रामस्य प्रयुज्यमानत्वात् ॥ ६२४ - यः पयो दोग्धि पाषाणं, स रामाद् भूतिमानुयात् ॥ रावणं गमय प्रीतिं वोधयन्तं हिताऽहितम् ॥ ८२ ॥ य इत्यादि - यथा पाषाणात् पयो न संभवति तथा रामादपि विभूतिरिति नैराइयं दर्शयति । पयसः पूर्वेणैव कर्मसंज्ञा । पाषाणस्य १५३९ । अकथितं च ॥१॥४॥५१॥' इत्यनेन । रावणं गमय प्रीतिं भवत्या सह प्रीतिं गच्छन्तं गमय श्रीतिम् । स्वयमेव हिताहितं भवतीं बुध्यमानां बोधयन्तम् । '५४७ । गति बुद्धि- ॥१॥४॥५२॥ इत्यादिना कर्मसंज्ञा । गति- बुद्ध्योरण्यन्तावस्थायां तयोः कर्तृत्वात् ॥ १-४१। विभूतिर भूतिरैश्वर्यमणिमादिकमष्टधा ।" इति ना० अ० । 3 तथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो नामाटमः सर्गः- २१५ ६२५ - प्रीतो ऽहं भोजयिष्यामि भवती भुवन-त्रयम् ॥ किं विलापयसेत्यर्थ, पार्श्वे शायय रावणम् ॥८३ ॥ प्रीत इत्यादि — अहं प्रीतः सन् भुवनत्रयं तत्समुत्थं भोज्यं भोक्तुं योग्यं भवतीं भोजयिष्यामि । प्रत्यवसानार्थत्वात्कर्मसंज्ञा । प्रत्यवसानमभ्यवहारः । अकर्त्रभिप्राये '२५६४ । णिचश्च ।१।३।७४ ।' इत्यात्मनेपदं न भवति । विलपन्तं विविधं भाषमाणं किं विलापय सेऽत्यर्थ नाहं त्वामिच्छासीति वाणा । अत्र शब्दकर्मत्वात् कर्मसंज्ञा । कर्त्रभिप्राये णिचश्चेत्यात्मनेपदम् । तस्मादिदं प्रार्थ- ये – पार्श्वे रावणं शायय । अनाकर्मकत्वात्कर्मसंज्ञा ॥ ६२६ - आज्ञां कारय रक्षोभिर् मा प्रियाण्युपहारय, ॥ 3 कः शक्रेण कृतं नैच्छेद॑धिमूर्धानम॑ञ्जलिम् ॥ ८४ ॥ इति कारकाधिकारः ॥ आशामित्यादि- रक्षांसि त्वदाज्ञां कुर्वन्त्येव । कारय प्रियाणि च त्वत्संव न्धीनि मामुपहरन्तमुपहारय उत्पादय । '५४१॥ हृ- क्रोरन्यतरस्याम् ॥१।४।५३॥ इति कर्मसंज्ञा । शक्रेण कृतं विरचितं अञ्जलिमधिमूर्धानं अधिगतः प्राप्तो मूर्धा येनेति । को नेच्छेत् ५५९॥ स्वतन्त्रः- ११॥४॥५४॥ इति कर्तृसंज्ञा । शक्रेण प्रणतो- ऽहमित्यर्थः । प्रयोज्यकर्त्रा नोदाहृतोण्यन्तावस्थायामुदाहृतत्वात् ॥ इति कारका- विकारः ॥ इतः प्रभृति कर्मप्रवचनीयमधिकृत्याह- ६२७ – वचनं रक्षसां पत्युर॑नु॒ क्रुद्धा पति- प्रिया ॥ पापाऽनुवासितं सीता रावणं प्राब्रवीद् वचः ॥ ८५ ॥ वचनमित्यादि — रक्षसां पत्यू रावणस्य वचनमनु लक्ष्यीकृत्य । ८५४७३ अनुलक्षणे ॥४।८॥ इति कर्मप्रवचनीयसंज्ञायां द्वितीया । क्रुद्धा सती सीता । पतिप्रिया पतिः प्रियो यस्या इति । रावणें प्राब्रवीद्वचो वक्ष्यमाणम् । पापानुवा- सितं पापेन संयुक्तम् । '५४९॥ तृतीयार्थे ।१।४।८५।' इत्यनेन कर्मप्रवचनीय संज्ञायां द्वितीया । पापमन्ववसित इति । द्वितीयेति योगविभागात् सः सुप्सुपेति वा ॥ ६२८ - 'न भवान॑नु रामं चेदु॑प शूरेषु वा, ततः ॥ अपवाह्य च्छलाद् वीरौ किमर्थं मार्मिहा ऽहरः, ॥८६॥ नेत्यादि – यदि भवान्नानुरामं रामान्न हीन इत्यर्थः । '५५० । हीने ।१॥४१८६ ।' इत्यनेन कर्मप्रवचनीयसंज्ञा । अनुशव्दश्च स्वहीनार्थद्योतकः । हीनश्चोत्कृष्टापेक्षः । उपशूरेषु वा शुरेभ्यो वा यद्यधिको भवान् । '५५१। उपोऽधिके च ॥१॥४॥८७ । ' इति चकाराद्धीने उपशब्दस्य कर्मप्रवचनीयसंज्ञा । यस्मादधिकमित्यनेन सप्त१-८७४। प्रसभं तु बलात्कारो हठो, ऽथ स्खलितं छलम् । इति ना० अ० । 'छलं छद्मस्खलितयोः' इति हैमश्च । २१६ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः, मी । उपशब्दस्याधिक द्योतनात् । किमर्थं कनकमृगच्छलेन । वीरौ रामलक्ष्मणौ अपवाह्य अन्यतो नीत्वा । मामिहाहरः लङ्कामानीतवान् ॥ ६२९ - 'उप-शूरं न ते वृत्तं कथं रात्रिंचरा॒ऽधम ! ॥ यत् संप्रत्यपलोकेभ्यो लङ्कायां वसतिर् भयात् ॥८७॥ उपेत्यादि — हे रात्रिंचराधम ! कथं ते वृत्तं चरितं नोपशूरं शुरेभ्यो न हीनम् । ५५१॥ उपोऽधिके च ॥४॥८७।' इति चकाराद्धीने उपशब्दस्य कर्म- प्रवचनीयसंज्ञा । यद्यस्मात् संयना भयालायां जलपर्वतदुर्गायां वसतिः । वसेरतिः 'वहि-वस्यर्तिभ्यश्चित्' इत्यौणादिकः । अपलोकेभ्यो लोकान् वर्जयित्वा । ८५९६। अप- परी वर्जने ।१।४।८८।' इति कर्मप्रवचनीयसंज्ञायां '५९८ पञ्चम्य पाङ्-परिभिः ।२।३।१०।' इति पञ्चमी ॥ ६३० - आ राम-दर्शनात् पाप ! विद्योतस्व स्त्रियः प्रति ॥ सद् - वृत्तानंनु दुर् वृत्तः परस्त्रीं जात-मन्मथः ॥ ८८ ॥ आ रामेत्यादि-हे पाप ! आ रामदर्शनात् रामदर्शनं यावत् । ५९७। आङ् मर्यादावचने ११४१८९॥ इति पूर्ववत्पञ्चमी । स्त्रियः प्रतियोपितो लक्ष्यी- कृत्य । विद्योतस्त्र स्थिरो भव । स्त्रियः इति '३०२ । वाऽम्-शसमोः ।६।४।८० । इति इयङ् । '५५२ । लक्षणेत्थंभूत ।१।५।९० ।' इत्यादिना कर्मप्रवचनीयत्वम् । सद्वृत्ताननु दुर्वृत्तः सदाचारिणामुपरि दुर्वृत्त इत्यर्थः । इत्थंभृतास्यानेऽनोः कर्मप्रवचनीयत्वम् । परम्त्रीं जातमन्मथः । अन्न वीप्सायां कर्मप्रवचनीयत्त्रम् ॥ ६३१ - अभि द्योतिष्यते रामो भवन्तम चिरादिह, ॥ उद्वर्ण-वाणः संग्रामे यो नारायणतः प्रति ॥ ८९ ॥ अभीत्यादि — भवन्तमभि भवन्तं लक्ष्यीकृत्य । ८५५५॥ अभिरभागे ॥१॥४/- ९११' इति कर्मप्रवचनीयत्वम् । अचिरादिह लङ्कायां रामो द्योतिष्यते असह्य- तेजाः भविष्यति । य उद्द्भूर्णवाण: संग्रामे नारायणतः प्रति तेन तुल्यः । ८५९९/ प्रतिः प्रतिनिधि-प्रतिदानयोः ।१।४।१२।' इति प्रतिनिधौ कर्मप्रवचनीयत्वम् । ८६००। प्रतिनिधि-प्रतिदाने च यस्मात् ।२।३।११।' इति पञ्चमी । प्रतियोगे पञ्चम्यास्तसिः । मुख्यसदृशः प्रतिनिधिः ॥ ६३२ - कुतो ऽधियास्यसि क्रूर ! निहतस् तेन पैत्रिभिः ॥ न सूक्तं भवता ऽत्युग्रम॑तिरामं मदो॒द्धत ! ॥ ९० ॥ कुत इत्यादि — हे क्रूर ! तेन रामेण उद्भूर्णबाणेन पत्रिभिः शरैः निहतः सन् कुतोऽधियास्यसि केन प्रकारेण निःसरिष्यसि । ८५५४ । अधि-परी अनर्थकौ' ।१।४।१३।' इति अधेः कर्मप्रवचनीयसंज्ञा । धात्वर्थव्यतिरेकार्थस्यानभिधानादनर्थकत्वम् । संज्ञा च गत्युपसर्गसंज्ञाबाधनार्था । तेन ' ३९७८ । तिङि चोदात्त१ – १३१३ । ग्रावाणौ शैल-पाषाणौ पत्रिणौ शर-पक्षिणौ ।' इति ना० अ० तथा लक्ष्य-रूपे कथानके 'ऽशोक - वनिका भङ्गो' नामाष्टमः सर्गः – २१७ वाते ।८।१।७१॥' इति निघाताभावो दृष्टव्यः । पञ्चमी च 'प्रश्नाख्यानयोः' इत्यु- पसंख्यानाद्भवति । किमिति हनिष्यतीति चेत् यतो भवता न सूक्तं प्रशस्तमु- क्तम् । '५५५ । सुः पूजायाम् ।१।४।१४।' इति कर्मप्रवचनीयत्वम् । '३७८३ । यतिरनन्तरः ।६।२।४९।' इति स्वराभावः । अत्युग्रमतिरौद्रम् । अतिरामं राम- मधिक्षिप्य । काकुत्स्थमधन्यमिति । '५५६। अतिरतिक्रमणे च ॥४।१५। इति कर्मप्रवचनीयत्वम् । चकारात्पूजायां च तत्र चाप्युक्तमिति प्रयोगः । हे मदोद्धृत ! ॥ ६३३ - परिशेषं न नामा ऽपि स्थापयिष्यति ते विभुः ॥ 5 अपि स्थाणुं जयेद् रामो, भवतो ग्रहणं कियत्. ९१ परीत्यादि — रामो विभुः प्रभुः ते परिशेषं नामापि संज्ञामपि न स्थापयि ध्यति, किमु देहम् । '५५७ अपिः पदार्थ ।१।४।१६।' इत्यादिना पदार्थों कर्मप्र- वचनीयसंज्ञा । पदस्य देहस्याप्रयुज्यमानस्यार्थे अपिशब्दो वर्तते । अपि स्थाणुं जयेद्रामो यमाराध्याधिपत्यं प्राप्तवानसि तमपि स्थाणुं महादेवं जेतुं संभाव्यते भवतो ग्रहणं कियत् । यस्त्वेव न भवति । अत्र संभावनायां कर्मप्रवचनीयत्वम् । संभावने लिङ् । उपसर्गबाधनत्वात्संज्ञायाः '२२७० । उपसर्गात्सुनोति - ।८।३।६५॥ इत्यादिना पत्वं न भवति ॥ ६३४ - अपि स्तुहा॑पिसेधा ऽस्मा॑स् तथ्य॑मुक्तं नराऽशन !, ॥ अपि सिवेः कृशानौ त्वं दर्प, मयपि यो ऽभिकः ९२ अपीत्यादि — हे नराशन ! मया तथ्यमुक्तं यन्नामापि न स्थापयिष्यतीति । अस्मानपि स्तुहि साधूक्तमिति प्रशंस । '२२०११ सेपिच्च । ३ । ४ ।८७१' इति अपिति ङित्त्वाद्गुणाभावः । अपिसेध निगृहाण यथेच्छं तथा क्रियताम् । मया तु सत्यमेवोक्तमिति भावः । अन्नान्ववसर्गे कामचारानुज्ञाने कर्मप्रवचनीयसंज्ञा । किंच कृशानावौ दर्प अपि सिञ्चः क्षरेस्त्वम् । अत्र गर्हायां लिङि रूपम् । यो- ऽयं मय्यपि मद्विषयेऽपि अभिकः कामयिता । १८७४ । अनुकाभिका- 1५/२/- ७४ ।' इत्यादिना निपातितः । उपसर्गसंज्ञाबाधनार्थत्वात् स्तौति-सेधि-सिचां पव्वं न भवति ॥ ६३५ - अधिरामे पराक्रान्तमधिकर्ता स ते क्षयम् ॥' इत्युक्त्वा मैथिली तूष्णीमसांचक्रे दशाननम् ॥ ९३॥ अधीत्यादि – पराक्रान्तस्य शौर्यस्य राम ईशितेत्यस्मिन्नर्थे अधिरामे परा- क्रान्तम् । ३०९० । नपुंसके भावे क्तः ।३।३।११४॥ ६४४ । अधिरीश्वरे ३।१।४।९७।' इति स्वस्वामिसंबन्धे अधेः कर्मप्रवचनीयसंज्ञा । '६४५ । यस्माद- १ – '३९ । व्योमकेशो भवो भीम: स्थाणू रुद्र उमा-पतिः ।' इति ना० अ० । स्थाणुः कीले हरे पुमान्' इति कोशान्तरं च । २–'५९। अग्निर्-' इत्यादित आरभ्य '६१ । आश्रयाशो बृहदू-भानुः कृशानुः पावकोऽनलः । इति ना० अ० ॥ भ० का० १९ २१८ भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृवीयो वर्गः, 'धिकम्–।२।३।९।' इत्यादिना उतनी । यश्चैवं स रामस्ते क्षयमाकर्ता करिष्यति । अत्र कर्मण्येव द्वितीया । न '५४८। कर्मप्रवचनीययुक्ते - १२१३१८।' इति १७७४ । विभाषा कृञि १११४।१२॥ इति या संज्ञा तस्या गत्युपसर्गसंज्ञाबात्रनार्थत्वात् । संज्ञापक्षे '३९७८ । तिङि चोदात्तवति -1८1१/७१।' इति निघाताभावो द्रष्टव्य इति । एवमुक्त्वा दशाननं मैथिली तूष्णीमासांचक्रे तूष्णीं स्थि तवती । इति कर्मप्रवचनीयाधिकारः ॥ इतः प्रभृति 'अनभिहिते' इत्यधिकृत्य विभक्तिविधानमाह - ६३६ - ततः खङ्गं समुद्यम्य रावणः क्रूर-विग्रहः ॥ P वैदेहीम॑न्तरा क्रुद्धः क्षणर्मूचे विनिश्वसन् ॥ ९४ ॥ — तत इत्यादि — ततः सीतावचनादुत्तरकालं रावणः खड्नं समुद्यम्य उत्क्षिप्य । कर्मणि द्वितीया । ॠरविग्रहः टुप्प्रेक्ष्यत्वात् । वैदेहीमन्तरा क्रुद्धः वैदेह्या वधे कुपितः । '५४५ । अन्तराऽन्तरेण युक्ते ।२।३।४।' इति पथ्यपवादाद्वितीया । अन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे, आधेयश्चात्र वधः, क्षणमूचे उक्तवान् । उक्तिक्रियया क्षणस्य कालस्य साकल्येन संवन्धात् ५५८। कालाध्वनोः ।२।३।५॥ इति द्वितीया । विनिश्वसन् क्रोधात् ॥ ६३७ - 'चिरेणा ऽनुगुणं प्रोक्ता प्रतिपत्ति पराङ्मुखी ॥ न मासे प्रतिपत्तासे मां चेन्, मर्तासि मैथिलि ! ९५' चिरेणेत्यादि - हे मैथिलि ! चिरेणापि कालेनानुगुणमनुकूलं मया प्रोक्तापि सती प्रतिपत्तिपराङ्मुखी । उक्तस्यार्थस्यानुष्ठानं प्रतिपत्तिः तस्यां परासुखी इदानीं यदि त्वं मासे त्रिंशहिवसलक्षणे मां न प्रतिपत्तासे नाङ्गीकरिप्यसि तदा मर्तासि मरिष्यसि । उभयमपि लुटि रूपम् । तत्र चिरेण प्रोक्ता इति । '५६३। अपवर्गे तृतीया ।२।३।६॥ विवक्षितार्थप्रकाशनं फलं तस्य प्राप्तौ तक्रियापरिसमाप्तिरपवर्ग इति । मां मासे न प्रतिपत्तास इति '६४३। सप्तमीपञ्चम्यौ कारकमध्ये ।२।३।७।' इति सप्तमी । कर्मक: कारकयोर्मध्यत्वात् मासस्य ॥ ६३८ - प्रायुत राक्षसीर् भीमा मन्दिराय प्रतिव्रजन् ॥ 'भयानि दत्त सीतायै सर्वा यूयं कृते मम ॥ ९६ ॥ प्रायुङ्केत्यादि — रावणो राक्षसीमा भयानकाः प्रायुक समादिष्टवान् । लङि रूपम् । मन्दिराय प्रतिव्रजन् गृहाय प्रतिव्रजन् । १५८५० गत्यर्थकर्मणि- ।२।३।१२।' इत्यादिना तु चतुर्थी । कर्मप्रवचनीयादिसूत्रचतुष्टयेनोदाहृतं कर्मप्र- वचनीयाधिकार एव दर्शितत्वात् । किमादिशदित्याह—सर्वा यूयं सीतायै भयानि दत्त । लोटि रूपम् । चतुर्थी संप्रदाने । संपूज्यादृत्य प्रकर्षेण दीयत इति संप्रदानम् । मम कृते मदनुग्रहनिमित्तम् ॥ तथा लक्ष्य रूपे कथानके 'ऽशोक वनिका भङ्गो' नामाष्टमः सर्गः- २१९ ६३९ गते तस्मिन् समाजग्मुर् भयाय प्रति मैथिलीम् ॥ राक्षस्यो, रावण - प्रीत्यै क्रूरं चौचुरलं मुहुः ॥ ९७ ॥ . गत इत्यादि — तस्मिन् रावणे गते सति राक्षस्यः समाजग्मुः संभूय गताः । '२६९९। समो गम्वृच्छि–।१।३।२९॥ इत्यादिना आत्मनेपदं न भवति । आङा व्यवहितत्वात् । मैथिलों प्रति लक्ष्यीकृत्य भयाय सीतायै भयं दातुम् । '५८१३ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।२।३।१४।' इति चतुर्थी । दातेः क्रियार्थी- पपदस्य स्थानिनः प्रयुज्यमानस्य भयं कर्म । क्रिया चात्र समागमः । तत्रोपपदं क्रियार्थमिति क्रूरं च भयानकम् । मुहुः प्रतिक्षणं अलं पर्याप्तमूचुः उक्तवत्यः । रावणमीयै रावणस्यैवं प्रीतिः स्वादिति । '५८२ । तुमर्थाच्च भाववचनात् ।२।३।- १५॥' इति चतुर्थी । क्रियायां क्रियार्थायामिति तुमुना समानार्थत्वात् । भावव- चनाश्वेत्यनेन विहितस्य क्तिनः क्रियार्थ उपपदं क्रूराभिधानम् ॥ ६४० - 'रावणाय नमस्कुर्याः, स्यात् सीते ! स्वस्ति ते ध्रुवम् ॥ अन्यथा प्रातराशाय कुर्याम त्वाम॑लं वयम् ॥ ९८ ॥ रावणायेत्यादि — हे सीते ! रावणाय नमस्कुर्या: रावणं नमस्कुरु । एवं च सति ते तुभ्यं स्वस्ति कल्याणं ध्रुवं स्यात् । युष्मच्छब्दस्य चतुर्थ्येकवचनान्तस्य तेआदेशः । नमस्कृत्वेति पाठान्तरम् । तन्त्र नमस्कृत्वा स्थितायै तुभ्यमित्यध्या. हृत्य योज्यम् । अन्यथा यसमानकर्तृकत्वात् क्त्वाप्रत्ययो न घटते । नमस्कृत्येति पाठान्तरम् । साक्षात्प्रभृतिषु नमःशब्दस्य विकल्पेन गतिसंज्ञा । गत्यभावपक्षे नित्यं गतिसमासाभावे ल्यबादेशः । १५४ । नमस्पुरसोर्गत्योः ।८।३।४० । इति विसर्जनीयस्य सकारादेशश्च न संभवतीति । अन्यथेति यदि न नमस्कुर्या: तदा अलं प्रातराशाय प्रातभजनाय त्वां कुर्याम वयमित्यूचुः । '२२०० । नित्यं ङितः ।३॥४।१९९१ । इति सलोपः । रावणायेत्यादिषु १५८३ । नमः स्वस्ति । २।३।१६।' इत्यादिना चतुर्थी ॥ ६४१ - तृणाय मत्वा ताः सर्वा वदन्तीस् त्रिजटा ऽवदत् ॥ 'आत्मानं हत दुर्वृत्ताः ! स्व-मांसैः कुरुता ऽशनम् . ९९ १ – अत्र 'उपपदविभक्तेः कारकविभक्तिर् बलीयसी' इति वार्तिकबलात् कर्मणि द्वितीयैव प्राप्ता, परं च तस्याप्यपवादभूतेन '५८१ । क्रियार्थोपपदस्य च कर्मणि स्थानिनः ।२।३।१४।१ इति सूत्रेण चतुर्थ्येव भवति । तेन 'नमस्कुर्मो नृसिंहाय, स्वयंभुवे नमस्कृत्य' इत्यादिवत् 'रावणाय -' इत्यस्य रावणं प्रसादयितुमित्यर्थो युक्त इति ज्ञेयम् । एवं सति 'नमःस्वस्तिइत्यादिना चतुर्थी' इति टीकाकृदुक्तं प्रमादगर्भितम् । केवलं 'नमः- स्वस्ति' इत्याकारकशब्दयोग एव तस्या विधानादिति भाति । किंतु 'प्रातराशाय त्वां अलं कुर्याम' इत्यत्र तु अलंशब्दयोगात् 'नमः स्वस्ति-' इत्यनेनैवेति । अत्र युक्तायुक्तविवेचनं तु विद्वदधीनमित्यलम् । २२० भट्टि- काव्ये - द्वितीयेऽविकार-काण्डे लक्षण-रूपे तृतीयो वर्गः, तृणायेत्यादि–अथानन्तरं राक्षसीर्वदन्तीः त्रिजटा रावणस्वसा अवदत् उक्तवती । तृणाय मत्वा तृणमिव संगणय्य । '५८४ । मन्यकर्मण्यनादरे - २।३।१७' इति चतुर्थी । तत्र 'कुत्सितग्रहणं कर्तव्यम्' इत्युक्तम् । इह मा भूत् तृणं मत्वे- ति । किमवदत्, आत्मानं हत मारयत । दुर्वृत्ताः दुराचाराः । स्वमांसः कुरुता- शनमिति करणे तृतीया ॥ किमर्थमेवमाहेत्याह ६४२ - अद्य सीता मया दृष्टा सूर्य चन्द्रमसा सह ॥ स्वप्ने स्पृशन्ती मध्येन तनुः श्यामा सुलोचना. १००' अद्येत्यादि – स्वप्ने मया अद्य सीता दृष्टा । कर्तरि तृतीया । सूर्य स्पृशन्ती चन्द्रमसा सह । सहयोगे तृतीया । सूर्याचन्द्रमसाविति रामलक्ष्मणाविति भावः । मध्येन तनुः तन्वी । ५६६ । इत्थंभूतलक्षणे ।२।३।२१॥ तृतीया '५०२ । वोतो गुणवचनात् ।४।१।४४ ।' इति ङीवभावपक्षे रूपम् । श्यामा वर्णेन । सुलोचना शोभननेत्रा ॥ ६४३-तास् तथा तर्जिताः सर्वा मुखैर् भीमा यथाऽऽगतम् ॥ ययुः सुषुप्सवस् तल्पं भीमैर् वचन-कर्मभिः ॥१०१ ॥ ता इत्यादि- --ता राक्षस्यस्तया त्रिजटया तर्जिता भसिताः । सुपुप्सवः स्वप्तु- मिच्छवस्तरूपं शयनीयं ययुर्गताः । यथागतं यतो यतस्तल्पादुत्थाय गताः । '६६१॥ यथाऽसादृश्ये ।२।१।७।' इति वीप्सायामव्ययीभावः । मुखैभमा रौद्भाः मुखानां विकृतत्वात् । १५६५ । येनाङ्गविकारः ।२।३।२०॥ इति तृतीया । भीमै र्वचनकर्मभिः उपलक्षिताः । इत्थंभूते तृतीया ॥ ६४४ - गतासु तासु मैथिल्या संजानानो ऽनिऽऽत्मजः ॥ आयातेन दऽऽस्यस्य संस्थितो ऽन्तर्हितश् चिरम् ॥ गतास्वित्यादि — तासु राक्षसीपु गतासु । अनिलात्मजो हनूमान् 'रामसं- कथां प्रास्तावीत्' इति वक्ष्यमाणेन संबन्धः । मैथिल्या संजानानः इयं सेत्यव- गच्छन् । '५६७। संज्ञो ऽन्यतरस्याम्- ।२।३।२२।' इति कर्मणि तृतीया । '२७१९ । सं-प्रतिभ्याम् - 1१।३।४६ । इनि तङ् । शास्यस्यायातेनागमनेन हेतुना चिरम- न्तर्हितो निलीनः स्थितः । ५६८ । तो ।२।३।२३॥ इति तृतीया ॥ ६४५ ऋणाद् वद्ध इवो॑न्मुक्तो वियोगेन ऋतु-द्विषः ॥ हेतोर् बोधस्य मैथिल्याः प्रास्तावीद् राम-संकथाम् ॥ ऋणादित्यादि — ऋणाद्धेतोर्बद्ध इवोन्मुक्तो यथा स्थानान्तरं गतवान् । '६०१॥ अकर्तर्घृण –।२।३।२४।' इति पञ्चमी । ऋणस्याकर्तृहेतुत्वात् । ऋणेन बन्धित इवेति नोकम् । अप्रयोजककर्तृत्वाद्दणस्य । उन्मुक्तः ऋतुद्विषो रावणस्य वियोगेन विश्लेषेण । '६०२ । विभाषा गुणे स्त्रियाम् ।२।३।२५।' इति पक्षे तृतीतथा लक्ष्य-रूपे कथानके 'ऽशोक-वनिका भङ्गो' नामाष्टमः सर्गः २२१ योदाहृता न पञ्चमी । वियोगस्य गुणपदार्थत्वात् । किमिति संकथां प्रास्तावीदि- त्याह – हेतोर्बोधस्य मैथिल्याः । एष रामदूत इति मैथिल्या बोधो ऽवगमः स्या- त्। '६०७१ षष्टी हेतुप्रयोगे ।२।३।२६।' इति वोधशब्दस्य षष्टी । प्रास्ता- वीदिति '२३८५॥ स्तु-सु-धूभ्यः परस्मैपदेषु ।७।२।७२।' इतीट् । ८२२६८। नेटि १७।२।४।' इति हलन्तलक्षणाया वृद्धेः प्रतिषेधः नेगन्तलक्षणायाः ॥ ६४६ - तं दृष्ट्वा ऽचिन्तयत् सीता - 'हेतोः कस्यैष रावणः ॥ अवरुह्य तरोरारादेति वानर-विग्रहः ॥ १०४ ॥ तमित्यादि – वं हनूमन्तं रामं स्तुवन्तं दृष्ट्वा सीता अचिन्तयत् । कस्य हेतोः रावणो वानरविग्रहः सन् ऐति आयाति । आपूर्वस्येणो रूपम् । '६०८ । सर्वना- म्नस्तृतीया च ।२।३।२७।' इति पष्टी । किंशब्दस्य सर्वनामत्वात् । आरात् अन्तिके । तरोरिति '५९५। अन्यारात्- ।२।३।२९। इत्याराच्छन्दयोगे पञ्चमी । अवरुह्यावतीर्येति । अवरोहणापेक्षया ह्यपादाने पञ्चमी । अपेक्षाया यौगपद्याभा- वात् । 'उपपदविभक्तेः कारकविभक्तिर्बलीयसी' आराद्योगे न वर्तते ॥ ६४७ - पूर्वस्मादन्य-वद् भाति भावाद् दाशरथिं स्तुवन्, ॥ ? ऋते क्रौर्यात् समायातो मां विश्वासयितुं नु किम् ? ॥ पूर्वस्मादित्यादि - पूर्वमाद्भावणादन्यवद्भाति ज्ञायते । अन्येन तुल्यं वर्तते इति कृत्वा अन्यशब्दयोगे पञ्चमी । यतो भावात् स्नेहाद्दाशरथिं स्तुवन् । किं नु क्रौर्याहते क्रौर्य वर्जयित्वा । ऋतेशब्दयोगे पञ्चमी । मां विश्वासयितुं संभावयितुं किमागत इत्यचिन्तयत् ॥ ६४८ - इतरो रावणादेष राघवाऽनुचरो यदि, ॥ स- फलानि निमित्तानि प्राक् प्रभातात् ततो मम. १०६ इतर इत्यादि — यदि रावणादितरः प्रतियोगी राघवानुचरः राघवार्थकारी इतरयोगे पञ्चमी । ततो मम सफलानि स्वमलक्षणानि दर्शनादीनि निमित्तानि । प्राक् प्रभावात् आदित्योदयात्पूर्वस्मिन् काले । अन्यस्य हि प्रभातादुत्तरकालं सफलानि । अञ्चूत्तरपदयोगे पञ्चमी ॥ ६४९ - उत्तराहि वसन् रामः समुद्राद् रक्षसां पुरम् ॥ अवैल लवण-तोयस्य स्थितां दक्षिणतः कथम् १०७ उत्तराहीत्यादि — रामदूतो ऽयमिति न संभाव्यते । यतः समुद्रादुत्तरा या दिक् तस्यामुत्तराहि वसन् रामः । आहि च दूरे उत्तराञ्चेति । तत्राहिप्रत्ययान्तेन उत्तराहिशब्देन योगे समुद्रादिति पञ्चमी । लवणतोयस्य लवणसमुद्रस्य दक्षिणतो दक्षिणस्यां दिशि स्थितां रक्षसां पुरीं लङ्कां कथमवैत् ज्ञातवान् । दक्षिणत इति '१९७८। दक्षिणोत्तराभ्यामतसुच् ।५।३।२८॥ तदन्तेन योगे '६०९ । षष्ठ्यतसर्थप्रत्ययेन ।२।३।३०।' इति षष्टी । काव्ये -द्वितीयेऽधिकार काण्डे लक्षण रूपे तुतीयो वर्गः ६५७-५-० दक्षिणेना ऽहं सरितो ऽद्रीन वनानि च ॥ अतिक्रम्या ऽम्बुधिं चैव पुंसाम॑गममा॑ह॒ता ॥१०८ ॥ दण्डकानित्यादि-दण्डकानामदूरे या दक्षिणा दिक् तस्यामिति । १९ - ८४ । एनबन्यतरस्याम् । ५।३।३५।' इति सप्तम्यन्तादेनप् प्रत्ययः । तदन्तेन योगे '६१०। एनपा द्वितीया ।२।३।३१॥ इति द्वितीया । दक्षिणेन दण्डकानां दक्षि- णस्यां दिशि । सरितो ऽगीनू वनानि च अम्बुधिं चातिक्रम्य पुंसामगममगम्यम् । '३२३४ । ग्रह-वृ-ह-निश्चि गमश्च ।३।३।५८।' इत्यप् । अहमाहृता आनीता । तत्कथमवैदित्यचिन्तयत् ॥ ६५१ पृथङ् नभस्वतश् चण्डाद् वैनतेयेन वा विना ॥ २२२ गन्तुर्मुत्सहते नैह कश्चित् किमुत वानरः ॥१०९ ॥ पृथगित्यादि–नभस्वतो वातात् चण्डात् पृथक् वायुं त्यक्त्वा । वैनतेयेन वा विना गरुडं वा वर्जयित्वा । '६०३। पृथग्विना ।२।३।३२।' इत्यादिना तृती- पञ्चम्य । इह लङ्कायां कश्चित् गन्तुं नोत्सहते किमुत वानरः ॥ ६५२ - इति चिन्ता-वर्ती कृच्छ्रात् समासाद्य कपि-द्विपः ॥ मुक्तां स्तोकेन रक्षोभिः प्रोचे - 'ऽहं राम-किङ्करः ११० इतीत्यादि – एवमुक्तेन प्रकारेण चिन्तावतीं कपिद्विपो हनूमान् । कृच्छ्रा समासाद्य कथम प्युपगम्य । अहं रामकिङ्करः रामप्रेषणकर इति प्रोचे । मुक्तां स्तोकेनाल्पेन रक्षोभिः कर्तृभिः । '६०४ । करणे च स्तोकाल्प-।२।३।३३ ।' इत्या- दिना तृतीयापञ्चम्यौ । कृच्छ्र-स्तोकयोरसत्वत्रचनयोः करणत्वात् ॥ यदि त्वं रामकिङ्करः कासावित्याह- ६५३-विप्रकृष्टं महेन्द्रस्य न दूरं विन्ध्य पर्वतात् ॥ ना ऽनभ्याशे समुद्रस्य तव माल्यवति प्रियः ॥१११॥ विप्रेत्यादि – माल्यवति पर्वते तव प्रियो रामः महेन्द्रस्य पर्वतस्य विप्रकृष्टं दूरं । बिन्ध्यपर्वताञ्च न दूरम् । '६११॥ दूरान्तिकार्यैः षष्ठ्यन्यतरस्याम् ।२।३- ३४ । ' इति षष्ठी-पञ्चम्यौ । महेन्द्रपर्वत - विन्ध्ययोर्दूरविप्रकृष्टयोस्तु '६०५ । दूरा- न्तिकार्येभ्यो द्वितीया च ।२।३।३५॥ इति द्वितीया । नानभ्याशे न दूरे समु द्रस्य । '६११। दूरान्तिकार्यैः । २।३।३४॥ इति षष्ठी । माल्यवति '६३३ । सप्त- म्यधिकरणे - ।२।३।३६ ।' इति सप्तमी । चकाराद्दूरान्तिकार्थेभ्यश्च । तेनानभ्याश इति सप्तमी ॥ ६५४ - अ-संप्राप्ते दश-प्रीवे प्रविष्टो ऽहमिदं वनम् ॥ तस्मिन् प्रतिगते द्रष्टुं त्वामुपास्य॑चेतितः ॥ ११२ ॥ असमित्यादि — दशमीचे दशवदने असंप्राप्ते अप्रविष्टे अहमचेतितः सम् इदं वनमशोकवनिकाख्यं प्रविष्ट इति । तस्मिन् प्रतिगत्ते व द्रष्टुमुपाकंतथा लक्ष्य-रूपे कथानके 'ऽशोक-यनिका-भङ्गो नामाटमः सर्गः– २२३ सि समुत्सहे स्म । '६३४ । यस्य च भावेन - । २।३।३७॥ इति सप्तमी । कपेः प्रवेशोपक्रमयोः रावणसंप्राप्तिप्रतिगमनक्रियाभ्यां लक्ष्यमाणत्वात् । उपाक्रंसीति । ८२७१२। उपपराभ्याम् । १।३।३९।' इत्यनेन वृत्त्यादिषु सर्ग उत्साहे क्रमेस्तङ् । उत्तमपुरुषैकवचनम् । '२३२३। सु-क्रमोरनात्मनेपदनिमित्ते ।७।२।३६।' इति सिच इट् न भवति ॥ यद्यादाचेव प्रविष्टो ऽसि तर्हि किमिति स्त्रकर्म न दागेतवानसीलाह- ६५५ - तस्मिन् वदति रुष्टोऽपि ना ऽकार्ष देवि ! विक्रमम् ॥ अ - विनाशाय कार्यस्य विचिन्वानः परापरम् ॥११३॥ तस्मिन्नित्यादि — हे देवि ! तस्मिन् वदति रुष्टोऽपि विक्रमं नाकार्षं, तं तथा वदन्तमनादृत्य विक्रमं नाकार्षमित्यर्थः । १६३५ । पष्टी चानादरे ।२।३।३८॥ इति चकारात्सप्तमी । किमर्थ कार्यत्य संदेशकथाढेरविनाशाय । विचिन्वानः परापरं पौर्वापर्य निरूपयन् । कन्रसिप्राये तङ् ॥ कथं वानरस्त्वं तस्य किङ्कर इत्याह- ६५६ - वानरेषु कपिः स्वामी नरेष्व॑धिपतेः सखा ॥ जातो रामस्य सुग्रीवस् ततो दूतो ऽहमा॑गतः ॥११४॥ वानरेष्वित्यादि — वानरेषु स्वामी यः कपिः सुग्रीवः स नरेष्वधिपतेः रामस्य सखा जातः । '६३३ । स्वामीश्वर ।२।३।३९॥ इत्यादिना षष्ठी-सप्तस्योविधानात् सप्तम्युदाहृता । ततो ऽहं दूत आगतः ॥ आगत्य च लङ्कां प्रविश्य इहायात इत्याह युग्मम् - ११५-११६ ६५७ - ईश्वरस्य निशाटानां विलोक्य निखिलां पुरीम् ॥ कुशलो ऽन्वेषणस्याऽहमा॑युक्तो दूत-कर्मणि ॥ ११५ ॥ ईश्वरस्येत्यादि – निशाटानां राक्षसानामीश्वरस्य दशाननस्य । अत्र षड्यु- दाहृता । पुरीं निखिलां निःशेषां विलोक्य किं तत्र वर्तत इति । प्राप्त इति वक्ष्यमाणेन संबन्धः । कुशलो ऽन्वेषणस्याहं सीताया अन्वेषणस्य निपुणः । आयुक्तो दूतकर्मणि दूतक्रियायां व्यापृतः । '६३७ । आयुक्त-कुशलाभ्याम्- ।२।३।४०।' इति षष्ठी - सप्तम्यौ ॥ ६५८ - दर्शनीय तमाः पश्यन् स्त्रीषु दि॒व्यास्व॑पि स्त्रियः ॥ प्राप्तो व्याल-तमान् व्यस्यन् भुजङ्गेभ्यो ऽपि राक्षसान् ॥ ११६ ॥ भट्टि-काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः, दर्शनीयेत्यादि — तत्र दिव्यास्वपि स्त्रीपु मध्ये दर्शनीयतभाः स्त्रियः पश्य- न् । '६३८। यतश्च निर्धारणम् ।२।३।४१॥ इति सप्तमी । दर्शनीयतमत्वेन गुणेन पृथक्करणात् भुजङ्गेभ्यो ऽपि व्यालतमान् हिंखान् राक्षसान् व्यस्यन् अपक्षि- पन् । '६३९। पञ्चमी विभक्ते ।२।३।४२।' इति पञ्चमी । भुजङ्गेभ्यो राक्षसानां विभागात् प्राप्तो देव्याः पादमूलमित्यर्थात् ॥ २२४ किमवस्थो राम इत्याह- ६५९ - भवत्यामु॒त्सुको रामः प्रसितः संगमेन ते ॥ मघासु कृत-निर्वापः पितृभ्यो मां व्यसर्जयत् ॥११७॥ भवत्यामित्यादि — भवत्यां त्वयि उत्सुकः उन्मनाः रामः । तव संगमेन प्रसितः प्रसक्तः । '६४१ । प्रसितोत्सुकाभ्यां तृतीया च ।२।३॥१४।४।' इति चकारात्सप्तमी । मवाभिर्युक्तः कालः तत्समीपे चन्द्रमसो वर्तमानत्वात् । १२०४॥ नक्षत्रेण युक्तः कालः ।४।२।३।' इत्यण् । तस्य '१२०५ । लुबविशेषे १४॥२॥४॥' इति लुप् । तन्मिन् काले पितृभ्यः कृतनिर्वाप : दत्तदान: मां व्यसर्जयत् । '६४२१ नक्षत्रे च लुषि । २(३४५१' इति सप्तमी । तत्रापि १२९४ । लुपि युक्तवयक्तिवचने ।१।२।५१॥ इति स्त्रीलिङ्ग-बहुवचने भवतः । व्यसर्जयदिति विशव्दात् '५३२। प्रातिपदिक- ।२।३।४६।' इत्यादिना प्रातिपदिकमात्रे प्रथमा ॥ संदेहनिवृत्त्यर्थं चाभिज्ञानं दर्शयन्नाह ६६० - अयं मैथिल्य॑भिज्ञानं काकुत्स्थस्या ऽङ्गुलीयकः ॥ भवत्याः स्मरता ऽत्यर्थमर्पितः सादरं मम ॥ ११८ ॥ अयमित्यादि – काकुत्स्थस्यायमङ्गुलीयकोऽभिज्ञानं चिह्नमयमभिज्ञानमिति लिङ्गाधिके प्रातिपदिकमात्रे प्रथमा । मैथिलीति संवोधनादिके '५३३॥ संबोधने च ।२।३।४७ ।' इति । सामन्त्रितं संबुद्धिश्चात्रैव द्रष्टव्यम् । काकुत्स्थस्येति '६०६ । षष्टी शेषे ॥२।३।५०।' इति षष्ठी । भवत्या अत्यर्थं स्मरता सादरमर्पितम् । '६१३॥ अधीगर्थ-।२।३।५२।' इत्यादिना स्मरणार्थे कर्मणः शेषत्वविवक्षायां पष्ठी ॥ ६६१ - रामस्य दयमानो ऽसाव॑ध्येति तव लक्ष्मणः ॥ " उपास्कृषात राजेन्द्रावा॑गमस्यैह, मा त्रसीः ॥११९॥ रामस्येत्यादि — असौ लक्ष्मणो रामस्य दयमानो रामं रक्षन् शुचं मा कार्षीरिति । दयतेः कर्मणि षष्ठी । तवाध्येति त्वां स्मरति । '६१३ । अधीगर्थ- ।२।३।५२॥ इति षष्टी । आश्वासनार्थमाह - ह-मा त्रसी: उद्वेगं मा कार्षी: । त्रसे- रीदित्वान्निष्ठायामिप्रतिषेधात् सिच इद भवति । यतो राजेन्द्रौ रामलक्ष्मणौ । इहागमस्यागमनस्य । भावे अप् । उपास्कृषातां प्रतियत्नं कृतवन्तौ । आगमनस्य निश्चितत्वात् तस्यैव सुग्रीवसख्येन गुणाधानात् तेन '६१४ । कृञः प्रतियत्ने ।२।३- ५३।' इति कर्मणि षष्टी । प्रतियत्ले लुङ् तङ् सुद ॥ तथा लक्ष्य-रूपे कथानके 'ऽशोक वनिका भङ्गो नामाष्टमः सर्गः- २२५ ६६२ - रावणस्यैह रोक्ष्यन्ति कपयो भीम - विक्रमाः, ॥ धृत्या नाथस्व वैदेहि !, मन्योरु॑ज्जासयाऽऽत्मनः १२० रावणस्येत्यादि – इह लङ्कायां कपयो भीमविक्रमाः असह्यपराक्रमाः राव- णस्य रोक्ष्यन्ति सरोगं रावणं करिष्यन्ति । भीमविक्रमा इति गुणप्रधानो निर्दे- शः । ततश्च विक्रमे रुजः भावकर्तृकत्वात् '६१५॥ रुजार्थानां भाववचनानामज्वरेः ।२।३।५॥ इति षष्ठी । अतो हे वैदेहि ! धृत्या नाथस्व आशंसन्त्र । धृतिं लभस्वेत्यर्थः । '६१६। आशिपि नाथः ।२।३।५५॥ इति कर्मणि पष्ठी । आशिपि नाथ इत्युपसंख्यानात्तङ् । मन्योरुज्जासयात्मनो मन्युं नाशय । ११८५१॥ जसु हिंसायां ताडने ।' चौरादिकस्य हिंसार्थत्वात्तेन '६१७१९ जासि-निग्रहण - ।२।३।५६।' इति कर्मणि षष्ठी ॥ ६६३ - राक्षसानां मयि गते रामः प्रणिहनिष्यति ॥ प्राणानाम॑पणिष्टाऽयं रावणस् त्वामिहा॑नयन् ॥ १२१॥ राक्षसानामित्यादि – मयि गते रामो राक्षसानां प्रणिहनिष्यति राक्षसान् मारयिष्यति । पूर्ववत् कर्मणि षष्ठी । निग्रहण इति संघातविगृहीत विपर्यस्तग्रह- णमित्युक्तम् । '२२८५। नेर्गद- ।८।४।१७।' इत्यादिना णत्वम् । किंच प्राणाना- मपणिष्टायमिति अयं रावणस्त्वामिहानयन् प्राणानपणिष्ट विक्रीतवान् । '६१८। व्यवहृ-पणोः समर्थयोः ।२।३।५७॥ इति षष्ठी । 'प्राणानामपणायिष्ट' इति पाठान्तरम् । तदयुक्तं, स्तुत्यर्थस्य पणेस्तत्र ग्रहणात् '२३०३ । गुपू-धूप-।३।१।२८। इत्यादिना आयप्रत्ययो न भवति ॥ " ६६४ - अदेवीद् वन्धु-भोगानां, प्रादेवीददा॑त्म-संपदम् ॥ शत कृत्वस् तवैकस्याः स्मरत्य॑हो रघूत्तमः ॥१२२॥ अदेवीदित्यादि – न केवलं प्राणानपणिष्ट बन्धुभोगानामदेवीत् बन्धुभो- गान् विक्रीतवान् । '६१९ । दिवस्तदर्थस्य ।२।३।५८॥ इति षष्टी । दिवो व्यव- हारार्थत्वात् । प्रादेवीदात्मसंपदं विक्रीतवान् । '६२० । विभाषोपस ।२।३।५९॥ इति पक्षे द्वितीया । प्रशव्देन युक्तत्वात् । रामानुरागं पुनदर्शयन्नाह । शतकृत्व इति बहुत्वोपलक्षणार्थम् । '२०८५ । क्रियाभ्यावृत्तिगणने कृत्वसुच् ।५।४।१७' तवैकस्याह्नो रघूत्तमः स्मरति । '६१३ । अघीगर्थ- । २।३।५२ । इति षष्ठी । अह्न इति एकस्मिन्नप्यह्नि । '६२२ । कृत्वोऽर्थप्रयोगे काले अधिकरणे । २।३।६४। इति षष्ठी ॥ एवं तामाश्वास्य संदेशं दापयितुमाह ६६५ तर्वोपशायिका यावद् राक्षस्यश् चेतयन्ति न ॥ प्रतिसंदिश्यतां तावद् भर्तुः शार्ङ्गस्य मैथिलि ! १२३ २२६ भट्टि· काव्ये – द्वितीयेऽधिकार काण्डे लक्षण रूपे तृतीयो वर्गः, तवेत्यादि - हे मैथिलि ! तवोदशायिका परिपाट्या शयनं यादी राक्षसी- भिः सहेत्यर्थात् । '३२८८१ पर्यायार्हणोत्पत्तिषु ण्वुच् ।३।३।११११' यावन्न चेतयन्ति न प्रतिबुध्यन्ते तावत् प्रतिसंदिश्यतां प्रतिसंदेशो दीयताम् । शार्ङ्गस्य भर्तुः शार्ङ्ग धनुर्धारयतो रामस्य । तव शार्ङ्गस्येति यथाक्रमं '६२३ । कर्तृ-कर्मणोः कृति ।२।३।६५।' इति पष्टी ॥ ६६६ - पुरः प्रवेशमा॑श्चर्यं बुवा शाखा- मृगेण सा ॥ चूडा - मणिम॑भिज्ञानं ददौ रामस्य संमतम् ॥ १२४ ॥ पुर इत्यादि - शाखामृगेण मर्कटेन पुरो लायाः दुष्प्रवेशायाः प्रवेशः तमाश्चर्यमद्भुतं बुवा सा सीता चूडामणिमभिज्ञानं ददौ सर्वमुक्तमस्य संभाव्यत इति । '६२४। उभयप्राप्तौ कर्मणि॥२।३।६६ ॥ इति षष्ठी । प्रवेश इत्युभयप्राप्तौ कृति लङ्का-हनुमतोः कर्मकर्तृत्वात् । रामस्व संमतं प्रियम् । '३०८९ । मतिबुद्धि -।३।२।१८८।' इत्यादिना वर्तमाने निष्ठा । '६२७ । न लोक । २।३।६९ । इति पष्टीप्रतिषेधे ग्राप्ते '६२५ । तस्य च वर्तमाने ।२।३।६७ ।' इति षष्ठी । ६६७ - रामस्य शयितं भुक्तं जल्पितं हसितं स्थितम् ॥ प्रक्रान्तं च मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत् ॥१२५॥ रामस्येत्यादि- ६ - रामस्य अभिज्ञानं दत्त्वा शयितादिकं मुहुः पृष्ट्वा हनूमन्तं व्यसर्जयत् प्रेषितवती । तस्य शयितुं शयनस्थानं किं भूमौ शेते अन्यत्रेति वा । भुक्तं भोजनस्थानं किं गृहे भुङ्क्ते मुनिजनगृहे वेति । जल्पितं मन्त्रस्थानं किं रहसि मन्त्रयते प्रकाशे वेति । हसितं हसनस्थानं किं शृङ्गारवस्तूनि हसति वीर- वस्तूनि वेति । स्थितं निवासस्थानं किं गुहायां तिष्ठत्युत तरुतले वेति । प्रान्तं प्रचक्रमणस्थानम् । '२६६६ । अनुनासिकस्य ।६।४।१५।' इत्यादिना दीर्घः । किं अङ्गने क्रम्यते अन्यत्र वेति । एषां ध्रौव्यगतिप्रत्यवसानार्थत्वात् । '३०८७१ को- अधिकरणे च ।३।४।७६॥ इति तः । तस्य प्रयोगे '६२६ । अधिकरणवाचिनश्च ।२।३।६८।' इति षष्ठी ॥ ६६८ - असौ दधर्दभिज्ञानं चिकीर्षुः कर्म दारुणम् ॥ गामुको ऽप्य॑न्तिकं भर्तुर् मनसा ऽचिन्तयत् क्षणम् ॥ १२६ ॥ असावित्यादि — असौ हनुमान् दधत् धारयन्नभिज्ञानं चिह्नम् । '६२३। कर्तृ-कर्मणोः कृति ।२।३।६५॥ इति षष्ठ्यां प्राप्तायां '६२७ । न लोक-।२।३।६९ । ' इति लप्रयोगे प्रतिषेधः । ल इति शाननादयो गृहीताः । दारुणमशोक-वनिकाअनादिकं कर्म चिकीर्षुः कर्तुमिच्छुः । उकारप्रश्लेषात् पछ्याः प्रतिषेधः । भर्तुः तथा लक्ष्य-रूपे कथानके 'ऽशोक - वनिका भङ्गो' नामाटमः सर्गः- २२७ स्वामिनः अन्तिकं समीपं गामुको ऽपि गमनशीलो ऽपि । उकप्रयोगे प्रतिषेधः । मनसा क्षणं चिन्तितवान् वक्ष्यमाणं कर्म ॥ ६६९ - कृत्वा कर्म यथाऽऽदिष्टं पूर्व कार्याऽविरोधि यः ॥ करोत्यभ्यधिकं कृत्यं, तमा॑हुर् दूतमुत्तमम् ॥१२७॥ कृत्वेत्यादि — यो दूतो यथोदिष्टं कर्म कार्यं कृत्वा । अत्र कृत्वेत्यव्ययप्रयोगे प्रतिषेधः । तत उत्तरकालं पूर्वकर्माविरोधि पूर्वकृतस्य कार्यस्य यदविरोधि तद्- धिकं करोति तमुत्तमं दूतमाहुर्विदुः । नीतिविद इति शेषः । मया च यथोद्दिष्टं सीतान्वेषणं कृतमिति भावः ॥ तदेव च दर्शयन्नाह ६७० वैदेहीं दृष्टवान् कर्म कृत्वा ऽन्यैरपि दुष्करम् ॥ * यशो यास्यायुपादाता वार्तामाख्यायकः प्रभोः १२८ वैदेहीमित्यादि – अहमद्य तावद्वैदेहीं दृष्टवान् । निष्टाप्रयोगे प्रतिषेधः । अन्यदपि कार्यमतिदुष्करं कृत्वा । खलप्रयोगे प्रतिषेधः । ततो यश उपादाता । आत्मसात्कर्ता । इदमतिदुष्करं तेन कृतमिति । तृन्नन्तस्य प्रयोगे प्रतिषेधः । वार्तामाख्यायकः प्रभोर्वार्तामाख्यातास्मीति भविष्यदधिकारात् '३१७५॥ तुमुन्- ण्वुलौ क्रियायाम्-१३।३।१०।' इति वुल । '६२८। अकेनोर्भविष्यदाधमर्ण्ययोः ।२।३।७०।' इति प्रतिषेधः ॥ ६७१ - राक्षसेन्द्रस्य संरक्ष्यं मया लव्यमिदं वनम् ॥' इति संचिन्त्य सदृशं नन्दनस्या ऽभनक् कपिः १२९ राक्षसेत्यादि — इदं वनमशोकवनिकाख्यं राक्षसेन्द्रस्य संरक्ष्यं रक्षार्हम् । '२८२२ । अर्हे कृत्य । ३।३।१६९। २८७२ । ऋ-हलोत् ।३।१।१२४ ।' तन्मया लव्यं लवनीयम् । '६२९। कृत्यानां कर्तरि वा ।२।३।७१।' इति षष्ठीतृतीये कर्तरि भवतः । इत्येवं संचिन्त्य कपिर्नन्दनस्य वनस्य सदृशं तुल्यं । '६३० । तुल्यार्थैः ।२।३।७२ ।' इति पक्षे षष्ठी । अभनक् भन्नवान् । भञ्जेर्लङि '२५४४ । नान्नलोपः ॥ ६॥ ४॥२३॥' इति नलोपे हड्यादिलोपे जश्त्वे चर्वे च रूपम् ॥ ६७२–राघवाभ्यां शिवं, दू॒तस् तयोर॑हमि॑िति ब्रुवन् ॥ - हितो भनज्मि रामस्य, कः किं ब्रूते ऽत्र राक्षसः, १३० राघवाभ्यामित्यादि — राघवाभ्यां रामलक्ष्मणाभ्यां शिवं भद्गमस्तु । तयो- हनूमान् दूतो हितो रामस्य भनज्मीदं वनम् । एवं च क्रियमाणे को भवतां मध्ये राक्षसः किं ब्रूते इत्येवं ब्रुवन् । बभञ्ज पवनात्मजो रिपुवनमिति वक्ष्यमा णेन संबन्धः । राघवाभ्यां शिवं हितो रामस्येति '६३१॥ चतुर्थी चाशिष्य - ।२।- ३।७३ ।' इत्यादिना षष्टी चतुर्थ्यो ॥ इति विभक्त्यधिकारः ॥ २२८ भट्टिकाव्ये -- द्वितीयेऽधिकार काण्डे लक्षण-रूपे तृतीयो वर्गः, ६७३ - विलुंलित-पुष्प-रेणु कपिशं प्रशान्त - कलिकापलाश-कुसुमं कुसुम-निपात-विचित्र-वसुधं स-शब्द-निपतद् द्रुमोत्क-शकुनम् ॥ शकुन- निनाद- नादि- ककुब् विलोल - विपलायमान हरिणं हरिण-विलोचनाऽधिवसतिं बभञ्ज पवाऽऽत्मजो रिपु वनम् ॥ १३१ ॥ विलुलितेत्यादि—कीदृशं बभञ्ज । विलुलितानां पुष्पाणां रेणुभिः कपिशं पिङ्गम् । प्रशान्ता अवसन्नाः कलिकाः पलाशानि पत्राणि कुसुमानि च यत्र । कुसुमानां निपातेन विचित्रा वसुधा यत्र । सशब्दैर्निपतद्भिडमैस्का उन्मनसः शकुना यत्र । शकुनानां पलायमानानां निनादेन नादिताः संजातनादाः ककुभो दिशो यत्र । विलोला व्याकुला विपलायमाना हरिणा यत्र । हरिणस्येव लोचने यस्याः सीतायाः तस्या अधिवसति निवासम् ॥ इत्यनभिहिताधिकारः ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्येद्वितीयेऽधिकार-काण्डे लक्षण-रूपे तृतीयः परिच्छेदः (वर्गः ), तथा लक्ष्य रूपे कथानके 'ऽशोकवनिकाभङ्गो' नामाष्टमः सर्गः पर्यवसितः । नवमः सर्गः । अथ प्रकीर्णकाः- अत्रान्तरे प्रकीर्णकश्लोकानाह- ६७४–द्रु-भङ्ग-ध्वनि-संविना: कुवद्-पक्षि-कुला ऽऽकुलाः ॥ ॥ अकार्षुः क्षणदा-चर्यो रावणस्य निवेदनम् ॥ १॥ द्रुभनेत्यादि–क्षणदाचर्यो निशाचर्यः । '२९३० । चरेष्टः ।३।२।१६।' राव- णस्य निवेदनमकार्षुः कृतवत्यः वक्ष्यमाणप्रकारेण । दु-भङ्ग - ध्वनि संविझा: शाखा- भङ्गशब्देन संत्रस्ताः । '१३७३ । ओविजी भय चलनयोः ।' '३०१९ । ओदितश्च ।८।२।३५।' इति निष्ठानत्वम् । कुवत्पक्षिकुलाकुलाः कुजद्भिः पक्षिकुलै: व्यस्तमा- नसाः । '१११५। कु शब्दे ।' आदादिकस्तस्य उवङादेशः ॥ १ - पद्येऽस्मिन् अश्वललितं वृत्तम् । तलक्षणं तु– 'यदि नजौ भजौ भ-ज-भगासू तदश्वललितं हरार्क-यतिमत् ।' इति वृत्तरत्नाकरे भट्टकेदार आइ । तथा लक्ष्य रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २२९ ६७५ - 'यदंताप्सीच् छनैर्भानुर्, यत्राऽवासीन् मितं मरुत् ॥ यदा॑प्यानं हिमा॑मो॒स्रेण, भनक्यु॑पवनं कपिः ॥ २॥' यदित्यादि – यद्वनं भानुः शनैर्मन्दमताप्सीत् तपति स्म । हलन्तलक्षणा वृद्धिः । मरुत् मितं स्तोकमवासीत् वाति स्म । हिमोत्रेण शिशिररश्मिना आप्यानं वृद्धिं नीतम् । प्यायतेः '८७३ । लोपो व्योवलि ।६।१।६६ ।' इति यलोपः । ओदित्त्वान्नत्वम् । तदुपवनं कपिर्भनक्ति चूर्णयतीति निवेदनमकार्षुः ॥ ६७६ - ततो ऽशीति- सहस्राणि किङ्कराणां समादिशत् ॥ इन्द्रजित- सूर् विनाशाय मारुतेः क्रोध-मूर्च्छितः ॥ ३॥ a तत इत्यादि – निवेदनानन्तरमिन्द्रजित्सूः रावणः । इन्द्रजितं सूत इति -२९७५। सत्सूद्विप–।३।२।६॥' इत्यादिनानुपसर्गे किप् । मारुतेर्हनूमतो विना- शाय । अशीतिसहस्राणि समादिशत् समादिष्टवान् । किङ्कराणां किं कुर्वन्तीति '२९३५ । दिवा विभा । ३।२।२१॥' इत्यादिना टच् । क्रोधमूर्च्छितः क्रोधोद्धृतः । मूर्च्छ: समुच्छ्राये वर्तमानत्वात् ॥ ६७७ - शक्त्यृष्टि-परिघ-प्रास-गदा- मुद्गर- पाणयः ॥ व्यनुवाना दिशः प्रापुर् वनं दृष्टि - विषपमाः ॥ ४॥ शक्तीत्यादि — ते किङ्करा वनं प्रापुः प्राप्तवन्तः । शक्त्यादयः प्रहरण- विशेषाः पाणौ येषामिति प्रहरणार्थेभ्यः परे निष्टासप्तम्यौ भवतः । व्यश्नवानाः दिशो व्याप्नुवन्तः । '१३४५ । अशु व्याप्तौ' सौवादिकः । दृष्टिविषोपमाः, भुजङ्ग- चत् दृष्ट्यैव विनाशयन्त इत्यर्थः ॥ ६७८ - दध्वान मेघ-वद् भीममा॑दाय परिघं कपिः ॥ नेदुर् दीप्तायुधास् तेऽपि तडित्वन्त इवाऽम्बुदाः ॥ ५॥ दध्वानेत्यादि – कपिर्भीमं परिघं भयानकमर्गलमादाय मेघवद्दध्वान ध्वनति स्म । तेऽपि किङ्कराः तडित्वन्त इवाम्बुदाः । नेदुः नदुन्ति स्म । किङ्कराणां कृष्णत्वात् मेघैः सादृश्यं आयुधानां च तडितेति ॥ ६७९ - कपिना ऽम्भोधि-धीरेण समगंसत राक्षसाः ॥ वर्षासू॑द्धत - तोर्या॑घाः समुद्रेणैव सिन्धवः ॥ ६ ॥ . कपिनेत्यादि – कपिना अम्भोधिधीरेणाक्षोभ्यत्वात् । राक्षसाः समगंसत संगताः । '२६९९। समो गम्मृच्छि – ।१।३।२९।' इत्यादिना तङ् लुङ् । यथा सिन्धवो नद्यः उद्धततोयौघाः उद्विक्तजलपूराः समुद्रेण सङ्गच्छन्ते ॥ ६८० - लाङ्गलमुद्धतं धुन्वन्नुहन् परिघं गुरुम् ॥ तस्थौ तोरणमारुह्य, पूर्व न प्रजहार सः ॥ ७ ॥ भ० का० २० २३० भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः, लालमित्यादि – सहनुमान् लाङ्गूलं पुच्छमुहृतं उत्क्षिप्तं धुन्वन् । '१३३५॥ 'वृञ् कम्पने' इति स्वादौ पठितः । परिघं गुरुं उद्वहन् तोरणमारुह्य तस्थौ । न तु पूर्व प्रजहार प्रहृतवान् शूराणां पश्चात् प्रहारित्वात् ॥ एते प्रकीर्णकाः ॥ इतः परं सिचि वृद्धिमधिकृत्याह- ३८१ - अक्षारिषुः शराम्भांसि तस्मिन् रक्षः पयोधराः ॥ न चाऽह्वालीन्, न चाऽत्राजीत् त्रासं कपि-महीधरः ८ अक्षारिपुरित्यादि- तस्मिन् वने रक्षः पयोधराः रक्षांसि पयोधरा इव । शराम्भांसि शरान् अम्भांसीव । अक्षारिपुः क्षरितवन्तः । क्षरतिरकर्मकः क्षरे- त्तजवृत्तिरित्यादि प्रयोगेषु दृश्यते । इह तु सकर्मको विवक्षितः । कर्मिहीधर इव । न चाह्नालीत् न चलितवान् । द्वयोरपि '२२८४ । अतो हलादेवोः ।७/- २।७।' इति विकल्पे प्राप्ते '२३३० । अतो रान्तस्य ।७।२।२।' इति सिचि वृद्धिः । नावाजीत् त्रासं भयं च न जगाम । महीधरतुल्यत्वात् । '२२६८। नेटि ।७।२। ४।' इति प्रतिषेधस्य '२२८१ । अतो हलादेर्लंघोः ।७।२।७।' इति विकल्पिते '२२६७ । वद-ब्रज - ।७।२।३॥ इत्यादिना वृद्धिः ॥ ६८२ - अवादीत् तिष्ठते॑त्युच्चैः, प्रादेवीत् परिघं कपिः ॥ तथा, यथा रणे प्राणान् बहूनामंग्रहीद् द्विषाम् ॥ ९॥ अवादीदित्यादि- - तत उत्तरकालं कपिस्तिष्ठत मा पलायध्वमिति उच्चैस्ता- नवादीत् । पूर्ववद्वृद्धिः । तथा तेन प्रकारेण परिघं परिघेण प्रादेवीत् विजिगीषते स्म । '५६२ । दिवः कर्म च ।१।४।४३।' इति परिघस्य कर्मसंज्ञा । दिवेः '२२६८ । नेटि ।७।२।४।' इति वृद्धिप्रतिषेधः । यथा बहूनां द्विपां शत्रूणां प्राणानग्रहीत् गृहीतवान् । '२२८४ । अतो हलादेः- ।७।२।७।' इति विकल्पे प्राप्ते '२२९९ ॥ हृयन्त क्षण श्वस- ।७।२५।' इति प्रतिषेधः ॥ । ३८३ - व्रणैर॑वमिषू रक्तं, देहै: प्रौर्णाविषुर् भुवम् ॥ 5 दिशः प्रौर्णाविषुश् चाऽन्ये यातुधाना भवद् - भियः १० व्रणैरित्यादि – यातुधाना राक्षसा व्रणैः प्रहारमार्गैः रक्तं शोणितमवमिषुः चमन्ति स्म । '२२९९ । ह्रयन्त ।७।२।५।' इति वृद्धिप्रतिषेधः । देहेर्भुवं प्रौर्णा- विपुः छादितवन्तः । अन्ये यातुधानाः भवद्भियः भवन्ती भीर्यपामिति भयाप लायमानाः । दिशः प्रौर्णाविषुः छादितवन्तः । '२४४९। ऊर्विभाषा । ७।२।६॥ इति विकल्पः । ऊर्णोते: '२४४७ । विभापोर्णोः ।१।२।३।' इत्यङित्त्वपक्षे द्रष्टव्यः । ङित्त्वे गुणवृद्धिप्रतिषेधात् ॥ ६८४ - अरासिषुश् च्युतोत्साहा भिन्न-देहाः प्रियाऽसवः ॥ कपेरत्रासिपुर नादान मृगाः सिंह- ध्वनेरिव ॥ ११ ॥ " इति सिचि वृद्ध्यधिकारः ॥ तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः २३१ अरासिषुरित्यादि - च्युतोत्साहाः निरुत्साहा: अरासिपुः मृताः स्म इति शब्दितवन्तः । यतः प्रियासवः प्रियमाणाः । कपेः संबन्धिनो नादादनासिषुः त्रस्ताः । उभयत्रापि '२२६८ । नेट ।७।२।४॥ इति प्रतिषिद्धोऽतो हलादेरिति विकल्पः ॥ इति सिचि वृद्ध्यधिकारः ॥ इत इप्रतिषेधमधिकृत्याह- ६८५ - मायानामीश्वरास् ते ऽपि शस्त्र-हस्ता रथैः कपिम् ॥ प्रत्याववृतिरे हन्तुं हन्तव्या मारुतेः पुनः ॥ १२ ॥ मायानामित्यादि – अथानन्तरं राक्षसा ये दिशो गताः ते कपिं हन्तुं पुनः प्रत्याववृतिरे प्रतिनिवृत्ताः । मायानामीश्वराः प्रभवः । '३१५५ । स्थेश-।३।२।१७५॥' इति वरच् । '२९८१॥ नेमशि कृति ।७।२।८।' इति नेट् । आर्धधातुकेत्यादिना प्राप्त - त्वात् । रथैस्तत्र गताः सन्तः । शस्त्रहस्ताः शस्त्राणि हस्तेषु येषामिति । हनि-कुशे- त्यादिना रमेरौणादिकः क्थन् । रथाः । अमि-चमीत्यादिना शसेरौणादिकस्त्रन् । हसि - मृग्व-जेत्यादिना हसेस्तन् । तयोस्तितुत्रेत्यादिना इप्रतिषेधः । हन्तव्या मारुतेरिति हनूमतो वधार्हाः । '६२९। कृत्यानां कर्तरि वा ।२।३।७१।' इति षष्ठी । '२२४६। एकाचः–।७।२।१०।' इत्यादिना इप्रतिषेधः । हन्तेर्नमान्तेष्वनित्वात् ॥ ६८६ - तांश् चेतव्यानक्षित श्रिवा वानरस् तोरणं युतान् ॥ जधानाऽऽधूय परिघं विजिघृक्षून् समागतान् ॥ १३ ॥ तानित्यादि – समुदिता एकस्यामेव वेलायां मया हन्तव्या इति वानरस्तोर- णमाश्रितवान् । स तोरणं श्रित्वा तान् राक्षसान् विजिघृक्षून् विग्रहीतुमिच्छून् । युतान् समुदितान् । समागतानू ढौकितान् । क्षितौ पृथिव्यां चेतव्यान् पुञ्जीकर्तव्यान् जवान हतवान् । परिघमाधूय परिभ्राम्य । तत्र चेतव्यानिति '२२४६। एकाचः–७।२- ।१०।' इतीप्रतिषेधः । क्षिताविति '३३१३ । क्तिच्-क्तौ च संज्ञायाम् ।३।३।१७४।' इति क्तिच् । '३१६३। ति-तु-त्रत - ।७।२।१९। इत्यादिना इप्रतिषेधः । श्रित्वा युता. निति '३३८१। फ्र्युकः किति ॥७॥२॥११॥' इति इट्प्रतिषेधः । विजिघृक्षूनिति '२६- १० । सनि ग्रह - गुहोच । ७ । २।१२।' इति । तत्र '२६०९ । रुद - विद ॥२८।' इति सनः कित्त्वं '२४१२ । ग्रहि-ज्या । ६।१।१६।' इति संप्रसारणं ढत्व-कत्व - षत्वानि ॥ ६८७ - संजुघुक्षव आयूंषि ततः प्रतिरुरूषवः ॥ रावणा॒ऽन्तिकमा॑जग्मुर् हत- शेषा निशा-चराः ॥ १४॥ २३२ भट्टि काव्ये — द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुथों वर्गः, संजुघुचव इत्यादि-तत उत्तरकालं ये हतशेषा निशाचराः ते संजुघुक्षव आयूंपि जीवितानि गोहितुमिच्छवः । गृहेः पूर्ववप्रतिषेधः । रावणान्तिकमाज- ग्मुः आगताः । प्रतिरुरूपवः वक्ष्यमाणमर्थं कथयितुमिच्छवः । अत्रापि पूर्ववत्प्र तिषेधः । तत्र चकारेणोगन्तानां सनि समुच्चितत्वात् ॥ ६८८ - 'एकेन बहवः शूराः साऽऽविष्काराः प्रमत्त-वत् ॥ वैमुख्यं चक्रमे त्युच्चेरूचुर् दश-मुखऽन्तिके ॥१५॥ एक्रेनेत्यादि — वयं बहवः शूराः साविष्काराः साहंकारा अपि सन्तः एके- नापि कपिना हेतुभूतेन वैमुख्यं चक्रम पराङ्मुखत्वमनुष्ठितवन्तः प्रमत्तवत् मद्य- पानमत्ता इव । एवं च चित्तव्याक्षेपादुत्तमपुरुषे लिटि कृते '२२९३ । कृ-सू-१७/- २।१३।' इत्यादिना इप्रतिषेधः नियमित इति । एवं दशमुखान्तिके उच्चैरूचुः॥ ६८९ - मांसोपभोग-संशूनानुद्विांस् तान॑वेत्य॑ सः ॥ उद्वृत्त - नयनो मित्रान् मन्त्रिणः स्वान् व्यसर्जयत् ॥ १६॥ मांसेत्यादि–स दशमुखस्तानुद्विमान् भीतानवेत्य ज्ञात्वा स्वानात्मीयान् मन्त्रिणो व्यसर्जयत् प्राहिणोत् । कीदृशांस्तान् । मांसोपभोगसंशूनान् मांसोपभोगेन स्थूलवर्मणः । उभयत्रापि । '३०३९ । वीदितो निष्टायाम् ।७।२।१४।' इतीट्रप्रतिषेधः । तत्र श्वयतेर्यजादित्वात् संप्रसारणं '२५५९।ः ॥४॥ इति संप्रसारणस्य दीर्घः । द्वयोरप्योदित्त्वान्निष्ठानत्वम् । उद्वृत्तनयनो रोषात् निष्कान्ततारकः । '३०२५ । यम्य विभाषा ।७।२।१५।' इतीदप्रतिषेधः वृतेरुदित्वात् । मित्रान् स्त्रिग्धान् मन्त्रिणः । '२०३६ । ओदितश्च ।७।२।१६।' इती प्रतिषेधः । '३०१६। रदाभ्याम् । ८।२।१२॥ इति निष्ठानत्वम् ॥ ६९० - प्रमेदिताः स पुत्रास् ते सु-स्वान्ता वाढ - विक्रमाः ॥ अ-म्लिष्ट-नादा निरगुः फाण्टचित्राऽस्त्र - पाणयः ॥ १७ ॥ प्रमेदिता इत्यादि — ते मन्त्रिणः सपुत्राः पुत्रैः सह निरगुः निर्गताः । '२४• ५८ । इणो गा लुङि ।२।४।४५॥ अमेदिताः स्निग्धीभवितुमारब्धाः । आदिकर्मणि निष्ठा । ततो '३०५४। विभाषा भावादिकर्मणोः' इति प्रतिषेधः । इदपक्षे '३०५२ । निष्ठा शीङ्- ।१।२।१९। इत्यादिना कित्त्वप्रतिषेधात् गुणः । सुस्वान्ताः स्वा. मिनि कल्याणमनसः । बाढविक्रमाः भृशपराक्रमा: अम्लिष्टनादाः विस्पष्टवाचः मन्त्रिणां वाग्मित्वात् । फाण्टचित्रास्त्रपाणयः यदशतमपिष्टं कषायमुदकसंपर्कमा त्राद्विभक्तरसं ईषदुष्णं तदल्पप्रयाससाध्यत्वात् अनायाससाध्यं फाण्टमित्युच्यते तेन चित्राणि रञ्जितानि अस्त्राणि पाणौ येषामिति स्वान्तादयः '३०५८। धुंधस्वान्त-।७।२।१८।' इत्यादिना निपातिताः ॥ तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्ग:युग्मम् १८-१९६९१ - तान् दृष्ट्वा ऽतिदृढान् धृष्टान् प्राप्तान् परिवृढाऽऽज्ञ्या ॥ कष्टं विनर्दतः क्रूरान् शस्त्र घुष्ट करान् कपिः ॥ १८ ॥ तानित्यादि- तान् दृष्ट्वा कपिः आदिदिति वक्ष्यमाणेन संवन्धः । किंभू- तान् वृष्टान् । वृष्णोतीति धृष्टः । ३०५९। धृषि-शसी वैया ।७।२।१९।' इती- प्रतिषेधः । अतिदृढान् बलवतः । १३०६० । दृढः स्थूल-बलयोः ।७१२।२०।' इनि निपातनम् । परिवृढाज्ञया परिवृढस्य प्रभोराज्ञया प्राप्तान् । '३०६१॥ प्रभौ परिवृढः ।७।२।२१।' इति निपातनम् । कष्टं विनर्दतः कृच्छ्रं ध्वनतः । गम्भीररवं त्रा । '३०६२। कृच्छ्र-गहनयोः कषः ।७।२।२२।' इतीदप्रतिषेधः । क्रूरान् हिंसान् । शस्त्रघुष्टकरान् । '३०६३ । धुषिरविशब्द ।७।२।२३।' इतीप्रतिषेधः ॥ ६९२ - अ व्यर्णो गिरि-कूटाभान॑भ्यार्णाना॑र्दिद् द्रुतम् ॥ वृत्त-शस्त्रान् महा॒ऽरम्भान॑-दान्तांस् त्रिदशैर॑पि ॥ १९॥ अव्यर्ण इत्यादि – अव्यर्णोऽपीडितः । '३०६४ अः सं-नि-विभ्यः ।७१२- २४।' इतीप्रतिषेधः । गिरिकूटाभान् महागिरिसदृशप्रमाणान् । अभ्यर्णानविदू- रान् । '३०६५। अभेश्चावियें ।७।२।२५।' इतीदप्रतिषेधः । द्रुतमार्दिदत् हिंसि - तवान् । अर्देः स्वार्थिकण्यन्तस्य लुङि रूपम् । वृत्तशस्त्रोऽधीतशस्त्रविद्यः । '३०६६। पोरध्ययने वृत्तम् ।७।२।२६।' इति इडभावो णिलुक् च निपात्यते । महार- म्भान् अनल्पव्यापारान् । त्रिदशैरप्यदान्तान् अशमितान् । ३०६८ । वा दान्त- –।७।२।२७।' इत्यादिना इडभावो णिलुक् च निपात्यते ॥ ६९३–दमितता॒ऽरिः प्रशान्तौजा नादाऽऽपूरित- दिङ्मुखः ॥ जघान रूषितो रुष्टांस् त्वरितस् तूर्णमागतान् ॥ २०॥ दमितारिरित्यादि — ये तु प्रशान्तौजसः शमितबला: सन्तो रुष्टाः तूर्णमा- गताः तान् कपिर्जधान व्यापादितवान् । प्रतापाहाम्यन्तोऽरयो दमिता येन दमितारिः । प्रशान्तं शत्रूणामोजो येन स प्रशान्तौजाः । नादापूरितदिङ्मुखः तस्य हृष्टत्वात् । रुषितः क्रुद्धः । स्वरितः ससंभ्रमः । अत्र दमितप्रशमितपूरिताः ण्यन्ता: '३०६८। वा दान्त ।७।२।२७।' इत्यादिना विकल्पितेट: । रुष्टरुषितत्व- रिता: '३०६९। रुष्यमत्वर-।७।२।२८।' इत्यादिना ॥ : ६९४–तेषां निहन्यमानानां संघुष्टैः कर्ण-भेदिभिः ॥ अभूद॑भ्यमित त्रासमा॑स्वान्तता॒ऽशेष-दिग् जगत् ॥ २१ ॥ २३४ भट्टि-काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः, तेषामित्यादि- तेषां रक्षसां निहन्यमानानां संधुष्टैः शब्दैः कर्णभेदिभिः वाधिर्यकरैः । अभ्यमितत्रासं अभिगतन्त्रासं जगदभूत् । आस्वान्ता: अशेषा दिशो यस्मिन् जगति । संघुष्टाभ्यमितस्वान्ता: '३०६९। रुप्यमत्वर- । ७।२।२८।' इति विकल्पितेटः ॥ ३९५ -भय- संहृष्ट- रोमाणस् ततस् ते ऽपचित-द्विपः ॥ क्षणेन क्षीण - विक्रान्ताः कपिना ऽनेषत क्षयम् ॥२२॥ इतीट्-प्रतीपेधाधिकारः ॥ भयेत्यादि- ततस्ते राक्षसाः कपिना क्षणेन क्षयं विनाशमनेषत नीताः । कर्मणि लुङ् । भयसंहृष्टरोमाणः भयोद्गतरोमाञ्चाः । '३०७० । हृपेर्लोमसु ।७।२। २९ ।' इति विभाषितेद् । अपचितद्विषः अपचितानां पूजितानां ऋषीणां शत्रवः । - ३०७१ । अपचितश्च ।७।२।३०।' इति निपातः । क्षीणविक्रान्ताः क्षीणं विक्रान्तं पराक्रमो येषाम् । '३०१५ । क्षियो दीर्घात् ।८।२।१४६ ।' इति निष्ठात- कारस्य नः ॥ इतीद-प्रतिषेधाधिकारः । इतः प्रभृतीटमधिकृत्याह- ६९६ - हत्वा रक्षांसि लवितुर्मक्रमीन् मारुतिः पुनः ॥ अशोकवनिकामैव निगृहीताऽरि शासनः ॥ २३ ॥ हृत्वेत्यादि - रक्षांसि हत्वा मारुतिरशोकवनिका मेकामेव पुनर्लवितुं छेनुम् । आर्धधातुकस्ट् । अक्रमीत् गतवान् । '२३२३ । - मोरनात्मनेपदनिमित्ते ७।२।३६।' इतीट् । निगृहीतारिशासनः ध्वस्तारिव्यवस्थः । २५६२ । ग्रहोऽलिटि दीर्घः ।७।२।३७।' इतीटो दीर्घत्वम् ॥ ६९७ - आवरीतुमि॑िवा ऽऽकाशं वरितुं वीनि॑िर्वोत्थितम् ॥ वनं प्रभञ्जन - सुतो ना sदयिष्ट विनाशयन् ॥ २४ ॥ आवरीतुमित्यादि — प्रभञ्जनसुतो हनूमान् । वनमशोकवनिकाख्यं विना- शयन् नायिष्ट दयां न कृतवान् । लुङि रूपम् । आकाशमावरीतुमिव अवष्ट- चधुमिवोत्थितं वनम् । वीनू पक्षिणो वरितुं प्रार्थयितुमिवोत्थितं 'आगच्छत' नान्यत्र यात, 'इहैव फलवृद्धिं प्राप्स्यथ' इति । आवरीतुं वरितुमिति २३९१॥ वृतो वा ।७।२।३८।' इति विकल्पेनेटो दीर्घत्वम् ॥ ६९८ - वरिषीष्ट शिवं क्षिप्यन् मैथिल्याः कल्प-शाखिनः, ॥ तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गःप्रावारिषुरिव क्षोणीं क्षिप्ता वृक्षाः समन्ततः ॥ २५ ॥ वरिपोटेत्यादि – ये कल्पशाखिनः कल्पवृक्षाः स्वर्गादादायारोपितास्तानु- न्मूल्य यथास्थानं क्षिप्यन् मैथिल्याः शिवं कल्याणं वरिपीष्ट प्रार्थितवान् । मैथिल्या मस्त्वित्याशंसावचने लिङ्ग । '२५२९। न लिङि ।७१२॥३९॥ इति दीर्घप्रतिषेधः । अन्ये च वृक्षास्तेन समन्ततः क्षिप्ताः सन्तः क्षोणीं पृथ्वी प्राचा- रिपुरिवाच्छादितवन्त इव । तेषामनाच्छादितत्वादितीवार्थः । '२२९७ । सिचि वृद्धिः परस्मैपदेषु ।७।२।१।' इति वृद्धिः ॥ ६९९ - संयुचूर्षुः स्वमकृतमा॑ज्ञां विवरिषुर् द्रुतम् ॥ अवरिष्टक्षमं क्षम्यं कपिं हन्तुं दशाननः ॥ २६ ॥ समित्यादि - रामदूतेन कपिना कमदृशं कृतमिति स्वमाकूतमभिप्रायं संवुवूर्षुः संवरीतुमिच्छुः । दशाननो द्रुतमाज्ञां विवरिषुः प्रकटितुमिच्छुः । अक्षं स्वसुतमवरिष्ट प्रार्थितवान् । कर्त्रभिप्राये तडू । किमर्थं, कपिं हन्तुं हनिष्यामीति । अक्षम्यं क्षन्तुमशक्यम् । '२८४४ । पोरडुपधात् ।३।१।९८।' इति यत् । संवुवूर्षुः विवरिपुरिति उगन्तत्वात् । '२६१० । सनि ग्रह-गुहोव ।७।२।१२।' इति चकारे- णेद्प्रतिषेधे प्राप्ते '२६२५ । इट् सनि वा ।७।२।४१॥ इति विभाषेट् । तत्रानिपक्षे '२६१२ । इको झल् ॥२।१९।' इति कित्त्वे '२४९४ । उदोध्यपूर्वस्य ।७।१।१०२।' इत्युत्वपक्षे गुण एव ॥ ७०० - ऊंचे संवरिषीष्ठास् त्वं गच्छ शत्रोः पराक्रमम् ॥ ध्वृषीष्ठा युधि मायाभिः स्वरिता शत्रु- सम्मुखम् ॥२७॥ ऊच इत्यादि — किमित्याह -त्वं गच्छ शत्रोः पराक्रमं संवरिषीष्ठाः संच्छादय । आशिषि '२५२८। लिङ्- सिचोरात्मनेपदेषु ।७।२।४२ ।' इति वृजो विभाषेद् । '२३६८ । उश्च ।१।२।१२।' इतीपक्षे न कित्वम् । ध्वृषीष्ठाः युधि मायाभिः कर्तृ भूताभिः त्वं कुटिलीकृषीष्टा: '१००५ । ध्वृ हूर्च्छने', '२२० । हुर्च्छा कौटिल्ये ।' तस्य चोदात्तत्वात् आशिषि कर्मणि लिङ् । '२५२६ । ऋतश्च संयोगादेः- ।७।२१- ४३।' इति विभाषेट् । अनिट्रपक्षे उश्चेति कित्त्वम् । स्वरिता उपतापयिता । शत्रु- संमुखं शन्नोरग्रतः । अतो द्रुतं संस्वरिषीष्टा इवेति वक्ष्यमाणेन योज्यम् । '९९८। स्त्र शब्दोपतापयोः ।' इत्यस्य '२२७९॥ स्वरति-सूति सूयति ।७।२।४४।' इत्यादिना विभाषेट् लिङूसिचोरिति नानुवर्तते ॥ ७०१ - द्रुतं संस्वरिषीष्ठास् त्वं निर्भयः प्रधनोत्तमे ॥' स मायानाम॑गात् सोता कपेर् विधवितुं द्युतिम् ॥ २८ ॥ द्रुतमित्यादि – संस्वरिषीष्टाः उपतापय । निर्भयः सन् । आशिषि लिङ् '२६९९ । समो गम्युच्छि-।१।३।२९।' इत्यात्मनेपदम् । अत्र ऋतश्चेतीटू । प्रध२३६ भट्टि- काव्ये - द्वितीयेऽधिकार काण्डे लक्षण रूपे चतुर्थी वर्गः, नोत्तमे संग्रामवरे । एवमुक्तः सन् स मायानां सोता जनकः कपेर्द्युतिं तेजो विध- वितुमपनेतुमगात् गतः । सोता धवितुमिति '२२७९ । स्वरति । ७।२।४४ इत्या दिसूत्रेण विभाषे ॥ ७०२ विगाढा रं वनस्या ऽसौ शत्रूणां गाहिता कपिः ॥ अक्षं रधितुमारेभे रद्धा लङ्काऽनिवासिनाम् ॥ २९ ॥ विगाढारमित्यादि — असौ कपिः वनस्य विगाढा अवलोडयिता । अरं शीघ्रम् । शत्रूणां गाहिता विनाशयिता । कर्मणि षष्टी । ऊदित्वाद्विभाषेट् '२२- ७९। स्वरति —।७।२।४४।' इत्यादिना अक्षं रधितुं हिंसितुमारेभे प्रवृत्तः । लङ्का- निवासिनां रक्षसां रद्धा हिंसिता । २५१५ धादिभ्यश्च ।७।२।४५ ॥ इति विभाषेद् ॥ ७०३ - निष्कोषितव्यान् निष्कोष्टुं MOUNTA प्राणान् दशमुखाऽऽत्मजात् ॥ आदाय परिघं तस्थौ वनान् निष्कुपित द्रुमः ॥ ३० ॥ निष्कोषितव्यानित्यादि - दशमुखात्मजादक्षात् । प्राणान्निष्कोपितव्यान् अपनेतव्यान् अपनयार्हान् निष्कोष्टुं अपनेष्यामीति परिघमादाय तस्थौ । '२५- ६०। निरः कुषः ।७।२।४६ । इति विभाषेट् । निष्कुपितद्रुमः वनादपनीतवृक्षः । '३०४५ । इण् निष्टायाम् । ७।२।४७।' इती ॥ ७०४- एष्टारमैपिता संख्ये सोढारं सहिता भृशम् ॥ रेष्टारं रेषितं व्यास्यद् रोष्टाऽक्षः शस्त्र संहतीः ॥३१॥ एटारमित्यादि-कपि युद्धस्यैष्टारं सुषिता पुषणशीलोऽक्षः । ताच्छील्ये तृन् । '६२७ । न लोक-।२।३।६९। इति षष्टीप्रतिषेधः । सोढारं प्रहरणस्य सहि- तारं सहिता भृशं सहनशीलः । रेष्टारं हिंसकं रेषितुं हिंसितुम् । रोष्टा रोपण- शीलः शस्त्र संहतीर्व्यास्यत् क्षिप्तवान् । लङि रूपम् । सर्वत्र '२३४० । तीप-सह - ।७।२।४८।' इत्यादिना वेटू ॥ ७०५-शस्त्रैर् दिदेविषुं संख्ये दुषुः परिघं कपिः ॥ अर्दिधिषुर् यशः कीर्तिममुं वृक्षैरताडयत् ॥ ३२ ॥ शस्त्रैरित्यादि —– कपिः अर्दिधिषुः यशो वर्धितुमिच्छुः । परिघं दुधूषुः । परिषेण क्रीडितुमिच्छुः । अक्षं वृक्षैरताडयत् हतवान् । कीदृशम् । शस्त्रैर्दिदेविषु क्रीडितुमिच्छम् । कीर्तिमीसुं वर्धितुमिच्छुम् । दिवेरिवन्तस्य १३२४ । ऋधु वृद्धौ' इत्यस्य च ' २६१८। सनीवन्त ।७।२।४९ ।' इत्यादिना विभाषितेट् । तत्र दिवेरिडभावपक्षे '२५७१। छोः शूर्-१६।४।१९।' ऋधेः '२६१९॥ आपूज्ञप्यृधा- मीद ।७।४।५५॥' इतीत्वं अभ्यासलोपन ॥ तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २३७ ७०६ - भूयस् तं धिप्सुमा॑हूय राज-पुत्रं दिदम्भषुः ॥ अहंस् ततः स मूर्च्छा-वान् संशिश्रीपुर॑भूद् ध्वजम् ३३ भूय इत्यादि – तं राजपुत्रं अक्षं धिप्सुं दम्भितुं वञ्चयितुमिच्छुम् । भूयः पुनरम दिदम्भिषुः वञ्चयितुमिच्छुः । आहूयागच्छेत्यहन् हतवान् । ततः सोऽक्षः मूर्च्छावान् मूर्च्छायुक्तः । ध्वजमात्मीयं संशिश्रीषुः संश्रयितुमिच्छुः अभूत् भूतः । अत्र दम्भेः श्रयतेश्च '२६१८ । सनीवन्तर्ध-।७।२।४९ । इतीट् । अत्र श्रयतेरनि- ट्र्पक्षे '२६१४ । अज्झनगमां सनि ।६।४।१६।' इति दीर्घः । द्वितीयस च '२६- २१ । दम्न इच्च । ७ । ४ । ५६ । अभ्यासलोपः । दम्भेईलग्रहणस्य जातिपरत्वात्सिद्ध- मिति कित्त्वे अनुनासिकलोपः । '३२६ । एकाचो बशः । ८।२।३७ ॥ इति भष् । ८५२६ । खरि च ।८।४।५५॥ इति चम् ॥ ७०७ आश्वस्या ऽक्षः क्षणालू लोकान् विभ्रक्षुरिव तेजसा ॥ रुषा विभ्वजिषु प्रख्यं कपिं बाणैरंवाकिरत् ॥ ३४ ॥ आश्वस्येत्यादि– क्षणात् क्षणमात्रेणाश्वस्य संज्ञां लब्ध्वा लोकान् जनान् तेजसा क्रोधोत्थेन विक्षुरिव । अथ स कपिं बाणैरवाकिरत् संच्छादितवान् । कीदृशम् । विभ्रज्जिपुप्रख्यं अग्नितुल्यम् । विभ्रजिषुः विभ्रक्षुरिति '२६१८। स- नीवन्तर्ध-।७।२।४९।' इत्यादिना विभाषेद् । तत्रानिपक्षे '३८० । स्कोः-।८।२। २९ । ' इति सलोपः । २९४ । ब्रश्च - ।८।२।३६।' इति षः । इस्पक्षे सकारस्य जत्वं श्रुत्वं च ॥ ७०८ - संयुयूषं दिशो बाणैरक्षं यियविषुर् द्रुमैः ॥ कपिर् मायामि॑िवा ऽकार्षीद् दर्शयन् विक्रमं रणे ॥३५॥ संयुयूषुमित्यादि – बाणैर्दिशः संयुयूषु मिश्रयितुमिच्छु अक्षं कपिः दुमै- यियविपुः योतुमिच्छुर्मायामिवेन्द्रजालमिवाकार्षीत् कृतवान् रणे विक्रमं दर्श- यन् । यौतेः सन् । '२६१८ । सनीवन्त ।७।२।२९।' इति विभावे । '२५७७॥ ओः पु-यण्-ज्यपरे ।७।४।८०' इतीत्वम् । '२६१४ । अज्झन-गमां सनि ।६।४।- १६॥' इति दीर्घः ॥ ७०९ - वानरं प्रोर्णुनविषुः शस्त्रैर॑क्षो विदिद्युते ॥ 3 5 तं प्रोर्णुनूषुरूपलैः स वृक्षैररावभौ कपिः ॥ ३६ ॥ वानरमित्यादि – वानरं प्रोर्णुनविषुः छादयितुमिच्छुरक्षः विदिषुते विद्यो- तते स्म ।' २३४४ । धुति-स्वाप्योः ।७।४।६७।' इति संप्रसारणम् । कपिरपि त- मक्षं उपलैर्वृक्षसहितैः प्रोर्णुनूषुः संवरीतुमिच्छुराबभौ भाति स्म । ऊर्णोतेः पूर्व- वद्विभाषेद । इट्पक्षे गुणः अन्यत्र '२६१४ । अज्झन - । ६।४।१६।' इति दीर्घः । उभयत्र '२४४६।' नन्द्राः-।६।१।३।' इति रेफो न द्विरुच्यते ॥ २३८ भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः, ७१० - स्त्रां जिज्ञापयिषू शक्तिं बुभूर्षु तु जगन्ति किम् ॥ शस्त्ररित्यकृपातां तौ पश्यतां बुद्धिमा॑हवे. ॥ ३७ ॥ स्वामित्यादि - तो कपिराक्षसौ किं स्त्रां शक्ति जिज्ञापयिषू बोधयितुमि- च् इव भूर्पू त्रिजगन्ति किं नु त्रैलोक्यं शस्त्रेण भर्तु पूरयितुमिच्छू इत्येवं बुद्धिमाह पश्यतां प्रेक्षकाणां अकृषातां कृतवतौ । जिज्ञापयिपू बुभूर्पू इति विभाषेट् । तत्र '९६४ । भृञ् भरणे' इति भवादिकस्य ग्रहणम् । '२६१८। सनीवन्तर्ध- ।७।२।४९॥ इति सूत्रे भरेति शपा निर्देशात् ॥ " ७११–मायाभिः सु-चिरं किया राक्षसो ऽक्लिशित-क्रियम् ॥ संप्राप्य वानरं भूमौ पपात परिघाऽऽहतः ॥ ३८ ॥ मायाभिरित्यादि - राक्षसो मायाभिः सुचिरं विकेशं कृत्वा वानरं अक्लिशितक्रियमनभिभूतव्यापारं संप्राप्य परिवाहतो भूमौ पपात । '३०४९। किशः क्त्वा निष्ठयोः ।७।२।५० ।' इति विभाषेट् ॥ युग्मम् ३९-४०- ७१२ - पवितो ऽनुगुणैर् वातैः शीतैः पूत्वा पयो-निधौ ॥ वभञ्जाऽध्युषितं भूयः क्षुधित्वा पत्रिभिर् वनम् ॥ ३९॥ पवित इत्यादि — कपिरपि पयोनिधौ पूत्वा स्नात्वा अनुगुणैरनुकूलै : शीत- वतः पवितः पवित्रीकृतः । '३०५०। पूच ।७।२।११॥ इति विभाषेट् । भूयः पुनर्वनं बभञ्ज । कीदृशम् । पत्रिभिः पक्षिभिः क्षुवितैर्भूत्वा । अध्युपितं कृत- निवासम् । '३०४६ । वसति- क्षुधोः ॥२५२ । ' इतीटू ॥ ७१३ – उच्चैरैञ्चित-लाङ्गुलः शिरो ऽञ्चित्वैव संवहन् ॥ दधद् विलुमितं वातैः केशरं वह्नि- पिङ्गलम् ॥ ४० ॥ उच्चैरित्यादि — उच्चैरूर्ध्वं अञ्चितं पूजितं लाङ्गूलं पुच्छं यस्य । शोभनविन्या- सेन स्थितत्वात् । शिरोऽञ्चित्वेव संवहन् अनम्रत्वात् पूजयित्वेव शिरो बिभ्रा- णः। '३०४७। अञ्चेः पूजायाम् ।७।२।५३।' इति विभाषेद् । वह्निपिङ्गलं च केशरं सटां दधत् चित् । वातैर्विलुभितं आकुलितम् । '३०४८ । लुभो विमो- हमे ।७।२।१४।' इतीद । विमोहनमा कुलीकरणम् ॥ " ७१४ - जरित्वेव जवेना ऽन्ये निपेतुस् तस्य शाखिनः ॥ वृश्चित्वा विवशान॑न्यान् बलेना ऽपातयत् तरून्.४१ जरित्वेत्यादि- - तस्य कपेर्जवेन वेगेन अन्ये शाखिनः जरित्वेव जीर्णा इव भूत्वा निपेतुः । अन्यांस्तरून् बलेन ब्रश्चित्वा छित्त्वा । विवशान् सस्तपल्लवानपा- तयत् पातितवान् । १३३२७। ज़-बश्वोः क्त्वि ।७।२।५५ इती ॥ तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- ७१५- दमित्वाऽप्यरि-संघातानं श्रान्त्वा कपि-केशरी ॥ वनं चचार कर्तिप्यन् नर्त्स्यन्निव निरङ्कुशः ॥ ४२ ॥ दमित्वेत्यादि – कपिकेशरी हनुमान् अरिसंघातान् दमित्वा उपशमं नीत्वा । अश्रान्त्वा अपरिश्रान्तो भूत्वा वनं चचार । '३३२८ । इति वा ।७।२।५६।१ इति विकल्पेनेट् । निरङ्कुश: निरवग्रहः । कर्तियन् छेत्स्यन् । नर्त्स्यन्निव नर्तुकाम इव । '२५०६ । सेऽसिचि- ।७।२।५१॥' इत्यादिना विभाषेद् ॥ ७१६ - पारं जिगमिषन् सो ऽथ पुनरावर्त्स्यतां द्विषाम् ॥ २३९ मत्त- द्विरद-वद् रेमे बने लङ्का - निवासिनाम् ॥४३॥ पारमित्यादि — अथ स कपिद्विषां पारं जिगमिषन् गन्तुमिच्छन् । '२४०१॥ गमेरिट् परस्मैपदेषु ।७।२।१८।' पुनरवर्त्स्यतां प्रतीपीभविष्यताम् । '२३४८ । न वृद्भ्यः - १७१२ १५९।' इतीप्रतिषेधः । '२३४७' वृद्भ्यः स्व-सनोः ॥३१९२१' इति परस्मैपदम् । लङ्कानिवासिनां वने मत्त इव रेमे क्रीडितवान् ॥ 3 ७१७ - 'यद्येकल्प्स्यद॑भिप्रायो योद्धुं रक्षः पतेः स्वयम् ॥ तम॑प्यकर्त्यम॑द्या ऽहं ' वदन्नित्य॑चरत् कपिः ॥४४॥ यदीत्यादि – रक्षः पतेः रावणस्य स्वयं योद्धुं यद्यभिप्रायोऽकल्प्स्यत् सम- पत्स्यत् । '२३५२ । तासि च क्लृपः ।७।२।६०।' इति चकारात् स्यकारे च नेट् । तदा तमप्यहमकर्त्स्य उत्सारयामि । अहमद्येति एवं वदन् कपिर्वनमचरत् । '२५०६। सेऽसिचि–। ७।२।५७ ।' इत्यादिना विभाषेट् । अकल्प्स्यदकये- मिति च '२२२९। लिनिमित्ते ।३।३।१३९। इती ऌङ्ग । हेतुहेतुमद्भावश्च लिङो निमित्तम् ॥ # ७१८ - 'हते तस्मिन् प्रियं श्रुत्वा कल्ता प्रीतिं परां प्रभुः ॥ •तोषो ऽद्यैव च सीतायाः परश् चेतसि कल्प्स्यति. ४५' हत इत्यादि—तस्मिन् रक्षः पतौ हते प्रियं श्रुत्वा प्रभुः रामः परां प्रीतिं कल्प्ता जनयिता । अत्रान्तर्भावितो ण्यर्थः । धातोरकर्मकत्वात् । सीतायाश्चाद्यैव चेतसि तोषः परो महान् कल्प्स्यते संपत्स्यते । '२३५२१ तासि च क्लृपः । ७१२६०१ इतीदप्रतिषेधः । २३५१ । लुटि च क्लृपः ।१।३।९३ ।' इति परस्मैपदम् ॥ ७१९ - आहूय रावणो ऽवोचदर्थेन्द्रजितम॑न्तिकात् ॥ 'वने मत्त इव क्रुद्धो गजेन्द्रः प्रधनेष्व॑टन् ॥ ४६ 'आहूयेत्यादि — अथ रावणः इन्द्रजितमाहूय अन्तिकमबोचत् । किम- चोचदित्याह – वने मत्त इव । यथा गजेन्द्रो मत्तः क्रुद्धो वने पर्यटन् द्विषाम- न्तं गतवान् तथा त्वं प्रधनेषु संग्रामेष्वटन् । द्विषामन्तं ययाथेति वक्ष्यमाण- श्लोकेनान्वयः ॥ २४० भट्टि काव्ये — द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थो वर्गः, ७२० - ययाथ त्वं द्विपाम॑न्तं, भूयो यातासि चा ऽसकृत् ॥ शशक्थ जेतुं त्वं देवान्, मायाः सस्मर्थ संयति ॥४७॥ ययाथेत्यादि – न केवलं ययाथ, भूयः पुनरपि यातासि यास्यसि । यातेः क्रादिनियमात् प्राप्तस्येट: । '२२९४ । अचस्तास्वत्थल्यनिटो नित्यम् ।७।२६। इति प्रतिषेधः । तस्य हि तासौ नित्यमनित्वम् । 'अजन्ता धातवोऽनुदात्ताः' इति वचनात् । देवान् जेतुं त्वमसकृत् बहुधा शशक्थ शक्तोऽसि । '२२९५ । उपदेशेऽत्वतः ।७।२।६२।' इति थलीप्रतिषेधः । शकेस्तासौ नित्यानित्वम् शकिस्तु कान्त इति वचनात् । मायाश्च कूटयुद्धानि । संयति युद्धे । सस्मर्थ ज्ञातवानसि । '२२९६ । ऋतो भारद्वाजस्य ।७।२।६३।' इनीप्रतिषेधः ॥ ७२१ - त्वं ससर्जिय शस्त्राणि, दद्रष्ठा डरींश च दुःसहान् ॥ शस्त्रैरादिथ शस्त्राणि त्वमेव महताम॑पि ॥ ४८ ॥ ■ त्वमित्यादि-शस्त्राणि त्वं ससर्जिय क्षिप्तवानसि । अरींश्च दुःसहान् यु ध्यतः दद्भुष्ट दृष्टवानसि न पलायितोऽसि । '२४०४ । विभाषा सृजि-दृशोः ७॥६५।' इति थलि विभाषेद् । अनिद्रपक्षे '२४०५ । सृजि-दृशोर्झल्य मकिनि २६॥१॥५८।' इति षत्वष्टुत्वे । महतामपि मध्ये त्वमेव शस्त्राणि परकीयानि श स्त्रैः स्वैरादिथ जग्धवानसि । '२३८४ । इडत्यर्तिव्ययतीनाम् ॥७॥२॥६६॥ इत्यारिद्र ॥ ७२२ - स त्वं हनिष्यन् दुर्बुद्धिं कपिं व्रज ममा Sऽज्ञया, ॥ मा ना ऽञ्जी राक्षसीर् मायाः, प्रस्तावीर् मा न विक्रमम् ॥ ४९ ॥ सत्वमित्यादि - स त्वमेवंविधः कपिं दुर्बुद्धिं चपलत्वाद्धनिष्यन् हानेण्या- मीति मदाज्ञया व्रज । '२३६६ । ऋद्धनोः स्ये ।७।२।७० । इती । वस्त्रेकाजिति सूत्रत्रयं नोदाहृतम् । वस्त्रादेशश्च छन्दोविषयत्वात् । राक्षसीर्माया मा नाजी: मान व्यक्तीकुरु । अपि तु व्यक्तीकुर्वित्यर्थः । '२५४६ । अञ्जेः सिचि ।७।२।७१॥' इतीट् । विक्रमं न मा प्रस्तावीः मा न प्रारभस्व । '२३८५ । स्तु-सु-धूभ्यः ।७।२।७२ ।' इतीट् ॥ ७२३ मा न सावीर् महाऽस्त्राणि, मा न धावीररिं रणे, ॥ वानरं मा न संयंसीर्, व्रज तूर्णम॑शङ्कितः ॥ ५० ॥ मा नेत्यादि - रणे महास्त्राणि मा न सावीः मा न प्रसुहि, मा न मुञ्चेत्यर्थः । '१००७] पु प्रसवैश्वर्ययोः ' इत्यस्य रूपम् । अरींश्च मा न धावीः मान कम्पय अपि तु भीषयस्वेत्यर्थः । पूर्ववदि । वानरं मा न संयंसीः मा न वषीः । तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २४१ '२३७७। यम-रम—।७।२।७३ ।' इत्यादिना सगिटौ । '२७४२ । समुदाभ्यो यमः –।१।३।७५।' इति तङ् न भवति तत्राकर्मकादिति वर्तते । यत एवं तस्मादश- वितस्तूर्ण व्रज ॥ ७२४- अनंसीच् चरणौ तस्य मन्दिरादिन्द्रजिद् व्रजन्, ॥ अवाप्य चाssशिषस् तस्माददा॑यासीत् प्रीतिमुत्तमाम् ॥ अनंसीदित्यादि – एवमुक्त इन्द्रजित मन्दिरात् ब्रजन् गमिष्यन् ।' २७८९॥ वर्तमानसामीप्ये वर्तमानवत् ।३।३।१३१।' इति लट् । तस्य पितुश्चरणावनंसीत् नतवान् । तस्माद्भावणादाशिषमवाप्योत्तमां प्रीतिमायासीत् । पूर्ववत्सगिटौ ॥ ७२५ गते तस्मिन्नुपरंसीत् संरम्भाद् रक्षसां पतिः ॥ इन्द्रजिद् विक्रमाऽभिज्ञो मन्वानो वानरं जितम्. ५२ गत इत्यादि — गते तस्मिन् रक्षसां पतिः रावणः संरम्भात् क्रोधादुपारंसीत् निवृत्तवान् । पूर्ववत्सगिटौ । रमे: '२७५० । उपाञ्च ।१।३।८४ ।' इति तिप् । स इन्द्रजित् वानरं जितं मन्वानोऽवगच्छन् । यतो विक्रमाभिज्ञः । अगादिति वक्ष्यमाणेन संबन्धः ॥ युग्मम् ५३-५४ ७२६ - संसिस्मयिषमाणो ऽगान् मायां व्यञ्जिजिपुर् द्विषः ॥ जगत् पिपविष्र् वायुः कल्पान्त इव दुर्धरः ॥ ५३॥ संसिस्मयप्रमाण इत्यादि — संसिस्मयिषमाणः उपासितुमिच्छन् द्विषः शत्रून् । अगात् गतवान् । '२७३४ । पूर्ववत्सनः ।१।३।६२॥ इति तङ् । मायां व्यञ्जिजिषुः व्यक्तीकर्तुमिच्छुः । २६२६। स्मि-पू-रञ्जवशां सनि ।७।२।७४ । इती । तत्राः '२४४६ । नन्द्राः ।६।१॥३।' इति नकारो न द्विरुच्यते । कल्पान्ते युगान्ते वायुरिव दुर्धरः जगत् पिपविषुः पवितुमुक्षेप्तुमिच्छुः ॥ ७२७ – लोकाना॑शिशिपोस् तुल्यः कृतान्तस्य विपर्यये ॥ वने चिकरिषोर् वृक्षान् बलं जिगरिषुः कपेः ॥ ५४ ॥ लोकानित्यादि — विपर्यये विनाशकाले लोकानाशिशिषोः भक्षयितुमिच्छोः कृतान्तस्य तुल्योऽगादिति पूर्वेण संबन्धः । पूर्ववदि । वने वृक्षांश्चिकरिषोः विक्षेप्तुमिच्छोः । कपेर्बलं सामर्थ्य जिगरिषुः अपनेतुमिच्छुः । कृप्रोरुगन्तत्वात् '२६१० । सनि ग्रह - गुहोच ।७।२।१२॥ इति प्रतिषेधे प्राप्ते '२६२५॥ इट् सनि वा । ७।२।४२ ।' इति विकल्पे । '२६११॥ किरश्च पञ्चभ्यः ।७।२।७५।' इतीट् । किरतेरिटो दीर्घत्वं नेच्छन्तीति न दीर्घः ॥ ७२८ रोदिति स्मैव चा ssयाति तस्मिन् पक्षि-गणः शुचा ॥ मुक्त-कण्ठं हतान् वृक्षान् बन्धून् बन्धोरि॑िवा ऽऽगमे ५५ भ० का० २१ २४२ भट्टि- काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थो वर्गः," रोदितीत्यादि — तस्मिन्निन्द्रजिति आयात्यागच्छति सति पक्षिगण: हतान् वृक्षान् कपिनाशितान् शुचा शोकेन मुक्तकण्ठं सशब्दं नामग्राहं रोढ़िति स्मेव रुदितवानिव । नामग्रहणपूर्वया रोदनक्रियया व्याप्यमानत्वात् वृक्षाणां कर्म- मंज्ञा । '२४७४ । रुदादिभ्यः-१७।२।७६ ।' इतीट् । बन्धून् बन्धोरिव यथा बन्धो- रागमने कश्चित् बन्धून् रोदिति ॥ ७२९ - आश्वसीर्दिव चा ऽऽयाति तद् वेग-पवना॒ऽऽहतम् ॥ विचित्र स्तबोद्भासि वनं लुलित-पलवम् ॥ ५६ ॥ आश्वसीदित्यादि - तस्मिन्नायाति वनं तद्वेगपवनाहतं सत् आश्वसीदिव संजीवितमिव । लङि रूपम् । यतो विचित्रस्तबकोद्भासि लुलितपल्लवं च जातम् । पूर्ववदि ॥ ७३० - 'न प्राणिषि दुराचार !, मायानामशिषे न च ॥ नैडिषे यदि काकुत्स्थं' तर्मूचे वानरो वचः ॥ ५७ ॥ इङधिकारः । नेत्यादि — वानरस्तमागच्छन्तमिदं वचनमूचे । हे दुराचार ! न प्राणिपि न जीवसि । '११४४ । अन च' इत्यस्य रूपम् । पूर्ववदि । '२४७८ । अनितेः 1८/४/- १९ । ' इति णत्वम् । नच मायानामीशिपे नेशिता भवसि । '२४३९ । ईशः से ।७।२।७७१' इति इट् । '६१३ अधीगर्थ- । २।३।५२।' इति कर्मणि षष्ठी । यदि काकुत्स्थं नेडिषे न स्तौषि । '२४४० । इंडजोर्ध्वे च ।७।२।७८॥ इति चकारात् सेवेतीद्र ॥ ॥ इतीडधिकारः ॥ इदानीं '१३८ । विसर्जनीयस्य सः ।८।३॥३४।' इत्यधिकृत्याह- ७३१ - स - सैन्यश् छादयन् संख्ये प्रावर्तिष्ट तमिन्द्रजित् ॥ शरैः क्षुरप्रैर् मायाभिः शतशः सर्वतो मुहुः ॥ ५८ ॥ ससैन्य इत्यादि — इन्द्रजित् ससैन्यः सबलः तं वानरं सर्वतः शरैः क्षुरप्रैः भलैः छादयन् मुहुः क्षणं मायाभिः शतशोऽनेकधा संख्ये प्रावर्तिष्ट प्रवृत्तः । लुङि रूपम् । तत्र ससैन्यश्छादयन् इति । १३८ । विसर्जनीयस्य सः ।८।३।३४।' इति सत्वं छकारे परे श्रुत्वम् । शरैः क्षुरप्रैरिति सत्वापवादः । शर्परे खरि विसर्जनीयस्य विसर्जनीयः विसर्जनीयस्य विकारनिवृत्त्यर्थः । मायाभिः शतशः सर्वतः इति '१५१॥ वा शरि ।८।३।३६ ।' इति विकल्पः विसर्जनीयः सकारो वा ॥ ७३२ - वानरः कुल- शैलाऽऽभः प्रसह्या ऽऽयुध-शीकरम् ॥ रक्षस्-पाशान् यशस्-काम्यंस् तमस् - कल्पानंदुद्रुवत् ॥ ५९ ॥ " तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः-- वानर इत्यादि – वानरः कुलशैलाभः संग्रामे स्थिरत्वात् । आयुधं शीकर- मिव नैरन्तर्येण पतनात् । प्रसह्याभिभूय । १४२ ॥८।३।३७१' इति जिह्वामूलीयोपध्मानीयौ । रक्षस्पाशान् कुत्सितराक्षसान् । १९९३ याप्ये पाशप् ।५।३।४७१' स्वार्थिका अपि प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते । यशस्काम्यन् आत्मनो यश इच्छन् । अत्र तकारे परतो '१४०१ नश्छव्यप्रशान् । ८।३।७।' इति रुत्वं विसर्जनीयसकारौ च पूर्वस्यानुनासिकः । तमस्कल्पान् ईषद्- समाप्ततमसः । कुप्वोरपवादः । '१५२। सो ऽपदादौ ।८।३।३८।' सकारः । तत्र 'पाश-कल्प-क-काम्येषु' इति परिगणनम् । अदुद्रुवत् ढौव स्म । '२३१२। णि श्रि -।३।११४८।' इत्यादिना चङ् ॥ ७३३–धनुप्-पाश–भृतः संख्ये ज्योतिष - कल्पोरु-केशरः ॥ दुधाव निर्-नमस्-कारान् राक्षसेन्द्र पुरस्कृतान्. ६० धनुरित्यादि - धनुष्पाशभृतः कुत्सितधनुर्धरान् । राक्षसान् ज्योतिष्कल्पो- रुकेशरः अग्नितुल्यबृहत्सटो वानरः । '१५३। इणः षः ।८।३॥३९॥ इति पाशा- दिष्वेव विसर्जनीयस्य षत्वम् । दुधाव कम्पितवान् । यस्मान्निर्नमस्कारान् अप्र- णामान् । राक्षसेन्द्रेणेन्द्रजिता पुरस्कृतान् अग्रतः स्थापितान् । '१५४॥ नमस्- पुरसोर्गयोः ।८।३।४०।' इति विसर्जनीयस्य सकारः । इण उत्तरस्य तु विसर्जनो- यस्य स एवाधिक्रियते । तत्र नमःशब्दस्य साक्षात्प्रभृतिषु पाठात् । पुरःशब्दस्य '७६८। पुरो ऽव्ययम् । १।४।६७।' इति गतिसंज्ञा ॥ ७३४ – स्वामिनो निष्-ऋयं गन्तुर्माविष-कृत-बलः कपिः ॥ रराज समरे शत्रून् झन् दुष- कृत - वहिष्कृतः ॥६१ ॥ स्वामिन इत्यादि — स्वामिनः सुग्रीवस्य निष्क्रयमानृण्यं गन्तुं शत्रून् घ्नन् विनाशयन् कपिः समरे रराज । आविष्कृतबलः प्रकटितसामर्थ्यः । दुष्कृतबहि- ष्कृतः । दुष्कृतं पापं बहिष्कृतमनेनेति । '९०० । वाहिता म्यादिषु ॥२।२॥३७॥ द्रष्टव्यम् । सर्वत्र '१५५॥ इदुदुपधस्य च ।८।३।४१॥ इत्यनेनाप्रत्ययविसर्जनी- यस्य षत्वम् ॥ ७३५ - चतुप्-काष्ठं क्षिपन् वृक्षान् तिरस्- कुर्वन्न॑रीन् रणे ॥ तिरस्-कृत-दिगाभोगो दहशे बहुधा भ्रमन् ॥ ६२ ॥ चतुरित्यादि–चतस्रः काष्टा दिशो यस्मिन् क्षेपण इति क्रियाविशेषणम् । पूर्ववत् षत्वम् । चतसृषु दिक्षु वृक्षान् रणे भ्रमन् एकोऽपि बहुधा ददृशे दृष्टः कपिः । क्षिपन्निति तौदादिकः । अरींस्तिरस्कुर्वन् अभिभवन् । तिरस्कृतदिगाभोगः अपनीतांदग्विस्तरः । १५६ । तिरसोऽन्यतरस्याम् ।८।३।३२।' इति पक्षे सत्वम् ॥ २४४ भट्टि काव्ये – द्वितीयेऽधिकार काण्डे लक्षण रूपे चतुर्थी वर्गः, युग्मम् ६३-६४ ७३६ - द्विष कुर्वतां चतुष- कुर्वन्न॑भिघातं नगैर् द्विपाम् ॥ वहिष्- करिष्यन् संग्रामाद् रिपून् ज्वलन-पिङ्गलः ६३ द्विष्कुवैतामित्यादि - असौ कपिराटीदिति वक्ष्यमाणेन संवन्धः । कीदृशः । द्विष्कुर्वतां द्वौ वारावभिघातं कुर्वतां द्विषां चतुष्कुर्वन् चतुरो वारान् नगवृक्षर- भिघातं कुर्वन् । '१५७ । द्वित्रिश्चतुरिति कृत्वोऽर्थ १८१३१४३।' इति विसर्जनी- यस्य वा घत्वम् । अरीन् संग्रामाद्वहिष्करिष्यन् अपनेष्यामीति । १५८। इसुसोः सामर्थ्ये ।८।३।५४।' इति विसर्जनीयस्य पत्वं पक्षे । सामर्थ्य चात्र व्यपेक्षा, नैकार्थीभावः । बहिष्करिष्यन्निति द्वयोः परस्परव्यपेक्षत्वात् ॥ ७३७–ज्योतिप्-कुर्वन्नि॑िर्वैको ऽसावटीत् संख्ये परार्ध्य-वत् ॥ तम॑ना॒युष्करं प्राप शऋ- शत्रुर् धनुष्करः ॥ ६४ ॥ ज्योतिरित्यादि – एकोऽपि ज्वलनपिङ्गलः ज्योतिष्कुर्वन्निव अग्निं दीपय - नित्र । पूर्ववत्पक्षे विसर्जनीयस्य षः । परार्थ्यवत् दिव्य इव । परार्धो धुलोकः । ब्रह्माण्डसंबन्धिन ऊर्ध्वभागस्योत्कृष्टत्वात् । तत्र भव इति १३७५२ परावराध- म - । ४ । ३।५।' इति यत् । संख्ये संग्रामे आटीत् परिचक्राम '२२६६ । इट ईटि ८।२।२८।' इति सिचो लोपः । तं वानरमनायुष्करं प्राणापहारिणं शक्रशत्रुरिन्द्रजित् आप प्राप्तवान् । धनुष्करः धनुः करे यस्येति । '१६९ । नित्यं समासे- ।८।३।४५ । ' इत्यादिना षत्वम् ॥ ७३८ - अस्य॒न्न॑रु करान् बाणान् ज्योतिष-कर-सम-द्युतिः ॥ यशस्-करो- यशस्- कामं कपिं वाणैरताडयत् ॥६५॥ अस्यन्नित्यादि – बाणानरुष्करान् व्रणजनकान् । ८ २९३५ । दिवा- विभा- ।३॥२।२१।' इत्यादिना टः । अस्यन् क्षिप्यन् । ज्योतिष्करसमद्युतिः ज्योतिष्कर- णशील: आदित्यः । '२९३४ । कृजो हेतु - । ३।२।२०।' इत्यादिना टः । तेन तुल्य इत्यर्थः । पूर्ववत् पत्त्रम् । यशस्करो यशोजननशीलः । इन्द्रजित् यशस्कामं य- शसि कामोऽस्येति तं कपिं बाणैरवाकिरत् अताडयत् । '१६० । अतः कुकमि - ।८।३।४६।' इत्यादिनानव्ययविसर्जनीयस्य सत्वम् ॥ ७३९ - चकारा ऽधस्- पदं ना ऽसौ चरन् वियति मारुतिः ॥ मर्मा - विद्भिस् तमस् - काण्डैर् विध्यमानोऽप्य॑नेकधा ६६ इति सत्वाधिकारः । चकारेत्यादि — असौ मारुतिर्वियति चरत् अधस्पदं पृथिव्यां पदं न च कार । अधस्पदमिति मयूरव्यं सका दित्वात्सः '१४४ । कस्कादिषु च ।८।३४८ । इति सत्वम् । मर्माणि विध्यन्तीति विप् । '१९३७॥ नहि वृति । ६।३।११६।' इत्यादिना पूर्वपदस्य दीर्घश्वम् ॥ इति सत्वाधिकारः ॥ तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः - २४५ इतःप्रभृति '२१० । 'अपदान्तस्य मूर्धन्यः ।८।३।५५।' इत्यधिकृत्याह- ७४० - पुरुहूत द्विषो धूर्षु युक्तान् यानस्य वाजिनः ॥ आयूंषि त्वक्षु निर्भिद्य प्राभञ्जनिर॑मोचयत् ॥ ६७ ॥ पुरुहूतेत्यादि – पुरुहूतद्विप इन्द्रजित: संवन्धिनो यानस्य रथस धू युतान् वाजिनः त्वक्षु चर्मसु निर्भिद्य प्राभञ्जनिर्मारुतिरायूंपि जीवितादि अमो- चयत् त्याजितवान् । धूर्षु त्वक्ष्विति ११२॥ आदेश-प्रत्यययोः ।८।३।५९।' इति पः । प्रत्ययसकारत्वात् । तत्र हि 'इएकोः' इति वर्तते । परेण च णकारेग प्रत्या- हारः । आयूंपीति '४३४ । नुम् - विसर्जनीय - ।८।३।५८ ।' इत्यादिना । '३३५। सहेः साडः सः ।८।३।५६॥ इति छन्दोविषयत्वान्नोदाहृतम् । ततः ३४०९। छन्दसि सहः । ३।२।६३।' इति विप्रत्ययस्य विधानात् । एवं च पृतनाषाविष इति पाठान्तरमयुक्तम् ॥ 3 ७४१ - सुषुपुस् ते यदा भूमौ रावणिः सारथिं तदा ॥ आर्तुम॑न्यान॑शिपत् प्रोषित-त्रास-कर्कशः ॥ ६८ ॥ सुपुपुरित्यादि — ते यदा भूमौ सुपुपुः निपेतुः । आदेशसकारत्वात् पूर्ववत् पत्वम् । तदा रावणिरन्यानश्वानाहर्तुमानेतुं सारथिमशिषत् आदिष्टवान् । '२३- ८२ । सर्ति - शास्ति - । ३।१।५६।' इत्यङ् । '२४८६ । शास इदङ्हलोः ।६।४।३४॥ ' इति इकारः । '२४१० । शासि वसि ।८।३।१०।' इति षत्वम् । प्रोषितन्त्रासः प्रोषिताद्दामादुपगतभयः । कर्कशश्च रौद्धः । प्रोषित इति यजादित्वात् संप्रसार- णम् । षत्वं पूर्ववत् ॥ ७४२ - प्रतुष्टृषुः पुनर् युद्धमा॑सिषञ्जयिषुर् भयम् ॥ = आतस्थौ रथमा॑त्मीयानु॑त्सिसाहयिषन्निव ॥ ६९ ॥ प्रतुष्टषुरित्यादि – अश्वा आनीता इति पुनरपि युद्धं प्रतुष्टृषुः प्रस्तोतुमार- ब्युमिच्छुः सन् । '२६१४ । अज्झनगमां सनि । ६।४।१६॥ इति दीर्घः । ३१४८ । सनाशंसभिक्ष उः ।३।२।१६८॥ '६२७ । न लोक ।२।३।६९।' इति षष्ठीप्रति- बेधः । रथमातस्थौ आरूढवान् । भयमासिषञ्जयिषुः संश्लेषयितुमिच्छुः हनूमता । अत्र स्तौतेः सनि षत्वभूतसञ्जेश्च '२६२७॥ स्तौति-ज्योः । ८।३।६॥' इति अभ्या- सादुत्तरस्य पत्वम् । त्यानुत्सिसाहयिषन्निव उत्साहयितुमिच्छन्निव युध्यध्वमिति । स्तौतीत्यादिना षत्वे प्राप्ते '२६२८ । सः स्विदि । ८।३।६२॥ इत्यादिना षकारस्य सत्वम् ॥ ७४३–बलान्य॑भिषिषिक्षन्तं तरुभिः कपि-वारिदम् ॥ विजिगीषुः पुनश् चक्रे व्यूहं दुर्जयमिन्द्रजित् ७० बलानीत्यादि – कपिवारिदं कपिं वारिदमिव । बलान्य भिषिषिक्षन्तं तरुभिः अभिषेक्तुं छादयितुमिच्छन्तम् । '२२७७ । स्थादिष्वभ्यासेन - । ८।३।६४॥ इत्यादिना तु सकारस्याभ्याससकारस्य च षत्वम् । तमेवंविधं कपिम् विजिगी२४६ भट्टि-काव्ये --द्वितीयेऽधिकार-काण्डे लक्षण-रूपे चतुर्थी वर्गः, पुर्विजेतुमिच्छुः इन्द्रजित् । '२३३१ । सन्- लिटोर्जेः ।७।११५७।' इति त्वम् पुनर्गृह बलसन्निवेशं दुर्जयाख्यं चक्रे । हस्यश्वादिसैनिकानां मण्डल स्थित्या विरच्यते ॥ ७४४- अभिष्यन्तः कपि क्रोधाद॑भ्यपिञ्चनिया ऽऽत्मनः ॥ संप्रहार - समुद्भुतै रक्तैः कोप्णैररुश- च्युतैः ॥ ७१ ॥ अभिप्यन्त इत्यादि - राक्षसाः क्रोधादात्मनोऽभिष्यन्तः अन्तं नयन्तः । '१२१२। पोऽन्तकर्मणि ।' इत्यस्य शतरि '२५१०। ओतः श्यनि ।७।३।७१॥' इत्योकारलोपः । '२२७० । उपसर्गात्- ।८।३।३५।' इति षत्वम् । संप्रहारसमुद्भूतैः रक्तैः कोष्णैरीषदुष्णैः । अस्युतैः त्रणान्निर्गतैः । कपिमभ्यपिञ्चन्निव अभिषिक्त वन्त इव । लङि रूपम् । '२२७६ । ग्राक् सिताद-व्यवायेऽपि ।८।३।६३।' इति पत्वम् ॥ ७४५ - संग्रामे तान॑धिष्ठास्यन् निषद्य पुर- तोरणम् ॥ अविषीदन्न॑वष्टव्धान् व्यष्टभ्भ्रान् नर-विष्वणान् ॥७२॥ संग्राम इत्यादि - ये प्राणिनः अभिषिञ्चन्ति तान्न रविष्वणान् राक्षसान् । • अधिष्टान् अस्वतन्त्रीकरिष्यन् । कपिः । '२२७० । उपसर्गात्- ।८।३।६५॥' इति षत्वम् । पुरतोरणं पुरद्वारं व्यष्टनात् आश्रितवान् । निपद्य तत्रैव पुरतोरणे स्थित्वा प्राणिनो मा प्रविक्षुरिति अविषीदन् विषादमगच्छन् । निषद्य अविषीद- निति '२२७१ । सदिरप्रतेः ।८।३।६६ ।' इति पत्वम् । अवष्टब्धान् अविदूरान् । '२२७३। अवाञ्चालम्चनाविदूर्ययोः ।८।३।६८।' इति पत्वम् । व्यष्टम्नादिति अव्य- वाये वे : '२२७३ । स्तन्भेः ।८।४।६७ । इति पत्वम् । '२५५५॥ स्तम्भु-स्तुम्भु -।३।१।८२।' इत्यादिना नाप्रत्ययः । सशब्दायामभ्यवहारक्रियायां स्वनतिर्वर्तते । नराणां विष्वणा इति सः । नरान् सशब्दमभ्यवहरन्त इत्यर्थः । '२२७४ । वेश्च स्वनो भोजने ।८।३।६९ ।' इति पत्वम् ॥ ७४६-विषह्य राक्षसाः क्रुद्धाः शस्त्र-जालमैवाकिरन्, ॥ यन् न व्यषहर्तेन्द्रो ऽपि; कपिः पर्यषहिष्ट तत् ॥७३॥ विषयेत्यादि --- विपद्य सोढा कपिचेष्टितमित्यर्थात् । '२१२३। सात्पदाथोः ।८।३।१११।' इति प्रतिषेधे प्राप्ते '२२७५ । परि-नि-विभ्यः ।८।३।७० ।' इति घत्वम् । राक्षसाः क्रुद्धाः शस्त्रजालमवाकिरन् विक्षिप्तवन्तः । लङि रूपम् । यच शस्त्रजालमिन्द्रोऽपि न व्यपहत न सोढवान् । लङि रूपम् । तत्कपिः पर्यष- हिष्ट । लुङि रूपम्। सहे: '२३५९। सिवादीनाम्- ।८।३।७१।' इत्यादिना विभाषा षत्वम् ॥ ७४७ – विष्यन्दमान- रुधिरो रक्त-विस्यन्द-पाटलान् ॥ B विष्कन्तून् परिघेणा ऽहन्न॑विस्कन्ता कपिर् द्विषः.७४ तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सगःJ २४७ विध्यन्देत्यादि – विष्यमारुधिरः रक्तः कपिः परिघेणाहन् दाडि तवान् । द्विषः शत्रून् । रक्तविस्यन्दुपाटलान् रक्तस्रुतिलोहितान् । '२३४९१ । अनु- वि-पर्यभि-तिभ्यः स्यन्दतेः- ।८।३।७२।' इति विभाषा पत्वं रक्तस्याप्राणित्वात् । विष्कन्तॄन् । विविधं स्कन्तुं गन्तुं शीलमेषामिति तृन् । अविस्कन्ता कपिः अग- मनशीलः स्थानशील इत्यर्थः । '२३९८ । वेः स्कन्देरनिष्टायाम् ।८।३।७३।' इति विभाषा षत्वम् ॥ ·७४८–मेघ-नादः परिस्कन्दन् परिष्कन्दन्तमश्वरम् ॥ अवनार्दपरिस्कन्दं ब्रह्म-पाशेन विस्फुरन् ॥ ७५ ॥ मेघनाद इत्यादि – मेघनाद इन्द्रजित परिस्कन्दन् परितो भ्रमन् । परि- कन्दन्तं परिभ्रमन्तमरिं कपिं ब्रह्मपाशेन ब्रह्मणा दत्तेन पाशेन शीघ्रमबझात् बद्ध्वान् । लिङि श्नाप्रत्यये रूपम् । '२३९९। परेश्च ।८।३।७४ ।' इति वा षत्वम् । अपरिस्कन्दं अप्राच्यभरतत्वात् । तेन 'परिस्कन्दः प्राच्यभरतेषु' इति निपात नम् । विस्फुरन् द्वेषाढुद्गच्छन्नित्यर्थः । '२५३७॥ स्फुरति स्फुलत्योः- ।८।३१७६११ इति विभाषा षत्वम् ॥ ७४९ - विस्फुलद्भिर् गृहीतो ऽसौ निष्फुल: पुरुषऽशनैः ॥ विष्कम्भितुं समर्थो ऽपि नाऽचलद् ब्रह्म-गौरवात्. ७६ विस्फुलद्भिरित्यादि — असौ कपिः पुरुषाशनैः राक्षसैः विस्फुलद्भिः हर्पा- चलद्भिगृहीतः । निष्फुल: सतेजाः । निष्फुलति दीप्यतीति पचाद्यच् । पूर्ववद्वि- भाषा षत्वम् । विष्कम्भितुं व्यापारितुं समर्थोऽपि ब्रह्मगौरवान्नाचलत् न चलितः । मा भून्मोघो ब्राह्मः पाश इति । '२५५६। वेः स्कनातेः- ।८।३।७७॥ इति षत्वम् । ७५० - कृषीढं भर्तुरानन्दं, मा न प्रोढुं द्रुतं वियत् ॥ वानरं नेतुमित्युच्चैरिन्द्र - जित् प्रावदत् स्वकान् ॥७७॥ कृषीद्वमित्यादि — भर्तुः रावणस्य आनन्दं कृषीङ्कं कुरुध्वम् । लिङि रूपम् । अतो वानरं द्रुतं नेतुं वियदाकाशं मा न प्रोढुं मा नोत्पतिष्ट । माडि लुङ् । '२२४७। इणः षीध्वम्- । ८।३।७७१' इति धकारस्य मूर्धन्यढकारः । इत्येवमुच्चे- रिन्द्रजित् स्वकान् भृत्यान् प्रावदत् । वदेर्लङि रूपम् ॥ ७५१ - 'गतम॑ङ्गलि - षङ्गं त्वां भीरु ष्ठानार्दिहा ऽऽगतम् ॥ खादिष्याम' इति प्रोचुर् नयन्तो मारुतिं द्विषः ॥७८॥ गतमित्यादि — अङ्गुलीनां सङ्गः अङ्गुलिषङ्गः । तं गतं प्राप्तं हस्तप्राप्तमि- त्यर्थः । '१०१९। समासेऽङ्गुले सङ्गः ।८।३।८०।' इति षत्वम् । भीरोः कातरस्य यत् स्थानं तस्माद्भीरुष्टानादिहागतम् । '१०२०। भीरो: स्थानम् । ८।३॥८१। इति षत्वम् । खादिष्याम इति प्रोचुः । द्विषो राक्षसा मारुतिं नयन्तो नेष्यन्तः । वर्तमानसामीप्ये भविष्यति लट् ॥ . भट्टिकाव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थो वर्गः, " ७५२- अग्निष्टोमादि-संस्थेषु ज्योतिष्टोमा॒ऽऽदिपु द्विजान् ॥ यो डरक्षीत् तस्य दूतो ऽयं मानुषस्ये॑ति चाऽवदन्. ७९ अग्नीत्यादि – अग्निष्टोमादिसंस्थपु सहशेषु ज्योतिष्टोमादिपु यो विज्ञानरक्षीत तस्य मानुपस्यायं दूत इति चावदन नयन्तो द्विषः । '९२४ । अग्नेः स्तुत्-स्तोम- सोमाः ।८।३।८२ । । १०२१। ज्योतिरायुपः स्तोमः ॥२।७३ । इन पत्वम् । ७५३ - नासां मातृ ष्वसेय्याश च रावणस्य लुलाव यः ॥ , २४८ मातुः स्त्रसुश च तनयान् खराऽऽदीन् विजधान यः ॥ नासामित्यादि-रावणस्य या मातुः स्वसा भगिनी सा मातृष्वसा । १९८४ मातृ-पितृभ्याम् –।८।३।८४॥ इति पत्वम् । तस्या अपत्यं मातृत्वसेयो '११४०/ मातृष्वसुश्च ।४।१।१३४ ।' इति ठगन्तलोपौ । तस्या यो नासां लुलाव । मातुः त्रसुश्च तनयान् खरादीन्निजधान । '९८३। मातुः पितुर्भ्यामन्यतरस्याम् ।८।३।८५॥ इति षत्वाभावपक्षे '९८२ । विभाषा स्वसृपत्योः ।६।३।२४॥ इति षष्ठ्या अलुक् ॥ ७५४ - प्रादुःपन्ति न संत्रासा यस्य रक्षः समागमे, ॥ तस्य क्षत्रिय- दुःपूर॑यं प्रणिधिरांगतः ॥ ८१ ॥ प्रादुरित्यादि- - यस्य रक्षःसमागमे संत्रासा: भयानि न प्रादुःषन्ति न प्रादुर्भवन्ति । '२४७२ । उपसर्गप्रादुर्भ्याम्- ।८।३।८७ ।' इत्यादिना दुःशब्दादुत्तर. स्यास्तिसकारस्य २४६९ असोरल्लोपः ।६।४।१११॥ इत्यल्लोपे कृते पत्वम् । प्रादुःसकारस्य च टुत्वम् । तस्य क्षत्रियदुःपूते: दुप्पुत्रस्यायं प्रणिधिरागत इति चावदन् नयन्तः । सूयत इति सूतिः । दुर्निन्दायामिति सूतेः सकारस्य '२४७७। सु-वि-निर्-दुर्ग्यः -- ।८।३।८८।' इति षत्वम् ॥ ७५५ दृष्ट्वा सुषुप्तं राजेन्द्रं पापो ऽयं विषमऽशयः ॥ चार - कर्मणि निष्णातः प्रविष्टः प्रमदा-वनम् ॥ ८२ ॥ दृष्ट्वेत्यादि -- राजेन्द्रं रावणं दृष्ट्वा प्रमदावनं प्रविष्टः । सुषुप्तं गाढनिद्वम् । '२४०९। वचि ।६।१।१५।' इत्यादिना सम्प्रसारणम् । पापोऽयं विषमाशयः । '२४७७ । सुपि-।८।३।८९' इत्यादिना पत्वम् । चारकर्मणि निष्णात: कुशलः । '३०८२ । नि-नदीभ्यां नातेः कौशले ।८।३।८९१९ ॥ इति पत्वम् ॥ कुलकम् ८३-८७- ७५६ - सुप्रतिष्णात सूत्राणां कपिष्ठल-सम-त्विषाम् ॥ स्थितां वृत्ते द्विजातीनां रात्रावैक्षत मैथिलीम् ॥८३ ॥ सुप्रतीत्यादि – येषां द्विजातीनां सुप्रतिष्णातानि ग्रन्थतोऽर्थतश्च निश्चिता नि सूत्राणि तेषां सुप्रतिष्णातसूत्राणाम् । '३०८३ । सूत्रं प्रतिष्णातम् ।८।३।१०॥ इति निपातनम् । कपिष्टलसमत्विषां कपिष्ठलो नाम द्विजर्षभो गोत्रप्रवर्तकः । तथा लक्ष्य रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २४९ '३०८४। कपिष्ठलो गोत्रे ।८।३।९११' इति साधुः । तत्तुल्यतेजसां द्विजातीनां वृत्ते चरिते स्थितां मैथिलीं [ रात्रौ ] ऐक्षत । कीदृशीमित्याह ७५७ - सर्व - नारी- गुणैः प्रष्ठां विष्टर-स्थां गवि-ष्ठिराम् ॥ शयानां कुष्ठले तारां दिवि ष्ठामिव निर्मलाम् ॥८४॥ सर्वेत्यादि — यावन्तो नारीगुणाः तैः ग्रष्टां अग्रगामिनीम् । १२१९७३ प्रष्ठो- ग्रगामिनि ।८।३॥१२।' इति साधुः । विष्टरस्थामासनस्थाम् । '३२३३॥ वृक्षास- नयोर्विष्टरः ।८।३।९३।' इति साधुः । गविष्ठिरां वाचि स्थिराम् । १९६७। गवि- युधिभ्याम्-।८।३।९५।' इति षत्वम् । अस्मादेव वचनात् सप्तम्या अलुक् । कुष्ठले शयानां कोः स्थलै भूतले शुद्धे । '३०९५ । मिकु-शमि ।८।३।९६।' इत्यादीना पत्वम् । दिविष्टां दिवि तिष्ठतीति '२९१६ । सुपि स्थः ।३।२।१४॥ इति कः । '९७२। तत्पुरुषे कृति बहुलम् ।६।३।१४।' इति सप्तम्या अलुक् । गगनस्थां तारामिव निर्मलाम् । '२९१८ । अम्बाम्ब - ।८।३।९७।' इत्यादिना पत्वम् ॥ ७५८ - सु-पानीं सर्व-तेजस्सु तन्वीं ज्योतिष्टमां शुभाम् ॥ नि॒िष्टपन्तीमि॑िवा ऽऽत्मानं ज्योतिःसात् कुर्वतीं वनम् ८५ सुपाम्नीमित्यादि – शोभनं साम यस्या इति विगृह्य '४६२ । अन उपधा- लोपिनोऽन्यतरस्याम् ।४।१।२८।' इति ङीप् । '१०२२। सुपामादिषु च ।८।३१- ९८ ' इति षत्वम् । सुष्टु प्रियंवदामित्यर्थः । तन्वीं कृशाम् । शुभां कल्याणीम् । सर्वतेजस्सु ज्योतिष्टमां अतिशयेन ज्योतिष्मतीम् । १३२५ । ह्रस्वात्तादौ तद्धिते ।८।३।१०१।' इति षत्वम् । एवं च कृत्वा निष्टपन्तीमिवात्मानं सकृज्वलयन्ती- मिवात्मानम् । '२४०३। निसस्तपतावनासेवने ।८।३।१०२ ।' इति षत्वम् । वनं ज्योतिःसात्कुर्वतीं अज्योतिर्ज्योतिः कुर्वाणाम् । कार्येन दीपवतीमित्यर्थः । कार्ये सातिप्रत्ययः । तत्र '४३४ । नुम् - विसर्जनीय ।८।३।५८।' इत्यादिना प्राप्तस्य षत्वस्य '२१२३ । सात्-पदाद्योः ।८।३।१११।' इति प्रतिषेधः । युष्मदि- त्यादि नोदाहृतं छान्दसत्वात् ॥ ७५९ - मधुसाद् भूत किञ्जलक- पिञ्जर-भ्रमराऽऽकुलाम् ॥ उल्लसत्- कुसुमां पुण्यां हेम रत्न लतामिव ॥ ८६ ॥ मध्वित्यादि-मधुसाद्भूतकिअल्कं कार्येन मधुवामापनं यत्किअल्कं पुष्पकेसरं तन्मधुसाद्भूतकिअल्कम् । '२१२ । आदेश-प्रत्यययोः ।८।३।५९॥ इति प्राप्तस्य पूर्ववत्प्रतिषेधः । तेन पिञ्जराः पिङ्गलाः ये भ्रमराः तैराकुलाम् । उल्लस- कुसुमां चलत्पुष्पाम् हेमरललतामिव । यथा हेमरत्नमय कल्पतरुलतां पुण्यां पवित्रां तद्वत्तमपीत्यर्थः ॥ ७६० - विलोचनाऽम्बु मुञ्चन्त कुर्वाणां परि-सेसिचाम् ॥ हृदयस्ये॑व शोकऽग्नि-संतष्ठस्यत्तम व्रताम् ॥ ८७ ॥ २५० भट्टि काव्ये -- द्वितीयेऽधिकार काण्डे लक्षण रूपे चतुर्थी वर्गः, विलोचनेत्यादि — विलोचनाम्बु अश्रु मुञ्चन्तीं विक्षिपन्तीम् । हृदयस्य शोकाग्निसंतप्तस्य परिसेसिचाम् भृशं निर्वाणमिव कुर्वाणामैक्षतेति पूर्वेण संबन्धः । सिचेर्वङन्तात् स्त्रीलिङ्गे भावे अकारप्रत्ययः । '२२७०१ उपसर्गात् ।८।३।६५। इत्यादिना अभ्यासव्यत्रायेऽपि प्राप्तस्य पत्वस्य '२६४० । सिचोय ।८।३।० ११२। इति प्रतिषेधः । उत्तमतां पतिव्रतां पतिव्रतात्वात् ॥ ७६१ दृष्ट्वा ताम॑भनम् वृक्षान् द्विषो झन् परिसेधतः ॥ परितस् तान् विचिक्षेप क्रुद्धः स्वयमि॑वा sनिलः ८८ हवेत्यादि — तां दृष्ट्वा वृक्षानभनक् चूर्णितवान् । द्विपः शत्रून् परिसेधतः आगच्छतः झन् हिंसन् । पूर्ववत्प्राप्तस्य '२२७८ । सेघर्गतौ ।८।३।११३॥ इति प्रतिषेधः । परितश्च समन्तादुविचिक्षेप उन्मूलितवान् । लिटः संयोगादित्वाद- कित्त्वे गुणः । क्रुद्धः स्वयमिव साक्षादिवानिलः ॥ ७६२ - अ - प्रतिस्तव्ध - विक्रान्तम॑-निस्तव्धो महा॒ऽऽहवे, ॥ विसोढवन्तम॑स्त्राणि व्यतस्तम्भद् घन-ध्वनिः ॥ ८९ ॥ अप्रतीत्यादि – वनध्वनिर्मेघनाद : अनिस्तब्धोऽनभिभूतः अप्रतिस्तव्धवि. क्रान्तं अनभिभूतविक्रमं कपिम् । '२२७२ । स्तन्भेः ।८।३।६७ ।' इति प्राप्तस्य षत्वस्य '३०२७। प्रतिस्तब्ध - निस्तब्धौ च ।८।३।११४ । इति प्रतिषेधनिपातनम् । अस्त्राणि महाहवे विसोढवन्तं '२३५८ । सोढः ।८।३॥१५।' इति प्रतिषेधः । व्यतस्तम्भत्, निष्पादितवान् । एवं नयन्तोऽवदन्निति योज्यम् । स्तम्भेर्ण्यन्तस्य '२५८०। स्तम्भु-सिवु-सहां चङि ।८।३।११६।' इति पत्वप्रतिषेधः ॥ ७६३ - ते विज्ञाया ऽभिसोप्यन्तं रक्तै रक्षांसि स-व्यथाः ॥ अन्यैर॑ण्या॑यतं नेहुर् वरत्रा-शृङ्खऽऽदिभिः ॥ ९० ॥ त इत्यादि - ते राक्षसाः ये मारुति नेण्यन्तः । रक्तैः रक्षांसि विसोप्यन्तं अभिषेक्ष्यन्तं कपिम् । '२५२४ । सुनोतेः स-सनोः ।८।३।११७ । इति [ न ] षत्वम् । यद्याकृष्यमाणो न नीयेत अवश्यं राक्षसान् रक्कैः सोप्यतीति विज्ञाय सव्यथाः सभयाः सन्तः अन्यैरपि वस्त्राशृङ्खलादिभिरायतं दीर्घं नेहुः बध्नन्ति स्म । '१२४१॥ गह बन्धने' इत्यस्य लिटि रूपम् ॥ ७६४ – विषसादे॑न्द्रजिद् वुवा वन्धे वन्धाऽन्तरक्रियाम् ॥ दिव्य-वन्धो विषहते ना ऽपरं बन्धनं यतः ॥ ९१ ॥ इति षत्वाधिकारः । विषसादेत्यादि — बन्धे दिव्ये बन्धान्तरक्रियां बन्धनविशेषकरणं बुद्धा इन्द्रजित् विषसाद विषादमुपगतः । नियतं दिव्यबन्धं मुक्तवानिति । यतो दिम्पबन्धो नापरं स्वयं बन्धनं विषहते । अतो विषसादेति योज्यम् । सदिसि- तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २५१ ज्योः परस्य लिटि षत्वप्रतिषेधः । पूर्वस्य तु ' २२७१ । 'सदिरप्रतेः ।८।३।६६॥ इति भवत्येव । विषहत इति न प्रतिषेधः । तत्र सोइरूपस्य ग्रहणात् ॥ इति मूर्धन्याधिकारः ॥ इतः प्रभृति णत्वमधिकृत्याह७६५ - मुष्णन्तमि॑िव तेजांसि विस्तीर्णोरस्-स्थलं पुरः । उपसेदुर्दश-ग्रीवं गृहीत्वा राक्षसाः कपिम् ॥ १२ ॥ मुप्णन्तमित्यादि- राक्षसाः पुरः कपिमादाय दशग्रीवमासेदुः ढौकित- चन्तः । नतु दर्शनगोचरं गताः । अप्रभातत्वात् । कीदृशम् । तेजांसि मुष्णन्तं खण्डयन्तमिव विस्तीर्णोरःस्थलं विस्तृतवक्षसम् । तत्र '२३५ । र-षाभ्यां नो णः -।८।४।१।' इति णत्वम् ॥ ७६६ - बहुधा भिन्न- मर्माणो भीमाः खरणाऽऽदयः ॥ अग्रे-वर्ण वर्तमाने प्रतीच्यां चन्द्र मण्डले ॥ ९३ ॥ वहुघेत्यादि - वानरद्विषो राक्षसा ऊचुरिति वक्ष्यमाणेन संबन्धः । कीदृशाः किमूचुरित्याह – बहुधा भिन्नमर्माण इति । यानि कालान्तरे प्राणहराणि मर्माणि तानि बहुधा भिन्नानि येषामिति बहुव्रीहिः । अपवर्गसमुदायस्य व्यवधानान् '१९७॥ अट्-कु-प्वाङ्–।८।४।२। इत्यादिना णत्वम् । खरणसादयः खरस्येव । नासिका यस्येति । '८५६ । अञ् नासिकायाः ।५।४।११८।' इत्यञ् नसादेशश्च । '८५७ । पूर्वपदात्संज्ञायाम् ।५।४।११८॥ इति णत्वम् । खरणसादयो राक्षसाः वनस्याग्रे अग्रेवणम् । राजदन्तादित्वात्परनिपातः । १०३९। वनं - पुरंगा - ।८।४।- ४।' इति णत्वम् । प्रतीच्यां दिशि यद्वनं तस्य वनस्याग्रे उपरि वर्तमाने चन्द्रम- ण्डले प्रभातसंध्यायामित्यर्थः ॥ ७६७ - निर्वणं कृतमु॑द्यानम॑नेना ऽऽम्रवणाऽऽदिभिः ॥ देवदारु - वम रि॑ित्यूचुर् वानर-द्विषः ॥ ९४ ॥ निर्वणमित्यादि - उद्यानं संनिवेशविशेषः निर्वणं वृक्षरहितं अनेन कपिना कृतम् । आम्रवणादिमिरुपलक्षितम् । उभयत्रापि १०५०। प्रनिरन्तः ।८।४॥५॥ इति णत्वम् । देवदारुवनामिश्रः '१०५१॥ विभाषौषधि ।८।४।६॥ इत्यादिना णत्वं न भवति । 'यक्षर-त्र्यक्षरेभ्य इति वक्तव्यम्' इति वचनात् । इत्येवमूचुः ॥ ७६८ - उपास्थिषत संप्रीताः पूर्वाह्ने रोष-वाहणम् ॥ राक्षसाः कपिर्मादाय पतिं रुधिर पायिणाम् ॥ १५ ॥ उपेत्यादि — ते राक्षसाः पतिमुपास्थिषत उपागताः । दृष्टिपथं गता इत्यर्थः । ' उपादेवपूजा-' इत्यादिना संगतिकरणे तङ् । '२३८९ । स्था-वोरिच । १।२।१७। संप्रीता: हृष्टाः तेषामनुज्ञातप्रवेशस्वात् । पूर्वाह्न प्रत्यूषसि । १७९१ । अह्नो- उदन्तात् ।८।४।७।' इति णत्वम् । रोषवाहणं कपिमादाय । रोषस्यासनीकृतम् । २५२ भट्टि- काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः, '१०५२। वाहनमाहितान् ।८।४।१८।' इति णत्वम् । रोपस्य तत्राधीयमानत्वात् । पति रुधिरपायिणां राक्षसानाम् । १०५३। पानं देशे ।८।४।१९।' इति णत्वम् ॥ ७६९ - सुरा-पाण- परिक्षीवं रिपु-दर्प-हरोदयम् ॥ पर स्त्री वाहिनं प्रापुः साऽऽविष्कारं सुरा-पिणः ९६ सुरेत्यादि—सुरापाणात्परिक्षीवं मत्तं रावणम् । '१०५४ वा भाव-करणयोः ।८॥४।१०।' इति णत्वम् । रिपुदर्पहर उदयो वृद्धिर्यस्य तम् । परस्त्रियं वाहयितुमुपभोक्तुं शीलं यस्य तं परस्त्रीवाहिनम् । '१०५५ । प्रातिपदिकान्त - 1८।१४ । ११ । ' इति णत्वाभावः पाक्षिकः । प्रापुः सुष्टु निकटीकृताः । साविष्काराः साहंकाराः । सुरापिणः सुरापैर्युक्ताः । सुरां पिबन्तीति '२९२२ । गापोष्टक् ।३।२।८॥ ते येषां सन्तीति मत्वर्थीयः । '३०७। एकाजुत्तरपदे णः ।८।४।१२।' इति णत्वम् । उत्तरस्य प्रातिपदिकान्तस्यैका स्वात् ७७० - संघर्ष योगिणः पादौ प्रणेमुस् त्रिदश-द्विपः ॥ M प्रहिण्वन्तो हनूमन्तं प्रमीणन्तं द्विपन्-मतीः ॥ ९७ ॥ समित्यादि – संघर्षयोगिणः स्पर्धायोगिनः । '१०५६ । कुमति च ।८।४।१३। इति णत्वम् । ते अन्योन्याभिभवेच्छया त्रिदशद्विषो रावणस्य पादौ प्रणेमुः । '२२८७), उपसर्गादसमासेऽपि - ।८।४।१४।' इति णत्वम् । हनूमन्तं प्रहिण्वन्तः ढौकयन्तः । द्विषन्मतीः शत्रुबुद्धी: प्रमीणन्तं अभिभवन्तम् । '१५७१। मीञ् हिंसायाम् ।' त्रैयादिकः । '२५३० । हिनु मीना ।८।१४।१५।' इति णत्वम् ॥ ७७१ - 'प्रवपाणि शिरो भूमौ वानरस्य वनच्छिदः ॥' " आमन्त्रयत संक्रुद्धः समितिं रक्षसां पतिः ॥ १८ ॥ प्रवपाणीत्यादि - अस्य वानरस्य वनच्छिदः शिरो भूमौ प्रवपाणि छित्त्वा पातयामि । '२२३१॥ आनि लोट् ।८।४।१६।' इति णत्वम् । वपिरत्र पातने वर्तते । संक्रुद्धः रक्षसां पतिः स्वामी समिति समूहं आमन्त्रयत भाषितवान् ॥ ७७२ - प्रण्यगादीत् प्रणिघ्नन्तं घनः प्रणिनदन्निव ॥ x ततः प्रणिहितः स्वाऽर्थे राक्षसेन्द्रं विभीषणः ॥ ९९ ॥ प्रण्यगादीदित्यादि — तत उत्तरकालं विभीषणो राक्षसेन्द्रं प्रणिघ्नन्तं हन्तुमारभमाणं प्रण्यगादीत् वक्तुं प्रवृत्तः । घन इव प्रणिनदन् गर्जन् । स्वार्थे । राक्षसेन्द्रस्य प्रणिहितोऽवहितमनाः । सर्वत्र '२२८५) नेर्गद-1८।४।१७।' इति णत्वम् ॥ ७७३–प्रणिशाम्य दश-ग्रीव !, प्रणियातुर्मलं रुपम् ॥ प्रणिजानीहि, हन्यन्ते दूता दोषे न सत्यपि.' ॥१०॥ . प्रणिशाम्येत्यादि — हे दशग्रीव ! प्रणिशाम्य रोषं त्यज । लोटि श्यनि रूपम् । '२५१९ । शमामष्टानाम्- ।७।२।७४।' इति दीर्घः । रुषं प्रणियातुमलं न तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २५३ किंचित् । पूर्ववण्णत्वम् । प्रणिजानीहि अवगच्छ । सत्यपि दोषे न हन्यन्ते दूता इति । जानातेः शेषधातोरुपदेशावस्थायां अकखाद्यपान्तत्वात् । '२२३२ । शेषे विभाषा - ।८।४।१८। इत्यादिना णत्वम् ॥ ७७४ - प्राणयन्तर्मरिं प्रोचे राक्षसेन्द्रो विभीषणम् ॥ 'प्राणिणिपुर् न पापो ऽयं, यो Sभाङ्क्षीत् प्रमदा-वनम् ॥ १०१ ॥ प्राणयन्तमित्यादि – अरिं कपिं यः प्राणयति जीवयति तं प्राणयन्तं विभी- पणम् । ११४३ श्वस प्राणने ।' '११४४॥ अन च' इत्यस्य रूपम् । ८२४७८ । अनितेः ।८।४।१९।' इति णत्वम् । प्रोचे राजसैन्द्रः । न प्राणिणिषुः न जीवितु- मिच्छुरयं पापः । '२६०६। उन साभ्यासस ।८।४।२१॥ इति यत्वं योरपि । योSभाङ्क्षीत् भन्नवान् प्रमदावनम् । हलन्तलक्षणा वृद्धिः ॥ ७७५ - प्राघानिषत रक्षांसि येना ssतानि वने मम ॥ न प्रहण्मः कथं पापं वद पूर्वाऽपकारिणम् ॥१०२॥ प्राधानिषतेत्यादि - मम आप्तानि अक्षप्रभृतीनि येन वने प्राधानिषत मारितानि । कर्मणि लुङ् । चिवदि । '३५८ । हो हन्तेः ।७।३।५४।' इति घत्वम् । तपरपरिच्छिन्नाकारपूर्वस्य नकारस्य 'हन्तेरत्पूर्वस्य' इति गत्वं न भवति । तं पूर्वापकारिणं पापं कथं न ग्रहण्मः भारयाम इति वद कथय । '२४२९॥ मोर्वा ।८।४॥२३।' इति णत्वम् ॥ ७७६–वेश्माऽन्तर्-हणनं कोपान् मम शत्रोः करिष्यतः ॥ मा कार्षीरि॑ऽन्तयणं, प्रयाणा॒ऽर्हम॑वेह्य॑मु॒म् ॥ १०३ ॥ वेश्मेत्यादि – शत्रोर्वेश्मान्तः गृहमध्य एव हननं कोपान्मम करिष्यतः । * ३२९४ । अन्तर देशे ।८।४।२४॥ इति दकारस्य णत्वम् । हननस्याभावरूपस्यादे- शत्वात् । अन्तरयणमन्तरायणं विघातं मा कार्षीः । '३२९५। अयनं च ।८।४॥२५। इति णत्वम् । प्रयाणा दीर्घप्रस्थानार्हममुमवेहि अवगच्छ । '२८३५॥ कृत्यचः ।८।४॥२९॥ इति णत्वम् । अच उत्तरस्य नकारस्य कृत्स्थत्वात् ॥ ७७७ – प्रहीण जीवितं कुर्युर् ये न शत्रुमुप॑स्थितम् ॥ न्याय्याया अपि ते लक्ष्म्याः कुर्वन्त्या॑शु प्रहापणम् १०४ प्रहीणेत्यादि – शत्रुभुपस्थितं महीणजीवितं ये न कुर्युः । जहातेः '३०१९४ ओदितश्च ।८।२।४५॥ इति निष्ठादेशनकारस्य पूर्ववण्णत्वम् । ते न्याय्याया अपि कुलक्रमादागताया अपि लक्ष्म्याः प्रहापणं त्याजनं आशु कुर्वन्ति । '२८३६ । र्वि- भाषा ।८।४।३०।' इति णत्वम् ॥ भ० का० २२ २५४ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः, ७७८–कः कृत्वा रावणा॒ऽऽमर्प- प्रकोपणम॑वद्य-धीः ॥ शक्तो जगति शक्रो ऽपि कर्तुमा॑युः - प्रगोपणम् ॥१०५॥ कः कृत्वेत्यादि - अवद्यधीः योऽबुद्धिः रावणामर्पस्य प्रकोपणमभिवृद्धिं कृत्वा आयुःप्रगोषणं कर्तुं शक्रोऽपि कः शक्तः । '२८३७ । हलश्चेजुपधात् ।८।४।३१। इति णत्वम् । कुपगुपयोर्हलन्तयो रिगुपधत्वात् ॥ ७७९ - वनाऽन्त-प्रेङ्खणः पापः फलानां परिणिंसुकः ॥ प्रणिक्षिष्यति नो भूयः प्रणिन्द्या ऽस्मान् मधून्य॑यम् ॥ वनेत्यादि — प्रेङ्खति गच्छतीति अपूर्वादिङ्खेः कर्तरि ल्युट् । वनान्तय वन- समीपस्य प्रेङ्खणः । '२८३८ । इजादेः सनुमः ।८।४॥३२॥ इति णत्वम् । फलानां परिणिंसकः भक्षयिता । '१०९६ । णिसि चुम्बने' इत्यस्य रूपम् । अस्मान् प्रणिन्द्य तिरस्कृत्य । भूयः पुनरप्ययं मधूनि नोऽस्माकं प्रणिक्षिष्यति भोक्ष्यति । '७०७। णिक्ष चुम्बने' इत्यस्य रूपम् । १२८३९ । वा निस- निक्ष- निन्दाम् । ८।३।३३॥ इति त्वम् ॥ ७८० - हरेः प्रगमनं नाऽस्ति, न प्रभानं हिम-द्रुहः ॥ , · ॥ १०७ ॥ चन्द्रस्य वा ना ऽति - प्रवेपनं वायोर् मया गोपायिते वने हरेरित्यादि- - मया गोपायिते रक्षिते वने हरेरिन्द्रस्यापि प्रगमनं संचारो नास्ति । हिमद्रुहः आदित्यस्य न प्रभानं न प्रकर्पेण दीप्तिः । चायोर्नातिप्रवेपनं मन्दगमनम् । तदनेन भग्नमित्यर्थात् । २८३५ । कृत्यचः १८ । १४।२९॥ इति प्राप्तस्य णत्वस्य '२८४० । न भा-भू-पू- कमि-गामि - ।८।४।३४॥ इत्यादिना प्रतिषेधः ॥ ७८१ - दुष्पानः पुनरैतेन कपिना भृङ्ग-संभृतः ॥ 3 प्रनष्ट - विनयेना ऽयः स्वादुः पुष्पाऽऽसवो वने. १०८ दुप्पान इत्यादि - पुनरेतेन प्रनष्टविनयेन कपिना पुप्पासवो दुष्पानः दुःखेन पास्यत इति '३३०९। आतो युच् ।३।३॥२८।' । '३३१०॥ पापदान्तात् ।८॥४।३५॥ इति णत्वस्य प्रतिषेधः । भृङ्गसंभृतो भ्रमरसंचितः । प्रनष्ट इति ८ २९१८ । नशेः षान्तस्य ।८।४।३६।' इति प्रतिषेधः । अग्र्यः श्रेष्टः ॥ ७८२ – रोप-भीम-मुखेनैवं क्षुभ्रतक्ते, प्लवङ्गमः ॥ प्रोचे सऽऽनुनयं वाक्यं रावणं स्वाऽर्थ-सिद्धये.१०९ इति णत्वाऽधिकारः । रोषेत्यादि – रोष भीममुखेन इति '१०५७। पदव्यवायेऽपि ।८।३॥३८।' इति णत्वप्रतिषेधः । भीममुख इत्यनेन निमित्तनिमित्तिनोर्व्यवधानात् । '७९२ । क्षुम्नादिषु च । ८ । १४॥३१।' इति णत्वप्रतिषेधः । एवमुक्ते सति लवङ्गमः तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २५५ रावणं प्रोचे वक्तुं प्रवृत्तः । वाक्यं वक्ष्यमाणं सानुनयं अनुकूलम् । किमर्थं स्वार्थस्य सिद्धये । स्वार्थश्च सोताप्रत्यर्पणम् ॥ ॥ इति णत्वाधिकारः ॥ इतः प्रभृति प्रकीर्णकश्लोकानाह- ७८३ - 'दूतमेकं कपिं वद्धर्मानीतं वेश्म पश्यतः ॥ लोक - त्रय पतेः क्रोधः कथं तृण-लघुस् तत्र. ॥११०॥ दूतमित्यादि - दूतं संदेशस्य हारकं एकमद्वितीयं बद्धं अस्वतन्त्रीकृतं वेश्मा- नीतं पश्यत इति सर्वमेतन्न रोषकारणम् । अतो लोकत्रयपतेस्तवायं तृणवल्लधुर- सारः कथं कोपः ॥ ७८४ – अन्याहित जन-प्र विजिगीपा-पराङ्मुखे ॥ कस्माद् वा नीति निष्णस्य संरम्भस् तव तापसे. १११ अग्नीत्यादि —–अनयाहितजनप्रह्वे आहिताग्नौ जने प्रवणे । वाहिताझ्यादिषु पूर्वनिपातः । तस्मिन् विजिगीषापराङ्मुखे त्यक्तराज्यत्वात् तापसे रामे । '१९०९॥ तपःसहस्राभ्यां विनीनी ।५।२।१०२।' । '१९१० । अण् च ।५।२।१०३।' इत्यण् । नीतिनिष्णस्य तव । नीतौ पटुप्रज्ञस्य कस्माद्धेतोः संरम्भः रोषः ॥ ७८५ - न सर्व-रात्र कल्याण्यः स्त्रियो वा रत्न-भूमयः ॥ यं विनिर्जित्य लभ्यन्ते, कः कुर्यात् तेन विग्रहम्. ११२ नेत्यादि—यं विनिर्जित्य सर्वरात्रं कल्याण्यः स्त्रियो न लभ्यन्ते । सर्वाश्च ता रात्रयश्चेति '७२६ । पूर्वकाल ।२।१।१९।' इति सः । ८७८७ । अहः सर्व-।५।४।८७ । इत्यादिना अच् । सर्वरात्रं कल्याण्य इति सः । न रत्नभूमयः रत्नाकरा: रत्नानि भूमयश्चेति सः । कः तेन सह विग्रहं कुर्यात् सन्धिरेव युक्तः ॥ = तदेव दर्शयन्नाह ७८६ - संगच्छ राम-सुग्रीवौ भुवनस्य समृद्धये ॥ रत्न-पूर्णावि॑वा ऽम्भोधी हिमवान् पूर्व-पश्चिमौ. ११३ संगच्छेत्यादि-यथा रखपूर्णांवम्भोनिधी पूर्वपश्चिमी भुवनस्य समृद्धये हिमवान् संगतवान् तथा त्वमपि रामसुग्रीवौ भुवनस्य समृद्धये संगच्छ संगति कुरु । सकर्मकत्वात् '२६९९ । समो गमि-।१।३।२९। इति तङ् न भवति ॥ तञ्च संततं परदारार्पणेनैवेति दर्शयन्नाह "" ७८७ - सुहृदौ राम-सुग्रीवौ, किंकराः कपि-यूथ-पाः ॥ पर-दारा॒ऽर्पणेनैव लभ्यन्ते, मुञ्च मैथिलीम् ॥११४॥ सुहृदावित्यादि —रामसुग्रीवौ सुहृदौ लभ्येते । ८८८ । सुहृदुहृदौ मित्रामित्रयोः–।५।४।१५०।' इति निपातनम् । तत्प्रीतिलाभात् किङ्करा लभ्यन्ते । किं २५६ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः, कुर्वन्तीति '२९३५ । दिवा - विभा ।३।२।२१।' इति टः । कपि-यूथपा नीलप्रभु- तयः । तस्मान्मुञ्च मैथिलीमिति ॥ किंच सीताप्रत्यर्पणात् पुरुषार्थप्राप्तिरिति दर्शयन्नाह -- ७८८ - धर्म प्रत्यर्पयन् सीतामर्थ रामेण मित्रताम् ॥ कामं विश्वास वासेन सीतां दत्त्वा ऽऽनुहि त्रयम्. ११५ धर्ममित्यादि - सीतां प्रत्यर्पयन् धर्मम् । अधर्मविरतेः अर्थम् । रामेण त्रताम् । सर्वलाभानामर्थसंपन्नमित्रलाभस्य महत्त्वात् । विश्वासवासेन रामवि- श्वासपूर्वकेणावस्थानेन कामम् । अतः सीतां दत्त्वा आप्नुहि लभस्व । त्र्यं त्रिवर्ग त्रयोऽवयवा अस्येति । १८४४ । द्वि-त्रिभ्यां तयसायज्वा ।५।२।४३॥ ॥ रिपुरेवास्तु किं तेन मित्रीकृतेन, न वासौ शक्तोऽपकर्तुमिति चेद्राह- ७८९ - विराध - ताडका - बालि-कबन्ध - खर-दूषणैः ॥ न च न ज्ञापितो याहङ् मारीचेना ऽपि ते रिपुः ॥ ११६॥ विराधेत्यादि — यादृगसौ रिपुः तादृग्विराधादिभिः न च न ज्ञापितः तव । अपि तु ज्ञापित सुवेत्यर्थः । तस्मात्तेन सह मैत्री युक्ता न विग्रह इति भावः । याहगिति '४२९ । यदादिषु दृशः - । ३शश६०॥ इति किन् । '४३० । आ सर्वनाम्नः । ६।३।९१ ॥ ॥ खरादीन् व्यापादयता तेनैव वैरकारणमाचरितं न मयेति चेदाइ - ७९० – खरा॒ऽऽद-निधनं चा ऽपि मा मंस्था वैर-कारणम्, ॥ आत्मानं रक्षितुं यस्मात् कृतं तन्न जिगीपया'. ११७ खरेत्यादि —–— खरादिनिधनं चापि वैरकारणं मा भंस्थाः मा ज्ञासीः । लुङि रूपम् । यस्मादात्मानं संरक्षितुम् तत् खरादिनिधनं कृतं, न तु जिगीपया विजेतुमिच्छया ॥ ७९१ - ततः क्रोधाऽनिलाऽऽपात- कम्प्रा॒ऽऽस्या॒ऽम्भोज-संहतिः ॥ महा-हद इव क्षुभ्यन् कपिमह स्म रावणः ॥ ११८ ॥ तत इत्यादि — ततः कपिवाक्यानन्तरं क्रोधोऽनिल इव तस्यापातेन संश्लेषेण कम्प्रा कम्पनशीला आस्याम्भोजानां मुखपद्मानां संहतिर्यस्य स एव महाहूद इव क्षुभ्यन् चलन् । दिवादित्वाच्छयन् ॥ ७९२ - 'हत-राक्षस-योधस्य विरुग्णौद्यान-शाखिनः ॥ दूतो ऽस्मीति ब्रुवाणस्य किं ? दूत- सदृशं तव ॥११९ ॥ तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवनः सर्गः- २५७ हतेत्यादि- इ-हताः राक्षसयोधाः अक्षमभृतयो येन । विरुग्णा भग्नाः । १३०१९ । ओदितश्च ।८।२।४५॥ इति निठानत्वम् । उद्यानशाखिनो येन । तस्यैवंवि- धस्य तब दूतो ऽस्मीति त्रुवाणस्य किं दूतसदृशम् ? । संदेशमात्रस्य प्रापका हि दूता इति भावः ॥ अभ्याहितजवन वापसे कस्मात्संरम्भ इत्याह- ७९३ – पशु-वाल स्त्रियो निघ्नन् कवन्ध-खर-ताडकाः ॥ 5 तपस्वी यदि काकुत्स्थः कीदृक् ? कथय पातकी. १२० पडयालेत्यादि- पमहविकलं कवन्धं, बालं खरं, स्त्रियं ताडकां निशन् व्यापादयन् यदि तपस्त्री काकुत्स्थः कीदृक् पातकीति कथय । '१०१८ । इर्द- किमोरीश की ।६।३।९० ॥ यदुक्तं 'यं विनिर्जित्य स्त्रियो रत्तनुसयश्च न लभ्यन्ते' इत्याह - ७९४–अभिमान-फलं जानन महत्त्वं कथर्मुक्तवान् ॥ रत्ना॒ऽऽदि-लाभ-शून्य - त्वान् निष्फलं राम-विग्रहम् १२१ अभीत्यादि – अभिमानः फलं यस्य महत्त्वस्य तज्जानन् रखादिलाभशून्यं रामविग्रहं कथं निष्फलमुकवानासे ? । विग्रहे सति अभिमानफलं महत्त्वं स्यात् ॥ 'सीतां प्रत्यर्पयन् धर्मनामुहि' इत्येतदप्ययुक्तमित्याह -७९५-पर-स्त्री-भोग-हरणं धर्म एव नराऽशिनाम् ॥ , मुखम॑स्तत्य॑भाषिष्ठाः, का ? मे सssशङ्कता त्वयि १२२ परेत्यादि – परस्त्रीणां हरणं परेषां भोगहरणं च द्वयमपि नराशिनां धर्म एव आचार एव । अतो मुखमस्तीत्यभाषिष्टाः अभिहितवानसीति सीतां प्रत्यर्प- यन् धर्ममामुहीति । लुङि रूपम् । भयात् प्रत्यर्पयसि चेदाह -का मे साशङ्कता वयीति त्रैलोक्यविजयित्वात् । त्वयीति हनुमव्यपदेशेन रामं सूचयति ॥ 'संगच्छ रामसुग्रीवौ' इत्येतदपि न घटत इत्याह- ७९६ - ब्रूहि दूर-विभिन्नानार्मृद्धि-शील-क्रिया॒ऽन्वयैः ॥ हनूमन् ! कीदृशं सख्यं ? नर-वानर रक्षसाम् ॥ १२३॥ ब्रूहीत्यादि — ऋच्या विभूत्या, शीलेन स्वभावेन, क्रियया अनुष्ठानेन, अन्वयेन कुलेन दूरविभिन्नानां नरादीनां कीदृशं सख्यमिति ? हे हनूमन् ! त्वमेव ब्रूहि ॥ 'विराधादिभिर्ज्ञापितोऽसि याडगरिः' (७८९) इत्यत्रोत्तरमाह ७९७ - एको द्वाभ्यां विराधस् तु जिताभ्याम॑-विवक्षितः ॥ हतशू छलेन मूढोऽयं, तेना ऽपि तव कः स्मयः ? १२४ २५८ भट्टि काव्ये - द्वितीयेऽधिकार काण्डे लक्षण-रूपे चतुर्थी वर्गः, एक इत्यादि — एकेनापि विराधेन प्रथमं द्वावपि जितौ ताभ्यां पञ्चद्धतः । तत्रापि न प्रकाशं अपि तु छलेन । यतो ऽसौ मूढोऽल्पबुद्धिः । तथाप्यविवक्षितः 'शौर्यान्न प्रतीतः । तेनापि हतेन तव विस्मयो जातः ॥ ७९८ - मन्- नियोगाच् च मारीचः पलायन-परायणः ॥ युयुत्सा-रहितो रामं ममारा ऽपहरन् वने ॥ १२५ ॥ मन्नियोगादित्यादि — मारीचस्तु यतो राममपहरन् ममार । मन्नियोगा- दादेशात् । पलायनपरायणः अपसर्पणनिष्टः सन् । पलायनपरायण इति परस्य नामरूपत्वादनुपसर्गत्वान्न लत्वम् । युयुत्सारहितः योद्धुमिच्छारहितः । मन्नियो- गादिनि '१३७३ । प्रत्ययोत्तरपदयोश्च ।७।२।९८१' इति अस्मदो मदादेशः ॥ ७९९ - निजघाना ऽन्य संसक्तं सत्यं रामो लता-मृगम् ॥ M त्वमेव ब्रूहि संचिन्त्य, युक्तं तन् महतां यदि ॥१२६॥ निजघाने त्यादि - रामो लतामृगं वानरं वालिनं निजघानेति सत्यमेतत् । किंतु अन्यसंयुक्तं सुग्रीवेण सह युध्यरानं हतवान् । तच त्वमेव संचिन्त्य ब्रूहि युक्तं तन्महतां यदि । ८०० - पुंसा भक्ष्येण बन्धूनार्मात्मानं रक्षितुं वधः ॥ क्षमिष्यते दशाऽऽस्येन, क्व-त्यैयं तव दुर्मतिः.' १२७ पुंसेत्यादि-आत्मानं रक्षितुं पुंसा भक्ष्येण भक्षणार्हेण । सतां बन्धूनां खरदूषणादीनां बधो दशास्येन क्षमिप्यते सहिप्यते कत्येयं क्वभवेयं तव दुर्मति- बुद्धिः । कशब्दात् '१३२४ । अव्ययाय । ४।२।१०४।' 'अमेह क्व-त-सि-त्रेभ्यः' इति परिगणनात् ॥ इदानीं कपिर्दशाननोकं दूषयन्नाह ८०१ - कपिर् जगाद द्रुम - राक्षस - विध्वंसमका बुद्धि-पूर्वकम् ॥ २२८ ॥ कपिरित्यादि — तव दर्शने अन्य उपायो नास्तीति बुद्धिपूर्वकं निरूप्य द्रुम- भङ्गं राक्षसविनाशं च उपायमकार्षं कृतवानस्मीति कपिर्जगाद । अन्यथा दूतो- हमागत इति मदावलिप्तः को मां गणयेत् ? । अतः सदृशमेव मया कृतमिति ॥ - 'दूतो ऽहर्मुपायं तव दर्शने ॥ " ८०२ - आ - त्रिकूटर्मकार्पुर् ये त्वत्- का निर्-जङ्गमं जगत् ॥ दशग्रीव ! कथं ब्रूषे ? तान॑-वध्यान् मही-पतेः ॥१२९॥ आत्रीत्यादि — हे दशग्रीव ! ये त्वत्काः त्वग्रामणीकाः कबन्धादयः । '१८७८ स एषां ग्रामणीः ।५।२।७८ ।' इति कन् । आ त्रिकूटं त्रिकूटपर्वतमभिव्याप्य जगत् निर्जंङ्गमं निर्जन्तुकमकार्षुः । तान् महीपतेः रामस्य कथमवध्यान् ब्रूषे ? । अशिष्टनिग्रहो हि महीपतेर्धर्मः । जङ्गम इति गमेर्यङ्लुगन्तस्यापि रूपम् ॥ . तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः- २५९ - ८०३ - अभिमान फलं प्रोक्तं यत् त्वया राम-विग्रहे, ॥ विनेशुस् तेन शत-शः कुलान्येसुर रक्षसाम् ॥१३०॥ अभीत्यादि - 'मा भूडामविग्रहे रत्नादिलाभः अभिमानफलं महत्त्वमस्ति' इति या मोक्तं तेन निमित्तेन शतशोऽनेकशः असुररक्षसां कुलानि विनेशुः विनष्टानि ॥ ८०४ - यत् स्व-धर्मर्म-धर्म त्वं दुर्-वलं प्रत्यपद्यथाः ॥ रिपौ रामे च नि:-शङ्को, नैतत् क्षेमंकरं चिरम् ॥ १३१॥ यत्स्वेत्यादि - यदधर्म परस्त्रीभोगहरणं दुर्बलं असारं अश्रेयसां आवाहक- त्वान् । स्वधर्ममात्मीयमाचारं त्वं प्रत्यपद्यथाः प्रतिपन्नवानाम 'स्वधर्म एत्र नरा- शिनाम्' इति । लङि श्यनि रूपम् । यच्च रिपो रामे निःशङ्कः निर्भयः विहरसि 'का सशकता त्वयि' इति । तदेतदुभयमपि न चिरं क्षेसंकरं कल्याणकरम् । ' २९६१। क्षेम - प्रिय-मद्रे ऽण्च ।३।२।४।४।' इति खच् ॥ ८०५ - अन्वया॒ऽऽदि विभिन्नानां यथा सख्यम॑नी॒ीप्सितम् ॥ . नैषीर्, विरोधम॑प्यैवं साधं पुरुष-वानरैः ॥ १३२ ॥ अन्वयेत्यादि – यथा नरादीनां अन्वयादिभिर्दूरविभिन्नत्वात् सख्यमनीप्सितं आप्तुमनिष्टं, एवं पुरुषवानरैः सार्धं विग्रहमपि नैषी: नेष्टवानाम् ॥ ८०६ - विराधं तपसां विघ्नं जघान विजितो यदि ॥ वरो धनुर्-भृतां रामः स कथं न विवक्षितः ? १३३ विराधमित्यादि – तपसां विघ्नं विराधम् । विहन्यतेऽस्मिन्निति 'घजथे कविधानम्' इति कः । तादृक्छलेनापि हन्तुं न दोषायेति दर्शयति- धनुर्भृतां वरः श्रेष्ठः सन् विजितोऽभिभूतोऽपि, रामो यदि जघान स कथं न विवक्षितः ? । यतो राममध्यसौ जितवान् ॥ ८०७ - प्रणश्यन्नपि ना ऽशक्नोदत्येतुं बाण-गोचरम् ॥ त्वयैवोकं महा-मायो मारीचो राम हस्तिनः ॥१३४॥ प्रणश्यन्नित्यादि — मारीचः प्रणश्यन्नपि पलायनपरो ऽपि सन् महामायः कनकमृगरूपधारित्वात् । रामहस्तिनः रामो हस्तीव तस्य बाणगोचरं बाणपदव अत्येतुं अतिक्रमितुं नाशक्नोत् न शक्तवानिति स्वयैवोकं ममारेत्यभिधता, न मया । यदि शक्नोति अतिक्रमितुं न ममार ॥ ८०८ - अन्याऽऽसक्तस्य यद् वीर्य न त्वं स्मरसि वालिनः ॥ मूर्च्छा-वान् नमतः संध्यां ध्रुवं तद् बाहु-पीडितः १३५ अन्येत्यादि – संध्यां देवतां नमतः अन्यासक्तस्य वालिनो यद्वीर्य सामर्थ्य २६० भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, तत् ध्रुवमवश्यं त्वं न स्वरसि न चेतयसि । कुतः बाहुपीडितः सन् मूर्च्छावान् जातः । अत एव न सरासे येनैवमुक्तवानासे 'निजधानान्यसंसक्तम्' इति ॥ ८०९ - अ सद् बन्धु-वधोपज्ञं विमुञ्च बलि-विग्रहम् ॥ सीताम॑र्पय नन्तव्ये कोश-दण्डाऽऽत्म-भूमिभिः.'१३६ असदित्यादि — यतो बलवद्भ्योऽपि वलीयान् रामः तस्माइलिना रामेण सह विग्रहं मुञ्च यज । कीदृशम् । बन्धुवधोप॑ प्रथमतो ज्ञातिविनाशेन विदि- तमित्यर्थः । उपज्ञायत इत्युपज्ञा । '२८९७ । इगुपध-।३।१।१३५॥' इति कः । बन्धुवधस्योपज्ञेति सः । '८२४। उपज्ञोपक्रमम्- ।२।४।२१।' इति नपुंसकलिङ्गिता । तत्सामानाधिकरण्यादसदिति नपुंसकलिङ्गिता । नन्तव्ये प्रणामा । कोशदण्डा- व्मभूमिभिः सह सीतामर्पय ॥ ८१० - स्फुट परुषर्म - सह्यमित्थर्मुच्चैः सदसि मरुत्-तनयेन भाष्यमाणः ॥ परिजनम॑भितो विलोक्य दाहं दश वदनः प्रदिदेश वानरस्य ॥ १३७ ॥ इति भट्टिकाव्ये नवमः सर्गः ॥ इति प्रकीर्णकाः । स्फुटेत्यादि - इत्थं स्फुटपरुषं उक्तप्रकारेण स्फुटं स्पष्टं, परुपं रूक्षं अत एवास सोढुमशक्यम् । उच्चैर्महता ध्वनिना सदसि सभायां मरुत्तनयेन भाग्य- माणोऽभिहितः, इत्थमित्यनेन वस्तुनः परिसमापितत्वात् । तेन वर्तमानसामीप्य इति लट् । परिजनमभितः उभयपार्श्वे स्थितान् भृत्यान् विलोक्य वानरस्य दाहं प्रदेश आदिष्टवान् ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये द्वितीयेऽधिकार-काण्डे लक्षण-रूपे चतुर्थः परिच्छेदः (वर्गः ), तथा लक्ष्य-रूपे कथानके 'मारुतिसंयमो' नाम नवमः सर्गः ॥ ९ ॥ दशमः सर्गःशब्दलक्षणमुक्तमपि लक्षयन् काव्यलक्षणार्थं प्रसन्न काण्डमुच्यतेस्यात्र प्रसन्नत्वात् । प्रथमं चेदं लक्षणं यत् प्रसन्नता नाम 'अविद्वदङ्गनाबालप्रतीतार्थ प्रसन्नव दिति । शब्दलक्षणं पुनः प्रकीर्णमेव द्रष्टव्यम् । तत्रास्मिन् काण्डे चत्वारः परिच्छेदाः । अलंकार- माधुर्य प्रदर्शन-दोषाः भाषासमावेशश्चेति । तत्रालं१ – अपरवऋमिदं वृत्तम् । तलक्षणं च – - 'अयुजि न-न-र-ला गुरुः समे न्जमपरवमिदं ततो ज-रौं' इति वृत्तरत्नाकरे भ० के० आह. तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २६१ कारो द्विविधः शब्दालंकारोऽथीलंकारश्चेति । तत्र पूर्वो द्विविधः । अनुप्रासो यमकं चेति उभयं दर्शयन्नाह अनुप्रासवत्- ८११ - अंथ स वल्क दुकूल-कुथाऽऽदिभिः परिगतो ज्वलदुद्धत-वालधिः ॥ उदपतद् दिवमाकुल- लोचनैर् नृ-रिपुभिः स-भयैर॑भिवीक्षितः ॥ १ ॥ अथेत्यादि - अथ दाहादेशानन्तरं स वानरो वियदाकाशमुदपतत् उत्पति- तवान् । वल्कं अंशुकन् । शुल्क-वल्को-ल्का इति निपातनम् । आदिशब्दाद- न्यैरपि 'मुजादिभिः परिगतः परिवेष्टितः । ज्वलनुद्धत ऊर्ध्वीकृतो वालविः पुच्छं यस्य सः नृरिषुभिः राक्षसः । समयैराकुललोचनैरभित्रीक्षितः किमयमनुष्ठास्य- तीति । अनुप्रासवदिति अनुप्रासो यस्मिन् विद्यत इति । तस्य च लक्षणं- 'सरूपवर्णविन्यासमनुप्रासं प्रचक्षते' इति ॥ यमकस्यापि लक्षणम् – 'तुल्य श्रुतीनां भिन्नानामभिधेयैः परस्परम् । वर्णानां यः पुनर्वादो यमकं तन्निरूप्यते ॥ इति । तदनेकविधं दर्शयन्नाह युक्पाद - यमकम् ८१२ - रेण-पण्डितो ऽग्य - विबुधाऽरि- पुरे कलहं स राम-महितः कृतवान् ॥ ज्वलदुनि रावण - गृहं च बलात् कलहंस राममं हितः कृतवान् ॥ २ ॥ रणेत्यादि —स कपिः वियदुत्पतितो राममहितो रामपूजितः । रणपण्डितो युद्धकुशलः । अभ्यविबुधारिपुरे अग्र्यो यो विबुधः इन्द्रः तस्य यो रिर्दशानन- स्तस्य पुरे लङ्कायां कलहं कृतवान् । कलहंसान् रमयतीति कलहंसरामम् । रमे- र्ण्यन्तात्कर्मण्यण् । तादृशं रावणगृहं बलाद्वार्यमाणोऽपि ज्वलदभि दीप्यमानपा- वकं । कृतवान् कृतं विद्यते यस्येति कृतापेक्षीत्यर्थः । अहितः शत्रुः । युकूपाद- यमकमिति युजोर्द्वतीयचतुर्थयोः पादयोर्य मितत्वात् ॥ पादाऽन्त-यमकम् ८१३ - निखिला ऽभवन् न स-हसा सहसा ज्वलनेन पूः प्रभवता भवता ॥ १ – द्रुतविलम्बितं वृत्तमिदम् - द्रुतविलम्बितमाह नभौ भरौ इति तलक्षणात् २ - इतः श्लोकद्वये प्रमिताक्षरा वृत्तम् । 'प्रमिताक्षरा स-जस-सैः' इत्युक्तत्वात् । २६२ भट्टि-काव्ये - तृतीये प्रसन्न - काण्डे लक्षण-रूपे प्रथनो वर्गः, बनिता-जनेन वियता वियता त्रि- पुराऽऽपदं नगर्मिता गमिता ॥ ३ ॥ निखिलेत्यादि— ज्वलनेनाग्निना प्रभवता वृद्धिं गच्छता भवता समुत्पद्यमानेन सहसा तत्क्षणं पू: पुरी निखिला सर्वा न सहसा अभवत् सानन्दा न जाता । हासस्थानन्दकार्यत्वात् । एवमुक्तम् । '३२३९ । स्वहसोर्वा । ३।३।६२॥ इत्यपि रूपम् । वनिताजनेन वियता नभसा त्रियता भयादितस्ततो गच्छता त्रिपुरापदं गमिता प्रापिता पृ: त्रिपुरेष्वपि दह्यमानेषु भयादितस्ततो जनो गतः नगं त्रिकूटपर्वतमिता सती । पादान्तयमकमिति पादान्तेषु यमितत्वात् ॥ पादाऽऽदि-यमकम् ८१४ - सरसां स-रसां परिमुच्च तनुं पततां पततां ककुभो बहुशः ॥ स- कलैः सकलैः परितः करुणै- रुदितै रुदितैरिव खं निचितम् ॥ ४ ॥ सरसामित्यादि-सरसां तोयाशयानां तनुं शरीरम् । सरसां सा परिमुच्य त्रासाच्यक्त्वा पततां पक्षिणां बहुशः बहून् वारान् ककुभो दिशः पततां गच्छतां उदितैः शब्दितैः । वदेर्यजादित्वात्सम्यसारणम् । सकलैः समस्तैः सकलैः माधुर्यवद्भिः । कलशब्दस्य गुणमात्रवृत्तित्वान्न तद्वति वर्तते । ततश्च सहशब्देन समासो भवति । करुणैः कारुण्यजनकै रुदितैरिव ऋन्दितैरिव परितः समन्तात् खमाकाशं निचितं व्याप्तम् । पादादियमकमिति पादानामादौ यमितत्वात् ॥ पाद-मध्य- यमकम् ८१५ - न च कांचन काञ्चन - सद्म-चितिं न कपिः शिखिना शिखिना समयौत् ॥ न च न द्रवता द्रवता परितो हिम-हान - कृता न कृता क च न. ॥ ५ ॥ न चेत्यादि – काञ्चनसद्मचितिं सौवर्णगृहसंहतिं कांचन कांचिदपि शिखिना अग्निना शिखिना ज्वालावता कपिर्न च समयौत् न च न मिश्रितवान् । अपि तु संश्लेषं नीतवान् । यौतेर्लुङि '२४४३ । उतो वृद्धिर्लुकि हलि ।७।३।८९। इति वृद्धिः । क्व च क्वचिन्नाम हिमहानकृता हिमहानस्य हिमापचयस्य कर्ना शिखिना । जहातेर्भावे ल्युट् । न च न द्रवता न च न विसर्पता अपि तु १ - तोटकवृत्तमिदं लोकद्वये नवमोके च । 'इह तोटकमम्बुधिसैः प्रथितम्' इति वृत्तरत्नाकरे तलक्षणात् ॥ तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः -- २६३ इतस्ततो गच्छता जवता वभावः परितः न न कृता । किंतु कृतैव । काञ्चन- सद्मचितेरित्यर्थात् । पाद्मध्ययमकमिति पादानां मध्ये यमितत्वात् ॥ चक्रवाल यमकम् , ८१६ - अवसितं हसितं प्रसितं, मुदा विलसितं इसितं स्मर-भासितम् ॥ न स-मदाः प्रमदा हत- संमदाः, पुर- हितं विहितं न समीहितम् ॥ ६ ॥ अवसित मित्यादि — हसितं यत्प्रसितं संततप्रवृत्तम् । नित्यप्रमुदितत्वा- त्तत्रत्यजनस्य तदनिसङ्गनाइवसितं अपगतम् । १२२२॥ यो ऽन्तकर्मणि' इत्यस्य '३०७४ । द्यति-स्यति – ।७।४।४०।' इतीध्वम् । मुदाहर्षेण यद्विलसितं शृङ्गारवि- चेष्टितं लसितं लिष्टमनुवद्धमिति यावत् । स्मरभासितं मन्मथदीपितम् । इसितं अल्पीकृतम् । प्रमदाश्च स्त्रियः न समदाः सदर्पा न जाता: हतसंमदा ध्वस्तहर्षाः '३२४५ । प्रमद- संमदौ हर्षे ।३।३।६८।' इति निपातनम् । यच्च पुरः हितं पुरानुकूलं समीहितं कर्तुरीप्सितं तन्त्र विहितं नानुष्टितमित्यर्थः । चक्रवा- लयमकमिति मण्डलाकारेण चमितत्वात् । तथाहि । योयोः पढ़योरन्त्यव र्णानां नेमिवदवस्थितत्वात् मध्यस्य वर्णस्य विसदृशस्य नाभिवदिति । तथा- चास्य लक्षणम् - 'पढ़ानामवसाने तु वाक्ये स्यात्तुल्यवर्णता । प्रतिपादं भवेद्यत्र चक्रवालं तदुच्यते ॥' इति ॥ समुद्र-यमकम् - ८१७ - समिद्ध-शरणादीप्ता देहे लङ्का मतेश्वरा ॥ समिद्-ध-शरणाऽऽदीप्-ता देहेऽलं-काम-तेश्वरा ॥७॥ समित्यादि – देहे अभ्यन्तरभागे समिद्धशरणा उज्जवलगृहा तत एव दीप्ता शोभावती लङ्का पुरी मतेश्वरा ज्ञातमहादेवा । तत्रान्यदेवस्य नामापि न गृह्यते । समिधो दधति हतवन्तो वेति समिद्धा ऋषयः । पूर्वस्मात् '२९१५॥ आतो अनुपसर्गे कः । ३।२।३।' इति कः । द्वितीयस्मात् '३०११॥ अन्येष्वपि दृश्यते ।३।२।१०१।' इति ङः । अपिशब्दस्य सर्वोपाधिव्यभिचारार्थत्वात् धात्वन्तरादपि भवति । '११९ । झयो होऽन्यतरस्याम् ।८।४।३२॥ इति पूर्वसवर्णः । तान् शुणन्ति हिंसन्तीति । '२८४१ । कृत्यल्युटो बहुलम् ।३।३।११३।' इति कर्तरि ल्युट् । समिद्धशरणा राक्षसास्तान् दानमानाभ्यामादीपयति प्रोत्साहयतीति विप् । समिद्धशरणादीप् । रावणः तेन ताय्यते इति तायतेः कर्मणि कारके विव१ - एतद्वृत्तलक्षणं एतत्सर्गप्रथमश्लोके द्रष्टव्यम् । २६४ भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, क्षिते संपदादिदर्शनात् विप् । '३७४ । वेरपृक्तस्य । ६।१।६७१' इति लोपात्पूर्व '८७३ । लोपो व्योवलि ।६।१।६६॥ इति लोपः । समिद्धशरणा दीप्ता रावणस्य पालनीया । समेिदशरणादीप्ता लङ्का देहे दग्धा ! अलं कामो ऽस्येत्यलंकामः । तद्भावः अलंकामता । तस्यामलंकासतायां पर्याप्तेच्छायां ईश्वरा लङ्का । सर्वेच्छा- सम्पादनात् । समुद्द्रयमकमिति समुद्राकारेण यमितत्वात् पादद्वययोरर्धद्वय योश्च संपुटवत्सादृश्यात् ॥ काञ्ची-यमकम् ८१८ - पिशि॑िता॒ऽशिनाम॑नु - दिशं स्फुटतां स्फुटतां जगाम परिविह्वल-ता, ॥ हलता जनेन बहुधा चरितं चरितं महत्त्व रहितं महता. ॥ ८ ॥ पिशिताचिनामित्यादि — पिशिताशिनां मांसाशनां राक्षसानामनुदिशं दिशि दिशि । '६७७ । अव्ययीभावे नृतिभ्यः ॥४।१०७१' इति टच् । स्फुटतां पलायमानानां परिविह्वलता स्फुटतां स्पष्टतां जगाम । अनेन चेतरेण हलता चलता महता शौर्यादिगुणयुक्तेनापि सता यच्चरितं चेष्टितं बहुधा बहुप्रकारं तन्महत्वरहितं महसा विकलमाचरितं अनुष्ठितं भयात् । काञ्चीयमकमिति रसनाकारेण यमितत्वात् । तथाद्यपादस्यान्ते परस्यादौ च सदृशो विन्यासः ॥ यमकाज्ज्वली ८९९ - न गजा नग-जा दयिता, दयिता वि-गतं विगतं, ललितं ललितम् ॥ " प्रमदा प्र-मदा ऽऽम-हता, महता- म-रणं मरणं समयात् समयात् ॥ ९॥ नेत्यादि- -- गजा हस्तिनः नगजाः पर्वतजाताः । अत एव दयिता इष्टा न दयिता: न रक्षिताः । दयतिरत्र रक्षणार्थ: । विगतं वीनां पक्षिणां गतं गमन- मपि विगतं नष्टम् । ललितं यदीप्सितं वस्तु तललितं पीडितम् । प्रमढ़ा योषित् प्रमदा प्रगतो मदो यस्या इति प्रमदा । हर्पशून्येत्यर्थः । आमहता रोग- पीडितेव । आमो रोगः । इवशब्दलोपोऽत्र द्रष्टव्यः । आमेन पीडिता पलाय- नहता वा । '४९८ । अम गत्यादिषु ।' महतां शूराणां अरणं अविद्यमानयुद्धं मरणं विनाशं समयात् संप्राप्तम् । यातेर्लङि रूपम् । समयात् कालेन यमका- वलीति यमकमाला ॥ १ ~~ एतद्वृत्तलक्षणं प्राक् ( एतत्सर्ग -२ श्लोके ) उक्तम् । तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः – २६५ अ-युग्म - पाद - यमकम्- ८२० - न वानरैः पराक्रान्तां महद्भिर् भीम विक्रमैः ॥ न वा नरैः पराक्रान्तां ददाह नगरीं कपिः ॥ १० ॥ नेत्यादि——वानरैरन्यैर्महद्भिर्महाप्राणैर्भीमविक्रमैः असह्यशौर्यैः शक्रादिभिः न पराक्रान्तां नावटव्ध नगरी लङ्कां नरर्मनुष्यैर्न च पराक्रान्तां विगृहीतां कपिर्हनूमान् ददाह दुग्धवान् । अयुक्पाद्यमकमिति प्रथमतृतीययोर्यमितत्वात् ॥ पादाद्यन्त - यमकम् ८२१ - द्रुतं द्रुतं वह्नि- समागतं गतं महीम॑हीन -द्युति- रोचितं चितम् ॥ समं समन्तादप- गोपुरं पुरं परैः परैरप्यनिराकृतं कृतम् ॥ ११ ॥ द्रुतमित्यादि – यस्पुरं चितं सौवर्णगृहसंहत्या व्याप्तं तद्वह्निसमागतं अग्नि- संयुक्तं द्रुतं विलीनम् । द्रुतं प्रवाहेण प्रवृत्तं द्रुतं शीघ्रं अहीनया उत्कृष्टया त्या तेजसा रोदितं भासितं महीं गतं प्राप्तं अपगोपुरं अपगतपुरद्वारं अत एव समन्तात समं तुल्यं कृतम् । परैः शत्रुभिः परैरपि उत्कृष्टैरपि शक्रादिभिर- निराकृतं अनभिभूतं सत् । पादाद्यन्तयमकमिति पादस्यादावन्ते च यमितत्वात् ॥ मिथुन-यमकम् ८२२ - नश्यन्ति ददर्श वृन्दानि कपीन्द्रः ॥ हारीण्य-बलानां हारीण्यं बलानाम् ॥ १२ ॥ नश्यन्तीत्यादि – अवलानां स्त्रीणां अबलानां अविद्यमानरक्षकाणां वृन्दानि समूहान् । हारीणि हारवन्ति, हारीणि अवश्यं हरन्ति । आवश्यके णिनिः । चेतस इत्यर्थात् । नश्यन्ति पलायमानानि सन्ति कपीन्द्रो ददर्श । मिथुनयम- कमिति पादद्वयस्य चक्रवाकमिथुनवदवस्थितत्वात् ॥ वृन्त-यमकम् ८२३ - नारीणाम॑पनुनुदुर् न देह- खेदान् ना ssरीणाsमल - सलिला हिरण्य-वाप्यः ॥ १–वंशस्थं वृत्तम् । 'ज-तौ तु वंशस्थर्मुदीरितं ज- रौ' इति तलक्षणात् । २ - इदं तनुमध्यावृत्तम् । तदुक्तम्- 'त्यौ स्तम् तनुमध्या' इति । ३ – प्रहर्षिणीवृत्तम् । 'म्नौ जूरौ गस् त्रिदश-यतिः ग्रहर्षिणीयम्' इति तल्लक्षणात् । भ० का० २३ २६६ भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, ना ऽऽरीणाम॑नल-परीत-पत्र-पुष्पान् ॥ नाऽरीणाम॑ भवदु॑पेत्य शर्म वृक्षान् ॥ १३ ॥ नारीणामित्यादि — अरीणां संबन्धिन्यो हिरण्यवाप्यः सुवर्णघटिता वाप्यः । नारीणां स्त्रीणाम् अग्नितापान्देहखेदान्नापनुनुदुः नापनीतवत्यः । कुतः । आरी- णामलसलिलाः। '११३८ । रीङ्ग स्रवणे ।' इत्यस्मादाङ्पूर्वात् 'स्वादय ओदितः' इति निष्ठानत्वम् । आरीणं गतममलं सलिलं यासु हिरण्यवापीष्विति । वृक्षांश्चो- येत्य गत्वा तासां शर्म सुखं नाभवत् न जातम् । अनलपरीतपत्र पुष्पत्वावृक्षा- णाम् । आरीणां नारीणामिति योज्यम् । शत्रुसंवन्धिनीनामित्यर्थः । अरीणा- मिमा इति '१५००। तस्येदम् । ४ । ३ । १२० ।' इत्यण् । तदन्तात् '३७० । टिड्डाणज् -।४।१।१५।' इत्यादीना ङीप् । अत्र वृक्षानुपेत्य स्थितानामित्यध्याहर्तव्यम् । अन्यथा समानकर्तृकत्वात् पूर्वकाले क्त्वा प्रत्ययो न स्यात् । वृन्तयमकमिति प्रतिपदं पुष्पफलस्येव मूलेऽवस्थितत्वात् ॥ पुष्प-यमकम् ८२४ - अथ लुलित पतत्रि- मालं रुग्णासन-वाण - केशर तमालम् ॥ स वनं विविक्त-मालं सीतां द्रष्टुं जगामाडलम् ॥ १४ ॥ अथेत्यादि — दाहानन्तरं लुलितानां चलितानां पतत्रिणां पक्षिणां माला संहतिर्यस्मिन् तद्वनमशोकवनिकाख्यं स कपिर्जगाम । रुग्णा: भग्ना असनादयो यस्मिन् वने । तन्नासन: पीतसालः, बाणः ग्रन्थिका, केशरो नागकेशरो देवव- लभो वा । विविक्ताः शुचयो मालाः सजो यस्मिन् तद्विविक्तमालम् । सीतां इष्टुं अलं पर्याप्तः सीतां द्रक्ष्यामीति जगाम । पुष्पयमकमिति प्रतिपादं वृन्ता- दुपरि पुष्पमिवावस्थितत्वात् ॥ पादाऽऽदि-मध्य यमकम् - ८२५ – घैन - गिरीन्द्र - विलङ्घन-शालिना वन-गता वन- ज-द्युति-लोचना ॥ जन-मता दहशे जनाऽऽत्मजा तरु मृगेण तरु स्थल-शायिनी ॥ १५ ॥ १ – गाथावृत्तमिदम् । विषमाक्षरपादत्वात् । तदुक्तम् – 'विषमा॑ऽक्षरपादं वा पादैरसमं दशधर्मवत् । यच् छन्दो नोक्तमंत्र गाथेति तत् सूरिभिः प्रोक्तम् ॥ इति भट्टकेदारैः । २- अस्य लक्षणमुक्तं प्राकू ( एतत्सर्गस्य १ लोकटिप्पणे ) । । तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः – २६७ घनेत्यादि – तरुमृगेण कपिना जनकात्मजा दहशे दृष्टा । घनाः निरन्तराः ये गिरीन्द्राः मेवसदृशा वा तेषां यल्लङ्घनं अतिक्रमणं तेन शालिना युक्तेन कपिना । वनलता काननस्था वनजयुतिलोचना पद्मस्येव कान्तिर्ययोर्लोचनयोः ते तथाविधे लोचने यस्याः । '५१२॥ न क्रोडादिबहुचः ।४।१॥५६॥ इति ङीप्प्रतिषेधः । जनमता जनेनावबुद्धा पतिव्रतेयमिति । १५६६ । मनु अवबोधने' इत्यस्य भूते निष्ठायां रूपम् । '६२७॥ न लोक-।२।३।६९।' इति षष्ठीप्रतिषेधः । कतैरि तृतीया । तस्यां च ६९४ । कर्तृकरणे-।२।१।३२।' इति समासः । वर्तमाने तु । '३०८९ । मति बुद्धि-।३।२।१८।' इत्यादिना क्तप्रत्ययः '६२५॥ तस्य च वर्तमाने ।२।३१६७।' इति पष्ठी । तस्यां च '७०६ । क्तेन च पूजायाम् ॥२।२।१२।' इति समासप्रतिषेधः स्यात् । तरुस्थलशायिनी तरुमूले यत् स्थलं तत्रैव शयाना सत्यपि शयने । तेन '२९९०। व्रते ।३।२।८० । इति णिनिः । आदिमध्ययमकमिति पादानामादौ मध्ये च धन-वन-जन - तरुशब्दानां यमितत्वात् ॥ वि-पथ- यमकम् ८२६ - कान्ता सहमाना दुःखं च्युत-भूषा ॥ रामस्य वियुक्ता कान्ता सह-माना ॥ १६ ॥ कान्तेत्यादि – कान्ता कमनीया सहमाना वेदयमाना दुःखं वियोगजम् । च्युतभूषणा रामस्य कान्ता प्रिया वियुक्ता वियोगिनी सहमाना सह मानेन वर्तत इति । '८४९। वोपसर्जनस्य ।६॥३।८२ ।' इति सभावविकल्पः । दश इति संबन्धः । विपथयमकमिति पादद्वयातिक्रमाद्विपथेन विमार्गेण यमितत्वात् ॥ मध्या ऽन्त यमकम् ८२७ - मितम॑वददुदारं तां हनूमान् मुदा ऽरं रघु-वृषभ- सकाशं यामि देवि ! प्रकाशम् ॥ तव विदित विषादो दृष्ट कृत्स्नाऽऽमिषादः श्रियम॑निशम॑वन्तं पर्वतं माल्यवन्तम् ॥ १७ ॥ मितमित्यादि – मितं अल्पाक्षरं अर्थावगाढं तां सीतां हनुमान् मुदा हर्षेण युक्तः अवदत् कथितवान् । किमित्याह - अरं शीघ्रं हे देवि! रघुवृषभसकाशं रामसमीपं माल्यवन्तं पर्वतं प्रकाशं प्रकटं यामि । तव विदितविषादो ज्ञातावसादः । दृष्टकृत्स्नामिषादः वीक्षिताशेषनिशाचरः । आमिषं मांसमदन्तीति '२९१३ । कर्मण्यण् ।३।२।१।' । '२८३० । वा सरूपोऽस्त्रियाम् ।३।१।९४॥ इति वचनात् । '२९७७ । दोन । ३।२।६८॥ इति विप्रत्ययेनाणो विकल्पेन बाधनात् । श्रियं • १ - एतल्लक्षणं द्वादशश्लोकटिप्पणे द्रष्टव्यम् । २ - मालिनीवृत्तमिदम् । तल्लक्षणं च'न-न-म-य-ययुतेयं मालिनी भोगि-लोकैः' इति वृत्तरत्नाकरे भ० के० ॥ भट्ट- काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, २६८ शोभां अनशनवन्तं रक्षन्तं पर्वतम् । मध्यान्तयमकमिति पादस्य मध्ये अन्ते च यमितत्वात् ॥ गर्भ-यमकम् – ८२८ - उदपतद् वियदं प्रगमः परै- रुचितमु॑न्नति-मत्-पृथु - सत्त्व-वत् ॥ रुचित मुन् नति-मत् पृथु - सत्त्व- वत् प्रतिविधाय वपुर् भय-दं द्विषाम् ॥ १८ ॥ उपतदित्यादि — वियदाकाशमुदपतत् उत्पपात । परैः शत्रुभिरप्रमः अनभिभवनीयः । गमे: '३२३४ । ग्रह वृ-दृ- निश्चि-गमश्च ।३॥३।५८ ।' इति कर्म- ण्यप् । '६२३। कर्तृ-कर्मणोः कृति । २।३।६५ ।' इत्यत्र 'विभाषोपसर्गे' इति मण्डू- कप्त्या अनुवर्तनीयम् । सोपसर्गस्य प्रयोगे विभाषा पष्ठी । रुचितं शोभितं विय- निर्मलत्वात् । अथवा अप्रगमोऽन्येपामित्यर्थात् । परैरुत्कृष्टैरन्तरिक्षचारिभिः रुचितं दीपितम् । उन्नतिमत् उच्छ्राययुक्तम् । पृथुसत्त्ववद्भिः प्राणिभिर्युक्तम् । किं कृत्वा उदपतदित्याह-वपुः शरीरं प्रतिविधाय कृत्वा । रुचितान् तुष्टान्मो- दयतीति रुचितमुत् । पयर्थोऽत्रान्तर्भूतः । द्विषां शत्रूणां भयदम् । नतिमत् तदानीं देवेषु कृतशिरःप्रणामत्वात् । अथवा रुचिरमेवाभीष्टमेव वपुः । उन्नति- मत् विभूतिमत् । पृथुसत्त्ववत् विस्तीर्णसत्त्ववत् । सत्त्वगुणयुक्तं वा । गर्भयमक मिति द्वयोः पादयोर्मध्ये पादयस्य यमितत्वात् ॥ सर्व-यमकम् ८२९ - बभौ मरुत्वान् वि - कृतः स - मुद्रो, वभौ मरुत्वान् विकृतः समुद्रः ॥ बभौ मरुत्वान् विकृतः समुद्रो, बभौ मरुत्वान् विकृतः . स मुद्रः ॥ १९ ॥ मरुद्विद्यते अस्येति कृत्वा चभावित्यादि – मरुत्वान् हनूमान् पितृत्वेन M १८९८ । झयः ।८।२।१०।' इति वत्त्वम् । विविधं कृतं वनभङ्गादि कर्म येन विविधं वा कृन्ततीति विकृतः । इगुपधलक्षणः कः । वृक्षादीनां छेदक इत्यर्थः । समुद्रो मुद्रयाभिज्ञानेन चूडामणिना वा सह वर्तत इति । समुत्पतितो नभसि तेजःपुञ्ज इव बभौ दीप्यते स्म । इत्ययं प्रथमः पादः । तस्मिन् तथाभूते मरुस्वामिन्द्रः । अनुजीवितया मरुतो देवा अस्य सन्तीति कृत्वा । विकृत: रावणपरिभवात् विहतदेवाधिपत्यः विकृतः । स च समुद्रः मुद्रया अप्सरसा सह १ - उपेन्द्रवज्रावृत्तमिदम् । 'उपेन्द्रवज्रा जन्तजास् ततो गौ' इति वृत्तरत्नाकरे तलक्षणात् । तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः - २६९ वर्तमानः । समुपलब्धमारुतिवृत्तान्तः बभौ हृष्टवान् । कपिना तावदिदं कृतं रामः पुनः समूलं छेत्स्यतीति । अनेकार्थत्वादातूनां भातिरत्र तुष्टौ वर्तते । इत्ययं द्वितीयः । समुद्रो जलनिधिः मरुत्वान् हनुमदुत्पतनजनितवायुना युक्तः अत एव विकृतोऽतिक्रान्तमर्यादः बभौ बभूव । अत्र सत्तायां प्रयुक्तः । इत्ययं तृतीयः । सलोकपालो मरुत्वान् महाभूतात्मकेन युक्तः मरुत्वान् । पूर्ववन्मतुप् । मरुत्वा- निति व्याख्याने '८४ । झलां जशोऽन्ते ।८।२।३९॥ इति जश् स्यात् । मुद्दो हर्षस्य दाता । पुत्रो मे सुखेन यास्यतीति मुदं राति ददातीति '२९१५॥ आतो- अनुपसर्गे कः । ३।२॥३।' विकृतो मन्दगतिः । बभौ वाति स्म । अत्र गतौ प्रयुक्तः । इत्ययं चतुर्थः । अन्यस्त्वाह यमकेपु क्रियापदस्याभिधेयत्वं न दुप्यतीति तेन दीत्यर्थ एव योज्यः । सर्वयमकमिति चतुर्णामपि पादानां सहशत्वात् ॥ महा-यमकम् ८३० - अभियाता वरं तुङ्गं भू-भृतं रुचिरं पुरः ॥ S कर्कशं प्रथितं धाम स-सत्वं पुष्करेक्षणम् ॥ २० ॥ अभियातेत्यादि – भूभृतं रामं वरं श्रेष्ठं तुझं महाकुलीनत्वादिति सर्वेषामु- परि स्थितं गुणै रुचिरं सर्वाङ्गसुन्दरं पुरोऽग्रतो वक्षःस्थले कर्कशं लोमशं प्रथितं लोके प्रख्यातं धाम गृहं वर्णाश्रमधर्माणां ससवं पराक्रमयोगात् । पुष्करेक्षणं पद्मलोचनं अभियाता आभिमुख्येन यास्वति हनूमान् । लुदि रूपम् ॥ अभिया ऽता॒ऽऽवरं तुङ्गं भू-भृतं रुचिरं पुरः ॥ कर्कशं प्रस्थितं धाम स-सत्वं पुष्करे क्षणम् ॥ २१ ॥ # अभियातेत्यादि — भूभृतं पर्वतं यत्राङ्गदादयः स्थिताः तमभिया अभिग- च्छता हनूमता । कुतः । पुरो लङ्कायाः सकाशात् । पुष्करे आकाशे धाम तेजः क्षणं मुहूर्त प्रथितं विस्तारितम् । अभियातीति '३१५८। अन्येभ्योऽपि दृश्यते ।३।२।१७८।' इति क्विप् । तृतीयैकवचने '२४०। आतो धातोः ।६।४।१४०।' इत्या- कारलोपे अभियेति रूपम् । कीदृशं अतावरं सातत्येनाततीति पचाद्यच् । अतो चायु: आदित्यो वा आवृणोतीयप् । आवरः । अतस्यावरं यतस्तुङ्गं उचैस्तरम् । रुचिरं तुष्टिदं रुचि रातीति । कर्कशं कठिनस्वभावम् । ससत्वं प्राणियुक्तम् । महायमकमिति श्लोकस्यैकस्य द्वितीयेन श्लोकेन यमितत्वात् ॥ श्लोकाद्यन्त यमकम् ८३१ - चित्रं चित्रमि॑िवा ऽऽयातो विचित्रं तस्य भू-भृतम् ॥ हरयो वेगमसाद्य संत्रस्ता मुमुहुर् मुहुः ॥ २२ ॥ चित्रमित्यादि —[ भूभृतम्] भूधरं पर्वतं चित्रं गैरिकादिभिर्नानावर्ण अत एव चित्रमिवाले ख्यमिव । आयातः आगच्छतस्तस्य हनुमतः वेगं जवं चित्रं अद्भुत२७० भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, मासाद्य प्राप्य हरयः कपयः संत्रस्ताः सभयाः मुमुहुः मुहुः क्षणम् । श्लोका द्यन्तयमकमिति लोकस्यादावन्ते च यमितत्वात् ॥ अर्थालंकारस्तु दीपकरूपकादिभेदेना नेकप्रकारः । तत्र वाक्यार्थप्रकाशनाद्दीपकमुच्यते । तदादिमध्यान्तभेदान्त्रिविधमिति दर्शयन्नाह आदि-दीपकम् ८३२ - गच्छन् स वारीण्य किरत् पयोधेः, 3 कूल स्थितांस् तानि तरून॑धुन्वन् ॥ पुष्पाऽऽस्तरांस् ते ऽङ्ग-सुखान॑तन्वन्, तान् किन्नरा मन्मथिनोऽध्यतिष्ठन् ॥ २३ ॥ गच्छन्नित्यादि —–स हनूमान् वेगेन गच्छन् पयोधेवरीणि वेगजेन वायुना अकरत् निक्षिप्तवान् । तानि वारीणि अधिक्षिप्तानि कुलस्थितांस्तरून धुन्वन् कम्पितवन्ति । १३२५ । धूञ् कम्पने' इति भौवादिकः । ते तरवः कम्पिताः पुष्पास्तरान् पुष्पाणां प्रकरान् आस्तीर्यन्त इति '३२३२ । ऋोरप् ।३।३॥५७ । ' अङ्गसुखान् मृदुस्पर्शत्वात् कायस्य सुखहेतूनतन्वन् विस्तारितवन्तः । तान् पुष्पा- स्तरान् किन्नराः मन्मथिनः कामवन्तः, अध्यतिष्टन् अध्यासितवन्तः । ८५४२। अधि-शीङ्–।१।४।४६।' इत्यादिनाधिकरणस्य कर्मसंज्ञा । आदिदीपकमिति क्रियापदस्यादौ श्रूयमाणत्वात् । द्विविधं ह्यादिदीपकम् । एकतिङनेकतिसहितं च । तत्र यत्पूर्वं तदेकमप्यनेकार्थप्रकाशकम् । यथाह भामहः- 'मदो जनयति श्रीतिमानन्दं मानभङ्गुरम् । यत्प्रियासंगमोत्कण्ठामसह्यां मनसः शुचम् ॥' इति । यत्तु द्वितीयं तत्समस्तवाक्यार्थप्रकाशं यथेदमेव । तत्र ह्युत्तरेषां वाक्यार्थानामा- धेनैव दीपनात् । तस्मिन्नसति शेषाणामस्फुटत्वात् । पूर्वकं परित्यज्य द्वितीयस्य प्रदर्शनं यत् तत्प्रतीपदीपकं नाम चतुर्थमस्तीति दर्शनार्थम् । तद्यथा- 'तृष्णां छिन्धि, भज क्षमां, जहि मदं, पापे रतिं मा कृथाः, सत्यं ब्रूह्यनुयाहि साधुप- दुवीं, सेवस्व विद्वज्जनान् ॥ मान्यान्मानय, विद्विषोऽप्यनुनय, प्रख्यापय स्वान् गुणान्, कीर्ति पालय, दुःखिते कुरु दयामेतत्सतां चेष्टितम् ॥' इति । शेषो यदन परस्परमसंबद्धमिति ॥ अन्त- दीपकम् ८३३ - स गिरिं तरु-खण्ड-मण्डितं समवाप्य त्वरया लता मृगः ॥ .१ - इदं चेन्द्रवज्रावृत्तम् । तलक्षणमपि तत्रैव — 'स्यादिन्द्रवज्रा यदि तौ ज-गौ गः' इति । तथा लक्ष्ये-रूपे कथानके 'सीताभिज्ञानदर्शन' नाम दशमः सर्गः–२७१ स्मित-दर्शित-कार्य- निश्चयः कपि- सैन्यैर् मुदतैर॑मण्डयत् ॥ २४ ॥ — स गिरिमित्यादि –स लतामृगो हनूमान् प्रयोजककर्ता । गिरिमङ्गढादि- भिरध्यासितं तरुखण्डमण्डितं त्वरया वेगेन समवाप्य कपिसैन्यैर्मुदितैर्हष्टेः प्रयो- ज्यकर्तृभिः अमण्डयत् । '३३६ । मडि भूपायाम्' इति भौवादिकः । चौरादिके तु कपि सैन्यैः करणभूतैरिति योज्यम् । मुदितत्वे कारणमाह - स्मितदर्शितकार्यनि- चयः ईषद्धसितप्रकटीकृतसीतोपलब्धिनिश्चयः । अन्तदीपकमिति अमण्डयदिति क्रियापदस्यान्ते निर्दिष्टत्वात् ॥ मध्य-दीपकम् – ८३४–गरुडाऽनिल-तिग्म-रश्मयः पततां यद्यपि संमता जवे, ॥ अ - चिरेण कृता॒ऽर्थमा॑गतं तम॑मन्यन्त तथाप्य॑तीव ते ॥ २५ ॥ M गरुडेत्यादि-पततां गच्छतां मध्ये यद्यपि गरुडादयो जवे वेगविषये संमताः अभिमताः तथापि तं हनुमन्तं अचिरेणैव कालेन कृतार्थं कृतकृत्यमागतं अतीव जविनं ते कपयः अमन्यन्त । मन्यतेर्लङि रूपम् । मध्यदीपकमिति क्रियापदस्य मध्ये निर्दिष्टत्वात् ॥ रूपकम् ८३५ - व्रण - कन्दर - लीन-शस्त्र - सर्पः पृथु-वक्षः-स्थल-कर्कशोरु-भित्तिः ॥ च्युत-शोणित-बद्ध-धातु-रागः शुशुभे वानर-भू-धरस् तदा ऽसौ ॥ २६ ॥ व्रणेत्यादि — असौ वानरो भूधर इव वानरभूधरः । १७३५ । उपमितम् ।२।१।५६।' इत्यादिना समासः । तदा तस्मिन्वानरमध्यगमनकाले कृतार्थः शुशुभे शोभते स्म । व्रणानि शस्त्रकृतानि कन्दराणीव । शस्त्राणि सर्पा इव शस्त्रसर्पाः व्रणकन्दरेषु लीनाः शस्त्रसर्पा यस्य । वक्षःस्थलं कर्कशोरुभित्तिरिव सा पृथुला विस्तीर्णा यस्य सः । शोणितं बद्धधातुराग इव श्लिष्टगैरिकादिराग इव स च्युतो यस्य । सर्वत्र '७३५॥ उपमितम्- ।२।१।५६।' इत्यादिना समासः । रूपकमिति सावयवेन भूधरेणोपमानेन सावयवस्य कपेरुपमेयस्य तत्स्वभावतयाध्यारोपितत्वात् । यथोक्तम्- 'उपमानेन तुल्यत्वमुपमेयस्य रूप्यते ॥ गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः ॥' इति ॥ २७२ भट्टि- काव्ये तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, Ho अस्यैव भेदा अपरे चत्वारः एतद् विशिष्टोपमा युक्तं रूपकम्- ८३६ - चल - पिङ्ग - केशर - हिरण्य-लताः स्फुट - नेत्र-पति-मणि- संहृतयः ॥ कलधौत - सानव इवा॑ ऽथ गिरेः कपयो वभुः पवन-जाऽऽगमने ॥ २७ ॥ चलेत्यादि- [-अथ पवनजागमने हनुमदागमने कपयो गिरेस्तस्यैव कलधौ- तसानव इव सौवर्णैकदेशा इव वभुः शोभन्ते स्म । पिङ्गकेशराणि पिङ्गलसटाः तानि हिरण्यलता इव सुवर्णलता इव ताश्चला येषां कपीनाम् । नेत्रपङ्कयो मणि- संहतय इव ताः स्फुटा उज्वला येषामिति । एतदपि रूपकमेव । किंतु कलधौ- तत्वेन सानूनां विशिष्टत्वाद्विशिष्टोपमायुक्तं कमलकं नाम ॥ एतच्छेषाऽर्थाऽन्ववसितमवतंसकम्- ८३७ – कपि-तोय-निधीन् प्लवङ्गमेन्दुर् मदयित्वा मधुरेण दर्शनेन ॥ वचनाऽमृत-दीधितीर् वितन्व- कृता ऽऽनन्द-परीत - नेत्र-वारीन् ॥ २८ ॥ कपीत्यादि - प्लवङ्गम इन्दुरिव लवङ्गमेन्दुः । कपयस्तोयनिधय इव कपि- तोयनिधीन् । मधुरेण सुखेन दर्शनेन मदयित्वा हर्षयित्वा । '८७२ । मदी हर्ष- ग्लेपनयोः ।' इति घटादित्वान्मित्त्वे ह्रस्वत्वम् । वचनानि अमृतमयदीधितय इव वचनामृतदीधितीवितन्वन् विस्तारयन् । लोकवृत्तान्तसंबोधकमाह्लादकं वचनमु दाहरन्नित्यर्थः । आनन्देन हर्षेण परीतं संजातं नेत्रवारि येषां तानेवंविधानकृत कृतवान् । एतद्रूपकं शेषार्थान्ववसितम् । रूपितादन्यो योऽर्थः 'आनन्दप- रीतनेत्रवारीन्' इति स शेषः तेनान्ववसितं युक्तमवतंसकं नाम विसदृशस्यार्थस्य लपितत्वात् । तदेवान्यैः स्वण्डरूपकमित्युच्यते ॥ अर्ध-रूपकम् ८३८ - परिखेदित विन्ध्य-वीरुधः परिपीताऽमल-निर्झरा॒ऽम्भसः ॥ १-१२८३ । कलधौतं रूप्य-हेम्नोः ॥ २ – ११९ । भानुः करो मरीचिः स्त्री-पुंसयोर् दीधितिः स्त्रियाम् ।" इति सर्वत्र ना० अ० । तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः – २७३ दुधुवुर् मधु-काननं ततः कपि-नागा मुदिताऽङ्गाऽऽज्ञया ॥ २९ ॥ परिखेदितेत्यादि – तत उत्तरकालं कपयो नागा इव हस्तिन इव कपिनागाः मुदितस्याङ्गदस्याज्ञया मधुकाननं सुग्रीवस क्रीडोद्यानं दुधुवुः कम्पितवन्तः । मधून्युपभुज्य संभ्रममकुर्वन्नित्यर्थः । परिखेदिताः परिमृदिताः विन्ध्यवीरुधो विन्ध्यलतागुल्मा यैः । परिपीतममलनिर्झराम्भो यैः । अर्धरूपकमिति पश्चिमा कपिनागा इति रूपितम् ॥ , एतदन्वर्थोपमा युक्तं ललामकम्८३९ - विटपि-मृग-विषाद - ध्वान्त - मुद् वानराऽर्कः प्रिय-वचन- मयूखैर् वोधिताऽर्थाsरविन्दः ॥ उदय- गिरिमि॑िवा ऽद्रिं संप्रमुच्या ऽभ्यगात् खं नृप - हृदय- गुहा - स्थं घ्नन् प्र - मोहाऽन्धकारम् ॥ ३० ॥ विटपीत्यादि-वानरार्क: वानरोऽर्क इव वानरार्कः । उदयगिरिमिवाद्रि पर्वतं महेन्द्रं संप्रमुच्य खमाकाशमभ्यगात् अभिगतवान् । विटपिमृगाणां यो विषाद आसीत् कथं सीतान्वेषणीयेति स ध्वान्तमिव तं नुदतीति विप् । प्रियवचनानि मयूखा इव तैः करणभूतैः बोधितमर्था रविन्दं येन । अर्थः सीतोपलब्धिः सोऽरविन्दमिव । नृपहृदयं गुहेव तत्र तिष्ठतीति नृपहृदयगुहास्थम् । प्रमोहो विवादोअन्धकार इव तं नन् हनिष्यन् । वर्तमानसमीपत्वात् भविष्यति लट् । एतदिति रूपकं अन्वर्धयोपमया युक्तं ललाम नाम । यत उदेत्यस्मादित्युदकः '३१८८। अकर्तरि च कारके - ।३।३।१९।' इत्यच् । स चासौ गिरिश्चेत्यनुगतार्थता । यत्रान्व र्थता नास्त्युपमायाः तदुपमायुक्तमेव रूपकं दृष्टव्यम् ॥ उपमालंकारं दर्शयन्नाह इवोपमा ८४० - रघु-तनयम॑गात् तपो- वन - स्थं विघृत - जटाऽजिन-वल्कलं हनूमान् ॥ परमिव पुरुषं नरेण युक्तं सम-शम - वेश-समाधिना ऽनुजेन ॥ ३१ ॥ > रघुतनयमित्यादि- हनूमान् रघुतनयमगात् प्राप्तवान् । तपःप्रधानं वनं तपोवनं तत्र स्थितम् । विटता जटा अजिनं चर्म वल्कलं च येन तम् । अनुजेन कनीयसा भ्रात्रा लक्ष्मणेन समास्तुल्या: शमा वेशाः समाधयश्च यस्य तेन युक्तं परममुत्तमं पुरुषमिव पुरुषोत्तममिव नरेण युक्तम् । बदरिकाश्रमे नरनारायणयोस्तपश्चर्या स्थितत्वात् । इवोपमेति इवशब्देनोपमार्थस्य गम्यमानत्वात् । २७४ भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण रूपे प्रथमो वर्गः, उपमाया लक्षणम्- 'विरुद्धेनोपमानेन देशकालक्रियादिभिः ॥ उपमेयस्य यत्साम्यं गुणमात्रेण सोपमा ॥ इति । अत्र विरुदेशकालक्रियागुणः पुरुषोत्तम उपभान तेन रागस्योपमेयस्य तपोवनस्थत्वेन विटजटाजिनवल्कलत्वेन नरानुकारिलक्ष्म- जेनानुगतत्वेन च गुणमात्रेण साम्यमुपमानम् ॥ चथेवशब्द उपमार्थसूचकस्तथान्योऽपीति दर्शयन्नाह यथोपमा ८४१ - कर पुट- निहितं दधत् स रत्न परिविरलाऽङ्गुलि निर्गतता॒ऽल्प-दीप्ति । तनु-कपिल-घन-स्थितं यथेन्दुं नृपम॑नमत् परिभुग्न जानु मूर्धा ॥ ३२ ॥ करपुटनिहितमित्यादि — कुरपुटे करयुग्मे निहितं न्यस्तं रत्तं सीताचूडामणिं परिविरलाङ्गुलियो निर्गता अल्पा दीप्तयो यस्य तद्लं दधद्वारयन् स हनूमान् नृपं राममनसत् प्रणतवान् । परिभुने अवनते जानुनी मूर्धा च यस्य हनुमतः यथेन्दुं इन्दुमिव तनुः अच्छः कपिलश्च यो धनः मेवः तन्त्र स्थितमिन्दुमित्र रत्नम् । यथोपमेति यथाशब्देनोपमार्थस्य गम्यमानत्वात् ॥ सहोपमा ८४२ - रुचिरोन्नत-रत्न- गौरवः परिपूर्णा- ऽमृत-रश्मि-मण्डलः ॥ समदृश्यत जीविताऽऽशया सह रामेण वधू - शिरोमणिः ॥ ३३ ॥ रुचिर इत्यादि - वधूशिरोमणिः सीताचूडामणिः । उन्नतं महङ्गवगौरवं महार्थ्यादिलक्षणं यस्य रुचिरो दीप्तिमांश्वासी उन्नतरत्न गौरवश्चेति सः । परिपूर्ण स्यामृतरश्मेश्चन्द्रमसो मण्डलमिव मण्डलं यस्य सः । रामेण समदृश्यत संदृष्टः । कर्मणि लङ् । जीविताशया सह सार्धं तदर्शनतो जीवितोऽस्मीति तदाशया सह । सा रुचिरा तुष्टिदा रुचि राति ददातीति कृत्वा । उन्नतरत्तगौरवादुन्नतं रखेष्विव गौरवं बहुमानो यस्यामिति । परिपूर्णममृतममरणं रश्मिमण्डलं यस्यामिति । सहोपमेति सहशब्देन जीविताशया उपमाद्योतनात् ॥ तद्धितोपमा P ८४३ - अवसन्न रुचिं वऽऽगतं तम॑ना॒ऽऽमृष्टरजो विधूसरम् ॥ तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः – २७५ समपश्यदपेतमैथिलिं दधतं गौरव - मात्रमा॑त्मवत् ॥ ३४ ॥ · अवसन्नरुचिमित्यादि- तं शिरोमणिं आत्मवदात्मानमिव समपश्यद्रामः । ६१७७८ । तेन तुल्यम् - /५/६/११५।' इति वनिः । अवलन्नरुचिं मन्दप्रसं वेणीबन्धनमलिनत्वात् । इतरत्र सशोकत्वात् । वनागतं अशोकवनिकाख्याना- दागतं इतरं पितुरादेशाद्वनमागतम् । सुम्सुपेति समासः । अनामृष्टं अनपनीतं यद्वजः तेन विधूसरम् । अभयमपि अपेतमैथिलिं अपेता मैथिली येन यस्माद्दा । दुधतं गौरवमात्रं गुरुत्वमेव न दीत्यादिकं इतरं माहात्म्यं दधतम् । तद्धितोप- मेति तद्धितप्रत्यया दृष्टव्याः ॥ लुप्तोपमा ८४४ - सामर्थ्य - संपादित वाञ्छिताऽर्थश् चिन्ता मणिः स्यान् न कथं हनूमान् ॥ स-लक्ष्मणो भूमि-पतिस् तदानीं शाखा- मृगाऽनीक-पतिश् च मेने. ॥ ३५ ॥ सामर्थ्यत्यादि – सामर्थ्यन शक्त्या संपादितो निष्पादितो वाञ्छितोऽभिलषितोऽर्थो येन स हनूमान् कथं चिन्तामणिश्चिन्तामणिरिव न स्यात् । इति तदानीं मेने ज्ञातवान् । सलक्ष्मणः सह लक्ष्मणेन भूमिपती रामः शाखामृगानीकपतिश्च सुग्रीवः । लुप्तोपमेति चिन्तामणिरित्यत्रेवशब्दार्थस्य गम्यमानत्वात् लुप्तोपमेति ॥ समोपमा ८४५ - युष्मानं-चेतन् क्षय-वायु - कल्पान् सीता - स्फुलिङ्गं परिगृह्य जाल्मः ॥ लङ्का - वनं सिंह- समो ऽधिशेते मतुं द्विषन्नित्यवर्द्धनूमान् ॥ ३६ ॥ युष्मानित्यादि - युष्मान् रामादीन् क्षयवायुकल्पान् प्रलयकालमहावायुसदृशान् अचेतन् अजानन् । '३९ । चिती संज्ञाने' इति भौवादिकः । द्विषन् दशाननः जाल्मः मूर्खः सीतास्फुलिङ्गं सीतामग्निकणमिव परिगृह्यादाय लङ्का-वनमिवाधिशेते। मर्तुं मरिष्यामीति सिंहसम इत्यवदद्धनूमान् । समोपमे समशब्देनोपमाया अभिधानात् । अन्न निभ-सदृशादयोऽपि द्रष्टव्याः ॥ २७६ भट्टि-काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, इदानीमलंकारान्तराण्याहअर्थान्तरन्यासः८४६ - 'अहृत धनेश्वरस्य युधि यः समेत-मायो धनं, तम॑हमि॑तो विलोक्य विबुधैः कृतोत्तमाऽऽयोधनम् ॥ विभव मदन निहत-हिया ऽतिमात्र संपन्नकं, व्यथयति सत्-पथार्दधिगता ऽधवे॑ह संपन् न कम्.३७ अहृतेत्यादि — यो द्विषन् युधि संग्रामे समेतमायः समेता प्राप्ता माया येनेति तृतीयार्थे बहुव्रीहिः । मायावीत्यर्थः । धनेश्वरस्य धनदस्य धनमहृत हृत. वान् । '२३६९। हस्वादङ्गात् । ८।२।२७॥ इति सिचो लोपः । तं विबुधैर्देवैः सह कृतोत्तमायोधनं कृतमहासंग्रामम् । निहुता अपलपिता होर्लजा येन विभवम देन तेन निहुतहिया अतिमात्रं सुष्टु सम्पन्नकं युक्तं येन परस्त्रियमपहृत्यानीतवा नसौ तं विलोक्य अहमितः ग्राप्तः । विभवमदो लज्जां त्याजयतीत्यमुमेवार्थ अनुस्मृतार्थान्तरमाह — अथवेति । अथवाशब्दे निपातसमुदायः यस्मादर्थे वर्तते । यस्मादिह लोके संपत् विभूतिरधिगता प्राप्ता सत्पथात् सन्मार्गात् कं न व्यथयति चलयति । व्यथिरत्र चलने वर्तते । अर्थान्तरन्यास इति उक्तादर्था- दन्यस्योपन्यासात् । यथोक्तम्- 'उपन्यसनमर्थस्य प्रक्रान्तादपरस्य यत् ॥ ज्ञेयः सोऽर्थान्तरन्यासः पूर्वार्थानुगतो यथा ॥' इति ॥ आक्षेप:. ८४७ - ऋद्धि-मान् राक्षसो मूढश्, चित्रं नाऽसौ यदु॑द्धतः ॥ को वा हेतुरंनार्याणां धर्म्ये वर्त्मनि वर्तितुम् ॥ ३८ ॥ ऋद्धिमानित्यादि — यदसावुद्धतो दुर्वृत्तः न तच्चित्रमाश्चर्यम् । यस्मादसौ ऋद्धिमान् राक्षसश्च । उभयथा विमृढ इत्येतदयुक्तमिति प्रतिपेधयन्नाह - को वेति किमनेनोक्तेन यस्मादनार्याणां तद्विधानां धर्म्ये धर्मादनपेते वर्त्मनि मार्गे वर्तितुं को वा हेतुः किं नाम कारणम् । नैवेत्यर्थः । आक्षेप इति प्रतिषेधो नाम । यथो- क्तम्-प्रतिषेध इवेष्टस्य यो विशेषाभिधित्सया ॥ आक्षेप इति तं सन्तः शंसन्ति द्विविधो यथा ॥' इति । अत्र पूर्वार्धनोक्को य इष्टोऽर्थः तस्य को वेत्यादिना विशेषप्रतिपादनेच्छया प्रतिषेध इति । स च उक्त-वक्ष्यमाणविषयभेदाद्विविधः । अयमुक्तविषयः ॥ आक्षेप एव ८४८ - तस्या अधिवासे तनुरुत्सुका ऽसौ दृष्टा मया राम-पतिः प्र-मन्युः ॥ कार्यस्य सारो ऽयमुदीरितो वः, प्रोक्तेन शेषेण किमुद्धतेन ॥ ३९ ॥ तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शन' नाम दशमः सर्गः - २७७ तस्येत्यादि- - तस्य रावणस्याधिवासे लङ्कायां असौ रामपतिः सीता मया दृष्टा । रामः पतिर्यस्या इति । '४९१॥ विभाषा सपूर्वस्य ।४।१।३४।' इति नका- राभावपक्षे रूपम् । तनुः कृशाङ्गी । '५०२। वोतो गुणवचनात् ॥ ४ ॥१॥४४॥ इति ङीपो विकल्पः । उत्सुका सोत्कण्ठा, प्रकृष्टशोका । '५२१॥ ऊहुतः ॥४।१।६६॥ इत्यूङ् न भवति । तन्त्राऽयोपधादिति वर्तते । अयं कार्यस्यास्मदायत्तस्य सारः शरीरं सीतादर्शनम् उदीरितः कथितः । वो युष्मभ्यम् । शेषेणोद्धतेन अशोकव- निकाभङ्गादिना किं प्रोक्तेन । न किंचित् प्रयोजनम् । स एवेत्ययमप्याक्षेप एव किंतु वक्ष्यमाणविषयः । अत्र पूर्वार्धेनोक्तो य इष्टोऽर्थः तस्य विशेषाभित्सिया ग्रोकेनेत्यादिना शेपार्थप्रतिषेधः ॥ व्यतिरेकः 1 ८४९ - समतां शशि-लेखर्योपयायादेवदाता प्र-तनुः क्षयेण सीता, 11 यदि नाम कलङ्क इन्दु-लेखाम॑तिवृत्तो लघयेन् न च ऽपि भावी ॥ ४० ॥ समतामित्यादि – सीता अवदाता शुद्धा प्रतनुः प्रकर्षेण तन्वी क्षयेण दौर्बल्येन एतावता तुल्यधर्मत्वाच्छशिलेखया समतां तुल्यतामुपयायात् उपगच्छेत् । यदि कलको नामापरोऽतिवृत्तोऽतिक्रान्तः इन्दुलेखां न लघयेत् न न्यूनयेत् । तथा भावी आगामी नालघयिष्यत् यदि । न चैवं तस्माञ्चन्द्रलेखया न समेति भावः । व्यतिरेक इति अयं व्यतिरेको नाम अन्वयः । पूर्वार्धेनोपमानोपमेययोरर्थो दर्शितः तस्य पश्चार्धेन भेददर्शनात् । यथोक्तम्- 'उपमानवतो ऽर्थस्य यद्विशेपनिदर्शनम् ॥ व्यतिरेकं तमिच्छन्ति विशेषोत्पादनाद्यथा ॥' इति ॥ विभावना ८५० - अ - परीक्षित -कारिणा गृहीतां त्वम॑ना॒सेवित वृद्ध पण्डितेन ॥ - अ- विरोधित-निष्ठुरेण साध्वीं दयितां त्रातुर्मूलं घटस्व राजन् !" ॥ ४१ ॥ अविचारितकरणशीलेन, अविरोधितनिष्टुरेणानप- अपरीक्षितकारिणेत्यादि — अपरीक्षितकारिणा अनासे चितवृद्धपण्डितेन अपर्युपासितज्ञानवृद्धसत्पथेन, कृतो ऽपि क्रूरः सन् यः शत्रुः तेन गृहीतां साध्वीं पतिव्रतां दयिता मिष्टां त्राणाहर्हां त्रातुं रक्षितुमलं पर्याप्तं त्वं घटस्व यतस्त्र । हे राजन्नित्यवदद्धनूमान् । विभाव- नेति परीक्षा सेवा विरोधनं चेति तिस्रः क्रियाः तासां यः प्रतिषेधः नजा तेन अपरीक्षापूर्वकं यत् करणं तथा वृद्धसेवापूर्वकं यत्पण्डितत्वं यच्चाविरोधपूर्वकं निष्ठुरत्वं तस्य क्रियाफलस्य विभावनात् प्रकाशनात् । यथोक्तम्- 'क्रियायाः प्रतिषे- धेन तत्फलस्य विभावनात् ॥ ज्ञेया विभावनैवासौ सान्वर्थं कथ्यते यथा ॥' इति ॥ भ० का० २४ २७८ भट्टि-काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, समासोक्तिः ८५१ - स च विह्वल सत्त्व संकुल: परिशु॒ष्यन्नभवन् महा-हृदः ॥ परितः परिताप-मूच्छितः, पतितं चा ऽम्वु निरभ्रमप्सितम् ॥ ४२ ॥ * सचेत्यादि – सच रामो महादः महादसमः सीताविरहात् विह्वलेना. कुलेन सत्वेन चेतसा संकुलो व्याप्तः । परिशुष्यन् शोपमुपगच्छन् परितः समन्तात् परितापमृच्छितः शोकसंतापेन मूर्च्छान्वितोऽभवत् भूतः । अनन्तरं चाम्बु जलं सीता वार्ता श्रवणमीप्सितं अभिप्रेतं निरभ्रमाकस्मिकं पतितमित्येकोऽर्थः । महादः परिशुप्यन् विह्वलैः सवैर्मत्स्यादिभिः संकुलो व्याप्तः । परितापमूर्च्छितः अर्कतापा- न्वितोऽभवत् । अम्बु च निरभ्रं विना मेघेन पतितमिति द्वितीयः । समासोक्तिः । यथोक्तम्–'यत्रोक्तेर्गम्यतेऽन्यो ऽर्थस्तत्समान विशेषणः ॥ सा समासोक्तिरुदिता संक्षितार्थतया यथा ॥' इति । एवं च कृत्वा अयं लेपाद्भिद्यते । लेपे हि द्वयोरपि श्रयमाणत्वात् ॥ अतिशयोक्तिः८५२ - अथ लक्ष्मण-तुल्य - रूप-वेशं गमनाssदेश-विनिर्गताऽग्र-हस्तम् ॥ कपयो ऽनुययुः समेत्य रामं नत- सुग्रीव - गृहीत - साऽऽदराज्ञम् ॥ ४३ ॥ अथेत्यादि- - अथ वार्ताश्रवणानन्तरं कपयः समेत्य मिलित्वा राममनुययुः अनुगतवन्तः । लक्ष्मणेन तुल्यं रूपं वेशश्च यस्य रामस्य गमनाय प्राणाय आदेश: तदर्थं विनिर्गतौ अग्रहस्तौ यस्य । नतेन प्रणतेन सुग्रीवेण गृहीता प्रति ष्ठिता सादराज्ञा यस्य तं रामम् । अतिशयोक्तिरिति अतिशयाभिधानात् । अत्र सुष्टृपि नामासौ लक्ष्मणे च तुल्यरूपवेशः स्यात् न तु प्रत्यक्षप्रमाणपरिच्छेद्य इति लोकातिक्रान्तवचनमेतद्वचनम् । अवश्यं च कश्चिद्विशेपोऽस्ति । यथोक्तम्- 'निमित्ततो यत्र वचो लोकातिक्रान्तगोचरम् ॥ मन्यन्तेऽतिशयोक्किं तामलं- कारतया यथा ॥ ' इति ॥ कुलकम् ४३-४९यथा संख्यम् ८५३ - कपि-पृष्ठ- गतौ ततो नरेन्द्रौ. कपयश च ज्वलिताऽग्नि- पिङ्गलाऽक्षाः ॥ तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः – २७९ मुमुचुः प्रययु, द्रुतं समीयुर्, वसुधां, व्योम, महीधरं महेन्द्रम् ॥ ४४ ॥ कपिपृष्टगतावित्यादि - ततोऽनन्तरं नरेन्द्रौ रामलक्ष्मणौ कपयश्च सर्व एते मुमुचुः वसुधां त्यक्तवन्तः । प्रययुयम आकाशम् । महेन्द्रं महीधरं समीयुः गतवन्तः । लिटः कित्त्वे गुणाभावाद्धातोरियङ् । नरेन्द्र किंभूतौ । कपिपृष्ठगतौ हनूमन्तमारूढौ । यथासंख्यमिति मुमुचुरित्यादिना क्रियाणां वसुधादीनां च कर्मणामनुक्रमशो निर्देशात् । यथोक्तम्- 'भूयसामुपदिष्टानां क्रियाणामथ कर्म- णाम् ॥ क्रमशो योऽनुनिर्देशो यथासंख्यं तदुच्यते ॥' इति ॥ उत्प्रेक्षा- ८५४ स्थितमि॑िव परिरक्षितुं समन्ता- दु॑दधि-जौघ-परिष्लवाद् धरित्रीम् ॥ गगन-तल - वसुन्धराऽन्तराले जल-निधि-वेग-सहं प्रसार्य देहम् ॥ ४५ ॥ स्थितमित्यादि – उदधिजलौघात्समन्ततो यः परिप्लवो विनाशः तस्माद्ध- रित्रीं परिरक्षितुमिव गगनतलवसुन्धरयोरन्तराले देहं शरीरं जलनिधिवेगं सहत इति मूलविभुजादित्वात्कः । प्रसार्य स्थितं महेन्द्रं समीयुः । उत्प्रेक्षेति । यथो- क्तम्-'अविवक्षितसामान्यात्किंचिञ्चोपमया सह ॥ अतद्गुणक्रियारोपादुत्प्रेक्षा तिशयान्विता ॥' इति । अत्र महीधरसामान्यस्यापि विवक्षितत्वादविवक्षितं सामान्यत्वं रक्षितुमिवेति किंचिदुपमया सह महेन्द्रगिरेरतद्गुणतया रक्षणक्रिया- योगः । गगनतलं वसुन्धरां व्याप्य स्थितमित्यतिशयान्विता ॥ वार्ता८५५ - विषधर-निलये निविष्ट-मूलं शिखर-शतैः परिमृष्ट-देव-लोकम् ॥ घन - विपुल नितम्ब-पूरिता॒शं । फल- कुसुमाऽऽचित - वृक्ष रम्य कुञ्जम् ॥ ४६ ॥ विषधरनिलय इत्यादि — विषधर निलये पाताले निविष्टमूलं महेन्द्रम् । शिखरशतैः करणभूतैः परिसृष्टः संसृष्टः देवलोको येन । घनैर्निरन्तरैर्विपुलैर्विस्तीर्णैर्नितम्बैर्मेखलाभागैः पूरिता व्याप्ता आशा दिशो येन । फलकुसुमा चितैर्वृक्षैः रम्यं कुअं गहनं यस्मिन् । वार्तेति तत्त्वार्थकथनात् । सा द्विविधा विशिष्टा निर्विशिष्टा च । तत्र या पूर्वा स्वभावोक्तिरुदिता । यथेयमेव । तथा चोक्तम्'स्वभावोक्तिरलंकार इति केचि प्रचक्षते ॥ अर्थस्य तादवस्थ्ये च स्वभावोऽभिहितो यथा ॥' इति । निर्विशिष्टा वार्ता नामालंकारः । यथोक्तम्- 'गतोऽस्तमको भातीदुर्यान्ति वासाय पक्षिणः । इत्येवमादिकं काव्यं वार्तामेवां प्रचक्षते ॥' इति ॥ २८० भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण रूपे प्रथमो वर्गः, प्रेयः BUSCARON ८५६ - मधुकर विरुतैः प्रियाध्वनीनां सरसि-रुहैर् दयितता॒ऽऽस्य-हास्य-लक्ष्म्याः ॥ स्फुटम॑नु॒हरमाणमा॑दधानं पुरुष पतेः सहसा परं प्रमोदम् ॥ ४७ ॥ मधुकरविरुतैरित्यादि–प्रियाध्वनीनां सीतासंबन्धिनां जल्पितानां मधु- करविरतैः स्फुटं स्पष्टमनुहरमाणमनुकुर्वन्तं सादृश्यमित्यर्थात् । दयितायाः सीतायाः यदास्यं हासश्चैतयोर्लक्ष्म्याः सरसिरुहैः सादृश्यमनुहरमाणं सन्तं महेन्द्रम् । तत्र पद्मैरास्यलक्ष्म्याः कुमुदैसलक्ष्म्याः । अथवा '६३० । तुल्यायें:- ।२।३।७२।' इति पष्ठी । अनुहरमाणशब्दस्य तुल्यार्थत्वात् । सहशीभवन्तमित्यर्थः । पुरुपपतेः रामस्य सहसा तत्क्षणं आगतमात्रस्येत्यर्थः । परमुत्कृष्टं प्रमोदमादधानं जनयन्तं समीयुः । प्रेय इति प्रियतमवस्त्वभिवानात् ॥ रसवत् ८५७-ग्रह-मणि-रसनं दिवो नितम्बं विपुलम॑नु॒त्तम-लब्ध - कान्ति-योगम् ॥ च्युत घन वसनं मनोऽभिरामं शिखर- करैर् मदनादिव स्पृशन्तम् ॥ ४८ ॥ ग्रहेत्यादि - दिवो नितम्बं मध्यभागं ग्रहाः मणिरसनेव यस्य । विपुलं विस्तीर्णम् । न विद्यते उत्तमोऽस्मादित्यनुत्तम अतिशयवान् । लब्धः कान्त्या योगो येन । च्युतो घनो वसनमिव यस्मात् । शिखरैः करैरिव मदनादिव स्पृशन्तं महेन्द्रम् । रसवदिति दिवो गिरेश्च स्त्रीपुंसयोरिव शृङ्गाररसाभिधानात् । तथा चोक्तम्- 'रसवदर्शितं स्पष्टं शृङ्गारादिरसं यथा ।' इति ॥ ऊर्जस्वी4 ८५८ प्रचपलम॑ गुरुं भराऽसहिष्णुं जनम॑समानम॑नू॒र्जितं विवर्ज्य ॥ कृत - वसतिमि॑िवाऽर्णवपकण्ठे स्थिरम-तुलोन्नतिर्मूढ - तुङ्ग-मेघम् ॥ ४९ ॥ प्रचपलमित्यादि —– जनं लोकं प्रचपलं अस्थिरं अगुरुं लघु अत एव भरा- सहिष्णुं अनूर्जितं अनहंकारं विवर्यैवासमानत्वात् अर्णवस्य समुद्रस्योपकपुठं स्था लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः– २८१ समीपे कृतवसतिं कृतावस्थानं समीयुः । तदेवासमानत्वं दर्शयन्नाह - स्थिरं अचलं अतुलोन्नतिं असाधारण महत्त्वमूढतुङ्ग सेवं उद्धृतमहामेवं आश्रयणीयत्वात् । ऊर्जस्वीति साहंकारवस्त्वभिधानात् ॥ पर्यायोक्तिः- ८५९–स्फटिक-मणि-गृहै: स-रत्न- दीपेः प्रतरुण - किन्नर-गीत-निस्वनैश् च ॥ अमर-पुर- मतिं सुराऽङ्गनानां दधतम॑-दुःखम॑नल्प-कल्पवृक्षम् ॥ ५० ॥ स्फटिकमणिगृहैरित्यादि - स्फटिकमणिगृहैः रत्नदीपयुक्तः प्रतरुणानां कि- नराणां गीतनिस्वनैश्च हेतुभूतैः अमरपुरमति स्वर्गवा सुराङ्गनानां दधतं जनय न्तम्। अदुःखं न विद्यते दुःखमस्मिन्निति सुखहेतुमित्यर्थः । बहुकल्पवृक्षं समीयुः । पर्यायोक्तिरिति अमरपुरमतिं दधतमित्यनेन पर्यायेण वचनगत्या तदेवामरपुर- मिनि प्रतिपादनात् । तथा चोक्तम्-'पर्यायोक्तं यदन्येन प्रकारेणाभिधीयते' इति ॥ समाहितम् ८६० - अथ दहशुरुदीर्ण-धूम-धूत्रां दशमु॑दधि-व्यवधिं समेत-सीताम् ॥ सह-रघुतनयाः प्लवङ्ग-सेनाः पवन सुताऽङ्गलि-दर्शितायु॑द॒क्षाः ॥ ५१ ॥ · अथेत्यादि — अथ प्रायनन्तरं प्लवङ्गसेनाः सहरघुतनया दिशं ददृशुः । उद्- धिव्यवधिं सजलधिव्यवधानां दक्षिणामित्यर्थ: । '३२७० । उपसर्गे घोः किः ।३।३।९२ । उदीर्णेन महता धूमेन धूम्रामस्पष्टाम् । समेतसीतां संगता सीतान- येति तृतीयार्थे बहुव्रीहिः । पवनसुतस्याङ्गुल्या दर्शिताम् । उदक्षाः ऊर्ध्वाकृताक्षाः । '८५२ । बहुव्रीहौ सक्थ्यक्ष्णोः-।५।४।११३॥ इति षच् । षिलक्षणो ङीष् न भवति तस्यानित्यत्वात् । तेन दंष्त्युपपन्नं भवति । समाहितमिति अनन्यमन- स्कतया दिशो ऽवलोकनात् ॥ कलापकं चतुर्भिः ५१-५४उदारम् ८६१ - जल-निधिमंगमन् महेन्द्र कुञ्जत् प्रचय - तिरोहित-तिग्म-रश्मि - आसः ॥ भट्टि-काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, सलिल - समुदयैर् महा- तरङ्गैर् भुवन-भर- क्षमर्मप्य - भिन्न-वेलम् ॥ ५२ ॥ जलनिधिमित्यादि - महेन्द्रकुञ्जत् जलनिधिमगमन् गतवत्यः लवङ्गसेनाः । लुढिवाच्चेरङ् । प्रचयेन उच्चतया तिरोहितास्तिग्मरश्मिभासो येन निकुञ्जन तस्मान्निकुञ्जत् । सलिल समुदयैर्महातरंगैर्महोर्मिभिः भुवनस्य भरणे क्षममपि शक्तमपि। '१५८६। भृ भरणे' इति क्रैयादिकः । तस्य ऋतोरपि रूपम्। अभिन्नवेलं अनतिक्रान्तमर्यादं जलनिधिम् । उदार मिति उदात्तमित्यर्थः । महानुभावताप्रतिपादनात् । यतो महातरङ्गैर्जल समूहैर्भुवनभरक्षममपि अभिन्नवेलमिति । द्विविधमुदारं महानुभावतया विविधरलयोगाञ्चेति । इयं महानुभावता दर्शिता ॥ द्वितीयमाह उदारमेव ८६२ - पृथु गुरु-मणि-शुक्ति-गर्भ- भासा ग्लपित-रसा तल - संभृता॒ऽन्धकारम् ॥ उपहत- रवि- रश्मि - वृत्तिर्मुच्चैः प्रलघु- परिप्लवमान - वज्र-जालैः ॥ ५३ ॥ पृथ्वित्यादि - पृथवो महान्तः गुरवस्तु न परिच्छेद्या मणयो मौक्तिका यासां शुक्तीनां तथाविधानां गर्भस्य भासा दीया ग्लपितं क्षयितं रसातले संभृतमुपचितमन्धकारं येन तम् । उच्चैरुपरि प्रलघूनामल्पानां परिष्ठवमानानां वज्राणां यानि जालानि समूहाः तैरुपहता रविरश्मिवृत्तयो यस्मिन् सः । तं जलनिधिमगमन् । यद्वज्रं वारिणि तरति तत्प्रशस्तमित्युक्तम् । 'एतदेवापरेऽन्येन चाक्यार्थेनान्यथा विदुः ॥ नानारत्ववियुक्तं यत्तत्किलोदारमुच्यते ॥' इति ॥ उदारमेव ८६३ - समुपचित जलं विवर्धमानैरं- मल- सरित्-सलिलैर् विभावरीषु ॥ स्फुटम॑वगमयन्त मूंढ - वारीन् शश - धर - रत्न - मयान् महेन्द्र सानून् ॥ ५४ ॥ समुपचितजलमित्यादि - विभावरीषु विवर्धमानैरमलैः सरित्सलिलैः समुपचितजलं उदधिं स्पष्टमवगमयन्तं बोधयन्तम् । किमित्याह - महेन्द्र सानून् शशधररखमयान् चन्द्रकान्तस्वभावान् ऊढवारीन् । अन्यथा कथं धीयते जलं यदि चन्द्रकान्तसानवो न स्युः । उदारमेवेति रत्नयोगात् ॥ तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः --- २८३ श्लिष्टम् ८६४ - भुवन-भर-सहान-लय-धौम्नः पुरु- रुचि रत्न-भृतो गुरुरु- देहान् ॥ श्रम-विधुर - विलीन - कूर्म-नक्रान् दधतमुढूंढ- भुवो गिरीनंहींश च ॥ ५५ ॥ भुवनभरसहानित्यादि - गिरीन् भुवनभरसहान् अहींश्च तादृशानेव दधतं जलनिधिमगमन् । गिरीलङ्घयधाम्नः अहीं श्वानभिभवनीयतेजसः । गिरीन् पुरुरुचिरत्नभृतः अहींश्च महारुचिरत्नभृतः । गिरीन् गुरुदेहान् अहींश्च महाका- यान् । श्रमविधुराः श्रमपीडिताः विलीना: कूर्मा नक्राश्च येपु तान् गिरीनहींश्चो- ढूढभुवो धृतवसुधान् । गिरीनहीं । १४०॥ न च्छव्यप्रशान् ।७।३।७।' इति रुत्वं पूर्वस्यानुनासिकः । श्लिष्टमिति । उपमानेनोपमेयत्वस्य साधनात् । तथा चोक्तं विशेषणेन लिटम् -'उपमानेन यत्तत्वमुपमेयस्य साध्यते ॥ क्रिया- गुणाभ्यां नाम्ना च श्लिष्टं तदभिधीयते ॥ इति । अनोपमानभूतैरहिभिरुपमेय- भूतानां गिरीणां तत्त्वस्य ताप्यस्य भुवनभरादिताद्रूप्यक्रियया तद्गुणेन च साध- नेन गिरिभिरहिभिश्च नाम्ना च शब्देन भुवनभरसहानित्यादिना साध्यमान- त्वात् । रूपकमपीदृशमेव । किंतु श्लिष्टस्य भेदेनोपमेययोर्युगपत्प्रयोगात् । रूपके पुनरेकस्यैवोपमेयपुरुषस्य व्याघ्र उपमानम् । तथा चोक्तम् – 'लक्षणं रूपकेऽपीदं विद्यते काममन्त्र तु ॥ दृष्टः प्रयोगो युगपदुपमानोपमेययोः ॥' इति । तदुक्तम् । लक्षणं लिष्टं सहोक्त्युपमाहेतुनिर्देशाश्रिविधम् । यथोक्तम् – 'श्लेषादेवार्थवच- सोर्यस्य च क्रियते भिदा ॥ तत्सहोत्त्युपमाहेतुनिर्देशान्त्रिविधं यथा ॥' इति । तत्रेदं सहोक्तिलिष्टमुक्तं गिरी नहींश्चेति सहोत्या निर्देशात् ॥ श्लिष्टमेव ८६५ - प्रददृशुरुरु-मुक्त-शीकरौघान् विमल-मणि-द्युति-संभृते॒न्द्र-चापान् ॥ जल-मुच इव धीर-मन्द्र - घोषान् क्षिति- परिताप-हतो महा-तरङ्गान् ॥ ५६ ॥ १ - '१३३१। गृह-देह-त्विट्-प्रभावा धामानि' इति नानार्थात् गिरिपक्षे अलट्र्यानि धामानि देहा येषामित्यर्थः । अहिपक्षे च धामानि तेजांसीति । २ - गुरुवः जडा: उरवः विशालाश्च देहा येषामिति विग्रहः । ३ - अत्र गिरिपक्षे अर्थष्टीकायां स्फुट एब । अहिपक्षे तु श्रमेण भयादितस्ततः पलायनप्रयत्लेन विधुराः श्रान्ताः सन्तो विलीना: विशेषेण लयं नाशं प्रायः कूर्मादयो येष्वित्यर्थः । २८४ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, प्रदहशुरित्यादि- -महातरङ्गान् जलमुच इव मेघानिव प्रददृशुः मदृष्टवत्यः । उरवो महान्तो मुक्ताः प्रकीर्णाः शीकरौधा येषु । विमलमणिधुतय एव सन्तता नि इन्द्रचापानियेपु । धीरमन्द्रोपान् मधुरगम्भीरध्वनीन् । क्षितिपरितापहृतः पृथिवीसंतापहारिणः । इदमपि यथानिर्दिष्टविशेषणात् लिष्टं जलमुच इवेत्युप- माननिर्देशात् ॥ कुलकम् ५६-६०हेतु- श्लिष्टम् ८६६ - विद्रुम-मणि-कृत-भूषा मुक्ता-फल- निकर - रञ्जिताऽऽत्मानः ॥ वभुरुंदक- नाग- भग्ना वेला-तट-शिखरिणो यत्र, ॥ ५७ ॥ विद्रुमेत्यादि – वेलातट शिखरिणो यत्रेति जलनिधौ वभ्रुः शोभन्ते स्म । ते तमीयुरिति वक्ष्यमाणेन संवन्धः । वेलातटाः शिखरिणश्चेति द्वन्द्वः । शेषाणि विशेषणान्युभयत्र तुल्यानि । इदमपि यथानिर्दिष्टमेव । किंतु हेतुलिएं हेतुद्वारेण विशेषणानां निर्देशात् । विद्रुममणिकृतभूपात्वात् जलहस्तिभन्नत्वाच्च वभुरिति ॥ अपह्नुतिः ८६७ - भृत- निखिल-रसा- तलः स - रत्नः शिखरि-समोर्मि-तिरोहिताऽन्तरीक्षः ॥ कुत इह परमाऽर्थतो जलौघो जल-निधिमयुर॑तः समेत्य मायाम् ॥ ५८ ॥ भृतनिखिलरसातल इत्यादि – एवंगुणविशिष्टो जलौघः कुत इह प्रदेशे परमार्थतः परमार्थेन विद्यते । किं तर्हि माया । यतः पूरिताशेपपातालत्वात् सरत्नत्वात् । शिखरिसमैरूर्मिभिः पिहितान्तरिक्षत्वाञ्च । सराघवाः लवङ्गसेनाः समेत्य मायामिव जलनिधिमीयुः ज्ञातवत्यः । सर्वे गत्यर्था ज्ञानार्था इति । '९६४ । भृञ् भरणे' इति भौवादिकः । अपह्नुतिरिति मायामित्यन्तर्गतोपमारूपतया निर्देशात् । विद्यमानांर्थस्य चापह्नवात् । तथा चोक्तम् – 'अपह्नुतिरितीष्टात्र किंचिदन्तर्गतोपमा ॥ भूतार्थापहवादेषा क्रियतेऽस्याभिदा यथा ॥' इति । विशेषोक्तिः८६८ - शशि रहितम॑पि प्रभूत- कान्ति विबुध-हृत - श्रियम॑प्य - नष्ट-शोभम् ॥ तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शन' नाम दशमः सर्गः – २८५ मथितम॑पि सुरैर् दिवं जलौघैः समभिभवन्तर्म-विक्षत प्रभावम् ॥ ५९ ॥ शशिरहितमित्यादि-शशिरहितमपि मुग्धचन्द्ररहितमपि प्रभूतकान्ति पद्मरागादिरलावभासितत्वात् । विबुधहृतश्रियमपि अनष्टशोभं सर्वदा शोभास्प- दत्वात् । सुरमैथितमपि दिवमाकाशं जलौघैः समभिभवन्तं अत्युच्छ्रितत्वात् तदेवमविक्षतप्रभावं अखण्डिताभिमानमीयुः ज्ञातवयः । विशेषोक्ते रिति शश्या- देरेक देशस्य विगमे ऽपि प्रसूतकान्त्या गुणान्तरेण स्तुतिविशेषस्य प्रतिपादनात् । यथोक्तम् – 'एक देशस्य विगमे या गुणान्तरसंस्तुतिः ॥ विशेषप्रथनायासौ विशे- पोक्तिर्मता यथा ॥' इति ॥ व्याज-स्तुतिः- ८६९ - क्षिति- कुल- गिरि- शेष-दिग्-गजेन्द्रान् सलिल - गतामि॑िव नावमु॒द्वन्तम् ॥ धृत - विधुर धरं महा वराह गिरि-गुरु-पोत्रम॑पहितैर् जयन्तम् ॥ ६० ॥ क्षितीत्यादि–क्षितिं पृथिवीं, कुलगिरीन् कुलपर्वतान्, शेवं नागराजं, दिग्गजेन्द्रानैरावतादीन् । सलिलगतामिव नावमुद्दहन्तं जलनिधिं महावराहं घृतविरघरं घृता उद्धृता विधुरा विह्वला धरा मही येनेति । गिरिगुरुपोत्रं गिरि- वत् गुरु पोनं यस्य तमपीहितैश्चेष्टितैर्जयन्तं जलनिधिमीयुः । व्याजस्तुतिरिति क्षित्यादिधारणादधिकगुणस्य जलनिधेस्तोत्रव्यपदेशेन वराहेण तुल्यत्वात् । तम- पि महावराहं जयन्तमिति किंचिद्विधातुमिच्छया निन्दनात् । तथा चोक्तम्- 'दूराधिकगुणस्तोत्रव्यपदेशेन तुल्यता ॥ किंचिद्विधित्सया निन्दा व्याजस्तुतिरसौ यथा ॥' इति ॥ उपमा-रूपकम्- ८७० - गिरि-परिगत-चञ्चलाऽऽपऽन्तं जल-निवहं दध॑तं मनो॒ऽभिरामम् ॥ गलितमिव भुवो विलोक्य रामं धरणि-धर-स्तन- शुक्ल-चीन-पट्टम् ॥ ६१ ॥ गिरीत्यादि - गिरिभिः परिगताः संसृष्टाः चञ्चला विलोला आपगान्ता नद्यन्ता यस्मिन् जलनिवहे, तं जलनिवहं दूधतं धारयन्तं समुद्रमीयुः । कीदृश२८६ भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, मिव जलनिवहम् । रामं भर्तारं विलोक्य हृष्टाय इत्यर्थप्राप्तम् । ततश्च पूर्वकाले क्त्वा । भुवः पृथिव्या इव धरणिधरस्तनयोः शुकचीनपट्टमिव गलितम् । उपमारूपकमिति । तथोक्तम्- 'उपमानस्य तद्भावमुपमेयस्य रूपयन् ॥ यो वढत्युपमाभेदमुपमारूपकं यथा ॥' इति । तुल्ययोगिता -- ८७१-अ-परिमित-महाऽद्भुतैर् विचित्रश् च्युत- मलिनः शुचिभिर् महान-लङ्घयैः ॥ तरु-मृग- पति-लक्ष्मण- क्षितीन्द्रैः समधिगतो जलधिः परं भासे ॥ ६२ ॥ अपरिमितमहाद्भुतैरित्यादि- तस्मृगपतिलक्ष्मणक्षितीन्द्रैः सुग्रीवलक्ष्म- णरामैः समधिगतः प्राप्तो जलधिः परं सुष्टु वभासे शोभते स्म । कीदृशैः कीदृश इत्याह-अपरिमितमहाद्भुतैर्विचित्रः नानाद्भुतः । शुचिभिर्विमलैः च्युतमलिनो निर्मलोडलड्ड्यैरनभिभवनीयैः महान् अनभिभवनीयः । एवं च कृत्वा तेनापि ते समधिगताः परं बभासिर इति । तुल्ययोगितेति न्यूनानामपि तेषां सुप्री- वादीनां विशिष्टेन जलनिधिना महाद्भुतत्वादिगुणसाम्यविवक्षया तुल्यस्य कार्यस्य भासनलक्षणस्यानुष्ठानेन तुल्ययोगात् । तथा चोक्तम्-'न्यूनस्यापि विशिष्टेन गुणसाम्य विवक्षया ॥ तुल्यकार्यक्रियायोगादित्युक्ता तुल्ययोगिता ॥' इति ॥ निदर्शनम् ८७२ - न भवति महिमा विना विपत्तेस्वगमयन्निव पश्यतः पयोधिः ॥ अ- विरतमभवत् क्षणे क्षणे ऽसौ शिखरि- पृथु - प्रथित-प्रशान्त - वीचिः ॥ ६३ ॥ न भवतीत्यादि - महिमा महत्वं विना विपत्तेः विनाशं विना न भवति '६०३ । पृथग्विना ।२।३।३२।' इत्यादिना पञ्चमी । नास्त्येव तन्महत्वं यस्य विनाशो नास्तीत्येवमवगमयन् बोधयन्निव पयोधिस्तान् पश्यतो रामादीन् अवि- रतमविच्छेदेन शिखरिवत् पृथवः प्रथिताः प्रशान्ताश्च वीचयो यस्य स एवं क्षणे क्षणे अभवत् भूतवान् । निदर्शनेति प्रतिक्षणं वीचीनां पृथुत्वप्रशान्तत्वभवन- क्रिययैव महिमभवनस्य तदर्थस्य विपत्तिफलस्य उपादानात् । न यथेववतिश- ब्दानां प्रयोगात् । तथा चोक्तम्- 'क्रिययैव तदर्थस्य विशिष्टस्योपदर्शनात् ॥ इष्टा निदर्शना नाम यथेववतिभिर्विना ॥' इति ॥ तरुमृगाः शाखामृगाः कपयस्तेषां पतिरिति विग्रहः । तथा लक्ष्य-रूपे कथानके 'सीताभिज्ञानदर्शनं' नाम दशमः सर्गः – २८७ समुद्रोपकण्टे रामस्य मदनावस्थामाह विरोधः८७३– मृदुभिर॑पि विभेद पुष्प- बाणैश् चलशिशिरैरपि मास्तैर् ददाह ॥ रघु-तनयमनर्थ - पण्डितो ऽसौ, न च मदनः क्षतमततान, ना ऽर्चिः ॥ ६४ ॥ मृदुभिरित्यादि – मदनोऽनथेपण्डितः निष्प्रयोजनकुशलः पुष्पबाणैरपि स्मृदुभिः रघुतनयं विभेद । न चासौ क्षतं खण्डनमाततान जनितवान् । जलशिशिरैर्मारुतैस्तमेव रघुतनयं ददाह न चासावर्चिवलामाततान । विरोध इन पुष्पबाणानां यन्मार्दवं मरुतां च जलसंसर्गाद्यच्छँयं तयोर्भेद्दाहलक्षणे क्रिये विरुद्धे तयोरभिधानात् । तयोश्च क्रिययोर्वा विरोधिनी क्रिया क्षतार्चिषोरवतानलक्षणा तस्याः कामोद्रेकप्रतिपादनाभिधानात् । तथा चोक्तम्-'गुणस्य च क्रियाया त्रा विरुद्धान्यक्रियाभिधा । या विशेषाभिधानाय विरोधं तं विदुर्यथा ॥' इति ॥ उपमेयोपमा ८७४ - अथ मृदु-मलिन प्रभौ दिनाऽन्ते जलधि- समीप-गताव॑तीत-लोकौ ॥ अनुकृतिर्मितरेतरस्य मूर्त्योर् दिन-कर-राघव - नन्दनावकाम् ॥ ६५ ॥ अथेत्यादि – अथ यथोक्तवस्त्वनन्तरं मृदुमलिनप्रभौ मृदुरप्रचण्डा मलिना प्रभा ययोः तौ दिनकरराघवनन्दनौ । रघोरपत्यं राघवः दशरथस्तन्नन्दनो रामः दिनान्ते अन्योन्यस्य दिवाकरो रामस्य रामो ऽपि दिवाकरस्येति मूर्योर्देहयोरनु - कृतिमिवानुकारमिव यथोक्तधर्मतुल्यतया अकार्ष्टा कृतवन्तौ । अतीतलोकौ त्यक्त- लोकौ । उपमेयोपमेति । तयोः पर्यायेण उपमानोपमेयत्वात् । तथा चोकम्- 'उपमानोपमेयत्वं यत्र पर्यायतो भवेत् ॥ उपमेयोपमां धीरा ब्रुवते तां यथो- द्विताम् ॥ इति ॥ सहोक्ति:- ८७५ - अपहरदिव सर्वतो विनोदान् दयित-गतं दधदेकधा समाधिम् ॥ घन - रुचि ववृधे ततो ऽन्धकारं सह- रघु - नन्दन-मन्मथो॒दयेन ॥ ६६ ॥ २८८ भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, अपहरदित्यादि-- ततस्तूत्तरकालं दिवसे ये विनोदाः चेतसः संस्थापका तान् सर्वतः सर्वान् सर्वेण वा प्रकारेण । आद्यादित्वात्तसिः । अपहरदिव अपनयदिवान्धकारं दथितगतं प्रियागतं च । समाधिं चित्तैकाग्रतां एकधा एकप्रकारं दधत् धारयत् । घनरुचि बहुलच्छायं ववृधे वर्धते स्म । सह रघुनन्दनमन्मथोदयेन तदानीं तस्य कामोद्योऽपि ववृधे । सहोक्तिरिति अन्धकारवन्मन्मथाश्रितयोर्वर्धन क्रिययोस्तुल्यकालयोः ववृध इत्यनेन पदेन कथनात् । तथा चोक्तम्- 'तुल्यकालक्रिये यत्र वस्तुद्वयसमाश्रिते ॥ वाक्येनैकेन कथ्येते सहोक्तिः सा मता यथा ॥' इति ॥ परिवृत्तिः ८७६-अधि-जलधि तमः क्षिपन् हिमांशुः परिददृशे ऽथ दृशां कृताऽवकाशः ॥ विदधर्दिव जगत् पुनः प्रलीनम्. भवति महान् हि परार्थ एव सर्वः ॥ ६७ ॥ अधिजलधीत्यादि – अथ हिमांशुरन्धकारवर्धनानन्तरम् । अविजलधि जलधेरुपरि । विभक्तयर्थेऽव्ययीभावः । तमः क्षिपन् अपनयन् । परिददृशे दृष्टः । दृशां चक्षुषां कृतावकाशः दत्तावसरः । जगलोकं मलीनं तिरोभूतं पुनर्विदधदिव सृजन्निव । कस्मात्तेनैवं कृतमित्याह - यस्माद्यो महान् स सर्वः परार्थ एवं पर प्रयोजन एक भवति । परिवृत्तिरिति दृशां कृतावकाश इत्यनेन विशिष्टस्य वस्तुन आदानात् । तमः क्षिपन्नित्यनेनास्य वस्तुनः अपोहात्, भवतीत्यादिना अर्थान्तरन्यासात् । तथा चोक्तम्- 'विशिष्टस्य यदादानमन्यापोहेन वस्तुनः ॥ अर्थान्तरन्यासवती परिवृत्तिरसौ यथा ॥ इति ॥ स-सन्देह:८७७ - अशनिर॑यम॑सौ, कुतो निरभ्रे. शित-शर वर्षर्म - सत् तदव्य-शार्ङ्गम् ॥ इति मदन-वशो मुहुः शशाङ्के रघु-तनयो, न च निश्चिकाय चन्द्रम् ॥ ६८ ॥ अशनिरित्यादि — असौ यश्चन्द्रः किमयमशनिर्वत्रं, असौ कुतो निरभ्रे नभसि कुतः, यतोऽसौ मेघादुत्पद्यत इति । उत निशितानां शराणां वर्षं तदप्यशार्ङ्गमविद्यमानधनुः असदविद्यमानमित्ययं मदनवशः कामाभिभूतो मुहुः क्षणं शशाङ्के शशाङ्कविषये रघुतनयोऽभूदित्यर्थात् द्रष्टव्यम् । न च चन्द्रं निश्चिकाय निश्चि नोति स्म । '२५२५ । विभाषा चेः ।७।३।५८ ।' इति कुत्वम् । ससन्देह इति । अशनिशरवर्षाभ्यां उपमेयस्य चन्द्रस्य तत्वं अशनिशरवर्षमिति प्रयोकुरभिधानात् । कुतो निरञे तद्प्यशार्ङ्गमिति पुनरुपमानोपमेययोर्भेदाभितथा लक्ष्य-रूपे कथानके 'सीताऽभिज्ञानदर्शन' नाम दशमः सर्गः-२८९ धानात् न निश्चिकाय चन्द्रमिति स्तुत्यर्थ सन्देहवचोऽभिधानाच्च । तथा चोक्तम्- 'उपमानोपमेयस्य तत्त्वं च वदतः पुनः ॥ समन्देहवचः स्तुत्यै ससन्देहं विदुर्यथा ॥' इति ॥ अनन्वयः ८७८- कुमुद-वन-चयेषु कीर्ण-रश्मिः क्षत-तिमिरेषु च दिग्-वधू-मुखेषु ॥ वियति च विललास तद्-वदि॑िन्दुर, विलसति चन्द्रमसो न यद् वर्दन्यः ॥ ६९ ॥ कुमुदद्वनचयेष्वित्यादि — कुमुदवनानां चयेषु समूहेपु, दिग्वधूमुखेषु, वियति च, क्षततिमिरेपु खण्डिततमःसु यतस्तेषु विकीर्णरश्मिः क्षिप्तमयूखः विललास तहदिन्दुः शोभते स । चन्द्रमसः सकाशात् अन्यो चढद्यथा न विकसति तथा विललास । इदमुक्तं भवति । इन्दुर्विललास चन्द्र इवेति । अनन्वय इति सत्सदृशस्य साम्यस्याविवक्षातश्चन्द्वस्योपमानोपमेयत्वात् । तथा चोक्तम्-'यत्र तेनैव तस्य स्यादुपमानोपमेयता ॥ सादृश्यस्याविवक्षातस्तमित्याहुरनन्वयम् ॥' इति ॥ उत्प्रेक्षाऽवयवः ८७९ - शरणमिव गतं तमो निकुञ्जे विटपि-निराकृत चन्द्र रश्म्यरातौ ॥ पृथु - विषम-शिलाऽन्तराल - संस्थ स- जल-घन-द्युति भीत-वत् ससाद ॥ ७० ॥ शरणमित्यादि – पृथुविषमशिलानां यान्यन्तरालानि तेषु संस्थं संतिष्ठ- मानं सत्तमः निकुञ्जे गहने विटपिभिर्निराकृताश्चन्द्रस्य रश्मय एवारातयो यस्मा- निकुञ्जात् तस्मिन् ससाद विलीनं शरणमिव । यथा कश्चित् भीतो दुर्गे निली- यते । सजलस्य घनस्येव द्युतिर्यस्य तमसः । उत्प्रेक्षावयव इति । भीतवत्स- सादेति उपमाश्लेषलक्षणस्य लिष्टस्यार्थेन योगात् शरणमिव गतमित्युत्प्रेक्षायो- गात्, 'विटपिनिराकृतचन्द्ररश्म्यरातौ इति रूपकार्थेन योगात् । तथा चोक्तम्- 'श्लिष्टस्यार्थेन संयुक्तः किंचिचोप्रेक्षयान्वितः ॥ रूपकार्थेन च पुनरुत्प्रेक्षावयवो यथा ॥' इति ॥ 'विटपितिरस्कृत चन्द्ररश्मियोगः' इति पाठान्तरं तत्र रूपकार्थो नास्तीति असंपूर्णलक्षणता ॥ संसृष्टि:८८० - अथ नयन - मनो-हरो ऽभिरामः स्मर इव चित्त भवोऽप्य-वाम-शीलः ॥ भ० का० २५ भट्टि - काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमो वर्गः, रघु-सु॒तम॑नु॒जो जगाद वाचं स- जल-घन-स्तनयित्नु -तुल्य घोषः ॥ ७१ ॥ अथेत्यादि —- अथ चन्द्रदर्शनानन्तरं रघुसुतं राममभिरामः कामाभिभूत- वादाभिमुख्येन रम्यत इति । अनुजः कनीयान् भ्राता वाचं वक्ष्यमाणां जगाद गदितवान् । नयनमनोहरः प्रेक्षणीय इत्यर्थः । अत्र नयने मनश्चावर्जयन् नयन- मनोहर इति तुल्ययोगिता । न्यूनस्य लक्ष्मणस्याधिकेन सहाभिरमणीयगुणसाम्य- विवक्षया अभिरमणतुल्यक्रियायोगात् । स्मर इव चित्तभवोऽपि तस्य चेतास सदा भवतीति लिष्टम् । तथाप्यवामशीलोऽप्रतिकूल इति विरोध: । स्मरस्तु वामशीलः । सजलघनस्तनयिनुना शब्देन तुल्यो घोपो यस्य । संसृष्टिरित बहलंकारयोगात् । तथा चोक्तम् – 'पराभिभूता संसृष्टिर्बह्वलंकारयोगतः ॥ रचिता रत्नमालेव सा चैवं कथ्यते यथा ॥' इति ॥ आशी:२९० ८८१ - 'पति-वध-परिलुप्त-लोल- केशीर् नयन- जलापताऽञ्जनौष्ठ-रागाः ॥ कुरु रिपु वनिता, जहीहि शोकं, क्व च शरणं जगतां भवान्, क्व मोहः ॥ ७२ ॥ m पतीत्यादि —– पतिवधेन परिलुप्ता भ्रष्टा लोला: केशा यासां रिपुवनिता- नाम् । नयनजलेनाश्रुणा अपहृतमञ्जनमोष्टरागच यासां ताः मन्दोदरीप्रभृती: कुरु । शोकं जहीहीत्याशंसे । किं तत् । व भवान् जगतां शरणमाश्रयः क च मोह इति । आशीरिति इष्टस्याशंसनात् । तथा चोक्तम्- 'आशीरिति च केषांचिद- लंकारतया मता ॥ सौहृदस्याविरोधोक्तौ प्रयोगोऽस्याश्च तद्यथा ॥" इति ॥ हेतु:८८२ - अधिगत महिमा मनुष्य लोके बत सुतराम॑वसीदति प्रमादी, ॥ गज-पतिरु॑रु-शैल-शृङ्ग-वर्ष्मा गुरुर॑वमज्जति पङ्क-भाङ्, न दारु. ॥ ७३ ॥ अधिगतमहिमेत्यादि-मनुष्यलोके योऽधिगतमहिमा प्राप्ताधिपत्यः स प्रमादी शोकादिषु प्रमाद्वान् बत कष्टमवसीदति न कार्यसमर्थो भवति । कुत एतदित्याह- गजपतिः उरुशैलशृङ्गवर्मा महाशैलशृङ्गप्रमाणं वर्ण्य वपुर्यस्य सः । पकभाक् पकं भजतीति । '२९७६ । भजो ण्विः । ३।२।६२ ।' पङ्कमवतीर्णः सन् अवमज्जति अवसीदति । यस्मादसौ गुरुः, न पुनर्दारु काष्टं तस्मान्मुख शोकम् । हेतुरिति गजपतेर्हेतु द्वारेण निर्देशात् अयमर्थान्तरो द्रष्टव्यः ॥ तथा लक्ष्य रूपे कथानके 'सीताऽनिशानदर्शन' नाम दशमः सर्गः-२९१ " निपुणम्- ८८३ - वोद्धव्यं किमिव हि, यत् त्वया न वुद्धं, किं वा ते निमिपितमध्य-बुद्धि-पूर्वम् ॥ लव्धऽऽत्मा तव सुकृतैरनिष्ट-शङ्की स्नेहोघो घटयति मां तथापि वक्तुम् ॥ ७४ ॥' बोद्धव्यमित्यादि — किमिव तहोद्धव्यं ज्ञातव्यमस्ति नैवेत्यर्थः । यत्त्वया न बुद्धं बुद्ध्या विज्ञेयं तव किंचिच्चेष्टितमपि नोपेक्षापूर्वकं यतो निमिपितमप्यक्ष्णो- निमीलनमपि अबुद्धिपूर्वकं नैवेत्यर्थः । यद्येवं किमित्यस्मानुपदिशसीत्याह- लब्धात्मेति । तथापि सुकृतैलब्धात्मा लब्धजन्मा स्नेहौवः स्नेहसमूहः । अनि- टशङ्की अनिष्टशङ्कनशीलः । मां वक्तुं वदेति घटयति । निपुणमिति अर्थावगा- ढत्वादस्य चोदात्तेऽन्तर्भावो द्रष्टव्यः । भाविकत्वमित्यलंकार उक्तः । तद्वन्धवि- षयत्वात्पृथक् प्रदर्शयिष्यति ॥ ८८४ - सौमित्रेरिति वचनं निशम्य रामो जृम्भावान् भुज-युगलं विभज्य निद्रान् ॥ अध्यष्ठाच् छिशयिषया प्रवाल-तल्पं रक्षायै प्रति-दिशमा॑दिशन् प्लवङ्गान् ॥ ७५ ॥ इति भट्टिकाव्ये दशमः सर्गः ॥ सौमित्रेरित्यादि — इत्येवं सौमित्रेः लक्ष्मणस्य वचनं निशम्य श्रुत्वा रामो जृम्भावान् जातजृम्भिकः जृम्भणं जृम्भा । '३२८० । गुरोच हलः । ३।३।१०३॥ इत्यकार: । टाप् । निद्वान् निद्रां गच्छन् । '११२८ वा कुत्सायां गतौ ।' इत्यस्मादादादिकस्य निपूर्वस्य शतरि रूपम् । शिशयिषया शयितुमिच्छया । भुजयुगलं विभज्य एकं शिरःस्थाने न्यस्य द्वितीयं शरीरस्योपरि प्रसार्येत्यर्थः । विभुज्येति पाठान्तरम् । तत्र क्रोडभागे वक्रीकृत्येत्यर्थः । प्रवालतल्पं पलवशय- नीये अध्यष्टात् अधिष्ठितवान् । २२२३ । गाति-स्था - ।२।४॥७७ । इति सिचो लुक् । '२२७६ । प्राक् सितात्- ।८।३।६३।' इत्यादिना षत्वम् । समुद्रदिदृक्षया नियमपूर्वं सुष्वापेत्यर्थः । रक्षायै रक्षानिमित्तं लवङ्गानादिशन् नियोजयन् । प्रति- दिशं दिशि दिशि । '६७७ । अव्ययीभावे शरत्प्रभृतिभ्यः ।५।४।१०७ । ' इति टच् । तत्र दिकूशब्दस्य पठितत्वात् ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री - भट्टिकाव्ये तृतीये प्रसन्न काण्डे लक्षण-रूपे प्रथमः परिच्छेदः (वर्गः ), तथा लक्ष्यरूपे कथानके 'सीताऽभिज्ञानदर्शनं' नाम दशमः सर्गः ॥ २९२ भट्टि - काव्ये - तृतीचे प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः, एकादशः सर्गः माधुर्यमपि काव्यस्य गुण उक्तः । तथा चोक्तम्- 'श्राव्यं नातिसमस्तार्थं काव्ये मधुरमिष्यते' इति । तत्प्रदर्शनार्थं लङ्कागतप्रभातवर्णनमधिकृत्याह- ८८५ - अथा ऽस्तमा॑सेदुषि मन्द-कान्तौ पुण्य-क्षयेणेव निधौं कलानाम् ॥ समाललम्बे रिपु मित्र - कल्पैः पझैः प्रहासः कुमुदैर् विषादः ॥ १ ॥ अथेत्यादि – अथानन्तरं कलानां निधौ चन्द्रनसि अस्तं पर्वतमासेडुपि गत- वति । यथा कस्मिंश्चित् पुण्यक्षयेणावसानमासेदुपि । '३०९७१ भाषायां सद-वस -।३।२।१०८।' इति लिट: वसुरादेशः । मन्दकान्तावित्यस्तगमने पूर्वलिङ्ग दर्श- यति । रिपुकल्पैः पद्मैः प्रहासः विकासः, मित्रकल्पैः कुमुदैर्विषादः संकोच : समा- ललम्बे समालम्वितः ॥ ८८६-दूरं समारुह्य दिवः पतन्तं भृगोरिवेन्दुं विहितो॒पकारम् ॥ बद्धा ऽनुरागो ऽनुपपात तूर्ण तारा -गणः संभृत - शुभ्र-कीर्तिः ॥ २ ॥ दूरमित्यादि - दूरं दिव आकाशस्य भागं समारुह्य पश्चात्तत एवाकाशात् भृगोरिव प्रपातादिव पतन्तमिन्दुं तारापतिमनु पश्चात् तारागणः विहितोपकारं तदुदयेन तारागणाप्यायनात् बद्धानुरागः अस्तगमनकाले अनुगतरक्तभावः संभृता विपुलीकृता शुआ निर्मला कीर्तिर्येन स तारागण: पपात । यथा कस्मिंश्चित्स्वा मिनि भृगोः पतति पश्चात्स्वामिभक्त्या भृत्यलोको बद्धानुरागः संभृतशुभ्रकीर्तिः पतति तद्वदिति ॥ ८८७ - क ते कटाक्षाः क विलासवन्ति प्रोक्तानि वा तानि मर्मेति मत्वा ॥ लङ्कऽङ्गनानाम॑ववोध-काले तुलाम॑नारुह्य गतो ऽस्तमि॑न्दुः ॥ ३ ॥ M क्छ त इत्यादि — ये कटाक्षाः सविलासास्तिर्यग्दृष्टयः, यानि च प्रोक्कानि जल्पितानि विलासवन्ति, तदुभयं क्व मम विद्यते । लङ्काङ्गनानां तु मुखेन्दवः सकटाक्षा: सविलासा: सजल्पिताश्च । अतो यावन्न विबुध्यन्ते तावदपक्रमणं युक्त मिति मत्वा निरूप्य तुलामनारुह्य समानतामलब्ध्वा निःसंशयो वा भूत्वा । तप्रबोधकाले । लङ्काङ्कनानामेव । गतोऽस्तमिन्दुः ॥ तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः- २९३ ८८८ मानेन तल्पेष्वं यथा-मुखीना मिथ्या-प्रसुखैर् गमित-त्रियामाः ॥ स्त्रीभिर् निशाऽतिक्रम-विह्वलाभिर् दृष्टे ऽपि दोपे पतयो ऽनुनीताः ॥ ४ ॥ मानेनेत्यादि - पतयस्तल्पेषु शयनीयेषु मानेनायथामुखीनाः परावृत्त मुखाः । '१८०७॥ यथामुखसंमुखस्य दर्शनः खः ।५॥२॥ परावृत्तत्वात् प्रतिविम्वाश्रय- वत्तेपु योषितां प्रतिविम्वमिव मनो न प्रसादीभवतीत्येवं मिथ्याप्रसुतैरलीकनि- नाभिः गमितत्रियामाः प्रेरितप्रथमादिमहराः । दृष्टेऽपि दोषे गोत्रस्खलितादौ । पतयः स्त्रीभिरनुनीता यतो निशातिकसात्पर्यवसानात् विकृवा विह्वलास्ताः ॥ ८८९ - ईर्ष्या विरुग्णाः स्थिर वद्ध-मूला निरस्त - निःशेष - शुभ-प्रतानाः ॥ आप्यायिता नेत्र-जल-प्रसेकै: प्रेम-द्रुमाः संरुरुहुः प्रियाणाम् ॥ ५ ॥ ईर्ष्याविरुग्णा इत्यादि - प्रियाणां प्रेमद्रुमाः प्रेमाणि दुमा इव । स्थिरं निश्चलं बद्धमूलं उत्पत्तिकारणं येषां ते ईर्ष्याविरुग्णा अत एव निरस्ताः निःशेषाः शुभा एव हसितजल्पितादयः प्रतानाः शाखा येषां ते । प्रसादनानन्तरं नेत्रजल- प्रसेकैराप्यायिताः संरुरुहुः पुनर्नवीभूताः स्थिरबद्धमूलत्वात् ॥ ८९० - ततः समाशङ्कित-विप्रयोगः पुनर्- नवीभूत रसो ऽवितृष्णः ॥ स्मरस्य सन्तं पुनरुक्त-भावं ना SSवर्तमानस्य विवेद लोकः ॥ ६ ॥ M तत इत्यादि - प्रेमद्रुमरोहणानन्तरं लोकः समाशङ्कितविप्रयोगो विप्रयोगोऽस्माकमासन्नवर्तीति पुनर्नवीभूतरसः अभिनवीभूतसुरतेच्छः स्मरस्य कामस्य आव र्तमानस्य पुनः पुनः प्रवर्तनात् । अवितृष्णः साभिलाषः सन्तमपि विद्यमानमपि पुनरुक्तभावं पौनःपुन्यं न विवेद । आशङ्कितविप्रयोगत्वादपूर्वमिव ज्ञातवानित्यर्थः ॥ ८९१ - वृत्तौ प्रकाशं हृदये कृतायां सुखेन सर्वेन्द्रिय - संभवेन ॥ संकोच मे॑वा ऽसहमानम॑स्थादे-शक्त-वद् वञ्चित मानि चक्षुः ॥ ७ ॥ २९४ भट्टि- काव्ये तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः, वृत्तावित्यादि- सुरतकाले श्रोत्रत्वक्चक्षुर्जिह्वाघ्राणानां इन्द्रियाणां शब्द- स्पर्शरूपरसगन्धग्रहणात् सर्वेन्द्रियसंभवं सुखम् । अथवा सर्वसिन्द्रियं यत्रेति सर्वेन्द्रियः कायः । तत्संभवं सुखं सर्वेन्द्रियसंभवं सुखं तथाह्यालिङ्गनचुम्बन- दशनच्छेदनेषु पुल्पोपसृष्टेषु तत्र प्रयुज्यमाने काये सुखमुत्पद्यते । तेन सुखेन हृदये चेतसि प्रकाशं स्पष्टं वृत्तौ कृतायां चक्षुर्वञ्चितमिवात्मानं मन्यमानम् । ८ २९९३ । आत्ममाने खश्च । ३।२।८३ ।' इति णिनिः । संकोचमेव निमीलनमेवा स्थात् अनुष्ठितवत् असहमानमिति सर्वेन्द्रियसंभवस्य सुखस्य हृदये वृत्तिं सोडु- मपारयदित्यर्थः । अशक्तवत् यथा कश्चिदसमर्थोऽन्यसंभवां संपदं सोढुमसहमानः संकोचमनुतिष्ठति ॥ ८९२ - पीने भ्रटस्यौरसि वीक्ष्य भुग्नांस् तनु- त्वचः पाणि-रुहान् सु-मध्या ॥ इच्छा- विभङ्गाऽऽकुल-मानसत्वाद् भर्त्रे नखेभ्यश् च चिरं जुजूरे ॥ ८ ॥ M पीन इत्यादि — काचित् सुमध्या सुमध्यमा नखैः व्यापद्यमाना अहमप्यस्य क्षतं विधास्यामीति भटस्योरसि पीने कठिने भुनान् कुञ्चितान् । भग्नानिति पाठा- न्तरम् । पाणिरुहान्नखान् वीक्ष्य भर्त्रे नखेभ्यश्च चिरं जुजूरे क्रुध्यति स्म । कथ- मस्य वक्षः कटिनं मम च नखाम्तनुत्वचो न कठिना इति । '१२३० । घूरी ॥१२३१॥ जूरी हिंसावयोहान्योः' इत्यस्यात्मनेपदनो रूपम् । ८५७५ । क्रुध-द्रुह-।१।४।३७। इत्यादिना सम्प्रदानसंज्ञा । कस्माजुजूर इत्याह - इच्छाविभङ्गाकुलमानसत्वात् चिकीर्षिताकरणेनाकुलचित्तत्वात् ॥ ८९३ - स्रस्तता॒ऽङ्ग - चेष्टो विनिमीलिताऽक्षः स्वेदाऽम्वु-रोमोद्गम-गम्य-जीवः ॥ अ-शेष नष्ट - प्रतिभा पटुत्वो गाढोपगूढो दयितैर् जनो ऽभूत् ॥ ९ ॥ स्रस्ताङ्ग चेष्ट इत्यादि – दयितैर्गाढोपगूढः गाढालिङ्गितः सन् स्त्रीजन: अशे- पनष्टप्रतिभापटुत्वोऽभूत् । अशेपं नष्टं प्रतिभाया बुद्धेः पटुत्वं यस्येति । एवं च कृत्वा स्रस्ताङ्गचेष्टोऽपगतकायव्यापारः विनिमीलिताक्षः सुखानुभवान्निमीलित- लोचनः । मृतस्तर्हीत्यत आह - खेदाम्बुरोमोद्गमगम्यजीवः स्वेदाम्वुरोमोद्गमाभ्यां लिङ्गाभ्यां गम्यमानसंज्ञः ॥ ८९४ - तमः, प्रसुप्तं मरणं, सुखं नु, मूर्च्छा नु, माया नु मनोभवस्य ॥ " तथा लक्ष्ये-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः- २९५ किं तत् कथं वैत्युंपलब्ध-संज्ञा विकल्पयन्तो ऽपि न संप्रतीयुः ॥ १० ॥ तम इत्यादि - कामुका अपि रतावस्थाया उत्तरकालं उपलब्धसंज्ञा विकल्पयन्ति । तमो नु किसन्धकारं, प्रसुतं नु किं प्रकर्येण सुप्तं, मरणं नु मरणावस्था नु, सुखं नु, मूर्च्छा नु, मनोभवस्य वा मायेति किं तद्भवति । कथं वा केन प्रकारेण दत्स्यात् । इत्येवं विकल्पयन्तोऽपि न संप्रतीयुः, न परमार्थ ज्ञातवन्त इत्यर्थः ॥ ८९५ - वक्षः स्तनाभ्यां, मुखमाननेन, गात्राणि गात्रैर् घटयन्न मन्दम् ॥ स्मरा॒ऽतुरो नैव तुतोष लोकः, पर्याप्तता प्रेम्णि कुतो विरुद्धा. ॥ ११ ॥ वक्ष इत्यादि — क्षोमुखगात्राणि स्वानि स्तनादिभिः स्त्रीसंबन्धिभिर्घटयन् संश्लेषयन् अमन्दं दृढम्। '१३४ । ङमो ह्रस्वादचि ङमुट् । ८।३।३२॥ स्मरातुरो लोको नैव नुतोष तुष्टिं न जगाम । यतः पर्याप्तता प्रेम्णि कुतो विरुवा । नैव, तस्याविरुद्धत्वात् ॥ ८९६ - स्रस्ता॑ता॒ऽङ्ग-यष्टिः परिरभ्यमाणा संदृश्यमानऽप्यु॑पसंहृताऽक्षी ॥ अनूडमाना शयने नवोढा परोपकारैक रसैव तस्थौ ॥ १२ ॥ स्रस्ताङ्गय टिरित्यादि - काचिन्नवोढा परिरभ्यमाणा पत्या आलिङ्ग्यमाना स्रस्ताङ्गयष्टिः न प्रतीपमालिङ्गति । संदृश्यमानापि मुखमुन्नमय्य उपसंहृताक्षी निमीलितलोचना न प्रतीपं पश्यति मानं नैवाचरतीति । अनूढमानापि असंह- तमानापि एवंविधापि सती परोपकारैकरसैव तस्थौ । भर्तुरुपकारैकाभिप्रायैव अवस्थिता नात्मोपकाराय ॥ ८९७ - आलिङ्गिताया: सहसा त्रपा-वांस् त्रासाऽभिलाषाऽनुगतो रताऽऽदौ ॥ विश्वासिताया रमणेन वध्वा विमर्द-रम्यो मदनो बभूव ॥ १३ ॥ आलिङ्गिताया इत्यादि - कस्याश्चिद्वध्वा रतात्प्राक् रमणेन सहसा तत्क्षणं आलिङ्गितायास्त्रपावान्मदनो बभूव । रतादौ रतारम्भे त्रासाभिलाषाभ्यामनुगतो बभूव । विश्वासितायाः शनैर्विश्वासं कारितायाः विमर्दरम्यो बभूव त्रासाभावात् ॥ ९९६ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण रूपे द्वितीयो वर्गः, ८९८ - सामोन्मुखेना SSच्छुरिता प्रियेण दत्ते ऽथ काचित् पुलकेन भेदे ॥ अन्त:- :-प्रकोपाऽपगमाद् विलोला वशीकृता केवल - विक्रमेण ॥ १४ ॥ M सामोन्मुखेनेत्यादि – अथ काचित्कोपान्मानवती प्रियेण सामोन्मुखेन सामपरेण प्रसादयता आच्छुरिताख्येन नवकर्मणा संस्पृष्टा सती पुलकेन रोमा- जेन भेड़े उद्दमे दत्ते सति अथ अन्तःप्रकोपस्यापगमात् विलोला विलोलवुद्धिः केवल विक्रमेण हठाग्रहणेनैव वशीकृता, उपभुक्तेत्यर्थः ॥ ८९९ - गुरुर् दधाना परुष त्वम॑न्या कान्ता ऽपि कान्ते॒न्दु करा॒ऽभिमृष्टा ॥ प्रह्लादिता चन्द्र-शिलैव तूर्ण क्षोभात् स्रवत् स्वेदजला बभूव ॥ १५ ॥ गुरुरित्यादि — अन्यापि काचित् स्त्री कान्ता कमनीयरूपा गुरुः धीरा । '५०२ । वोतो गुणवचनात् ।४।१।४४।' इति वा ङीप् । न भवति । दुधाना परुषत्वं नैष्ठुर्यम् । कान्तेन भर्त्रा इन्दुनेव कराभिमृष्टा सती प्रह्लादिता सुखिता । क्षोभात् चेतसो विकारात् तूर्ण स्रवत्स्वेदजला बभूव । चन्द्रशिलेव चन्द्रमणिरिव । सा गरीयसी कान्ता परुपत्वं काठिन्यं दधाना इन्दुना कराभिमृष्टा प्रह्लादिता सुखितेव क्षोभात्स्वप्रकृतिविकारात् स्रवज्जला भवति ॥ ९०० - शशाङ्क-नाथाऽपगमेन धूम्रां मूर्च्छा - परीतामिव निर्-विवेकाम् ॥ ततः सखीव प्रथिताऽनुरागा प्राबोधयत् द्यां मधुराऽरुणश्रीः ॥ १६ ॥ शशाङ्केत्यादि — ततोऽनन्तरं यथा काचित् स्त्री नाथस्य भर्तुरपगमेन वियोगेन धूम्रा मलिना मूर्च्छापरीता निश्चेतना अतएव निर्विवेका विवेक्तुमशक्का सती सख्या प्रकाशितस्त्रेहया प्रबोध्यते तद्वद् द्यामाकाशं शशाङ्कनाथस्थापगमेन अस्तगमनेन धूत्रां धूसरतां गतां निर्विवेकां अविद्यमानविशेषां अरुणश्रीः आदि- त्यलक्ष्मी रिति मधुराभिनवा प्रथितानुरागा प्राबोधयत्प्रकाशितवती ॥ ९०१ - अ वीत तृष्णो ऽथ परस्परेण क्षणार्दिवाऽऽयात-निशाऽवसानः ॥ तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः- दुःखेन लोकः परवानि॑िवा ऽगात् समुत्सुकः स्वप्न-निकेतनेभ्यः ॥ १७ ॥ अवीतेत्यादि – अथानन्तरं लोकः परस्परेणान्योन्येन दयितो दयितया दयितापि दयितेन अवीततृष्णः अनपगतसंभोगाभिलाषः अतएव क्षणादिव द्रुतमिवायातं निशावसानं यत्र । समुत्सुकः उत्कण्ठितः परवानिव पराधीन इव स्वप्ननिकेतनेभ्यः वासगृहेभ्यो दुःखेन अगात् निर्गतवान् ॥ ९०२ - अर्धोत्थिताऽऽलिङ्गित-सन्नि मनो रुद्धः पुनर् यान् गमने ऽन॒भीप्सुः ॥ व्याजेन निर्याय पुनर् निवृत्तस् त्यक्ताऽन्य कार्यः स्थित एवं कश्चित् ॥ १८ ॥ अर्धोत्थितेत्यादि – शयनात् अर्धमुत्थितं यस्येत्यर्धोत्थितः । आहिताझ्यादिषु द्रष्टव्यः । शयनस्य वा अर्धादुत्थित इति योज्यम् । स चालिङ्गितो दयितया सन्निमग्नः शयने सुप्तः । पुनर्यान्निर्गच्छन् रुद्ध विष्टतः । गमने अनभीप्सुरपि निर्याय व्याजेन निमित्तेन पुनर्निवृत्तः । प्रविष्टस्त्यक्तान्यकार्यः स्थित एव कश्चित्कामी ॥ ९०३ - तालेन संपादित साम्य-शोभं २९७ शुभऽवधानं स्वरबद्ध-रागम् ॥ पदैर् गतता॒ऽर्थं नृप - मन्दिरेषु प्रातर् जगुरू मङ्गल-वत् तरुण्यः ॥ १९ ॥ तालेनेत्यादि – नृपमन्दिरेषु रावणादिराजवेश्मसु प्रभातकाले तरुण्यो मङ्ग- लवत् मङ्गलोपेतं जगुः गायन्ति स्म । तालेन क्रियाकालमानेन संपादिता साम्य- शोभा यत्र गायनक्रियायां, शुभावधानं शोभनमवधानं चित्तैकाग्रता यत्र, स्वर- बद्धरागं षड्जादिभिः स्वरैर्बद्धो ग्रामरागो यत्र, पदैः सुप्तिङन्तैर्गतार्थं परिच्छि- नार्थं, निरर्थकपदरहितमित्यर्थः । अनेन स्वरगतं पदगतं लयगतमवधानगत मिति चतुर्विधं गीतमाख्यातम् ॥ ९०४ - दुरुत्तरे पङ्क इवा अन्धकारे मनं जगत् सन्तत - रश्मि-रज्जुः ॥ प्रनष्ट - मूर्ति-प्रविभागमुद्यन् प्रत्युज्जहारेव ततो विवस्वान् ॥ २० ॥ दुरुत्तर इत्यादि – अन्धकारे पङ्क इव दुरुत्तरे दुःखेनोत्तीर्यत इति । म प्रविष्टं जगत् । यतः प्रनष्टमूर्तिप्रविभाग प्रनष्टः स्थावरजङ्गममूर्तीनां प्रविभागो २९८ भट्टि - काव्ये – तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः, " यस्मिन् तत् । विवस्वानुद्यन् उदच्छन् सन्ततरहिमरज्जुः प्रवितता रश्मयो मयून्त्रा एव रज्जवो येन सः प्रत्युजहारेव उद्धृतवानिव । तत इत्यन्धकारात् ॥ ९०५ - पीतौष्ठ - रागाणि हृताऽञ्जनानि भास्वन्ति लोलैर॑लकैर् मुखानि ॥ प्रातः कृताऽर्थानि यथा विरेजुस् तथा न पूर्वेद्युर॑लंकृतानि ॥ २१ ॥ पीतौष्टरागाणीत्यादि - मुखानि वधूनामित्यर्थात् । यथा प्रातः प्रभाने विरेजुः तथा पूर्वेयुः पूर्वस्मिन्नहाने अलंकृतानि न रेजुः । तेपामकृतार्थत्वात् । तानि पुनः कृतार्थानि कृतकार्याणि । यतो दयितैः पीतोष्टरागाणि ओष्टचुम्वनात् । हृताञ्जनानि चक्षुपोरपि चुम्बनात् अपगतकजलानि लोलैराकुलैरलकैः कचग्रहाक र्षणात् । भास्वन्ति दीप्तिमन्ति ॥ ९०६-प्रजागराऽऽताम्र-विलोचनाऽन्ता निर॒ञ्जनाऽलक्तक-पत्र-लेखाः ॥ तुल्या इवा ऽऽसन् परिखेद - तन्व्यो वास- च्युताः सेवित मन्मथाभिः ॥ २२ ॥ प्रजागरेत्यादि — भर्तृभिः सहैकत्र यच्छयनं स वासः तस्माच्युताः काश्चित् तन्व्यः सेवितमन्मथाभिः अनुष्ठितसुरताभिः तुल्या इवासन् । यतः प्रजागराताम्रविलोचनान्ताः दयितागमनप्रतीक्षणात् यः प्रजागरस्तेन ताम्रनेत्रपर्यन्ताः । नायात इति गृहीतप्रसाधनतया निरञ्जनालक्तकपत्रलेखा: यदि वा अन्यत्र शयित इति रोदनात् निरञ्जनाः चित्तोन्माथादितस्ततः पादविक्षेपात् विगतालक्तकाः शयने प्रति क्षणमुद्वर्तनपरिवर्तनात्कपोलादिभ्यो निष्पत्रलेखा इति खेदाच्च तन्व्यः कृशाङ्ग्यः ॥ ९०७ - आबद्ध - नेत्राऽञ्जन-पङ्क-लेशस् ताम्वूल - रागं बहुलं दधानः ॥ चकार कान्तो sप्यधरो ऽङ्गनानां सहौपितानां पतिभिर् लघुत्वम् ॥ २३ ॥ आबद्धेत्यादि—–—कासांचिदङ्गनानां पतिभिः सहोषितानामध्यधरः लघुत्वं दौर्भाग्यं चकार, सूचितवानित्यर्थः । यतस्ता ईप्सितसुरताप्राहया रुदितास्ततश्च बद्धो लग्नो नेत्राञ्जनपङ्कलेशो यस्य सोऽधरो दयितैरपीतत्वाच्च बहुलं ताम्बूलरागं दधानः कान्तोऽपि लघुत्वं चकार ॥ ९०८ - चक्षूंषि कान्तान्य॑पि सा॒ऽञ्जनानि ताम्बूल रक्तं च स-रागमौष्ठम् ॥ तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गःकुर्वन् स-वासं च सु-गन्धि वक्रं चक्रे जनः केवल-पक्षपातम् ॥ २४ ॥ चक्षूंपीत्यादि-कान्तान्यपि शोभनान्यपि चक्षूंपि, बिकचोत्पलद्युतित्वात् । साञ्जनानि कुर्वन् स्त्रीजनः, प्रातर्गृह्यमाणमसाधनत्वात् । सरागं चौष्टं, स्वभावतो विम्बफलाकारत्वात् । ताम्बूलरतं कुर्वन् । स्वभावतश्च सुगन्धि वक्रं मुखं सवासं वासयुक्तं कुर्वन् । केवलपक्षपातं समत्वं चक्रे अञ्जनादीनां निरर्थकत्वात् ॥ ९०९ - क्षतैर॑संचेतित-दन्त-लव्धैः २९९ संभोग - काले ऽवगतैः प्रभाते ॥ अ-शङ्कता ऽन्योन्य कृतं व्यलीकं वियोग चाह्यो ऽपि जनो ऽतिरागात् ॥ २५ ॥ क्षतैरित्यादि – अस्या मया दत्तं अस्य च मयेति संभोगकाले रागान्धतया असंकेतितान्यज्ञातानि दन्तेभ्यो लब्धानि यानि क्षतानि । '१८०२ । चिव संचेतने' इति स्वार्थिकण्यन्तस्य रूपम् । प्रभातकाले अवगतैर्दृष्टैः वियोगबाह्योऽपि सुप्तोऽपि कामिजन: अतिरागात् अतिस्त्रेहात् अन्योन्यकृतं अन्योन्येन कृतं व्यलीकं अपराधं अशङ्कत विकल्पितवान् । लङि रूपम् । किमस्यान्यया हताशया दत्तमिति योषि- दशङ्कत, पुरुषोऽपि किमन्येन धूर्तेनास्या इति ॥ ९१० - नेत्रेषुभिः संयुत-पक्ष्म-पत्रैः कर्णाऽन्त कृठैरु॑रु - केश - शूलाः ॥ स्तनो॒रु-चक्रास् तत-कर्ण-पाशाः स्त्री-योध- मुख्या जयिनो विचेरुः ॥ २६ ॥ नेत्रेपुभिरित्यादि – नेत्राणि इषव इव तैः संयुतानि संयुक्तानि पक्ष्माण्येव पत्राणि येषां तैः । कर्णान्तकृष्ठैः कर्णान्तविश्रान्तैः उपलक्षिताः स्त्रियो योधमुख्या इव उरुकेशशूलाः उरवो महान्तः केशाः शूला इव येषाम् । स्तनोरुचक्रा: स्तनाः उरूणि चक्राणीव येषाम् । ततकर्णपाशाः तताः कर्णाः पाशा इव येषां ते जयिनो लब्धविजया विचेरुः भ्रान्ताः ॥ ९११ - पयो - धरांश चन्दन-पङ्क-दिग्धान् वासांसि चा ऽमृष्ट-मृजानि दृष्ट्वा ॥ स्त्रीणां स पत्यो जहषुः प्रभाते मन्दायमानाऽनुशयैर् मनोभिः ॥ २७ ॥ पयोधरानित्यादि – चन्दनपदिग्धान् आद्भुतचन्दनत्वात् । वस्त्राणि च अमृष्टमृजानि अनपनीतशुद्धभावानि स्त्रीणां दृष्ट्वा प्रभाते तत्सपत्यो मनोमिः न ३०० भट्टि- काव्ये – तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः, वाह्यं जहपुः हृष्टाः । अप्राप्तसुरतत्वात् मन्दायमानानुशयैः आभिः सह शयिता इति तासु ये अनुशया: अक्षान्तयो जात्राः ते मन्दायमानाः शनैः शनैस्तनूभवन्तो येपु मनःसु तैरित्यर्थः ॥ ९१२ - स्मराऽऽतुरे चेतसि लव्ध - जन्मा रराज लोलोऽपि गुणाऽपहार्यः ॥ कुतूहलान् नेत्र - गवाक्ष-संस्थ: पश्यन्निवा ऽन्योन्य मुखानि रागः ॥ २८ ॥ स्मरातुर इत्यादि – दम्पत्योः प्रातरन्योन्यस्य मुखं पश्यतोः चक्षुषो रागो वर्ण्यते । स्मरातुरे कामातुरे चेतसि लब्धजन्मा लव्वोदयः रागो रक्तभावः नेत्र- गवाक्षसंस्थः नेत्रयोर्गवाक्षयोरिव स्थितः कुतूहलात् कौतुकात् अन्योन्यस्य मुखानि पश्यन्निव । कीदृशं कामिन्या मुखं कामुकस्य मुखं वेति । गुणापहार्यः तत्प्रतिपक्षेण शुक्रगुणेन अपनेयः अत एव लोलोऽपि अचिरस्थाय्यपि रराज ॥ ९१३ गते ऽतिभूमिं प्रणये प्रयुक्तानं- बुद्धि पूर्व परिलुप्तसंज्ञः ॥ आत्माऽनुभूतानपि नौपचारान् स्मरा॒ऽऽतुरः संस्मरति स्म लोकः ॥ २९ ॥ गते इत्यादि — प्रणये विश्रम्भे अतिभूमिं गते प्रकृष्टावस्थां प्राप्ते सति ये अबुद्धिपूर्वं अनिरूप्य स्वयं प्रयुक्ताः उपचाराः नखदन्तक्षतादयः तानात्मानुभूतानपि प्रातर्न स्मरति स्म कामिलोकः । इदमिदं मया प्रयुक्तमिति । यतः सुरतावस्थायां स्मरातुरतया परिलुप्तसंज्ञो मूढ़ इति ॥ ९१४ - वस्खैर नृत्युलवण रम्य वर्णैर् विलेपनैः सौरभ-लक्षणीयैः ॥ आस्यैश् च लोकः परितोष-कान्तै- रसूचयल लब्ध-पर्द रहस्यम् ॥ ३० ॥ वस्त्रैरित्यादि – वस्त्रैः विलेपनैः सौरभलक्षणीयैः सुरभितया परिच्छेद्यैः आस्यैश्च व्यपगताधररागैः परितोपकान्तैर्लिङ्ग भूतैः रहास भवं सुरतं लब्धपदं प्राप्तचिह्नं लोकः प्रकाशयति स्म ॥ ९१५ - प्रातस्तरां चन्दन - लिव-गात्रा: प्रच्छाद्य हस्तैरधरान् वदन्तः ॥ शाम्यन्- निमेषाः सुतरां युवानः . प्रकाशयन्ति स्म निगूहनीयम् ॥ ३१ ॥ तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः - ३०१ प्रातस्तरामित्यादि - गुरुजनो नखदशनक्षतं का दाक्षीदिति युवानः प्रातस्तरां प्रत्युपसि चन्दनलिप्तगात्रा हस्तैरधरान् प्रच्छाद्य वदन्तोऽपि शाम्यन्निमेषा अनिमिपितनेत्रा निगृहनीयं सुतरां प्रकाशयन्ति स्म नून मेते सत्कृता येन एव माचरन्तीति ॥ ९१६ - सानैव लोके विजिते ऽपि वामे ! किमु॑द्यतं भ्रू- धनुरे प्रसह्यम् ॥ हन्तुं क्षमो वा वद लोचने॒षुर् दिग्धो विषेणैव किमञ्जनेन ॥ ३२ ॥ साम्नेत्यादि – हे वामे प्रतिकूलदर्तिनि ! मधुरेणाविकृतेन सान्ना लोके अस्मद्विधे जितेऽपि वशीकृतेऽपि भ्रूधनुरग्रसह्यं प्रसोढुमशक्यं उद्यतं उत्क्षिप्तम् । अथवा विलोचने पुर्नेत्रशरः स्वत एव हन्तुं क्षमः ततः किमञ्जनेन च विषेण दिग्धो विपलिप्त इति वद कथय ॥ ९१७ – दन्त-च्छदे प्रज्वलिताऽग्नि- कल्पे ताम्बूल-रागस् तृण-भार-तुल्यः ॥ न्यस्तः किमित्यूंचुरुपेत- भावा गोष्ठीषु नारीस् तरुणीर् युवानः ॥ ३३ ॥ दन्तच्छद इत्यादि – प्रज्वलिताग्निकल्पे स्वभावलोहितत्वात् दन्तच्छदे ओष्ठे ताम्बूलरागः किमिति न्यस्तः । तृणभारतुल्यः निष्प्रयोजनत्वात् । इत्येवमूचुर्युचानः प्रातरित्यर्थात् । उपेतभावाः जातानुरागाः गोष्ठीषु स्थिता नारीस्तरुणीरिति ॥ ९१८ - सुखाऽवगाहानि युतानि लक्ष्म्या शुचीनि संताप- हरायु॑रूणि ॥ प्रवुद्ध - नारी-मुख-पङ्क-जानि I प्रातः सरांसीव गृहाणि रेजुः ॥ ३४ ॥ सुखावगाहानीत्यादि- - प्रातः प्रभाते गृहाणि सरांसीव रेजुः । सुखाव- गाहानि निरुपद्रवत्वात् सुखेनावगाह्यन्ते । युतानि लक्ष्म्या देवतारूपया । शुचीनि पवित्राणि । संतापहराणि धर्मादिक्लेशापहारीणि । उरूणि महान्ति । प्रबुद्धानि विनिद्वाणि । नारीमुखान्येव पङ्कजानि यत्रेति ॥ ९१९–संमृष्ट-सिक्ताऽर्चित- चारु-पुष्प- रामोद-वद्-द्रव्य - सुगन्ध-भागैः ॥ लक्ष्मीर् विजिग्ये भवनैः स भृङ्गैः सेव्यस्य देवैरपि नन्दनस्य ॥ ३५ ॥ भ० का० २६ ३०९ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः, संभृष्टेत्यादि -- देवैः सेव्यस्यापि नन्दनस्य लक्ष्मीर्भवनैः प्रातर्विजिग्ये विजिता । आदौ संमृष्टरजांसि अपनीतरजांसि पश्चात्सितानि । पूर्वापरकालसमासः । अर्चितानि पूजितानि प्रशस्तानि चारूणि शोभनानि पुष्पाणि येषु भवनेषु संमृष्ट- सिक्कानि च तानि अर्चितचारुपुष्पाणि चेति विशेषणसमासः । आमोदवन्ति यानि द्रव्याणि चन्दनादीनि तैः सुगन्धो भाग एकदेशो येषां तैः । गन्धस्येवे- तदेकान्तग्रहणादित्वं न भवति । सभृङ्गैरामोदभृतत्वात् ॥ ९२० - अक्ष्णोः पतन् नील-सरो-ज-लोभाद् भृङ्गः करेणा ऽल्प-धिया निरस्तः ॥ दद॑श ताम्रऽम्बुरुहा॒ऽभिसन्धिस् तृणा॒ऽऽतुरः पाणि-तले ऽपि धृष्णुः ॥ ३६ ॥ अक्ष्णोरित्यादि — नीलसरोजलोभात् नीलकमलमेतदित्यक्ष्णोः पतन्निलीय- नानो भृङ्गः अल्पधिया अल्पबुद्ध्या कयाचित् करेण निरस्तः क्षिप्तः सन् ताम्राम्बु- रुहाभिसन्धिः रक्तपद्ममेतदित्यभिसन्धिरभिप्रायो यस्य भृङ्गस्य स धृष्णुः प्रगल्भः पागितलेऽपि दंश दृष्टवान् । तामित्यर्थात् ॥ ९२१ - विलोल-तां चक्षुषि हस्त-वेपथुं भ्रुवोर् विभङ्गं स्तन-युग्म-वल्गितम् ॥ विभूषणानां कणितं च षट्-पदो गुरुर् यथा नृत्य - विधौ समादधे ॥ ३७ ॥ विलोलतामित्यादि- यथा गुरुर्नृत्याचार्यो नृत्यकर्मणि कस्याश्चिचक्षुषि वि लोलतां चलतां हस्तवेपथुं हस्तकम्पं भ्रुवोर्विभङ्गं नतोन्नतिं स्तनयुग्मवल्गितं प्रचलितं नूपणानां कणितं शिक्षितं जनयति, तद् दृष्ट्वा षट्पदोऽपि तत्समादधे विहितवान् ॥ ९२२ - अथा ऽनुकूलान् कुल- धर्म - संपदो विधाय वेशान् सु - दिवः पुरी जनः ॥ प्रबोध-काले शत-मन्यु- विद्विषः प्रचक्रमे राज-निकेतनं प्रति ॥ ३८ ॥ अथेत्यादि – अथानन्तरं पुरीजनो लङ्कानिवासिजनः प्रतिदिनमवाप्तकल्या णत्वात् सुदिवः । '८६०। सुप्रात-।५।४।१३० । इत्यादिना समासान्तनिपातनम् । १ – अत्र 'तृष्णाऽऽतुरः' इति पाठो युक्त इति भाति । तेन हि ताम्राम्बुरुहाभिसंधित्वात् मकरन्दतृष्णया पीडित इति सरलार्थः प्रतिपद्यते । यथास्थितपाठपक्षे तु सूक्ष्मत्वातृणसदृशमृणालतन्तुष्वातुरः सस्पृह इति कथंचिदुन्नेयम् । तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णन' नाम एकादशः सर्गः- ३०३ यथास्वं कुलधर्मस्य पुरस्य वा संपद्विभूतिः तस्या अनुकूलान् वेशानेपथ्यानि विधाय कृत्वा शतम न्युविद्विषो रावणस्य प्रबोधकाले राजनिकेतनं प्रत्यभिलक्ष्य प्रचक्रमे गन्तुं प्रवृत्तः । '२७१५ । प्रोपाभ्यां समर्थाभ्याम् । १।३।४२॥ ' इति तङ् ॥ ९२३ – शैलेन्द्र-शृङ्गेभ्य इव प्रवृत्ता वेगाज् जलौघाः पुर - मन्दिरेभ्यः ॥ आपूर्य रथ्याः सरितो जनधा राजा॒ऽङ्गनाऽम्भोधिम॑पूरयन्त ॥ ३९ ॥ शैलेन्द्रशृङ्गेभ्य इत्यादि – यथा जलानां पूराः शैलेन्द्रशृङ्गात् प्रवर्तन्ते तद्वत्पुरमन्दिरेभ्यः प्रवृत्ता जनौवाः रथ्याः सरित इवापूर्य राजाङ्गनमम्भोविमिवा- पूरयन्त पूरितवन्तः ॥ ९२४ - प्रवोध - कालात् त्रिदशेन्द्र-शत्रो: प्रार्ध्व-शोषं परिशुष्यमाणाः ॥ हीना महान्तश च सम-त्वमयुर् द्वास्- स्थैर॑वज्ञा-परुषऽक्षि दृष्टाः ॥ ४० ॥ प्रबोधकालादित्यादि - त्रिदशेन्द्रशत्रोः रावणस्य प्रबोधकालाप्राक् पूर्व ऊर्ध्वशोषं परिशुष्यमाणाः राजाङ्गने ऊर्ध्वं गता एव प्रबोधकाले शोषं नीयमाना इति अन्तर्भावितण्यर्थो द्रष्टव्यः । एवं च कृत्वा कर्मण्यात्मनेपदम् । अन्ये परि- शोष्यमाणा इति णिचं पठन्ति । '३३६५। ऊर्ध्वे शुषि-।३।४।४४ । इति णमुल । हीना: महान्तश्च सेवकाः समत्वं तुल्यत्वमीयुः । द्वास्थैवारिकैः । द्वारि तिष्ठ- न्तीति '२९१६ । सुपि स्थः । ३ । २।१४॥ इति कः । '७६ । खरवसानयोर्विसर्जनीयः ।८।३।१५।' इति [ विसर्जनीये ] '१३८ । विसर्जनीयस्य सः ।८।३।३४॥ अवज्ञया अनादरेण परुषमस्निग्धं यदक्षि तेनाक्ष्णा दृष्टाः ॥ ९२५–गुरूरु-चञ्चत्-कर-कर्ण-जिह्रैरेवज्ञया ऽग्रऽङ्गुलि - संगृहीतैः ॥ रक्षांस्य॑नायास ह॒तैरुपास्थुः कपोल- लीनाSलि-कुलैर् गजेन्द्रैः ॥ ४१ ॥ . गुरुरुचञ्चदित्यादि — गुरुवोऽलघवः, उरवो महान्तः, चञ्चन्तश्चलन्तः कराः कर्णा जिह्वाश्च येषां गजेन्द्राणां तैः अवज्ञया अग्राङ्गुलिसंगृहीतैः पादाङ्गुष्ठा- ग्रेण यत्रस्थाने परिगृहीतैः । अङ्गुलेरग्रमिति राजदन्तादित्वात् पूर्वनिपातः । अनायासहृतैः शनैः शनैः प्रचोदितैः । मत्तत्वात् कपोल-लीनाऽलि-कुलै: रक्षांसि उपास्थुः सेवामकार्षुः ॥ ३०४ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयो वर्गः, ९२६ - निकृत्त-मत्त - द्विप-कुम्भ-मांसैः संपृक्त-मुक्तैर् हरयोऽग्र- पादैः ॥ आनिन्थिरे श्रेणीकृतास् तथा ऽन्यैः परस्परं वालधि - सन्निवद्धाः ॥ ४२ ॥ . निकृत्तेत्यादि – अन्यैः सेवार्थ हरयः सिंहाः आनिन्थिरे आनीताः । निक- तानि मत्तद्विपकुम्भमांसानि यैरग्रपादैः अतएव संपृक्तमुक्तैः लग्नकुम्भमुक्ताफला उपलक्षिताः श्रेणीकृता अश्रेणयः श्रेणयः कृताः । '७३८। श्रेण्यादयः-।२।१।१९॥ इति सः । परस्परं वालधिसंनिबद्धाः अन्योन्यस्य पुच्छेन संयताः ॥ ९२७ - उपेक्षिता देव -गणैस् त्रसद्भिर् निशा-चरैर् वीत- भयैर् निकृत्ताः ॥ तस्मि॒न्न॑दृश्यन्त सुर-द्रुमाणां स- जाल-पुष्प-स्तवकाः प्रकीर्णाः ॥ ४३ ॥ उपेक्षिता इत्यादि – सुरद्रुमाणां पारिजातानां सजालाः कलिकासहिताः पुष्पस्तबकाः वीतभयैर्निशाचरैनिंकृत्ताः छिन्नाः । वीतदयैरिति पाठान्तरम् । तत्र किमेतैः स्थितैरिति निर्दयैः सजाला एव छिन्ना: छिद्यमानाश्च । देवगणैत्रसद्भिरु- पेक्षिताः । '२३२१॥ वा भ्राश - ।३।१२।७०।' इत्यादिना विकल्पेन श्यन् । तस्मिन् राजाङ्गणे प्रकीर्णा अदृश्यन्त सेवकजनेन ॥ ९२८ - निराकरिष्णुर् द्विज-कुञ्जराणां तृणीकृतता॒ऽशेष-गुणोऽति-मोहात् ॥ पापा॒ऽशयान॑भ्युदया॒ऽर्थमाचत् प्राग् ब्रह्म-रक्षः प्रवरान् दशऽऽस्यः ॥ ४४ ॥ निराकरिष्णुरित्यादि-शास्यो विबुद्धः सन् अतिमोहादत्यन्ताज्ञानात् नि - राकरिष्णुर्निराकरणशीलः । द्विजवरा नित्यर्थात् । द्विजकुञ्जराणां प्रशस्तद्विजानां अभ्यु- दयहेतूनां संवन्धिनोऽशेपा गुणाः तृणीकृता येन स तृणीकृताशेषगुणः प्राक् पूर्व सभाप्रवेशात् पापाशयान् पापचित्तवृत्तीन् ब्रह्मरक्षःप्रवरान् अभ्युदयार्थमाचत् ॥ ९२९ - मायाविभिस् त्रास करैर् जनाना- मप्तैिरुपादान-परैरुपेतः ॥ १ – अत्र छन्दोभङ्गपरिहारार्थे 'श्रेणिकृताः' इत्येव युक्तं प्रतिभाति । '२१२० । चौ च-' ।७।४।२६।' इति शास्त्रापेक्षया 'अपि माषं मषं कुर्याच्छन्दोभङ्गं न कारयेत्' इति छन्द:शास्त्रस्य प्रबलत्वात् । तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः - ३०५ सत विधाते॒क-रसैर॑विक्षत् सदः परिक्षोभित-भूमि-भागम् ॥ ४५ ॥ मायाविभिरित्यादि – आतैरव्यभिचारिभिर्मायाविभिर्वञ्चकैः परेषां त्रास- करैः । जनानामतिरौद्भृत्वात् । उपादानपरैः सतां सन्मार्गस्थितानां विधातैकर से विनाशकस्वभावैः उपेतो दशास्यः सदः सभामविक्षत् प्रविष्टः । '२३३६) शल इनुपधानिटः क्सः ।३॥४५ । कीदृशम् । राक्षसैश्चरणभागेन परिक्षोभित- भूमिभागम् ॥ ९३० - विधृत निशित-शस्त्रैस् तद् युतं यातुधानै- रुरु-जठर-मुखीभिः संकुलं राक्षसीभिः ॥ श्वगणि-शत- विकीर्ण वागुरान्वन् मृगीभिर् वनमि॑िव स भयाभिर् देव-बन्दीभिरासीत् ॥ ४६॥ विधृतेत्यादि- तत्सदो यातुधानैः विवतनिशितशस्त्रैः गृहीततीक्ष्णशस्त्रैर्युतं युक्तमासीत् । तथा राक्षसीभिः उरुजठरमुखीभिः संकुलं व्याप्तं यथा वनं वागुरावत् सवागुरं श्वगणिशतविकीर्णं आखेटकशतच्छन्नं मृगीभिः समयाभिः श्वगणि(के)भ्यो जातभयाभिः व्याप्तमासीत् श्वगणा विद्यन्ते येषामिति श्रगणि[ नः ] काः । '१९२२ । अतः - ।५।२।११५॥ इति [ इनि ] ठक् ॥ ९३१ - जलद इत्र तडित्वान् प्राज्य रत्न - प्रभाभिः प्रति - ककुभमुदस्यन् निस्वनं धीर-मन्द्रम् ॥ शिखरमि॑व सुमेरो सनं हैमर्मुच्चैर् विविध - मणि - विचित्रं प्रा॑मो॒न्नतं सोऽध्यतिष्ठत् ॥४७॥ इति भट्टिकाव्ये एकादशः सर्गः ॥ जलद इत्यादि — प्राज्यानां प्रभूतानां रत्नानां मणीनां प्रभाभिः तडित्वानिव जलद : प्रोन्नतात्मा सर्वेषामुपरि स्थितत्वात् । प्रतिककुभं दिशि दिशि । घीरमन्द्रं मन्दगम्भीरं निस्वनं उदस्यन्निक्षिपन् सुमेरोः शिखरमिव हैममासनमुच्चैरुञ्चं विविध- मणिविचित्रं नानारूपैर्मणिभिर्विचित्रं नानावर्णकमध्यतिष्टत् समारोहति स्म ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये तृतीये प्रसन्न काण्डे लक्षण-रूपे द्वितीयः परिच्छेदः (वर्गः ), तथा लक्ष्य-रूपे कथानके 'प्रभातवर्णनं' नाम एकादशः सर्गः ॥ ११ ॥ ३०६ अट्टि-काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः, द्वादशः सर्गःp भाविकत्वमलंकारः प्रबन्धविषय उक्तः । नैकदेशिकं तस्य चित्रादयोऽर्थाः प्रवृत्तिहेतवः । तथा चोक्तम्- 'भाविकत्वमिति प्राहुः प्रबन्धविषयं गुणम् । प्रत्यक्षां इव दृश्यन्ते यत्रार्थी भूतभाविनः ॥ चित्रोदात्ताद्भुतार्थत्वं कथायाः स्वभि नीतता । शब्दानाकुलता चेति तस्य हेतुं प्रचक्षते ॥' इति तत्सर्वं मन्त्रनिर्णयप्रबन्धे द्रष्टव्यमिति दर्शयन्नाह ९३२ - ततो वि-निद्रं कृत-देवताऽर्च दृष्ट्यैव चित्त-प्रशमं किरन्तम् ॥ आविष्कृताऽङ्ग प्रतिकर्म-रम्यं विभीषणं वाचर्मुवाच माता ॥ १ ॥ तत इत्यादि — ततः प्रभातकालानन्तरं विभीषणं विनिद्रं प्रबुद्धम् । कृत- देवतार्च कृतेष्टदेवतापूजनम् । दृष्ट्यैव स्निग्धया कायव्यापारेण चित्तप्रशमं किरन्तं प्रकाशयन्तम् । आविष्कृतं प्रदर्शितं यदङ्गस्य प्रतिकर्म प्रसाधनं तेन रम्यं माता नैकपी नाम वाचं वक्ष्यमाणामुवाच ॥ Fi ९३३ - 'प्रबाधमानस्य जगन्ति धीमंसू ! त्वं दरस्याऽतिमदो॒द्धतस्य ॥ आनन्दनो नाक-सदां प्रशान्ति तूर्ण विषस्याऽमृत-वत् कुरुष्व ॥ २ ॥ प्रवाधमानस्येत्यादि —हे थीमन् ! त्वं नाकसदां देवानां आनन्दनः प्रमो- दयिता सन् सोदरस्य भ्रातुर्दशाननस्य । गर्भावस्थायां समानमुदरं यस्येति योगवि- भागात्सभावः । अतिबलोद्धतस्य महता सामर्थ्यन हप्तस्य जगन्ति लोकं प्रबाध- मानस्य पीडयत: प्रशान्ति प्रशमनं तूर्ण कुरुष्व । अमृतवत् । यथा अमृतं देवा- नामानन्दनं विपस्य कालकूटनाम्नः सोदरस्य एकस्मिन् समुद्रोदरे स्थितत्वात् जगन्ति प्रबाधमानस्य प्रशान्ति कृतवदिति ॥ ९३४ - कुर्यास् तथा, येन जहाति सीतां विषाद- नीहार -परीत-मूर्तिम् ॥ स्थितां क्षितौ शान्त शिखा- प्रतानां तारामिव त्रास करीं जनस्य ॥ ३ ॥ कुर्या इत्यादि — तथा प्रकारमनुतिष्ठेस्त्वं येन सीतां जहाति । विषादनीहारपरीतमूर्ति विषादो नीहार इव तेन परिगतदेहाम् । क्षितौ स्थितां निमनाम् । शान्तशिखामतानां अनुज्वलवेणी बन्धाम् । जनस्य त्रासकरीं भयहेतुभूताम् । तथा लक्ष्य-रूपे कथानके 'विभोषणागमनो' नाम द्वादशः सर्गः - ३०७ हेतौ टः । तारामिव । यथा काचित्तारा क्षितौ स्थिता पतिता नीहारपरीत मृर्तिः शान्तशिखामताना ध्वस्तरहिमजाला लोकनासकरी तद्वत्तामिति ॥ ९३५ - बावन् न संत्रासित - देव-संघः पिण्डो विषस्यैव हरेण भीष्मः ॥ संग्रस्यते ऽसौ पुरुषऽधिपेन, द्रुतं कुलाऽऽनन्द ! यतस्व तावत् ॥ ४ ॥ यावदित्यादि- यथा संत्रासितदेवसंघः विपस्य कालकूटस्य पिण्डो भीष्मोअतिरौद्रोहरेण संत्रस्तः पीतः तद्द्यावदसौ रात्रणः पुरुषाधिपेन रामेण न संग्रस्वते व ते तावत् हे कुलानन्द ! कुलाने आनन्दयतीति । २९१३। कर्मण्यम् ।३।२।१॥ द्रुतं यतस्त्र सीतात्याजनायां यत्नं कुरु ॥ ९३६ - हला जनस्थान - सदो निकायाः, कृता जितोत्खात भट-द्रुमा पूः ॥ सदांसि दग्धानि, विधेयर्मस्मिन् , यद् वन्धुना, तद् घटयस्व तस्मिन् ॥ ५ ॥ हता इत्यादि - जनस्थानसदो दण्डकारण्यवासिनः निकाया: खरदूषणादीनां संवा हताः । '२३१४ । संघे चानौत्तराधर्ये ।३।३।४२ ।' इति चिनोतेः घञ् ककारश्वादेशः । पूश्च लङ्का जितसटा उत्खात द्रुमा कृता । सदांसि गृहाणि दुग्धानि । इति सर्वमेतत्त्वया ज्ञातमेव । अनेन प्रकारेण अस्माकमपि विनाशः स्यात् । तदेतस्मिन्वस्तुनि यद्वन्धुना विधेयं अनुष्ठेयं तद्विधातुं घटयस्व यतस्त्र । तस्मिन्वस्तुनि । ९३७ - चिकीर्षिते पूर्व तरं स तस्मिन् क्षेमं करे ऽर्थे मुहुरीर्यमाणः ॥ मात्रा ऽतिमात्रं शुभयैव बुद्ध्या चिरं सुधीर॑भ्यधिकं समाधात् ॥ ६ ॥ चिकीर्पित इत्यादि – तस्मिन् सीताप्रत्यर्पणलक्षणेऽर्थे मातुरुपदेशात् पूर्व- तरं पूर्वमेव चिकीर्षिते कर्तुमीप्सिते मात्रा शुभयैव बुद्ध्या कल्याणया अतिमात्र- मत्यर्थं मुहुः क्षणमीर्यमाणः प्रवर्तमानः स विभीषणः सुधीः प्राज्ञः चिरकालम- भ्यधिकं समाधात् चिन्तितवान् । इदमतिन्याय्यमिति । '२२२३। गाति स्था- ।२।४।७७७।' इति सिचो लुक् ॥ इयता प्रबन्धेन उदात्तार्थाभिधानादुदात्तार्थत्वमुक्तम् । इत उत्तरं प्रहस्त-रावणविभीषण-मातामह-कुम्भकर्ण्यदीनां वचनप्रबन्धेषु चित्राद्भुतार्थत्वं दृष्टव्यम् । ३०८ भट्टि काव्ये – तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः, बविनीतता सुबोधता शब्दानाकुलता चेत्येतदुभयं कथायामेव मन्त्र निर्णया- व्यायां द्रष्टव्यम् ॥ ९३८ - दौवारिकाऽभ्याहत-शऋ- दूतं सोपायनोपस्थित-लोक-पालम् ॥ साऽऽशङ्क-भीष्माऽऽप्त- विशन्- निशाटं द्वारं ययौ रावण-मन्दिरस्य ॥ ७ ॥ दौवारिकेत्यादि –स विभीषणः रावणमन्दिरस्य द्वारं ययौ । दौवारिकाः द्वारे नियुक्ताः । १३८६ । द्वारादीनाम्- 1७1३।४।' इलैच् । तैरभ्याहताः शक्रदूता यस्मिन् द्वारे । सोपायनाः गृहीतकौशलिकाः उपस्थिता औपढौकिता लोकपाला यत्र । साशङ्का: सभया: भीष्मा भयानकाः आप्ता विशन्तो निशाटा यत्रेति तमिनि ॥ विशेषकम् ८-१०९३९ - दूरात् प्रतीहार - नतः स वार्ता पृच्छन्न॑ना॒वेदित संप्रविष्टः ॥ स- गौरवं दत्त - पथो निशाटै- रैक्षिष्ट शैलऽग्रमि॑वे॑न्द्रशत्रुम् ॥ ८ ॥ दूरादित्यादि–स विभीषणः दूरादेव प्रतीहारेण नतः स्वामिनीव तत्र गौरवात् । वार्ता पृच्छन् कुशली महाराज इति विभीषणो द्वारि तिष्ठतीति राज्ञे अनावेदित एव संप्रविष्टो निशाटैः सगौरवं च सविनयं इत्तपथो दत्तमार्गः । इन्द्वशत्रुं रावणमैक्षिष्ट दृष्टवान् । शैलाग्रमिव सिंहासनारूढस्य तस्योच्चत्वात् ॥ ९४० - कृशानु - वर्ष्मण्य॑धिरूढर्मुच्चैः सिंहासने संक्षय- मेघ -भीमम् ॥ निसर्ग- तीक्ष्णं नयन- स्फुलिङ्गं युगान्त वरिव धूम - राशिम् ॥ ९ ॥ कृशानुवर्मणीत्यादि - सिंहासने उच्चस्तुङ्गे कृशानुवर्ष्माणि अग्नितुल्ये अधि- रूढं उपविष्टम् । संक्षयमेववद्भीमं अतिभयंकरम् । निसर्गतीक्ष्णं स्वभावरौद्रम् । नयनानि स्फुलिङ्गा इव यस्य तमैक्षिष्ट । युगान्तवद्वेरिव धूमराशिं अग्नितुल्य- सिंहासने उपरि स्थितत्वात् । सोऽपि संक्षयमेघवगीमः स्वभावतः कटुकत्वात् । स्वभावतीक्ष्णः । नयनानि विस्फुलिङ्गा यत्रेति ॥ ९४१ - प्रीत्या ऽपि दत्तेक्षण-सन्निपातं भयं भुजङ्गाऽधिप-वद् दधानम् ॥ तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः - ३०९ तमसमूहा॒ऽऽकृतिम॑प्य॑शेषा- नूर्जा जयन्तं प्रथित प्रकाशान् ॥ १० ॥ प्रीत्येत्यादि- - यथा भुजङ्गाधिपः शेषः प्रीत्या स्रेहेन दत्तेक्षणसन्निपातः समर्पित नेत्रनिवहो भयमादधाति तद्वद्भयमाद्धानम् । तमःसमूहस्येवाकृतिर्यस्य तमपि प्रथितप्रकाशानशेषानर्कादीन् ऊर्जा बलेन जयन्तमैक्षिष्ट । ऊर्जेति '३१५७ १ भ्राज-भास–१३।२।१७७१' इत्यादिना किप् ॥ ९४२ - तं रत्न दायं जित-मृत्यु - लोका रात्रिं चराः कान्तिभृतो ऽन्सर्पन् ॥ प्रमुक्त-मुक्ता-फलम॑म्वु-वाहं संजात तृष्णा इव देव-मुख्याः ॥ ११ ॥ a तमित्यादि - यथा देवमुख्याः अमरत्वाजितमृत्युलोकाः कान्तिभृतो दीप्ति- धराः संजाततृष्णाः सन्तः प्रमुक्तमुक्ताफलमम्बुवाहमुपसर्पन्ति तद्वत्तं विभीषणं रखदायं । रत्नं दास्यतीति । '३१८११ अण् कर्मणि च । ३।३।१२।' इति भविष्य- काले क्रियायां क्रियार्थायामित्यण् । तत्र एककर्तृके भिन्नकर्तृके वेति विशेषाभा- वात् । अथवा '५१५ । दय दानगत्योः' इत्यस्मात्कर्मण्यण् । रत्नं दयते ददातीति कृत्वा । रात्रिंचरा भग्नयमलोका अन्वसर्पन् ॥ ९४३ - स किङ्करैः कल्पितमिङ्गित-ज्ञैः संबाधकं पूर्व- समागतानाम् ॥ सिंहासनो॒पाश्रित-चारु-वाहु- रंध्यास्त पीठं विहित प्रणामः ॥ १२ ॥ स इत्यादि- --स विभीषणः विहितप्रणामः कृतप्रणतिः पीठमध्यास्त निषण्ण- वान् । किङ्करैर्भृत्यैरिङ्गितज्ञैरभिप्रायवेदिभिः कल्पितमुपनीतम् । पूर्वसमागतानां प्रथमप्रविष्टानां संबाधकं संकटकृत् संवाधत इति ण्वुल । रावणस्य सिंहासने उपाश्रितः स्थितः चारुर्बाहुर्यस्य विभीषणति सः ॥ ९४४ - ततो दशा॒ऽऽस्यः क्षुभिताऽहि-कल्पं दीSङ्गुलीयो॒पलर्मूढ रत्नम् ॥ अनेक - चञ्चन्-नख - कान्ति- जिह्वं प्रसार्थ पाणिं समितिं बभाषे ॥ १३ ॥ तत इत्यादि — विभीषणनिवेशनादुत्तरकालं दशास्यः पाणिं क्षुभिताहिकल्पं क्रुद्धविस्तृतफणेन सर्पेण तुल्यम् । दीमो दीपनशीलोऽङ्गुलीयोपलोऽङ्गुलीयरत्नम् । भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण रूपे तृतीयो वर्गः, समेधितो वर्धितः तैलघृतादिभिर्गृहात् गृहं गच्छतो गलन् पुच्छात्पतन् लङ्काम- धाक्षीत् दग्धवान् । '३२६ । एकाचो वशो भप्- ।८।२।३७ ।' इत्यादिना धत्वम् । हलन्तलक्षणा वृद्धिः । '३२४ । हो ढः ॥२।३१॥२९५ पढोः कः सि १८१२१४१॥ निजैन आत्मीयेन प्रमादेन ज्वालादर्शितलक्षणेन । तदानीं तस्य शस्त्रव्यापादनमेव युक्तमिति ॥ ९५२ - अथा इञ्चितो॒रस्कमु॑दीर्ण-दृष्टि: कृत्वा विवक्षा-प्रवर्ण शरीरम् ॥ विवृत्त-पाणिर् विहतो॒त्तरा॒ऽर्थं विभीषणो ऽभाषत यातुधानान् ॥ २१ ॥ अथेत्यादि — प्रहस्तादिवचनान्तरं अञ्चितोरस्कं विन्यस्तहारत्वात् । पूजि- तोरस्कम् । ८८९ । उरःप्रभृतिभ्यः कप् ।५।४।१५।''३०४७ । अ: पूजायाम् ।७।२।५३।' इतीद । '४२४। नाञ्चेः पूजायाम् ।६।४।३०॥ इत्यनुनासिकलोपप्रति- षेधः । तादृशं शरीरं विवक्षाप्रवर्णं वक्तुमिच्छाभिमुखं कृत्वा शरीरस्य सौष्ठवं उत्पाद्येत्यर्थः । उदीर्णदृष्टिस्तदभिमुखदृष्टिः । विवृत्तपाणिस्तदभिमुखीकृतदक्षिण- पाणि: विभीपणो यातुधानानभापत विहतोत्तरार्थं विहतः प्रतिषिद्धः पररुदितस्य वचनस्यार्थी यत्र भाषण इति ॥ ९५३ - ' युद्धाय राज्ञा सुभृतैर् भवद्भिः संभावनायाः सदृशं यदुक्तम् ॥ तत् प्राण-पण्यैर् वचनीयमेव, प्रज्ञा तु मन्त्रे ऽधिकृता, न शौर्यम् ॥ २२ ॥ युद्धायेत्यादि - युद्धार्थं राज्ञा भवन्तः सुभृताः संवर्धिताः तैः सुभृतैर्यदुक्तं 'भानुं पिनपाम' इत्यादि । कीदृशम् । संभावनायाः सदृशम् । तत्प्राणपण्यैर्वचनी- यमेव । मन्त्रे तु प्रज्ञाधिकृता न शौर्यम् ॥ 'नराभियोग किं नयसे गुरुत्वम्' इत्यत्रोत्तरमाह- ९५४ - यच् चापि यत्ना - Sऽदृत मन्त्र - वृत्तिर् गुरु-त्वमा॑याति नरा॒ऽभियोगः ॥ वशीकृतेन्द्रस्य, कृततो॒त्तरो ऽस्मिन् विध्वंसिताऽशेष-पुरो हनूमान् ॥ २३ ॥ यच्चेत्यादि — वशीकृतेन्द्रस्य निर्जितशत्रस्य रावणस्य नराभियोगो यत्नादृत- मन्नवृत्तिर्यत्नेनादृता मन्त्रवृत्तिर्यस्य सः तादृशो गुरुत्वमायातीति यच्चाप्युक्तं अस्मिन् वस्तुनि हनुमान् कृतोत्तरी दत्तोत्तरः । यतः विध्वंसिताशेषपुरः । पुरं लङ्का । तथा लक्ष्य-रूपे कथानके 'विभागमती' नाम द्वादशः सर्गः-३१३ पूःशब्दो वा कृतसमासान्तः । यन्त्र कपिनाथभृत्येन ईदृशमनुष्टितं स कथं नराभियोगो मन्त्रोन्मुखो न निरूप्यत इति ॥ प्रमादेनाग्निः लङ्कामधाक्षीदित्यत्रोत्तरमाह९५५ - अग्निः प्रमादेन ददाह लङ्कां , वध्यस्य देहे स्वयमे॑धितश् चेत् ॥ विमृश्य तद् देव - विया ऽभिधत्त ब्रह्मास्त्र - चन्धोऽपि यदि प्रमादः ॥ २४ ॥ अग्निरित्यादि — वध्यस्य वधार्हस्य देहे तदेकदेशेषु पुच्छादिपु प्रमादेन स्वयं युष्माभिरग्निरेधितो दीपितः लङ्कां ददाह चेत्, तथास्तु । ब्रह्मास्त्रब- न्धोऽपि यदि प्रमादः तद्देवधिया देवबुद्ध्या देवानां सात्विकत्वान्निर्मला बुद्धिः तया विमृश्य निरूप्याभिधत्त ब्रूत । सोऽपि प्रमाद इति यतोऽसावमोघोऽपि विश्लेषितः । अभिधत्तेति । '२५०१ । दधस्तथोश्च ।८।२।३८।' इत्यभ्यासदका- रस्य भए धातोश्च खारे चर्वम् ॥ पराभियोगः सर्वथा निरूप्यत इति दर्शयन्नाह ९५६ - जगन्त्य॑मेया॒ऽद्भुत-भाव-भाञ्जि, , जिताऽभिमानाश च जना विचित्राः ॥ कार्ये तु यत्नं कुरुत प्रकृष्टं, मा नीति - गर्भान् सु-धियो ऽवमन्ध्वम् ॥ २५ ॥ जगन्तीत्यादि – असंख्यविचित्रभावभाञ्जि जगन्ति तत्रत्या अपि जनाः विचित्राः शक्तिदेशकालवशात् जिताभिमानाश्च । अन्यैरुत्कृष्टैर्जीयतेऽभिमान- स्तेषाम् । तेनात्मन्यभिमानो न कर्तव्य इति दर्शयति । कार्ये तु प्रकृष्ट मुत्तमं यत्नं कुरुत । येन तत्तत्कार्यं सिध्यति । तत्र च ये युक्तिमभिदधति तान्नीति- गर्भान् नीतिरेव षाड्गुण्यादिज्ञानं गर्भे येषाम् । अत एव सुधियो मावसन्ध्वं मा परिभूत । तद्युक्तानुष्ठानात् । '२६९७ । हनः सिच् । १।२।१४।' इति कित्त्वविधानसामर्थ्यात् अनुनासिकलोपाभावः । ८२२४९)घि च ।८।२।२५॥ इति सिचो लोपः ॥ यथा च विजिगीषुणा वर्तितव्यं तथोपदिशन्नाह ९५७ - वृद्धि क्षय स्थान-गतामंजस्रं वृत्तिं जिगीषुः प्रसमीक्षमाणः ॥ घटेत सन्ध्याssदिषु यो गुणेषु, लक्ष्मीर् न तं मुञ्चति चञ्चला ऽपि ॥ २६ ॥ भ० का० २७ ३१४ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे नाम तृतीयो वर्गः, वृद्धीत्यादि-आत्मद्रव्यप्रकृतिसंपन्नो नयस्याधिष्ठानं विजिगीपुः तस्य च वृद्धिक्षयस्थानमिति त्रीणि फलानि । गुणाश्च सन्धिविग्रहयानासनसंश्रय द्वैधी- भावाः पट् । तत्र यस्मिन् गुणे स्थितः पश्येदिहस्थः पश्यामीति । दुर्गसेतुवणि कृपिशून्यनिवेशनद्र्व्यहस्तिवनकर्माण्यात्मनः प्रवर्तयितुं परस्य चैतानि हन्तुं गुणमातिष्ठेत् सा वृद्धिः । यस्मिन् गुणे स्थितः स्वकर्मणामुपघातं पश्येत् नेतरस्य तस्मिन्न तिष्ठेत् स क्षयः । स्वकर्मणां वृद्धिगुणेनाभिपश्येदेतत् स्थानमित्यनेन मार्गेण यो विजिगीपुः वृद्धिक्षयस्थानगतामात्मनः परस्य च वृत्तिमजस्रं शश्वत् असमीक्षमाणो निरूपयन् सन्ध्यादिषु पड्गुणेषु घटेत यतेत तं विजिगीषुं लक्ष्मीः राज्यश्रीः चञ्चलापि न मुञ्चति । गुणशृङ्खलाबद्धत्वात् ॥ अस्ति स कालो यत्र विजिगीपुणा परवृद्धिरुपेक्षणीयेति दर्शयन्नाह ९५८ - उपेक्षणीयैव परस्य वृद्धिः ग्रनष्ट - नीतेरजितेन्द्रियस्य ॥ मदाऽऽदि-युक्तस्य विराग-हेतुः, स मूल - वातं विनिहन्ति या ऽन्ते ॥ २७ ॥ उपेत्यादि- ६- परः शत्रुः प्रनष्टनीतिवादजितेन्द्रियः न मदादिपवर्ग त्यजति, किंतु तेनैव युज्यते । तस्यैवंविधस्य या वृद्धिः सा सर्वस्यैव लोकस्य विरागहेतुः वैमुख्यकारणमुपेक्षणीयैव न तदभावाय । तेनेदृशी या अन्ते अवसाने समूल- घातं सर्व सर्वेण विनिहन्ति विनाशयति ॥ तथास्ति स कालो यत्र विजिगीपुणाप्यात्मक्षय उपेक्षणीय इत्याह९५९ - जनाऽनुरागेण युतो ऽवसादः फलाऽनुवन्धः सुधिया ssत्मनो ऽपि ॥ उपेक्षणीयो ऽभ्युपगम्य संधिं कामाऽऽदि-पड्-वर्ग-जिता ऽधिपेन ॥ २८ ॥ जनेत्यादि - आत्मनोऽप्यवसादः क्षयः जनानुरागेण युतः संबद्धः अनु- रक्तप्रकृतिसण्डलत्वाद्विजिगीपोः फलानुबन्धः फलमनुवभाति । सुधिया विदुषा अधिपेन राज्ञा । कामादिपवर्गजिता कामक्रोधलोभमोहमदेर्याणां षण्णां वर्गः तज्जिता उपेक्षणीयः । तत्रापि परैः संधिमभ्युपरास्य कृत्वा । अन्यथा क्षीणोड- यमिति परोऽभियुञ्जीत ॥ यदा च विजिगीषुः संधिविग्रहाभ्यां फलं न पश्येत् तदा स्ववृद्धिप्राध्यर्थमासनं कुर्यादिस्युपदिशन्नाह ९६० - यदा विगृह्णन् न च संदधानो वृद्धिं क्षयं चा ऽनुगुणं प्रपश्येत् ॥ तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः - ३१५ आसीत राजा ऽवसर प्रतीक्षस् तदा प्रयासं वितथं न कुर्यात् ॥ २९ ॥ यदेत्यादि — यदा हि राजा विजिगीषावस्थितः विगृह्णन् विग्रहं कुर्वन् आत्म- नोऽनुगुणामनुकूलां वृद्धिं न पश्येत् क्षयं वा परस्यात्मनोऽनुगुणं न पश्येत् । संदधान इति संधिं च कुर्वन्नात्मनोऽनुगुणं न पश्येत् तदा आसीत स्ववृद्ध्यर्थमा सनं कुर्यात् न विग्रहं संधिं वा । अवसरः कालस्तं प्रतीक्षत इति अवसरप्रतीक्षः । '२९१३ । कर्मण्यण् ।३।२।१॥ संधेर्विग्रहस्य वा स्वपरवृद्धिक्षयानुकूलं कालं प्रतीक्षमाण इत्यर्थः । न पुनः प्रयास संधिविग्रहोद्यमं वितथं निष्फलं निष्प्रयोजनं कुर्यात् । यदा तु परं विग्रहीतुमशक्तः तदा श्वावराहकलहं समानमुपदेक्ष्यति ॥ संधि कृतवतोऽपि विजिगीपोः परेण वा वियुज्यमानस्य विधिमुपदिशन्नाह ९६१ - संधौ स्थितो वा जनयेत् स्व वृद्धिं हन्यात् परं वौपनिषत्प्रयोगैः ॥ आश्रावयेद॑स्य जनं परैर्वा विग्राह्य कुर्यादवहीन संधिम् ॥ ३० ॥ संधावित्यादि-संधौ स्थितो वर्तमानः जनयेत् स्ववृद्धिम् । यया अत्यु- च्छूितः तामभियुञ्जीत परं वा शत्रु उपनिषत्प्रयोगैः विषादिदानैः हन्यात् विनाशयेत् संधिना जातविश्वासत्वात् । आश्रावयेदस्य जनं देशादिदानेनाकर्षयेत् । बलवता अभियुज्यमानः परैः विग्राह्य कलहं कारयित्वा अवहीनसंधिं आक्रान्त- संधिं कुर्यात् । तस्योपतापितत्वात् ॥ संधिग्सोर्विजिगीषोः शत्रुमण्डलभेदं कुर्वतः सुकरः संधिरित्युपदिन्नाह ९६२ - संदर्शित - स्नेह - गुणः स्व-शत्रून् विद्वेषयन् मण्डलम॑स्य भिन्द्यात् ॥ इत्ये॑वमा॑दि प्रविधाय संधिर् वृद्धेर् विधेयो ऽधिगमाभ्युपायः ॥ ३१ ॥ संदर्शितेत्यादि — अस्मच्छत्रवोऽनेन संधानं मा कार्षुरिति तान्विद्वेषयन् विमुखानुत्पादयन् । दर्शितस्त्रेहगुणः प्रकटीकृतानुरागगुणः । अस्य शत्रोर्मण्डलममात्यादिप्रकृतिं भिन्द्यात् इत्येवमादि प्रविधाय संदर्शितेत्येवमादिवाक्यार्थं कृत्वेत्यर्थः । वृद्धेरधिगमाभ्युपाय: प्राप्तिहेतुः संधिर्विधेयोऽनुष्ठेयः ॥ ३१६ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः, ९६३ विग्रहोऽपि विशिष्टस्यैव विजिगीपोर्न यस्य कस्यचिदित्युपदिशन्नाह - मत्वा सहिष्णून॑परोपजप्यान् स्वकान॑धिष्ठाय जहा॒ऽन्त दुर्गान् ॥ दुमाऽद्रि- दुर्लड्य- जलाप्रधृप्यान् वर्धेत राजा रिपु-विग्रहेण ॥ ३२ ॥ मत्वेत्यादि – स्वकानात्मीयाननुजीविनः सहिष्णून् समर्थान् अपरोपज- प्यान् पररभेद्यान् जलान्ते ये दुर्गा: प्रदेशाः तानविष्ठाय तत्र स्थापयित्वा । '५४२। अधिशीङ्—।१।४।४६ ।' इति कर्मसंज्ञा । कीदृशान् । द्रुमैरद्विभिर्दुर्ल- इयजलैश्चाप्रष्टप्यान् अगम्यान् । वनपर्वतजलभेदात् त्रिविधं दुर्गम् । रिपुणा सह यो विग्रहः तेन हेतुना राजा वर्धेत वृद्ध्युपचितः स्यात् ॥ यदा अरिविजिगीषू परस्परं हन्तुं न शक्तौ तदा विजिगीषोरासनमुपदिशन्नाह - ९६४ - शक्नोति यो न द्विपतो ऽभिहन्तुं, विहन्यते ना ऽप्य-वलैर् द्विपद्भिः स वा वराहं कलहं विदध्या- दा॑सीत दुर्गाऽऽदि विवर्धयंश् च ॥ ३३ ॥ शक्नोतीत्यादि — यो विजिगीषुः अवलत्वात् द्विपतः शत्रूनभिहन्तुं विप्र- हीतुं न शक्नोति अबर्द्विषद्भिर्न विहन्यते स विजिगीपुः श्वावराहं कलहं विदु- ध्यात् अनुतिष्ठेत् । श्वा च वराहश्च श्वावराहं तदीयमिव कलहम् । '१५००/ तस्येदम् ॥४।३॥२०।' इत्यण् । यथा चाण्डाला वराहं हन्तुमशक्ताः श्वानं विमुच्य योधयन्ति यद्ययं हतोऽनेन वा अयमिति तयोर्भक्ष्यत्वादुभयथा कार्यसिद्धेः । तद्वयोविद्विषतोः कलहं विध्यात् । स्वयं च दुर्गादि विवर्धयन् दुर्गसेतुवणि- कृषिशून्यनिवेशनद्रव्यहस्तिवनकर्माण्युपचिन्वन् आसीत तिष्ठेत् ॥ 3 ॥ यदा विजिगीपुर्यानमात्रसाध्यं शत्रुमात्मानं वा शक्तिहीनं पश्येत् तदा यायात् संश्रयेतेति गुणद्वयमुपदिशन्नाह ९६५ - प्रयाण-मात्रेण परे प्रसाध्ये वर्तेत यानेन कृताऽभिरक्षः ॥ अशक्नुवन् कर्तुमरेर् विघातं स्व-कर्म-रक्षां च परं येत ॥ ३४ ॥ प्रयाणमात्रेणेत्यादि — प्रयाणमात्रेण प्रसाध्ये परे शत्रौ नापरं विग्रहमपे क्षेत, यानेन वर्तत, स्ववृत्तौ वर्तेत । कृताभिरक्षः अभियास्यतः कर्मणां द्विविध त्वप्रतिविधानात् । अरेविंघात दुर्गादिकर्मोपघातान् स्वकर्मरक्षां स्वेषां दुर्गा तथा लक्ष्य-रूपे कथानके 'विभीषणागमतो' नाम द्वादशः सर्गः - ३१७ ढिकर्मणां अपरेणोपहन्यमानानां रक्षां कर्तुमशक्नुवन् शक्तिहीनत्वात् परं श्रयेत । यमाश्रित्य क्षयस्थानात् ज्ञानवृद्धिमाप्नुयात् । परो द्विविधः अभियोक्ता तद्विशि- टवलोऽपरोऽन्य इति ॥ यदा तु सहायसाध्यं कार्यं पश्येत् तदा संधिविग्रहासन द्वैधीभावं गच्छेदित्युपड़िशन्नाह ९६६ - एकेन संधिः, कलहो ऽपरेण 3 कार्यो ऽभितो वा प्रसमीक्ष्य वृद्धिम् ॥ एवं प्रयुञ्जीत जिगीषुरैता नीतीर् विजानन्न॑हितता॒ऽऽत्म-सारम् ॥ ३५ ॥ एकेनेत्यादि – अभित उभयपार्श्वयोः संधिना विग्रहेण वा वृद्धिं प्रसमीक्ष्य पश्चादेकेन शत्रुणा स्वयमभियुक्तेन संधिः अपरेण सहायाभियुक्तेन विग्रहः कार्यः । एवमुक्तेन प्रकारेण अहितस्य शत्रोरात्मनश्च सारं बलाबलं विजिगीषु- विजानन् एता नीतीः षाड्डुण्यलक्षणाः प्रयुञ्जीत ॥ त्वया पुनरेवं न प्रयुक्ता इति दर्शयन्नाह ९६७ - त्वया तु लोके जनितो विरागः, प्रकोपितं मण्डलमि॑न्द्र- मुख्यम् ॥ रामे तु राजन्, विपरीतमैतत् " पश्यामि, तेना ऽभ्यधिकं विपक्षम् ॥ ३६॥ त्वयेत्यादि- - त्वया पुनश्चतुर्वर्णोच्छेदकारिणा लोके जनितो विरागः । इन्द्र- मुख्यं शऋप्रधानं च मण्डलं प्रकोपितम् । रामे तु सर्वमेतद्विपरीतं अनुरागेण जनितं मण्डलं चानुरञ्जितं तेनाभ्यधिकं विपक्षं रामं पश्यामि ॥ न चेदानीं भवतः कार्य विनष्टं अपि तु प्रागेवेति दर्शयन्नाह ९६८ - एकेन वाली निहतः शरेण सुहृत्-तमस् ते, रचितश् च राजा ॥ यदैव सुग्रीव - कपिः परेण, तदैव कार्य भवतो विनष्टम् ॥ ३७ ॥ एकेनेत्यादि — तव सुहृत्तमो वाली यदैव परेण रामेण कर्त्रा शरेणैकेन निहतः, सुप्रीवश्च कपिस्वच्छत्रू राजा रचितः स्थापितः तदैव भवतः कार्य विनष्टमिति ॥ २१८ मट्टि-काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः, अथ प्रतापवत्तो मम कथं कार्य विनश्यति प्रतापादेव शत्रवो नश्यन्तीति चेदाह९६९ - प्राकार - मात्राऽऽवरणः प्रभावः खरा॒ऽऽदिभिर् यो निहतैस् तवाऽभूत् ॥ लङ्का-प्रदाहा॒ऽक्ष-वध-दु-भङ्गैः क्लाम्य॒त्य॑साव॑प्य॑धुना ऽतिमात्रम् ॥ ३८ ॥ प्राकारेत्यादि — तव त्रैलोक्यप्रमाथी प्रताप आसीत् । पुनः खरादिभिर्निहतैः ग्राकारमात्रावरणो जातः । लङ्कायामेव समर्थत्वात् । असावप्यधुना लङ्कादाहेन, अक्षवधेन, द्रुमभङ्गेन अशोकवनिका भङ्गेन च अतिमात्रमत्यर्थं काम्यति ग्लानि- मुपगच्छति ॥ अतो रामेण सह युद्धं न घटते तदेव दर्शयन्नाह - ९७० - षडुर्ग - वश्यः परिमूढ-बन्धु- रुच्छिन्न-मित्रो ऽरिगणैरुपेतः ॥ मा पाद-युद्धं द्विरदेन कार्षीर् नम क्षितीन्द्रं प्रणतोपभोग्यम् ॥ ३९ ॥ पडर्गेत्यादि — वशंगतो वश्यः कामादेर्वश्यः । परिमृढबन्धुः मूर्खामात्यादिपरिवारः । उच्छिन्नमित्रः वर्गस्यासंभवात् । अरिगणैरुपेतः । तद्विपरितो रामः । अतो द्विरदेन पादयुद्धमिव तेन ज्यायसा मा विग्रहं कार्पा: । अपितु क्षितीन्द्रं रामं नम । प्रणतोपभोग्यम् । अनेन हीनसंधिमाह । तथा चोक्तम् – 'प्रवृत्तं मन्त्रि गाकान्तो राजा वलवता बलः ॥ संघिनोपनमेत्तृर्ण दण्डकोशात्मभूमिभिः ॥' इति ॥ युवयोः संधानकारणमस्त्येवेति दर्शयन्नाह ९७१ - रामो ऽपि दाराssहरणेन तप्तो, " वयं हतैर् बन्धुभिरोत्म-तुल्यैः ॥ तप्तस्य तप्तेन यथा ssयसो नः संधिः परेणा ऽस्तु, विमुञ्च सीताम् ॥ ४० ॥ राम इत्यादि — यथा तप्तेनायसा तप्तस्यायसः संघिर्घटते तद्वदस्माकं तप्तानां सप्तेन रामेण संधिरस्तु । अतो विमुञ्च सीतां संधिनिमित्तम् ॥ यदि च तेन तप्तेनापि सता ज्यायसा न संधानं तदा सर्वे वयं न जीवामः तव तेजसो विनाशकत्वादिति दर्शयन्नाह ९७२ - संधुक्षितं मण्डल-चण्ड-वातैरमर्ष- तीक्ष्णं क्षिति-पाल-तेजः ॥ तथा लक्ष्य-रूपे कथानके 'विभीषगागमनो' नाम द्वादशः सर्गः- ३१९ साऽम्भसा शान्तिर्मुपैंतु राजन् ! प्रसीद, जीवाम स-बन्धु-भृत्याः ॥ ४१ ॥ · संधुक्षितमित्यादि – क्षितिपालतेजः मीतावियोगजम् । इन्द्रादिमण्डलै- अण्डवानरिव संक्षितं दीपितम् । अमर्पतीक्ष्णं असहिष्णुतया सह्यम् । सामा- म्भसा साम्ना संविना अम्भसेव शान्तिमुपैतु । हे राजन् ! प्रसीद किं संरम्भेण ? अन्यथा तमारण्योऽभिरिव दुःखामर्पजं तेजो विक्रमयतीति ॥ समानयोरपि संधानमेव युज्यते न विग्रहः किं पुनर्ज्यायसीयत्र हेतुं दर्शयन्नाह ९७३-अ-पक्क-कुम्भावि॑िव भङ्ग - भाजौ राजनयातां मरणं समानौ, ॥ वीर्ये स्थितः किंतु कृताऽनुरागो रामो भवांश चोत्तम-भूरि-वैरी. ॥ ४२ ॥ अपक्केत्यादि - हे राजन् ! यथा कुम्भावपको भङ्गभाजी परस्परामिहतौ विनश्यतः । तद्वत् समानौ युध्यमानौ मरणमियाताम् । सार्वधातुकयकारत्वा- दिणो न दीर्घत्वम् । राजन्नियातामिति '१३४ । ङमो स्वादचि ङमुद ।८।३।३२॥ किंतु रामो वीर्ये स्थितः । उत्साहशक्तियुक्त इत्यर्थः । विक्रमबलं चोत्सा- हशक्ति: । कृतानुरागश्च अनुरक्तमण्डलव्वात् । भवान् पुनः उत्तमभूरिवैरी । उत्तमा इन्द्रादयो भूरयः प्रभूता वैरिणः शत्रवो यस्य । अतस्तेन संधानमेव युक्तं न विग्रहः । ननु च समज्यायोभ्यां संघीयेत हीनेनैव विगृह्णीयात् । मन्त्रप्रभावोत्साहशक्तिभिर्युक्तो ज्यायान् । अपचितो हीनः । तुल्यशक्तिः समः । तत्र ज्ञानबलं मन्त्रशक्तिः । कोशदण्डबलं प्रभुशक्तिः । विक्रमबलं उत्साहशक्तिः ॥ सत्यामुत्साहशक्तौ शेषयोरभावान्न होनेन विग्रह एव युज्यत इत्याह- ९७४ - दण्डेन कोशेन च मन्यसे चेत् प्रकृ॒ष्टर्मात्मानम॑रेस् तथापि ॥ रिक्तस्य पूर्णेन वृथा विनाशः पूर्णस्य भङ्गे बहु हीयते तु. ॥ ४३ ॥ दण्डेनेत्यादि–दण्डेन चतुरङ्गेन बलेन, कोशेन हेमरूप्यादिना यदि प्रकृष्टमात्मानमरेः सकाशान्मन्यसे, तथाप्येवमपि न युक्तं, यतो रिकस्य पूर्णेन भवता विनाशो भङ्गः वृथा निष्फलः । पूर्णस्य पुनर्भवतो भङ्गे बहु हीयत इति हीनेन बलवतोऽपि संधानं युक्तम् । रिक्तस्य भङ्गो माऽभूत् ॥ ३२० भट्टि-काव्ये तृतीये प्रसन्च- काण्डे लक्षण-रूपे तृतीयो वर्गः, अन्यद्विजयफलमस्तीति चेदाह ९७५ - क्लिष्टाऽऽत्म-भृत्यः परिमृग्य सम्पन् मानी यतेता ऽपि स-संशये ऽर्थे, ॥ संदेहमरोहति यः कृताऽर्थो, नूनं रतिं तस्य करोति न श्रीः ॥ ४४ ॥ 1 किटेत्यादि - यो मानी क्लिष्टात्मभृत्यः चिरकालकिष्टशरीरः क्लिष्टभृत्यश्च । परिमृग्यसम्पत् प्रार्धनीया विभूतियन मृगयते: स्वार्थिकण्यन्तादचो यत् । संशयेऽर्थे स्यान्न स्यादिति यतेतापि यत्नं कुर्यात् । यः कृतार्थो भवादृशः त्रैलोक्यविजयित्वात् संदहमारोहति संदेहे प्रवर्तते, तस्य नूनमवश्यं श्रीर्विभूतिः रातं स्थितिं न करोति ॥ कदा तर्हि विग्रह इत्याह- ९७६ - शक्यान्य दोषाणि महा- फलानि समारभेतोपनयन् समाप्तिम् ॥ कर्माणि राजा विहिताऽनुरागो, विपर्यये स्याद् वितथः प्रयासः ॥ ४५ ॥ शक्यानीत्यादि — शक्यानि यानि कर्तुं पार्यन्ते । अदोषाणि शुद्धानि महा- फलानि कार्याणि राजा समारभेत विग्रहेणेत्यर्थात् । उपनयन् समाप्तिं नयन् । विहि- तानुरागोऽनुरक्तकृतिः । विपर्यये उक्तस्य । अशक्यानि दोषाधिकानि स्वरुप फलानि राजा समारभेत समाप्तिं च न नयति स वितथः प्रयासः निष्फलो विग्रहः ॥ ममापि रामविग्रहेण सर्वमस्तीति चेदाह V ९७७ - जेतुं न शक्यो नृ-पतिः सु-नीतिर् दोषः क्षयऽऽदिः कलहे ध्रुवश, च ॥ फलं न किंचिन् न शुभा समाप्तिः, कृता॑ता॒ऽनुरागं भुवि संत्यजा रिम् ॥ ४६ ॥ जैतुमित्यादि — नृपती रामः जेतुं न शक्यः विग्रहेण । उत्साहशक्तियुकत्वात् । तेन सह कलहे दोपः क्षयादिः ध्रुवोऽवश्यंभावी । विग्रहे वा सति क्षयव्ययप्रयासप्रत्यवाया भवन्तीत्युक्तम् । फलं न किंचित् । न शुभा समाप्तिः स्वबन्धुविनाश हेतुत्वात् । अतो योद्धुमरिं ज्यायांसं संत्यज । भुवि कृतानुरागं त्वं पुनरकृतानुराग इति ॥ तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः -३२१ अन्यच्च वालिवध एव तस्यार्थसम्पज्जयायेति दर्शयन्नाह - ९७८- त्वन्- मित्र-नाशो, निज-मित्र-लाभः, समेत - सैन्यः स च मित्र-कृच्छ्रे ॥ भोग्यो वशः पश्य शरेण शत्रोः प्रसाधितो वालि-वधे न को ऽर्थः ॥ ४७ ॥ त्वन्मित्रेत्यादि – वालिवधे सति शरेण रामस्य कोऽर्थो न प्रसाधितः, अपि तु सर्व एव पश्य । तथाहि । त्वन्मित्रनाशः तस्य च मित्रलाभः मित्रं च तलाभ- श्चेति । समेतसैन्यः कृच्छ्रे संकटप्राप्तौ भूतभोग्यः उपजीव्यः । वशोऽनुकूल इति ॥ तं विभिद्य साधयिष्यामीति चेदाह ९७९ - लोभाद् भयाद् वा ऽभिगतः कपीन्द्रो न राघवं, येन भवेद् विभेद्यः ॥ स्थितः सतां वर्त्मनि लब्ध-राज्यः , प्रति- प्रियं सो ऽभ्यगमच् चिकीर्षुः ॥ ४८ ॥ a लोभादित्यादि – क्रुद्धळुव्ध भीतावमानिताश्चत्वारो भृत्याः परस्य भेद्याः । तत्र कपीन्द्रो राघवं लोभायाद्वा त्रासाद्दा नाभिगतः । येन हेतुनाऽयं विभेद्यः सात् । यस्मादसौ सतां मार्गे स्थितः सन् लब्धराज्यो लाभरतः प्रतिप्रियं चिकीर्षुः ॥ तदनुजीविनोऽपि न भेद्या इति दर्शयति ९८० - फलाशिनो निर्झर-कुञ्ज - भाजो दिव्याऽङ्गनाऽनङ्गरसाऽनभिज्ञाः न्यग्-ज् - जातयो रत्न- वरैरलभ्या मुख्या: कपीनामपि नौपजप्याः ॥ ४९ ॥ फलाशिन इत्यादि-कपीनामपि मुख्या नीलकुमुदादयोऽपि नोपजप्याः नोपजपितुं शक्या: । यतः फलाशिनो मिष्टान्ननिरपेक्षाः । निर्झरकु अभाज: न रम्यप्रासादवासिनः । दिव्याङ्गनानङ्गरसानभिज्ञाः दिव्याङ्गनासु योऽनङ्गरसः सुरतरसः तदनभिज्ञाः । न्यग्जातयः न्यञ्चन्तीति '३७६ । ऋत्विग्- ।३।२।५९॥ १ इत्यादिना किन् ॥ युष्मन्मित्रपुत्रोऽङ्गदोऽप्यमेय इति दर्शयन्नाह ९८१ - कृताऽभिषेको युवराज-राज्ये सुग्रीव - राजेन सुताऽविशेषम् ॥ ३२२ भट्टि- काव्ये - तृतीये प्रसन्न काण्डे लक्षण रूपे तृतीयो वर्गः, ताराविधेयेन कथं विकारं तारा-सुतो यास्यति राक्षसार्थम् ॥ ५० ॥ कृतेत्यादि – सुग्रीवराजेन ताराविधेयेन ताराचित्तानुवर्तिना । तारासुतोऽङ्गदः यौवराज्ये कृताभिषेकः सुताविशेषमिति क्रियाविशेषणम् । सुतनिर्विशेषं ममैवायं सुतो न वालिन इति । तत्कथं राक्षसार्थं विकारं भेदं यास्यति । नैवेत्यर्थः ॥ अन्यसमाश्रयादपि रामेण विग्रहो न युज्यत इति दर्शयन्नाह ९८२ - पश्यामि रामादधिकं समं वा ना ऽन्यं, विरोधे यमु॑पाश्रयेम, 8 दत्त्वा वरं साऽनुशयः स्वयम्भू- रि॑िन्द्र॒ऽऽदयः पूर्व-तरं विरुद्धाः ॥ ५१ ॥ पश्यामीत्यादि — रामादधिकं ज्यायांसं समानं वा न पश्यामि । यं विरोधे विग्रहाने मित्तमुपाश्रयेम आश्रयं गच्छेम । संप्रश्ने लिङ् । स्वयंभूर्या तावन्ना- श्रयः यतो वरं दत्त्वा सानुशयः विप्रतीकारवान् जातः । किमिदमकार्यमनुष्ठितं मयेति इन्द्रादयस्तु पूर्वतरं विरुद्धाः ॥ एवं दुर्गसमाश्रयो ऽपि न युज्यत इति दर्शयन्नाह ९८३ - दुर्गाऽऽश्रितानां बहुना ऽपि राजन् ! कालेन पाणिग्रहणा॒ऽऽदि-हेतुः ॥ दुर्गोपरोधं न च कुर्वतोऽस्ति शत्रोश चिरेणा ऽपि दशऽऽस्य ! हानिः ॥ ५२ ॥ दुर्गेत्यादि- दुर्गाश्रितानामस्माकं दुर्गोपरोधं कुर्वतः शत्रोहुनापि कालेन हे राजन् ! पाणिग्रहणादेः । आदिशब्दादाटविकान्तपालादिप्रकोपस्य हेतुर्नास्ति यशादपरोधो न भविष्यति । अत्र स्थितानां क्षय एव केवलं न च शत्रोरुपरोधं कुर्वतः चिरेणापि हानिः । युद्धशरीरोपयोगिनां सर्वदा संभवात् ॥ ९८४ - शस्त्रं तरूर्वी धरम॑म्बु पानं वृत्तिः फलैर्, नो गज-वाजिनार्यः ॥ राष्ट्रं न पश्चान्, न जनोऽभिरक्ष्यः, किं दुःस्थमा॑च॒क्ष्व भवेत् परेषाम् ॥ ५३ ॥ शस्त्रमित्यादि--तरवश्च उर्वीधराश्चेति ९१० । जातिरप्राणिनाम् । २।४।६॥ इति एकवद्भावः । तच्छस्त्रं न शूलखङ्गादि । पानमम्वु न मैरेयादि । फलैर्वृत्तिनदनादिभिः । नो गजवाजिनार्यः शरीरमात्रत्वानिश्चिन्ताः । राष्ट्रं देशो न पश्चात्, तथा लक्ष्य-रूपे कथानके 'विमीपणारामनो' नाम द्वादशः सर्गः-३२३ त एव तत्स्थो जनो नाभिरक्ष्यः । एवं च सति परेषां किं दुःस्थं इत्याचक्ष्व कथय । अतो रामेण ज्यायसा संधिरेवास्तु न विग्रह इति ॥ तदेव दर्शयन्नाह ९८५ - संधानमैवा ऽस्तु परेण तस्मान्, नाऽन्यो ऽभ्युपायो ऽस्ति निरूप्यमाणः ॥ नूनं वि-संधौ त्वयि सर्वमे॑तन् नेप्यन्ति नाशं कपयो ऽचिरेण ॥ ५४ ॥ 3 संधानमित्यादि- तस्मात्परेण संधिरेवास्तु । अन्य उपायो नास्ति । अन्यथा त्वयि विरुद्ध सर्व कपयो विनाशयिष्यन्तीति ॥ ९८६ - विभीषणोक्तं बहु मन्यमानः प्रोन्नम्य देहं परिणाम नम्रम् ॥ स्खलद्-वलिर् वार्धक-कम्प्र-मूर्धा मातामहो रावणमि॑ित्युवाच ॥ ५५ ॥ विभीषणोक्तमित्यादि – बहु मन्यमानः श्लाघमानो मातामहो मातुः पिता माल्यवान्नाम । देहं परिणामन्त्रं वयसः परिणामान्नमनशीलं प्रोन्नम्बो- त्क्षिप्य । अत एव स्वलिः । वार्धकेन वृद्धभावेन । मनोज्ञादित्वात् दुञ् । कम्प्रः कम्पनशीलो मूर्धा यस्य सः । रावणमिति वक्ष्यमाणमुवाच ॥ wp ९८७- 'एकः पदातिः पुरुषो धनुष्मान् यो ऽनेक - मायानि वियद्-गतानि ॥ रक्षः सहस्राणि चतुर्दशा ऽऽदींत्, - का तत्र वो मानुष मात्र शङ्का ॥ ५६ ॥ एक इत्यादि – एकः असहायः पदातिः न हस्त्याद्यारूढः पुरुषो मनुष्यः । धनुष्मान् धनुर्मात्रायुधः । चतुर्दश रक्षःसहस्राणि अनेकमायानि वियतानि प्रयातुमशक्यानि । परेपामित्यर्थात् । आर्दीत् हिंसितवान् । का तत्र वः युष्माकं मानुषमात्रशङ्का, नैवेत्यर्थः 11 किंतु दिव्योऽसाविति तदेव दर्शयन्नाह ९८८ - ब्रह्मर्षिभिर् नूनम॑यं स-देवै: संतापित रात्रिचर-क्षयाय ॥ नराऽऽकृतिर् वानर - सैन्यशाली जगत्य- जय्यो विहितो ऽभ्युपायः ॥ ५७ ॥ ३२४ मट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः, ब्रह्वेत्यादि — सदैवैर्ब्रह्मादिभिः संतापितैः रात्रिचरक्षयाय नुनमयं राम उपायो विहितः उत्पादितः । नराकृतिः आकृत्यैव केवलं नरः । वानरसैन्यशाली आट्यः । अजय्यो जेतुमशक्यः ॥ दृष्टश्चैयं प्रकारो देवानां मयेति दर्शयन्नाह ९८९ – वज्रऽभिघातैर-विरुग्ण-मूर्तेः फेणैर् जलानाम॑सुरस्य मूर्भः ॥ चकार भेदं मृदुभिर् महेन्द्रो यथा, तथैतत् किमपति बोध्यम् ॥ ५८ ॥ वज्राभिघातैरित्यादि- असुरस्य नमुचेः वज्राभिघातैरपि अविरुग्णभूतैः अचूर्णितशरीरस्य संबन्धिनो मूर्ध्नो जलानां फेणैर्मृदुभिः भेदं चकार यथा तथेदमपि शमे स्थितानामपि देवानां नराकृति वस्तु किमपीति बोद्धव्यम् ॥ अन्यथा कथं फेणपिण्डैर्विनाश इत्याह , ९९० - क स्त्री विषह्या: करजाः, क्व वक्षो दैत्यस्य शैलेन्द्र - शिला - विशालम् ॥ संपश्यतैतद् सदां सुनीतं, विभेद तैस् तन् नर-सिंह-मूर्तिः ॥ ५९ ॥ क्वेत्यादि — स्त्रीविषह्याः स्त्रीभिः सोढुं शक्या: करजा नखाः छ । दैत्यस्य हिरण्यकशिपोः शैलेन्द्रशिला विशालं त्रक्षः च च । वक्षःकरजयोरपि दूरमन्तरं, तथापि सदां देवानां एतत्सुनीतं सुनयं संपश्यत । यत् तैर्नखैर्नरसिंहमूर्तिः तो बिभेद ॥ यत्रैवमुपायेन देवैर्निहन्यते तत्र त्वं कथं प्रमादी मुझसीत्याह९९९ - प्रमाद - वांस् त्वं क्षत-धर्म-वर्मा " गतो मुनीनाम॑पि शत्रु-भावम् ॥ कुलस्य शान्तिं बहु मन्यसे चेत् कुरुष्व राजेन्द्र ! विभीषणोक्तम् ॥ ६० ॥ प्रमाद्वानित्यादि – त्वं यतः प्रमादी अजितेन्द्रियत्वात् । क्षतधर्मवर्मा त्यक्ताचारः । अतो मुनीनामपि शमे स्थितानां शत्रुत्वं गतः । ईदृशोऽपि कुलस्य शान्ति बहु मन्यसे चेत् श्लाघसे यदि । हे राजेन्द्र ! कुरुष्व विभीषणोक्तम् ॥ ९९२ - घोषेण तेन प्रतिलब्ध-संज्ञो निद्राऽऽविलाऽक्षः श्रुत-कार्य-सारः ॥ तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः-३२५ स्फुरद् घनः सा॒ऽम्बुरवा ऽन्तरीक्षे वाक्यं ततो ऽभाषत कुम्भकर्णः ॥ ६१ ॥ घोषेणेत्यादि — ग्रहस्तविभीषणमातामहानां बढ़ता यो घोषः तेन प्रतिल- व्धसंज्ञो विबुद्धः कुम्भकर्णी निद्राविलाक्षः निड्या कपायितचक्षुः श्रुतकासार श्रुतकार्यशरीरः । ततः कार्यसारश्रवणानन्तरं वाक्यमभाषत । चथा घनः साम्बुः सजलोऽन्तरीक्षे वियति स्फूर्जति तद्वत् स्फूर्जन्निति ॥ कार्य निश्चित्य सदसि भापणानि न पञ्चाङ्गमन्त्रं विनेति साङ्गं तं तावद्रुपदर्शयन्नाह ९९३ - क्रिया समारम्भ-गतो ऽभ्युपायो, नृ-द्रव्य सम्पत् सह- देश - काला ॥ विपत् - प्रतीकार युता अर्थ-सिद्धिर् मन्त्रमे॑तानि वदन्ति पञ्च ॥ ६२ ॥ क्रियेत्यादि – क्रियाणां दुर्गादिकर्मणां यः समारम्भस्तं गतः प्राप्तो योऽभ्यु- पायः कर्मणामारम्भोपाय इत्यर्थः । इदमेकमङ्गम् । नृद्रव्यसम्पत् पुरुषाणां द्रव्याणां च सम्पदिति द्वितीयम् । इयोस्सहवचनं योगवाहित्वज्ञापनार्थम् । सहदेशकालेति । यस्मिन् देशे काले च कार्यसिद्धिस्ताभ्यां सह वर्तत इति तृतीयम् । अत्रापि सहवचनं योगादेव । कर्मणामनुष्टीयमानानां या विपत्तस्याः प्रतीकारस्तेन युक्तेति चतुर्थम् । अर्थसिद्धिः कार्यसिद्धिरिति पञ्चमम् । एतानि पञ्च मन्त्रस्याङ्गानि वदन्ति नीतिज्ञाः ॥ । ९९४ - न निश्चितता॒ऽर्थं समयं च देशं क्रिया॒ऽभ्युपाया॒ऽऽदिषु यो ऽतियायात् ॥ , स प्राप्नुयान् मन्त्र फलं न मानी काले विपन्ने क्षणदा-चरेन्द्र ! ॥ ६३ ॥ नेत्यादि — विनिश्चितार्थोऽवश्यं सिध्यतीति यस्मिन् समये काले देशे च कार्यसिद्धिः तादृशं समयं देशं च यो विजिगीषुर्नातियायात् नातिक्रामेत् । प्रतिषेध्यस्य द्वित्वात् प्रतिषेधद्वयं योज्यम् । समयं च देशमिति पाठान्तरे समुच्चयेनैक एव योज्य: । क्रियाभ्युपायादिषु सत्सु, आदिशब्दात् पुरुषद्रव्य- संपरेचस प्रामुयान्मन्त्रफलम् । हे क्षणदाचरेन्द्र ! न पुनर्मांनी भवादृशः काले विपन्ने प्राप्नोति । स हि देशकालौ हापयति ॥ ९९५ - औष्ण्यं त्यजेन् मध्य-गतो ऽपि भानुः, शैत्यं निशायाम॑थवा हिमांशुः ॥ भ० का० २८ ३२६ भट्टि-काव्ये - तृतीचे प्रमश-काण्डे लक्षण-रूपे तृतीयो वर्गः, अनर्थमूलं भुवनाऽवमानी मन्ये न मानं पिशिताशि - नाथ ! ॥ ६४ ॥ औष्ण्य मित्यादि- हे पिशिताशिनाथ ! भानुर्मध्यगतोऽपि मध्याह्वेऽपि औरण्यमुष्णतां त्यजेत् । संभावने लिङ्ग । अथवा हिमांझुर्निशायामपि शैत्यं त्यजेत् । भुवनावमानी पुनर्भुवनमवमन्तुं शीलमस्येति । नास्ति मत्सम इति स भवादृशो मानं न त्यजेत् । अनर्थसूलं अनर्थस्य कारणम् । एवं मन्ये जानामि ॥ ९९६ - तथा ऽपि वक्तुं प्रसभं यतन्ते यन् मद्-विधाः सिद्धिर्मभीप्स॒वस् त्वाम् ॥ विलोम - चेष्टं विहिताऽवहासा: परैर हि तत् स्नेह - मयैस् तमोभिः ॥ ६५ ॥ तथापीत्यादि–तथापि एवमपि सति मद्विधाः सिद्धिं कार्यनिष्पत्तिमभी- प्सवः आप्तुमेपणशीलाः । यत्त्वां विलोमचेष्टं प्रतिकूलचेष्टितम् । प्रसभमाहत्य वक्तुं यतन्ते । परैः दृतजनैः शत्रुजनैवी विहितावहासा एवंविधा अप्युपदिश- न्तीति । वाशब्दः पादपूरणे । तत्स्नेहमयैः स्नेहस्वभावैस्तमोभिरज्ञानैः । स्नेहतम- सावृता ब्रुवन्तीत्यर्थः ॥ ९९७–क्रूराः क्रियाः, ग्राम्य-सुखेषु सङ्गः, पुण्यस्य यः संक्षय-हेतुरुक्तः ॥ निषेवितो ऽसौ भवता ऽतिमात्रं फलयं - वल्गु ध्रुवमैव राजन् ! ॥ ६६ ॥ क्रूरा इत्यादि - क्रूराः क्रिया: परहिंलादयः ग्राभ्यसुखेपु परदारोपभोगा- दिपु सङ्गः प्रसक्तिः, यः पुण्यस्यार्जितस्य संक्षयहेतुरुक्तः विद्यावृद्धेः । असौ भव- तातिमात्रं निषेवितः सन् हे राजन् ! इदानीं फलति फलं ददाति । अवल्गु असारम् । ध्रुवमविनाशम् ॥ तस्माद्विलोमचेष्टस्य भवतो हितोपदेशे मम न किंचित् प्रयोजनं, तावत्तु स्यात् स्वदर्थं मत्प्राणत्याग इति दर्शयन्नाह ९९८ - दत्तं न किं, के विषया न भुक्ताः, स्थितो ऽस्मि वा कं परिभूय नौच्चैः ॥ इत्थं कृता॒ऽर्थस्य मम ध्रुवं स्यान् मृत्युस् त्वदर्थे यदि, किं न लब्धम् ॥ ६७ ॥ दत्तमित्यादि – तव प्रसादादर्थिभ्यः किं न दत्तम्, के विषया न भुक्ताः, सर्व एवानुभूताः । कं वा परिभूय तिरस्कृत्य उचैर्महति पदे न स्थितोऽस्मि । तथा लक्ष्य-रूपे कथानके 'विभीषणानमनो' नान द्वादशः सर्गः – ३२७ इत्थमनेन प्रकारेण कृतार्थस्य लब्धजन्म फलस्य सम यदि त्वदर्थे मृत्युरवश्यं यात्, तदा किं न लब्धम् । सर्वमेव जन्मफलं लब्धमित्यर्थः ॥ तव पुनरद्यापि विभीषणोक्तं युक्तं, न ग्रहस्तमुखोकमिति दर्शयन्नाह ९९९ - किं दुर्नयैस् त्वथ्यु॑दितैर् मृषा॒ऽर्थैर् वीर्येण वक्ता ऽस्मि रणे समाविम् ॥' तस्मिन् प्रसुप्ते पुनरि॑ित्थर्मुक्त्वा विभीषणो ऽभाषत राक्षसेन्द्रम् ॥ ६८ ॥ किं दुर्नयै रित्यादि —त्वय्यपि स्थिते किं धौरधोऽस्तु' इत्यादिना यान्यु- देतान्ययुक्तानि अलीकार्थानि तैर्दुर्नयैः किम् । न किंचित् फलम् । कस्नादिति वेत् यस्मात्तेषां समाधिं प्रतीकारं संग्रामे राजसंवन्धिता वीर्येण वक्तास्मि वदि- हम् । रामवीर्यप्रतीकारावीत्यर्थः । इत्थमेवं तस्मिन् कुम्भकर्णे उक्त्वा पुनः भूयः प्रसुप्ते सति विभीषणो राक्षसेन्द्रमभाषत ॥ १००० - 'निमित्त शून्यैः स्थगिता रजोभिर् दिशो, मरुद्भिर् विकृतैर् विलोलैः ॥ स्वभाव-हीनैर् मृग-पक्षि-घोषैः ऋन्दन्ति भर्तारमिंवा ऽभिपन्नम् ॥ ६९ ॥ निमित्तशून्यैरित्यादि - रजोमिनिमित्तशून्यैः निनिमित्तैः दिशः स्थगिताः संछादिता: । 'स्थग संवरणे' । मरुद्भिश्च विकृतैः परुपैविलोलैर नियतदिग्वर्तिभिः स्थगिताः । मृगपक्षिणां च घोषैः स्वभावहीनै भ्रष्टेभर्तारमिवाभिपनं मृतं शोकात् ऋन्दन्ति ॥ १००१ - उत्पात - जं छिसौ विवस्वान् व्यादाय वऽऽकृति लोक-भीष्मम् ॥ अतुं जनान् धूसर - रश्मि-राशिः सिंहो यथा कीर्ण- सटो ऽभ्युदेति ॥ ७० ॥ उत्पातजमित्यादि — असौ विवस्वान् छिद्रम् उत्पातजं वकाक्कृति लोक- भीष्मं लोकस्य भयानकं व्यादाय प्रसार्य । व्यापूर्वस्य ददातेः क्त्वो ल्यपि रूपम् । जनानत्तुं भक्षयितुं धूसररश्मिराशिः सन् अभ्युदेति उद्गच्छति । यथा सिंहः कीर्णसटः विक्षिप्तकेसरकलापः मुखं व्यादायात्तुमुत्तिष्ठति तद्वदिति ॥ १००२ मार्ग गतो गोत्र-गुरुर् भृगूणा- म॑गस्तिना ऽध्यासित विन्ध्य-शृङ्गम् ॥ भट्टि-काव्ये तृतीचे प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः, संश्यते शऋ- पुरोहितो, ऽह्नि, दनां कम्पयन्त्यो निपतन्ति चौल्काः ॥ ७१ ॥ मार्गमित्यादि — अगस्तिना यदध्यासितं विन्ध्यङ्गं तन्मार्ग भृगूणां गोत्रगुरुः शुक्रो गतः दक्षिणमार्गचारी शुक्र इत्यर्थः । शकपुरोहितोऽपि वृहस्पतिः अह्नि दिवसे संदृश्यते । उल्काश्च क्ष्मां पृथिवीं कम्पयन्त्यः निपतन्ति ॥ १००३ - मांस हतानामिक राक्षसानामशंसवः क्रूर - गिरो रुवन्तः ॥ क्रव्याऽशिनो दीघ - कृशानु-वक्रा भ्राम्यन्त्य भीताः परितः पुरं नः ॥ ७२ ॥ मांसमित्यादि — राक्षसानां हतानामिव मांसमाशंसवः आशंसनशीलाः '३१४८। सनाशंसभिक्ष उः । ३।२।१६८ ।' मांसभुजः शृगालादयः ऋरगिरः परु पस्वनाः कृशानुचक्रा: ज्वलनसदशवदना: निर्भयाः परितो भ्रमन्ति ॥ ३२८ १००४ - पयो घोघ्नीर॑पि गा दुहन्ति मन्दं विवर्ण वि-रसं च गोपाः ॥ हव्येषु कीटोपजन: स- केशो न दीप्यते ऽग्निः सु-समिन्धनो ऽपि ॥७३॥ पय इत्यादि — गोपाः पयः क्षीरं विवर्णं दुर्वर्णं विरसं अस्वादुमदं अल्पं पयस्विनीरपि दुहन्ति । '५३९ । अकथितं च ॥१॥४॥५१॥ इति द्विकर्मकता । तथा शोभनेन्धनोऽप्यग्निर्न दीप्यते, हव्येषु हवनीयेपु वृतादिपु सत्सु । २८४२ अचो यत् ।३।१॥९७१' उपजननमुपजनः । भावे घञ्। '२५१२ । जानवध्योश्च ।७।३।३५॥' इति न वृद्धिः । कीटानामुपजनोऽस्येति कीटोपजनः । सहकेशैः सकेशः । दह्यमानकीटकेश इत्यर्थः ॥ १००५ - तस्मात् कुरु त्वं प्रतिकारम॑स्मिन् , स्नेहान् मया रावण ! भाष्यमाणः ॥ वदन्ति दुःखं ह्ये॑नुजीवि-वृत्ते स्थिताः पदस्थं परिणाम-पथ्यम् ॥ ७४ ॥ तस्मादित्यादि — यस्मादेवं विनाशसूचकानि निमित्तानि दृश्यन्ते, तस्मात् हे रावण ! स्नेहान्मया त्वं भाष्यमाणः अस्मिन् वस्तुनि प्रतीकारं सीताप्रत्यर्पणेनैव सन्धानं कुरु । '१०४४ उपसर्गस्य घञ्- । ६॥३॥२२।' इति बहुलं दीर्घः। कस्मादेवं भाष्यत इति चेत् । यस्मादनुजीविवृत्तेऽवस्थिताः यद्वचनं दुःखं तथा लक्ष्य-रूपे कथानके 'विभीषणागमतो' नाम द्वादशः सर्गः ३२९ दुःखहेतु तदा कटुकत्वात् । परिणाममथ्यम् आयत्या हितं तत्पदस्थं स्वामि- पढ़े स्थितं वदन्ति ॥ १००६ - विरुग्ण-संकीर्ण-विपन्न-भिन्नैः प्रक्षुण्ण-संहीण-शिताऽस्त्र वृक्णैः ॥ यावन् नराऽशैर् न रिपुः शवाऽशान् संतर्पयत्या॑नम् तावदस्मै.' ॥ ७५ ॥ , विरुग्णेत्यादि-यावद्विपुः नराशै: राक्षसैः शवागान् गृध्रशृगालादीन् । शवमश्नन्ति इति कर्मण्यण् । न संतर्पयति न मीणयनि नावदस्य रिपोः आनम चरणावित्यर्थात् । कीदृशैः । त्रिरुग्णैमिनाङ्गैः । १३०१९ । ओदितश्च १८/२/४५॥ इति निष्ठानत्वम्। संकी: इतस्ततो वितिः विपन्न भिन्नवारितः, प्रक्षुण्णैः । एभ्यो '३०१६ । रदाभ्याम् । ८।२।४२।' इति नत्वम् । संहीणल- ज्जितैः वयमेवमवस्थां नीता इति । शितेन तीक्ष्णेन अस्त्रेण वृक्णैः छिन्नैः । '२४१२ । ग्रहि-ज्या । ६।१।१६।' इत्यादिना सम्प्रसारणम् । संयोगादिलोपः । कुत्वं च । ओदित्वान्नत्वम् ॥ १००७ - भ्रू- भङ्गमाधाय विहाय धैर्य विभीषणं भीषण रूक्ष चक्षुः ॥ गिरं जगादा॒ग्र-पदामु॒दयः स्वं स्फावयन् शऋ-रिपुः प्रभावम् ॥ ७६ ॥ भ्रूभङ्गमित्यादि — शक्ररिपुर्दशाननः विभीषणवचनात् क्रुद्धः । भ्रूभङ्गं अकुटिमाधाय आबध्य धैर्यं विहाय त्यक्त्वा भीषणरूक्षचक्षुः भयानकपरुष- चक्षुः । उदग्रः उन्नामितदेहः स्वं प्रभावं विक्रमं स्फावयन् वर्धयन् । '२५९७ ॥ स्फायो वः ।७।३।४१।' इति णौ वत्वम् । विभीपणं जगाद गिरं वाचम् । उग्रपदां सुप्तिङन्तानां स्वरूपतोऽर्धतश्च परुषत्वात् ॥ १००८ - 'शिला तरिष्यत्युदके न पर्ण, ध्वान्तं रवेः स्यन्त्स्यति, वहिरिन्दोः ॥ जेता परो ऽहं युधि जेष्यमाणस् तुल्यानि मन्यस्व पुलस्त्य-नप्तः ! ॥ ७७ ॥ शिलेत्यादि — उदके शिला तरिष्यति न पुनः पर्णम् । रवेः सूर्यात् ध्वान्तमन्धकारं स्यन्त्स्यति त्रविष्यति । '८१४ । स्यन्दू प्रस्रवणे' इत्यस्मात् '२३४८। न वृद्भ्यश्चतुर्ग्यः ।७।२।१९। इती न भवति । '१२१॥ खरि च ।८।४।५५॥ इति चर्ध्वम् । तथा वहिरिन्दोः स्वन्त्स्यति । अहमप्येष पर उत्कृष्टः जेता युधि संग्रामे जेष्यमाण इत्येतानि चत्वारि हे पुलस्त्यनतः विभीषण ! तुल्यानि ३३० भट्टि-काव्ये - तृतीये मन काण्डे लक्षण-रूपे तृतीयो वर्गः, मन्यम्व अवगच्छ । छोटिरूपम् । यदि जेताप्यहं परेण जीये शिलातरणादी- ज्यपि भविष्यन्ति ॥ १००९-- अ- निर्वृतं भूतिषु गूढ-वैरं सत्कार-काले अपि कृता ऽभ्यसूयम् ॥ विभिन्न कर्माऽऽशय - वाक् कुले नो मा ज्ञाति- चेलं, भुवि कस्यचिद् भूत् ॥ ७८ ॥ m अनिर्वृतसित्यादि — भूतिषु ज्ञातिसंवन्धिनीषु अनिर्वृतमसुखिनम् । गृढ- वैरं काले हनिष्यामीति संभृतापकाराशयम् । सत्कारकालेऽपि पूजाकालेऽपि कृतामर्पम् विभिन्नाः कर्माशयवाचो यस्य तद्विभिन्न कर्माशयवाक् । आशयो. ऽन्यो वाक्कर्मणी चान्ये यस्येति । ईदृशं ज्ञातिचेलं गर्हितज्ञातिरस्माकं कुले मा भूत् । कस्यचिदन्यस्य वा मा भूत् । चेलशब्दो गर्हिते वर्तते ॥ १०१० - इच्छन्त्य भीक्ष्णं क्षयमा॑त्मनो ऽपि न ज्ञातय तुल्य-कुलस्य लक्ष्मीम् ॥ नमन्ति शत्रून्, न च वन्धु वृद्धिं संतप्यमानेर हृदयैः सहन्ते ॥ ७९ ॥ · इच्छन्तीत्यादि – ज्ञातयः आत्मनः सुष्टु क्षयं विनाशमिच्छन्ति, न पुनस्तु. ल्यकुलस्य एकहेनुगोत्रस्य लक्ष्मीं श्रियम् । तथा शत्रु कामं नमन्ति, न पुनर्बन्धुवृद्धिं बन्धुसन्ततिं सहन्ते । संतप्यमानैर्हृदयैः ईर्ष्यया दह्यमानैः ॥ किं मया कृतं येनैवमुच्यत इति चेदाह १०११ - त्वयाऽद्य लङ्काऽभिभवे ऽति हर्षाद् दुष्टो ऽति मात्रं विवृतो ऽन्तरात्मा ॥ , धिक् त्वां, मृपा ते मयि दुस्थ-बुद्धिर् ' वदन्निदं तस्य ददौ स पाष्णिम् ॥ ८० ॥ - त्वयेत्यादि – लङ्कापरिभवे लङ्कोपरोधे अतिहर्षात् हर्षेण दुष्टान्तरात्मा अतिमात्रं सुष्टु त्वयाद्य विवृतः प्रकाशितः । मयि दुस्थबुद्धिः अस्मद्विषये दुस्थो- sमियुक्तोऽयमिति बुद्धिः ते मृषा मिथ्या । अतस्त्वां धिगिति वदन् स दशाननः तस्य विभीपणस्य सिंहासनोपाश्रितबाहोः पाणि पादप्रहारं शिरसि ददौ ॥ १०१२ - ततः स कोपं क्षमया निगृह्णन्, धैर्येण मन्युं, विनयेन गर्वम् ॥ " मोहं धियौत्साह-वशाद॑शक्तिं, समं चतुर्भिः सचिवैरुदस्थात् ॥ ८१ ॥ तथा लक्ष्य-रूपे कथानके 'विभीषणागमनो' नाम द्वादशः सर्गः- ३३१ तत इत्यादि —— ततः पाणिग्रहारादनन्तरं स विभीषणः कोपं क्षमया क्षान्त्या निगृह्णन् अभिभवन्, तथा वैर्येण मन्युं शोकं, विनयेन गर्व, मोहं वैचियं धिया प्रज्ञ्या, उत्साहशादशक्किमसामर्थ्य निगृह्णन् अपमानेन कोपादीनां संभवात् । चतुर्भिः सचिवैरनात्यैः समं सार्धमुदस्थात् आसनादुत्थितः ॥ १०१३ - उवाच चैनं क्षणदा-चरेन्द्रं 'सुखं महाराज ! विना मया ऽऽस्स्व ॥ मूर्खाऽऽतुरः पथ्य - कटून॑नश्नन् उवाचेत्यादि यत् साऽsमयोऽसौ, भिषजां न दोषः ॥८२ ॥ — उत्थितश्चानन्तरं रावणसुवाच - हे महाराज ! मया विना सुखमास्स्व तिष्ट । अम्लद । तवात्र दोषो न समोपदेष्टुः । यत्मान्मूर्खातुरः मूर्खोय आतुरः पथ्यकन अभक्षयन्यसामयः रोगवान् असो निषजां वैद्यानां न दोषः, किंतु तस्यैव ॥ १०१४ करोति वैरं स्फुटर्मुच्यमानः, प्रतुष्यति श्रोत्र - सुखैर-पथ्यैः ॥ विवेक-शून्यः प्रभुरात्म-मानी, महान॑नर्थः सुहृदां बता ऽयम् ॥ ८३ ॥ करोतीत्यादि-प्रदर्विको निर्विवेकः । आत्ममानी मत्समोऽन्यो नास्तीति आत्मानं लाघमानः । आत्ममाने इनिः । स्फुटमुच्यमानो वैरं करोति स्नेहं करोति पथ्यमनेनोक्तमिति । श्रोत्रसुखैः तदर्थमनोहारिभिः अपथ्यैस्तुष्यति । तस्मादयं प्रभुः सुहृदामाश्रितानां महान् अनर्थः । अनर्थहेतुत्वात् । बतशब्दः खेदे ॥ १०१५ - क्रीडन् भुजङ्गेन गृहाऽनुपातं 3 कश्चिद् यथा जीवति संशय-स्थः ॥ संसेवमानो नृ-पतिं प्रमूढं तथैव यज् जीवति, सो ऽस्य लाभः ॥ ८४ ॥ क्रीडन्नित्यादि — यथा कश्चित् सर्पग्राही गृहानुपातं गृहं गृहमनुपत्य । '३३७८। विशि-पति- । ३।४।५६।' इत्यादिना णमुल । भुजङ्गेन सह क्रीडन् जीवति संशयस्थ: संदेहे वर्तमानः किमयं खादिष्यति न वेति । तथैव प्रमूढं मूर्खमघिपतिं संसेवमानो यज्जीवति सोऽस्य लाभः । आस्तामन्यो लाभ इति ॥ १०१६ - दत्तः स्व- दोषैर् भवता प्रहारः पादेन धर्म्यं पथि मे स्थितस्य ॥ स चिन्तनीयः सह मन्त्रि मुख्यैः कस्या ऽऽवयोर् लाघवर्मादधातु ॥ ८५ ॥ ३३२ भट्टि- काव्ये – तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयो वर्गः, दत्त इत्यादि – सदोषैरविचेकित्वादिभिर्भवता पादग्रहारः यो मम धर्में धर्मादनपेते मार्गे स्थितस्य दत्तः, म मन्त्रिमुख्यैरेतैः सह चिन्तनीयः । आवयोः र्भध्ये कस्य लाधवमादधातु करोत्विति । यावन्निरूप्यमाणस्तवैवेति भावः ॥ १०१७ - इति वचनमसौ रजनि चर-पतिं बहु-गुणम॑सकृत् प्रसभम॑भिधत् ॥ निरगमर्द - भयः पुरुष - रिपु -पुरान् नर-पति-चरणौ नवितुम॑रि-नुतौ ॥ ८६ ॥ इतीत्यादि — इत्येवं वचनं बहुगुणम् अर्थावगाढत्वात् असकृत् बहुत्वाद प्रसभम् आहत्य रजनिचरपतिमभिदधत् ब्रुवन् । '४२७॥ नाभ्यस्ताच्छतुः ७।१।७८ ।' इति नुम्प्रतिषेधः । रजनिचर इति '१००१ । ङयापोः संज्ञाच्छन्द सोर्बहुलम् ।६।३।६३।' संज्ञायां ह्रस्वत्वम् । पुरुपरिपुपुरालङ्कातः निरगमत निष्क्रान्तः । अभयः सन् नरपतिचरणौ रामस्य पादौ अरिभिरपि नुतो शुर त्वात् । '२३८१॥ श्रयुकः - [७/२।११।' इतीप्रतिषेधः । नवितुं प्रणामपूर्वकं स्तोतुम् । अनेकार्थत्वाद्धातूनां नन्तुमित्यर्थः ॥ १०१८ - अथ तर्मुपगतं विदित - सुचरितं पवन सुत गिरा गिरि-गुरु- हृदयः ॥ नृ-पतिरमदयन् मुदित-परिजनं स्व-पुर-पति- करैः सलिल - समुदयैः ॥ ८७ ॥ इति भट्टकाव्ये प्रसन्न काण्डे भाविकत्वप्रदर्शनस् तृतीयः ॥ काव्यस्य द्वादशः सर्गः ॥ अथेत्यादि — अथ अनन्तरं विभीपणमुपेतं सेतुबन्धचिन्ताकाले राममुप- गतवानिति द्रष्टव्यम् । अन्यथा वक्ष्यमाणप्रभातकथनं विरुध्येत । पवनसुत गिरा हनुमद्वचनेन सच्चरितोऽयमिति विदितं सुचरितं येन नृपतिः रामः गिरिगुरुहृदयः गिरिवत् गुरु अग्रकम्पं हृदयं यस्य । सलिलसमुद्यैः जलपूर्णघटे स्थितैः स्वपुरपतिकरैः । लङ्काधिपतिं कुर्वन्तीति हेतौ टः । अमदयत् हर्पितवान् । '८१५॥ मदी हर्षे' इत्यस्य हेतुमण्ण्यन्तस्य घटादित्वान्मित्वे इस्वत्वम् । मुदित परिजनं स्वामी लङ्काधिपत्येऽभिषिच्यत इति तस्य हृष्टा अनुजीवन इत्यर्थः ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये तृतीये प्रसन्न काण्डे लक्षण-रूपे तृतीयः परिच्छेदः ( वर्गः ), तथा लक्ष्य रूपे कथानके 'विभीषणाऽगमनो' नाम द्वादशः सर्गः ॥ तथा लक्ष्य-रूपे कथानके 'सेतुबन्धन' नाम त्रयोदशः सर्गः-- ३३३ त्रयोदशः सर्गःकाव्यं संस्कृतप्राकृतापभ्रंशभेदान्त्रिविधम् । तत्र शब्ददेशीयपदयोः प्राकृत भाषयोरपभ्रंशस्य च संस्कृतभाषायां समावेशासंभवात् शब्दसमाया: प्राकृतभाषायाः समावेशः । तमार्यागीत्या स्कन्धकलक्षणया दर्शयन्नाह ॥ विभीषणागमनात्माक् यद्वृत्तं रामस्य तड़ाह १०१९ - चारु- समीरण-रमणे हरिण-कलङ्क-किरणा॒ऽऽवली-स-विलासा ॥ आवद्ध-राम-मोहा वेला-मूले विभावरी परिहीणा ॥ १ ॥ — चार्वित्यादि — रामो रात्रौ निद्रावान् पल्लवशयनमध्यष्टादित्युक्तम् । तस्य नियमपूर्व सुप्तवतः प्रभातमभूदिति कथयति । वेलामूले पारसमीपे । प्रकृते पुंलिङ्ग नपुंसक्योराकारान्तस्य पदस्य सप्तम्या एकवचने मित्वमेत्वं वा रूपम् । चारुसमीरणरमणे रमयतीति रमणम् । ८२८९६ । नन्दि ।३।१।१३४ । इत्यादिना ल्युः । समीरणेन रमणम् । चारु च तत्समीरणरमणं चेति । तत्र विभावरी रात्रिः परिहीणा क्षीणा । हरिणकलङ्कस्य याः किरणावल्यः ताभिः सविलासा सविभ्रमा । अतश्चाबद्धो रामस्य मोहो मूर्च्छा ययेति । 'कृढिकारादक्किनः' इत्यनेन आवलिरावलीत्युभयमपि संस्कृतप्राकृतयोः प्रयुज्यते ॥ १०२० - बद्धो वासर-सङ्गे भीमो रामेण लवण-सलिलाssवासे ॥ सहसा संरम्भ- रसो दूराऽऽरूढ - रवि-मण्डल-समो लोले ॥ २ ॥ ■ बद्ध इत्यादि — नियमास्थितेऽपि मयि नासौ समुद्र उत्थित इति । वास- रसङ्गे प्रभातकाले रामेण लवणसलिलावासे समुद्रे इति विषयसप्तमी । सहसा तत्क्षणं संरम्भरसः क्रोधरसो वीराख्यः भीमो दुःप्रेक्ष्यः बद्धो जनितः । दूरारूढरविमण्डलसमो लोल इति । दूरमारूढो मध्याह्नस्थो यो रविः तस्य मण्डलं तेन समस्तुल्योऽतितीक्ष्णत्वात् । लोले चञ्चले समुद्रे प्रभातवातेन क्षोभ्य माणत्वात् ॥ १०२१ - गाढ - गुरु-पुङ्ख-पीडास- धूम-सलिलऽरि-संभव - महा-वाणे ॥ आरूढा संदेहं रामे स मही-धरा मही स-फणि-सभा ॥ ३ ॥ ३३४ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूले चतुर्थी वर्गः, तया गाढेत्यादि — गाढं सुठु गुरोः पुङ्खस्य या पीडा पीडनम् अङ्गुष्ठाभ्यां हेतुभूतया सधूमस लिलारे: अग्नेः संभवो यत्र स महाबाणो यस्य रामस्य तस्मिन् सति । महासंदेहमारूढा संशयं प्राप्ता समहीधरा मही सफणिसभा सह भुज- ङ्गसमूहेन । धारयन्तीति धराः । अन्न धकारस्य पदमुखे वर्तमानस्य हकारो न भवति । प्राकृते पदमध्यान्तयोर्विधीयमानत्वात् । महीधर इति समस्तपदेऽपि न प्रवर्तते । अत्र पूर्वपद्मुत्तरं पदमिति व्यपदेशात् । एवं च सति गोधर-वज्र- धर-चक्रधर-शङ्खधरादिपु न प्रवर्तते । महीधरो महीधर इत्युभयमपि प्राकृते प्रयुज्यते । अहमानां विकल्पेन ह्रस्वदर्शनात् ॥ १०२२ - घोर-जल-दन्ति-संकुल मेट्ट- महापङ्क - काहल - जाऽऽवासम् ॥ आरीणं लवण जलं समिद्ध-फल-बाण-विद्ध-घोर - फणिवरम् ॥४॥ घोरेत्यादि- रामेणाझेये शरे क्षिप्ते सति लवणजलमारीणं समन्तात शुष्कम् । ११३८। रीङ् स्रवणे इत्यस्मात् निष्ठातकारस्य 'स्वादय ओदितः' इति नत्वम् । १९७१ अटू कुपु - ।८।४।२।' इति णत्वम् । रीणमित्यप्रयोगः प्राकृते महाराष्ट्रे तस्याप्रयोगात् । घोरै: रौदैर्जलदन्तिभिः संकुलं व्याप्तम् । अट्टः शुष्को 'यो महापङ्कः तेन काहला विह्वला जलावासा मल्यादयो यत्र । '२६३ । अट्ट अति क्रम- हिंसनयोः' इत्यस्य रूपम् । समिद्धफलेन दीसफलेन बाणेन विद्धाः वोराः फणिवराः महासर्पा यत्रेति ॥ १०२३ - स भयं परिहरमाणो महाऽहि- संचार - भासुरं सलिल - गणम् ॥ आरूढो लवण जलो जल-तीरं हरि-वलाsऽगम-विलोल-गुहम् ॥५॥ सभयमित्यादि —— सलिलगणं सलिलसमूहं सभयम् । महाहीनां संचारणं भासुरं भासनशीलम् । तच्छिरोमणिद्योतितत्वात् परिहरमाणः परित्यजन् । कर्त्र- भिप्राये तङ् । लवणजल: समुद्रः । लवणं जलमस्येति । जलतीरं तटं यत्र राम- स्तिष्ठति तदारूढः संप्राप्तो मूर्तिमान् । हरिबलागमेन वानरसैन्यागमेन विलोला व्याकुला गुहा यत्रेति ॥ १०२४ - चञ्चल - तरु-हरिण-गणं बहु-कुसुमाऽऽबन्ध-बद्ध-रामाऽऽवासम् ॥ हरि-पल्लव- तरु-जालं तुरु- समिद्ध-तरु-वर - हिम-च्छायम् ॥ ६ ॥ तथा लक्ष्य-रूपे कथानके 'सेतुबन्धनं' त्रयोदशः सर्गःचञ्चलेत्यादि–चञ्चलश्चालः तरुहरजानां वानराणां गणो यत्र जलतीरे । बहुकुसुमानां वृक्षाणामाबन्धन परस्पर संश्लेषेण बद्धो घटितो रामावासो यत्र । हरिपलवानि तरुजालानि यत्र । तुङ्गा उरवः परिमण्डलाः समिद्धा उज्वला ये रास्तैर्हिमा शीतला छाया यत्र तजलतीरम् ॥ १०२५ वर-वारणं सलिल-भरेण गिरि- मही- मण्डल-संवर-वारणम् ॥ वसु-धारयं तुङ्ग-तरङ्ग-सङ्ग- परिहीण-लोल-वसुधा-रयम् ॥ ७ ॥ कुलकम् ॥ एतानि सप्त संकीर्णानि ॥ वरेत्यादि- -वरा उत्कृष्ट वारणा चन्द्र : सलिलभरेण सलिलसमूहेन यो गिरीणां महीमण्डलस्य च संवरः संवरणमावरणम् । ३२३४ । ग्रह-३१३१५८। इत्यादिनाप् । तस्य वारणं निषेधकम् । समुद्रस्य वेलातिक्रमात् । वसु द्रव्यं तस्य धारयं धारकम् । '२९००/ अनुपसर्गात्- ।३।१।१३८।' इति णिजन्ताच्छः । तुङ्गाः अभ्रंलिहा ये तरङ्गास्तैः सह यः सङ्गः संश्लेषः तस्मात् परिहीणो नष्टो लोलो वसु- धायां तत्संबन्धिन्यां रयो वेगो यत्र तज्जलतीरमारूढः । गणितक्रममेतत् । एतानि सप्त संकीर्णानि । संस्कृतप्राकृतयोरविशिष्टत्वात् ॥ १०२६ - प्रणिपत्य ततो वचनं जगाद हितमा॑यतो पतिर् वारीणाम् ॥ गङ्गाऽवलम्बि-बाहू " रामं बहोरु- हरि-तमाल-च्छायम् ॥ ८ ॥ प्रणिपत्येत्यादि — ततस्तीरप्राप्तेरनन्तरं वारीणां पतिः समुद्रः रामं प्रणिपत्य वचनं जगाद । हितमात्मनो रामस्य पथ्यमायतावागामिनि काले । गङ्गावलम्बी गङ्गावलम्बनशीलः संपूर्णत्वाद्वाहुर्यस्य स गङ्गावलम्बिबाहुः । संस्कृते '१७४॥ ठूलोपे पूर्वस्य दीर्घोऽणः ।६।३।११॥ प्राकृते तु पुंलिङ्गे उकारस्य दीर्घत्वम् । विभ- क्तिसकारस्य च लोपः । उरुर्महान् हरिः हरितो यस्तमाल: । बहुला घना तस्येव छाया यस्य तमिति । पूर्वार्धे निरवद्यमिति । पूर्वस्मिन्नर्धे प्राकृतस्याभावात् निर चद्यं पश्चादर्घे तु संकीर्णमेव ॥ पूर्वार्ध निरवद्यम् १०२७ - 'तुङ्गा गिरि-वर-देहा, अ-गमं सलिलं, समीरणो रस -हारी, ॥ अ-हिमो रवि- किरण-गणो, माया संसार - कारणं ते परमा. ॥ ९ ॥ . ३३६ भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे चतुर्थी वर्गः, तुङ्गा इत्यादि — गिरिवरदेहाः कुलपर्वतकायाः तुङ्गाः प्रांशवः, अगमं सलिलं अगम्यम् । '३२३४ । ग्रह – ।३।३।५८ । इत्यादिनाप् । समीरणो रसहारी अपामुच्छोषकः, अहिम उष्णः रचेः किरणगणः । एतत्सर्वं तव माया परमा महती संसारस्य कारणम् । सर्वथा त्वं विष्णुः त्वत्कृतेपु को रोप इति ॥ १०२८ - आयास संभवारुण ! संहर संहार - हिम-हर-सम-च्छायम् ॥ वाणं, वारि-समूहं " संगच्छ पुराण- चारु- देहाऽऽवासम् ॥ १० ॥ आयासेत्यादि – यस्मात्संसारकारणं यद्गर्ग्य सलिलं कृतं, तस्मात्त्वं हे आयाससंभवारुण रोषसंभवेन रक्तीभूत ! संहारे प्रलये हिमहरा आदित्यास्तैः समा छाया यस्य बाणस्य तं संहर उपशमय । वारिसमूहं संगच्छ अङ्गीकुरु । सकर्मकत्वात् '२६९९। समो गमि-।१।३।२९।' इत्यात्मनेपदं न भवति । पुराणः शाश्वतः दर्शनीयो यो देहः तत्य आवासमवस्थानम् ॥ १०२९ - अ-सुलभ - हरि-संचारं जल- मूलं बहल-पङ्क-रुद्धाऽऽयामम् ॥ भण किं जल-परिहीणं 1 सु-गमं तिमि -कम्बु- वारि- चारण-भीमम् ॥ ११ ॥ असुलभेत्यादि – अन्यञ्च यदेतज्जलमूलं जलस्यावस्थानं आग्नेयशरशोषि- तत्वाज्जलपरिहीणं सत्, तत् किं सुखेन गम्यत इति भण ब्रूहि । यतो बहलः सान्द्रो यः पङ्कस्तेन रुद्ध आयामो दैर्ध्य यत्र । तिमयो मत्स्याः कम्बवः शङ्खाः वारिवारणाः जलहस्तिनः तैर्भीमम् । एवं च सति असुलभो दुर्लभ: हरिसंचारो वानरपर्यटनं यत्रेति ॥ गमनोपायमाह १०३० - गन्तुं लङ्का-तीरं बद्ध - महासलिल - संचरेण स-हेलम् ॥ तरुहरिणा गिरि-जालं वहन्तु गिरि-भार- संसहा गुरु-देहम् ॥ १२ ॥ गन्तुमित्यादि—संचरन्त्यनेनेति संचरः । ३२९८ । गोचर-संचर ।३।३।११९ । ' इति टच् । बद्धो घटितो महासलिले यः संचरः तेन सेतुना सहेलम् । एकप्रवृत्त्या लङ्कातीरं लङ्कोपलक्षितं तटं गन्तुं तरुहरिणा वानरा गिरिभारस्य संसहाः क्षमाः । संसहन्ते इत्यच् । गिरिजालं गिरिसमूहं वहन्तु । गुरुर्देहः शरीरं यस्य गिरिजालस्य ॥ तथा लक्ष्य-रूपे कथानके 'सेतुबन्धनं' नाम त्रयोदशः सर्गः- ३३७ १०३१ - हर-हास-रुद्ध-विगमं पर कण्ठ-गणं महा॒ऽऽहव-समारम्भे ॥ छिन्दन्तु राम-वाणा गम्भीरे मे जले महा-गिरिव ॥ १३ ॥ हरेत्यादि - मे मम जले गम्भीरे अगाधे महागिरिभिर्बद्धे सति यो महा- वस्य समारम्भः प्रवर्तनं तस्मिन् परस्य शत्रोः कण्ठगणं ग्रीवासमूहं हरस्य दुष्टत्वात् यो हासः तेन रुदो विगमश्छेदो यस तं रामशराश्छिन्दन्तु । नाशिषि लोट् ॥ १०३२- गच्छन्तु चारु-हासा वीर-रसाऽऽवन्ध-रुद्ध-भय-संवन्धम् ॥ हन्तुं बहु-वाहु वलं . हरि-करिणो गिरि-वरो॒रु-देहं सहसा ॥ १४ ॥ एतानि षट् संकीर्णानि ॥ गच्छन्त्वित्यादि — बहवो वाहव एव वलं यस्य बाहूनां तरुणामिव बहु- वात् । तं रावण रसस्य शौर्यस्य य आबन्धः सन्ततम्रवर्तनं तेन रूद्धो निवा- रितो भवसंबन्धस्त्राससंपर्को यस्य तं गिरिवरोरुदेहं गिरिवन्महाकायं सहसा इन्तुं तत्क्षणं हनिष्याम इति हरिकरिणः कपिहस्तिनः चारुहासा: मम जले बद्धे सति गच्छन्तु ॥ एतानि षटू संकीर्णानि संस्कृत प्राकृतयोस्तुल्यत्वात् ॥ १०३३ - जिगमिषया संयुक्ता वभूव कपि- वाहिनी मते दाशरथेः ॥ वुद्ध जलाऽऽलय - चित्ता गिरि-हरणा॒ऽऽरम्भ-संभव - समालोला ॥१५॥ पूर्वाऽर्ध निरवद्यम् । जिगमिषयेत्यादि – दाशरथेर्मतेऽभिप्राये सति कपिवाहिनी कपिसेना जिगमिषया गन्तुमिच्छया संयुक्ता बभूव । बुद्धजलालयचित्ता विदितसमुद्रामि- प्राया गिरीणां यद्धरणमानयनं तस्य य आरम्भसंभवः तेन समालोला आकुला ॥ इत्येतदर्धं निरवद्यम् ॥ १०३४ - गुरु - गिरिं-वर-हरण-सहं संहार - हिमारि-पिङ्गलं राम-बलम् ॥ भ० का० २९ ३३८ भट्टि- काव्ये तृतीये प्रसन्न - काण्डे लक्षण-रूपे चतुर्थो वर्गः, आरूढं सहसा खं वरुणा॒ssलय - विमल-सलिल-गण-गम्भीरम् १६ गुर्वित्यादि- ततो रामवलं सहसा तत्क्षणं खमारूढम् । गुरूणां गिरिव• राणां यदाहरणमानयनं तत्सहत इति मूलविभुजादित्वात् कः । तस्य वा सहं शक्तम् । सहत इत्यच् । संहारे प्रलये यो हिमारिरग्निः तद्वत्पिङ्गलम् । वरुणालयस्य समुद्रस्य यो विमलसलिलगणः निर्मलजलसमूहः तद्वद्गम्भीरं खमिति ॥ कलापकं चतुर्भिः १७-२० १०३५ - अवगाढं गिरि-जालं तुङ्ग - महा-भित्ति-रुद्ध सुर- संचारम् ॥ अभयहरि रास - भीमं करि-परिमल - चारु-बहल - कन्दर-सलिलम्. १७ अवगाढमित्यादि – ग्वमारुह्य रामवलेन गिरिजालमवगाढं अवष्टब्धम् । तुङ्गाभिरुच्छ्रिताभिर्महतीभिः परिणाहवतीभिर्भित्तिभी रुद्धः सुराणां संचारो यस्मिन् तेपामुन्नतत्वात् । अभया ये हरयः सिंहास्तेषां रासेन शब्देन भीमं भयानकम् । करिणां यः परिमल: संमर्दस्तेन चारु शोभनम् । वहलं वर्न कन्दर सलिलं यस्मिन् ॥ १०३६ अलि-गण-विलोल-कुसुमं P स- कमल-जल-मत्त-कुरर-कारण्डव-गणम् ॥ फणि-संकुल-भीम-गुहं करि-दन्त- समूढ-स-रस-वसुधा - खण्डम् ॥ १८॥ अलिगणेत्यादि — अलिग गैविलोलानि कुसुमानि यत्र । सकमलेषु जलेषु मत्ताः कुरराणां कारण्डवानां च गणा यत्र । फणिभिः संकुला व्याप्ताः सत्यो भीमा गुहा यत्र । करिदन्तैः समुत्क्षिप्तं सरसं सान्द्रं वसुधायाः खण्डं यत्र ॥ १०३७- अरविन्द - रेणु-पिञ्जर- सारस - रव-हारि - विमल-बहु-चारु-जलम् ॥ रवि-मणि-संभव - हिम-हर- समागमाऽऽवद्ध बहुल-सुर-तरु- धूपम् ॥ १९ ॥ अरविन्देत्यादि — अरविन्दरेणुभिः पिञ्जराः पिङ्गला ये सारसास्तेषां रवेण हारि मनोहारि विमलं बहु चारु जलं यत्रेति । रविमणिसंभवः सूर्यकान्तमणिस- म्भवः यो हिमहरः अग्निः तेन यः समागमः संश्लेषस्तेनाबद्धो जनितो बहुल: सुरतरुधूपो यत्र ॥ तथा लक्ष्य-रूपे कथानके 'सेतुवन्धनं' नाम त्रयोदशः सर्गः- १०३८ - हरि-रव-विलोल-वारण- गम्भीराऽऽवद्ध-स-रस-पुरु-संरावम् घोणा-संगम-पङ्काss- ॥ विल-सुवल-भर-महोरु-वराहम् ॥ २० ॥ एतानि पञ्च संकीर्णानि ॥ हरिरवेत्यादि — हरीणां सिंहानां यो रवस्तेन विलोलास्त्रस्नवो ये वारणा- स्तैर्गम्भीरो मन्द्र आवडो जानतः सरसो भयानकरसयुक्तः पुरुर्महान् संरावो यत्र । घोणायाः संगमात् संपर्कात् संभवो यस्य पङ्कस्य । घोणासमुद्धृतो यः पङ्क इत्यर्थः । तेनाविला लिप्ताङ्गाः सुबलाः तत एव भरसहाः उरवश्च वराहा यत्र । तद्द्विरिजालमालमवगाढमिति ॥ एतानि पञ्च संकीर्णानि ॥ १०३९ - उच्चख्नुः परिरधान कपि-सङ्घा वाहुभिस् ततो भूमि-भृतः ॥ निष्पिष्ट शेष-मूर्भ: शृङ्ग - विकीर्णोष्ण - रश्मि - नक्षत्र - गणान् ॥२१॥ सर्वे निरवद्यम् ॥ उच्चस्नुरित्यादि — ततोऽवगाहादनन्तरं बाहुभिः परिरब्धान् समाविष्टान् भूमिभृतः पर्वतान् कपिसङ्घा उच्चख्नुः उत्खातवन्तः । '२३६३। गम-हन- ।६।४।१८।' इत्युपधालोपः । निप्पिष्टशेषमूर्ध्नः व्याप्तपातालमूलत्वात् चूर्णित- नागराजमस्तकान् । शृङ्गैः शिखरैर्विकीर्ण उष्णरश्मिरादित्यो नक्षत्रगणश्च यैर्दिव व्याप्य स्थितत्वात् ॥ सर्वं निरवद्यमिति अत्र प्राकृतस्याप्रयुक्तत्वात् ॥ विशेषकं त्रिभिः । २२-२४/१०४० - तुङ्ग महा-गिरि-सुभरा बाहु-समारुद्ध-भिदुर-टङ्का बहुधा ॥ लवण-जल-वन्ध-कामा आरूढा अम्बरं महा-परिणाहम् ॥ २२ ॥ तुङ्गेत्यादि —तुङ्गा उच्चा महान्तः परिणाहवन्तो ये गिरयस्तैः सुभरा जात- भराः कपयः बाहुभिः समारुद्धा भिदुराः विदारणशीला: टङ्का उन्नत प्रदेशा यैस्ते बहुधा अनेकप्रकारं लवणजलबन्धकामाः एवमेवं बद्धव्यमिति जातेच्छाः आरूढा अम्बरं महापरिणाहम् अप्रमेयदिग्विभागम् ॥ १०४१ - बहु - धवल वारि-वाहं विमलाssयस-महाऽसि देह-च्छायम् ॥ ३४० भट्टि- काव्ये - तृतीये प्रसन-काण्डे लक्षण-रूपे चतुर्थो वर्ग, वद्ध-विहङ्गम-मालं हिम- गिरिवि मत्त-कुरर-रव-संबद्धम् ॥ २३॥ चहित्यादि बहवो धवला वारिवाहा यत्राम्बरे ! विमलायसः अयसो विकारः गुरुरलघुर्महान् योऽसिः खड्गः तस्य यो देहः तस्य छायेव छाया यस्य । बद्धा विरचिता विहङ्गानां माला पकिर्यत्र । मत्तानां कुरराणां रवेण संबद्ध युक्तम् । अतो हिमगिरिमिवाम्बरमारूढा इति ॥ १०४२ - चारु- कलहंस-संकुलमं-चण्ड - संचार - सारसाऽऽवद्ध - रवम् ॥ स- कुसुम- कण-गन्ध-वहं समयाऽऽगम - वारि-सङ्ग - विमलाऽऽयामम्. २४ चारुकलहंसेत्यादि - चारुभिः कलहंसैः संकुलं व्याप्तम् । अचण्डसंचारैः शनैः संचरद्भिः सारसैरावद्धो वो यस्मिन् । सकुसुमकणः सपुष्परेणुर्गन्ध वहो वायुर्यत्रेति । वहतीति बहः कर्तर्यच् । गन्धस्य वह इति सः । समयस्य प्रावृद्ट्रकालस्य य आगमः तेन यो वारिसङ्गः तेन प्रक्षालितत्वात् विमला आयामा यत्र तदम्बरमारूढा इति ॥ १०४३ - सहसा ते तरु- हरिणा गिरि- सुभरा लवण - सलिल-वन्धाऽऽरम्भे ॥ तीर - गिरिमारूढा रामाऽऽगम-रुद्ध-स-भय-रिपु - संचारम् ॥२५॥ एतानि चत्वारि संकीर्णानि ॥ सहसेत्यादि — ते तरुहरिणा: शाखामृगाः गिरिभिः सुभराः सन्तः लवण- सलिलबन्धारम्भे समुद्रबन्धनारम्भे सहसा तत्क्षणं तीरगिरिं तटस्थतं पर्वत- मारूढाः । अत्र संस्कृतपक्षे संहिताया अविवक्षितत्वात् तीरगिरिमारूढा इति नोक्तम् । अन्ये आरूढा तीरगिरिमिति विपर्ययमस्य पठन्ति । यदयुक्तम् । संस्कृतपक्षे अस्भावाद्यत्वं नास्ति । अतो विसर्जनीयस्य सकार एव स्यात् । रामस्य य आगमस्तेन रुद्धः सभयानां रिपूणां शत्रूणां संचारो यत्र तीरगिरौ । राम आगत इति तत्र भयात् संचारं त्यक्तवन्त इति ॥ एतानि चटवारि संकीर्णानि ॥ १०४४ -- ततः प्रणीताः कपि- यूथ - मुख्यैर् न्यस्ताः कृशानोस् तनयेन सम्यक् ॥ अ-कम्प बनाऽग्र - नितम्ब भागा " महाऽर्णवं भूमि-भृतो ऽवगाढ़ाः ॥ २६ ॥ निराख्यातं निरवद्यं च ॥ तथा लक्ष्य-रूपे कथानके 'सेतुवन्धनं' नाम त्रयोदशः सर्गः- ३४१ तत इत्यादि ——ततोऽनन्तरं भूमिभृतः पर्वताः कपियूथमुख्यैर्नीलादिभिः कृशानोस्तनयस्य नलस्य प्रणीताः अर्पिताः सन्तस्तेनैव कृशानुतनयेन सम्यक् साधु न्यस्ताः सन्तः महार्णवम् अवगाढाः अवष्टब्धवन्तः अकम्प्राः स्थिराः ब्राग्रनितम्बानां भागा येषां ते । ब्रनो मूलम् । 'इण्विजजिदीक्षेउप्य विभ्यो नक्' इत्यधिकृत्य 'बन्धेर्ब्रधिवुधी च' इत्यौणादिको नकू ॥ इदं निराख्यातं तिङन्तपढाभावात् । निरवद्यं च प्राकृताभावात् ॥ १०४५ - तेने ऽद्रि बन्धो, ववृधे पयोधिस्, तुतोष रामो, मुमुदे कपीन्द्रः ॥ , तत्रास शत्रुर्, ददृशे सुवेला, प्रापे जलान्तो, जहएः वङ्गाः ॥ २७ ॥ A एकान्तराख्यातं निरवद्यम् ॥ तेन इत्यादि – अनिबन्धस्तेने शनैर्विस्तारं गतः अत । एव ववृधे पयोधि- वृद्धिं गतः । गिरिभिः पूर्यमाणोदरत्वात् तीरं लावयति स्म । तुतोष रामस्तु- टवान् । सुकरमिदान शत्रुव्यापादन मिति । मुमुदे कपीन्द्रः हृष्टवान् । प्राप्तो से प्रत्युपकारकाल इति । तत्रास शत्रुः त्रासमुपगतः सेतुं बद्धवानिदानीमा- यातो राम इति । दहशे सुवेल: ढौकमानैः सर्वैर्दृष्टः । जलान्तश्च प्राये प्राप्तः । ततो जहूपुः हृष्टाः प्लवङ्गाः स्वाम्यादेश: संपादित इति । एतदेकान्तराख्यातं सुबन्तपदैर्व्यवधानात् । निरवद्यं च प्राकृताभावात् ॥ १०४६ - मुर्, ववल्गुर, ननृतुर्, जजक्षुर, जगुः समुत्पुप्ठुविरे, निषेदुः ॥ आस्फोटयांचक्रुर॑भिप्रणेदूं, रेजुर्, ननन्दुर्, विययुः, समीयुः ॥ २८ ॥ आख्यात-माला ॥ ★ मुरित्यादि – ते पारं प्राप्य केचित् प्रदेशदर्शनोत्सुकाः नेमुः भ्रान्ताः । अन्ये ववल्गुः तोषं गतवन्तः । 'उख उखि -' इत्यत्र वल्गतिर्गतौ पठ्यते । केचिदतिहर्षात् ननृतुः । अन्ये रावणपराक्रमान् न्यक्कुर्वन्तो जजक्षुः हसितवन्तः । बुभुक्षया वा फलानि भक्षितवन्तः । 'जक्ष भक्ष-हसनयोः ।' केचित् जगुः गायन्ति स्म । केचित्समुत्पुलविरे उद्योय गच्छन्ति स्म । केचित् भ्रान्ता निषेदुः निषण्णाः । केचिदास्फोटयांचक्रुर्वयं युध्याम इति आस्फोटं कुर्वन्तीति ण्यन्ताल्लिट्याम् । केचित्तोषादभिप्रणेदुः सुषु नादितवन्तः । केचिद्वेजुः दीप्तवन्तः । केचिन्ननन्दुर्वयमीदृशं कर्म कृतवन्त इति । अन्ये विययुरितस्ततो गच्छन्ति स्म । केचित्समीयुः एकत्र संगताः ॥ आख्यातमालेति तिङन्तमाला ॥ ३४२ मट्टिकाव्ये – तृतीयेऽप्रसन्न काण्डे लक्षण-रूपे चतुर्थी वर्गः, १०४७ - गिरि- पङ्क- चारु-देहं कक्कोल-लवङ्ग-बद्ध-सुरभि परिमलम् ॥ बहु-बहलोरु-तरङ्गं परिसरमा॑ारूढर्मुद्धरं लवण-जलम् ॥ २९ ॥ गिरीत्यादि - गिरीणां प्रक्षिप्यमाणानां यः पकः गैरिकादिधातुकर्दमः तेन चारुदेहम् । कक्कोललवङ्गाभ्यां बद्धः सुरभिः परिमलो गन्धो यस्मिन् । वहवः प्रभूता बहलाः स्थूला उरवः उच्चास्तरङ्गा यस्य तदीदृशं लवणजलम् । उदरम् उद्धृतं कर्तृभूतम् । परिसरं तटमारूटं सेतुना निवारितगतित्वात् ॥ १०४८ - लोलं कुलाऽभिगमे से तुङ्गाऽमल - निबद्ध पुरु-परिणाहम् ॥ सुर- गङ्गा भरण-सहं गिरि- बन्ध-वरेण लवण-सलिलं रुद्धम् ॥ ३० ॥ लोलमित्यादि – कुलाभिगमने तटगमने लोलं चञ्चलम् । खे आकाशे तुङ्गं च तदमलं चेति तुङ्गामलम् । निवद्धः संयुक्तः पुरुर्महान् परिणाहो यस्य । तुङ्गामलं च तन्निरुद्धपुरुपरिणाहं चेति । वियति आरोहपरिणाहाभ्यां युक्तमि- त्यर्थः । सुरगङ्गायाः मन्दाकिन्याः यद्भरणं पूरणं तत्र सहं शक्तं तादृशं लवण- जल गिरिबन्धवरेण सेतुना रुद्धम् ॥ w कुलकम् - १३१-४३११०४९ - आरूढं च सुवेलं तरु - मालाऽऽवन्ध- हारि- गिरि-वर-जालम् ॥ रावण- चित्त-भयङ्कर- मपिङ्गल - लोल - केसरं राम-बलम् ॥ ३१ ॥ आरूढमित्यादि – रामवलं तटे स्थित्वा आरूढं च सुवेलं पर्वतम् । धका- रस्य प्राकृते स्वरशेषता न भवति । पदमध्यान्तयोरवर्तमानत्वात् । तरुमालाया य आबन्धः तेन हारि मनस्तुष्टिकरं तादृशं गिरिवराणां पर्यन्तगिरीणां जालं यस्य सुवेलस्य । रावणचित्तस्य भयङ्करं रामबलम् । आपिङ्गलानि लोलानि केसराणि यस्य तदिति ॥ १०५०-लङ्काऽऽलय-तुमुलाऽऽरवसुभर- गभीरोरु - कुञ्ज - कन्दर - विवरम् ॥ वीणा-रव-रस-सङ्गमसुर-गण-संकुल- महा-तमाल-च्छायम् ॥ ३२ ॥ तथा लक्ष्य-रूपे कथानके 'सेतुबन्धन' नाम त्रयोदशः सर्गः- ३४३ लङ्कत्यादि – लङ्काल्यानां राक्षसानां यस्तुमुलो महानारवः तेन सुभराः परिः गतीरोरुकुआ गम्भीरतहागहनानि कन्दरविचराणि च यत्र सुवेले । वीगारवे यो रसस्तृष्णा तेन सङ्गमः सनागमो येषां सुरगणानां ते च सुरग- पश्चेिति सः । तैः संकुला व्याप्ता महातमालच्छाया यत्रेति ॥ २०५१ - स रस बहु-पलवाssविल- केसर - हिन्ताल-वद्ध-वहल-च्छायम् ॥ ऐरावण-मद-परिमल- गन्धवहाऽऽवद्ध-दन्ति-संरम्भ-रसम् ॥ ३३॥ सरसेत्यादि- ई-सरसा: सार्द्राः ये वहवः पल्लवाः तैराविला अन्धकारिता ये केसरवृक्षाः हिन्तालवृक्षाश्च तैर्बद्धा पहला बना छाया यन्त्र सुवेले । ऐराव- गस्य ऐरावतस्य हस्तिनो महपरिसलो यत्मिन् गन्धवहे तादृशेन गन्धवहेन वो दन्तिनां हस्तिनां संरम्भरसः क्रोधरसो यन्त्रेति । ऐरावण ऐरावत इत्यु - भयमपि ग्राकृते साधु ॥ १०५२-तुङ्ग - तरु-च्छाया- रुह- कोमल-हरि-हारि-लोल-पल्लव-जालम् ॥ हरिण भयंकर-स- कुसुन- दाव-सम-च्छवि - विलोल - दाडिम-कुञ्जम् ॥ ३४ ॥ तुङ्गेत्यादि — तुङ्गतरूणां या छाया तस्यां रोहन्तीति इगुपधलक्षणः कः । तुङ्गतरुच्छायारुहाः विटपाः तेषां कोमलं हरि हरितं हारि तुष्टिकरं लोलं पल्लव- जालं यत्र । हरिणानां भयंकरा दावसहशत्वात् सकुसुमदावसमच्छवयः दावा- नितुल्या: लोलदाडिमकुञ्जा यत्र ॥ १०५३ - कल - हरि कण्ठ-विरावं सलिल - महा-वन्ध-संकुल- महा-सालम् ॥ चल-किसलय-संबद्धं मणि-जालं सलिल - कण-मयं विवहन्तम् ॥ ३५॥ कलेत्यादि –कलो मनोहरः हरीणां कण्ठविरावो यत्र । सलिलस्य यो महाबन्धस्तेन संकुला महान्तः सालाः सालवृक्षा यत्र । चलकिसलयेषु संबद्ध संलग्नं सलिलकणमयं सलिलकणरूपं मणिजालं मणिसमूहमिव विवहन्तं धारयन्तम् ॥ १०५४ - तुङ्ग-मणि- किरण-जालं गिरि- जल-संघट्ट-वद्ध-गम्भीर रवम् ॥ ३४४ भट्टि काव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे चतुर्थी वर्गः, चारु-गुहा - विवर- सभं सुर-पुर- समर्मसर - चारण-सुसंवम् ॥ २६ ॥ तुजेत्यादि - तुझमणीनां किरणजाएं यत्रेति । गिरिजलानि निर्झरजलानि तेषां यः संघट्टः परस्परसंश्लेषस्तेन बद्धो गम्भीरो रखो यत्र । चारुगुहाविवरमेव सभा शाला यत्र । अमरचारणानां गन्धर्वाणां गायतां शोभन: संरावो यन्त्र । अत एवामरपुरसमम् ॥ १०५५ - विमल - महा-मणि- टङ्क सिन्दूर- कलङ्क-पिञ्जर-महा-भित्तिम् ॥ वीर - हरि-दन्ति-सङ्गम- भय-रुद्ध - विभावरी विहार- समीहम् ॥ ३७ ॥ विमलेत्यादि – विनलमहामणीनां पद्मरागादीनां टङ्काः छेदा यन्त्र । अतश्च सिन्दूरकलेन लाञ्छनेन पिञ्जरा इव महाभित्तयो यस्य । वीराणां हरीणां दन्तिनां च यः सङ्गमोऽन्योन्यगमनं तस्माद्यन्द्रयं तेन रुद्वा निवारिता विभा. वर्यां विहारसमीहा विहरणेच्छा यत्र ॥ १०५६ - स महा- फणि-भीम विलं भूरि-विहङ्गम-तुमुतो॒रु - घोर विरावम् ॥ वारण- वराह-हरि-वर गो-गण- सारङ्ग-संकुल-महा-सालम् ॥ ३८ ॥ समेत्यादि – समहाफणीन्यत एव भीमान बिलानि विवराणि यत्र भूरीणां विहङ्गमानां तुमुलोऽनेकप्रकार उरुर्महान् घोरो रौगो विरावो यत्र वारणादिभिः स्कन्धकर्षणार्थिभिः सङ्कला महासाला यत्र ॥ १०५७ - चल किसलय-स- विलासं M चारु-मही-कमल-रेणु - पिञ्जर-वसुधम् ॥ स- कुसुम - केसर-बाणं लवड - तरु- तरुण वल्लरी-वर-हासम् ॥ ३९ ॥ चलेत्यादि – चलैः किसलयैः हस्तैरिव सविलासं प्रारब्धनृत्यम् । चारूंणां महीकमलानां स्थलजानां रेणुभिः पिञ्जरा वसुधा यत्र । सकुसुमाः केसराः बाणाच यत्र । लवङ्गतरोस्तरुणा या वल्लर्यः प्ररोहास्ता एव वरो हासो विकासाख्यो यत्र ॥ १०५८ - अ - मल-मणि-हेम-टङ्क तुझं-महा- भित्ति-रुद्ध- रुरु-पङ्क-गमम् ॥ तथा लक्ष्य-रूपे कथानके 'सेतुवन्धन' नाम त्रयोदशः सर्गः- ३४५ अमराऽऽरुढ - परिसर मेरुमिवा ssविल स-रस- मन्दार-तरुम् ॥४०॥ अमलेत्यादि–अमलमणीनां हेमादीनां टङ्काइछेदा यत्र । तुङ्गा उच्चा महती विस्तारवती या भित्तिस्तया रुडो रुरूणां मृगाणां पङ्कगमः पङ्केन गमनं यत्र । गमैः '३२३४॥ ग्रह । ३।३।५८।' इत्यादिना अप् । वङ्कगमं इति पाठा- न्तरम् । तत्र वङ्कः कुटिलो गमो यन्त्र । 'वकि कौटिल्ये' इत्यस्य रूपम् । अमरैरारूढाः परिसरास्तटा यत्र । अविरलाः सरसा मन्दारतरवो देववृक्षा यत्र । तमित्थं मेरुमिव ॥ १०५९ - फल-भर-मन्थर-तरु-वर- म-विदूर - विरूढ - हारि- कुसुमाऽऽपीडम् ॥ हरिण - कलङ्क-मणि-संभव- बहु-वारि-भर-सुगम्भीर-गुहम् ॥ ४१ ॥ फलेत्यादि - फलभरेण मन्थरा ईषन्नतास्तरुवरा यन्त्र । अविदूरे विरूढा हारिणः कुसुमापीडा यत्र । पुष्पस्तत्रकानां हस्तग्राह्यत्वात् हरिणकलङ्कमणिः महाचन्द्रकान्तः तस्मात् संभवो यस्य बहुवारिणः तेन सुभराः परिपूर्णा गम्भीरा गुहा यस्य । अत्र मणिमहत्तया वारिमहत्त्वात् गम्भीरगुहापूरणमिति ॥ १०६० - जल-काम-दन्ति-संकुलस- हेम-रस- चारु- धवल - कन्दर - देहम् ॥ अङ्कुर-रोह-सम-च्छविरुरु गण - संलीढ- तरल-हरि-मणि-किरणम् ४२ जलेत्यादि – जलमेतदित्येवं कामैर्दन्तिभिः संकुलाः सहेमरसाः सह हेम- रसेन वर्तमानाः चारवः शोभनाः धवला: कन्दरदेहा: कन्दरसन्निवेशा यत्र । रोहणं रोहः अङ्कुरागोहो यस्य शस्यस्य तेन समच्छवयस्तुल्यवर्णा रुरुगणास्तैः संलीढाः तरलाश्चञ्चलाः हरिमणिकिरणा मरकतमयूखा यन्त्र ॥ १०६१ - गाढ - समीरण-सुसहं भीम रवोत्तुङ्ग - वारि-घर-संघट्टम् ॥ धवल - जल-वाह-माला- सं॑बन्धऽऽबद्ध - हिम-धरा-धर-लीलम् ॥४३॥ गाढेत्यादि — गाढो महान् यः समीरणः तं सुसहत इति मूलविभुजादित्वात्कः । भीमरवास्तुङ्गा ये वारिधरास्तेषां संघट्टो यत्र । धवला ये जल३४६ भट्टि- काव्ये तृतीये - प्रसन्न काण्डे लक्षण रूपे चतुर्थो वर्गः, वाहास्तेषां मालाया (यत्संबद्ध ) यः संवन्धः संबन्धनम् । भावे क्तः । तेन करण- भूतेन आबद्धा अनुकृता हिमधराधरस्य हिमवतो धराधरस्य लीला विमो येन र्त सुवेलं आरूढम् ॥ रामबलं कीदृशमित्याह१०६२ - लवण जल-वन्ध-स-रसं तरु- फल-संपत्ति-रुद्ध - देहाऽऽयासम् ॥ लङ्का-तोरण-वारण- मारूढं समर- लालसं-राम-वलम् ॥ ४४ ॥ लवणेत्यादि - लवणजलवन्धाद्धेतोः सरसं सहर्पम् । तरुफलसंपत्त्या रुद्रो. अपनीतः देहायासः पीडा यस्य । लङ्कातोरणस्य वारणं निषेधकम् । आलोलं चञ्चलं समरलालसं रणसतृष्णं रामवलं तं सुवेलमारूढमिति पूर्वेण योज्यम् । तस्मिन्नारूढे परबलं सन्नद्धमित्थं प्रवृत्तमित्यर्थः । इत्थं कथं तदाह गुरुपण. चेत्यादिना विशेषकं त्रिभिः ।४५-४७/१०६३ - गुरु-पणव- वेणु-गुञ्जाभेरी-पेलोरु झल्लरी- भीम रवम् ॥ ढक्का-घण्टा-तुमुलं सन्नद्धं पर-वलं रणा॒ऽऽयास सहम् ॥ ४५ ॥ गुर्वित्यादि गुरुपणवादीनां भीमो रखो यस्मिन् परवले तत्र । गुरुपणवो महान् पणवः । पेला वाद्यविशेषः । उरुझल्लरी महती झल्लरी । ढक्काघण्टयोस्तुमुल: संमूर्च्छितः शब्दो यत्रेति । रणायाससहं रणक्लेशसहम् ॥ १०६४ - आरूढ - वाण-घोरं वि-माऽऽयस - जाल- गूढ-पीवर-देहम् ॥ चञ्चल-तुरङ्ग-वारण आरूढेत्यादि संघट्टदा॒ऽऽबद्ध-चारु-परिणाह-गुणम् ॥ ४६ ॥ — धनुषि आरूढबाणत्वात् घोरं परबलम् । विमलेनाय- सजालेन वर्मणा गूढश्छन्नः पीवरः स्थूलो देहो यस्य । चञ्चलानां तुरङ्गाणां वारणानां च यः परस्परसंघट्टः श्लेषणं तेनाबद्धश्वारुः परिणाहगुणः विस्तार एव गुणो यस्य तत्परबलं संनद्धम् ॥ १०६५ - असि-तोमर कुन्त-महापट्टिश - भल-वर-वाण-गुरु-पुरु-मुसलम् ॥ तथा लक्ष्य-रूपे कथानके 'सेतुवन्धनं' नाम त्रयोदशः सर्गः- ३४७ वीर रसाsलङ्कारं गुरु- संचार - हय - दन्ति-स-मही-कम्पम् ॥ ४७ ॥ असीत्यादि — अस्यादीनां वरबाणपर्यन्तानां न्ः । तैरस्यादिभिः गुरु अनभिनवनीयं पुरु महन्मुसलं यन्त्र । अस्यादिगुरु च तत् पुरु मुसलं चेति सः । वीररस एवालङ्कारो यस्य । पुरुः संचारो येषां हयदन्तिनां महाकायत्वात् तैः समहीकम्पं सह महीकम्पेन वर्तमानं परबलं संनद्धम् ॥ १०६६ - ते रामेण स रभसं परितरला हरि-गणा रण-समारम्भे ॥ रुद्धा लङ्का-परिसर- भू-धर- परिभङ्ग - लालसा धीर खम् ॥ ४८ ॥ ते इत्यादि — ते हरिगणाः कपिगणा: रणसमारम्भे रणप्रवर्तननिमित्त सर- भसं संभ्रमपूर्वकं परितरलाः स्थातुमशक्नुवन्तः लङ्कापरिसरे लङ्कासमीपे ये भूधराः तरवः तेषां परिभङ्गे चूर्णने लालसाः सतृष्णाः सन्तो रामेण भाङ्गुरिति । धीररवं धीरो रखो यस्यां प्रतिषेधनक्रियायामिति ॥ रुद्धाः प्रतिषिद्धाः मा युग्मकम् १०६७-जल- तीर-तुङ्ग-तरु-वरकन्दर - गिरि-भित्ति-कुञ्ज - विवराऽऽवासम् ॥ भीमं तरु - हरिण-बलं सु-समिद्ध-हिमारि-किरण-माला-लोलम्. ४९ जलेत्यादि – तरुहरिणवलं कपिबलं निषिद्धं सत् भीमं भयानकं जलती- राघैरावासो यस्य तत् सुसमिद्धस्य हिमारेरझेरादित्यस्य वा या किरणमाला तल्लोलं समारूढमिति वक्ष्यमाणेन संबन्धः ॥ १०६८ - रावण-बलमेवगन्तुं जल-भर-गुरु-सलिल-वाह-गण-सम-च्छायम् ॥ अट्ट - तरु मञ्च - मन्दिर- तोरण-माला- सभासु समारूढम् ॥ ५० ॥ " इति भट्टि-काव्ये प्रसन्न काण्डे भाषा-समावेशो नाम चतुर्थः, काव्यस्य त्रयोदशः सर्गः । रावणेत्यादि — रावणबलं अवगन्तुं कीदृशमिति जलभरेण गुरुयैः सलिलवाह३४८ भट्टि-काव्ये – चतुर्थे नित-काण्डे लक्षण-रूपे चतुर्थी वर्गः, गणो जलघरसमूहः तेन समच्छायं तुल्यच्छायं रावणबलं अढादिषु समारूढम् ॥ एतानि द्वाविंशतिः संकीर्णानि । इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये - तृतीये प्रसन्न काण्डे लक्षण-रूपे चतुर्थः परिच्छेदः ( वर्गः ), तथा लक्ष्य - रूपे कथानके 'सेतुवन्धनं' नाम त्रयोदशः सर्गः ॥ १३ ॥ चतुर्दशः सर्गःसुप्तिव्युत्पत्तौ यत्सौष्ठवं तदपि काव्यस्याङ्गमुक्तम् । अतः प्रसन्नकाण्डानन्तरं तिङ्काण्डं शब्दलक्षणप्रयोगार्थं कथ्यते । तत्र लस्य स्थाने तिवादयः । लकाराश्च नव लेटश्छन्दोविषयत्वादिति । अत्र नवविलसितानि । विलसितं च नानारूपता । तत्र भूतार्थवतो लिटोऽधिकृत्य तद्विलसितमाह १०६९ - ततो दशऽऽस्यः स्मर-विह्वलाऽऽत्मा चार - प्रकाशीकृत - शत्रु-शक्तिः ॥ विमोह्य माया - मय राम-मूर्ध्ना सीताम॑नीकं प्रजिघाय योद्धम् ॥ १ ॥ तत इत्यादि — ततः स्वपरबलयो रणादुत्तरकालं दुशास्यः स्मरविह्वलामा कामवशीकृतदेहः । भर्तरि निराशा सती सीता ममानुकूला भविष्यतीति माया- मयेन मायास्वभावेन राममूर्ध्ना छिन्नेन सीतां विमोय मोहयित्वा चारैः प्राण- घिभिः प्रकाशीकृता शत्रुशक्तिः वैरिसामर्थ्यं यस्मै योद्धुमनीकं सैन्यं प्रजिघाय ग्रहितवान् । ८२५३३॥ हेरचडि ।७।३।५६।' इति कुत्वम् । भूतानद्यतन- परोक्षे सर्वत्र लिट् ॥ १०७० - कम्वूनथ समादध्मुः, कोणैर् भेर्यो निजघ्निरे, ॥ वेणून पुपूरिरे, गुञ्जा जुगुञ्जुः कर घट्टिताः ॥ २ ॥ कम्वूनित्यादि — अथ सैन्यप्रेषणानन्तरं कम्वून् समादध्मुः शब्दितवन्तः शाङ्खिकाः । कोणैर्वाद्यवादनैः काष्टमयैः भेर्यो निजनिरे ताडिताः कर्मणि लिट् । वेणून वंशान् पुपूरिरे मुखमरुता पूरितवन्तः । १२२६ । पूरी आप्यायने' इति दैवादिकोऽनुदात्तेत् । गुञ्जा: समरवादनाः करघट्टिताः अङ्गुलिघृष्टाः जुगुञ्जुः शब्दितवत्यः । '२१२ । गुजि अव्यक्ते शब्दे ॥ १०७१ - वादयांचक्रिरे ढक्काः, पणवा दध्वनुर् हताः ॥ काहला: पूरयांचक्रुः, पूर्णाः पेराश च सस्वनुः ॥३॥ वादयामित्यादि — ढक्का वादयांचक्रिरे वादितवन्तः । ढक्कावादका इत्यर्थः । संयन्तात् आमि २३११। अयमन्त-।६।४।११।' इत्ययादेशः १२२४० । C तथा लक्ष्य-रूपे कथानके 'शर-वन्धो' नाम चतुर्दशः सर्गः- ३४९ आम्प्रत्ययवत् -।१।३।६३ ।' इति कृञोऽनुप्रयोगस्यात्मनेपढ़े । १२५६४१ णिचश्च ११।३।७४।' इति आम्प्रत्ययादात्मनेपदस्य विहितत्वात् । पणवा वाद्यविशेषाः हताः पाणविकैस्ताडिताः दध्वनुर्ध्वनिताः । काहलाः गोशृङ्गसंस्थानाः । पूरयांचक्रुः पूरितवन्तः । 'पुरी आप्यायने' इति चौरादिकस्योदात्ततो रूपम् । पेराः खरमु- खाकाराः पूर्णा सुखमरुता सस्वनुः । '२३५४ । फणां च सप्तानाम् ।६।४।१२५॥ इति लिटि एत्वविधानस्य विकल्पितत्वात् नैत्वम् ॥ १०७२ - मृदङ्गा धीरमा॑स्वेनु॒र्, हतैः स्वेने च गोमुखैः ॥ घण्टाः शिशिञ्जिरे दीर्घ, जहादे पटहैर भृशम् ॥४॥ मृदङ्गा इत्यादि – मृदङ्गा मुरजाः धीरं आस्वेनुः गम्भीरं ध्वनिताः । एत्व- पक्षे रूपम् । गोमुखैर्वाद्यविशेषैः हतैः स्वेने शब्दितम् । भावे लिट् । घण्टाः दीर्घ शिशिञ्जिरे उच्चैः शब्दितवत्यः । पटहेर्भृशमत्यर्थम् । जहाड़े शब्दितम् । भावे लिट् ॥ १०७३ - हया जिहेषिरे हर्षाद्, गम्भीरं जगजुर् गजाः ॥ संत्रस्ताः करभा रेटुश, चुकुवुः पत्ति-पचयः ॥५॥ हया इत्यादि – हया अश्वा: हर्षात् जिहेपिरे हेषितवन्तः । '६६४) हेष अव्यक्ते शब्दे' भौवादिकोऽनुदात्तेत् । अभ्यासस्य [ २१८०। हस्त्रः १७१४४९१] इति एत इन्द्भवति । गजा गम्भीरं मन्द्रं जगजुः गर्जितवन्तः । 'गज गजी शब्दार्थो ।' करभा उष्ट्रा: संत्रस्ताः नानावादिनश्रवणात् रेटुः शब्दं कृतवन्तः । 'रट परिभाषणे' इति शब्दार्थः । पत्तिपयः पदातिसंहतयः चुकुवुः शब्दित- वत्यः । गच्छत किं तिष्ठतेति । 'कु शब्दे' इत्युदात्तेत् ॥ १०७४ - तुरङ्गा-पुस्फुटुर् भीताः, पुस्फुरुर् वृषभाः परम् ॥ नार्यश चुक्षुभिरे मम्लुर् मुमुहुः शुशुचुः पतीन्. ६ तुरङ्गा इत्यादि - तुरङ्गा अश्वा भीता वादित्रश्रवणात् पुस्फुटुः स्फुटिताः भयादितस्ततो गताः । 'स्फुट विशरणे' । वृषभाः परं पुस्फुरुः सुष्टु वलिताः । 'स्फुर वलने ।' नार्यश्रुक्षुभिरे अस्माकमायातो वियोग इति क्षोभमुपगताः । व्यस्त- चित्ता जाता इत्यर्थः । काश्चिदामम्लुः । 'ग्लै गात्रक्षये' । मुमुहुः कश्चिन्मोहमु पगताः पतीन् काश्चित् शुशुचुः शोचितवत्यः । हा कष्टं नियतं विनष्टा इति ॥ १०७५ - जगर्जुर्, जहषुः शूरा रेजुस् तुष्टुविरे परैः ॥ > बबन्धुरंङ्गुलि-त्राणि, सन्नेहुः परिनिर्ययुः ॥ ७ ॥ जगर्जुरित्यादि - शूरा जगर्जुः अस्माभिर्वृष्टाः शराः क्व यास्यन्तीति शब्दितवन्तः । तथा जहृषुः तुष्टाः चिरमायातः समर इति । '१३०८ । हृष तुष्टौ ।' अत एव रेजुः शोभन्ते स्म । '३५४ । फणां च सप्तानाम् ।६।४।१२५।' इत्येत्वाभ्यासलोपौ । परैरन्यैस्तुष्टुविरे स्तुताः । भवतामग्रतः समरे के तिष्ठन्तीति । भ० का० ३० ३५० भट्टि- काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः, अङ्गुलित्राणि बबन्धुः बनन्ति स्म । '१०४२ बध वन्धने ।' तथा परे सन्नेः कवचानि बध्नन्ति स्म । '१२४१॥ यह बन्धने' । परिनिर्ययुः निष्क्रान्ताः ॥ १०७६ – धनूंष्यारोपयांचरारुरुहू रथाऽऽदिषु ॥ असीनु॑द्ववृहुर् दीप्तान्, गुर्वीरुञ्चिक्षिपुर् गदाः ॥ ८॥ धनूंषीत्यादि – धनूंपि आरोपयांचक्रुः आरोपितगुणानि कृतवन्तः । '२५९९॥ रुहः पोऽन्यतरस्याम् ।७।३ । ४ ३ । ' इति णौ पादेशः । आरुरुहुरारोहन्ति स्म रथा- दिपु । द्वितीया न कृता । अधिकरणत्वेन विवक्षितत्वात् । दीप्तान्निष्कलङ्कान- सीन् ववृहुः कोशादाकृष्य उद्यतान् कृतवन्तः । 'वृह उद्यमने ।' गुर्वीर्गदा उच्चि- क्षिपुः उत्क्षिप्तवन्तः ॥ १०७७ - शूलानि भ्रमयांचक्रुर, वार्णानाददिरे शुभान् ॥ भ्रेमुश, चुकुर्दिरे, रेसुर् ववल्गुश् च पदातयः ॥ ९॥ शूलानीत्यादि – शूलानि भ्रमयांचक्रुः भ्रमयन्ति स्म । सान्तवान्मित्वे ह्रस्वत्वम् । बाणान् शुभान् युद्धयोग्यानाददिरे गृहीतवन्तः । '२६८६ । आड़ो दोऽनास्यविहरणे ।१।३।२०॥ इति तङ् । पढ़ातयश्च मुः इतस्ततो याताः । चुकुढ़िरे शस्त्रपाणयः क्रीडितवन्तः । 'कुर्द-खुर्द-गुर्द-गुद क्रीडायामेव ।' रेसुः भयकृते निनादान् कृतवन्तः । 'रस शब्दे ।' ववल्गुः प्रप्लुताः । वल्गतिः 'उख उखि -' इत्यत्र पठ्यते ॥ १०७८ - समुत्पेतुः कशा - घातै, रश्म्याकर्णैर् ममङ्किरे ॥ ॥१०॥ अश्वाः, प्रदुद्रुवुर् मोक्षे रक्तं निजगरुः श्रमे ॥ १० ॥ समुत्पेतुरित्यादि – कशाधातैः चर्मलताप्रहारैः अश्वाः समुत्पेतुः उल्लुताः । रइम्याकपैः प्रग्रहाकर्षणैः । ममङ्गिरे शोभन्ते स्म । संकोचितघोणत्वात् । 'माग मण्डने ।' मोक्षे रश्मीनां प्रसारणे प्रदुद्रुवुः वेगेन गताः । श्रमे सति खलीनप्र- भवं रक्तं निजगरुः पीतवन्तः । '१५०४ । गृ निगरणे ।' '२३८३॥ ऋच्छत्यृताम् १७।४।११।' इति गुणः ॥ १०७९ - गजानां प्रददुः शारीन्, कम्बलान् परितस्तरुः, 11 तेनुः कक्षां, ध्वजांश् चैव समुच्छिश्रियुरुच्छिखान्. ११ गजानामित्यादि — गजानां शारीन् प्रददुः पृष्ठेषु आरोपितवन्तः । हस्ति- पका इत्यर्थात् । तथा कम्बलान् नानावर्णविचित्रान् परितस्तरुः आस्तीर्णवन्तः । कक्षां हेमादिमयीं तेनुः विस्तारितवन्तः । उच्छिखान् उद्धृतशिखान् ध्वजान् समुच्छिवियुः उत्क्षिप्तवन्तः ॥ 3 १०८० - विशिश्वासयिषांचक्रुरालिलिङ्गुश च योषितः ॥ आजघुर् मूर्ध्नि बालांश्च चुचुम्बुश च सुत- प्रियाः ॥ तथा लक्ष्य-रूपे कथानके 'शर-चन्धो' नाम चतुर्दशः सर्गः- ३५१ विशिश्वासयिपांचॠरित्यादि — योषितः आत्मीयान् विशिश्वासयिपांचक्रुः विश्वासयितुमिष्टवन्तः । मय्यन्यथा न भवनीयमिति । ण्यन्तस्य रूपम् । आलिलिङ्गुश्च लिष्यन्ति स्म । लिगिर्गत्यर्थः । आङ्पूर्वः परि वर्तते । बालान् शिशुन् आजब्रुः शिरसि आघ्रातवन्तः । तथा चुचुम्बुश्च चुम्बितवन्तः । सुत- प्रियाः सुताः प्रियाः यासामिति ॥ १०८१ - गम्भीर - वेदिनः संज्ञा गजा जगृहुरेक्षताः ॥ ववृधे शुशुभे चैषां मदो, हृष्टैश च पुष्टुवे ॥ १३ ॥ गम्भीरवेदिन इत्यादि – ये गजा मत्तत्वादडशैर्हढमाहताः । गम्भीरं विदन्ति ते गम्भीरवेदिनः । तस्मिन् काले संज्ञा युद्धौपयिकीर्जगृहुः गृहीतवन्तः । अक्षतास्तोत्राङ्कुशैरनाहताः सन्तः हृष्प्रैश्च गजैः पुलि। हर्षा- देषां मदो ववृधे वर्धते स्व । शुशुभे च शोभते म ॥ १०८२ - मृगाः प्रदक्षिणं सस्रुः, शिवाः सम्यग् ववाशिरे, ॥ , अ-वामैः पुस्फुरे देहै:, प्रसेदे चित्त-वृत्तिभिः ॥ १४॥ मृगा इत्यादि — एवं संनय चलतां मृगाः दक्षिणपार्श्वेन गताः । सम्यग्व- वाशिरे । वामपार्श्वस्थाः शिवाः शब्दितवत्य इत्यर्थः । 'वाश शब्दे ।' अवामै- दक्षिणैर्देहैर्भुजादिभिः पुस्फुरे स्फुरितम् । भावे लिट् । चित्तवृत्तिभिर्मनोवृत्तिभिः प्रसेदे प्रसन्नम् । पूर्ववत्सदेर्भावे लिट् ॥ १०८३ - प्राच्यमा॑ञ्जिहिपांचत्रे प्रहस्तो रावणाऽज्ञया ॥ द्वारं ररतुर् याम्यं महापार्श्व-महोदरौ. ॥ १५ ॥ प्राच्यमित्यादि — एवं शुभनिमित्तोत्साहितः प्रहस्तो रावणाज्ञया प्राच्यं प्राचि भवं पूर्वहारम् '१३२१। प्राक्- ।४।२।११०॥ इति यत् । आजिहिषांचक्रे गन्तुमिष्टवान् । '१९३३ । अहि गतौ' इत्यस्योदात्तेतः सनीट् । '२१७६ । अजादे द्वितीयस्य ॥६॥।२।' इति द्विवचनम् । '२४४६ । नन्द्राः - १६ । १।३।' इति नकारो न द्विरुच्यते । '२२४०। आम्प्रत्ययवत्- ।१।३।६३।' इत्यात्मनेपदम् । तथा महा- पार्श्वमहोदरौ राक्षसौ याम्यं द्वारं दक्षिणम् । यमो देवता अस्येति । १०७८। दित्यदित्या – ।४।१।८५।' इत्यत्र 'यमाञ्चेति वक्तव्यम्' उक्तं तेन प्राग्दीव्यती- येऽर्थे ण्यप्रत्ययः । ररतुः गतौ । १९३१ । रघि गतौ" इत्यस्य रूपम् ॥ १०८४ - प्रययाविन्द्र जित् प्रत्यर्गियाय स्वयमुत्तरम् ॥ समध्यासिसिषांचक्रे विरूपाक्षः पुरोदरम् ॥१६॥ प्रययावित्यादि – प्रत्यक् पश्चिमद्वारं इन्द्रजित् प्रययौ गतवान् । प्रतीच्याम् द्वारमिति '१९७४ । दिक्छब्देभ्यः ससमी-।५।३।२७।' इत्यादिना विहितस्यास्तातेः १९८० । अञ्चेक् ।५।३।३०।' । भसंज्ञाभावात् '४१६॥ अचः । ३५२ भट्टि- काव्ये -- चतुर्थी तिङन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः, ६।४।१३८।' इत्यकारलोपो निवर्तते ४१७ । चौ ।६।३।१३८ । इति दीर्घत्वं च । स्वयमिति । रावण उत्तरद्वारमियाय गतः । विरूपाक्षो राक्षसः पुरोदरं पुरमध्यं समध्यासिसिपांचक्रे समध्यासितुमिष्टवान् । आस्तेरनुदात्तेतः सनि इटि अजादिः । '२७३४ । पूर्ववत्सनः ॥३।६२॥ इत्यात्मनेपदम् । अनुप्रयोगस्याप्यात्मनेपदम् ॥ १०८५ - शुश्राव रामस् तत् सर्वं, प्रतस्थे च स-सैनिकः ॥ — विस्फारयांचकाराऽस्त्रं बवन्धाऽथ च वाणधी. १७ शुश्रावेत्यादि – अथानन्तरं रामस्तत्सर्वं रावणचेष्टितं शुश्राव श्रुतवान् । प्रतस्थे च गन्तुं प्रवृत्तः । १२६८९ । समवप्रविभ्यः स्थः ॥१॥३॥२२।' इति तङ् । ससैनिकः सह योधैः । सेनायां समवेता इति '१५९५॥ सेनाया वा ॥४॥४॥ '४'५।' इति पक्षे ठक् । अस्त्रं धनुर्विस्फारयांचकार आरोप्याकृष्टवान् । स्फुरतेः । '२५६९ । चिस्फुरोण । ६।१।५॥' इत्यात्वम् । बबन्ध च बाणधी तूणीरे बध्नाति स्म । वाणा धीयन्ते ऽस्मिन्निति । '३२७१ । कर्मण्यधिकरणे च । ३ । ३ । ९३ ।' इति किः ॥ १०८६ - ईक्षांचक्रे ऽथ सौमित्रिम॑नु॒जज्ञे वलानि च, 11 नमञ्चकार देवेभ्यः पर्ण- तल्पं मुमोच च ॥ १८ ॥ ईक्षामित्यादि – सौमित्रिं च युद्धाय ईक्षांचक्रे दृष्टवान् । ईक्षेरनुदात्तेतः । '२२३७ । इजादेः - ।३।१।३६।' इत्याम् । बलानि च अनुजज्ञे अनुज्ञातवान् । अनुपूर्वो जानातिरनुज्ञाने वर्तते तस्य परस्मैपदित्वात् । '२७४३ । अनुपसर्गात्।१।३।७६ । इति वचनादात्मनेपदम् । उपसर्गेण युक्तत्वात् । नमश्चकार देवेभ्यः । नमः शब्दयोगे चतुर्थी । पर्णतल्पं पर्णशयनीय मुमोच मुक्तवान् । । १०८७ - चकासांचक्रुरुत्तस्थुर्, नेदुरा॑नशिरे दिशः ॥ वानरा, भूधरान् रेधुर्, वभञ्जुश, च ततस् तरून्. चकासांचक्रुरित्यादि- ततोऽनुज्ञानान्तरं वानरा उत्तस्थुः उत्थिताः । नेदुः शब्दितवन्तः । दिश आनशिरे व्याप्ताः । '२५३३ । अश्नोतेश्च १७४७२ इत्यभ्यासस्य नुट् । '२२४८ । अत आदेः ।७।४।७० ।' इति दीर्घत्वम् । भूधरान् पर्वतान् रेधुः उन्मूलितवन्तः । '२५३२ । राधो हिंसायाम् ॥६।४।१२३।' इत्ये- त्वाभ्यासलोपः । तरूंश्च बभञ्जुः भग्नवन्तः । एवं च ते चकासांचक्रुः शोभन्ते स्म । कास्यनेकाज्ग्रहणमित्याम् ॥ । १०८८ - ददाल भूर्, नभो रक्तं गोष्पदनं ववर्ष च ॥ 3 मृगाः प्रससृपुर् वामं, खगाश चुकुविरेऽशुभम्. २० ददालेत्यादि – लोकद्वयं राघवयोर्ब्रह्मास्त्रबन्धसूचनार्थमनिमित्तदर्शनम् । भूर्ददाल विदीर्णा । नभश्च रक्तं रुधिरं ववर्ष वृष्टवत् । लिटः पित्त्वादकित्त्वे धातोर्गुणः । कियव्प्रमाणं गोष्पदनं यावता गोष्पदं पूरयित्वा । '३३५२ वर्षतथा लक्ष्य रूपे कथानके 'शरबन्धो नाम चतुर्दशः सर्गः- ३५३ प्रमाणे-1 - ।३।४।३२।' इत्यादिना णमुल ऊलोपश्च । मृगाः प्रससृपुर्वानं वामपा- वे॑न गता इत्यर्थः । नगाः पक्षिणोऽशुभान् अनिष्टांञ्जुकुविरे शब्दितवन्तः । 'कुङ् शब्दे ।' अशुभमिनि पाठान्तरम् । तत्र क्रियाविशेषणं वेदितव्यम् ॥ , १०८९ - उल्का दहशिरे दीवा, रुरुबुझ चाऽशिवं शिवाः ॥ चक्ष्माये च मही, रामः शशङ्के चाऽशुभाऽगमम्. २१ उल्का इत्यादि — दीप्ता उल्का दहशिरे दृष्टाः । अशिवा अनिष्टाः शिवा गोमायवः रुरूवुः शव्दितचन्त: । मही च चक्ष्माये कम्पिता । 'क्ष्मायी विधूनने' इत्यनुदात्तेत् । रामश्वाशुभागममनिष्टप्राप्तिमाशश शङ्कते स्म । चेतसः पर्याकु- लत्वात् इदमप्यनिष्टमेव ॥ १०९० - रावणः शुश्रूवान् शत्रून् राक्षसान॑भ्युपेयुषः ॥ स्वयं युयुत्सयांचत्रे प्राकाराऽग्रे निषेदिवान् ॥ २२॥ रावण इत्यादि — राक्षसानभ्युपेयुषो ऽभिमुखमुपगतवन्तो ये शत्रवो रा- मादयस्तान् रावणः शुश्रुवान् । स्वयं च प्राकाराग्रे निषेदिवान् निषण्णः सन् । '३०९७। भाषायां सद- वस - १३१२।१०८।' इत्यादिना क्वसुः । युयुत्सयांचक्रे योद्धु- मिच्छन्तं प्रयोजितवानित्यर्थः । सन्नन्तण्यन्तस्य रूपम् ॥ १०९१ - निरासू राक्षसा वाणान्, प्रजहुः शूल-पट्टिशान् ॥ असींश् च वाहयांचक्रुः पाशैश् चाऽऽचकृषुस् ततैः॥ निरासुरित्यादि — रावणप्रचोदिता राक्षसा वाणान्निरासुः क्षिप्तवन्तः । शूलपट्टिशान् शूलसहितान् पट्टिशान् । शाक पार्थिवादित्वात्तत्पुरुषः । द्वन्द्वे तु '९१०। जातिरप्राणिनाम् ।२।४।६।' इत्येकवद्भावः स्यात् । तान् प्रजहुः त्यक्तवन्तः । 'ओहाइ त्यागे ।' असींश्च खड्डान् वाहयांचक्रुः व्यापारितवन्तः । ण्यन्तस्य रूपम् । पाशैस्ततैर्विस्तृतैः आचकृषुः आकृष्टवन्तः । कित्वे गुणप्रतिषेधः ॥ १०९२ - भल्लैश च विभिदुस् तीक्ष्णैर् विविधुस् तोमरैस् तथा ॥ गदाभिश् चूर्णयांचक्रुः, शितैश चक्रैश् च चिच्छिदुः ॥ २४ ॥ भरित्यादि-भलैर्विभिदुर्विदारितवन्तः । तीक्ष्णैस्तथा तोमरर्विविधुस्ताडितवन्तः । व्यधेः '२४१२॥ ग्रह ज्या । ६।१।१६।' इत्यादिना सम्प्रसारणम् । गदाभिश्च चूर्णयांचक्रुः चूर्णितवन्तः । '२५६३ । सत्य । ३।१॥२५॥ इत्यादिना णिच् । '१६५७। चूर्ण प्रेरणे' इति चौरादिकत्वाद्वा । चिच्छिदु: च्छिन्नवन्तः । राक्षसयुद्धमेतत् ॥ ३५४ भट्टि-काव्ये चतुर्थी तिङन्त-काण्डे लक्षण रूपे प्रथमो वर्गः, १०९३ - वानरा मुष्टिभिर् जघ्नुर् दर्दशुर् दशनैस् तथा ॥ निराश च गिरींस तुझान्, दुमान् विचकरुस् तथा २५ वानरा इत्यादि - वानरा मुष्टिभिर्जघ्नुः हृतवन्तः । राक्षसानित्यर्थात् । इरानैदंशुः ः दृष्टवन्तः । गिरीन्निरासुः क्षिप्तवन्तः । द्रुमान् विचक विक्षिप्तवन्तः । '१५०३१ कॄ विक्षेपे ।' '२३८३ । ऋच्छत्यृताम् ।७।४।११।' इति गुणः ॥ १०९४-लाङ्गूलैर् लोठयांचक्रुस्, तलैर्, निन्युश् च संक्षयम् ॥ नखैश् चकृततुः, क्रुद्धाः पिपिपुश् च क्षितौ बलात्. २६ लाङ्गूलैरित्यादि – लाङ्गूलैटयांचक्रुः लाङ्गूलैर्व्यापादितवन्तः । 'रुठ लुठ प्रतिघाते' परस्मैपदिनो ण्यन्तस्य रूपम् । तलैर्हस्ततलैः संक्षयं विनाशं निन्युः नीतवन्तः । नखैश्चकृततुरुच्छिन्नवन्तः । 'कृती च्छेदने' क्रुद्धाः वानराः बलात् हठात् क्षितौ पिपिपुचूर्णितवन्तः ॥ १०९५ संबभूवुः कवन्धानि, प्रोहुः शोणित-तोय-गाः, ॥ तेरुर् भटाऽऽस्य-पद्मानि, ध्वजैः फेणैरि॑िवाऽऽवभे, २७ संवभूवुरित्यादि- कवन्धानि संबभूवुः संभूतानि । प्रतिसहस्रं व्यापाद्नात् । कबन्धस्यैकस्योत्पादनात् । शोणिततोयगा: शोणितनद्यः प्रोडुः प्रकर्षेण प्रवृत्ताः । वहेर्यजादित्वात् सम्प्रसारणम् । भटास्यपद्यानि योधमुखपद्मानि तेरुः प्लुतानि । '२३०१॥ तृ-फल- १६।४।१२२।' इत्यादिना एत्वाभ्यासलोपौ । फेणैरिव ध्वजैः शोणितनदीपु आवभे शोभितम् । भावे लिट्र । १०९६ - रक्त पङ्के गजा: सेदुर्, न प्रचक्रमिरे रथाः ॥ निममज्जुस् तुरङ्गाश् च, गन्तुं नौत्सेहिरे भटाः २८ रक्तपङ्क इत्यादि – रक्तपके गंजा: सेदुः निषण्णाः । रक्तपङ्कस्य बहुल- त्वात् । तथा रथा न प्रचक्रामरे न गन्तुमारब्धाः ८२७१५ । प्रोपाभ्याम् । १॥३॥४२॥' इत्यात्मनेपदम् । तुरङ्गा निममज्जुः निमग्नाः । भटाश्च गन्तुं नोत्से- हिरे नोसन्ते स्म ॥ ." १०९७ - कोट्या- कोट्या पुर द्वारकै रुरुधे द्विषाम् ॥ षट्-त्रिंशद्धरि - कोट्यश् च निवव्रुर् वानराऽऽधिपम्, २९ कोट्यत्यादि — द्विषामेकैकं पुरद्वारं वानराणां कोट्या कोट्या रुरुधे रुद्धम् । कर्मणि लिट् । षट्त्रिंशद्धरिकोट्यः वानरकोट्यो वानराधिपं सुग्रीवं निवव्रुः आवृत्य स्थिताः ॥ १०९८ - तस्तनुर्, जह्वलुर, मम्लुर, जग्लुर, लुलुठिरे क्षताः ॥ मुमूर्च्छर्, ववमू रक्तं, ततृषुश् चौभये भटाः ॥ ३० ॥ तथा लक्ष्य रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः तस्तनुरित्यादि – उभये भटा रामरावणसंवन्धिनो योधाः क्षताः सन्तस्तं- स्तनुः स्तनितवन्तः । जह्वलुः चलिताः । 'ह्वल-हाल चलने' । मम्लुः म्लानाः । 'क्लै गात्र-क्षये ।' जग्लु: हर्पक्षयं गताः । लुलुटिरे भूमौ लुठन्ते स्म । 'रूठ लुठ प्रतिवाते' तुदादावात्मनेपदी पठ्येते । मुमूर्छु: मोहमुपगताः । रक्तं ववमुः गीर्णवन्तः । ततृपुः तृष्यन्ति स्म । एतत् संकुलयुद्धमाह ॥ १०९९ - सम्पातिना ग्रजङ्घस् तु युयुधे, ऽसौ द्रुनाहतः ॥ चकम्पे, ऽतीव चुक्रोश, जीवनाशं ननाश च. ३१ सम्पातिनेत्यादि – प्रजो नाम राक्षसः सम्पातिनाम्ना वानरेण सह युयुधे युध्यते स्म । असौ प्रजङ्गो द्रुमाहतश्चकम्पे कम्पते स्म । अतीव अत्यर्थं चुक्रोश क्रोशति स्म । जीवनाशं ननाश जीवेन विनष्टः । ३३६४। कर्त्रार्जीव पुरुषयोर्नशिवहोः ।३।४।४३।' इनि गनुल ११०० - उच्चखाते नलेना ssजौ स्फुरत्-यतपनऽक्षिणी ॥ जम्बुमाली जहाँ प्राणान् ग्राव्णा मारुतिना हतः ३२ x उच्चणात इत्यादि — स्फुरन् चलन् प्रतपनो नाम राक्षसः तस्याक्षिणी स्फुरतीव प्रतपनस्याक्षिणी नयने नलेन वानरेण उच्चखाते उत्खाते । कर्मणि लिट् । '२३६३ । गम हन । ६।४।९८।' इत्युपधालोपः । मारुतिना हनुमता ग्राण्णा पाषाणेन हतो जम्बुमाली राक्षसः प्राणान् जहौ त्यक्तवान् ॥ ११०१ - मित्रघ्नस्य प्रचुक्षोद गदया ऽङ्गं विभीषणः ॥ सुग्रीवः प्रघसं नेभे, वहून् रामस् ततर्द च ॥३३॥ मित्रघ्नस्येत्यादि — मित्रघ्नस्य राक्षसस्य अङ्गं गदया विभीषणः प्रचुशोद । प्रघसं नाम राक्षसं सुग्रीवो नेभे हिंसितवान् । 'णभ तुभ हिंसायाम्' इत्यनुदा- तेत् । रामश्च बहून् राक्षसान् ततर्द हिंसितवान् । 'उ-तृदिर् हिंसाऽनादरयोः' ॥ ११०२ - वज्रमुष्टेर् विशिश्लेष मैन्देना ऽभिहतं शिरः, ॥ K नीलश् चकर्त चक्रेण निकुम्भस्य शिरः स्फुरत् ३४ वज्रमुष्टेरित्यादि – वज्रमुष्टे राक्षसस्य शिरो मैन्देन वानरेण अभिहतं सत् विशिश्लेष विश्लिष्टम् । निकुम्भस्य शिरः स्फुरत् चलत् । नीलो वानरश्चक्रेण चकर्त छिन्नवान् ॥ , ११०३ - विरूपाक्षो जहे प्राणैस् तृढः सौमित्रि-पत्रिभिः ॥ प्रमोचयांचकाराऽसून् द्विविदस् त्वंशनि-प्रभम् ३५ विरूपाक्ष इत्यादि — विरूपाक्षो राक्षसः सौमित्रिपत्रिभिर्लक्ष्मणशरैः तृढः हत इत्यर्थः । 'तृह' [ हू ] हिंसार्थ: [ यां ] इति तौदादिकस्योदित्त्वान्निष्ठाया३५६ मट्टि-काव्ये - चतुर्थी तिन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः, मि. (ती) प्रतिषेधः : प्राणैर्ज व्यक्तः । कर्मणि लिट् । द्विविदो वानरः अशनिप्रभं राक्षसं प्राणान् अमोचयांचकार त्याजितवान् । मुचेर्ण्यन्तस्य लिटि रूपम् ॥ ११०४ - गदा शऋ- जिता जिध्ये, तां प्रतीयेष वालि-जः ॥ रथं समन्थ सहयं शाखिना ऽस्य ततो ऽङ्गदः ३६ गदैत्यादि – शक्रजिता इन्द्रजिता गदा जिध्ये प्रहिता । हिनोतेः कर्मणि लिट् । '२५३१॥ हेरचङि ।७।३।५६।' इति कृत्वम् । तां गदां वालिजोऽङ्गदः । प्रतीयेप प्रतीष्टवान् । इपे: '२२९० । अभ्यासस्यासवर्णे ।६।४।७८।' इतीय । ततोऽनन्तरं अस्य शऋजितो रथं सहयं सावं शाखिना तरुणा ममन्थ चूर्णितवान् । 'मथि हिंसासंकुशनयोः ॥' ११०५ - तत् कर्म वालि पुत्रस्य दृष्ट्वा विश्वं विसिष्मिये, ॥ संत्रेसू राक्षसाः सर्वे, बहु मेने च राघवः ॥ ३७॥ तत्कमैत्यादि- तत्कर्म रथस्य चर्णनं दृष्ट्वा विश्वं त्रैलोक्यं विसिमिये विस्मि तम् । राक्षसाः सर्वे संत्रेसुः । राघवश्च बहु मेने । अङ्गदं लावितवानित्यर्थः ॥ ११०६ - सुग्रीवो मुमुदे, देवाः साध्वित्यूचुः स - विस्मयाः ॥ विभीषणो ऽभितुष्टाव, प्रशशंसुः प्लवङ्गमाः ॥ ३८ ॥ सुग्रीव इत्यादि- सुग्रीवो सुसुदे हृष्टवान्, देवाः साध्वित्यूचुः, '२४०९ वचि-स्वपि-।६।१।१५।' इति सम्प्रसारणम् । विभीषणोऽभितुष्टाव अमिष्टुतवान् । 'टुञ् स्तुतौ ।' '२२७० । उपसर्गात्- ।८।३।६५।' इत्यादिना पत्वम् । लवङ्गमाः प्रशशंसुः प्रशंसां कृतवन्तः ॥ १९०७ - ही चित्रं लक्ष्मणेनौदे, रावणिश च तिरोदधे ॥ विचकार ततो रामः शरान्, संतत्रसुर् द्विपः ॥ ३९ ॥ " ही चित्रमित्यादि — हीति विस्मये । चित्रमाश्चर्यमिति लक्ष्मणेनोदे उक्तम् । वदेर्भाचे लिट् । यजादित्वात्सम्प्रसारणम् । रावणिः इन्द्रजित रावणस्यापत्यम् । '१८९५॥ अत इञ् ॥४।१।९५ । तिरोदधे अदृश्योऽभूत् । ततः अदर्शनानन्तरं रामः शरान् विचकार विक्षिप्तवान् । 'कृ विक्षेपे' । द्विषः संतत्रसुः संत्रस्ताः ॥ ११०८ - विभिन्ना जुघुरुर् घोरं, जक्षुः कव्याऽशिनो हतान् ॥ चुश्योत व्रणिनां रक्तं, छिन्नाश चेलुः क्षणं भुजाः ४० विभिन्ना इत्यादि — शरैर्विभिन्ना जुघुरुः घोरं भीमशब्दं कृतवन्तः । 'घुर 'भीमार्थ- शब्दयोः ।' ऋव्याशिनः शृगालादयो हतान् विनष्टान् जक्षुः भक्षितचन्तः । '२४२४। 'लियन्यतरस्याम् ।२।४।४।' इत्यदेर्घस्ल । उपधालोपः । १२१ । खरिच ।८।४॥५५॥ इति चम् । व्रणिनां शरैः कृतव्रणानां रक्कं — तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः- यो व्रणादित्यर्थात् कर्तरि लिटः पित्वादकिश्वे गुणः । भुजश्छिन्नाः सन्तः क्षणमात्रं चेलुश्चलिताः ॥ १९०९ - कृत्तैरपि दृढ - क्रोधो वीर-वर् न तत्यजे, ॥ पलायांचक्रिरे शेषा, जिहियुः शूर मानिनः ॥४१॥ कृत्तरित्यादि–वीरवः शूरमुखैः कृत्रपिst घनः क्रोधोन तत्यजे न त्यक्तः । दुष्टौष्टभ्रुकुट्यादीनां तथावस्थानात् । कर्मणि लिट् । पला- यांचक्रिरे पलायिताः । २३२४। दयायासश्च ।३।१।३७ ।' इत्याम् । '२३२६ उपसर्गस्यायतौ ।८।२।१९॥ इति लत्वम् । शेषा ये न पलायिताः ते शूरमा- निनः । '२९९२ । मनः ।३।२।८२ ॥ इति णिनिः । जिहियुः लज्जन्ते स्म ॥ १११० - राघवो न दयांचत्रे, दधुर धैर्य न केचन, ॥ 1 मत्रे पतङ्गवद् वीरेंद्र हाहंति च विचुक्रुशे ॥ ४२ ॥ राघव इत्यादि — राघवो न दयांचक्रे न दयां कृतवान् । पूर्ववदाम् । न केचन न केचित् धैर्य दधुः धारितवन्तः । सर्व एव अहमहमिकया प्रवृत्ताः । यदि वा न केचन केचिद्धैर्यं न दधुः अपि तु दुधुरेव । पतङ्गवत्पतङ्गैरिव वीरैमैत्रे मृतम् । भावे लिट् । हाहेति च विचुक्रुशे रुदितम् ॥ ११११ - तिरोवभूवे सूर्येण, प्रापे च निशया ऽऽस्पदम्, 11 जग्रसे काल रात्रीव वानरान् राक्षसांश च सा. ४३ तिर इत्यादि — सूर्येण तिरोबभूवे तिरोभूतम् । अस्तं गतमित्यर्थः । भावे लिट् । निशया निशा च आस्पदं प्रतिष्ठाम् । १०६१॥ आस्पदं प्रतिष्टायाम् ।६।१।१४६।' इति निपातनम् । प्रापे प्राप्तम् । कर्मणि लिट् । सा च निशा कालरात्रीव कालः कृतान्तस्तेन प्रयुक्ता रात्रिरिति शाकपार्थिवत्वात्सः । '३४४५। रात्रेश्चाजसौ ।४।१।३१।' इति ङीप् । वानरान् राक्षसांश्च जग्रसे ग्रसते स्म । भक्षितवतीत्यर्थः ॥ । १११२ - चुकोपेन्द्रजित्युग्रं सर्पाऽस्त्रं चा ऽऽजुहाव, सः ॥ 3 आजुहुवे तिरोभूतः परानीकं, जहास च ॥ ४४ ॥ चुकोपेत्यादि रामव्यापारं दृष्ट्वा इन्द्रजित् तिरोहितः सन् चुकोप कुपित- वान्, अत्युग्रं च सर्पास्त्रं सर्पा अस्त्रमिव आजुहाव आहूतवान्, आह्वयतेः शब्दे वर्तमानस्य '२४१७ । अभ्यस्तस्य च ।६॥१।३३।' इति द्विवेचनात् प्राक् सम्प्रसारणं ततो द्विर्वचनम् । परानीकं च रामबलं आजुहुवे स्पर्धते स्म । '२७०४ । स्पर्धाया- माङः ।१।३।३१।' इत्यात्मनेपदम् । पूर्ववत्सम्प्रसारणम् । यजादित्वाद्वा । तत उवङादेशः । जहास च विहसितवान् ॥ १११३ - वबाधे च वलं कृत्स्नं, निजग्राह च सायकैः ॥ उत्ससर्ज शरांस्, तेऽस्य सर्प - साच् च प्रपेदिरे. ४५ ३५८ भट्टि- काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः, बवाध इत्यादि- बयाधे च अभिभूतवान् । 'बाट विलोडने' निजग्राह च निगृहीतवान्, सायकैः लोहयुक्कैः सर्पाखैः उत्ससर्ज शरान् क्षितवान्, ते उत्सृष्टाः शरा अस्य बलस्य सर्पसात् । कार्ये सातिः । संग्रपेदिरे संप्रपद्यन्ते स्म १११४ - आचिचाय स तैः सेनामा॑चिकाय व राधवौ ॥ वभाण च, 'न मे मायां जिगायेन्द्रोऽपि, किं नृभिः', आचिचायेत्यादि – स इन्द्रजित सर्पास्त्रैर्वानराणां सेनामाचिचाय छन्न- वान् । '२५२५ । विभाषा चेः ।७।३।५८।' इति अकुत्वपक्षे रूपम् । राघव च रामलक्ष्मणावाचिकाय । कुत्वपक्षे रूपम् । वभाण च भणति स्म । मम मायामि- न्द्रोऽपि न जिगाय न जितवान् । '२३३१॥ सँलिटोर्जेः ।७।३।५८।' इति कृत्वम् । किं नृभिः । न किंचित्प्रयोजनमित्यर्थः ॥ १११५ - आचिक्याते च भूयो ऽपि राघवौ तेन पन्नगैः ॥ तौ मुमुहतुरु॑द्विनौ, वसुधायां च पेततुः ॥ ४७ ॥ आचिक्यात इत्यादि - तेनेन्द्रजिता भूयोऽपि राघवावाचिक्याते छन्नौ । कर्मणि लिट् । तो पाशबौ मुमुहतुः मोहं गतौ । उद्विग्नौ समीहितानिष्पत्तेः । वसुधायां च पेततुः पतितौ । बन्धपरवशीकृतत्वात् ॥ १११६ – ततो रामे॑ति चक्रन्दुस्, त्रेसुः परिदिदेविरे ॥ निशश्वसुश् च सेनान्यः, प्रोचुर् धिर्गिति चाऽऽत्मनः. तत इत्यादि - ततः पतनादनन्तरं सेनान्यः सुग्रीवादयः । '२७२ । एरने- काचः-।६॥४॥८२ ।' इति यण् । रामेति नामग्राहं चक्रन्दुः रुदितवन्तः, त्रेसुः भीताः परिदिदेविरे परिदेवनं कृतवन्तः । 'देव देवने' अनुदात्तेत् । निश- श्वसुः कोष्णं निश्वासानुत्ससृजुः आत्मनश्च धिगिति प्रोचुः गर्हितवन्तः । धिग्योगाद्वितीया ॥ , १११७ - मन्युं शेकुर् न ते रोखुं, ना ऽस्रं संरुरुधुः पतत् ॥ विविदुर् नेन्द्रजिन्- मार्ग, परीयुश् च लवङ्गमाः ४९ मन्युमित्यादि — मन्युं शोकं रोद्धुं वारितुं न शेकुः पारितवन्तः । अस्रं च लोचनेभ्यः न संरुरुधुः पतत् न संरुद्धवन्तः, इन्द्रजितो मार्ग न विविदुः व ज्ञातवन्तः, कासों तिष्ठति इति । प्लवङ्गमाश्च परीयुः समन्ताद्गतवन्तः । वासावगमदिति ॥ १११८ - दधावा ऽद्भिस् ततश् चक्षुः सुग्रीवस्य विभीषणः ॥ विदांचकार धौता॒ऽक्षः स रिपुं खे, ननर्द च ॥५०॥ दधावेत्यादि- ततोऽनन्तरं विभीषणः सुप्रीवस्य मत्रपूताभिरद्भिश्चक्षुर्दघाव प्रक्षालितवान्, सुग्रीवः धौताक्षः प्रक्षालितचक्षुः । '८५२ । बहुव्रीहौ तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः- ३५९ सक्थ्यक्ष्णोः - ।५।४।११३।' इति समासान्तष्टच् । रिपुमिन्द्रजितं खे स्थितं विदां- चकार ज्ञातवान् । '२३४१॥ उष- विद - ।३।११३८।' इत्यादिना आम् । ननई च गव्दितवान् । केदानीं यास्यसीति ॥ १९१९ - उज्जुगूरे ततः शैलं हन्तुमि॑िन्द्रजितं कपिः ॥ विहाय रावणिस् तस्माददा॑नंहे चा ऽन्तिकं पितुः ५१ उजुगूर इत्यादि-ततो ऽनन्तरं कपिः सुग्रीवः इन्द्रजितं हन्तुं शैलसु जुगूरे उत्क्षितवान् । '१२२९। गूरी हिंसा-गयोः' इति देवादिकोऽनुदात्तेत् । तस्य गतौ वर्तमानस्य रूपम् । रावणिरिन्द्रजित विहाय अर्थायुद्धं विहाय तस्मा- दाकाशात्पितुरन्तिकमानंहे गतः । ११९३३ । अहि गतौ ।' '२२८८ । तस्मान्नुह द्विहलः ।७।४।७१॥ इनि नुट् ॥ १९२० - आचचक्षे च वृत्तान्तं, मजहर्ष च रावणः ॥ गाढं चौपजुगूह्रैनं, शिरस्यु॑पशिशिङ्ख च ॥ ५२ ॥ आचचक्ष इत्यादि —— नागपाशेन राघवौ वद्धाविति वृत्तान्तमाचचक्षे आख्यातवान्, रावणः प्रजहर्ष तुष्टवान्, एनं च रावणिं च उपजुगूह दृढमालिष्टवान् । अन्न क्रियाफलस्याविवक्षितत्वात् तङ् न भवति । '२३६४। ऊद्रुपधाया गोहः ॥६।४॥८९।' इत्यूत्वम् । शिरसि उपशिशिद्ध आत्रातवान् । 'शिवि आघ्राणे ॥' ११२१–ध्वजानु॑द्दुधुवुस् तुङ्गान्, मांसं चेमुर्, जगुः, पपुः ॥ कामयांचक्रिरे कान्तास्, ततस् तुष्टा निशाचराः ॥ ध्वजानित्यादि - ततो निशाचरा अपि श्रुत्वा तुष्टाः सन्तः ध्वजांस्तुङ्गानुहु- ध्रुवुः उत्क्षिप्तवन्तः, मांसं चेमुः खादितवन्तः, 'चमु छमु अदने ।' जगुगतवन्तः, पपुः मद्यं पीतवन्तः, कान्ताः कामयांचक्रिरे । कमेर्णिङन्तादाम् ॥ 3 ११२२ - दर्शयांचक्रिरे रामं सीतां राज्ञश् च शासनात् ॥ तस्या मिमीलतुर् नेत्रे, लुलुठे पुष्पकोदरे. ॥ ५४ ॥ दर्शयामित्यादि — तथाभूतं रामं दृष्ट्वा सीता मम विधेया स्यादित्यभिप्रा- यवतो राज्ञो रावणस्य आज्ञया राक्षसाः अशोकवनिकातः पुष्पकमारुह्य सीतां रामं दर्शयांचक्रिरे दर्शितवन्तः । 'अभिवादि-दृशोरात्मनेपद उपसंख्यानम्' इति विकल्पेन द्विकर्मकता । तस्याः सीताया नेत्रे निमीलतुः निमीलिते । 'मील निमे षणे ।' पुष्पकोदरे पुष्पकमध्ये । मूर्च्छया लुलुठे लुठिता ॥ ११२३ - प्राणा दध्वंसिरे, गात्रं तस्तम्भे च प्रिये हते, {} उच्छश्वास चिराद् दीना, रुरोदा ऽसौ ररास च. ५५ ३६० महि-काव्ये – चतुर्थे तित-काण्डे लक्षण-रूपे प्रथमो वर्गः, प्राणा इत्यादि - प्रिये रामे हते प्राणा वायवः दध्वंसिरे ध्वस्ताः गात्रं च तस्तम्भे काष्टवज् निश्चलमभृत् । 'टभि-स्कभि प्रतिवन्धे ।' चिरादुच्छश्वास उच्चासितवती, असौ लब्धसंज्ञा दीना दुःखिता रुरोद रुदितवती, ररास च वक्ष्यमाणं च विलापं कृतवती ॥ ११२४ - 'लौह-वन्धैर् बवन्धे नु, वज्रेण किं विनिर्ममे ॥ मनो मे, न विना रामाद् यत् पुस्फोट सहस्र - धा. ५६ लौहवन्धैरित्यादि – लोहस्येमे लौहाः तैर्बन्धैर्मनो हृदयं मम बबन्धे बद्धम् । कर्मणि लिट् । वितर्के । उत वज्रेण विनिर्ममे निर्मितम् । '११६३ । माङ् माने' इत्यस्मात्कर्मणि लिट् । आतो लोपस्य '२२४३ । द्विचनेऽचि ॥१॥५९।' इति स्थानिवद्भावात् द्विवचने इस्वत्वे च रूपम् । यद्यस्मात् विना रामात् रामेण विना । '६०३ । पृथग्विना । २।३।३२।' इति पञ्चमी । न पुस्फोट न स्फुटितं सहस्रधा । १९८८ संख्याया विधार्थे धा १५।३।४२ ॥ ' ११२५ - उत्तेरिथ समुद्रं त्वं मदर्थे, डरीन् जिहिंसिथ, It ममर्थ चाऽतिघोरां मां धिग् जीवित-लघुकृताम् ॥५७॥ उत्तेरिथेत्यादि — मदर्थे मन्निमित्तं समुद्रमुत्तेरिथ उत्तीर्णोऽसि '२३०१॥ तृ-फल-- । ६।४।१२२।' इत्यादिना एत्वाभ्यासलोपौ । तथा अरीन् जिहिंसिथ निह तवानसि । थलि रूपम् । यतो मदर्थे ममर्थ मरणावस्थां गतोऽसि । अतोऽतिघोरामतिरौद्धां मां धिक् जीवितलकृतां जीवत्याजितमहत्त्वात् ॥ ११२६-न जिजीवा ऽसुखी तातः प्राणता रहितस् त्वया ॥ मृतेऽपि त्वयि जीवन्त्या किं मया Sणकभार्यया. ५८ न जिजीवेत्यादि- त्वया प्राणता जीवता । '११४४॥ अन प्राणने' । रहितो विमुक्तस्तातो दशरथो न जिजीव न जीवितः । त्वयि मृते ऽपि जीवन्त्या मया न किंचित्प्रयोजनम् । अणकभार्यया । '७३४ । पापाणके- ।२।१॥५४॥' इति सः ॥ ११२७ - सा जुगुप्सान् प्रचक्रे ऽसून्, जगर्हे लक्षणानि च ॥ देहभाजि, ततः केशान् लुलुञ्च, लुलुठे मुहुः ॥ ५९॥ सा जुगुप्सानित्यादि- -सा सीता पूर्वोक्तकारणादेव असून् प्राणान् जुगु- प्सान् प्रचक्रे निन्दितान् कृतवती । जुगुप्स्यन्त इति घन् । तदन्तस्य सनि रूपम् । आमि प्रत्यये तु प्रचक्र इत्यनुप्रयोगो न घटते । देहभाजि शरीरस्थानि लक्षणानि अवैधव्यंसूचकानि च जगहें गर्हते स्म । 'गई - गल्भ कुत्सने ।' मुहुः केशान् लुलुख अपनीतवती, तथा लुलुटे पतिता ॥ । तथा लक्ष्य रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः३६१ ११२८ - जग्लौ, दध्यौ, वितस्तान, क्षणं प्राण न, विव्यथे, ॥ दैवं निनिन्द, चक्रन्द, देहे चा ऽतीच मन्युना ॥६०॥ जग्लावित्यादि – शोकभारात् जग्लौ ग्लानिं गता, दृध्यौ ध्यातवती, पुनः किं मया द्रष्टव्योsसीति । वितस्तान पीडया शब्दं कृतवती । '२००२। स्तन शब्दे' । न प्राण न मूच्छिता । न जिजीव निःसंज्ञत्वात् । '११४४॥ अन प्राणने । '२२४८। अत आढ़ेः ।७॥७।' इति दीर्घत्वम् । विव्यथे लव्धसंज्ञा पीडिता । '२३५३। व्यथो लिटि ।७।४।६८।' इत्यभ्यासस्य सम्प्रसारणम् । दैवं निनिन्दु निन्दितवती हे दैव ! विरूपमाचरितं त्वयेति । चक्रन्द रुदिता । पुनर्मन्युना शोकेन देहे दुग्धा । कर्मणि लिट् ॥ ११२९ - आश्वासयांचकारा ऽथ त्रिजटा तां, निनाय च ॥ ततः प्रजागरांचक्रुर् वानराः स विभीषणाः ॥६१ ॥ आश्वासयामित्यादि – अथानन्तरं त्रिजटा रावणभगिनी तां सीतामा- श्वासयांचकार आश्वासितवती । विष्णुरसौ दाशरथिः कथमस्य विरूपं भविष्य तीति । निनाय च तस्मात्पुष्पकान्नीतवती, तत उत्तरकालं वानरा विभीषणेन सह प्रजागरांचक्रुः आलोचनां कृतवन्त: । अत्रानुप्रयोगे नात्मनेपड़ं पूर्व- स्यानात्मनेपदत्वात् ॥ ११३०–चिचेत रागस् तत् कृच्छ्रमषांचक्रे शुचा ऽथ सः ॥ मन्युश्चाऽस्य समापिण्ये, विरुराव च लक्ष्मणम्. ६२ चिचेतेत्यादि - तत् कृच्छ्रं शरबन्धदु खं रामश्चिचेत ज्ञातवान् । 'चिती संज्ञाने' इत्युदात्तेत् । शुचा शोकेन ओषांचक्रे । कर्मणि लिट् । '२३४१ । उषविद - ।३।११३८ ।' इत्याम् । स च मन्युः शोकः अस्य रामस्य समापिप्ये वृद्धिं गतः । 'ओप्यायी वृद्धौ ।' तस्य लिटि '३०७२ । प्यायः पी ।६।१।२८। इति पीभावः । 'एरनेकाचः ।६।४।८२।' इति यण् । लक्ष्मणं च विरुराव शब्दितवान् वत्स ! जीवसीति ॥ ११३१ - समीहे मर्तुमा॑नर्चे तेन वाचा ऽखिलं बलम् ॥ आपपृच्छे च सुग्रीवं स्वं देशं विससर्ज च ॥ ६३॥ समीह इत्यादि –मर्तुं प्राणांस्त्यक्तुं समीहे इच्छति स्म । तेन रामेणाखिलं समस्तं बलं वाचा आनर्चे पूजितम् भवद्भिः साध्वनुष्ठितं अस्मद्भाग्यमन्त्रापरा- ध्यतीति । कर्मणि लिट् । '२२८८ । तस्माब्रुङ् द्विहलः १७१४/७१॥ इति नुट् । सुग्रीवं चापपृच्छे आपृच्छति स्म । आमन्त्रितवानित्यर्थः । एहि तावद्दर्शनं मे देहि परिष्वजस्वेति । 'आङि नुप्रच्छ्योरुपसंख्यानम्' इति तङ् । स्वं च देशं किष्किन्धां विससर्ज प्रहितवान् ॥ भ० का० ३१ ३६२ भट्टि काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः, ११३२ - आदिदेश स किष्किन्धां राघवौ नेतुर्मङ्गदम् ॥ प्रतिजज्ञे स्वयं चैव सुग्रीवो रक्षसां वधम् ॥ ६४ ॥ आदिदेशेत्यादि-सुग्रीवो राघवौ किष्किन्धां नेतुङदमादिदेश, स्वयं च रक्षसां विनाशं प्रतिजज्ञे अहमेव व्यापाढ्यामीति । ८२७१९ । संप्रतिभ्याम्- ।१।३।४६।' इति तङ् । सकर्मकार्थं वचनम् ॥ ११३३ - 'नागा॒ऽस्त्रमि॑दमे॒तस्य॒ विपक्षस् तार्क्ष्य-संस्मृतिः ॥ विभीषणादिति श्रुत्वा तं निदध्यौ रघूत्तमः ॥६५॥ नागास्त्रमित्यादि – नागास्त्रमिदं न शराः, एतस्य च विपक्षः शत्रुस्तार्क्ष्य. संस्मृतिः गरुडसंस्मरणं यत्संस्मरणादेवास्य शान्तिरिति । एवं विभीषणाच्छ्रुत्वा रघूत्तमो राघवस्तार्क्ष्य ध्यौ ध्यातवान् ॥ ११३४ - ततो विजघटे शैलैरुद्वेलं पुष्टुवे ऽम्बुधिः ॥ वृक्षेभ्यश् चुच्युते पुष्पैर्, विरेजुर्भासुरा दिशः ६६ तत इत्यादि -- ततो ध्यानानन्तरं तदागमनवायुवेगाच्छैलेर्विजघटे विघ टितम् । भावे लिट् । अम्बुधिरुलं वेलामतिक्रम्य पुलवे गतः, वृक्षेभ्यः सका. शात पुष्पैश्रुच्युते च्युतम्, दिशश्च भासुराः सुपर्णपक्षप्रभाभिः प्रभासनशीलाः सत्यो विरेजुः शोभन्ते स्म । '२३५४ । फणां च सप्तानाम् ।६।४।१२५।' इत्येत्व- पक्षे रूपम् । तत्र वेत्यनुवर्तते ॥ — ११३५ - जगाहिरे ऽम्बुधिं नागा, चवौ वायुर् मनो-रमः ॥ तेजांसि शंशमांचक्रुः, शर-वन्धा विशिश्लिषुः ॥६७॥ जगाहिरे इत्यादि – नागा भयादम्बुधिं जगाहिरे प्रविष्टाः, वायुस्तत्प्रभवो वचौ वाति स्म, तेजांसि रत्नादीनां शंशमांचक्रुः अत्यर्थं प्रशान्तानि । शमेर्यङ्लु- गन्तस्य रूपम् । एवं च कृत्वा अनुप्रयोगे परस्मैपदम् । शरबन्धा विशिश्लिपु- विश्लिष्टाः दूरत एव तत्प्रभावात् ॥ A ११३६ - जिरे ऽक्षत - चद् योधा, लेभे संज्ञां च लक्ष्मणः ॥ विभीषणो ऽपि बभ्राजे, गरुत्मान् प्राप चा ऽन्तिकम् ॥ भ्रेजिर इत्यादि-अक्षतवत् अक्षता इव योधा ब्रेजिरे दीप्यन्ते स्म । '२३५४ । फणां च सप्तानाम् ॥६।४।१२५॥ इत्येत्वपक्षे रूपम् । संज्ञां चेतनां लक्ष्मणो लेभे प्राप्तवान्, विभीषणोऽपि बभ्राजे संपन्ना मे मनोरथा इति । अनेस्वपक्षे रूपम् । अन्तिकं च रामलक्ष्मणयोर्गरुत्मान् प्राप । गरुतः पक्षिण'स्तेऽनुजीवितयास्य सन्तीति मतुप् । यवादेराकृतिगणत्वात् '१८९८ । झयः । २।१०।' इति वत्वं न भवति ॥ तथा लक्ष्य-रूपे कथानके 'शर-वन्धो' नाम चतुर्दशः सर्गः११३७ - संपस्पर्शा ऽथ काकुत्स्थौ, जज्ञाते तौ गत-व्यथौ ॥ तयोरात्मानमा॑चख्यौ, ययौ चा ऽथ यथा - गतम्. ६९ संपस्पशैत्यादि – अनन्तरं गरुत्मान् काकुत्स्थौ राघवौ संपस्पर्श स्पृष्टवान्, तौ च स्पृष्टौ गतब्यथौ जज्ञाते जातो, तयोः काकुत्स्थयोरात्मानमाचख्यौ गरु- स्मानहमिति कथितवान् । '२४३७ । वा लिटि ।२।४।१५॥ इति चक्षिङः ख्याज् । ययौ चापि यथागतं यथा तेनागतं तथा गतवान् ॥ ११३८ - स्वेनुस्, तित्विषुरुद्येमुरुच्चख्नुः पर्वतांस् तरून्, ॥ A वानरा दद्रमुश् चा ऽथ संग्रामं चाऽऽशशाशिरे ७० स्वेनुरित्यादि – अथानन्तरं वानराः हृष्टाः स्वेनुः शब्दितवन्तः, तित्विषुः, शोभिताः, 'त्विप दीप्तौ ।' उद्येमुः उद्योगं चक्रुः, पर्वतानुञ्चख्नुः उत्क्षिप्तवन्तः, दनमुः इतस्ततो भ्रान्ताः । 'हम हंम मीट गतौ ।' संग्रामं च आशशाशिरे अभीष्टवन्तः । 'आङः शासु इच्छायाम्' आदादिकोऽनुदात्तेत् ॥ ११३९ - डुढौकिरे पुनर् लङ्कां, बुबुधे तान् दशाननः ॥ जीवतश् च विवेदा डरीन्, वभ्रंशेऽसौ धृतेस्ततः.७१ डुढौकिर इत्यादि - पुनर्भूयो लङ्का डुढौकिरे जग्मुः, तान् वानरान् ढौकितान् दशाननो बुबुधे बुद्धवान्, जीवतश्चारीन् रामादीन् विवेद ज्ञातवान् । अन्यथा कथं वानरा ढौकिताः । ततश्च वृतेः सकाशाद्वअंशे भ्रष्टः ॥ ११४० - सस्रंसे शर बन्धेन दिव्येने॑ति बुबुन्द सः, ॥ बभाजा ऽथ परं मोहमूहांचक्रे जयं न च ॥७२॥ सस्रंस इत्यादि — दिव्येन शरबन्धेन सस्रंसे त्रस्तम् । भावे लिट् । इत्येवं दशाननो बुबुन्द श्रुतवान् । 'बुदि निशामने ।' अथानन्तरं महामोहं मूर्च्छा- कारं बभाज सेवते स्म । न जयमूहांचक्रे वितर्कितवान् ॥ ११४१ - धूम्राक्षो ऽथ प्रतिष्ठासांच रावण-संमतः ॥ सिंहा॒ऽऽस्यैर् युयुजे तस्य वृकऽऽस्यैश् च रथः खगैः ॥ धूम्राक्ष इत्यादि – अथ धूम्राक्षो रावणसंमतो रावणेनानुज्ञातः सन् । भूते निष्ठात्र द्रष्टव्या । प्रतिष्ठासांचक्रे गन्तुमिच्छां कृतवान् । प्रपूर्वात्तिष्ठतेः '२६८९ । समवप्रविभ्यः स्थः ।१।३।१२।' इति तङ् । '२२७० । उपसर्गात् ।८।३।६५।' इत्यादिना षत्वम् । तस्य च गन्तुमिच्छतो रथः खगैः आकाशगामि- भिर्यानैः सिंहमुखैर्वृकमुखैश्च युयुजे युक्तः । कर्मणि लिट् ॥ स्-त्रैः संविव्ययुर् देहान्, वाहनान्य॑धिशिरियरे, ॥ आनर्जुर् नृ-भुजोऽस्त्राणि, क्वञ्जुश् चाऽऽहव- क्षितिम्. ११४२-त्वक्-त्रः ३६४ भट्टि- काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमो वर्गः, त्वरित्यादि – धूम्राक्षसंबन्धिनो नृभुजो राक्षसाः त्वचैः सन्नाहैः । त्वचं त्रायन्त इति देहान् संविव्ययुः छादितवन्तः । '१०६५ । व्येज् संवरणे' इत्यस्य । '२४१६॥ न व्यो लिटि ।६।१।४६।' इत्यात्वप्रतिषेधः । '२४०८ । लिटयभ्यासस्योभ- येषाम् ॥६॥॥१७॥' इति सम्प्रसारणम् । वाहनान्यविशिश्यिरे आरूढवन्तः । '२७२ । एरनेकाचः ।६।४।१२।' इति यण् । '५४२ । अधिशीङ्- ॥४।४६ । इति कर्मसंज्ञा । अस्त्राण्यानर्जुः गृहीतवन्तः । 'अर्ज प्रतियत्वे ।' '२२४७ । अत आदे: ।७।४।७०।' इति दीर्घः । '२२८८ । तस्मान्नु विहलः १७१४१७११' आनचुः इति पाठान्तरम् । पूजितवन्तः । आह्ववक्षितिं च रणभूमिं ववञ्चुर्गाः । 'वञ्चु गतौ' ॥ ११४३ - अध्युवास रथं, तेये पुराच्, चुक्षाव चा ऽशुभम् ॥ संश्रावयांचकारा ऽऽख्यां धूम्राक्षम् तत्वरे तथा ७५ अध्युवासेत्यादि- धूम्राक्षो रथमध्युवास आरूढः । '५५४। उपान्वध्याङ् वसः । ११४.४८ ।' इति कर्मसंज्ञा । पुरात् लङ्कातः तेये निष्कान्तः । 'अय पय तय' इत्यादिषु तयिरनुदात्तेन् । चुञ्जाव च शब्दं कृतवान् अशुभं भयानकम् । 'क्षु शब्दे ।' आख्यां आत्मीयं नाम संश्रावयांचकार श्रावितवान्, तथा तत्वरे त्वरते स्म युद्धाय ॥ 3 9 ११४४ - निलिल्ये मूर्ध्नि गृध्रोऽस्य, क्रूरा ध्वाङ्क्षा ववाशिरे, ॥ शिशीके शोणितं व्योम, चचाल क्ष्मा-तलं तथा ७६ निलिल्य इत्यादि — अस्य धूम्राक्षस्य गच्छतो मूर्ध्नि गृध्रो निलिल्ये निलीनः । '२७२। एरनेकाचः ।६।४।८२ । इति यण् । ध्वालाः क्रूरा: अशुभशंसिनः ववाशिरे वाशन्ते स्म । व्योम कर्तृ शोणितं शिशीके क्षरितवत् । 'शीकृ सेचने' इत्यनुदात्तेत् । तथा क्ष्मातलं पृथ्वीतलं चचाल चलितम् ॥ ११४५ - ततः प्रजघटे युद्धं, शस्त्राण्यसुः परस्परम् ॥ वश्वराजुघूर्णश च स्येमुश, चुकूदिरे तथा ७७ 3 तत इत्यादि — ततो निमित्तादनन्तरं युद्धं प्रजघटे घटितम् ते हरिराक्षसाः वक्ष्यमाणाः शस्त्राण्यासुः क्षिप्तवन्तः परस्परं वनश्रुः छिन्नवन्तः, आजुवर्णः चक्रवद्भ्रान्ताः । वर्णतिरनुदात्तेत् । स्येमुः शब्दं कृतवन्तः । स्यमेः फणादित्वा- देवम् । चुकूर्दिरे क्रीडितवन्तः ॥ ११४६ - रुरुजुर, थ्रेजिरे, फेणुर्, बहुधा हरि-राक्षसाः ॥ " वीरा न बिभयांचक्रुर, भीषयांचक्रिरे परान् ॥७८॥ रुरुजुरित्यादि —— रुरुजुर्भं भवन्तः, ब्रेजिरे शोभिताः, बहुधा बहुप्रकारं फेणुर्गताः 'फण गतौ ।' वीराः सात्त्विका न बिभयांचक्रुः न बिभ्यति स्म । '२४९१ । भी ह्री-भृ-दुवां श्लुवश्च ।३।१।३९ । इत्याम् । बिभेतेः परस्मैपदिश्वात् अनुप्रयोगे तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः5 परस्मैपदम् । परान् शत्रून् शौर्यगुणयुक्ताः प्रयोजकाः भीषयांचक्रिरे भीषयन्ते स्म । अत्र '२५९४। भी स्म्योर्हेतुभये ।१।३।६८ । इति तङ् अनुप्रयोगेऽपि ॥ ११४७ – रक्तं प्रचुश्रुतुः क्षुण्णाः, शिश्वियुर् वाण-विक्षताः ॥ अस्यतां शुशुवुर् वाणान् भुजाः साऽङ्गुष्ठ मुष्टयः.७९ रक्तमित्यादि – केचित् क्षुण्णाः खण्डिताः सन्तो रक्तं प्रचुचुतुः प्रक्षरिताः, केचित् शिश्वियुः । '२४२० । विभाषा वेः ।६॥।३०।' इत्यसम्प्रसारणपक्षै रूपम् । वाणानस्यतां क्षिप्यतां योधानां भुजाः साङ्गुष्टमुष्टय अङ्गुष्टमुष्टिसहिताः शरवि- क्षताः शरभिन्नाः शुशुवुः गताः । गत्यर्थे द्रष्टव्यम् । सम्प्रसारणपक्षे रूपम् ॥ 3 ११४८ - रणे चिक्रीड धूम्राक्षस्, तं ततर्जाऽनिलाऽऽत्मजः ॥ आददे च शिलां, सऽश्वं पिपेषाऽस्य रथं तया ८० रण इत्यादि – धूम्राक्षो रणे चिक्रीड क्रीडति स्म, तमनिलात्मजो हनूमान् ततर्ज भर्त्सितवान्, शिलामादढे च गृहीतवान्, तया शिलया अस्य धूत्राक्षस्य सावं रथं पिपेष चूर्णितवान् ॥ ११४९ - पपात राक्षसो भूमौ रराट च भयंकरम् ॥ 3 . तुतोद गदया चाsरिं, तं दुधावा ऽद्रिणा कपिः ॥ पपातेत्यादि — राक्षसो धूम्राक्षो भूमौ पपात, पतितः सन् भयंकरं रराट रटितवान्, ततोऽरिं हनूमन्तं गढ़या तुतोद आहतवान्, तं राक्षसं स कपिः अद्विणा दुधाव व्यापादितवान् ॥ ११५० - अकम्पनस् ततो योद्धुं चकमे रावणाऽज्ञया । स रथेना ऽभिदुद्राव, जुघुरे चाऽतिभैरवम् ॥ ८२॥ अकम्पन इत्यादि — ततो धूम्राक्षविनाशानन्तरं अकम्पनो राक्षसः रावणा- ऽज्ञया युध्यस्वेति योद्धुं चमके इष्टवान् । '२३०५ । आयादय आर्धधातुके वा ।३।१।३१।' इति णिङभावपक्षे रूपम् । सो ऽकम्पनः रथेनाभिदुद्भाव अभिमुखं गतः, च शब्दं कृतवान्, अतिभैरवं अतिभयानकम् । जुघुरे । 'धुर भीमार्थश- ब्दयोः' इत्यनुदात्तेत् ॥ १९५१ - पस्पन्दे तस्य वामाऽक्षि, सस्यमुश् चाऽशिवाः खगाः ॥ तानू वत्राजा ऽवमत्या ऽसौ, बभासे च रणे शरैः ॥ ८३ ॥ 1 पस्पन्द इत्यादि — तस्याकम्पनस्यानिमित्तत्वसूचकं वामाक्षि पस्पन्दे स्पन्दि- तम्, अशिवाश्च अशिवसूचकाः खगाः सस्यमुः शब्दं कृतवन्तः । अनेत्वपक्षे रूपम् । तान् खगान् अवमत्यावज्ञायासौ वनाज गतः, रणे शरैश्च बभासे शोभितम् ॥ ३६६ भट्टि-काव्ये—- चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथम वर्गः, ११५२ - खर्मूयुर्, वसुधार्मूवुः सायका रज्जु-वत् तताः ॥ तस्माद् बलैरपत्रेपे, पुप्रोथा ऽस्मै न कश्चन ॥८४॥ खमित्यादि – तेन सायका रजुवत्तता विस्तृताः सन्तः खमाकाशमयुराव- तवन्तः । वसुधां च ऊबुझ्छादितवन्तः । '१०७५ । वेञ् तन्तुसन्ताने' तम्य लिटि वाहरादेशः । '२४१४ । वश्चास्यान्यतरस्याम्- । ६ । १।३९।' इति यकारत्य वकारा देशः । तस्मादिति तमकम्पनं वीक्ष्य । ल्यब्लोपे पञ्चमी । त्रेपे लज्जितम् । भावे लिट् । '२३७१॥ तृ-फल-१६।१।१२२ ।' इत्यादिना एत्वाभ्यासलोपौ । अस्मै अक- अपनाय न कश्चित् पुप्रोथ न प्रभवति स्म । '९२६ । प्रोथ पर्याप्तौ' इति स्वरितेत् । अत्र कर्तुः क्रियाफलायोगान्त्रात्मनेपदम् । '५८२ । नमः स्वस्ति । २।३।१६। इत्यत्र अलंशब्दस्य पर्याप्त्यर्थग्रहणात् तदर्थयोगे चतुर्थी ॥ ११५३ - स भस्म - साच् चकाराडरीन्, , दुदाव च कृतान्त-वत् ॥ चुक्रोध मारुतिस्, ताल- मुच्चने च महा-शिखम् ॥ ८५ ॥ - स भस्मसादित्यादि – सोऽकम्पनः अरीन् भस्मसाञ्चकार कार्येन भस भूतान् कृतवान् । यम इव दुगाव सुष्ठु पीडितवान् । 'टुदु उपतापे ।' तं दृष्ट्वा मारुतिश्चक्रोध क्रुद्धः ः । तालं च वृक्षं महाशिख मत्युच्छ्रायं उच्चग्ने उत्खातवान् । अत्र क्रियाफल्योगात् तङ् ॥ ११५४ - यमाया Sकम्पनं तेन निरुवाप महा पशुम् ॥ बज्ज निहते तस्मिन् शोको रावणम॑ग्निवत् ॥८६॥ यमायेत्यादि – तेन तालेन स चाकम्पनं महापशुमिव यमाय निरुवाप दत्तवान् । निष्पूर्वी वपिने वर्तते । तत्र धातोर्यजादित्वात् सम्प्रसारणं न भवति अकित्वात् । अभ्यासस्य लिटि भवत्येव । तस्मिन्निहते शोको झिरिव रावणं बभ्रुज्ज दुग्धवान् ॥ ११५५ - स विष, प्रचुक्षोद, दन्तैरोष्ठं चखाद च ॥ प्रगोपायांचकारा ऽऽशु यत्नेन परितः पुरम् ॥८७॥ स बिभ्रेषेत्यादि- - स राजा विशेष चलितः । 'भ्रेषू चलने' स्वरितेत् । प्रचुशोद क्रोधाोष्टादीन् चूर्णितवान् । ओष्ठं च दन्तैश्वखाद दष्टवान् । पुरं लङ्कां • समन्तात् यत्नेन प्रयोपायांचकार रक्षितवान् । '४२३ । गुप् रक्षणे' इत्युदात्तेत् । आयत्ययान्तरबादाम् ॥ तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गःयुग्मम्११५६-प्रहस्तम॑र्थयांचक्रे योद्धुम॑द्भुत-विक्रमम् ॥ 'किं विचारण, राजेन्द्र ! युद्धाऽर्था वयमि॑त्यसौ ८८ ग्रहस्तमित्यादि- अद्भुतविक्रमं प्रहस्तं रावणो योद्धुं 'युध्यस्व' इत्यर्थयां चक्रे प्रार्थितवान् । '२०५१॥ अर्थ उपयाज्ञायाम्' इति चौरादिक आत्मनेपढ़ी । वचनात् असा महतः प्रार्थितश्चकाण बभाणेनि वक्ष्यमाणेन संवन्धः । हे राजेन्द्र ! युद्धार्थी वयं युद्धप्रयोजनाः ततश्च किं विचारेणेति ॥ 1 ११५७ - चक्काणा शङ्कितो योद्धुर्मुत्सेहे च महा-रथः ॥ निर्येमिरे ऽस्य योद्धारश, चक्लृपे चाऽश्व-कुञ्जरम्.८९ चक्काणेत्यादि- - उक्त्वा च स महारथो योद्धा अशङ्कितो निर्भयः सन् योद्धु- मुत्सेहे उत्साहं कृतवान् । अस्य योद्धारो रावणेन तिर्येमिरे नियमिताः । अनेन सह एतावद्भिर्योद्धव्यमिति । कर्मणि लिहू । अवकुञ्जरं चक्लृपे सज्जीकृतम् । पशु- द्वन्द्वैकवद्भावः । '२३५० । कृपो रो लः ।८।२।१८।' ॥ ११५८ - युयुजुः स्यन्दनान वैरीजुर् देवान् पुरोहिताः ॥ आनचुर् ब्राह्मणान् सम्यगाशिषश् चाऽऽशशंसिरे ९० युयुजुरित्यादि—स्यन्दनान् स्थान् अश्वैर्युयुजः युञ्जन्ति स्म । पुरोहिताः देवानीजुः पूजितवन्तः । यजादित्वात्सम्प्रसारणम् । ब्राह्मणानानचुः पूजितवन्तः । ते च पूजिता आशिषः आशशंसिरे उदितवन्तः । '१०९१॥ आङ: शासु इच्छा- याम्' अनुदात्तेत् । शास इत्वे आङ् । 'शासोः कावुपसङ्ख्यानम्' इत्याशीः ॥ ११५९ - ऊहिरे मूर्ध्नि सिद्धार्था, गावश् चाऽऽलेभिरे भटैः, ॥ प्रचुक्ष्णुवुर् महा ऽस्त्राणि, जिज्ञासांचक्रिरे हयान्. ९१ ऊहिर इत्यादि — भटैर्योधैः सिद्धार्थाः सर्षपाः मूर्ध्नि ऊहिरे ऊढाः । गाव- आलेभिरे स्पृष्टाः कर्मणि लिट्र । महास्त्राणि प्रचुक्ष्णुवुः तेजितवन्तः । यथा वैर्योद्धुं पार्यत इति । '१११० । क्ष्णु तेजने' । भटाः हयान् जिज्ञासांचक्रिरे ज्ञातुमिच्छां कृतवन्तः किमेते योद्धुं क्षमा नेति । '२७३१ । ज्ञा-श्रु-स्मृ-दृशां सनः ।१।३।५७१' इत्यात्मनेपदित्वादनुप्रयोगेऽपि तङ् ॥ 20 युग्मम्- ११६० - ललुः खडान्, ममार्जुश् च ममृजुश् च परश्वधान् ॥ 'अलंचक्रे, समालेभे ववसे, बुभुजे, पपे, ॥ ९२ ॥ ललुरित्यादि – खड्गान् ललुर्गृहीतवन्तः । ११३२ । ला आदाने ।' ममार्जुश्व विशुद्धान् कृतवन्तः । तथा परश्वधान् ममृजुः परशून् शोषितवन्तः । मृजेरजादौ संक्रमे विभाषा वृद्धिः । योद्धुभिर्वक्ष्यमाणैः अलंचक्रे अलंकृतम् । ३६८ भट्टि काव्ये - चतुर्थे तिघ्न्त काण्डे लक्षण-रूपे प्रथमो वर्गः, समालेभे समालब्धम् । वसे आच्छादितम् । १०९२ । वस आच्छादने ॥ बुभुजे भुक्तम् । पपे पीतम् । भावे लिट् ॥ ११६१ - जहसे च क्षणं, यानैर् निर्जग्मे योद्धुभिम् ततः ॥ विप्रान् प्रहस्त आनर्च, जुहाव च विभावसुम् ९३ जहस इत्यादि - क्षणं जहसे हसितम् । यानैः करणभूतैः निर्जग्मे निर्ग- तम् । ततः ग्रहस्तः विप्रान् गोसुवर्णादिदानेन आनर्च पूजितवान् । विभावसुं चाग्निं आज्यादिना जुहाव प्रीणितवान् ॥ ११६२ - संवर्गयांचकारा ऽऽप्तान्, चन्दनेन लिलेप च ॥ चचाम मधु माकं, त्वक्त्रं चाऽऽचकचे वरम्. ९४ संवर्गयामित्यादि – आप्तान् विश्वासिनः संवर्गयांचकार कटकादिप्रदानेन संवर्गितवान् । संवर्ग करोतीति ण्यन्तस्य रूपम् । चन्दनेन लिलेप समालब्ध- चान् । मृद्दीका द्राक्षा तस्या विकारः माकं मधु चचाम । त्वक्त्रं च सन्नहनं वरं श्रेष्ठं आचकचे बद्धवान् । १७७ कड बन्धने' इत्यनुदात्तेत् ॥ ११६३ - उष्णीषं मुमुचे चारु, रथं, च जुजुपे शुभम्, ॥ आललम्बे महाऽस्त्राणि, गन्तुं प्रववृते ततः ॥ ९५॥ उष्णीष मित्यादि – उष्णीषं शिरस्त्राणं मुमुचे । रथं च जुजुषे । जुपिरनु- दात्तेत् । महास्त्राणि आललम्बे गृहीतवान् । '४०३ । लवि अवस्रंसने' इत्यनुदा- तेत् । तत उत्तरकालं गन्तुं प्रववृते प्रवृत्तः ॥ ११६४ - आजघ्नुस् तूर्य-जातानि, तुष्टुवुश् चा ऽनुजीविनः ॥ रजः प्रववृधे घोरं, घोषश् च व्यानशे दिशः ॥ १६ ॥ आजघ्नुरित्यादि- तूर्यजातानि वाद्यसमूहान् आजघ्नुः ताडितवन्तः । तन्नि- युक्ता इत्यर्थात् । '२६९५ । आङो यमहनः । १।३।२७।' इति तङ् न भवति सक. र्मकत्वात् । अनुजीविनश्च तुष्टुवुः । 'जय जीव' इति स्तुवन्ति स्म । पदक्षोभाद्- घोरं रजः प्रववृधे वर्धते स्म । घोषश्च कलकलशब्द: दिशो व्यानशे व्याप्तवान् ॥ १९६५ - तं यान्तं दुद्रुवुर् गृधाः, ऋव्यादश् च सिषेविरे ॥ आववुर् वायवो घोराः, खार्दुल्काश् च प्रचक्षरुः ९७ तं यान्तमित्यादि-तं प्रहस्तं गृध्राः यान्तं अशुभसूचकाः दुद्रुवुर्गतवन्तः, ऋव्यादश्च शृगालाः सिषेविरे सेवितवन्तः, वायवो घोराः पांशुग्राहिणः आवदुः समन्ताद्वान्ति स्म, उल्काश्च तदा तस्मिन् काले प्रचक्षरुः पतिताः । '९०८। क्षर संचलने' इत्यकर्मकः ॥ ११६६ - सस्यन्दे शोणितं व्योम, रणाऽङ्गानि प्रजज्वलुः ॥ रथाः प्रचस्खलुः साऽश्वा, न, ररंहाऽ-श्वकुञ्जरम्. ९८ तथा लक्ष्य-रूपे कथानके 'शर वन्धो' नाम चतुर्दशः सर्गः- ३६९ सस्यन्द इत्यादि – व्योम कर्तृ शोणितं सत्वन्दे सिञ्चति स्म । सन्दिः सकर्मकः । रणाङ्गानि खड्डादीनि जज्वलुः ज्वलन्ति स्म । सावाः सहाश्वैः रथाः ग्रचस्खलुः स्खलन्ति स्म । अश्वकुञ्जरं न ररंह न गतम् ॥ ११६७ - प्रतोदा जगलुर्, वाममा॑नञ्चुर् यज्ञिया मृगाः ॥ ददाल भूः, पुपूरे द्यौः, कपीनाम॑पि निःस्वनैः ॥९९॥ प्रतोदा इत्यादि — प्रतोदा: जगलुः हस्तेभ्यो गलिताः । ५८७ गल अढ़ने' अनेकार्थत्वात्पतनेऽपि । मृगाः यज्ञियाः यज्ञार्हाः कृष्णसाराः । '१७३५॥ यज्ञ- विंग्भ्यां घ-खजौ ।५।१।७१।१ । वाममङ्गमानञ्जुः गतवन्तः । '२२४८। अत आदेः । ७।१।७०।' इति दीर्घः ।'२२८८ । तस्मान्नुङ् दिहलः ।७।४।७१।' भूईदाल विदीर्णा । जज्वालेति पाठान्तरं चचालेत्यर्थः । कपिनिःस्वनैद्यौराकाशं पुपूरे पूर्णम् । दिवः पूरणनिमित्तं यतः कपयो हर्षात्तद्विनाशसूचका एवमाचरन्ति ॥ " ११६८ - मिमेह रक्तं हस्त्य॒भ्वं, राक्षसाश् च नितिष्ठिवुः ॥ ततः शुशुभतुः सेने, निर्दयं च प्रजहतुः ॥ १०० ॥ मिमेहेत्यादि – हस्त्यश्वं कर्तृ रक्तं मिमेह मूत्रितवदित्यर्थः । '१०६१ । मिह सेचने ।' राक्षसाश्च स्वरक्तं नितिष्ठिवुः निरस्तवन्तः । ततो दुर्निमित्तादनन्तरं ते सेने सन्नद्धे शुशुभतुः शोभितवत्यौ । निर्दयं प्रजहूतुः प्रहृतवत्यौ ॥ ११६९ - दिद्विषुर्, दुधुवुश, चच्छुरा, चक्कुमु, सुषुपुर्, हताः ॥ चखादिरे चखादुश् च, विलेपुश् च रणे भटाः ॥ १०१ ॥ दिद्विपुरित्यादि-रणे भटाः द्विद्विषुः परस्परं द्विष्टवन्तः । १०८२ । द्विष अप्रीतौ ।' दुधुवुः अभिमुखं गतवन्तः । '१११३ । द्यु अभिगमने ।' चच्छुः छिन्नवन्तः । १२२१। छो छेदने ।' हताश्चक्कुमुः मूर्च्छा गतवन्तः । सुषुपुः भूमौ पतिताः । वच्यादिना सम्प्रसारणम् । चखादिरे खादिताः । कर्मणि लिटू । चखादुः खादितवन्तः । विलेपुश्च विलापं कृतवन्तः । '२२६०। अत एकहल- ।६।४।१२० ।' इत्येत्वम् ॥ १९७० - प्रहस्तस्य पुरो मात्यान् जिहिंसुर्, दधृषुस् तथा ॥ वानराः, कर्म सेनानी रक्षसां चक्षमे न तत् ॥ १०२ ॥ प्रहस्तस्येत्यादि — अमात्यान् सचिवान् ग्रहस्तस्य पुरोऽग्रतः वानरा जिहिं- सुर्हतवन्तः । तथा दुटषुः परिभूतवन्तः । '१३०५ । जिघृषा प्रागल्भ्ये' । तच्च कर्म वानरैर्यत्कृतं रक्षसां सेनानीः प्रहस्तः न चक्षमे स्म ॥ ३७० भट्टि काव्ये - चतुर्थी तिङन्त झण्डे लक्षण-रूपे प्रथनो वर्गः, १९७१ - ऊर्णुनाव स शस्त्रौषैर् वानराणार्मनीकिनीम् ॥ शशास च बहून्, योधान्, जीवितेन विवेच च ॥ ऊर्जुनावेत्यादि –स सेनानीर्वानराणामनीकिनी: सेनाः शस्त्ररुर्णुनाव छादितवान् । ऊर्णोतेणु॑वद्भावादिजादेरित्याम् न भवति । शशास च योधान् १७७७ । शसु हिंसायाम् ।' जीवितेन च विवेच पृथक् कृतवान् । '१५३६) विचिर् पृथग्भावे' इति रुधादौ स्वरितेत् ॥ — ११७२ - आससञ्ज भयं तेषां, दिद्युते च यथा रविः, ॥ नाऽऽययास, द्विपद् - देहर् जगाहे च दिशो दश. १०४ आससञ्जेत्यादि- तेषां योधानां युयुत्सूनां भयमाससञ्ज आलग्नम् । '१०५६। पञ्ज सङ्गे' इत्यकर्मकः । ग्रहस्तश्च रविरिव दिद्युते द्योतते स्म । '२३४४। युति - स्वाप्योः सम्प्रसारणम् ।७।४।६७।' इत्यभ्यासस्य सम्प्रसारणम् । नाययास युध्यमानो नायस्यति स्म । '१२८६ । यसु प्रयत्ने ।' द्विषहैश्च शत्रुकायैः करण- भूतैः दश दिशो जगाहे अवष्टव्यवान् ॥ ११७३ - केचित् संचुकुटुर् भीता, लेजिरे ऽन्ये पराजिताः, " संग्रामाद् बभ्रुशुः केचिद् ययाचुश् चा ऽपरे ऽभयम् ॥ केचिदित्यादि—–केचिद्भीताः सन्तः संचुकुटुः संकुटिताः । निष्प्रयत्नाः स्थिता इत्यर्थः । '१४५५। कुट कौटिल्ये ।' अन्ये पराजिताः सन्त: लेजिरे भसिताः ग्रह- स्तेन मृगा इव कातरा यूयमिति । '२४७/२४८ । लज-लाजि भर्त्सने ।' कर्मणि लिट् । केचित् संग्रामाभ्रशुः पलायिताः । '१३०३ । भृशु- अंशु अधःपतने ।' अपरे चाभयं ययाचु: याचितवन्तः ॥ ११७४ - एवं विजिग्ये तां सेनां प्रहस्तो, ऽतिददर्प च ॥ शशाम न च संक्रुद्धो निर्जुगोप निशाचरान् ॥१०६॥ एवमित्यादि – एवमुक्तेन प्रकारेण प्रहस्तस्तां सेनां विजिग्ये जितवान् । '२६८५ । विपराभ्यां जेः । १।३।१९। इति तङ् । ' २३३१ । सँल्लिटोर्जेः ।७।३।५७।' इति कुत्वम् । अतिदुदर्प च सुष्ठु हृष्टवान् । '१२७२। दृप हर्षविमोचनयोः' । न च शशाम न च शमं गतः । निशाचरान् स्वीयानमात्यान् निर्जुगोप रक्षितवान् । आयाभावपक्षे रूपम् ॥ " ११७५ - चुक्रुधे तत्र नीलेन, तरुश् चौच्चिक्षिपे महान् ॥ प्रहस्तो ऽभिहतस् तेन वाणान् विससृजे बहून्, १०७ चुक्रुध इत्यादि[-तत्र तस्मिन् संग्रामे नीलेन चुक्रुधे क्रुद्धम् । भावे लिट् । तरुश्चोच्चिक्षिपे उत्क्षिप्तः । कर्मणि लिट् । तेन तरुणा उन्मूलितेनाभिहतः सन् प्रहस्तो बाणान् विससृजे क्षिप्तवान् । '१२५४ । सृज विसर्गे' इति देवादिको अनुदात्तेत् ॥ तथा लक्ष्य-रूपे कथानके 'शर-बन्धो' नाम चतुर्दशः सर्गः- ३७१ ११७६–सेहे कपी, रथा॒ऽभ्वा॑श् च रिपोस् ततर्ह शाखिना, ॥ धरित्रीं मुसली तेथे ग्रहस्तश, चिखिदे न च, १०८ सेह इत्यादि – कपिनलो बाणान् सेहे लोढवान् स्थानवांश्च रिपोः ग्रह- स्तस्य शाखिना तरुणा ततर्ह हतवान् । १५४९॥ गृह-हिसि हिंसायाम् ।' हत- रथाश्वस्य प्रहस्तो मुसली गृहीतमुसलः धरित्रीं तेये गतवान् । '५०८ ५१०। अय पय' इत्यत्र तयिरनुदात्तेत् । न च चिखिदे खिन्नः । १५४३ । खिद् दैन्ये ' इन्यनुदात्तेत् ॥ , ११७७ - संदुधुक्षे तयोः, कोपः, परफाये शस्त्र लाघवम्, 11 नुनोद शाखिनं नील, आवत्रे मुसली तरुम् ॥१०९॥ सन्दुधुक्ष इत्यादि —तयोनीलमहस्तयोः कोपः संदुञ्जुले वृद्धिं गतः । अस्त्र- लाघवमस्त्रकौशलं परफाये वृद्धिं गतम् । नुनोद शाखिनं प्रेरितवान् । मुसली प्रहस्तः तरुमावत्रे मुसलेनावृतवान् ॥ ११७८ वियत्या॑नतुर्, भूमौ मण्डलानि विचेरतुः ॥ , 2 प्रदुद्रुवतुर॑न्योन्यं वीरौ, शश्रमतुर् न च ॥ ११० ॥ वियतीत्यादि — वीरौ तौ वियति आकाशे आनम्रतुः गतौ । '५९७।५९८/- अभ्र-वन' इति गत्यर्थः । वियतोऽधिकरणत्वेन विवक्षितत्वात् द्वितीया न कृता । भूमौ च मण्डलानि तिर्यग्भ्रमणानि विचेरतुः आचरितवन्तौ । अन्योन्यं प्रदुद्रु- वतुः उपतापितवन्तौ । न च शत्रमतुः श्रान्तौ ॥ , ११७९- समीरयांचकारा ऽथ राक्षसस्य कपिः शिलाम् ॥ क्षतस् तया ममारा ऽसावशिश्राय च भू-तलम् ॥ समीरयामित्यादि – अथानन्तरं कपिः राक्षसस्य शिलां समीरयांचकार क्षिप्तवान् । '१९४७। ईर क्षेपे' इति चौरादिक उदात्तेत् । असौ राक्षसस्तया शिलया हतः सन् ममार मृतवान् । भूतलं च आशिश्राय आश्रितवान् । पतित इत्यर्थः ॥ ११८० - तुतुषुर् वानराः सर्वे, नेशुश् चित्रा निशा - चराः ॥ जेरुरांशा दश स्यस्य, सैन्यं नीलं नुनाव च, ॥११२॥ तुतुषुरित्यादि – वानराः सर्वे तुतुषुः तुष्टाः । निशाचरा नेशुः पलायिताः । विचित्रा: नानाप्रकाराः दशास्यस्य आशाः मनोरथा जेरुः जीर्णा: । '२३५६ । वा जृ-भ्रमु-त्रसाम् ।६।४।१२४।' इत्येत्वम् । सैन्यं च कर्तृ नीलं नुनाव स्तौति स्म ॥ १९८१ - यदा न फेलुः क्षणदा-चराणां मनोरथा राम-बाऽभियोगे, ॥ ३७२ भट्टिकाव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, लङ्कां तदा भेजुरु॑दीर्ण- दैन्या, व्याचख्युरुच्चैश् च हतं प्रहस्तम् ॥ ११३ ॥ , यदेत्यादि- क्षणदाचराणां रामबलाभियोगे मनोरथा वाञ्छितानि या न फेदुः न फलिताः, ग्रहस्तस्य व्यापादितत्वात् । तदा लङ्कां भेजुः सेवितवन्तः । उदीर्णदैन्याः उदीर्णं महदैन्यं दीनभावो येषामिति । ग्रहस्तं च हृतं मृतमुच्चैरा- चख्युः आख्यातवन्तः । रावणायेत्यर्थात् ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे प्रथमः परिच्छेदः (वर्गः ), तथा लक्ष्य रूपे कथानके 'शर-वन्धो' नाम चतुर्दशः सर्गः ॥ १४ ॥ पञ्चदशः सर्गःइतःप्रभृति लुङमधिकृत्य तद्विलसितमाह - तत्र भूनसामान्ये लुङ्ग । ततो. अन्यत्रापि दर्शयिष्यति ११८२ - राक्षसेन्द्रस् ततो ऽभैषीदैक्षिष्ट परितः पुरम्, 11 प्रातिष्ठिपच् च बोधार्थ कुम्भकर्णस्य राक्षसान्, १ राक्षसेत्यादि- ततः प्रहस्तवधश्रवणानन्तरं 'ईडशोऽपि व्यापादित ः' इति अभैषीत् । '२४९७ । सिचिवृद्धिः ।७।२।१३।' परितः समन्तात् पुरं लङ्कामैक्षिष्ट दृष्टवान् । 'किमत्र शक्यते स्थातुं न वा' इति । कुम्भकर्णस्य सुप्तस्य बोधनार्थं राक्षसान् प्रातिष्ठिपत् प्रस्थापितवान् । तिष्टतेश्च परे गावुपधाहस्खापवादः । २५८८ । तिष्ठतेरित् ।७।४।५।' इतीत्वम् । द्विवचनमभ्यासकार्यम् । धातोरादेशः पत्वं टुत्वं च ॥ १९८३ ते ऽभ्यगुर् भवनं तस्य, सुप्तं चैक्षिषता ऽथ तम् ॥ व्याहार्षुस् तुमुलान् शब्दान्, दण्डैश् चा ऽवधिपुर् द्रुतम् ॥ २ ॥ तेऽभ्यगुरित्यादि- ते राक्षसास्तस्य कुम्भकर्णम्य भवनं गृहं अभ्यगुः गताः । (२४५८ । इणो गा- ।२।४।४५॥ इति लुङि गादेशः । '२२२३ । गाति-स्था- । २१४१७७१' इति सिचो लुक् । '२२१४ । उस्यपदान्तात् ।६।१।९६ ।' इति पररूप- त्वम् । ते च सुप्समैक्षिषत दृष्टवन्तः । अथानन्तरं प्रबोधार्थं तुमुलान्महतो ध्वनीन् व्याहार्षुः व्याहृतवन्तः । '२२६८ । नेटि ।७।२।१॥ इति वृद्धिप्रतिषेधः । हदसमुदायपरिग्रहणाद्वृद्धेः प्राप्तत्वात् ॥ तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः- ३७३ ११८४ - केशानं लुञ्चिषुस्, तस्य गजान् गात्रेष्वचित्रमन्, ॥ शीतैर॑भ्यषिच॑स् तोयैर॑लातश चाऽप्य॑दम्भिषुः ॥३॥ केशानित्यादि — तस्य केशानलुञ्चिपुः उत्पाटितवन्तः । गात्रेषु गजानचित्र- मन् क्रमयन्ति स्म । क्रमेर्मान्तत्वान्मित्संज्ञायां ह्रस्वत्वम् । चडि सन्बद्भावादभ्या- सस्य '२३१७। सम्यतः ।७१४/७९॥ इति इत्वम् । शीतैस्तोयैरभ्यषिचन् सिञ्चन्ति स्म । अत्र सिचिरभ्युक्षणे वर्तते । तेनोदकस्य करणत्वम् । '२४१८ । लिपिसिचि ह्वश्च ।३।१।५३।' इत्यङ् । '२२७६ । ग्राक् सितादङ्व्यवायेऽपि ।८।३।६३।' इति पत्वम् । अलातैरङ्गारैश्चाप्यदम्भिपुः दग्धवन्तः । अनेकार्थत्वाद्धातूनाम् ॥ ११८५ - नखैर॑कर्तिषुस् तीक्ष्णैर॑दाङ्ङ्क्षर् दशनैस् तथा ॥ शितैर॑तौत्सुः शूलैश् च, भेरीश् चाडवीवदन् शुभाः ४ नखैरित्यादि — तीक्ष्णैर्न खैरकर्तिपुश्छिन्नवन्तः । तथा दशनैतीक्ष्णैरदाङ्क्षुः दशन्ति स्म । दंशेरनिटो हलन्तलक्षणा वृद्धिः । '२९४ । ब्रश्च - ।८।२।३६ ।' इत्या- दिना षत्वम् । '२९५ । षढोः कः सि ।८।२।१४।१। । शितैस्तीक्ष्णैः शूलैरतौत्सुः व्यथयन्ति स्म । तुदेरनिटो हलन्तलक्षणा वृद्धिः । भेरीश्च शुभाः उच्चैः शब्दा अवीवदन् वादितवन्तः । '२३१३ । सन्वलघुनि - ।७।४।१३।' इति सन्वद्भावाद- भ्यासस्येत्वं '२३१८ । दीर्घौ लघोः ।७।४।९४ । इति दीर्घत्वम् ॥ ११८६ - स तान् ना ऽजीगणत् सर्वा- निच्छया ऽवुद्ध च स्वयम् ॥ 3 अबूबुधत कस्मान् मा- मंप्राक्षीच् च निशा चरान् ॥ ५ ॥ a स तानित्यादिइस कुम्भकर्णः तान् सर्वान् उपद्रुतान् नाजीगणत् न गणयति स्म । न वेदितवानित्यर्थः । गणेः स्वार्थिकण्यन्तस्यादन्तस्याभ्यासस्य '२५७३ । ई च गणः ।७।४।१७।' इतीत्वम् । स्वयं चात्मन इच्छयाबुद्ध बुध्यते स्म । '२२८१॥ झलो झलि ।८।२।२६॥ इति सिचो लोपः । निशाचरांश्चाप्राक्षीत् पृष्टचानू । हलन्तलक्षणा वृद्धिः । १२९४ । वश्च - ।८।२।३६।' इत्यादिना षत्वम् । '२९५ । षढोः कः सि ।८।२।४।१॥ कस्मान्मामबूबुधत यूयं प्रबोधितवन्तः । बुधेर्ण्यन्तस्य मध्यमपुरुषबहुवचने '२३१४ । णौ चड्युपधायाः-१७।४।१।' इति ह्रस्वत्वं अभ्यासस्य '२३१८ । दीर्घौ लघोः ।७।४।९४ । इति दीर्घत्वम् ॥ ११८७ - ते ऽभाषिषत 'राजा त्वां दिदृक्षुः क्षणदा-चर !' । सोऽस्नासीद्, व्यलिपन्, मांसम॑प्सासीद्, वारुणीम॑पात् त इत्यादि — ते राक्षसास्तथोक्ताः सन्तः अभाषिषत भाषितवन्तः । हे क्षणदाचर ! राजा रावणस्त्वां दिक्षुः दृष्टुमेषणशील इति । १६२७॥ न लोक भ० का० ३२ ३७४ भट्टि- काव्ये – चतुर्थी तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, –।२।३।६९।' इति षष्टीप्रतिषेधः । स कुम्भकर्णः श्रुत्वा अस्त्रासीत् स्नातवान् । '२३७७। यस-रम–१७:२।७३ ।' इत्यादिना सगिटौ । व्यलिपत् समालिप्तवान् । '२४१८ । लिपिसिचि-।३।१।५३।' इत्यङ् । मांसमप्सासीत् '११२९॥ प्सा भक्षणे ॥ वारुणीमपात् पीतवान् । '२२२३ । गाति-स्था । २ ॥४॥७७) इति सिचो लुक् ॥ १९८८ - न्यवसिष्ट ततो द्रष्टुं रावणं, प्रावृतत् गृहात् ॥ राजा यान्तं तम॑द्राक्षीदुदस्थाच् चैपासनात् ॥ ७ ॥ न्यवसिऐत्यादि — ततो रावणं दृष्टुं न्यवसिष्ट पूर्वनिवसितं वसनं त्यक्त्वा अन्यहस्रं परिदधाति स्म । गृहात् स्वस्मात्प्रावृतत्प्रवृत्तः । २३४५ । सुभ्यो लुहि ।१।३।९१।' इति परस्मैपदम् । '२३४३ । पुपादि-।३।१।५५।' इत्यादिना अङ् । तमायान्तं राजाद्वाक्षीत् दृष्टवान् । '२४०५। सृजिदृशो:- ।६॥५८।' इत्यम् हलन्तलक्षणा वृद्धिः । आसनाच्च ईपदुदस्थात् उत्थितः । अर्ध्वकर्मकत्वादात्मने- पढ़ न भवति ॥ ११८९ - अतुषत्, पीठमा॑सन्ने निरदिक्षच् च काञ्चनम् ॥ अस्मेष्ट कुम्भकर्णोऽल्पमु॑पाविदथा ऽन्तिके. ॥ ८ ॥ अनुपदित्यादि- दृष्ट्वा चातुषत् तुष्टः । पुषादित्वादङ् । आसन्ने चात्मनः काञ्चनं पीठं निरदिक्षत् आदिष्टवान् । दिशे: '२३३६ । शल इगुपधानिटः क्सः ।३॥१।४५ ।' इति क्सः । अथानन्तरं कुम्भकर्णः अस्मेष्ट ईषद्धसितवान् । स चार्थो येनायमादर इति । अन्तिके चास्य काञ्चनं पीठमध्यास्य पीठे उपाविक्षत् उपविष्टः । पूर्ववत् क्सः ॥ १९९० - अवादीन् 'मां किमित्याहो' राज्ञा च प्रत्यवादि सः ॥ 'मा ज्ञासीस् त्वं सुखी, रामो यदेकार्षीत् स रक्षसाम्. ९ अवादीदित्यादि - तत उपविश्य तमवादीदुक्तवान् । '२२६७। वव्रज -।७।२।३।' इत्यादिना वृद्धिः । किमिति कस्मात् कारणात् मामाह्वः आहूतवान् । '२४१८ । लिपिसिचि हृच ।३।१।५३।' इत्यङ् । '२३७२ । आतो लोपः ।६।४।६४ । राजा च स कुम्भकर्णः प्रत्यवादि प्रत्युक्तः । कर्मणि लुङ् । '२७५८॥ चिण् भावकर्मणोः ।३।१।६६ ।' इति चिण् । '२३२९१ । चिणो लुक् ।६।४।१०४ । इति तलोपः । सुखी त्वं येन रामो रक्षसां यदकार्षीत् तत्त्वं मा ज्ञासीः न ज्ञातवा- नसि । '२३७७ । यम-रम- ।७।२।७३ ।' इति सगिटौ ॥ ११९१ - उदतारीदु॑दन्वन्तं पुरं नः परितो ऽरुधत् ॥ 3 व्यद्योतिष्ट रणे शस्त्रैरनैषीद् राक्षसान् क्षयम्. १० उतारीदित्यादि —स युदन्वन्तं समुद्रमुदतारीत् उत्तीर्णः । '२२९७। सिचि वृद्धिः - [७।२।११' नो ऽस्माकं पुरं परितः समन्तादरुधत् आवृतवान् । ९२२६९ । हरितो वा ।३।१।५७ ।' इत्यङ् । रणे शस्त्रैरद्योतिष्ट धोतितवान् । द्युता- तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-चधो' नाम पञ्चदशः सर्गः-३७५ देर्लुङीति विकल्पेन परस्मैपदविधानादात्मनेपदम् । राक्षसान् क्षयं विनाशमन- पीत् नीतवान् ॥ श्र ११९२ - न प्रावोचर्महं किंचित् प्रियं, यावदंजीविषम् ॥ बन्धुस् त्वम॑र्चितः स्नेहान् मा द्विषो न वधीर् मम ११ न प्रावोचमित्यादि – यावदजीविपं यावन्तं कालं जीवितः तावन्तं कालं कस्यचित्प्रियं किंचिन्न प्रावोचं नोक्तवानहमिति तव विदिनमेव । किन्नु वन्धुस्त्वं स्नेहादर्चितः सन् मम संवन्धिनो द्विषः शत्रून् मा न वधीः मान मारय किन्तु मारयेति । माङि लुङ् । सर्वलकारापवाडुः । प्रावोचमिति '२४५४१ वच उम् ।७।४।२२।' ॥ ११९३ - वीर्य मा न ददर्शस् त्वं, मा न त्रास्था: क्षतां पुरम् तवा ऽद्राक्ष्म वयं वीर्य, , ॥ त्वम॑जैषीः पुरा सुरान्' ॥ १२ ॥ वीर्यमित्यादि — त्वं वीर्य मा न ददर्श : किन्तु दर्शय । ण्यन्तस्य चाड रूपम् । क्षतां परैरवसादितां पुरं मा न त्रास्थाः किन्तु त्रायस्व । '१०३४१ त्रैङ् पालने' । न च त्वमशक्तः यतस्तव वीर्यमद्राक्ष्म दृष्टवन्तो वयम् । '२४०७॥ न दृशः ।३।१।४७।' इति क्सादेशो न भवति । '२२६९ । इरितो वा ।३।१।५७। इति विकल्पेनाविधानात्तद्भावपक्षे रूपम् । पुरा पूर्वं त्वं सुरान् देवानजैषीः जितवानसि ॥ 3 ११९४ - अवोचत् कुम्भकर्णस् तं, 'वयं मन्त्रेऽभ्यधाम यत् ॥ न त्वं सर्व तदोषी: फलं तस्यैदमा॑गमत् ॥ १३ ॥ अवोचदित्यादि-इत्युक्तवन्तं तं रावणं कुम्भकर्णो ऽवोचत् उक्तवान् । मन्त्रे मन्त्रणसमये 'क्रियासमारम्भगतोऽभ्युपाय' इत्यादिना यद्वयमभ्यधाम अमि- हितवन्तः । धाधातोः '२२२३ । गाति-स्था ।२।४।७७ ।' इति सिचो लुकू । तत्सर्वं त्वं नाश्रौषीः न श्रुतवानसि । तस्याश्रवणस्येदं फलं विनाशरूपमागमत् आगतम् । गमेऌदित्वादङ् ॥ १९९५ - प्राज्ञ वाक्यान्यवास्था, मूर्ख-वाक्येष्व॑वास्थिथाः ॥ अध्यगीष्ठाश् च शास्त्राणि, प्रत्यपत्था हितं नच १४ प्राज्ञवाक्यानीत्यादि - प्राज्ञानां विभीषणादीनां वाक्यान्यवासंस्थाः अवज्ञातवानसि । '१२५२ । मन ज्ञाने ।' मूर्खवाक्येषु प्रहस्तादिवाक्येषु अवास्थिथाः अवस्थितोऽसि । '२६८९। समवप्रविभ्य स्थः ।१।३।२२।' इति तङ् । '२३८९। स्थाध्वोरिच ।१।२।१७॥ त्वं च शास्त्राण्यध्यगीष्ठा अधीतवानसि । ३७६ भट्टि- काव्ये – चतुर्थे तिताण्डे लक्षण-रूपे द्वितीयो वर्गः, '३४६० । विभाषा लुइ-ङोः ।२।४/५०/' इति इङो गादेशः । न च हितं प्रय- पत्थाः प्रतिपन्नवानसि । '१२४४ । पद गतौ' । '२२८१ । झलो झलि ।८।२।२६। इति सिचो लोपः ॥ ११९६ - मूर्खास् त्वाम॑ववञ्चन्त, ये विग्रहमचीकरन्, ॥ अभाणीन् माल्यवान् युकर्मक्षंस्थास् त्वं न तन् मदात् १५ मूर्खा इत्यादि मूखीः सर्व एवैते त्वामववञ्चन्त विप्रलव्धवन्तः । '१८३६। वज्ञ्चू प्रलम्भने' ण्यन्तस्य '२७३९। गृहि-वञ्चि-।१।३।६९॥ इत्यादिना तङि चङि रूपम् । ये विग्रहमचीकरन् कारितवन्तो भवन्तम् । एप मातामहो माल्य- वान् युक्तमभाणीत् भणितवान् ८४७७॥ भण शब्दे ।' । '२२६६ । इट ईटि ।८।२।२८॥ इति सिचो लोपः । तत् त्वं मदान्नाक्षंस्थाः न सोढवानसि । '४७२ । क्षमू सहने ।' ॥ ११९७ - राघवस्या ऽमुषः कान्तामा॑प्तैरु॑क्तो न चाsपिंपः ॥ मा नाऽनुभूः स्वकान् दोषान्, मा मुहो मा रुषोऽधुना. १६ राघवस्येत्यादि — प्रमादित्वमपि तेऽस्ति । यतो राघवस्य कान्तां अमुषः खण्डितवानसि । खण्डनं चास्या इदं यद्भत्री वियोजनम् । 'मुस खण्डने ।' पुषादिस्वाद पुपादयश्च गणान्ता गृहीताः । आतैविभीपणादिभिरुक्तो न चार्पिपः नार्पितवानसि कान्ताम् । अर्ते '२५७०। अर्ति-ही- । ७।३।३६ ।' इत्यादिना पुगन्तगुण: । चडि '२२४३ । द्विर्वचने ऽचि १११११५९॥ इति स्थानिवद्भावात् '२१७६ । अजादेर्द्वितीयस्य । ६।१।२।' इति पिशब्दो द्विरुच्यते । रेफस्य '२४४६ । नन्द्राः ।६।१।३।' इति प्रतिषेधः । तदधुना स्वकानात्मीयान्दोषान् दुश्चरितानि मा नानुभूः, अपि त्वनुभव । २२१९ । माडि लुङ् ।३।३।१७५॥ । '२२२३ । गाति-स्था ।२।४॥७७।' इति सिचो लुक् । मा मुहः मोहं मा गमः । मा रुषः रोषं मा कार्षीः । मुहिरुषिभ्यां पुषादित्वाद ॥ १९९८ - तस्याऽप्य॑त्यक्रमीत् कालो, यत् तदाऽहम॑वादिषम् ॥ अघानिषत रक्षांसि परैः, कोशांस् त्वमव्ययीः १७ तस्येत्यादि — यत्तदा तस्मिन् कालेऽहमवादिषं अभिहितवानस्मि । 'रामः सन्धीयताम्' इति तस्यापि सन्धेः कालो ऽत्यक्रमीदतिक्रान्तः । '२२२३। नुक्र- मोरनात्मनेपदनिमित्ते ।७।२।२३६।' इतीट् । मान्तत्वाद्वृद्धिप्रतिषेधः । यतः परैः शत्रुभिः रक्षांस्यघानिषत हतानि । चिण्वद्भावाद्वृद्धिघत्वे । त्वं च कोशमव्ययीः त्यक्तवानसि । लङ्कादाहे तस्यारक्षितत्वात् । '२०८२ । व्यय वित्तसमुत्सर्गे' इति सुरादौ पठ्यते । यदा 'आटषाद्वा' इति णिज नास्ति तदा रूपम् । '२२९९ ॥ इयन्त ।७।२॥५॥' इत्यादिना वृद्धिप्रतिषेधः । 'व्यय गतौ' इत्यस्यापि रूपम् । अनेकार्थत्वाद्धातूना मुत्सर्जनेऽपि द्रष्टव्यम् ॥ तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः-३०७ १९९९ - सन्धान कारणं तेजो न्यगंभूत् ते, कृथासू तथा ॥ यत् त्वं वैराणि कोशं च सह-दण्डम॑जिग्लपः.' १८ सन्धानेत्यादि — तथा त्वमकृथाः कृतवानसि । २५१७ । तनादिभ्यस्त- यासोः १२।४।७९।' इति सिचो लुक् । यथा सन्धानकारणं सन्धानहेतुकं यत्तव तेजः प्रचण्डत्वं तत् न्यगभूत् न्यग्भूतम् । '२३२३। गाति-स्था- २१४१७७′ इति सिचो लुक् । कुत इत्याह । यत्त्वं वैराणि शत्रुभावान् कोशं च सहदण्डं ससैन्यमजिग्लपः ग्लपितवानसि । ग्लायतेणौं पुकि 'ग्ला-स्ना-वनु-वमां च' इति मित्त्वात् हस्वत्वम् । ग्लापयतेश्चङि रूपम् । यदि हि तेजो भवेत् सर्व तथावस्थितमेव स्यात् ततश्च तेजसो ऽभावात् कथं सन्धानं द्वयोः परस्परानुप- तापात् । यथोक्तं यावन्मानमुपकुर्यात् तावन्मानमेवास्य प्रत्युपकुर्यात् । तेजो हि सन्धानकारणं तप्तं लोहं तप्तेन लोहेन सन्धत्त इति ॥ १२०० - अक्रुधच् चाऽभ्यधाद् वाक्यं कुम्भकर्ण दशाननः ॥ 'किं त्वं माम॑जुगुप्सिष्ठा, नैदिधः स्व-पराक्रमम्. १९ अक्रुधदित्यादि — अथैवमुक्ते दशाननः अक्रुधत् क्रुद्धवान् । पुषादित्वादङ् । क्रुद्धश्च कुम्भकर्णमभ्यधात् अभिहितवान् । '२२२३ । गाति-स्था ।२।४॥७७ । इति सिचो लुक् । किमिति त्वं मां अजुगुप्सिष्टाः निन्दितवानसि । स्वविक्रमं नैदिधः न वर्धितवानसि । एवधातोर्ण्यन्तस्य चडि स्थानिवद्भावात् '२१७६ । अजादेवि तीयस्य । ६।१।२।' इति धिशब्दो विरुच्यते ॥ १२०१ मौज्जिग्रहः सु-नीतानि, मा स्म कंस्था न संयुगे ॥ मौपालब्धाः कृतैर् दोषैर् मा न वाक्षीर् हितं परम्. २० मोजिग्रह इत्यादि – सुनीतानि सुनयान् मा उजिग्रहः मा उग्राहय । अहेर्ण्यन्तस्य चङि रूपम् । संयुगे युद्धे विषयभूते मा क्रंस्था मोत्साहं न कार्षीः अपि तूत्सहस्त्र । '३२२० । स्मोत्तरे लङ् च ।३।३।१७६।' इति चकाराल्लुङ । '२७११। वृत्ति-सर्ग-।१।३।३८।' इत्यादिना क्रमेः सर्गे उत्साहे तङ् । दोषैः अस्म- स्कृतैः मोपालब्धाः मोपालभव । '२२८१ । झलो झाले ।८।२।२६।' इति सिचो लोपः । '२२८०। झषस्तथोर्धो धः ।८।२।४०॥' '५२ । झलां जश झशि ।८।४।५३॥' हितं परं कार्यस्य मा न वाक्षीः मा न वह किन्तु वह । वहेरनिटो हलन्तलक्षणा वृद्धिः । ढत्वकत्वषत्वानि ॥ १२०२ - कुम्भकर्णस् ततो ऽगर्जीदू, भटांश् चा ऽन्यान् न्यवीवृतत् ॥ उपायंस्त महाऽस्त्राणि, निरगाच् च द्रुतं पुरः ॥ २१ ॥ ३७८ भट्टिकाव्ये – चतुर्थे तिङन्त काण्डे लक्षण-रूपे द्वितीयो वर्गः, कुम्भकर्ण इत्यादि- ततस्तद्वचनानन्तरं कुम्भकर्णो गर्जोत् गर्जितवान् । अन्यांश्च भटान् पृष्ठतो गच्छतो न्यत्रीवृतत् निवर्तितवान् । वृतेश्चपरे णावु. पधाया '२५६७। उर्जत् ।७।४।७।' इत्यपवाद ऋकारादेशः । महास्त्राणि उपायंस्त्र स्वीकृतवान् । औपचारिकमत्र स्वीकरणं तेन तङ् । यदि वा उपाइपूर्वाद्यमेः '२७४०१ समुद्राभ्यो यमोऽग्रन्थे ।१।३।७५।' इति तङ् । पुरश्च लङ्कातः द्रुतं नेिरगात् निर्गतः । इणो गादेशः । '२२२३ । गाति ।२।४।७७।' इति सिचो लुक् ॥ १२०३ - मूर्ध्ना दिवमिधा ऽलेखीत्, खं व्यापद् वपुपौरुणा, ॥ पादाभ्यां क्ष्मामिवा ऽभैत्सीत्, दृष्ट्या sधाक्षीदिव द्विपः ॥ २२ ॥ मूर्ध्नत्यादि-निर्गच्छन् मूर्ध्ना दिवमलेखीदिव लिखितवानिव । उरुणा महता वपुपा खं व्यापत् व्याप्तवान् । हृदित्त्वादङ् । क्ष्मां पृथ्वीं पादाभ्यामभै. सोदिव विदारितवानिव । द्विपः शत्रून् दृष्ट्याधाक्षीदिव भस्मसात् कृतवानिव । '१०६०। दह भस्मीकरणे ॥ 15 १२०४ - दग्ध-शैल इवा ऽभासीत्, प्रास्त क्षय- मेघ-वत् ॥ प्राचकम्पदन्वन्तं, राक्षसान॑प्य॑तित्रसत् ॥ २३ ॥ दग्धशैल इत्यादि - महत्त्वात् कृष्णत्वाच्च दग्धशैलवदभासीत् भाति स्म । '११२५॥ भा दीप्तौ' । '२३७७ । यम-रम- ।७।२।७३ ।' इति सगिटौ । क्षयमे- घवत्प्राक्रंस्त प्रस्थितः । '२७१५ । ग्रोपाभ्यां समर्थाभ्याम् ॥३।४२ ।' इति तङ् । प्रतिष्टमानश्च उदन्वन्तमचकम्पत् कम्पितवान् । '४०१ । कपि चलने' इदितो ण्यन्तस्य चङि रूपम् । राक्षसानपि अतित्रसत् त्रासितवान् । त्रसे- पर्यन्तस्य चङि रूपम् ॥ १२०५ - स पक्षो ऽद्रिरि॑िवा ऽचालीन्, न्यश्वसीत् कल्प- वायु-वत् अभाषद् ध्वनिना लोका- न॑भ्राजिष्ट क्षयाऽग्निवत् ॥ २४ ॥ सपक्ष इत्यादि सपक्ष इवाद्रिः बाह्वोः पक्षानुकारित्वात् अचालीत् चलितः । लान्तत्वात्सिचि वृद्धिः । क्रोधाकल्पान्तवायुवत्र्यश्वसीत् निश्वसितवान् । '२२९९ ॥ हृयन्त ।७।२।५।' इति वृद्धिप्रतिषेधः । ध्वनिना लोकानभाषत् पूरितवान् । '९६४ । भृज् भरणे ।' ईडन्तस्य सिचि वृद्धिः । अभ्राजिष्ट भ्राजते स्म । क्षयाग्नि- वत् पिङ्गलकेशत्वात्, लोकविनाशहेतुत्वाच ॥ १२०६ - अनंसीद् भूर् भरेणा ऽस्य, रंहसा शाखिनो ऽलुठन्, ॥ " ॥ तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधो' नाम पत्रदशः सर्गः- ३७९ सिंहाः प्रादुद्रुवन् भीताः, प्राक्षुभन् कुल पर्वताः ॥ २५ ॥ अनंतीदित्यादि-अस्य भरेण भूरनंसीत् नता । ' २३७७॥ यम-रम- ।७।२।७३॥ इति सगिटौ । रंहसा वेगेन शाखिनो वृक्षा अलुटन् पतिताः । '३५७ । रूठ लुट प्रनिवाते' । धुतादित्वादङ् । युतादीनामनुदात्तत्त्वात्तडू । ८२३४५॥ बुभ्यो टुङि ।१।३।११।' इति परस्मैपदविकल्पः । सिंहाः भीताः सन्तः प्रादु- ब्रुवन् पलायिताः । '१३१२ । णि-श्रि -१३।१।४८।' इलादिना चङ् । कुलपर्वताः प्राक्षुभन् संचलिताः । तादित्वा । पूर्ववनात्मनेपदम् ॥ , १२०७ - उत्पाताः प्रावृत॑स् तस्य, द्यौरशीकिष्ट शोणितम् ॥ वायवोऽवासिषुर् भीमाः, क्रूराश् चाडकुपत द्विजाः, २६ उत्पाता इत्यादि — तस्य गच्छत उत्पाताः प्रावृतन् प्रवृत्ताः । १८११ वृतु वर्तने' धुतादिः । द्यौः शोणितमशीकिष्ट सिञ्चति स्म । '७७ । शीकू सेचने' अनुदात्तेत् । वायवो भीमाः प्रचण्डा अवासिपुर्वान्ति स्म । '२३७७ । यम-रम- १७७२।७३।' इति सगिटौ । क्रूराश्चाशुभसूचका द्विजाः पक्षिणोऽकुषत शब्दिताः । '१४९४ । कुडू शब्दे' इत्यानिट् । कुटादित्वात् सिचः कित्वे न गुणः ॥ १२०८ - अस्पन्दिष्टा ऽक्षि वामं च, घोराश् चा Sराटिषुः शिवाः ॥ न्यपतन् मुसले गृध्रा, 3 दीप्तया sपाति चोल्कया. ॥ २७ ॥ अस्पन्दिष्टेत्यादि – वामं चास्याक्षि अस्पन्दिष्ट स्पन्दते स्म । घोराः अनि- प्रशंसिन्यः शिवाः अराटिपू रटन्ति स्म । '३३८४ । अतो हलादेः-१६।२।७।' इति वृद्धिविकल्पः । गृध्रा मुसले न्यपतन् उपविष्टवन्तः । हृदित्त्वादङ् । '३२५५॥ पतः पुम् ।७।४।१९।' इति पुमागमश्च । दीप्तया उल्कया अपाति पतितम् । भावे चिणादेशः ॥ १२०९ - आंहिष्ट तानं संमान्य दर्पात् स प्रधन- क्षितिम् ॥ — ततोऽनर्दीदनन्दीच् च, शत्रूना॑ह्रास्त, चाऽऽहवे. २८ आंहिष्टेत्यादि — तान् उत्पातान् कुम्भकर्णोऽसंमान्य दर्पादवज्ञाय प्रधनक्षितिं युद्धभूमिमांहिष्ट गतवान् । तत उत्तरकालं अनर्दीत् गर्जितवान् 'क्व यास्यथेदानीम्' इति । अनन्दीच्च जयश्रियं धितवानित्यर्थः । आहवे संग्रामे शत्रूनाह्वास्त आहूतवान् 'आगच्छत, युध्यध्वम्' इति । '२७०४ । स्पर्धा१- '१२३६ । दन्त - विप्राइण्डजा द्विजाः ॥" ३८० भट्टि - काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, थामाङः ।३।३।३१।' इति तङ् । '२४२९ । आत्मनेपदेष्वन्यतरस्याम् ।३।१।५४ इत्यङभावपक्षे रूपम् ॥ ; १२१० - प्राशीन् न चा ऽतृपत् क्रूरः, क्षुच् चाऽस्याऽवृधर्दश्नतः ॥ अधाद् वसाधासीच च रुधिरं वन-वासिनाम् ॥ २९ ॥ प्राशीदित्यादि - ग्राशीत् भक्षितवान् । वनवासिन इत्यर्थात् । न चासौ क्रूरः दुष्टचेता अतृपत् तृप्तवान् । पुपादित्वादङ् । अनतोऽप्यस्य खादतः क्षुत् बुभुक्षा अवृधत् वर्धते स्म । '८१२ । वृधुवृद्धौ हुतादिः । वनवासिनां वान. राणां वसामधात् पीतवान् । '२३७६ । विभाषा घ्रा धेट्-।२।४।७८ ।' इति सिचो कूप रूपम् । रुधिरं चाधासीत् । '२३७५ । विभाषा धेटू-श्वयोः ।३।११४९॥ इति चङभावपक्षे रूपम् ॥ १२११ - मांसेना ऽस्या ऽश्वतां कुक्षी, , जठरं चा ऽप्य॑शिश्वियत् ॥ बहूनाम॑ग्लुचत् प्राणा- नग्लोचीच् च रणे यशः ॥ ३० ॥ • मांसेनेत्यादि — वनवासिनां मांसेनास्य कुम्भकर्णस्य कुक्षी उदरपाऔँ अश्वतां शूनौ । '२२९१ । जृ-स्तम्भु ।३।११५८ ।' इत्यादिना अङ् । '२४२१॥ श्वयतेरः। ७१४।१८।' इत्यत्वम् । जठरं चोदरमशिश्वियत् शूनम् । '२३७५ । विभाषा धेटू. योः ।३।१॥४९॥ इति चङ् । इयङादेशः । बहूनां वनवासिनां प्राणानग्लुचत् हृतवान् । '२०६। ग्रुचु-ग्लुचु-कुजु-खजु स्तेयकरणे' । '२२९१। जृ-स्तम्भु–।३।१॥५८।' इत्यादिना अविकल्पनादङभावपक्षे रूपम् । यशश्च बहूनां रणे अग्लोचीत् अपनीतवान् । 'वञ्जु चञ्चु' इत्यादौ ग्लुचिर्गत्यर्थः । अङभावपक्षे रूपम् ॥ १२१२ - सामर्थ्य चा ऽपि सो ऽस्तम्भीद् विक्रमं चाऽस्य ना ऽस्तभन्, ॥ शाखिनः केचिद॑ध्यर् न्यमाङ्क्षुरंपरे ऽम्बु धौ ॥ ३१ ॥ सामर्थ्य मित्यादि- - स कुम्भकर्णः केषांचिद्दलवतामपि वनवासिनां साम- र्थ्यमस्तम्भीत् नियमितवान् । अङभावपक्षे रूपम् । विक्रमं च केचिदस्य नास्तभन् नियमितवन्तः । अकूपक्षे रूपम् । कित्यनुनासिकलोपः । केचिद्भयाद् वृक्षान- ध्यछुः अधिष्ठितवन्तः । तिष्ठतेः '२२२३ । गाति-स्था- । २।४।७७।' इति सिचो हुन् । तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधो' नाम पञ्चदशः सर्गः- ३८१ आदेशसकारस्य षत्वं टुत्वं च । अपरेऽम्वुधौ न्यमाङ्गुर्निमनाः '२५७७॥ मस्जि- नशोर्झलि ।७।१॥६०।' इति नुम् । मरुजेरन्त्यात्पूर्व नुममिच्छन्ति । अनुषङ्गसंयो- गादिलोपार्थम् ॥ १२१३ – अन्ये त्य॑लङ्घषुः शैलान्, गुहास्व॑न्ये न्यलेषत, ॥ केचिदा॑सिपत स्तब्धा, भयात् केचिदंघृणिषुः ॥३२॥ अन्ये त्वित्यादि — अन्ये शैलानलङ्घिषुः भयादारूडा इत्यर्थः । अन्ये गुहासु न्यलेपत । '१२१४। लीङ श्लेषणे' । केचित् स्तब्धाः स्थाणुवदासिषत आसते । अपरे भीत्या भयात् अघूर्णिषुः घूर्णन्ते स्म ॥ १२१४ उदातारिषु॑रम्भो-धिं वानराः सेतुना ऽपरे, ॥ अलजिष्टाऽङ्गदस् तत्र, प्रत्यवास्थित चौर्जितम् ३३ उतारिपुरित्यादि — अपरे वानराः सेतुना अम्भोधिमुदृतारिपुः उत्तीर्णाः । तत्र तेषु तथाभूतेष्वङ्गदोsलजिष्ट लज्जते स्म । ऊर्जितं च पराक्रमं प्रत्यवास्थित प्रतिपन्नवान् । '२६८९ । समवप्रविभ्यः स्थः ।१।३।२२॥ इति तङ् । '२३६९ । हस्वादङ्गात् ।८।२।२७।' इति सिचो लोपः ॥ १२१५ - सत्त्वं समदुधुक्षच् च वानराणाम॑युद्ध च ॥ ततः शैलानु॑दक्षैप्सुरुदगुरिपत दुमान् ॥ ३४ ॥ सत्त्वमित्यादि - वानराणां सत्त्वं समदुधुक्षत् सन्दीपितवान् । धुझेः सन्दी- पनार्थात् ण्यन्ताच्लेश्चङ् । स्वयमयुद्ध च युध्यते स्म । '२२८१ । झलो झलि ।७।२।२६।' इति सिचो लोपः । ततः सत्त्वध्रुक्षणानन्तरं वानराः शैलानुदक्षैप्सुः उत्क्षिप्तवन्तः । हलन्तलक्षणा वृद्धिः । द्रुमांश्चोदगुरिषत उत्थापितवन्तः । '१८२६। गूरी उद्यमने' ॥ १२१६ - अनर्दिषुः कपि-व्याघ्राः, सम्यक् चा ऽयुत्सताऽऽहवे, ॥ तान॑मर्दीद॑खादीच॒ च, निरास्थच् च तऽऽहतान् ॥ ३५ ॥ अनर्दिषुरित्यादि-उत्क्षिप्तशैलद्रुमाः कपिव्याघ्रा अनर्दिषुः नर्दितवन्तः 'दृष्टोऽस्माभिः क्व यास्यसि' इति । सम्यक् निर्भयमाहवे अयुत्सत युध्यन्ते स्म । '२६१३ । हलन्ताञ्च ।१।२।१८।' इति सिचः कित्त्वे गुणाभावः । तान् प्लवङ्गमान् युध्यमानान् कुम्भकर्णोऽमर्दीत् मृदितवान् । मृदेर्लघूपधगुणः । अखादीच्च भक्षि- तवान् । हस्ततलेनाहतान् निरास्थत् इतस्ततः क्षिप्तवान् । '२४३८ । अस्यति –।३।१॥५२।' इत्यादिना अङ् । '२५२०॥ अस्यतेस्थुक् ।७।४।१७।' ॥ ३८२ भट्टि - काव्ये – चतुथे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, १२१७ - प्राचुचूर्णच् च पादाभ्याम॑विभीपत च द्रुतम्, ॥ अतींच् चैव शूलेन कुम्भकर्णः प्लवङ्गमान् ॥३६॥ प्राचुचूर्णदित्यादि-पाड़ाभ्यां प्राचुचूर्णत् पिष्टवान् । '१६५७। चूर्ण प्रेरणे' इति चुरादिः । एवं चूर्णयन् द्रुतमविभीषत भीपयते स्म । २५९५ । भियो हेतु- भये पुक्।७।३।४०।' । '२५९४ । भी स्म्योर्हेतुभये ॥३।६८।' इति तल । शुलेन ग्रहरणेन अतींच्च विद्धवान् । '१५४९॥ तृह हिंसायाम् ।' त्र्यन्तत्वान्न वृद्धिः ॥ १२१८ - अतौत्सीद् गदया गाढम॑पिषच् चौपगूहनैः ॥ " 3 जानुभ्याम॑दमीच् चाऽन्यान्, हस्त॑ वर्तम॑वीवृतत् ॥ अतौत्सीदित्यादि-कांश्चिद्गदया गाढमतौत्सीत् व्यथितवान् । उपगूहुनैरविपत् चूर्णितवान् । ऌढ़िवादङ् । अन्यांश्च जानुभ्यां अमीत् शासितवान् । अवष्टभ्य नियमितवा नित्यर्थः । ह्यन्तत्वान्न वृद्धिः । हस्तवर्तमवीवृतत् हस्ताभ्यां वर्तितवान् पिष्टवानित्यर्थः । वृतेर्ण्यन्तात् '३३६० । हस्ते वर्ति ग्रहोः । ३।४।३१। इति णमुल । '३३६६ । कपादिषु यथाविध्यनुप्रयोगः ।३।४।४६ । ॥ १२१९ - अदालिपुः शिला देहे, चूर्ण्यभूवन् महा-द्रुमाः ॥ क्षिप्तास् तस्य न चा ऽचेतीत् M तान सौ, ना ऽपि चा ऽक्षुभत् ॥ ३८ ॥ अदालिपुरित्यादि – वानरैस्तस्य देहे क्षिप्ताः शिला अदालपुर्विशीर्णाः । ८५८९ । दल विशरणे ।' भौवादिकः । लान्तत्वाद्वृद्धिः । महाद्रुमा चूर्ण्यभूवन् चूर्णीभूताः । न च तान् क्षिप्तानसौ कुम्भकर्णो अचेतीत् चेतितवान् । '३९॥ चिती संज्ञाने ।' नापि चाक्षुभत् क्षुभितः । १३१८। क्षुभ संचलने' दिवादिः ॥ १२२० - अद्राष्टां तं रघु-व्याघ्रौ आख्यच् चैनं विभीषणः ॥ तं 'एष व्यजेष्ट देवेन्द्र नाऽशङ्किष्ट विवस्वतः ॥३९॥ अद्राष्टामित्यादि —तं तादृशा रघुव्याघ्रौ रामलक्ष्मणावद्राष्टां दृष्टवन्तौ । विभीषणश्चैनमाख्यत् कथितवान् 'कुम्भकर्णोऽयम्' इति '२४३८। स्यति- ।३।१॥५२॥' इत्यादिनाऽङ्ग । 'प्रभावं चास्य कथयन्नाह - देवेन्द्रमेष व्यजेष्ट विजितवान् । '२६८५ । वि-पराभ्यां जेः ।१।६।१९।' इति तङ् । विवस्वतः सूर्यात् नाशङ्किष्ट न शङ्क्ते स्म ॥ M १२२१ - यक्षेन्द्र - शक्तिमच्छासीन्, ना ऽप्रोथीद॑स्य कञ्चन ॥ कुम्भकर्णान्न भैष्टंमा युवाम॑स्मान् नृपऽऽत्मजौ ॥ " यक्षेत्यादि – यक्षेन्द्रस्य कुबेरस्य शक्ति प्रहरणमच्छासीत् खण्डितवान् । '१२२१॥ छो छेदने ।' अस्य तु कश्चन कश्चित नाप्रोधीत न पनवि था। तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः- ३८३ प्रहरणायेत्यर्थात् । '९२६ । प्रोथ पर्याप्तौ ।' पर्याप्तियोगे चतुर्थी न भविष्यति पर्याप्तेरविवक्षितत्वात् । अतोऽस्मादेवंविधात् कुम्भकर्णात् युवां नृपात्मजौ मा न भैष्ट किन्तु बिभीतम्। '२२१९। माङेि लुङ् ।३।३।१७५१ मध्यमपुरुषद्विवचने रूपम् । माशब्दः प्रतिषेधे ॥ १२२२-घ्नन्तं मौपेक्षिपाथां च, मा न कर्ष्टमि॑िहाऽऽदरम् ॥ 13 'अमुं मा न बधिष्ठे'ति रामोऽवादीत् ततः कपीन्. ४१ घ्नन्तमित्यादि – तस्मात् नन्तनेनं युवां मोपेक्षिषायां मोपेक्षको भूतमित्यर्थः । इह च कुम्भकर्णे आदरं मा न काट अपि तु कुरुतम् । ततो विभीषणवचनानन्तरं रामः कपीनवादीत् उक्तवान् । अमुं कुम्भकर्ण मा न वधिष्ट इति किन्तु तेति । '२४३३ । हनो वध लुङि ।२।४।४२॥ ॥ १२२३ ते व्यरासिषुराह्वन्त राक्षसं चा ऽप्यपिष्ठवन्, अवभासन् स्वकाः शक्तीर्, द्रुम-शैलं व्यकारिषुः ४२ K त इत्यादि — ते वानराः हर्षाव्यरासिपुः किलकिलाशब्दं कृतवन्तः । '२२८४ अतो हलादेः- ।७।२।७।' इति वृद्धिः । राक्षसं च कुम्भकर्णमाहन्त स्पर्धमाना आहूतवन्तः । '२४१९। आत्मनेपदेष्वन्यवरस्याम् ।३।१।५४॥ इति ह्वेनः पक्षे अङ् । अपिप्लवन् प्लावितवन्तः । अपिः शब्दार्थे । तथा कृतवन्तः यथासौ लुतिं कर्तुमारव्धः प्लवतेर्ण्यन्तस्य चङि सन्वत्कार्यमिति । '२५२८ । स्रवति शृणोति- ।७।४।८१।' इत्यादिना अभ्यासस्येत्वम् । स्वका आत्मीयाः शकीस्वभासन् प्रकाश- यन्ति स्म । भासेर्ण्यन्तस्य चङि '२५६५॥ भ्राज-भास - ।७।४।३।' इत्यादिना उपधा. इ॒स्वविकल्पः। द्रुमाश्च शैलाश्च द्रुमशैलम् । '९१० । जातिप्राणिनाम् ।२।७४६ इत्येकवद्भावः । व्यकारिषुः तदुपरि क्षिप्तवन्तः । '१०५३॥ कृ विक्षेपे' ॥ १२२४ ते तं व्याशिषता ऽक्षौत्सुः पादैर, दन्तैस् तथा ऽच्छिदन्. ॥ आर्जिजत् शरभो वृक्षं, नीलस् त्वा sऽदित पर्वतम् ॥ ४३ ॥ ते तमित्यादि – ते वानरास्तं राक्षसं व्याशिषत व्याप्तवन्तः । '१३४५। अझू व्याप्तौ ।' पादैश्चाक्षौत्सुः पिष्टवन्तः । १५२७ । क्षुदर् सम्पेषणे ।' दन्तैरच्छिदन् छिन्दन्ति स्म ।'२२६९ । इरितो वा ।३।१।५७१' इत्यङ् । शरभो नाम कपिवृक्ष- मार्जिजत् ग्रहीतुं यतते स्म । '१८५८ अर्ज प्रतियत्ने' इति स्वार्थिकण्यन्ताच्चङि- '२२४३ । द्विर्वचनेऽचि ।१।१।५९। इति स्थानिवद्भावात् ८ २१७६ । अजादेर्द्विती- यस्य ।६।१।२।' इति द्विवचनम् । रेफस्य '२३४६ । नन्द्राः ।६।१॥३।' इति प्रति- षेधः । नीलः पर्वतमादित गृहीतवान् । '२३८९ । स्था-ध्वोरिञ्च ॥।२।१७॥ ॥ । ३८४ भट्टि - काव्ये - चतुर्थे तिङन्त काण्डे लक्षण-रूपे द्वितीयो वर्गः, . ॥ १२२५ - ऋषभो ऽद्रीनु॑दक्षैप्सीत्, ते तैर॑रिर्मतर्दिषुः ॥ अस्फूर्जीद्, गिरि-शृङ्गं च व्यस्राक्षीद् गन्धमादनः ॥ ऋपभ इत्यादि - ऋपभो नाम कपिरद्वीनुदक्षैप्सी उक्षितवान् । ते शर- भादयस्तैर्वृक्षादिभिररिमर्दिपुः हृतवन्तः । ५९। तर्द हिंसायाम् ।' गन्धमादनो नाम कपिरस्फूर्जीत् वज्रमिव । गिरिशृङ्गं च व्यसाक्षीत् विसृष्टवान् । सृजिस्ती- दादिक उदात्तेत् ॥ ww १२२६ - अकुर्दिष्ट, व्यकारीच् च गवाक्षो भू-धरान् वहून्. ॥ स तान् नाऽजीगणद् वीरः कुम्भकर्णोऽव्यथिष्ट न. ४५ अकृर्दिष्टेत्यादि — गवाक्षो नाम कपिः अकूर्दिष्ट क्रीडापूर्वकं चेष्टते स । भूधरान् महीधरांश्च व्यकारीत् विक्षिप्तवान् । वीरः कुम्भकर्णस्तान् शरभादीन् नाजीगणत् न गणयामास । अजगणदिति पाठान्तरम् । तन्त्र चकारेणात्वमप्यनु. वर्तते । न चाव्यथिष्ट व्यथितोऽभूत् ॥ , १२२७---अमन्थीच् च परा॒ऽनीकम॑ष्ठोष्ट च निर॒ङ्कुशः ॥ निहन्तुं चाsत्वरिष्टाsरीनजक्षीच् चाऽङ्कर्मागतान् ॥ अमन्थीदित्यादि – परानीकं शत्रुसैन्यममन्थत् क्षोभितवान् 'मन्थ विलो. डने ।' निरङ्कुशवाप्रतिहतशक्तिः अप्लोष्ट भ्रान्तवान् । '१०२६ । लुङ् गतौ' । अरींश्च वानरानिहन्तुमत्वरिष्ट स्वरते स्म । '८३१ । जित्वरा संभ्रमे ।' अङ्कं च समीपमागतानजक्षीत् भक्षितवान् । '११४५ ॥ जक्ष - भक्ष हसनयोः' इति भक्षणे जक्षिः ॥ १२२८ - व्यक्रुक्षद् वानराऽनीकं, संपलायिष्ट चाऽऽयति ॥ हस्ताभ्यां नश्यकाक्षीद् भीमे चौपाधिताऽऽनने ४७ व्यत्रुक्षदित्यादि -- तस्मिन्नायत्यागच्छति सति, आङ् पूर्वस्येणः शतरि रूपम् । वानरानीकं व्यत्रुक्षत् विक्रोशति स्म । '२३३६ । शल इगुपधादनिटः क्सः । ।३॥।४५॥ संपलायिष्ट पलायते स्म । 'तञ्च नश्यत्पलायमानं हस्ताभ्यामक्राक्षीत् आकृष्टवान् कुम्भकर्णः । 'कृष विलेखने' । '२४०२ । अनुदात्तस्य च ।६।१।५९ । ' इत्यम् । हलन्तलक्षणा वृद्धि । आकृष्टं चातिभी मेऽतिभयङ्करे विकृते आनने व उपाधित न्यस्तवान् । धान् । '२३८९ । स्था- ध्वोरिच । १।२।१७। ॥ १२२९ – रक्तेना ऽचिक्किदद् भूमिं, : " सैन्यैश् चा ऽतस्तरद्धतैः ॥ ना ताप्सींदू भक्षयन् क्रूरो, ." ना ऽश्रमद् झन् प्लवङ्गमान् ॥ ४८ ॥ रक्तेनेत्यादि – वानरानीकस्य रक्तेन भूमिमचिक्किदत् क्लेदितवान् '१३२१॥ किवूं आभावे ।' तस्य यन्तस्य चाङि रूपम् । सैन्यैश्च हतैर्भूमिमतस्तरत् छादिततथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः–३८५ वान् । स्तृणातेण चङि रूपम् । २५६६ । अन् स्मृ-दृ- त्वर- ।७।४।९५ ।' इत्या- दिना अत्वम् । तांश्च भक्षयन्नपि क्रूरः नाताप्सत् न तृप्तः ।'१२७१। तृप प्रीणने पुपादिः । 'स्पृश- मृश-कृप-तृप-हपां च्ले: सिज्वा' इति पक्षे सिच् । प्लवङ्गमांच अन् हिंसन् नाश्रमत् न श्रान्तवान् । १२८० । श्रमु तपसि खेढ़े च' इति खेदे पुपादित्वादङ् ॥ १२३० -न योद्धुमंशकन् केचिन्, ना ऽढौकिषत केचन ॥ प्राणशन् नासिकाभ्यां च, वक्रेण च वनौकसः ४९ न योद्धुमित्यादि — तेषां मध्ये केचिद्धनौकसो वानरा योद्धुं नाशकन् न शक्ता भवन् । लुढिवादङ् । केचिन्नाढौकिषत न ढौकन्ते स्म । ये तु तेन पदेन क्षिप्तास्ते नासिकाभ्यां नासिकाविवराभ्यां वक्रेण च प्राणशन् प्रनष्टाः । निःसृता इत्यर्थः । नशेः पुत्रादित्वाद । '२२८७ । उपसर्गात्- ।८।२।१४।' इत्यादिना .. णत्वम् ॥ १२३१ - उदरे चा ऽजरन्न॑न्ये तस्य पाताल - सन्निभे, ॥ , आक्रन्दिषुः सखीना॑ह्वन्, प्रपलायिषताऽस्विदन्. उदरे चेत्यादि — अन्ये च तस्योदरे पातालसन्निभे सदृशे अजरन् जीर्णाः । '२२९१॥ जृ-स्तम्भु–।३।११५८॥ इत्यादिनाऽङ् । '२४०६। ऋदृशोऽङिगुणः १७।४।१६।' आक्रन्दिपुः आक्रन्द्रितवन्तः । सखीन् मित्राणि आह्वन् आहूत- वन्तः । '२४१८। लिपि-मिचि - ।३।१॥५३॥' इत्यादिनाङ् । प्रपलायिपत प्रपला- यन्ते स्म । पलायमानाश्चास्विदन् प्रस्विन्नाः । पुपादिव्वादङ् ॥ युग्मम्- १२३२ - रक्तर्मयोतिषुः क्षुण्णाः, क्षताश च कपयोऽतृषन् ॥ उपास्थायि नृपो भग्नैर॑सौ सुग्रीव मैजिहत् ॥ ५१ ॥ रक्तमित्यादि – अन्ये क्षुण्णाः सन्तः रक्तमयोतिपुः त्र्योतन्ति स्म । ८२२६९ । इरितो वा ।३।१।५७।' इत्यङभावपक्षे रूपम् । क्षताश्च खण्डिता अतृषन् तृषन्ति स्म । '१३०७ । जितृषा पिपासायाम् ।' पुपादित्वादङ् । नृपो रामस्तै- भैरुपास्थायि उपस्थापितः । अन्तर्भावितो ण्यर्थः । कर्मणि चिण् । असौ रामः सुग्रीवमैजिहत् योद्धुमीहां कारितवान् । ईहतेपर्ण्यन्ताच्चडि '२२४३ । द्विव- चनेऽचि । १।१।५९।' इति स्थानिवद्भावात् द्वितीयस्य द्विवचनम् । आइ । वृद्धिः । योद्धुमिति वक्ष्यमाणेन योज्यम् ॥ १२३३ - योद्धुं सो ऽप्यरुषच्छत्रो रैरिरच् च महा-द्रुमम् ॥ तं प्राप्तं प्रासहिष्टाऽरिः, शक्तिं चौग्रामु॑दग्रहीत् ५२ X योद्धुमित्यादि — सोऽपि सुग्रीवः अरुषत् क्रुध्यति स्म । '१७९८। रुष रोषे' पुषादिः । शत्रोश्च द्रुममैरिरत् क्षिप्तवान् । '१९४७ । ईर क्षेपे' इति स्वार्थिकण्यभ० का० ३३ ३८६ भट्टि- काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण रूपे द्वितीयो वर्गः, न्तस्य रूपम् । तं द्रुमं मामारेः कुम्भकर्णः प्रासहिष्ट प्रसहते स्म । शक्तिं चोग्रां प्राणहरामुग्रहीत उद्गृहीतवान् ॥ १२३४ - स ताम॑विभ्रमद् भीमां, वानरेन्द्रस्य चा Sमुचत् ॥ प्रापतन् मारुतिस तत्र तां चा डलासीद् वियद्-गताम् ॥ ५३ ॥ स तामित्यादि-तां गृहीतां शक्तिं स कुम्भकर्णः अबिभ्रमत् भ्रमयति स्म । अमेर्ण्यन्ताञ्चङि रूपम् । वानरेन्द्रस्य सुग्रीवस्योपरि अमुचत् मुक्तवान् । हृदित्वाढुङ् । तन्त्र तस्यां मुक्तायां मारुतिर्हनूमान् प्रापप्तत् प्रत्युपस्थितः । ऌढ़िवादङ् । '२३५५॥ पतः पुम् ।७।४।१९। इति पुमागमः । तां च वियतामलासीत् आप्तवान् । '११३२ । ला आदाने ।' '२३७७ । यम-रम- ।७।२।७३।' इति सगिटौ ॥ युग्मम्१२३५ - अशोभिष्टाञ्चखण्डचू च H . शक्तिं वीरो, न चा ऽयसत् ॥ लौह - भार- सहस्रेण निर्मिता निरकारि मे ॥ ५४ ॥ अशोभिष्टेत्यादि–असौ गृहीतशक्तिर्वीरः अशोमिष्ट शोभते स्म । शक्तिम- चखण्डच्च भग्नवान् । '१६९४ । ९५ । खड-खडि भेदने' चौरादिकः । तां च खण्ड- यन्नायसत् नायस्यति स्म । '१२८६ । यसु प्रयत्ने ।' पुषादिः । लौहभारसहस्रेण निर्मिता घटिता मम शक्तिर्निरकारि भग्ना अनेनेति रक्षः कुम्भकर्णो कुपदिति वक्ष्यमाणेन सम्बन्धः ॥ १२३६ - शक्तिर॑त्यकुपद् रक्षो, गिरिं चौदखनीद् गुरुम् ॥ व्यसृष्ट तं कपी-न्द्रस्य, तेनाऽमूर्च्छादसौ क्षतः ॥ ५५॥ शक्तिरित्यादि - अकुपत् कुपितः । '१३१२ । कुप क्रोधे' पुषादिः । गिरिं च गुरुमुदखनीत् उत्खातवान् । '२२८४ । अतो हलादेर्लंघोः ।७।२।७।' इति वृद्ध्यभावपक्षे रूपम् । कपीन्द्रस्य सुग्रीवस्योपरि तं च गिरिं व्यसृष्ट विसृष्टवान् । 'सृज विसर्गे' अनुदात्तेत् । तस्माद्वलन्तादात्मनेपदे सिचः कित्त्चे गुणाभावः । असौ कपीन्द्रस्तेन क्षतः हतः सन् अमूर्च्छत् मोहमुपगतः ॥ १२३७ - अलोठिष्ट च भू-पृष्ठे, शोणितं चा ऽप्यसुस्रुवत् ॥ तर्मादायाऽपलायिष्ट, व्यरोचिष्ट च राक्षसः ॥ ५६ ॥ अलोठिष्टेत्यादि-मूर्च्छितश्च भूपृष्ठे अलोठिष्ट लुठते स्म । 'रुठ-लुउ प्रतिजाते' इति युवादिः । '२३४५॥३।११॥ इति परस्मैपदविक .9 तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वधो' नाम पञ्चदशः सर्गः- ३८७ ल्पेनात्मनेपदम् । अस्य शोणितं च व्यसुस्रुवत् स्रुतम् । '२३१२।णि-त्रि- १३।११४६।' इत्यादिना चङ् । तं सुग्रीवमादाय राक्षसः कुम्भकर्णः पलायिष्ट पलायते स्म । व्यरोचिष्ट रोचते स्म । १७९७ / रुच दीप्तौ ॥ युग्मम् १२३८ - अभैषुः कपयो, ऽन्वारत् कुम्भकर्ण मरुत्-सुतः ॥ शनैर॑वोधि सुग्रीवः, सोऽलुञ्चीत् कर्ण - नासिकम् ५७ अभैपुरित्यादि – तस्मिन्नीते कपयोऽभैपुः भीताः । मस्त्सुतः कुम्भकर्ण- मन्वारत् अनुगतः । अर्तेः '२३८२ । सर्ति-शास्त्यतिंभ्यश्च ।३।१।५६।' इत्यङ् । '२४०६।' ऋदृशोऽङि गुणः ।७।४।१६।' । सुग्रीवः शनैर्मनागबोधि लब्धसंज्ञो बभूव । '२३२८ । दीप-जन-।३।१।६१॥' इत्यादिना बुधैः कर्तरि चिण् । स बुद्धः कर्णनासिकम् । प्राण्यङ्गत्वादेकवद्भावः । अस्यालुञ्चीत् कृत्तवान् । राक्षस- स्येति वक्ष्यमाणेन सम्बन्धः ॥ १२३९ - राक्षसस्य, न चा ऽनासीत्, प्रनष्टुर्मयतिष्ट च ॥ अक्रोधि कुम्भकर्णेन, पेष्टुमा॑रम्भ च क्षितौ ॥५८॥ राक्षसस्येत्यादि- राक्षसस्य कुम्भकर्णस्य सम्बन्धे स सुग्रीवो न चात्रा- सीत् न त्रस्तः । राक्षसात् प्रष्टुं पलायितुम् । १२५१७॥ मस्जि-नशोर्झलि । ७।१॥६० ।' इति नुम् । अयतिष्ट च यतते स्म । कुम्भकर्णेनात्मनोऽवस्थां दृष्ट्वा अक्रोधि क्रुद्धम् । भावे लुङ् । क्षितौ च पेष्टुं चूर्णयितुं सुग्रीव आरम्भि आरब्धः कर्मणि लुङ् । '२५८१ । रभेरशव्लिटोः ।७।१।६३।' इति नुम् ॥ १२४० - सुग्रीवो ऽस्या ऽभ्रशर्द्धस्तात्, समगाहिष्ट चा Sम्बरम् ॥ तूर्णम॑न्वसृपद् राम- माननन्दच् च वानरान् ॥ ५९ ॥ सुग्रीव इत्यादि — अस्य कुम्भकर्णस्य हस्तात् सुग्रीवः अभ्रशत् भ्रष्टः । '१३०४ । अशु-अंशु अधःपतने' पुषादिः । स चाम्बरमाकाशमगाहिष्ट आक्रा- न्तवान् । '६९६ । गाडू विलोडने' अनुदात्तेत् । तूर्णं च राममन्वसृपत् अनुगतः । ऌदिवादङ् । वानरांश्च कर्ण - नासिककर्तनेनाननन्दत् तोषितवान् । नन्दुतेर्ण्य- न्तस्य रूपम् ॥ १२४१-अतत्वरच् च तान् योद्धुम॑चिचेष्टच् च राघवौ ॥ कुम्भकर्णो न्यवर्तिष्ट, रणेऽयुत्सन्त वानराः ॥६०॥ अतत्वरदित्यादि – तांश्च वानरान् योद्धुमतस्वरत् त्वरयति स्म ' मा विलम्बध्वस्' इति । त्वरेर्ण्यन्ताच्चङ् । '२५६६। अत् स्मृ-हृ-स्वर- ।७।४।१५।' इति ३८८ भट्टि काव्ये - चतुर्थे तिन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, । '२५८३ । अभ्यासस्य अत्वम् । राघवौ च योद्धुमचिचेष्टत् व्यापारयति स्म विभाषा वेष्टि-चेष्ट्योः १७१४१९६।' इत्यभ्यासस्यात्वपक्षे रूपम् । स कुम्भकर्णो योद्धुं न्यवर्तिष्ट निवृत्तः । निवृतिर्घुतादिः । '२३४५॥ धुच्यः-११॥३॥९१॥ इत्यादि- नात्मनेपदे नाङ् । वानराचायुत्सन्त युध्यन्ते स्म ॥ १२४२ - अविवेष्टन् नृपऽऽदेशा । रुक्ष॑श् चाऽऽशु राक्षसम् ॥ तान॑धावीत् समारूढांस् तेऽध्यस्रंसिषता ऽऽकुला:. ६१ अविवेटन्नित्यादि – वानरा राक्षसमविवेन् चेष्टयन्ति स्म । अत्र राम इत्यर्थाद्रष्टव्यम् । यतस्तदादेशादाशु ते राक्षसमारुक्षन् आरूढाः । रुहः '२३३६। शल इगुपधात्- ।३।१।४५ ।' इत्यादिना क्सः । वानरा एव नृपादेशादविवेष्टन्निति व्याख्याने स्वातंत्र्येण तेषां कर्तृत्वात्प्रयोजकत्वं न घटते । तांश्च वानरानारूढान् कुम्भकर्णोऽधावीत् चूतवान् । '२२७९ । स्वरति - ।७।२।४।४।' इत्यादिना इट्र । हलवृद्धेः '२२६८। नेटि ।७।१।४।' इति प्रतिषेधः । ते व्याकुलाः सन्तोऽस्रंसिपत स्त्रस्ताः । पतिता इत्यर्थः । '८०६ । स्रंसु भ्रंसु अवस्रंसने द्युतादिः । परस्मैपदा- भावान्नाडू ॥ १२४३ - अग्रसिष्ट, व्यधाविष्ट, समाश्लिक्षचू च निर्-दयम् ॥ ते चा ऽप्यघोरिपुर् घोरं, रक्तं चा ऽवमिषुर् मुखैः ॥६२ ॥ अग्रसिष्टेत्यादि —– कुम्भकर्णः कांश्चिदग्रसिष्ट ग्रसते स्म । कांश्चिन्निर्दयं समा- लिक्षत् । १२६२ । लिप आलिङ्गने' । '२३३६। शलः - ।३।१॥४५॥ ' इति क्सः । ते चालिष्टा: महाघोरं श्रुतिकटुकं अघोरिपुः शब्दमुक्तवन्तः । १४३३। घुर भीमार्थ-शब्दयोः' इति तुदादिरनुदात्तेत् । रक्कं चावमिपुः उद्गीर्णवन्तः ॥ १२४४ - स चाऽपि रुधिरैर् मत्तः स्वेषाम॑प्य॑दयष्ट न ॥ अग्रहीच् चा ऽऽयु॒र॑न्ये॒पाम॑रुद्ध च पराक्रमम् ॥६३॥ स चेत्यादि- इस चापि कुम्भकर्णः रुधिरैर्मत्तः स्वेषामपि नाइष्टि न दयां कृतवान्, किमपरेपाम् । '६१३ । अधीगर्थ- ।२।३।५२॥ इति पष्ठी । अन्येषां वान- राणां आयुर्जीवितम ग्रहीत् गृहीतवान् । '२२९९ । हृयन्त । ७१२।५।' इति न वृद्धिः । 'अदोहीवाऽऽयुः' इति पाठान्तरम् । तत्र तथाभूतं कुम्भकर्णं दृष्टवतामन्येषा- मायुरदोहीव स्वयं गतमिव । '२७६९ । दुहश्च । ३ । १।६३ ।' इति कर्मकर्तरि चिण् । पराक्रमं चान्येषामरुद्ध च आवृतवान् । रुधेः कर्माभिप्राये तङ् । '२२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः । '२२८० । झपस्तथोऽधः ।८।२।४०॥ '५२ । झलां जश् झशि ।८।४।५३ । ॥ १२४५ - संत्रस्तानाम॑पाहारि सत्त्वं च वन-वासिनाम् ॥ F ." अच्छेदि लक्ष्मणेनाऽस्य किरीटं कवचं तथा ॥६४॥ तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः-३८९ संत्रस्तानामित्यादि – तेन सत्त्वमपाहारि अपहृतम् । सर्वेषां त्रस्तत्वात् । कर्मणि लुङ् । लक्ष्मणेन अस्य किरीटं मुकुटं तथा कवचमच्छेदि छिन्नम् । कर्मणे लुङ् ॥ युग्मम्A १२४६ - अभेदि च शरैर् देह: प्राशंसीत् तं निशा-चरः ॥ अस्पर्धिष्ट च रामेण तेना ऽस्या ऽक्षिप्सतैषवः, ६५ अभेदीत्यादि – देहश्वास्य औरैः करणभूतैरभेदि छिन्नः । निशाचरश्च तं लक्ष्मणं प्राशंसीत् स्तुतवान् 'साधु भवता युद्धम्' इति । रामेण सहास्पर्धिष्ट योद्धुं स्पर्धते स्म । तेन रामेणास्य इपवः अक्षिप्सत क्षिप्ताः । कर्मणि लुङ् । हलन्तादात्मनेपदे सिच: कित्त्वाद्भुणाभावः ॥ १२४७ - यैरंघानि खरो, बाली, मारीचो, दूषणस् तथा ॥ अवामस्त स तान् दर्पात्, प्रोदयंसीच् च मुद्गरम्.६६ यैरित्यादि — यैः शरैश्च खरोऽघानि व्यापादितः । कर्मणि लुङ् । ते अक्षिप्सतेति योज्यम् । स कुम्भकर्णस्तान् झन् दर्यादवामंस्त अवमन्यते स्म । मुद्गरं प्रोदयंसीत् उद्भूर्णवान् । '२३७७ । यम-रम- ।७।२।७३ ।' इति सगिटौ ॥ १२४८ - वायव्याऽस्त्रेण तं पाणिं 3 रामो ऽच्छेत्सीत् सहाऽऽयुधम् ॥ आदीपि तरु- हस्तो ऽसा- वंधावीच् चा डरि-संमुखम् ॥ ६७ ॥ वायव्यास्त्रेणेत्यादि – येन पाणिना मुद्हरमुसीत् तं पाणि सहायुधं रामो चायव्यास्त्रेण मरुद्देवतादत्तेन अच्छेत्सीत् । छिन्नपाणिश्वासौ तरुहस्तः । तरुर्हस्ते यस्येति तरोः प्रहरणत्वात् सप्तम्यन्तस्य परनिपातः । आदीपि दीप्यते स्म । '२३२८ ।' दीप जन - ।३।१।६१।' इत्यादिना कर्तरि चिण् । अरिसंमुखं च रामाभिमुखमधावीत् वेगेन गतवान् ॥ १२४९ - स वृक्षमच्छिदत् तस्य शऽस्त्रेण करं नृपः ॥ , जङ्गे चा ऽशीशतद् बाणैरप्रासीदिषुभिर् मुखम् ६८ सवृक्षमित्यादि- - तस्य सवृक्षमपि करं नृपः शक्रास्त्रेणाच्छिदत् । '२२६९ । इरितो वा ।३।१।५७।' इत्यङ् । जङ्गे चान्यैर्बाणैरशीशतत् गमनासमर्थे कृत- वान् । शदेण '२५९८ । देरगतौ ।७।३।४२ । इति तत्वम् । मुखं चेषुभिरप्रा- सीत् पूरितवान् । '११३५॥ मा पूरणे ॥ १२५० - ऐन्द्रेण हृदये ऽव्यात्सीत्, सो ऽध्यवात्सीच् च गां हृतः ॥ ३९० भट्टि काव्ये - चतुर्थे तित-काण्डे लक्षण रूपे द्वितीयो वर्गः, mm अपिक्षाता सहस्रे द्वे तद्-देहेन वनौकसाम् ॥ ६९ ॥ ऐन्द्रेयादि-ऐन्द्रेण शरेण हृदयेऽव्यात्सीत् विद्धवान् । स तथा हतो गामध्यवासीत् भूमिमध्युषितवान् । तस्य पततो देहेन वनौकसां वानराणां ढे सहस्रे अपिक्षातां चूर्णिते । '१५४६ । पिप्पू संचूर्णने कर्मणि लुङ् ॥ १२५१ - अस्ताविषुः सुरा रामं, दिशः प्रापन् निशा-चराः ॥ भूकम्पष्ट सीन्द्रा, व्यचालीर्दम्भसां पतिः ७० " अस्ताविपुरित्यादि — तस्मिन् हते सुरा देवा राममस्ताविपुः स्तुवन्ति स्म । '२३८५॥ स्तु-सु-धूभ्यः परस्मैपदेषु ।७।२।७२ । इतीट् । निशाचराताद्दिशः प्रापन् प्राप्तवन्तः । '१३४१॥ आपले व्याप्तौ ।' सादीन्द्रा सकुलपर्वता भूमिरक- म्पिष्ट चलति स्म । अम्भसां पतिः समुद्रो व्यचालीत् प्रक्षुभितवान् ॥ १२५२ - हतं रक्षांसि राजानं कुम्भकर्णमंशिश्रवन्, ॥ अरोदीद्रावणो ऽशोचीन्, मोहंचा ऽशिश्रियत् परम् ॥ १ हतमित्यादि – हतं व्यापादितं कुम्भकर्ण रक्षांसि राजानं रावणमशिश्रवन् श्रावितवन्तः । शृणोतेर्ण्यन्तात् सनीव कार्यमिति ( २५७८॥ स्रवति-शृणोति –।७।४।८१।' इत्यादिना अभ्यासस्य विकल्पेनेट् । एवं च कृत्वा अशुश्रुवन्निति पाठान्तरम् । द्विकर्मकता तु बुद्ध्यर्थत्वात् । श्रुत्वा च रावणोऽरोदी अधूणि मुमोच । अशोचीत् शोचति स्म । 'तेनापि त्यक्तोऽस्मि' इति । परं च मोहं मूर्च्छामशिश्रियत् । '९६३ । श्रिज् सेवायाम्' । '२३१२ । णि - श्रि - । ३।१।४८।' इत्यादिना चङ् ॥ युग्मम्- १२५३ - अपप्रथद् गुणान् भ्रातुरचिकीर्तच्च विक्रमम् ॥ 'क्रुद्धेन कुम्भकर्णेन ये ऽदर्शिषत शत्रवः ॥ ७२ ॥ अपप्रथदित्यादि-आतुर्गुणान् वुद्धिमत्त्वादीनपप्रथत् प्रख्यापितवान् । '८१८ प्रथ प्रख्याने' घटादिः । तस्मात् ण्यन्ताञ्चडि '२५६६ । अत् स्मृ-दृ-स्वर - ।७।४।१५॥ इत्यादिनाऽत्वम् । विक्रमं च शौर्यमचिकीर्तत् उदीरितवान् । १७७५ । कृत संशब्दने' इति चौरादिकः । '२५८९। जितेर्वा ।७।४।६।' इत्यधिकृत्य '२५६७ उर्फत् ।७।४।७।' इति इकाराभावपक्षे रूपम् । '२५७१। उपधायाश्च । ७।१।१०१। इतीत्वम् । विक्रमकीर्तनं चाह - क्रुद्धेन क्रोधकर्त्रा कुम्भकर्णेन ये शत्रवोऽदर्शि- 'पत दृष्टाः । कर्मणि लुङ् । '२७५७। स्यसिच्- ।७।४।६२।' इत्यादिना दृशेश्चिण्वदिः ॥ तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण-वथो' नाम पञ्चदशः सर्गः- १२५४ - कथं न्वजीविपुस् ते च, स चा ऽमृत महा-वल: ' ॥ अयुयुत्सिपता ऽऽश्वास्य कुमारा रावणं ततः ७३ कथमित्यादि — ते ऽल्पाः कथं नाम अजीविपुः जीविताः । स च कुम्भ- कर्णो सहावलः अमृत मृतः । '२५३८। म्रियतेर्लुङ्-लिङोश्च ।१।३।३१।' इति तङ् । '२३६९। हुस्वादङ्गात् ।८।२॥२७॥ इति सिचो लोपः । अनन्तरं कुमाराः राज- पुत्रा देवान्तकादयो रावणं शोचन्तमाश्वास अपनीतशोकं कृत्वा अयुयुत्सिषत योद्धुमिष्टवन्तः । '२६१३। हलन्ताच्च ॥।२।१०।' इति सनः कित्वम् । '२७३४॥ पूर्ववत्सनः ।१।३।६२॥ इति तङ् ॥ १२५५ - देवान्तको ऽतिकायश च त्रिशिराः स नरान्तकः ॥ ते चांssहिषत संग्रामं वलिनो रावणा॒ऽऽत्मजाः ७४ देवान्तक इत्यादि — ते च रावणात्मजाः संग्राममांहिषत गतवन्तः । ६७८। अहे गतौ । किंनामानः । देवान्तकः अतिकायः त्रिशिराः नरान्तक इति ॥ १२५६ युद्धोन्मत्तं च मत्तं च राजा रार्थमा॑जिहत् ॥ $ युतानां, निरगातां तौ राक्षसौ रण- पण्डितौ ॥७५॥ युद्धेत्यादि - सुतानां रक्षार्थ राजा युद्धोन्मत्तं मनं च राक्षसं आजिहत् प्रस्थापितवान् । अंहते चपरे द्वितीयाद्विवचनम् । तौ राक्षसौ रणपण्डितौ निरगातां निर्गतौ । '२४५८ इणोगा लुङि ।२।४।४५॥॥ १२५७ - तैरंजेपत सैन्यानि, द्विषो ऽकारिषता ऽऽकुलाः ॥ पर्वतार्निव ते भूमाव॑चैषुर् वानरोत्तमान् ॥ ७६ ॥ तैरित्यादि – तैः राक्षसैः सैन्यानि अजेषत जिवानि । कर्मणि लुङ् । अचि- ण्वद्भावपक्षे रूपम् । द्विष आकुला अकारिपत । ते राक्षसा वानरोत्तमान् वान- राणां प्रधानभूतान् पर्वतानिव भूमौ अचैषुः पुञ्जीकृतवन्तः । 'चिञ् चयने' ॥ १२५८ - अङ्गदेन समं योद्धुम॑घटिष्ट नरान्तकः ॥ प्रैषिषद् राक्षसः प्रासं, सो ऽस्फोटीद॑ङ्गदो॒रसि. ७७ अङ्गदेनेत्यादि–नरान्तकः कुमारः अङ्गदेन सह योद्धुमघटिष्ट घटते स्म । राक्षसः प्रासं कुन्तं प्रैषिषत् । 'इषु गतौ' इत्यस्य ण्यन्तस्य चडि रूपम् । स प्रासोऽङ्गदोरसि अस्फोटीत् विशीर्णः ॥ १२५९ - अश्वान् वालि सुतो ऽहिंसीदंतताडच् च मुष्टिना ॥ रावणश् चा ऽव्यथो॒ योद्धुमरव्ध चमहीं गतः. ७८ अश्वानित्यादि — वालिसुतोऽश्वान् रथयुक्तानहिंसीत् व्यापादितवान् । — १५४९॥ तृह हिसि हिंसायाम्' । मुटिना पाणिना अतताडत् आहतवान् '१६९३ । तड आघाते' । ताडनं ताडः । '३१८४ । भावे । ३।३।१८।' धन् । वार्ड ३९२ भट्टिकाव्ये -तुन्ति-काण्डे लक्षण-रूपे द्वितीयो वर्गः, करोतीति णिच् । गाविष्टवादति टिलोपः । १२३१४। पौ चड्युपवाया - १७१४।११' इति '२५७२ । नाग्लोपिशास्वृद्विताम् ।७।४।२।' इति हस्वप्रतिषेधः : सच राव- गिरव्यथो व्यथारहितः । हताश्वाद्र्थाढवतीय महीं गतः सन् योद्धुमारब्ध भते स । २२८१ । झलो झलि ।८।२।२६।' इति सिचो लोपः । घत्वं च ॥ आर. १२६० - तस्या ऽहारिपत प्राणा मुष्टिना वालि-सूनुना ॥ प्रादुडुवंस् ततः क्रुद्धाः सर्वे रावणयोऽङ्गदम् ॥७९॥ तस्येत्यादि – तस्य प्राणाः वालिपुत्रेण अहारिपत हृताः । कर्मणि लुङ् । चिण्वद्भावः । ततो ऽनन्तरं सर्वे रात्रणयः रात्रणस्थापत्यानि देवान्तकादयः क्रुद्धाः सन्तोऽङ्गद प्रादुद्रुवन् गतवन्तः । '२३१२ । णि श्रि - १३ । १।४८।' इत्यादिना चङ्॥ १२६१ ततो नील - हनूमन्तौ रावणीन॑ववेष्टताम् ॥ अकारिष्टां गिरीस् तुङ्गार्नरौत्सीत् त्रिशिराः शरैः ८० तत इत्यादि — ततो रावणीनङ्गदाभिमुखमागच्छतो नीलो हनूमांच्याववेष्टतां वेष्टितवन्तौ । '२५८३ । विभाषा चेष्टि चेष्ट्योः ।७।४।१६।' इत्यभ्यासस्यात्वम् । 'गिरींश्चाकारिष्टां विक्षिप्तवन्तौ । '१५०३ । कृ विक्षेपे' । सिचिवृद्धिः । तांश्च गिरी- निक्षिप्तान् त्रिशिराः शेरस्तुङ्गानरौत्सीत् आवृतवान् । '१५३२ रुधिर् आवरणे ॥ १२६२ - परिघेणा ऽवधिष्टा ऽथ रणे देवान्तको वली ॥ > मुष्टिना ऽददरत् तस्य मूर्धानं मारुताऽऽत्मजः ॥८१॥ परिघेणेत्यादि — अथ देवान्तको बली परिघेणावघिष्ट हतवान् । '२६९५। आङो यम-हनः । १।३।२८।' इति तङ् । अविवक्षितकर्मकत्वात् '२६९६। आत्म- नेपदेवन्यतरस्याम् । २।४।४।४॥ इति हनो वधादेशः । तस्य नतो मूर्धानं मारु- तात्मजः मुष्टिना अददरत् दारितवान् । '१५८८ । ६ विदारणे' ण्यन्तस्य चपरे णौ '२५६६। अत् स्मृ-दृ-त्वर-१७।४।९५।' इत्यादिनाभ्यासस्यात्वम् ॥ १२६३ - अदीदिपत् ततो वीर्य, नीलं चाडपीपिडच् छरैः ॥ युद्धोन्मत्तस्, तु नीलेन गिरिणाऽनायि संक्षयम्. ८२ अदीदिपदित्यादि — ततो देवान्तकविनाशादनन्तरं युद्धोन्मत्तः सुतानां रक्षार्थ यः प्रेषितः स वीर्यमदीदपत् । '२५६५ । आज भास - । ७।४।३।' इत्यादिना ह्रस्वाभावपक्षे रूपम् । नीलं च शरैरपीपिडत् पीडितवान् । हस्वाभावपक्षे रूपम् । अपीपरदिति पाठान्तरम् । पूरितवानित्यर्थः । '१६५३ प पूरणे' इति चुरादिः । स तु नीलेन संक्षयं गिरिणा आनायि नीतः । कर्मणि 11 १२६४ - अब वाजत् ततः शक्तिं त्रिशिराः पवनाऽऽत्मजे, ॥ हनूमता क्षतास् तस्य रणे ऽमृषत वाजिनः ॥ ८३ ॥ तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः- ३९३ अवभ्राजदित्यादि — ततोऽनन्तरं त्रिशिराः कुमारः पवनात्मजविपये शक्ति वीर्यमवाजत् दीपयति स्म । '२५६५॥ भ्राज ।७।४।३। इत्यादिना इस्वाभाव- पक्षे रूपम् । तस्य वाजिनो रथयुक्ता रणे हनूमता हताः सन्तः अमृषत मृताः '२५३८ । म्रियतेर्लुङ्- ।१।३।६१।' इति तङ् ॥ → १२३५ - अस्रसच् चाऽऽहतो मूर्ध्नि, खड्डूं चा ऽजीहरद् द्विया ॥ प्राणानौज्झीच च खङ्गेन छिन्नैस् तेनैव मूर्धभिः ॥ ८४ ॥ अस्त्रसदित्यादि — त्रिशिराश्च हनुमता मूर्ध्नि हतः सन् रथाद्भूमौ अस्रसत् त्रस्तः पतितः । '२३४५ । बुच्चो लुङि ।१।३।९१॥ इति परस्मैपदम् । धुतादि- त्वादङ् किति इत्यनुनासिकलोपः । स्त्रस्तश्च स खड्नं हस्तस्यं द्विषा हनुमता अजीहरत् हारितवान् । तेनैव च खङ्गेन छिन्नैर्मूर्धमिर्हेतुभूतैः प्राणानीत् व्यक्तवान् । '१३८८। उज्झ उत्सर्गे ॥ युग्मम्- १२६६ मत्तेना Sमारि संप्राप्य शरभाऽस्तां महा-गदाम् ॥ सहस्र- हरिणा ऽक्रीडीदतिकायस् ततो रणे. ॥८५ ॥ मत्तेनेत्यादि – शरभेण वानरेणास्तां क्षिप्तां महागदां प्राप्य मत्तेन सुतानां रक्षार्थं प्रेषितेन राक्षसेनामारि मृतम् । भावे लुङ् । ततोऽनन्तरं अतिकायो राजपुत्रो रणे अक्रीडीत विहरति स्म । रथेनेति वक्ष्यति । सहस्रं हरयोऽश्वा यस्य रथस्य ॥ १२६७ रथेना ऽविव्यथच् चाडरीन्, व्यचारीच् च निरङ्कुशः ॥ विभीषणेन सो sख्यायि 2 राघवस्य महा-रथः ॥ ८६ ॥ रथेनेत्यादि – अरींश्चाविव्यथत् पीडितवान् । व्यथेर्ण्यन्तस्य चङि रूपम् । निरङ्कुशश्चाप्रतिहतशक्तिर्व्यचारीत् भ्राम्यति स्म । रान्तत्वाद्वृद्धिः । स विचरन्म- हारथः विभीषणेन राघवस्य अख्यायि कथितः । कर्मणि लुङ् ॥ १२६८ - 'अतस्तम्भदेयं वज्रं, स्वयम्भुवम॑तूतुषत् ॥ : अशिक्षिष्ट महाऽस्त्राणि, रणे डरक्षीच् च राक्षसान्. ८७ अतस्तम्भदित्यादि — अयं स्वशक्त्या वज्रं अतस्तम्भत् स्तम्भितवान् । '४४३॥ स्तभि स्कभि प्रतिष्टम्भे ।' ण्यन्तस्य । '२३१२ । णि श्रि - । ३।१।४८।' इत्यादिना चङ् । स्वयम्भुवमतूतुषत् उग्रेण तपसा आराधनात् तोषितवान् । १२६० । ३९४ भट्टि-काव्ये—-चतुर्थे तिन्त-काण्डे लक्षण-रूपे द्वितीय वर्गः, तुष प्रीतो यः । नहखाणि दिव्यानि चाशिक्षिष्ट शिक्षते स्म । '६४७५ शिक्ष विद्योपादाने' । रणे च राक्षसानरक्षीत् रक्षति ॥ १२६९ - अध्यगीष्टा अर्थ-शास्त्राणि, यमस्या sहोट विक्रमम् ॥ देवssहवेष्वदीपिष्ट, 17 W ना ऽजनिष्टा ऽस्य साध्वसम् ॥ ८८ ॥ अध्यगीऐत्यादि- अर्थशास्त्राणि पराभिसन्धानार्थानि अध्यगीष्ट अधीत. वान् । '२४६० । विभाषा लुइ-लुङोः ।२४॥५०॥ इति इङो गाङादेशः । यमस्याप्ययं विक्रममहोष्ट अपनीतवान् । '५१५६। हुङ् अपनयने ।' अहलन्तत्वात्सिचो न कित्वम् । देवाहचेष्वदीपिष्ट शोभितः । अस्य च साध्वसं भयं नाजनिष्ट न जातम् । '२३२८ । दीप-जन-।३॥।६१॥' इत्यादिना चिण्वद्भावपक्षे रूपम् ॥ १२७०- एष रावणिरांपादि वानराणां भयङ्करः ॥' ● -- आह्वता उथ स काकुत्स्थं धनुश्चा ऽपुस्फुरद् गुरु ॥ एष इत्यादि - य एवं स एप रावणिः आपादि अस्माकं समीपमागतः । '१२४४॥ पद गतौ ।' '२५१३ । चिण् ते पदः ।३।१।६०।' इति चिण् । यतो रावणिर्वानराणां भयङ्करः । अथ सोऽतिकाय: समीपमागतः काकुत्स्थमाह्नत युद्धायाहूतवान् । '२४१९। आत्मनेपदेष्वन्यतरस्याम् ।३।१।५४।' इत्यङ् । धनुश्च गुरु महदपुस्फुरत् स्फारितवान् । '२५६९ । चि-स्फुरोणौ ।६॥।५४।' इत्यात्वम् ॥ १२७१ - सौमित्रिः सर्प-वत् सिंहमार्दिदत् तं माऽऽहवे. ॥ तौ प्रावीवृततां जेतुं शर जालान्यनेकशः ॥ ९० ॥ सौमित्रिरित्यादि- - यथा सर्पः सिंहं गच्छति तद्वत्तमतिकायमार्दिदत् गत- वान् । '५६ । अर्द गतौ ।' अर्दनमर्दः । तस्करोतीति णिच् । तदन्ताञ्चङि रूपम् । ' १९६८ । अर्द हिंसायाम्' इति चौरादिको वा । तौ सौमित्र्यतिकाय जेतुं शरजालानि प्रावीवृततां बहूनि प्रवर्तितवन्तौ । '२५६७ । उर्ऋत् ।७।४।७।' इति णौ चङ्युपधाया अपवाद ऋकारः ॥ । १२७२ - अच्छेत्तां च महा॒ऽऽत्मानौ, चिरम॑श्रमतां न च ॥ तथा तावा॑स्थतां वाणान॑तानिष्टां तमो यथा ॥ ९१ ॥ अच्छैत्तामित्यादि—तौ च महात्मानौ परस्परस्य शरजालानि अच्छैत्तां छिनवन्तौ । '२२६९ । हरितो वा ।३।१।५७।' इत्यङभावपक्षे रूपम् । '२२८१॥ झलो झलि ।८।२।२६।' इति सिचो लोपः । चिरं चिरेणापि नाश्रमतां न श्रान्तौ । श्रामिः पुषादिः । तौ तथा बाणानास्थतां क्षिप्तवन्तौ । '२४३८८ खड़ति चक्ति-।३।१॥५२॥ इत्यङ् । २५२० । अस्यते ।७।४।१७।' यथा तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः-- ३९५ अन्धकारमतानिष्टां विस्तारितवन्तौ । १२२८४ । अतो हलादेर्लंघोः ॥२।७। इति वृद्धिविकल्पः ॥ १२७३ –सौर्याऽऽग्नेये व्यकारिष्टाम॑स्त्रे राक्षस-लक्ष्मणौ, ॥ ते चोपागमतां नाशं समासाद्य परस्परम् ॥ १२ ॥ सौर्याग्नये इत्यादि - राक्षसः सौर्यमस्त्रं व्यकारीत् विक्षिप्तवान् । '१५०३॥ विक्षेपे ।' लक्ष्मणोऽप्यानेयं इत्येवं तौ व्यकारिष्टाम् । ते चाखे परस्परमासाद्य प्राप्य नाशमुपागमताम् । हृदित्वाद ॥ कृ १२७४ - अविभ्रजत् ततः शस्त्रमैपीकं राक्षसो रणे, ॥ तद॑प्य॑ध्वसदा॑साद्य माहेन्द्रं लक्ष्मणेरितम् ॥ ९३ ॥ अविभ्रजदित्यादि —ततोऽनन्तरं रावणिः मेवीकमस्त्रम् । इपीकाया इदम् । तत्सर्वस्रोतस्सु प्रविशत् जीवितमपहरति । रणे अविभ्रजत् दीपित वान् । '२५६५॥ भ्राज भास - १७।४।३।' इत्यादिना उपधाया हस्वत्वम् । तदपि अध्वसत् ध्वस्तम् । ध्वसिर्हुतादिः । लक्ष्मणेरितं लक्ष्मणप्रेरितं माहेन्द्रमस्त्रमासाद्य तद्गतिरोधं कृत्वा ध्वंसयति स्म । . १२७५ - ततः सौमित्रिर॑स्मार्षीदेविष्ट च दुर्-जयम् ॥ ब्रह्मऽस्त्रं, तेन सूर्धानम॑दध्वंसन् नर-द्विषः ॥९४॥ तत इत्यादि – अनन्तरं सौमित्रिः दुर्जयं अनभिभवनीयं ब्रह्मास्त्रमस्मार्षीत् स्मरति स्म । '२२९७ । सिचिवृद्धिः ।७।२।१।' तच्च स्मरणाहुपस्थितं अद्वेविष्ट द्योतते स्म । '५३३।३४ । तेवृ देव देवने' इति अनुदात्तत् । द्योतने द्रष्टव्यः । देवनस्यानेकार्थत्वात् । तेन च ब्रह्मास्त्रेण प्रयोजककर्त्री नरद्विषो राक्षसस्य मूर्धा- नमदध्वंसत् पातितवान् सौमित्रिः । हेतुमण्ण्यन्ताच्चङि रूपम् ॥ १२७६ - ततो ऽक्रन्दीद् दशग्रीवस् तमा॑शिश्वसर्दिन्द्रजित् ॥ निरयासीच् च संक्रुद्धः, प्रार्चिचच् च स्वयम्भुवम्. ९५ तत इत्यादि- - ततः सुतमरणानन्तरं दशग्रीवः अक्रन्दीत् रोदिति स्म । तं च ऋन्दन्तमिन्द्रजिदाशिश्वसत् आश्वासितवान् । 'मयि जीवति किं वृथा जनवद्रोदिषि' इति । हेतुमण्ण्यन्तस्य चडि रूपम् । संक्रुद्धश्च निरयासीत् । रावणगृहान्निर्गतः । '११२३॥ या प्रापणे' । निर्गत्य च स्वगृहे स्वयम्भुवं ब्रह्माणं आर्चिचत् पूजितवान् । '१९४५ । अर्च पूजायाम्' इति चुरादिः । '२३१५॥ चङि ।६।१।११।' अजादिद्विवचनम् ॥ 3 १२७७ - अहौषीत् कृष्णवर्त्मानं, समयष्टा ऽत्र - मण्डलम् ॥ सो ऽलब्ध ब्रह्मणः शस्त्रं स्यन्दनं च जयऽऽवहम् ९६ अहौषीदित्यादि —कृष्णवर्मानमझिमहौषीत् । हव्येन प्रीणितवानित्यर्थः । ३९६ भट्टि काव्ये - चतुर्थे तिडन्त काण्डे लक्षण-रूपे द्वितीयो वर्गः, अनमण्डलं आयुधानं समचष्ट पूजितवान् । स इन्द्रजित् ब्रह्मणः सकाशात् जयावहन एन्दन चालव्ध लव्धवान् । २२८११ झलो झलि ।२६। इति सिचो लोपः ॥ १२७८ - तम॑ध्यासिष्ट दीग्रा॒ऽग्रम॑मोदिष्ट च रावणिः ॥ छन्न रूपस् ततो ऽकर्तीद् देहान् रावण-विद्विषाम् ९७ तमित्यादि – तं स्यन्दनं दीप्रायं उपरिभागस्य रत्नप्रत्युप्तत्वात् । अध्यासिष्ट अध्यासितवान् । '५४२ अघि-शी-।१।४।४६।' इति कर्मसंज्ञा । तत्रस्थश्च रावणिरत् अमोदिष्ट हृष्टवान् । ततोऽसौ छन्नरूपः अदृश्यः सन् रावण- विद्विषां वानराणां देहानकर्तत् छिन्नवान् । १४२९। कृती छेदने ।' '२५०६ । सेसिचि-।७।२।५७।' इत्यादिना सिचोऽन्यत्रे विकल्पः । 'रावणिविद्विपाम्' इति पाठान्तरम् । तत्र देवान्तकाद्विविद्विपामित्यर्थः ॥ १२७९ - सप्त- षष्टिं प्लवङ्गानां कोटीर् वार्णैरसूषुपत् ॥ निशाऽन्ते रावणिः क्रुद्धो राघवौ च व्यमूमुहत्. ९८ सप्तपष्टिमित्यादि - वानराणां कोटी: सप्तपष्टिं बारसूप स्वापितवान् व्यापादितवानित्यर्थः । २५८४ । स्वापे ।६॥१८।' इति सम्प्रसारणम् । निशान्ते च निशावसाने रावणिः क्रुद्धः सन् राघवो व्यमृमुहत् मोहितवान् । '१२७४ । मुह वैचित्ये । णौ चङि रूपम् ॥ १२८० - अपिस्फवत् स्व-सामर्थ्यम॑गूहीत् सायकैर् दिशः ॥ अघोरीच् च महा-घोरं, गत्वा, प्रैषीच् च रावणम्.९९ अपिस्फवदित्यादि- तो मोहयित्वा आत्मीयं सामर्थ्यमविस्फवत् वर्ष- यति स्म । 'ईशस्तादृशोऽहम्' इति । '२५९७ ॥ स्फयो वः ।७।३।४११' इति 'णौ वत्वम् । दिशः सायकैरगृहीत् छादितवान् । ८२२७८। नेटि ।७।१॥४॥ इति वृद्धिप्रतिषेधः । हृयन्तत्वाद्वा । महाघोरं चातिरौद्रं शब्दमघोरीत् मुक्त- वान् । गत्वा च लङ्कां रावणं प्रेषीत् प्रेषितवान् । 'गच्छ तत् ममाद्भुतपराक्रमं द्रष्टुम्' इति । 'इषु गतौं' ॥ युग्मम्- १२८१ - विभीषणस् ततो ऽबोधि स- स्फुरौ राम-लक्ष्मणौ ॥ अपारीत् स गृहीतो॒ल्को हत- शेषान् प्लवङ्ग मान् 11 विभीषण इत्यादि - ततस्तस्मिन् काले विभीषणः रामलक्ष्मणौ सस्फुरौ चलन्तौ अबोधि बुद्धवान् जीविताविति । '२३२८ । दीप-जन - ।३।१।६१॥ इत्या- दिना कर्तरि चिण् । स्फुरणं स्फुरः । घजर्थे कविधानम् । यदुक्तं स्थास्त्रागाव्य- धिहनियुध्यर्थमिति तदुपलक्षणं न परिगणनम् । स विभीषणः अन्धकारात् महतोल्कः सन् हतशेषान् प्लवङ्गमानपारीत् ' मा भष्ट' इति प्रीणितवान् ॥ तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः– ३९७ १२८२ - 'मा शोचिष्ट, रघु- व्याघ्रौ नाऽमृषातामिति ब्रुवन् ॥ अवावुद्ध स नीऽऽदीन् निहतान् कपि- यूथ-पान्. ॥ मा शोचिऐत्यादि — यूर्य मा शोचिष्ट शोकं मा कुरुत । '२२१९। माङि लुङ् ।३।३।१७५।' यस्माद्रघुव्याघ्रौ नामृषातां न मृतौ इत्येवं ब्रुवन् अपारी- दिति योज्यम् । ये च निहतास्तानीलादीन् कपियूथपान् स विभीषणः परिभ्र- मन् अवावुद्ध अवयुद्धवान् । एते हता इति । '२३२८ । दीप-।३।१।६१।' इत्यादिना चिणो विकल्पितत्वादभावपक्षे रूपम् ॥ — १२८३ - तत्रैषज् जाम्बवान् प्राणीदुदमीलीच् च लोचने, ॥ पौलस्त्यं चाऽगदीत् 'कञ्चिद॑जीवीन् मारुता॒ऽऽत्मजः.' तत्रेत्यादि — तत्र तेषु जाम्बवान् ईषन्मनाक् प्राणीत् उच्चसिति स्म । ' ११४४ । अन प्राणने ।', '२४७८ । अनितेः ।८।४।१९॥ इति णत्वम् । लोचने च उदमीलीत उन्मीलितवान् । ८५५६ । मील-क्ष्मील निमेषणे' । पौलस्त्यं च बिभीषणमगदीत् गदितवान् । '२२८४ । अतो हलादेः ।७।२।७।' इत्यवृद्धौ रूपम् । कच्चित् किं हनुमान् अजीवीत् जीवितवान् । न मृत इति ॥ १२८४ - तस्य क्षेमे महाराज ! ना ऽमृष्मह्य॑खिला वयम् ॥ पौलस्त्यो ऽशिश्रवत् तं च जीवन्तं पवनाऽऽत्मजम् ॥ तस्येत्यादि – तस्य हनुमतः क्षेमे जीवितत्वे सति हे महाराज ! अखिलाः सर्व एवं वयं नामृष्महि न नृता इति । '२७९० । आशंसायां भूतवच्च ।३।३।- १३२ ।' इति लुङ् । एवमुक्तः पौलस्त्यो जीवन्तं पवनात्मजं तमशिश्रवत् श्रावि- तवान् । शृणोतेर्ण्यन्ताच्चङि सन्वद्भावे अभ्यासे वर्णस्य '२५७८ । स्रवति - शृणोति - ।७।४।८१॥' इत्यादिना इत्वपक्षे रूपम् ॥ युग्मम्- १२८५ - आयिष्ट मारुतिस् तत्र, तौ चा ऽथ्यहृषतां ततः ॥ प्रष्ट हिमवत्-पृष्ठे सर्वौषधि-गिरिं ततः ॥ १०४ ॥ आयिष्टेत्यादि — तत्र पौलस्त्याहूतो मारुतिरायिष्ट आगतवान् । ८५०८ी अय गतौ' आङ्पूर्वः। ततोऽनन्तरं तौ जाम्बवद्विभीषणौ अषातां हृष्टवन्तौ । '१३०८। हृष तुष्टौ' पुषादिः । ततस्तौ हृष्टौ हनुमन्तमिति वक्ष्यमाणेन सम्बन्धः । प्राष्टां प्रतिवन्तौ । '२२९७ । सिचिवृद्धिः ।७।२।१।' '१३३७। हि गतौ' । हिमवत्पृष्ठे हिमवतः पृष्ठे । सर्वौषधिगिरिम् । सर्वा ओषधयो यस्मिन्निति ॥ १२८६ - तौ हनूमन्तमा॑नेतुषर्धी मृत जीविनीम् ॥ सन्धान- करणीं चाऽन्यां वि-शल्य-करणीं तथा १०५ भ० का० ३४ ३९८ भट्ट काव्ये - चतुर्थ तिङन्त काण्डे लक्षण-रूपे द्वितीयो वर्गः, तावित्यादि- - या मृतं जीवयति या च क्षतस्य सन्धानं करोति तथा विशल्यं च या करोति । '२८४१॥ कृत्यल्युटो बहुलम् ।३।३।११३ ।' तामो- पवीमानेतुं प्राष्टामिति योज्यम् । ८३५३४॥ ओपवेश्च विभक्तावप्रथमायाम् ।६।३॥३२।' इति दीर्घत्वम् ॥ १२८७ - प्रोदपाति नभस् तेन, स च प्रापि महा-गिरिः ॥ यस्मिन्न॑ज्वलिपू रात्रौ महौषध्यः सहस्र-शः ॥ १०६॥ प्रोद्पातीत्यादि - तेन हनूमता नभः प्रोदपाति उत्पतितम् । स च महा- निरिस्तेन प्रापि प्राप्तः । कर्मणि लुङ् । यस्मिन् गिरौ महौषध्यः सहस्रशोऽनेकधा रात्रात्रज्वलिपुः दीप्यन्ते स्म । '२३३० । अतो लान्तस्य ।७।२।२।' इति वृद्धिः ॥ १२८८ - निरचायि यदा भेदो नौषधीनां हनू-मता, ॥ सर्व एव समाहारि तदा शैलः सहौषधिः ॥ १०७ ॥ निरचायीत्यादि–यदा हनूमता ओपधीनां भेदो न निरचायि विशेषतो न निश्चितः तदा कृत्स्त्र एव शैलः सहौषधिरोपधिसहितः समाहारि समानीतः ॥ १२८९ - प्राणिपुर् निहताः केचित्, केचित् तु प्रोदमीलिषुः ॥ तमो ऽन्ये ऽहासिषुर् योधा, व्यजृम्भिपत चाडपरे ॥ १०८ ॥ प्राणिपुरित्यादि – यदा ओषधिसन्निधानात् ते निहताः केचिद्योधाः ग्राणिपुः उच्छ्रसितवन्तः । केचित्तु प्रोडमीलिपुः उन्मीलितलोचना बभूवुः । अन्ये तमो मोहमहासिपुः व्यक्तवन्तः । '२३७७ । यम-रम- ।८।२।७३ ।' इति सगिटौ । तथान्ये ऽहासिपुरिति पाठान्तरम् । ते तथाभूतमात्मानं दृष्ट्वा सविलासं हसि- तवन्तः । अपरे व्यजृम्भिपत जृम्भिकां कृतवन्तः । ८४१५११६॥ जमि-जृमि गात्रचिनामे' इत्यात्मनेपदी ॥ १२९० - अजिघ्रपंस् तथैवाऽन्यानौषधीरोलिपस् तथा ॥ 3 एवं तेऽचेतिषुः सर्वे, वीर्य चाऽधिषताऽधिकम्. १०९ अजिघ्रपन्नित्यादि — तथान्यान् लब्धसंज्ञानोषधी र जिघ्रपन् घ्रापितवन्तः । नासिकयाभ्यवहृतवन्त इत्यर्थः । ८५४०। गति बुद्धि ।१।४।५२।' इत्यादिना प्रत्यवसाने कर्मसंज्ञा । (२५८९। जितेर्वा ।७।४।६।' इति '२३१४ । णौ चङयु- पधायाः ।७।४।१४।' इत्यकारः । तथालिपन लिप्तवन्तः । अन्यानोषधीभिरित्य- र्थात् । '२५१८ । लिपि - सिचि-।३।१।५३ ।' इत्यङ् । एवमनेन प्रकारेण सर्वे- ऽचेतिषुः संज्ञां लब्धवन्तः । '३९ । चिती संज्ञाने ।' अधिकं च वीर्यमोषधि- अजादविषत दधति स्म । '२३८९ । स्था- ध्वोरिश्च । १।४।१७।' ॥ 1 तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः – ३९९ १२९१ - अजिह्रदत् स काकुत्स्थौ, शेषांश चा ऽजीजिवत् कपीन् ॥ हनूमानंथ ते लङ्का मैग्निना ऽदीदिपन् द्रुतम् ॥ ११० ॥ अजिह्लददित्यादि — एवं च सति हनुमान् काकुत्स्थाव जिह्लदत् हादितवान् । '२७ । ह्लादी सुखे च' ण्यन्तः । शेषांश्च कपीनजीजिवत् जीवयति स्म । अथ ते जीविताः सन्तः लङ्कां द्रुतमदीदिपन् दीपितवन्तः । '२५६५। भ्राज- ।७।४।३।' इत्यादिना इस्वपक्षे रूपम् ॥ 5 १२९२ - समनात्सीत् ततः सैन्यम॑मार्जीदू भल-तोमरम् ॥ अमार्क्षीच् चा ऽसिपऽऽदीन॑वभासत् परश्वधान् ॥ समनात्सीदित्यादि- –ततः सैन्यं समनात्सीत् सन्नद्दम् । '४४०३ नहो धः ।८।२।३४॥' इति धत्वम् । हलन्तलक्षणा वृद्धिः । भलतोमरममाजींतू शोधितवान् । मृजेरुदित्वात् पक्षे रूपम् । असिपत्रादीनमार्क्षीत् । इडभावे रूपम् । उभयत्रापि '२४७३ । मृजेर्वृद्धिः ।७।२।११४॥ परश्वधानबभासत् दीपितवान् । '२५६५। भ्राज-भास - ।७।४।३।' इति इस्त्रपक्षे रूपम् । अभासी- च्चेति पाठान्तरम् । तत्रान्तर्भावितो ण्यर्थः ॥ १२९३ - कुम्भकर्ण - सुतौ तत्र समनद्धां महा- चलो ॥ निकुम्भश् चैव कुम्भश् च प्राप्तां तौ प्लवङ्गमान् ॥ कुम्भकर्णेत्यादि —– कुम्भश्चैव निकुम्भश्च कुम्भकर्णसुतौ महाबलौ तत्र सैन्ये समनद्धां सन्नद्धौ । तौ च प्लवङ्गमान् प्रापता प्राप्तवन्तौ । ऌदित्वादङ् ॥ १२९४ - अगोपिष्टां पुरीं लङ्कार्मगौप्तां रक्षसां वलम् ॥ 3 अत्याकामा॑युधा॒ऽनीकर्मनैष्टां च क्षयं द्विषः ॥ ११३॥ अगोपिष्टामित्यादि–लङ्कांच पुरीं अगोपिष्टां रक्षितवन्तौ । गुपेरूदित्त्वादिपक्षे रूपम् । अगौप्तामितीडभावपक्षे रूपम् । हलन्तलक्षणा वृद्धिः । '२२८१॥ झलो झलि ।८।२।२६।' इति सिचौ लोपः । आयुधानीकं आयुधसमूहमयाक्तां व्यक्तवन्तौ विसृष्टवन्तौ । '१०५५ । त्यज हानौ' । पूर्ववद्वृद्धिः सिचो लोपः । द्विषः शत्रून् क्षयमनैष्टां नीतवन्तौ । '२२९७ । सिचि वृद्धिः ।७।२।१।' ॥ १२९५ - अकोकूयिष्ट तत् सैन्यं, प्रपलायिष्ट चाऽऽकुलम् ॥ अच्युतच् च क्षतं रक्तं, हृतं चा ऽध्यशयिष्ट गाम् ॥ अकोकूयिष्टेत्यादि — तत् सैन्यं लवङ्गमानां भयादकोकूयिष्ट भृशं शब्दं कृतवत् । १०१७ । कुङ् शब्दे' इत्यस्मात् यडयभ्यासस्य २६४१॥ न कवतेर्यडि ।७।४।६३ ।' इति कुङश्रुत्वप्रतिषेधः । ततो यङन्ताल्लुङ् । प्रपलायिष्ट पलायते , 5 ४०० भट्टि काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे द्वितीयो वर्गः, स्म । अजादेरङ्गस्य । '२२५४ । आडजादीनाम् ।६।४।१२॥ परयोरनङ्गत्वाच '२३२६। उपसर्गस्यायतौ ।८।२।१९॥ इति लत्वम् । क्षतं च खण्डितं च सत् रक्तमच्युतत् क्षरति स्म । '२२६९। इरितो वा ।३।१।५७।' इत्यङ् । हतं च नितं सत् गामव्यशयिष्ट भूमौ पतितम् । '५४२ । अधिशीङ्-1१।४।४६।' इति कर्मसंज्ञा ॥ १२९६ - अङ्गदेना ऽहसातां तौ युध्यकम्पन कम्पनौ, ॥ अभ्यार्दीद् वालिनः पुत्रं प्रजो ऽपि स-मत्सरः, ११५ अङ्गदेनेत्यादि — अकम्पनः कम्पनश्च तौ । ज्येष्ठत्वात् पूर्वनिपातः । युधि संग्रामे अङ्गदेन अहसाताम् । कर्मणि लुङ् । ८२६९६ । आत्मनेपदेष्वन्यतर- स्याम् ।२।४।४४।' इति वधादेशाभावपक्षै रूपम् । प्रजो नाम राक्षसः समत्सरः सक्रोधः वालिनः पुत्रमभ्यार्दीत् प्रहृतवान् ।' १९६८ । अर्द हिंसायाम् ॥ १२९७–तस्या ऽप्य॑वेभिदिष्टा ऽसौ मूर्धानं मुष्टिना ऽङ्गदः ॥ अहार्षीच् च शिरः क्षिप्रं यूपाक्षस्य निराकुलः ॥ ११६ ॥ तस्येत्यादि - तस्य प्रजङ्घस्यापि मूर्धानमसावदो मुष्टिनावेभिर्दिष्ट अत्यर्थं भिन्नत्रान् । भिदेर्यङन्तस्य '२३०८। अतो लोपः ।६।४।४८ ।' । '२६३१॥ यस्य हलः ।६।४।४९।' इति यलोपे रूपम् । निराकुलश्च नाम वानरः यूपाक्षस्य राक्ष- सस्य शिरः क्षिप्रमहापत् छिन्नवान् ॥ १२९८ - शरीरं लोहिताक्षस्य न्यभाद् द्विविदम् तदा ॥ क्रुद्धः कुम्भस् ततो ऽभैत्सीन् मैन्दं स - द्विविदं शरैः ॥ शरीरमित्यादि — द्विविदो नाम वानरो लोहिताक्षस्य शरीरं न्यभाङ्क्षीत् चूर्णितवान् । '१५४७ । भञ्जो आमदने' । ततोऽनन्तरं कुम्भकर्णसुतः मैन्दं वानरं सद्विविदं द्विविदेन सह शरैरभैत्सीत् भिन्नवान् ॥ युग्मम्- १२९९ - आघूर्णिष्टां क्षतौ, क्ष्मां च तावा॑शिश्रयतार्मुभौ ॥ मातुलौ विलौ दृष्ट्वा कुम्भं वालि-सुतो नगैः ॥११८॥ आघूर्णिटामित्यादि – तावुभौ क्षतौ आघूर्णिष्टां चक्रवद् भ्रान्तौ । क्ष्मां च भूतमाशिश्रयतां आश्रितवन्तौ । भूमौ पतितावित्यर्थः । '२३१२ । णि-त्रि- ॥३।१।४८।' इत्यादिना चङ् । तौ च ताराभ्रातृत्वात् मातुलौ विलौ दृष्ट्वा वालि- सुतो नगैर्वृक्षैः कुम्भं प्रौर्णावीदिति वक्ष्यमाणेन सम्वन्धः ॥ . १३०० - प्रौर्णावीच्, छर- वर्षेण तानप्रौहीन् निशा-चरः ॥ वानरानैजिहद् रामस् तूर्ण रक्षितुम॑ङ्गदम् ॥ ११९ ॥ तथा लक्ष्य-रूपे कथानके 'कुम्भकर्ण वधो' नाम पञ्चदशः सर्गः-४०१ प्रौर्णावीदित्यादि — प्रौणवीत् छादितवानित्यर्थः । '२४४७ । दिभापोर्णोः । १।२।३।' इत्यकित्वपक्षे रूपम् । स च निशाचरस्तान्नगान् शरवर्षेणापौहीत् निर- स्तवान् । 'उपसर्गादस्यत्यूयोर्वावचनम्' इत्यात्मनेपदविकल्पः । रामश्च तद्धनु- कौशलं दृष्ट्वा अङ्गदं रक्षिनुं तूर्णं वानरानैजिहत् व्यापारितवान् । ईहतिर्ण्यन्तः ॥ १३०१ - द्रुतम॑त्रास्त सुग्रीवो भ्रातृव्यं शत्रु-संकटात् ॥ 3 मुष्टिना कौम्भकर्णिं चक्रुद्धः प्राणैर॑तित्यजत् ॥१२०॥ द्रुतमित्यादि – सुग्रीवस्तस्माच्छत्रुसंकटात् भ्रातृव्यं भ्रातुरपत्यम् । ११६७१ भातुर्व्यच्च ।४।१।१४४।' । द्रुतमत्रास्त रक्षितवान् । अग्रतो भूत्वा । '१०३४ । त्रैङ् पालने' । कौम्भकार्णै कुभं क्रुद्धः सन् सुष्टिना प्राणैरतित्यजत् त्याजितवान् । त्यजिर्ण्यन्तः ॥ १३०२ - निकुम्भो वानरेन्द्रस्य प्राहैषीत् परिघं ततः ॥ हनुमांश् चा ऽऽपतन्तं तम॑भासद् भोगि- भीषणम् ॥ निकुम्भ इत्यादि – ततो भ्रातृवधात् निकुम्भो वानरस्य सुग्रीवस्य परिधं प्रहैषीत् प्रहितवान् । '१३३७ । हि गतौ ।' परिघमापतन्तं निकुम्भात् भोगि- भीषणं अहिवत् भीषणम् हनूमानभाङ्गीत् भनवान् ॥ १३०३ - प्रौर्णुवीत् तेजसाऽराति॑िम॑रासीच् च भयंकरम् ॥ 2 ग्रीवां चा ऽस्य तथाकाक्षीद॑जिजीवद् यथा न तम्. ॥ प्रौर्णुवीदित्यादि-परिवं च हनुमान् तेजसा मौर्णुवीत् अभिभूतवान् । कित्वादवृद्धिपक्षे रूपम् । भयंकरं चारासीत् शब्दितवान् । अस्य च निकुम्भस्य ग्रीवां तथाक्राक्षीत् आकृष्टवान् । अमागमपक्षे रूपम् । यथा तं नाजिजीवत् न जीवति स्म । ग्रीवामाकृष्यैव व्यापादितवानित्यर्थः । ३१५७॥ भ्राज-भास- ।३।२।१७७।' इत्य स्वपक्षः ॥ १३०४ - समगतकपि- सैन्यं सम्मदेना ऽतिमात्रं, , विटप- हरिण-नाथः सिद्धिमौहिष्ट नित्याम् ॥ नृ- पति - मतिरंरंस्त प्राप्त कामैव हर्षात्, रजनि - चर - पतीनां सन्ततो ऽतायि शोकः. ॥१२३॥ इति भट्टिकाव्ये तिङ्-काण्डे लुङ् - विलसितो नाम पञ्चदशः सर्गः ॥ १५ ॥ समगतेत्यादि — प्रधानयोधा निहता इति सम्मदेन हर्षेणातिमात्रमत्यर्थ समगत संगतं कपिसैन्यम् । '२६९९ । समो गम्युच्छि-।१।३।२९।' इति तङ् । ' २७०० । वा गमः ।१।२।१३।' इति सिच: कित्वेऽनुनासिकलोपः । '२३६९॥ ४०२ भट्ट काव्ये - चतुर्थे दिन्त-काण्डे लक्षण रूपे तृतीयो वर्गः, हवात् ॥२।२७।' इति सिचो लोपः । विटपहरिणनाथः शाखामृगाणां नाथः नित्य सिद्धिमवश्यं भाविनी मौद्दिष्ट तर्कितवान् । नृपतिसतिः रामस्य बुद्धिः प्रातकामेव संपन्नेच्छेव रावणवध-सीतालाभयोः सिद्धिरूपत्वात् । हर्पा- दरंत रमते स्म । रजनिचरपतीनां मेवनादादीनां शोकः सन्ततोऽविच्छिन्नः अतायि वर्धते स्म । '२३२८ । दीप-जन - ।३॥।६॥' इत्यादिना कर्तीरे चिण् ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये चतुर्थे तिङन्त काण्डे लक्षण-रूपे द्वितीयः परिच्छेदः (वर्गः ), तथा लक्ष्य रूपे कथानके 'कुम्भकर्ण-चधो' नाम पञ्चदशः सर्गः ॥ १५ ॥ षोडशः सर्गः- इतः प्रभृति लटमधिकृत्य विलसितमाह - तत्र '२१९३। ऌशेषे च । ३।३।१३।' इति लट् । ततोऽन्यत्रापि दर्शयिष्यति ॥ १३०५ - ततः प्ररुदितो राजा रक्षसां हत-वान्धवः ॥ 'किं करिष्यामि राज्येन, सीतया किं करिष्यते. १ तत इत्यादि — ततोऽनन्तरं रक्षसां राजा रावणः हतबान्धवः व्यापा- दितभ्रातृत्वात् शोकाभिभूतः सन् प्ररुदितः कन्दितुमारब्धः । 'किं करिष्यामि' इत्यादिना । '३०५३। आदिकर्मणि तः - । ३।४।७१। अतिकाये वीरे हते किं करिष्यामि राज्येन, न किंचित् । '२३६६ । ऋद्धोः स्ये ।७।२।७० ।' इतीद । सीतया च किं करिष्यते, न किंचित् ॥ १३०६ - अतिकाये हते वीरे प्रोत्सहिष्ये न जीवितुम् ॥ हेपयिष्यति कः शत्रून्, केन जायिष्यते यमः ॥२॥ अतीत्यादि – वीरे अतिकाये हते जीवितुमेव नोत्सहे किमन्यत्कर्तुम् । -शक्तः पलायनेन कः हेपयिष्यति लज्जयिष्यति । '२५७० । अर्ति-ही-।७।३।३६॥' इत्यादिना णौ पुगन्तगुणः । केन यमः जायिष्यते । '६०२ । जि जये' । कर्मणि हृट् । ८२७५७ । स्य-सिच्- । ६।४।६२।' इत्यादिना चिण्वदि च ॥ १३०७ - अतिकायाद् विना पाशं को वा छेत्स्यति वारुणम् रावणं मंस्यतै को वा, " ॥ स्वयम्भूः कस्य तोक्ष्यति ॥ ३ ॥ W अतीत्यादि – '६०३ । पृथग् विना ।२।३॥३२॥ इति पञ्चमी । अतिकायाहिना वारुणं पाशं को वा छेत्स्यति द्विधा करिष्यति । को वा रावणं मंस्यते तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम पोडशः सर्गः - ४०३ पूजयिष्यति । स्वयम्भूर्ब्रह्मा कल तोदयति प्रीतिं जनयिष्यति । '१२६० । तुष ग्रीतौ' । '२९५। ष ढोः कः सि /८/२/४१॥ ॥ " B १३०८–१लाघिप्ये केन, को बन्धून् नेप्यत्यु॑न्नतिर्मुन्नतः ॥ कः प्रेष्यति पितॄन् काले, कृत्वा कत्थिष्यते न कः ४ लाघिष्य इत्यादिना - केनाहं लाविये श्लाघां करिष्यामि 'ममेदृशः पुत्रः' इति । कः स्वगुणैरुन्नतः सन् बन्धूनुन्नतिं परां कोटिं नेष्यति । काले पितृक्रियोचिते कः पितॄन् प्रेष्यति तर्पयिष्यति । '१५६९ । प्रीज् तर्पणे' । कृत्वा किंचित्कार्यम् । को न कत्थिप्यते कथनां न करिष्यति 'अहमेवंविधः' इति । अतिकायाद्विनेति सर्वत्र योज्यम् ॥ १३०९ - उद्यस्यति हरिर् वज्रं, विचरिष्यति निर्-भयः ॥ भोक्ष्यते यज्ञ-भागांश् च शूर-मानं च वक्ष्यति ॥५॥ उद्यंस्यतीत्यादि — तथा हरिरिन्द्रः हन्तुं वज्रमुधंस्यति उद्धारयिष्यति । उत्पूर्वाद्यमे रूपम् । निर्भयश्चेतस्ततो विचरिष्यति । यज्ञभागांश्चात्मीयान् भोक्ष्यते भक्षयिष्यति । '२७३७॥ भुजो ऽनवने ।१।३।६६।' इति तङ् । शूरमानं च 'शरोऽस्मि' इति वक्ष्यति धारयिष्यति । वहेः '३२४ । हो ढः ।८।२।३१॥ '२९५ । ष ढोः कः सि ॥८॥२॥४१॥ ॥ १३१० - रविस् तप्स्यति निः शङ्क, वास्य॒त्य॑नियतं मरुत्, ॥ निर्वस्यैत्यृ॒तु-संघातः, स्वेच्छये॑न्दुरु॑देष्यति ॥ ६ ॥ रविरित्यादि — रविः निःशङ्कं शङ्कां विना तप्स्यति धोतिष्यते । मरुच्चा- नियतं स्वच्छन्दो वास्यति । '११२४ । 'वा गति-गन्धनयोः' । ऋतुसंघातः षडृ- तवः निर्वर्त्स्यति सर्वदा न भविष्यति । '२३४७ । वृद्भ्यः स्य-सनोः । १।३।९२ । इति विकल्पः । '२३४८ । न वृद्भ्यश्चतुर्भ्यः ।७।२।५९। इतीदप्रतिषेधः । स्वेच्छ- येन्दुरुदेष्यति सदा पूर्णमण्डलो नोद्गमिष्यति । '१११८। इण् गतौ' ॥ १३११ - तीव्रं स्यन्दिष्यते मेघैरुग्रं वर्तिष्यते यमः ॥ अतिकायस्य मरणे किं करिष्यन्ति नाऽन्यथा ॥७॥ तीव्रमित्यादि - मेवैस्तीव्रं अतिशयेन स्यन्दिष्यते पूर्वं रजःप्रशमनमात्रं वृष्टम् । भावे लट् । '२३४८ । न वृद्भ्यः ।७।२।५९।' इतीप्रतिषेधो न भवति । तत्र परस्मैपदग्रहणमनुवर्तते । यमः उग्रं वर्तिष्यते रौद्रं चरिष्यति । आत्मनेपदे नेट्रप्रतिषेधः । अतिकायस्य मरणे सति इन्द्रादयः किमन्यथा विपर्ययं न करिष्यन्ति किन्तु करिष्यन्तीति । 'किं भविष्यति नान्यथा' इति पाठान्तरम् । तत्र सर्वमेतद्भविष्यतीत्यर्थः ॥ १३१२ - उन्मीलिष्यति चक्षुर्मे वृथा, यद् विनयाऽऽगतम् ॥ आज्ञा लाभन्मुखं नवं न द्रक्ष्यति नरान्तकम् ॥ ८॥ ४०४ भट्टिकाव्ये - चतुर्थे तिङन्त काण्डे लक्षण-रूपे तृतीयो वर्गः, उन्मीलिप्यतीत्यादि – मे मम चक्षुर्वृथा निष्फलमुन्मीलिष्यति । यद्यस्मात विनयागतं विनीतम् । आज्ञालाभोन्मुखम् । नम्र नमनशीलम् नरान्तकं पुत्रं न द्रक्ष्यति ॥ १३१३ - धिङ् मां, त्रि-शिरसा ना ऽहं सन्दर्शिध्ये ऽद्य यत् पुनः ॥ घानिष्यन्ते द्विपः केन , तस्मिन् पञ्चत्वमा॑गते. ॥ ९ ॥ धिङ् मामित्यादि — यत् त्रिशिरसा अद्य पुनरपि नाहं सन्दर्शिप्ये न दृष्टो भविष्यामि । कर्मणि लट् चिण्वदि च । तस्मिन् त्रिशिरसि पञ्चत्वमागते मृते द्विषः शत्रवः केन घानिष्यन्ते । अत्रापि चिण्वाद च ॥ १३१४ - शत्रुभिर् निहते मत्ते द्रक्ष्ये ऽहं संयुगे सुखम्, युद्धोन्मत्ताद् विना शत्रून् समास्कन्त्स्यति को रणे १० शत्रुभिरित्यादि —मत्ते मत्तनाम्नि शत्रुभिर्निहते । तैरेव शत्रुभिः संयुगे सुखमहं द्रक्ष्ये द्रष्टव्योऽस्मि पूर्वं भयादृष्टः । अचिण्वद्भावपक्षे रूपम् । तस्य च आतुर्युद्धोन्मत्ताद्विना रणे शत्रून् कः समास्कन्स्स्यति अभियास्यति । '१०४८ स्कन्दिर् गति-गोषणयोः' । '१२३ । खरि च ।८।४।५५।' इति चर्त्वम् ॥ 3 १३१५ - आह्वास्यते वि-शङ्को मां योत्स्यमानः शत-ऋतुः ॥ प्रकल्प्स्यति च तस्या ऽर्थो निकुम्भे दुरणे हते ११ आह्वास्यत इत्यादि – शतक्रतुरिन्द्रः योत्स्यमानः युद्धं करिष्यन् विशङ्को निर्भयः मां युद्धायाह्वास्यते । '२७०४ । स्पर्धायामाङः । १।३।३१।' इत्यात्मनेपदम् । निकुम्भे दुईणे दुःखेन हन्यत इति । '३३०५ । ईषत् । ३।३॥२६।' इत्यादिना खल । तस्मिन् हते तस्य शतक्रतोरर्थः निष्कण्टकराज्यलक्षणः प्रकल्प्स्यति संपत्स्यते ॥ — १३१६ – कल्पिष्यते हरेः प्रीतिर्, लङ्का चौपहनिष्यते ॥ " देवान्तक ! त्वया त्यक्त्तो रिपोर् यास्यामि वश्यताम् ॥ कल्पिष्यत इत्यादि – शत्रुभिः कुम्भं च निपातितं श्रुत्वा हरेरिन्द्रस्य प्रीतिः कल्पियते भविष्यति । '२३५१ । लुटि चक्लृपः ।१।३।९३॥ इति चकारात्स्य- पनोरपि परस्मैपदविकल्पः । आत्मनेपदे च नेट्रप्रतिषेधः । लङ्का च शत्रुभिरुपह नेप्यते विलोप्स्यते । कर्मणि लृट् । अचिण्वद्भावपक्षः । २३६६ । ऋद्धनोः ये ।७।२।७०।' इतीट् । इह सुरैरागंस्यते । भावे लट् ॥ १३१७ - मरिष्यामि, विजेष्ये वा, हताश चेत् तनया मम, ॥ तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम षोडशः सर्गः- ४०५ हनिष्यामि रिपूंस् तूर्णं, न जीविष्यामि दुःखितः ॥ १३ ॥ मरिप्यामीत्यादि – यदि मम तनया हताः तदा मरिष्यामि शत्रून् वा विजेष्ये । '२५३८ । म्रियतेलुङ् लिङोः - ।१।३।६१।' इति नियमात्तङ् न भवति । उत्तरत्र '२६८५ । वि-पराभ्यां जेः ।१।३।१९।' इति तङ् । ततो रिपून तूर्णं हनि प्यामि । पुनर्बंधुं विनाकृतत्वात् दुःखितः सन् न जीविष्यामि ॥ १३१८ - स्मेष्यन्ते मुनयो, देवाः कथयिष्यन्ति चाऽनिशम् ॥ 'दश-ग्रीवस्य दुर्-नीतेर् विनष्टं रक्षसां कुलम्.' ॥ १४ ॥ स्मेष्यन्त इत्यादि – मुनयो हर्षात् स्मेष्यन्ते हसिष्यन्ति । ङित्त्वात्तङ् । देवा अनिशं कथयिष्यन्ति । यथा दशग्रीवस्य दुतेर्दुर्नयात् रक्षसां कुलं विनष्टम् ॥ १३१९ - केन सम्भावितं तात - कुम्भकर्णत्य राघवः ॥ । रणे कर्त्स्यति गात्राणि मर्माणि च वितर्त्स्यति ॥१५॥ केनेत्यादि — हे तातेति शोकात् बुद्धिस्थं पितरमभिमुखीकरोति । केनैतत्स- म्भावितं निश्चितम् । यत् कुम्भकर्णस्व गात्राणि रणे राघवः कर्त्स्यति छेत्स्यति । '१५२९। कृती छेदने' । मर्माणि वितर्त्स्यति अपनेष्यति । १५४० । उतृदिर् हिंसाऽनादरयोः' । '२५०६ । सेसिचि- ।७।२१५७१' इत्यादिना इडिकल्पः ॥ १३२० - पतिष्यति क्षितौ भानुः पृथिवी तोलयिष्यते ॥ नभस्त्रान् भङ्क्ष्यते व्योम मुष्टिभिस् ताडयिष्यते ॥ पतिष्यतीत्यादि — क्षितौ भूमौ भानुरादित्यः पतिष्यति अधो गमिष्यति । पृथिवी तोलयिष्यते ऊर्ध्वं क्षेप्स्यते । '१७१६ । तुल उन्माने चुरादावदन्तेषु च पठ्यते । कर्मणि लृट् । नभस्वान् वायुः काष्टवद्भक्ष्यते । कर्मणि हृद्र । मुष्टि- भिव्योम ताडयिष्यते हनिष्यते ॥ " ■ १३२१ - इन्दोः स्यन्दिष्यते वह्निः, समुच्छोक्ष्यति सागरः ॥ " जलं धक्ष्यति, तिग्मांशोः स्यन्त्स्यन्ति तमसां चयाः ॥ इन्दोरित्यादि — इन्दोः वह्निः स्वन्दिप्यते प्रस्रविष्यति । '२३५७७ । वृद्भ्यः स्यसनोः ।१।३।१२।' इति परस्मैपदविकल्पः । सागरः समुच्छोक्ष्यति शोषं यास्यति । जलं धक्ष्यति भस्मसात् करिष्यति । '१०६०। दह भस्मीकरणे' 1 '३२४ । हो ढः ।८।२।३१॥ ३२६ । एकाचो बशो भष्- ।८।२॥३७।' इति भभावः । तिग्मांशोरादित्यात्तमसां चयाः तमः संघाः स्यन्त्स्यन्ति । स्यन्देः पूर्ववत्परस्मैपदविकल्पः । २३४८। न वृद्भ्यः ।७।२।५९। इतीप्रतिषेधः ॥ ४०६ भट्टि काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे तृतीयो वर्गः, १३२२ - कुम्भकर्णो रणे पुंसा क्रुद्धः परिभविष्यते ॥ संभावितानि नैतानि कदाचित् केनचिज् जने ॥ १८॥ कुम्भकर्ण इत्यादि – कुम्भकर्णो रणे क्रुद्धः सन्सारभविष्यते । कर्मणि ऌट् । एतानि भानुपतनादीनि कुम्भकर्णपरिभवान्तानि जने लोके केनचित् · न संभावितानि न चिन्तितानि ॥ १३२३ - कुम्भकर्णे हते लङ्कामा॑रोक्ष्यन्ति लवङ्गमाः ॥ दङ्क्ष्यन्ति राक्षसान्, दृप्ता , भक्ष्यन्ति च ममा ऽऽश्रमान् ॥ १९ ॥ कुम्भकर्ण इत्यादि – कुम्भकर्णे इत्थं हते सति लङ्गमा लङ्कामारोक्ष्यन्ति आक्रमिष्यन्ति । ९१६ । रुह बीजजन्मान' । राक्षसान् दक्ष्यन्ति दशनैः छेत्स्यन्ति । इताश्च ममाश्रमान् गृहान् भक्ष्यन्ति चूर्णयिष्यन्ति ॥ १३२४ - चर्त्स्यन्ति वाल-वृद्धांश् च, नर्त्स्यन्ति च मुदा युताः ॥ तेन राक्षस मुख्येन विना तान् को निरोत्स्यति. २० चर्त्स्यन्तीत्यादि — बालान् वृद्धांश्च चर्ल्सन्ति व्यापादयिष्यन्ति । '१४११॥ ती हिंसा-ग्रन्थनयोः' इति तौदादिकः । मुदा हर्षेण युताः नर्त्स्यन्ति । '११९१॥ नृती गात्रविक्षेपे ।' '२५०६ । सेसिचि- ।७।२।५७।' इत्यादिना विकल्पेनेट् । तेन च राक्षसमुख्येन विना तानू को निरोत्स्यति निवारयिष्यति ॥ १३२५ - अमर्षो मे परः, सीतां राघवः कामयिष्यते ॥ च्युत राज्यात् सुखं तस्मात् किं किला ऽसावचाप्स्यति. अमर्ष इत्यादि - अमर्षः क्रोधः पर उत्कृष्टः मम यद्राघवः सोतां काम- यिष्यते । कर्मणि लृट् । तदन्तात्, '२८०२ । अनवकृत्य मर्पयोरकिंवृत्तेऽपि । ३।३।१४५।' इति अमर्षे क्रोधे ऌट् । अन्यञ्च च्युतराज्यात्तस्मात् रामादसौ सीता किं किल नाम सुखमवाप्स्यति तन्न सम्भावयामि । २८०३ । किंकिलास्यर्थेषु ऌट् ।३।३।१४६॥' इति अनवकृप्तावसंभावनायां लृट् ॥ १३२६ - मारयिष्यामि वैदेहीं, खादयिष्यामि राक्षसैः ॥ भूमौ वा निखनिष्यामि विध्वंसस्या ऽस्य कारणम् २२ मारयिष्यामीत्यादि- - अथवा अस्य सर्वस्य विध्वंसस्य विनाशस्य कारणं वैदेहीं मारयिष्यामि व्यापादयिष्यामि । एतैर्वा राक्षसैः खादयिष्यामि भोजयि ब्यामि । ५४० । गति- बुद्धि - [१।४।५२।' इत्यादिना प्रत्यवसानार्थे कर्म संज्ञायां 'ग्रासायाम् 'आदिखाद्यो: प्रतिषेधः' इति कर्तृसंज्ञैव भवति । भूमौ वा निखनिष्यामि ॥ तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम पोडशः सर्गः- ४०७ १३२७ - ना ऽनुरोत्स्ये जगलू-लक्ष्मी, घटिव्ये जीवितुं न वा ॥ न रंस्ये विषयैः शून्ये भवने वान्धवैरहम् ॥ २३ ॥ नानुरोत्स्य इत्यादि – जगलक्ष्मी नानुरोत्स्ये न कामयिष्ये । अनो रुधि: कामे । जीवितुं वा न घटिप्ये प्रयत्नं न करिष्यामि । तस्माद्भवने वान्धवैः शून्ये विषयैः शब्दादिभिर्न रंस्ये न क्रीडां करिष्ये ॥ ● १३२८ - मोदिध्ये कस्य सौख्ये ऽहं, को मे मोदिष्यते सुखे ॥ आदेयाः किंकृते भोगाः कुम्भकर्ण ! त्वया विना. २४ — मोदिष्य इत्यादि - हे कुम्भकर्ण ! त्वया बिना कस्य सौख्ये अहं मोदिप्ये हर्षिप्ये । न कस्यचित् । मम वा सुखे सति को मोदिष्यते हृष्टो भविष्यति । न कश्चिदपि । किंनिमित्तं परभोगा आदेयाः आदातव्याः ॥ तदेव दर्शयन्नाह १३२९ - याः सुहृत्सु विपन्नेषु मार्मुपैष्यन्ति संपदः, ॥ ताः किं मन्यु क्षतता॒ऽऽभोगा न विपत्सु विपत्तयः २५ य इत्यादि – सुहृत्सु त्रिग्धेषु विपन्नेषु याः सम्पदो विभूतयः समुपैष्यन्ति निप्पत्स्यन्ते ताः मन्युक्षताभोगाः शोकैः खण्डिताभोगाः किं विपत्सु न विपत्तयः क्षतक्षारसंस्थानीया भवन्तीति ॥ १३३० - 'विनङ्क्ष्यति पुरी क्षिप्रं, तूर्णमेष्यन्ति वानराः ॥ अ-सन्धित्सोस् तवै' त्यैतद् विभीषण-सुभाषितम्. २६ — विनङ्क्ष्यतीत्यादि – असन्धिसोः रामेण सन्धानमनिच्छोः क्षिप्रमेषा पुरी लङ्का विनङ्क्ष्यति । '२५१७ । मस्जि नशो:- ।७।१।६०।' इति नुम् । ततः तूर्णं वानरास्तां समेष्यन्ति । उभयत्रापि ' २७९१ । क्षिप्रवचने लट् ।३।३।१३३॥' तदेतद्विभीषणभाषितं सर्वमुपपन्नम् । धर्म निर्णीय तेनोकं 'सन्धानमेवास्तु परैः ' इत्यादिना ॥ १३३१ - 'अर्थेन संभृता राज्ञा न भाषिष्यामहे वयम् ॥ ॥ संयोत्स्यामह,' इत्यैतत् प्रहस्तेन च भाषितम् ॥२७॥ अर्थेनेत्यादि — राज्ञा वयमर्थेन भृताः ततो न भाषिष्यामहे किमत्र युक्तमिति एतव्प्रहस्तेन भाषितं तच्च तथैव सम्पादितम् । स्मशब्दोऽत्र निपातः । यद्यपीदृशं मन्ननिर्णये प्रहस्तेन नोकं 'सन्धानमेवास्तु परैः' इत्यादिना, तथापि विभीषणवचनादनुमीयते तेनाप्ययमर्थोऽभ्युपगत इति रावण एवमाह । तथाच विभीषणवचनं 'युद्धाय राज्ञा सुभृतैः' इत्यादि । १३३२ - मानुषो नाम पत्काषी राजानं पुरुषाऽशिनाम् ॥ योधयिष्यति संग्रामे दिव्याऽस्त्र - रथ- दुर्जयम् ॥२८॥ ४०८ भट्टि काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे तृतीयो वर्गः, मानुष इत्यादि - मामेवं दुर्जयं मानुषो नाम पत्कापी पादाभ्यां गमनशील: यदातिः सन् । '९९२। हिम- काषि-हतिषु च । ६।३।५१२४॥ इति पादस्य पदादेशः । पुरुषाशिनां रक्षसां राजानं दिव्यास्त्ररथतया दुर्जेयं दुरभिभवतीयं योधयिष्यति ॥ एवं बहुधा विलय जातामर्पः पुनराह- १३३३ –सन्नत्स्याय॑थवा योद्धुं, न कोप्ये सत्त्व-हीन-वत्, अद्य तर्त्स्यन्ति मांसाऽदा, भू: पास्यत्य॑रि-शोणितम्, सन्नत्स्यामीत्यादि —–सत्त्वहीनवत् सत्त्वेन हीन इव न कोप्ये न रोदिमि '११११५। कु शब्दे' । योद्धुं सन्नत्स्यामि सन्नाहं करिष्ये ऽहमिति । अत्र किंवृत्ते. प्यम लिडपवादो लट् । '४४०। नहो धः ॥२।३४॥ १२ । खरिच ।८।४।५५।' इति चर्लम् । ततश्चाद्यास्मिन्नहनि मांसादाः क्रव्यादाः तन्ति तृप्ता भविष्यन्ति । '२९७७ । अदोऽनन्ने ।३।२।६८ ।' इति विटि प्राप्ते वासरूपविधिना अणपि भवति । भूश्च हतानामरीणां शोणितं पास्यति । '२८०८। शेषे लुट् १३।३।१५१॥' ॥ 11 १३३४ – आकर्श्यामि यशः, शत्रून॑पनेप्यामि कर्मणा, अनुभाविष्यते शोको मैथिल्याऽद्य पति- क्षयात्. ३० ॥ सर्वयोद्धृणां यश आकर्यामि आकर्ध्यामीत्यादि आहरिष्यामि । शत्रूंश्च कर्मणा युद्धाख्येनापनेष्यामि न्यूनयिष्यामि । अद्य पतिक्षयात्पति विनाशात् शोको मैथिल्या सीतया अनुभाविष्यते संवेदयिष्यते । कर्मणि लृट् चिण्वदिट् ॥ १३३५ - मन्तूयिष्यति यक्षेन्द्रो, वल्गूयिष्यति नो यमः, 11 ग्लास्यन्त्य - पति पुत्राश च त्रने वानर - योषितः ॥ ३१ ॥ organ 11 मन्तूयिप्यतीत्यादि – यक्षेन्द्रो धनदः दाशरथिमापनं श्रुत्वा मन्तूयि- ध्यति दुर्मना भविष्यति । यमच न वल्गृयिष्यति हृष्टमना न भविष्यति । मन्तु- वल्गुशब्दाभ्यां । '२६७८ कण्वादिभ्यो यक् ।३।१।१७।' तदन्तात् लट् । वने वानरयोषितः अपतिपुत्राः सत्यः ग्लास्यन्ति ग्लानिं यास्यन्ति ॥ १३३६ - सुखं स्वप्स्यन्ति रक्षांसि, भ्रमिष्यन्ति च निर्भयम्, 11 न विक्रोक्ष्यन्ति राक्षस्यो, , नरांश चा उत्स्यन्ति हर्षिताः ॥ ३२ ॥ सुखमित्यादि - रक्षांसि चैतानि सुखं स्वप्स्यन्ति निर्भयं च भ्रमिष्यन्ति । राक्षस्यश्च न विक्रोक्ष्यन्ति न क्रन्दिष्यन्ति । '९१३ । कुश आह्वाने रोदने च' । सत्यो नरानत्यन्ति भक्षयिष्यन्ति ॥ तथा लक्ष्य-रूपे कथानके 'रावण- विलापो' नाम षोडशः सर्गः - ४०९ युग्मम् ३३-३४- १३३७–प्राङ् मुहूर्तात् प्रभातेऽहं भविष्यामि ध्रुवं सुखी ॥ आगामिनि, ततः काले यो द्वितीयः क्षणोऽपरः ॥ प्रागित्यादि – योऽयमागामी प्रभातकालः मुहूर्तद्वयसम्मि॒ितः तस्मि॑िस्त॒स्येति षष्टीसप्तम्योरभेदात् । यो द्वितीयो मुहूर्तः तस्मात् प्राकू प्रथमे मुहूर्ते अहमवश्यं सुखी भविष्यामि । तदानीं हतशत्रुत्वात् । ततः प्रभातादागामी यः कालः क्षणद्वयसंमितः तस्मिन्नागामिनि काले यो द्वितीयः तस्माद्यदपरः क्षणः पूर्वः तत्रेति वक्ष्यमाणेन सम्बन्धः ॥ 1 १३३८ - तत्र जेतुं गमिष्यामि त्रिदशेन्द्रं सहाऽमरम् ॥ , 3 ततः परेण भूयो ऽपि लङ्कामे॑ष्याम्य॑मत्सरः ॥३४॥ तत्रेत्यादि[-तत्र क्षणे त्रिदशेन्द्रं सहामरं देवैः सहितं जेतुं द्रुतं गमिष्यामि । प्राङ् मुहूर्तात् सुखी भविष्यामि । क्षणाद्यदपरं तत्र जेतुं गमिष्यामीति '२७९५ । कालविभागे चानहोरात्राणाम् ।३।३।१३७।' इति अनद्यतनवत् प्रत्ययप्रतिषेधे लृट् । तत्र हि '२७९३ । नानद्यतनवत् १३।३॥३५।' इति 'भविष्यतिमर्यादावचनेऽवरस्मिन्' इति चानुवर्तते । तत्र जेतुं कालमर्यादाविभागे सति योऽवर आद्यप्रविभागः तत्र भविष्यति काले अनद्यतनवत्प्रत्ययविधिर्न भवति । ततो लट्प्रतिषेधालुडेव भवति । ततः परेणेति यस्मिन्नागामिनि काले शक्रं जेतुं गमि- प्यामि तत्र द्वितीयो यः क्षणस्तस्मात् परेणोपरिष्टात्तं शक्रं जिवा भूयोऽपि लङ्कामे- प्यामि । आङ्पूर्वस्येणो रूपम् । अमत्सरो विगतक्रोधः सन् । ८१७९३ । परस्मिन् विभाषा ।३।३।१३८।' इत्यनेन विभाषालुद्रप्रतिषेधाल्लृट् । तत्र हि कालविभागे सति भविष्यति काले परस्मिन् विभाषा अनद्यतनवव्प्रत्ययविधिर्न भवतीत्युक्तम् ॥ १३३९ - तमेवं वादिनं मूढमि॑न्द्रजित् समुपागतः ॥ " 'युयुत्सिष्ये ऽहमित्येवं वदन् रिपु-भयंकरः ॥ ३५॥ तमित्यादि – तं रावणं मूढत्वादेववादिनं एवंभाषणशीलं इन्द्रजित रिपोर्भयं·करः समुपागतः । युयुत्सिष्येऽहं योद्धुमिच्छां करिष्यामीति ब्रुवन् ॥ केन सह योद्धुमिच्छामीति चेदाह १३४० -ना ऽभिज्ञा ते महाराज !, जेष्याव: शऋ- पालितम् ॥ दृप्त-देव-गुणाssकीर्णमा॑वां सह सुरा॒ऽऽलयम् ॥ ३६ ॥ नाभिशेत्यादि — हे महाराज ! ते तव नाभिज्ञा स्मृतिः सुरालयं शक्रेण पालितं हसैश्च देवगणैराकीर्णं व्याप्तम् । आवां द्वावपि सह संभूय जेष्यावः जितचन्तौ । '२७७३ । अभिज्ञावचने लृट् ।३।२।११२॥' तत्र 'भूतानद्यतने' इति वर्तते भ० का० ३५ ४१० मट्टि-काव्ये - चतुर्थे निङन्त काण्डे लक्षण-रूपे तृतीयो वर्गः, १३४१ - ना ऽभिज्ञा ते, स-यक्षेन्द्रं भक्ष्यावो यद् यमं वलात् ॥ रत्नानि चा ssहरिष्यावः, प्राप्स्यावश् च पुरीमि॑माम् ॥ ३७ ॥ > नाभिज्ञेत्यादि – न सेत्यभिज्ञास्ति । सयक्षेन्द्रं धनदसहितं यमं बलात् सामर्थ्येन आवां भक्ष्याव: भग्नवन्तौ रखानि च ताभ्यां बलादाहरिप्यावः । इमां च पुरीं लङ्क प्राप्स्याव: । '२७७५ । विभाषा साका ।३।२।११४ । इति लट् । लक्ष्यलक्षणयोः सम्बन्धे प्रयोक्कुराकाङ्क्षा । तत्र भञ्जनं लक्षणं रखाद्याहरणं च लक्ष्यम् ॥ १३४२ - एप पेक्ष्याम्य॑रीन् भूयो, न शोचिष्यसि रावण ! ॥ जगद् द्रक्ष्यसि नी - रामम॑वगाहष्यसे दिशः ॥ ३८॥ M एप इत्यादि - एपो ऽहं भूयः पुनरगन् पेक्ष्यामि चूर्णयिष्यामि । वर्तमा नसामीप्ये वर्तमानिकप्रत्ययस्य विकल्पेन विधानालडेव भवति । येन हे रावण ! न शोचिष्यसि शोकं न करिष्यसि । भविष्यति लृट् । जगत् नीराम रामरहितं द्रक्ष्यसि । दिशश्च सर्वा अवगाहिष्यसे व्याप्स्यसि ॥ १३४३ - सह - भृत्यः सुरा॒ऽऽवासे भयं भूयो विधास्यसि ॥ प्रण॑स्य॒त्य॑द्य देवे॒न्द्रस् त्वां, वक्ष्यति स सन्नतिम्. ३९ सहेत्यादि – भृत्यैः सह सुरावासे स्वर्गे भूयो भयं विवास्यसि करिष्यसि । देवेन्द्रश्च त्वां प्रणंस्यति 'त्वदीयोऽहम्' इति निवेदयिष्यति । वक्ष्यति च सन्नतिं भणिष्यति च नमस्कारम् ॥ १३४४ - भेष्यते मुनिभिस् त्वत्तस् त्वम॑धिष्ठास्यसि द्विषः ॥ ज्ञास्ये ऽहमद्य संग्रामे समस्तैः शूर मानिभिः ॥ ४०॥ सेप्यत इत्यादि – मुनिभिस्त्वत्तो भेप्यते भीतर्भवितव्यम् । भावे लट् । त्वमधिष्ठास्यसि द्विपः शत्रून् परिभविष्यसि । ५४२ । अधिशीङ्- ।१।४।४६ । ' इति कर्मसंज्ञा याचाहं तादृशः संग्रामे ज्ञास्ये ज्ञातो भविष्यामि । कर्मणि लट् । कैः । समस्तैः शूरमानिभिः वयं शूरा इत्यात्मानं मन्यमानैः । '२९९३ । आत्ममाने खश्च ।३।२।८३ ॥ ॥ १३४५ - ज्ञायिष्यन्ते मया चा ऽद्य वीरं मन्या द्विषद्-गणाः ॥ गृहिष्यामि क्षितिं कृत्तैरेद्य गात्रैर् वनौकसाम् ॥ ४१ ॥ तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम षोडशः सर्गः - ४११ ज्ञायिष्यन्त इत्यादि - एते च द्विषां गणाः शत्रुसंधाः वीरंमन्याः अद्य मया ज्ञायिष्यन्ते परिछेत्स्यन्ते याहशा इति । कर्मणि लृट् । चिण्वदि । वनौकस कपीनां गात्रैः [ कृत्तैः ] छिन्नैरद्य क्षितिं गृहिष्यामि ॥ १३४६ - आरोक्ष्यामि युगान्त- वारिद-घटा- संघट्ट - धीर ध्वनिं निर्यास्यन् रथर्मुच्छ्रित ध्वज-धनु:- खड्ग-प्रभा-भासुरम् ॥ श्रोष्यस्य॑द्य विकीर्ण-वृक्ण-विमुखव्यापन्न- शत्रौ रणे तृप्तांश छोणित - शोण-भीषणमुखान् ऋव्या॒ऽशिनः क्रोशतः ॥ ४२ ॥ 3 इति भट्टि-काव्ये तिङन्त-काण्डे ऌडू - विलसितो नाम षोडशः सर्गः ॥ आरोक्ष्यामीत्यादि — अतोऽहं रथमारोक्ष्यामि निर्यास्यन् इतो निर्गच्छन् । आरोक्ष्यामीति क्रियायां क्रियार्थायामुपपदे निर्यास्यन्निति '२१९३ । ऌट् शेषे च ।३।३।१३।' इति चकारा । कीदृशं रथम् । युगान्ते प्रलयकाले या वारिद- घटास्तासां यः संघट्टः परस्परसंमर्द: तस्येव धीरो गम्भीरो ध्वनिर्यस्य रथस्य । उच्छ्रिता ध्वजाः धनूंषि च यत्र । खड्गप्रभाभिश्व भासनशीलो यः । पश्चाद्विशे- षणसमासः । उच्छ्रितानां वा ध्वजादीनां प्रभाभिर्भासुर इति योज्यम् । विकीर्णा इतस्तो विक्षिप्ता वृक्णाः छिन्नाः छिन्नमस्तकाः विमुखाः पराङ्मुखा व्यापत्न्ना मृताः शत्रवो यस्मिन् रणे। क्रव्याशिनः शृगालादीन् क्रोशतः फूत्कुर्वतः अद्य श्रोष्यसि । कीदृशान् । तृप्तान् शोणितमांसोपभोगात् । शोणितेन शोणानि लोहितानि तत एव भीषणानि भयंकराणि मुखानि येषामिति । वृश्चेरोदितो निष्ठानत्वस्यासिद्धत्वात् चोः कुत्वे वृक्ण इति ॥ इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये चतुर्थे तिङन्त-काण्डे लक्षण-रूपे तृतीयः परिच्छेदः (वर्गः ) तथा लक्ष्य-रूपे कथानके 'रावण-विलापो' नाम षोडशः सर्गः ॥ १६ ॥ १ – पद्येऽस्मिन् वृत्तं शार्दूलविक्रीडितम् । तल्लक्षणम् – 'सूर्यांश्चैर्म-स-जस्-त-ताः सगुरवः शार्दूलविक्रीडितम् ।' इति वृत्तरत्नाकरे भट्टकेदारः । ४१२ भट्टि काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थो वर्गः, सप्तदशः सर्गःइतः प्रभृति लङमधिकृत्य विलसितमाह --तत्र भूतानद्यतने लङ् ततोऽन्यत्र दर्शयिष्यति -- १३४७ - आशासत ततः शान्तिम॑स्नु॑र॒ग्नीनेहावयन् ॥ विप्रार्नवाचयन् योधाः, प्राकुर्वन् मङ्गलानि च ॥१॥ आशासतेत्यादि- ततः प्रतिज्ञानन्तरं योधाः इन्द्रजित्सम्बन्धिन इत्यर्थात् उपद्रवपरिहारार्थ शान्तिमाशासत अभीष्टवन्तः । १०९२ । आङः शासु इच्छायाम्' इत्यनुदात्तेत् । '२२५८ । आत्मनेपदेष्वनतः ।७।१।५।' इत्यदादेशः । शान्ति च दर्शयन्नाह – अस्नुः स्नाताः । '११२६ । ष्णा शौचे' । आत इत्यधिकृत्य । '२४६३ लङ: शाकटायनस्यैव । ३ । ४।१११।' इति झेर्जुस्। '२२१४। उस्यपदान्तात् । ६।१।९६।' इति पररूपम् । अनीनहावयन् अग्निकर्म कारितवन्तः । विप्रानवाचयन् स्वस्ति वाचनं कारितवन्तः । मङ्गलानि मङ्गलयुक्तानि कर्माणि कृतवन्तः ॥ १३४८ - अपूजयन् कुल- ज्येष्ठानु॑पागूहन्त वालकान् ॥ स्त्रीः समावर्धयन् साऽस्राः, कार्याणि प्रादिशंस् तथा २ अपूजयन्नित्यादि — कुलज्येष्ठान् वृद्धानपूजयन् पूजितवन्तः पादपतनादिना । बालकानुपागृहन्त आश्लिष्टवन्तः । गतानां भविष्यतीति सास्राः स्त्रीः योषितः । '३०२॥ वाऽम्-शसोः ।६।४।८०।' इतीयङभावपक्षे रूपम् । समावर्धयन् ताम्बू- लादिना संवर्धितवन्तः । 'प्रातिपदिकाद्धात्वर्थे' इति णिच् । तथा कार्याणि गृह. कार्याणि प्रादिशन् निर्दिष्टवन्तः । 'इदमिदं कार्यम्' इति ॥ १३४९ - आच्छादयन्, व्यलिम्पंश् च, प्राश्नन्न॑थ सुरा॒ऽऽमिषम् ॥ प्रापिवन् मधु माध्वीकं भक्ष्यांश चा SSदन् यथेप्सितान् ॥ ३ ॥ आच्छादयन्नित्यादि - आच्छादयन् वस्त्राणि पिनद्धवन्तः । '१८३४। छद संवरणे' चुरादिः । व्यलिम्पंश्च समालिप्तवन्तः । '१७२७ । लिप उपदेहे' । '२५४२।शे मुचादीनाम् ।७।११५९।' इति नुम् । '१४० । न श्छव्यप्रशान् ।८।३।७।' इति रुत्वम् । पूर्वस्यानुनासिकः । अथानन्तरं सुरामिषं प्राश्नन् अभ्यवहृतवन्तः । मधु माध्वीकं मध्वासवं प्रापिबन् सुष्टु पीतवन्तः । भक्ष्यांश्च खण्डपायसादीन् यथेप्सितानादन् भक्षितवन्तः । अडित्यनुवृत्तौ '२४२६ । अदः सर्वेपाम् । ७।२।१०० ।' इत्यडागमः ॥ . १३५० - म्यश्यन् शस्त्राण्य॑भीष्टानि, समनह्यंश् च वर्मभिः ॥ अध्यासत सु-यागानि, द्विषद्भ्यश् चा ऽशपंस् तथा ४ तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः- ४१३ न्यश्यन्नित्यादि – अभीष्टानि यथानुभावितानि शस्त्राणि न्यश्यन् तेजित- वन्तः । '१२२० । शो तनूकरणे' '२५१०। ओतः श्यनि ।७।३।७१॥ इत्योका- रलोपः । वर्मभिश्च कवचैः समनह्यन् संनद्धाः । शरीराण्यावृतवन्त इत्यर्थः । सुयानानि शोभनयानानि अध्यासत आरूढाः । १५४२। अधिशी - ११॥४॥४६॥' इति कर्मसंज्ञा । तथा द्विषद्भ्योऽशपन् आक्रुष्टवन्तः 'पापाः क्व यास्यथ' इति । ८५७२ । श्लाघ-हुङ्-।१।१।३४।' इत्यादिना सम्प्रदानसंज्ञा ॥ १३५१ - अपूजयंश चतुर्-व, विमानार्चस् तथा ऽस्तुवन् ॥ समालिपत शऋऽरिर् यानं चाऽभ्यलषद् वरम् ॥५॥ अपूजयन्नित्यादि–चतुर्वक्रं ब्रह्माणमपूजयन् अर्चितवन्तः । विप्रानार्चन् दाननमस्कारादिना पूजितवन्तः । तथा अस्तुवन् परस्परं स्तुतवन्तः । शकारिश्व इन्द्रजित समालिपत समालिप्तवान् । यानं वरमुत्कृष्टमभ्यलपत् अभीष्टवान् '२३२१॥ वा भ्राश –।३।१।७० ।' इत्यादिना इयनो विकल्पितत्वात् पक्षे शप् ॥ ॥ १३५२–आमुञ्चद् वर्म॑ रऽऽढ्यम॑बघ्नात् खगमु॑ज्ज्वलम् ॥ अध्यास्त स्यन्दनं घोरं, प्रावर्तत ततः पुरः ॥ ६॥ आमुञ्चदित्यादि - रत्नाढ्यं रत्नप्रत्युप्तं वर्म कवचमामुञ्चत् शरीर आमुक्त- वान् । पिनद्धवानित्यर्थः । खङ्गं चोज्वलमबध्नात् कक्षापार्श्वाचितं कृतवान् । घोरं भीषणं स्यन्दनमध्यास्त आरूढः । ततो ऽनन्तरं पुरः पुरतः प्रावर्तत प्रवृत्तः ॥ १३५३ - आनन् भेरीर् महा-स्वानाः, 3 कबूंश चा ऽप्यधमन् शुभान् ॥ अताडयन् मृदङ्गांश च, पेराश चा ऽपूरयन् कलाः ॥ ७ ॥ आघ्नन्नित्यादि - तस्मात् प्रवृत्ताः महास्वानाः महानादाः । ३२३९। स्वन- हसोर्वा ।३॥३।६२।' इत्यप् । भेरीः आघ्नन् ताडितवन्तः । वादका इत्यर्थात् । शुभान् सुस्वरान् कम्बून् शङ्खानधमन् शब्दितवन्तः । '२३६०। पात्रा- ।७।३।७८ ।' इत्यादिना धमादेशः । मृदङ्गांश्चाताडयन् आहतवन्तः । '१६९३॥ तड आघाते' इति चुरादिः ॥ , १३५४ - अस्तुवन् बन्दिनः, शब्दान॑न्योन्यं चौदभावयन् ॥ अनदन् सिंहनादांश च माद्रेकत हय-द्विपम् ॥८॥ 3 अस्तुवन्नित्यादि-बन्दिनः स्तुतिपाठका अस्तुवन् 'जय जीव' इत्यादिना स्तुतिं कृतवन्तः । अन्योन्यं अन्यस्य अन्यस्य च शब्दान् सांग्रामिकनामानि उदभावयन् उद्घाटितवन्तः सैनिका इत्यर्थात् । सिंहनादांश्चानदन् शब्दितवन्तः । ४१४ भट्टि काव्ये -- चतुर्थे तित-काण्डे लक्षण-रूपे चतुर्थी वर्गः, हयद्विपं पशुन्य विभाषैकवद्भावः । प्रादेकत शब्दितवन्तः । ८१ । दे शब्दोत्साहे' इत्यनुदात्तेत् ॥ १३५५ - अ - निमित्तान्यथा ऽपश्यन्न॑स्फुटद् रवि-मण्डलम् ॥ औक्षन् शोणितम॑म्भोदा, वायवोऽवान् सु-दुःसहाः॥ अनिमित्तानीत्यादि — अनिमित्तानि कुत्सितनिमित्तानि । नजत्र कुत्सायाम् । गच्छन्तोऽपश्यन् दृष्टवन्तः । तानि दर्शयति-रविमण्डलमस्फुटत् स्फुटितम्, अम्भोदाः शोणितमौक्षन् वृष्टाः । '७०५ । उक्ष सेचने' । वायवः सुदुःसहाः प्रचण्डा अवान् वान्ति स्म । शाकटायनमतादत्र उसादेशः ॥ १३५६ - आर्च्छन् वामं मृगाः कृष्णाः, शस्त्राणां व्यस्मरन् भटाः ॥ रक्तं न्यष्ठीवदंक्लाम्य- देखिद्यद् वाजि - कुञ्जरम् ॥ १० ॥ आच्छेन्नित्यादि - निर्गच्छतां वामपार्श्व कृष्णमृगा आर्च्छन् गताः । अतः '२६६०। पा-घ्रा -।७।३।७८।' इति ऋच्छादेशः । '१३८० । ऋच्छ गतौ' इत्यस्य वा रूपम् । भटाश्च शस्त्राणां व्यस्मरन् विस्मृतवन्तः '६१३। अधीगर्थ–।२।३।५२॥ इति कर्मणि षष्ठी । वाजिकुञ्जरमखिन्नमश्रान्तमपि रक्तं न्यष्टीवत् । '६०१ ष्ठिवु निरसने' इति भौवादिकस्य ग्रहणम् '२३२० । ष्ठिवु- कुमु-चमां शिति ।७।३।७५॥ इति दीर्घः । अक्लाम्यत् कान्तं च ॥ १३५७ - न तान॑गणयन् सर्वाना॑स्कन्दंश च रिपून्, द्विषः ॥ अच्छिन्दन्न॑सिभि॒िस् तीक्ष्णैर॑भिन्द॑स् तोमरैस् तथा ११ न तानित्यादि — तान् सर्वानशुभान्नागणयन् नादृतवन्तः किमेतैरिति । अपि नु रिपूनास्कन्दन् अभिगतवन्तः । द्विपो राक्षसांस्तीक्ष्णैरसिमिररीनच्छिन्दन् छिन्न- वन्तः । तथा तोमरैस्तीक्ष्णैरभिन्दन् विदारितवन्तः ॥ १३५८ - न्यकृन्तंश् चक्र - धाराभिरंतुदन् शक्तिभिर् दृढम् ॥ भल्लैर॑विध्यन्नु॒ग्रा॒ऽग्रैर॑तॄंह॑स् तोमरैर॑लम् ॥ १२ ॥ न्यकृन्तन्नित्यादि-चक्रधाराभिः न्यकृन्तन् छिन्नवन्तः । मुचादित्वानुम् । शक्तिभिश्च दृढमत्यर्थमतुदन् व्यथितवन्तः । भलैरविध्यन् ताडितवन्तः । '२४१२॥ अहि-ज्या-।६।१।१६।' इति सम्प्रसारणम् । उम्राग्रैस्तीक्ष्णाम्रैस्तोमरैरलं पर्याप्त॒मंहन् इतवन्तः । '१५४९। तृह हिंसायाम् ।' रुधादित्वात् अम् । अल्लोपानुस्खारौ ॥ १३५९ - आस्यन् प्लवङ्गमा वृक्षान॑ध॒न्वन् भू-धरैर् भृशम् ॥ अहिंसन् मुष्टिभिः क्रोधादंदशन् दशनैरपि ॥१३॥ " तथा लक्ष्य-रूपे कथानके 'रावण-वधो' न.न सप्तदशः सर्गः- ४१५ आस्यन्नित्यादि – प्लवङ्गता अपि वृशानास्यत् क्षितवन्तः । '१२८५। असु क्षेपणे' । तथा भूधरैः पर्वतैरथुन्न् हृतवन्तः 'अधूर्वन्' इति पाठान्तरम् । तत्र '२२६५। उपधायां च ॥२।२८॥ इति दीर्घः । क्रोधान्मुष्टिभिरहिंसन् ताडितवन्तः । दशनैर्द्वन्तैरदशन् खादितवन्तः । '२३९६ । दंश-सञ्ज-स्वर्धा शपि ।६।४।२५।' इत्यनुनासिकलोपः ॥ १३६० - प्रादुन्वन् जानुभिस् तूर्णम॑तुद॑स् तल-कूपरैः ॥ प्राहिण्वन्नरि-मुक्तानि शस्त्राणि विविधानि च ॥१४॥ प्रादुन्वन्नित्यादि — जानुभिस्तूर्णं प्रादुन्वन् पीडितवन्तः '१३३६॥ ढुटु उप- तापे ।' स्वादिः । तलकूर्परैः हस्ततलैः प्रकोष्टैश्वातुदन् व्यथितवन्तः । अरिमि कानि विविधानि यानि शस्त्राणि तानि ग्राहिण्वन् प्रहितवन्तः ॥ १३६१ - अतृणेद् शऋ- जिच् शत्रून॑भ्भ्राम्यच् च समन्ततः ॥ अध्वनच् च महा घोरं, न च कंचन नाऽदुनोत्. १५ अतृणेडित्यादि - ततः शऋजिदिन्द्रजित शत्रूनतृणेद हिंसितवान् । तृहे: श्चम् । तस्य '२५४५ ॥ तृण ह इम् ।७।३।९२१' हलुङयादिलोपः । हकारस्य ढत्वजश्त्वचर्त्वानि । समन्ततश्चाभ्राम्यत् भ्रान्तवान् । महाघोरं च भीषणं स्वनं अध्वनत् नादितवान् । न च कंचन नादुनोत् कंचिदपि न नोपतापितवान् अपि तु सर्वानपि पीडितवानित्यर्थः ॥ a १३६२ - नाऽजानन् सन्दधानं तं, धनुर् नैक्षन्त विभ्रतम् ॥ नैषून॑चेतन्न॑स्यन्तं, हतास् तेना ऽविदुर् द्विषः ॥१६॥ नाजाननित्यादि – धनुषि शरं सन्दधानमारोपयन्तमिन्द्रजितं नाजानन् न ज्ञातवन्तः । धनुर्बिभ्रतं नैक्षन्त धनुर्धारयन्तं न दृष्टवन्तः । इपून् शरानस्यन्तं क्षिप्यन्तं नाचेतनू हस्तलाघवात् न ज्ञातवन्तः । '३९ । चिती संज्ञाने' । '१३४॥ ङमो हस्त्रात्- ।८।३।३२।' इति ङमुद्र । तेन हताः सन्तो द्विपः अविदुः ज्ञात- वन्तः पूर्वोकम् । '२२२६ । सिजभ्यस्त-विदिभ्यश्च ।३।४।१०९।' इति झेर्जुस् ॥ १३६३ - अशृ॒ण्वन्न॑न्यतः शब्दं प्रपलायन्त चा ऽन्यतः ॥ आक्रन्दम॑न्यतोऽकुर्व॑स् तेना ऽहन्यन्त चाऽन्यतः १७ अशृण्वन्नित्यादि – अन्यतः अन्यस्मिन् प्रदेशे केचिद् द्विषः शब्दमट- ण्वन् । '२३८६। श्रुवः शृ च ।३।११७१४॥ इति भावः प्रत्ययश्च । अन्यत्र स्थिताः प्रपलायन्त पलायिताः । अन्यतोऽन्यत्र प्रदेशे स्थिताः आक्रन्दं अकुर्वन् रोदनं कृतवन्तः । अन्यतोऽन्यत्र तेनेन्द्रजिता अहन्यन्त व्यापादिताः । कर्मणि लङ् । सर्वत्राद्यादित्वात्तसिः ॥ १३६४ - प्रालोठन्त, व्यभिद्यन्त, परितो रक्तम॑स्रवन्, ॥ पर्यश्राम्यन्नतृप्यंश् च क्षतास् तेना ऽम्रियन्त च १८ ४१६ भट्टि काव्ये - चतुर्थे तिरन्त-काण्डे लक्षण रूपे चतुर्थो वर्गः, प्रालोठन्तेत्यादि – तेन क्षताः केचिद्भूमौ ग्रालोठन्त । '७४९। लुठ लोठने ।' भुवीतस्ततो व्यभिद्यन्त व्यनीयन्त हताः सन्त इतस्ततो नीताः । कर्मणि लङ् । परितः समन्ताद्रक्तमस्रवन् मुक्तवन्तः । पर्यश्राम्यन् खिन्नाः । अतृप्यन् पिपा. सिताः । दिवादित्वात् इयन् । केचिदम्रियन्त । '२५३८ । म्रियतेर्लुङ् लिङो ।१।३।६१।' इति तङ् ॥ १३६५– सौमित्रिरा॑कुलस् तस्मिन् ब्रह्मऽस्त्रं सर्व-रक्षसाम् ॥ निधनाया ऽऽजुहूषत् तं व्यष्टभ्राद् रघु-नन्दनः १९ सौमित्रिरित्यादि- तस्मिन् इन्द्रजिति तथाभूते सति सौमित्रिराकुलो व्यस्त. चित्तः सर्वरक्षसां निधनाय ब्रह्मास्त्रमाजुहूपत् आह्वातुमैच्छत् । '२४२७ अभ्य- स्तस्य च ।६।१।३३।' इति अभ्यस्ताकारस्य ह्वयतेः प्रागेव द्विवचनात् सम्प्रसा. रणम् । तं च सौमित्रिं रघुनन्दनो रामः व्यष्टनात् निवारितवान् 'मा भूद्विीप- णस्यापि नाशः' इति । '२५५५ । स्तम्भु-स्तुभु । ३।१।८२ ।' इत्यादिना प्रत्ययः । '२२७२ । स्तम्भेः ।८।३॥६७ ।' इति मूर्धन्यः ॥ १३६६ - ततो माया-मयीं सीतां घ्नन् खङ्गेन वियद्-गतः ॥ अदृश्यते॑न्द्रजिद्, वाक्यमंवदत् तं मरुत्-सुतः २० S तत इत्यादि — ततोऽनन्तरं इन्द्रजित् वियद्गतः आकाशगतः सीतां माया- मयीं मायानिर्मितां खड्गेन घ्नन् व्यापादयन्नदृश्यत दृष्टः । कर्मणि लङ् । तथाभूतं राक्षसं मरुत्सुतो हनुमान् वाक्यमवदत् भाषितवान् ॥ J १३६७ - 'मा ऽपरानोदियं किंचिदंभ्रश्यत् पत्युर॑न्तिकात् ॥ सीता राक्षस ! मा स्मैनां निगृह्णाः पाप ! दुःखिताम् २१ माऽपराप्नोदित्यादि – हे पाप ! राक्षस ! सीता पत्युरन्तिकादश्यत् अप- गता । इयं भवतो नापरानोत् नापरादा। '१३५३ । राध - साध संसिद्धौ ।' इति स्वादौ । तस्मादेनां दुःखितां मा स्म निगृह्णाः मा वधीः । '२२४० । स्मोत्तरे लक्ष् च ।३।३।१७६।' इति वर्तमाने लडू ॥ १३६८ - 'पीडा करमं- मित्राणां कर्तव्यमिति शऋजित् ॥ अब्रवीत्, खड्ग-कृष्टश् च तस्या मूर्धानम॑च्छिनत्. २२ पीडाकरमित्यादि - इयमपराद्धा भवतु न वा सर्वथा यदमित्राणां पीडा- करं तदवश्यं कर्तव्यमिति शऋजिदब्रवीत् उक्तवान् । खङ्गकृष्टश्च कृष्टः खङ्गो येन । 'प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः तस्या मूर्धानमच्छिनत् छिन्नवान् । तिपो हलङयादिलोपः । दकारस्य चर्वम् ॥ १३६९ - 'यत् कृते ऽरीन् व्यगृह्णीम, समुद्रमंतराम च ॥ सा हते॑ ति वदन् राममु॑पातिष्ठन् मरुत्सुतः ॥२३॥ तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः- ४१७ यत्कृत इत्यादि- [ – यस्याः कृते यन्निमित्तं [ अरीन् ] परान् अशोकवनिका- स्थितान् व्यगृह्णीम विगृहीतवन्तः । '२२२० । नित्यं ङितः । ३।४।१९। इति लङि उत्तमस्य लोपः । समुद्रं चातराम तीर्णवन्तः । '२१७० । अतो दीर्घौ यजि ।७।३।१०१।' इति दीर्घः । सा सीता हतेति वदन्मत्सुतः राममुपातिष्ठत् ढौकितवान् । अत्र यमुना गङ्गामुपतिष्ठत इत्येवं सङ्गतकरणम् । उपश्लेषो नास्तीति 'उपाद्देवपूजा-' इत्यादिना तङ् न भवति ॥ १३७० - ततः प्रामुह्यतां वीरौ राघवाव॑रुतां तथा ॥ उष्णं च प्राणतां दीर्घमुच्चैर् व्याक्रोशतां तथा ॥ २४ ॥ तत इत्यादि — ततो हनुमद्वचनानन्तरं राघवौ वीरौ प्रामुह्यतां मोहं गतौ तथाऽरुतां ऋन्दितवन्तौ । '११०७। रु शब्दे' । '२४४३ । उतो वृद्धिः - १७।३।८९। ' न भवति तत्रापि 'सार्वधातुके' इत्यनुवर्तते । तथा दीर्घमुष्णं च प्राणतां निश्वसितवन्तौ । '११४४ । अन प्राणने' । '२४७४ । 'रुदादिभ्यः सार्वधातुके । ७।२।७६।' इतीट् । तथा उच्चैराक्रोशतां 'हा सीते' इति आहूतवन्तौ ॥ १३७१ तावभाषत पौलस्त्यो 'मा स्म प्ररुदितं युवाम् ॥ > 1 ध्रुवं स मोहयित्वाऽस्मान् पापोऽगच्छन्निकुम्भलाम् ॥ तावित्यादि – पौलस्त्यो विभीषण आगत्य तौ तथाभूतावभाषत उक्तवान् युवां मा स्म प्ररुदितं मारोदिष्टम् । '२२२०१ स्मोत्तरे लङ् च ।३।२।१७६। इति लङ् । यतो ध्रुवमवश्यं स इन्द्रजित् पापः अस्मान् मोहयित्वा मायया विमोह्य । मुहेरकर्मकत्वाद् '५४०१ गति बुद्धि । १।४।५२।' इत्यादिना कर्मसंज्ञा । निकुम्भिलामग्निगृहमगच्छत् गतवान् । तत्र भूतानद्यतन एव लङ् ॥ १३७२ मा स्म तिष्ठत, तत्र-स्थो वध्यो ऽसार्व- हुता॒ऽनलः ॥ अस्त्रे ब्रह्म - शिरस्यु॑ स्यन्दने चा ऽनुपार्जिते ॥ २६ ॥ मा स्मेत्यादि — मा स्म तिष्टत मा विलम्बध्वं, गच्छत । '२२२० । स्मोत्तरे लङ् च ।४।३।१७६।' यतस्तत्रस्थो निकुम्भिलास्थोऽसावहुतानलः अकृताग्निकार्यो वध्यः शक्यो हन्तुम् । '२८२३ । शकि लिङ् च ।३।३।१७२ ।' इति चकारात् '३३१२ । कृत्याश्च । ३।३।१७१।' इति वचनात् लडू । 'कृत्याश्च' इति वचनात् 'हनो वधश्च' इति उपसंख्यानाद्यत् 'कथमहुतानलो वध्य' इति चेत् अस्त्रे ब्रह्मशिरसि ब्रह्मशिरोनाम्नि उग्रे दुष्प्रयोगे स्यन्दने च अनुपार्जितेऽप्राप्ते सति ॥ कथमुभयं तेनोपार्ज्यत इत्याह१३७३ - ब्रह्मा ऽदधाद् वधं तस्य तस्मिन् कर्मण्यसंस्थिते' । प्रायच्छदाज्ञां सौमित्रेर् यूथपानां च राघवः ॥ २७ ॥ ब्रह्मेत्यादि — यतस्तस्यां निकुम्भिलायां कर्मण्यसंस्थिते असमाप्ते ब्रह्मा वर्ध तस्यादधात् धारितवान् । उक्तवानित्यर्थः । लौ द्विवचनम् । एवं विभीषणवचः भट्टि-काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थी वर्गः, राघवः सौमित्रेर्यूथपानां च गन्तुमाज्ञां प्रायच्छत् दत्तवान् । '९९६ १ 'ने' । '२३६०। पात्रा १७१३१७८।' इत्यादिना यच्छादेशः ॥ ४ – तां प्रत्यैच्छन् सु-संप्रीतास् ततस् ते स-विभीषणाः ॥ निकुम्भिलां समभ्यायन, न्यरुध्यन्त च राक्षसैः ॥२८॥ मेत्यादि- ततस्ते सविभीषणाः सुसंग्रीवास्त्रामाज्ञां प्रच्छन् प्रतीष्टवम्दः तवन्तः । १४४० । इषु इच्छायाम्' । '२४००। इपु-गमि-यमां छः ७ ।' ते च निकुम्भिलां समभ्यायन समभिगताः । ८५०८ । अय गतौ । दिक्पाला: राक्षसाः तैर्न्यरुध्यन्त रुद्धाः प्रवेष्टुं पन्थानं न लव्धवन्तः । > - दिक् - पालैः कदनं तत्र सेने प्राकुरुतां महत् ॥ ऐतां रक्षांसि निर्जित्य द्रुतं पौलस्त्य-लक्ष्मणौ ॥ २९ ॥ पालैरित्यादि-तत्र निकुम्भिलो देशे उभे अपि सेने महत्कदनं विनाप्राकुरुतां कृतवन्तौ। तानि रक्षांसि वर्जिय पौलस्त्यलक्ष्मणौ द्रुतमैतां ८१११८ । इण् गौ ।' आटू वृद्धिः ॥ -तत्रे॑न्द्रजितमैक्षैतां कृत-धिष्ण्यं समाहितम् ॥ सो ऽजुहोत् कृष्णवर्त्मानमा॑मनन् मन्त्रमुत्तमम् ॥३०॥ पादि-तत्र निकुम्भिलायां तात्रैक्षेतां दृष्टवन्तौ । इन्द्रजितं कृतधिष्ण्यं रम् । समाहितं एकाग्रमानसम् । स इन्द्रजित् कृष्णवर्मानमजुहोत् मन्त्रमुत्तममामनन् आवर्तयन् । १९५॥ ना अभ्यासे ।' शर पा-घ्रा-१७७३१७८।' इत्यादिना मनादेशः ॥ M - अध्यायच् छऋजिद् ब्रह्म, समाधेरचलन् न च ॥ तमा॑ह्वयत सौमित्रिरंगर्जच् च भयंकरम् ॥ ३१ ॥ यदित्यादि — शक्रजिदिन्द्रजित्परं ब्रह्माध्यायत् चिन्तितवान् । '९७४। याम्' भत्वं शिति । न च समाधेश्चित्तवृत्तिनिरोधादचलत् चलि तं तथाभूतमिन्द्रजितं सौमित्रिर्युद्धायाह्वयत आहूतवान् । भयंकरं ब्दितवान् ॥ अकुप्यदिन्द्रजित् तत्र, पितृव्यं चाऽगदद् वचः ॥ त्वमंत्रा ऽजायथा, देह इहा ऽपुष्यत् सुराऽमिषैः, ३२ यदित्यादि- - तत्र तस्मिन्नाह्वाने कृतवति गर्जिते च सति अकुप्यत् १२ । कुप क्रोधे' देवादिकः । पितृव्यं च पितृभ्रातरं विभीषणम् । पितृश रिं व्यन्निपातितः । वचो वक्ष्यमाणमगदत् उक्तवान् । अत्रास्मिन् सजायथाः जातोऽसि । १२२४ । जनी प्रादुर्भावे ।' देवादिको तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४१९ अनुदात्तेत् इह च देहः सुरामिषैरपुष्यद् वृद्धिं गतः । पुर्देवादिकः । देहनपुष्य इति पाठान्तरम् । तत्र देहं पोपितवानसि । अन्तर्भावितण्यर्थो द्रष्टव्यः ॥ १३७९ - इहा ऽजीव, इहैव त्वं क्रूरमरभथाः कथम् ॥ " . नाऽपश्यः पाणिमर्द्रं त्वं बन्धु-त्वं नाऽप्यपैक्षथाः ३३ इहेत्यादि-इहाजीवः जीवितोऽसि कथमिहैव त्वं क्रूरं कर्म आरभथाः आरब्धवानसि । आई पाणिं च नापश्यत्वं न दृष्टवानसि । यावता कालेन भुक्त्वा पाणिः शुष्यति तावन्तमपि कालं नापेक्षितवानसीत्यर्थः । आस्तां ताव- देतत् । बन्धुत्वमपि एकगोत्रत्वमपि नापैक्षथाः ॥ १३८० - अ धर्मान् ना ऽत्रसः पाप ! लोक-वादान् न चा ऽबिभेः ॥ धर्म-दूषण ! नूनं त्वं ना ऽजाना, ना ऽशृणोरिदम् ॥ ३४ ॥ १ • अधर्मादित्यादि – हे पाप ! अधर्मादपि नात्रसः न त्रस्तोऽसि । '११९२॥ त्रसी उद्वेगे' । दिवादौ । '२३२१ । वा आश-।३॥।७०१' इत्यादिना पक्षे शप् । लोकवादात् जनापवादात् न चाबिभेः न भीतोऽसि । लौ द्विवचनम् । धातो- र्गुणः । ८५८८ । भी त्रार्थानाम्- ।१।४॥२५।' इत्यपादानसंज्ञा । हे धर्मदूषण । धर्मस्य दूषण धर्मोच्छेदक । अतिविपरीते स्थितत्वात् । १२६१ । दुप वैकृत्ये' । ८२६०४ । दोषो णौ ।६।४।१०।' इत्युपधाया ऊत्वम् । दूषयतीति दूषणः । '२८४१ । कृत्यल्युटो बहुलम् ।३।३।११३।' इति कतेरि ल्युट् । न तु नन्यादि- पाठे ल्युः । तत्र हि 'नन्दि-वाशि-मदि-दूषि- साघि-पचि-शोधि-रोचिभ्यो ण्यन्तेभ्यः पूजायाम्' इत्युक्तम् । न चात्र पूजा गम्यत इति । नूनं अवश्यं त्वं नाजानाः स्वयमिदं न ज्ञातवानसि । '१६०४ । ज्ञा आवबोधने ।' क्यादावुदात्तेत् । २५११। ज्ञा-जनोर्जा ।७।३।७९' । इदमन्यतोऽपि नाशृणोः द्विषयो न श्रुतवानसि ! '२३८६ । श्रुवः ट च ।३।१।७४ । १ ॥ किं तदित्याह१३८१- निराकृत्य यथा वन्धून् लघु-त्वं यात्य - संशयम्' ॥ पितृव्येण ततो वाक्यमभ्यवीयत शऋजित् ॥ ३५ ॥ निराकृत्येत्यादि — यथा बन्धून् निराकृत्य परित्यज्य [लघुत्वम् ] लघुतां यात्यसंशयमसन्देहम् । ततः पुत्रोक्तेरनन्तरं पितृव्येण विभीषणेन शऋजिद्वाक्यमभ्यघीयत अभिहितः । कर्मणि लङ् । '२४६२ । घु-मास्था । ६॥।६६।' इतीत्वम् ॥ १३८२ - 'मिथ्या मा स्म व्यतिक्रामो, मच्छीलं मा न बुध्यथाः ॥ ४२० भट्टि काव्ये – चतुर्थी तिङन्त काण्डे लक्षण-रूपे चतुर्थी वर्गः, सत्यं समभवं वंशे पापानां रक्षसाम॑हम् ॥ ३६ ॥ मिथ्येत्यादि — मिथ्या मृषा मा स्म व्यतिक्राम: मा परिभूः । ८२३२२ । क्रमः ।७।३।७६।' इत्यादिना शिति दीर्घः । शीलं स्वभावः मा न बुध्यथाः मा न बुद्धास्त्वं अपि तु ज्ञातवानसि । '२२२०। स्मोत्तरे लङ् च ।३।३।१७६। पापानां रक्षसां वंशेऽहं सत्यं समभवं संभूत इति ॥ १३८३ - न त्वजायत मे शीलं ताहगू, यादृक् पितुस् तव ॥ क्षussवहेषु दोषेषु वार्यमाणो मया डरमत् ॥ ३७ ॥ नत्वित्यादि – यद्यप्यहं राक्षसकुले जातस्तथापि तव पितुर्थादृक् शीलं स्वभा वस्तादृक् मे न त्वजायत नैवाभूत् । यतोऽसौ क्षयमावहन्तीति क्षयावहाः । पचाद्यच् । तेषु दोपेषु परस्त्रीहरणादिपु मया वार्यमाणोऽपि । दशग्रीव इनि संबन्धः । अरमत् रतिं कृतवान् । २७४९ । व्याङ् परिभ्यो रमः । १।३१८३॥ इति परस्मैपदम् ॥ १३८४ - दश-ग्रीवो ऽहमे॑तस्मा॑दत्यजं, न तु विद्विषन्. 11 पर स्वान्यार्जयन्, नारीर॑न्यदीयाः परामृशत् ॥३८॥ दशग्रीव इत्यादि - एतस्मात्कारणादहं रावणमत्यजं त्यक्तवानस्मिन पुन- द्विषन् अमित्रीभवन् । '३१११ । द्विषोऽमित्रे । ३ । २।१३१॥ इति शतृप्रत्ययः । तान् दोषानाह-परस्त्रानि परवित्तानि आर्जयन् अन्यैर्माहितवान् । '२३३।३५॥ अर्ज सर्ज अर्जने' इनि भ्वादौ हेतुमण्णिच् । '१८५८ । अर्ज प्रतियत्ने' इति चौरादिकस्य वा रूपम् । अन्यदीयाः नारीश्च परामृशत् स्पृष्टवान् । १५५९ मृश आमर्शने इति तुदादावनुदात्तेत् ॥ " १३८५ - व्यजिघृक्षत् सुरान् नित्यं, प्रामाद्यद् गुणिनां हिते, ॥ आशङ्कत सुहृद् बन्धून॑ वृद्धान् बहुमन्यत ॥ ३९॥ व्यजिघृक्षदित्यादि – सुरान् नित्यं व्यजिघृक्षत् विग्रहीतुमैच्छत् । गुणिनां माल्यवरप्रभृतीनां यदुक्तं हितं तस्मिन् विषये प्रामाद्यत् प्रमादं गतः । १२८४ । मदी हर्षे' । '२५१९। शमामष्टानाम् - १७।३।७४ । इति दीर्घः । सुहृदो बन्धूंश्च सुहृद्वन्धून् आशङ्कत विकल्पितवान् । अवृद्धान् अविदुषः प्रहस्तादीन् बह्नम- न्यत श्लाघितवान् ॥ १३८६ - दोषैरर मतैभिस् ते पिता ऽत्यज्यत यैर् मया ॥ ततो - रुष्यदनर्दच् च, द्वि-विंशतिभिरैव च ॥४०॥ तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४२१ दोपैरित्यादि — एभिर्दोषैस्तव पिता रावणः अरमत क्रीडितवान् । यैर्दोषै- र्मया अत्यज्यत । कर्मणि लङ् । ततः पितुर्दोषप्रकाशनवचनादनन्तरम् । रावणि- रिति वक्ष्यमाणेन संवन्धः । अरुप्यत् रुष्टः । 'रुष रुष्टौ' । अनर्दच्च विस्फूर्जितवांश्च ॥ १३८७ - शरैरताडयद् वन्धुं, पञ्चविंशतिभिर् नृपम् ॥ ! रावणिस् तस्य सौमित्रिर॑मनाच् चतुरो हयान् ४१ शरैरित्यादि — बन्धुं विभीषणं द्विविंशतिमिरताडयत् । चत्वारिंशतेत्यर्थः । द्वे विंशती येषां शराणामिति बहुव्रीहिः । एवं च '८०८ । व्यष्टनः संख्यायाम्- ।६।३।४७।' इत्यात्वं न । तथा पञ्चविंशतिभिः शरैर्नृप लक्ष्मणं अताडयत् । शतेनेत्यर्थः । द्वौ च विंशतिश्च पञ्च विंशतिश्चेत्यस्मिन् व्याख्याने द्वाविंशत्या पञ्च- विंगत्येति च प्राप्नोति । सौमिन्निस्तु तस्य रावणेश्चतुरो हयान् बाणैरमनात् । '९०५ । मथे विलोडने' इति यादौ ॥ १३८८ - सारथिं चा ऽलुनाद् वाणैरैभनक् स्यन्दनं तथा ॥ सौमित्रिम॑किरद् वाणैः परितो रावणिस् ततः ४२ सारथिमित्यादि — तस्य रावणेः सारथिं चालुनात् छिन्नवान् । '२५५८ । प्वादीनां ह्रस्वः ।७।३।८०११ । तथा स्यन्दनमभनकू भगवान् । '१५४७ । भञ्जो आमर्दने' इति रुधादिः । ततोऽनन्तरं रावणिः सौमित्रिं परितः समन्तात् बाणैरकिरत् छादितवान् ॥ . १३८९ - ताव॑स्फावयतां शक्तिं, वाणांश चाऽकिरतां मुहुः ॥ वारुणं लक्ष्मणोऽक्षिप्यक्षिपद् रौद्रमि॑न्द्रजित्. ४३ तावित्यादि – ताविन्द्रजिलक्ष्मणौ शक्किं सामर्थ्यमस्फावयतां वर्धितवन्तौ । '२५९७॥ स्फायो वः ।७।३।४।१॥ बाणांश्च मुहुरकिरतां विक्षिप्तवन्तौ । वारुण- मस्रं लक्ष्मणोऽक्षिप्यत् । देवादिकस्य रूपम् । इन्द्रजिद्रौद्रं पाशुपतमक्षिपत् क्षिप्तवान् । तौदादिकस्य रूपम् ॥ १३९० - ते परस्परमासाद्य शस्त्रे नाशम॑गच्छताम् ॥ आसुरं राक्षसः शस्त्रं ततो घोरं व्यसर्जयत् ॥४४॥ ते परस्परमित्यादि – ते शस्त्रे परस्परमासाद्य प्राप्य नाशमगच्छतां नाशं गते । ततस्तन्नाशादनन्तरं राक्षसो रावणिः आसुरं असुरदैवतं शस्त्रं घोरं भीषणं व्यसर्जयत् क्षिप्तवान् ॥ १३९१ - तस्मान् निरपतद् भूरि शिला-शूलेष्टि मुद्गरम् ॥ माहेश्वरेण सौमित्रिर॑स्त॒भ्नात् तत् सुदुर्जयम् ॥४५॥ तस्मादित्यादि — तस्मादासुरादत्रात् शिलाशूलेष्टिमुद्गरं निरपतत् । इष्टिः भ० का० ३६ ४२२ भट्टि- काव्ये – चतुर्थे तित-काण्डे लक्षण-रूपे चतुर्थो वर्गः, 9 प्रहरणविशेषः । तच्चासुरं सुदुर्जयं सौमित्रिः माहेश्वरेण अस्तम्नात् स्तम्भितवान् । १२५५५ । स्तम्भु - ३ ।१।८२।' इत्यादिना श्श्रा चकारात् शुश्च ॥ १३९२ - ततो रौद्र-समायुक्तं माहेन्द्रं लक्ष्मणोऽस्मरत् ॥ तेनाssगम्यत घोरेण, शिरश् चा डहियत द्विपः ४६ तन इत्यादि — ततोऽनन्तरं रौद्रसमायुक्तं रौद्रास्त्रेण सहितं माहेन्द्रमस्त्रं लक्ष्मणोऽस्मरत् चिन्तितवान् । तेन स्मरणादेवागम्यत आगतम् । भाषे लड़् । तस्य द्विपः शत्रोः शिरश्चाहियत छिन्नम् । कर्मणि लङ् ॥ १३९३ - अतुप्यन्नमराः सर्वे, ग्राहृष्यन् कपि- यूथपाः ॥ पर्यप्वजत सौमित्रिं, मूर्ध्यजिघच् च राघवः ॥४७॥ अनुष्यन्नित्यादि - तस्मिन् मृते अमरा देवाः । अनुष्यन् तुष्टाः । कपियू- थपाः प्राहृप्यन् प्रहृष्टाः । राघवश्च सौमित्रिं पर्यध्वजत आश्लिष्टवान् । '२३९६ ढंश-सञ्ज–।६।४।२५।' इत्यनुनासिकलोपः । '२२७६ । प्राक् सितादङ्व्यवायेऽपि ।८।३।६३ ॥ इति वचनात् । '२२७५ । परि नि-विभ्यः ।८।३।०७० ।' इत्यादिना पत्वम् । मूर्यजिधच आघातवान् ॥ , १३९४ - अरोदीद् राक्षसाऽनीकमरोदन् नृ-भुजां पतिः ॥ मैथिव्यै चा ऽशपद्ध॑न्तुं तां प्राक्रमत चाऽऽतुरः ४८ अरोदीदित्यादि - राक्षसानीकं राक्षससैन्यमरोदीत् रुदितम् । '२४७५ । रुदश्च पञ्चभ्यः ।७।३।९८।' इतीद । नृभुजां पतिः रावणः अरोदत् रुदितः । '२४७६। अड् गार्ग्यगालवयोः ।७।३।९९१ । इत्यडागमः । मैथिल्यै चाशपत् आक्रुष्टवान् । सर्वदोषस्य मूलमिति । ५७२ । लाघ-हुङ–।१।४।३४। इत्या- दिना कर्मणि सम्प्रदानसंज्ञा । तां च हन्तुं आतुरो मन्युक्षतः प्राक्रमत प्रारब्ध- चान् । '२७१'५ । प्रोपाभ्याम् ।१।३।४२।' इति तङ् ॥ , १३९५ - 'अ-युक्तमि॑िदम' त्य॑न्ये तमाप्ताः प्रत्यवारयन् ॥ न्यरुन्धंश चा ऽस्य पन्थानं वन्धुता शुचमा॑रुणत्. ४९ अयुक्तमित्यादि — अन्ये आप्ताः राक्षसाः अयुक्तमेतदिति मन्यमानाः तं तथाविधं प्रत्यवारयन् आवार्य स्थिताः । १९५० । वृञ् आवरणे' चुरादिः । न्यरुन्धंश्च हस्तपादादिग्रहणेन रूद्धवन्तः । बन्धुता बन्धुसमूहः । अस्य शोक- मारुणत् अपनीतवती । हङयादि लोपः । धकारस्य जत्वम् ॥ १३९६ - आस्फायता ऽस्य वीरत्वम॑मर्षश् चाऽप्यतायत. ॥ रावणस्य ततः सैन्यं समस्तम॑युयुत्सयत् ॥ ५० ॥ आस्फाय तेत्यादि — अथ विरुद्धशोकस्य रावणस्य वीरत्वं शौर्य आस्फायत वृद्धिं गतम् । अमर्षश्च क्रोधः अतायत विस्तारं गतः । ततः स रावणः समस्तं सैन्य अयुयुत्सयत् युयुत्समानं प्रयोजितवान् ॥ 5 तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४२३ १३९७–अग्नीन॑वरिवस्यंश् च ते, ऽनमस्यंश् च शङ्करम् ॥ द्विजान॑प्रीण॒यन् शान्त्यै यातुधाना भवद् - भियः. ५१ अग्नीनित्यादि — ते यातुधानाः भवद्भियः उत्पद्यमानभीतयः । अनीनव- रिवस्यन् परिचारितवन्तः । '२६७५ । नमोवरिवश्चिनङः क्यच् ।३।१।१९॥ इति वरिवसः परिचर्यायामिति क्यच् । तदन्ताल्लुङ् । शङ्करं च महादेवं अनमस्यन् पूजितवन्तः । अत्र नमसः पूजायां क्यच् । द्विजांच शान्त्यै शान्त्यर्थमप्रीणयन् श्रीणितवन्तः । 'धूज्-प्रीञोर्नुग्वक्तव्यः' ॥ १३९८–परितः पर्यवाद् वायुराज्य-गन्धिर् मनो-रमः, ॥ अश्रूयत स पुण्याहः स्वस्ति घोषः समुच्चरन्. ॥५२॥ - परित इत्यादि - अग्निसन्तर्पणादाज्यगन्धिः आज्यस्य गन्धो यस्मिन्वायौ स वायुर्मनोरमः परितः सर्ववेश्मसु पर्यवात् वाति स्म । स्वस्तिघोषश्च सपुण्याहः पुण्याहशब्देन सह समुच्चयत श्रूयते स्म । कर्मणि लङ् ॥ १३९९ - योद्धारो ऽविभः शान्त्यै साऽक्षतं वारि मूर्धभिः ॥ रत्नानि चा ऽददुर् गाश् च, समवाञ्छन्न॑थाऽऽशिषः योद्धार इत्यादि — योद्धारः शान्त्यै शान्त्यर्थं साक्षतं अक्षततण्डुलैर्युकं सलाजं च वारि जलं मूर्धभिरबिभरः दुधति स्म । '२२२६ । सिजभ्यस्त - ।३।४।१०९।' इति झेर्जुस् । '२४९६। भृञामित् ।७।४।७६ । इतीत्वम् । रखानि गाश्चाददुः दत्तवन्तः । आशिषश्च तेभ्यः समवान्छन् कातिवन्तः । '२१७ । वाछि इच्छायाम् ॥ : १४०० - अदिहंश् चन्दनैः शुभैर, विचित्रं समवस्त्रयन् ॥ अधारयन् स्रजः कान्ता, वर्म चा ऽन्ये डदधुर् द्रुतम्. अदिहन्नित्यादि - शुभ्रैः शुक्लवर्णैश्चन्दनैः अदिहन् गात्राणि लिप्तवन्तः । '१०८४ । दिह उपचये' । विचित्रं शोभनं समवस्त्रयन् आच्छादितवन्तः । '२६७७ । मुण्ड - मिश्र - । ३।१।१।' इत्यादिना वस्त्रात्समाच्छादने णिच् । कान्ताः शुभ्रा: सजः अधारयन् धारितवन्तः । '९६६ । धृञ् धारणे' । अण्यन्तस्य प्रयोग एव नास्ति । अन्ये च वर्माणि कवचानि द्रुतमदधुः धारितवन्तः ॥ १४०१ - समक्ष्णुवत शस्त्राणि, प्रामृजन्, खड्ग - संहतीः ॥ , गजाssदीनि समारोहन्, प्रातिष्ठन्ता ऽऽथ सत्वराः. समक्ष्णुवतेत्यादि – शस्त्राणि समक्ष्णुवत । '१११० । क्ष्णु तेजने' । '२७३६॥ समः क्ष्णुवः ।१।३।६५ ।' इति तङ् । खड्गसंहतीः प्रामृजन् शोधितवन्तः । मृजेरजादौ विभाषा वृद्धिः । गजादीनि यानानि समारोहन आरूढाः । गजा- दिष्विति पाठान्तरम् । तत्राधिकरणत्वं विवक्षितम् । अथानन्तरमारूढाः सत्वराः प्रातिष्ठन्त प्रस्थिताः । '२६८९ । समव-प्र-विभ्यः स्थः । १।३।२२।' इति तङ् ॥ ४२४ भट्टि- काव्ये – चतुर्थे तिङन्त - काण्डे लक्षण-रूपे चतुर्थो वर्गः, १४०२ - अपूरयन् नभः शब्दो वल-संवर्त संभवः ॥ अपूर्यन्त च दिग्-भागास् तुमुलैस् तूर्य-निस्वनैः ५६ अपूरयदित्यादि - बलानां संवर्त एकीभावः तस्मात्संभवो यस्य स शब्दः नभ आकाशमपूरयत् पूरितवान् । तुमुलैस्तूर्य निस्वनैः महद्भिर्घोपैदिग्भागा अपूर्यन्त पूर्णाः । कर्मणि लङ् ॥ १४०३ - आसीद् द्वारेषु संघट्टो रथाऽश्व-द्विपरक्षसाम् ॥ सुमहान - निमित्तैश् च समभूयत भीषणः ॥ ५७ ॥ आसीदित्यादि-रथादीनां निर्गच्छतां लङ्काद्वारेषु संघट्टः सुमहानासीत् । जनभूयस्तया संघर्पोऽभूत् । २३२५ । अस्तिसिचोऽपृक्ते ।७।३।९६।' इतीट् । अनि- मित्तैः भीपणैर्भयंकरैर्महद्भिः समभूयत क्षयकरैर्निमित्तैर्भूतम् । भावे लङ् ॥ १४०४ - कपयो ऽविभयु॒स् तस्मिन्न॑भञ्ज॑श् च महा-द्रुमान् ॥ प्रोदखायन् गिरी॑स् तूर्णम॑गृह्णश् च महा-शिलाः ५८ कपय इत्यादि — तस्मिन्निर्गते कपयोऽविभयुः भीतवन्तः । महाद्रुमांश्च योद्धुमभञ्जन् भनवन्तः । गिरीन् प्रोदखायन् उत्खातवन्तः । १९७८ । खै खदने' शिति आत्वं न भवति । महाशिला अगृहन् गृहीतवन्तः ॥ * १४०५ - ततः समभवद् युद्धं प्राहरन् कपि-राक्षसाः ॥ अन्योन्येना ऽभ्यभूयन्त, विमर्दम॑सहन्त च ॥ ५९॥ तत इत्यादि —— ततोऽनन्तरं युद्धं समभवत् प्रवृत्तम् । कपिराक्षसाः प्राहरन् प्रहृतवन्तः । अन्योन्येनाभ्यभूयन्त कपयो राक्षसैः राक्षसाश्च कपिभिरिति । कर्मणि लङ् । विमर्दमसहन्त च सोढवन्तः ॥ १४०६ - प्रावर्धत रजो भौमं, तद् व्यानुत दिशो दश, ॥ पराऽऽत्मीय - विवेकं च प्रामुष्णात् कपि रक्षसाम् ॥ प्रावर्धतेत्यादि – बलद्वयप्रक्षोभात् भौमं रजः प्रावर्धत प्रवृद्धम् । तद्द्वजो दश दिशो व्याश्रुत व्याप्नोत् । अयं परोऽयं चात्मीय इति यो विवेकस्तं च प्रामु ष्णात् अपनीतवत् । '१६२९ । मुष स्तेये' क्र्यादिः ॥ १४०७-ततो ऽद्विपुर् निरालोके स्वेभ्यो ऽन्येभ्यश् च राक्षसाः ॥ अद्विषन् वानराश चैव वानरेभ्यो ऽपि निर्दयाः ॥ ६१ ॥ तत इत्यादि-ततोऽनन्तरं निरालोके समरे राक्षसाः स्वेभ्योऽन्येभ्यश्राद्विपुः क्रुध्यन्ति सा । वानरा अपि वानरेभ्योऽद्विषन् निर्दयाः सन्तः । अपि तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः- ४२५ शब्दात् राक्षसेभ्योऽपि । '२४३५ । द्विपश्च ।३।४।११२ । इत्यनेन शाकटाय- नमते झेर्जुस् । अन्येषामद्विषन् । ५७५१ क्रुध-द्रुह-।१।४।३७१' इत्यादिना सम्प्रदानसंज्ञा ॥ १४०८ - अघुरं ते महा- घोरमंत्र्योतन्नो॑थ शोणितम्, 11 समपद्यत रक्तेन समन्तात् तेन कर्दमः ॥ ६२ ॥ अघुरन्नित्यादि – अथानन्तरं ते हताः अघुरन् घोरं रौद्रं शब्दितवन्तः । '१४३३ । बुर भीमार्थशब्दयोः' । शोणितं चाव्योतत् क्षरति स्म । तेन च रक्त- स्रुतेन समन्तात्सर्वतः कर्दमः समपद्यत संपन्नः । कर्मणि लङ् ॥ १४०९ - गम्भीराः प्रावहन् नद्यः, समजायन्त च इदाः ॥ s वृद्धं च तद् रजो ऽशाम्यत्, समवेद्यन्त च द्विषः ॥ गम्भीरा इत्यादि – तेन रक्तेन वर्धिष्णुना गम्भीरा अगाधाः नद्यः प्राव- हन् प्रवृत्ताः । इदास्तडागाः समजायन्त संजाताः । तच्च रजः प्रवृद्धमशाम्यत् शान्तम् । उद्गमाभावात् । उत्पन्नस्य च पतनात् रजःशमनात् । द्विषश्च सम- वेद्यन्त संवेद्यन्ते स्म । १८४१ । विद चेतनाख्याननिवासेपु' इति चौरादिकः । कर्मणि लङ् ॥ १४१० - ततो ऽचित्रीयता ऽस्त्रोधैर् धनुश् चा ऽधूनयन् महत् ॥ रामः, समीहितं तस्य नाऽचेतन् स्वे न चा ऽपरे ॥ ६४ ॥ तत इत्यादि — ततोऽनन्तरं रामः शस्त्रौघैरचित्रीयत आश्चर्यीभूतः । '३६७५॥ नमो-वरिवः ।३।१।१९।' इति 'चित्रङ् आश्चर्ये' । ङित्त्वात्तङ् । धनुश्च महदधूनयत् विधूनितवान् । 'धूञ्- प्रीजोर्नुग्वक्तव्यः' । तस्य रामस्य समीहित- मभिप्रेतं स्वे आत्मीया वानराः न च अपरे परकीया नाचेतन् न ज्ञातवन्तः ॥ १४११ - छिन्नानैक्षन्त भिन्नांश च समन्ताद् राम-सायकैः ॥ ॠष्टं हाहेति चा ऽशृण्वन् नच रामं न्यरूपयन्. ६५ छिन्नानित्यादि – रामसायकैरिछन्नान् भिन्नांश्च समन्तादैक्षन्त । हा हेत च क्रुष्टं शब्दमन्योन्यस्य चाशृण्वन् । न च नैव रामं न्यरूपयन् राम इति च न निश्चितवन्तः । 'रूप व्याक्रियायाम्' इति चौरादिकः ॥ १४१२ - अभिनच् छत्रु-संघातान॑क्षुणद् वाजि - कुञ्जरम् ॥ , अपिनट् च रथा॒ऽनीकं, न चा ऽज्ञायत संचरन्. ६६ अभिनदित्यादि-शत्रुसंघातानभिनत् भिन्नवान् । वाजिकुञ्जरमक्षुणत् सम्पिष्टवान् । '१५५७ । क्षुदिर् सम्पेषणे । स्थानीकं रथसमूहमपिनटू पिष्ट४२६ भट्टि काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थी वर्गः, वान् । ८५५४६ । पिपु संचूर्णने' सर्वे रौधादिकाः । न च संचरन् रामः अज्ञा- वत न ज्ञातः । स्वैः परेर्वेत्यर्थात् । कर्मणि लडू ॥ : युग्मम् - ६७/६८ १४१३ - दश दन्ति सहस्राणि रथिनां च महाऽऽत्मनाम् ॥ चतुर्दश सहस्राणि Issरोहाणां च वाजिनाम् ६७ १४१४ - लक्षे च द्वे पदातीनां राघवेण धनुर् भृता ॥ अनीयन्ताष्टमे भागे दिवसस्य परिक्षयम् ॥ ६८ ॥ दशेत्यादि – अनेन लोकद्वयेन राववेण धनुर्भुता दिवसस्थाष्टमे भागे अर्धग्रहरे दश दन्तिनां सहस्राणि रथिनां च महात्मनां चतुर्दश सहस्राणि । सारोहाणां च वाजिनां तावन्त्येव । पदातीनाम् द्वे लक्ष परिक्षयं विनाश- मनीयन्त नीताः । कर्मणि लङ् । अनीयतेति पाठान्तरं तत्र सर्वमेतदनी - यतेति योज्यम् ॥ " १४१५ - यम - लोकर्मिवा, ग्रनाद्, रुऽऽक्रीडमि॑त्रा sकरोत् ॥ शैलेरि॑िवा ऽचिनोद् भूमिं बृहद्भी राक्षसैर् हतैः ॥ ६९ ॥ यमलोकमित्यादि – स राघवः तैः राक्षसैः बृहद्भिः यमलोकमिवाग्रात् सन्दर्भितवान् । '१६०९।१०। श्रन्थ ग्रन्थ सन्दर्भे' इति ऋयादिः । रुद्राक्रीडमिव रुद्स्य क्रीडास्थानं स्मशानमिवाकरोत् । भूमिं शैलैरिवाचिनोत् छादितवान् ॥ १४१६ - अस्तुवन् देव- गन्धर्वा, व्यस्मयन्त प्लवङ्गमाः ॥ कपीन्द्रेऽतन्यत प्रीतिः, पौलस्त्योऽमन्यताऽद्भुतम् ॥ अस्तुवन्नित्यादि – तमद्भुतकर्मकारिणं देवा अस्तुवन् स्तुवन्ति स्म । प्लव- ङ्गमाः कपयः व्यस्मयन्त विस्मिताः । ङिवात्त । कपीन्द्रे सुग्रीवे प्रीतिरतन्यत तन्यते स्म । कर्मकर्तरि लङ् । पौलस्त्यो विभीषणः आश्चर्य ज्ञातवान् ॥ १४१७ – राक्षस्यः प्रारुदन्नुच्चैः, प्राजुगुप्सन्त रावणम् ॥ अमुह्यद् बाल-वृद्धं च, समरौदितरो जनः ॥७१॥ राक्षस्य इत्यादि — राक्षस्यो भर्त्रादिवधदुःखिताः उच्चैः प्रारुदन् रुदितवत्यः । '२४७४ । रुदादिभ्यः ।७।२।७६ । इतीट् न भवति अहलादित्वात् । रावणं प्राजुगुप्सन्त निन्दितवत्यः । एतहुर्णयात् सर्वमिति । बाला वृद्धाश्च वहूयं अमुह्यत् भयान्मोहं गतम् । इतरो जनः राक्षसीबालवृद्धेभ्योऽन्यः समरौत् आक्रुष्टवान् । ६१.१०७८ रु शब्दे' '२४४३ । उतो वृद्धिर्लुकि हलि ।७।३।८९ । १ ॥ तथा लक्ष्य-रूपे कथानके 'रावण वधो' नाम सप्तदशः सर्गः- ४२७ १४१८ - सर्वतश् चाऽभयं प्राप्नोन् नैच्छन् नृभ्यस् तु रावणः ॥ फलं तस्यैदम॑भ्यायाद् दुरुक्तस्येति चा ऽब्रुवन् ॥ ७२ ॥ सर्वत इत्यादि — सर्वतो देवादिभ्यः अभयं रावणः ग्रामोत् प्राप्तवान् । यतो 'ब्रह्मणि वरं दातुमुद्यते देवादीनामवध्यो भूयासन्' इत्युक्तवान् । नृभ्यस्तु सका- शादभयं नैच्छन्नेष्टवान् के मम मानुषा इति तस्य दुरुक्तस्य फलमभ्यायात् उपागतम् । इत्येवमपरे अब्रुवन् उक्तवन्तः ॥ १४१९ - ततो ऽधावन् महा-घोरं रथमा॑स्थाय रावणः, (1 अक्ष्मायत मही, गृध्राः समारार्यन्त भीपणाः ॥७३॥ तत इत्यादि — ततोऽनन्तरं महाघोरं रथमास्थायारुह्य रावणः योद्धुं वेगे- नाधावत् गतवान् । तस्य च धावतो मही अक्ष्मायत कम्पिता। '५२० । मायी विघ्नने' । गृध्राश्च भीषणा: समारार्यन्त अत्यर्थं गतवन्तः । 'सूचि-सूत्रि-मूत्रि- भ्यो य' अव्ययंझूर्णांतीनां ग्रहणं यविधाचनेकाजहलाद्यर्थमित्युपसंख्यानात् अर्यङ् । '२३८० । गुणोऽर्तिसंयोगाद्योः ।७।४।२९।' इत्यधिकृत्य '२६३३ । यदि च ।७।४।३०।' इति गुणः ॥ — १४२० - मेघाः स विद्युतो ऽवर्पश् चेल-क्लोपं च शोणितम् ॥ अवान् भीमा नभस्वन्तः, प्रारुवन्नं - शिवाः शिवाः ॥ मेघा इत्यादि – सविद्युतो मेघाश्चेलक्नोपं शोणितं रक्तं अवर्षन् वर्षितवन्तः । यावता रक्तेन चेलं वासः क्नोपयते सिच्यते तावत्प्रमाणं वृष्टवन्तः । ८५१९। क्क्रूयी शब्दे' इत्यस्य ण्यन्तस्य ' २५७० । अर्ति- ही - ।७।३।३६।' इत्यादिना पुकि यलोपः । '३३५४ । चेले क्नोपेः । ३ । ४ । ३३॥ इति णमुल । भीमाः नभस्वन्तः वायवः अवान् वान्ति स्म । '२४६३ । लङ: शाकटायनस्यैव ।३।४।१११॥ इति नियमादन्यमते झेर्जुस् न भवति । शिवाः शृगाल्यः अशुभाः अनिष्टशंसिन्यः प्रारुवन् शब्दितवत्यः ॥ १४२१-आटाट्यता ऽवमत्या ऽसौ दुर्निमित्तानि, संयुगे ॥ अधुनोद् धनुर॑खौघैः प्रौर्णोनूयत विद्विषः ॥ ७५ ॥ आटाट्यतेत्यादि — असौ रावणः दुर्निमित्तान्यवमत्य युद्धार्थमाटाट्यत अत्यर्थमाटत् । 'सूचि-सूत्रि-' इत्यादिना यङ् । संयुगे युद्धे धनुरधुनोत् कम्पितवान् । अस्त्रौघैर्विद्विषः शत्रून् प्रौर्णोनूयत भृशं छादितवान् । 'ऊर्जुन् आच्छादने' । ऊर्णोतेर्णुवद्भावात् 'सूचि–सूत्रि-' इत्यादिना वा यङ् । '२१७६। अजादेर्द्वितीयस्य ४२८ भट्टि काव्ये - चतुर्थी तिङन्त-काण्डे लक्षण रूपे चतुर्थो वर्गः, ।६।१।२।' इति द्विर्वचने '२४४६ । नन्द्राः ॥६।१।३।' इति रेफो न विरुच्यते । शब्दस्य द्विवचनम् । '२६३० । गुणो यङ्लुकोः ।७।४५८२ । इति गुणः । '२२. ९८। अकृत्सार्वधातुकयोः ।७।४।२५।' इति दीर्घः ॥ युग्मम् - ७६१७७ १४२२ - व्यनाशयंस् ततः शत्रून् सुग्रीवाऽस्ता महीभृतः ॥ ततो व्यरसदंग्लायद॑ध्यशेत मही-तलम् ॥ ७६ ॥ व्यनाशयन्नित्यादि — ततोऽनन्तरं सुग्रीवास्ताः सुग्रीवेण क्षिता महीभृतः पर्वता: शत्रुसैन्यं व्यनाशयन् मारितवन्तः । ततो मांसादां रक्षसां बलं सुग्रीव बाधितं पीडितमित्युत्तरश्लोकेन संबन्धः । व्यरसत् आऋन्दितवत् । अग्लायत् ग्लानिं गतम् । महीतलमध्यशेत महीतले पतितम् । '२४४१॥' शीङ: सार्वधा. तुके गुणः ।७।४।२१।' ॥ १४२३–आश्चयोतद् रुधिरं, तोयमलसच् चाऽति विह्वलम् ॥ " अशीयत नृ-मांसाऽदां बलं सुग्रीव-वाधितम् ॥७७॥ आयोतदित्यादि – रुधियत् अत्रवत् । विहलं च सत् तोयमल- सत् अभिलषितवत् । '२३२३ । वा भ्राश - । ३।११७०।' इत्यादिना विकल्पेन शप् । अशीयत च अवसन्नम् । '२३६२ । शदेः शितः ।१।३।६० ।' इति तङ् । '२३६० । पाघ्रा–१७।३।७८ ।' इत्यादिना शीयादेशः । माँसमदन्तीति । '२९७७ । अदोऽनने ।३।२।६८। इति विट् ॥ १४२४ - विरूपाक्षस् ततो क्रीडत् संग्रामे मत्त-हस्तिना, ॥ मुष्टिनाऽदालयत् तस्य मूर्धानं वानराऽधिपः ७८ विरूपाक्ष इत्यादि — ततो विरूपाक्षो नाम राक्षसः मत्तहस्तिना संग्रामे अक्रीडत् भ्रान्तवान् । तस्य मूर्धानं वानराधिपः सुग्रीवः मुष्टिना अदालयत् दलितवान् । '१८८८। दल विदारणे चुरादिः ॥ १४२५- अचूर्णयच् च यूपाक्षं शिलया तर्दनन्तरम् ॥ संक्रुद्धो मुष्टिनाऽतुम्नाङ्गदोऽलं महोदरम् ॥७९॥ अचूर्णय दित्यादितदनन्तरं वानराधिपः यूपाक्षं नाम राक्षसं शिलया अचूर्णयत् चूर्णितवान् । 'तत्करोति' इति णिच् । अङ्गदोऽपि संक्रुद्धः मुष्टिना म होदरं अलं पर्याप्तमतुम्नात् व्यापादितवान् ।'१६१९ । नभ तुभ हिंसायाम्' ऋयादिः ॥ १४२६ - ततो ऽकुष्णाद् दशग्रीवः क्रुद्धः प्राणान् वनौकसाम् ॥ अगोपायच् च रक्षांसि , दिशश् चा ऽरीन॑भाजयत् ॥ ८० ॥ तथा लक्ष्य रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- तत इत्यादि – ततो दशग्रीवः क्रुद्धः वनौकसां वानराणां प्राणानकुष्णात् कुष्टवान् । '१६१६ । कुष निष्कर्षे' । रक्षांसि च राक्षसांचागोपायत् रक्षितवान् । '२३०३। गुपू-धूप - ।३।१।२८।' इत्यादिना आयप्रत्ययः । अरींश्च दिशोऽभाजयत् प्रहितवान् ॥ > १४२७ - आलोकयत् स काकुत्स्थम॑धृष्णोद्, घोरम॑ध्वनत् ॥ धनुर॑भ्रमद् भीमम॑भीषयत विद्विषः ॥ ८१ ॥ ४२९ आलोकयदित्यादि —स दशग्रीवः काकुत्स्थमालोकयत् दृष्टवान् । धोरङ- र्शनमवृष्णोत् धृष्टवान् । १३५० । जिषा प्रागल्भ्ये' इति स्वादिः । ताननुसरन् घोरमध्वनत् ध्वनितवान् । रामं मारयामीति भीमं धनुरभ्रमयत् भ्रमितवान् । '२५६८ । मितां ह्रस्वः ।६।४।१२॥ मान्तत्वान्मित्त्वम् । ये विद्विषो न पलायिताः तान भीषयत त्रासितवान् । '२५९५ । भियो हेतु-भये पुक् ।७।३।१४०१' । '२५- ९४ । भीस्म्योर्हेतुभये ।१।३।६८।' इति तङ् ॥ १४२८ - आस्कन्दलू लक्ष्मणं वाणैरत्यक्रामच् च तं द्रुतम् ॥ रामम॑भ्यद्रवज् जिष्णुर॑स्कुनाच् चेंषु-वृष्टिभिः ८२ आस्कन्द्रदित्यादि - जिष्णुर्जयशीलो दशग्रीवः लक्ष्मणं चाणरास्कन्दत् बाधितवान् । '१०४८। स्कन्दिर् गतिशोषणयोः' । तं च लक्ष्मणं द्रुतमयक्रामत् आक्रान्तवान् । शिति दीर्घः । अतिक्रम्य च राममभ्यद्भवत् अभिमुखं गतवान् । '१०११ । द्रु गतौ' । इषुवृष्टिभिरस्कुनात् छादितवान् । '१५७३ । स्कुञ् आवरणे । '२५५५ । स्तम्भु-स्तुम्भु ।३।११८२।' इत्यादिना चकारात् वा ॥ १४२९ - अपौहद् बाण - वर्ष तद् भलै रामो निराकुलः ॥ , प्रत्यस्कुनोद् दश - ग्रीवं शरैराशी- विषो॒पः ॥ ८३ ॥ अपौहदित्यादि —तद्वाणवर्ष रामो निराकुलः सन् भलैरपोहत् अपनीत - वान् । 'उपसर्गादस्यत्यूयोर्वा' इति पक्षे तिप् । दशग्रीवं बाणैराशीविषोपमैः दुःसहत्वात्प्रत्यस्कुनोत् प्रतीपं छादितवान् । अत्र भुप्रत्ययः ॥ १४३० - मण्डलायिटतां चित्रमंच्छित्तां शस्त्र संहतीः ॥ जगद् विस्मापयेतां तौ, न च वीराव॑सीदताम्. ८४ मण्डलानीत्यादि – चित्रमाश्चर्य मण्डलान्याटतां चक्रवद् भ्रान्तौ । शस्त्र- संहती: अच्छित्तां छिन्नवन्तौ । जगत् विस्मापयेतां विस्मापितवन्तौ । '२५९६। नित्यं स्मयतेः ।६।१।५७ ।' इत्यात्वम् । न च तौ वीरौ असीदतां अवसन्नौ । '२३६०। पा-घ्रा-।७।३।७८।' इति सीदादेशः ॥ , १४३१ - व्योम प्राचिनुतां बाणैः, क्ष्माम॑क्ष्मापयतां गतैः ॥ अभित्तां तूर्णम॑न्यो॒ोन्यं शिक्षाश चा ऽतनुतां मुहुः ॥ A ४३० भट्टि-काव्ये – चतुर्थी तिङन्त-काण्डे लक्षण हो चतुर्थी वर्गः, व्योमेत्यादि-बागैव्योम प्राचिनुतां छादितवन्तौ । पृथिवीं अमाप यतां कम्तिवन्तौ । '५२०१क्ष्मायी विधूने' । '२५७० । अर्ति-ही- । ७।३।३६ । इत्यादिना पुक् । अन्योन्यमभित्तां विदारितवन्तौ । '२४६९ । सोरलोप ।३।४।१११॥' चर्चेन च तकारः । तूर्ण शिक्षाः धनुषि कौशलााने मुहुरतनुत विस्तारितवन्तौ ॥ १४३२ - समाधत्ता ऽऽसुरं शस्त्रं राक्षसः क्रूर - विक्रमः ॥ तदक्षरन् महासर्पान् व्याघ्र-सिंहांश् च भीपणान् ॥ समाधत्तेत्यादि-राक्षस: आसुरं शस्त्रं समाधत्त धनुष्यारोपितवान् । लौ द्विवचनमभ्यासकार्यम् । २४८३ । आभ्यस्तयोः ।६।४।१२।' इत्याकारलोपः । '२५०१ । दुधस्तथोश्च ।८।२।३८।' इति भय्भावः । '२२८० । झपस्तथोर्थोऽधः ।८।२।४० ।' इति प्रतिषेधात् तकारस्य धत्वं न भवति । तत्संहितं सर्पादीन् प्राक्षरत् मुक्तवत् ॥ १४३३ - म्यपेधत् पावकाऽस्त्रेण रामस् तद् राक्षसस् ततः ॥ अदीव्यद् रौद्रम॑त्युग्रं, मुसलऽऽद्य॑गलत् ततः ॥८७॥ न्यषेधदित्यादि —तदासुरं शस्त्रं रामः पावकास्त्रेण न्यषेधत् निषिद्धवान् । ततो राक्षसो रौद्रमस्त्रमत्युग्रमदीव्यत् क्षिप्तवान् । अत्र दिविर्गतौ वर्तते । ततो रौद्रात् क्षिप्तात् मुसलादिग्रहरणमगलत् निर्गतवत् । '५८७१ गल अद्ने' । अनेकार्थत्वाद्धातूनां गलिरत्र निर्गमे वर्तते ॥ १४३४ - गान्धर्वेण न्यविध्यत् तत् क्षितीन्द्रो, ऽथ नराऽशनः ॥ सर्व- मर्मसु काकुत्स्थ - मौम्भत् तीक्ष्णैः शिलीमुखैः ॥ ८८ ॥ गान्धर्वेणेत्यादि— क्षितीन्द्रो रामः तद्द्रौद्गमस्त्रं गान्धर्वेणास्त्रेण न्यविध्यत् ताडितवान् । अथ नराशनो राक्षसः शिलीमुखैर्बाणैः सर्वमर्मसु काकुत्स्थ मौम्भत् पूरितवान् । '१४०७॥ उम्भ पूरणे तुदादौ ॥ १४३५ - ततस् त्रिशिरसं तस्य , प्रावृश्चल लक्ष्मणो ध्वजम् ॥ अमनात् सारथिं चाऽऽशु, भूरिभिश चा ऽतुदच्छेरैः ॥ ८९ ॥ तत इत्यादि — ततोऽनन्तरं लक्ष्मणस्तस्य रावणस्य ध्वजं त्रिशिरसं त्रिशूला छिनवान् । '१३७६ । ओश्व च्छेदने' तुदादौ । सारथिं चामझात् तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः४३१ ध्वस्तवान् । '१६०८। मन्थ विलोडने क्यादिः । नूरिभिश्च प्रभूतैः शरैरतुदत् व्यथितवान् ॥ १४३६ - अश्वान् विभीषणो ऽतुभ्नात् स्यन्दनं चाऽक्षिणोद् द्रुतम् ॥ ना ऽक्षुम्नाद् राक्षसो, भ्रातुः शक्तिं चौदवृहद् गुरुम् ॥ ९ ॥ अश्वानित्यादि — विभीषणश्चाश्वानतुम्नात् हतवान् । '१६१८।१९। नभ तुभ हिंसायाम्' । स्यन्दनं चाक्षिणोत् भनवान् । '१५६१ । क्षिणु हिंसायाम्' तनादौ । राक्षसो रावणः नाक्षुम्नात् न क्षोभं गतः । '१६१७॥ क्षुभ सञ्चलने' क्यादौ गृह्यते न दिवादौ । भ्रातुर्विभीषणस्य कृते गुरुं शक्तिमुद्रवृहत् उद्यतवान् । '१४३५॥ वृहू उद्यमने' । तुड़ादौ गुरुमिति ' ५०२१ चोतो गुणवचनात् । ४ ॥ इति विकल्पेन डीम् ॥ १४३७ - तामा॑पतन्तीं सौमित्रिस् त्रिधाऽकृन्तच्छिलीमुखैः ॥ ५ अशव्दायन्त पश्यन्तस् ततः क्रुद्धो निशाचरः ९१ तामित्यादि – तस्योपरि शक्तिमापतन्तीं सौमित्रिः शिलीमुखैत्रिधा त्रिय- कारं अकृन्तत् छिन्नवान् । '१५२९॥ कृती छेदने' तुदादौ । यत्र प्रेक्षकाः पश्यन्तः ते अशब्दायन्त शब्दं कृतवन्तः । 'वीर लक्ष्मण ! साधु कृतम्' इति । '२६७३। शब्दवैर - ।३॥।२७।' इत्यादिना करोत्यर्थे क्यङ् । ततोऽनन्तरं निशाचरः क्रुद्धः क्रोधं कृतवान् ॥ क्रुद्धो निशाचरः किं कृतवानित्याह१४३८ - अष्ट-घण्टां महा-शक्तिमु॑दयच्छन् महत्तराम्, 11 , रामाऽनुजं तया ऽविध्यत्, स महीं व्यसुराश्रयत् ॥ अटेत्यादि – अष्टौ घण्टा यस्यां महाशक्तौ तां शक्ति प्रभावेण महत्तरां महतीं अतिशयेन महाप्रमाणां उदयच्छत् उद्यतवान् । '२७४२ । समुदाइभ्यो यमोऽग्रन्थे ।१।३।७५।' इति तङ् न भवति अकर्त्रभिप्रायत्वात् । तथा च करणभूतया रामा- नुजं लक्ष्मणमविध्यत् विद्धवान् । राममनुजातवानिति । '३०१०) अनौ कर्मणि ।३।२।१००।' इति डः । स च लक्ष्मणो विद्धः व्यसुः विगतप्राणः महीमाश्रयत् आश्रितवान् । भुवि पतित इत्यर्थः ॥ १४३९ - राघवस्याऽभृशायन्त सायकास, तैरुपद्रुतः ॥ ततस् तूर्णं दशग्रीवो रण-क्ष्मां पर्यशेषयत् ॥९३॥ राघवस्येत्यादि — तस्मिन् पतिते राघवस्य सम्बन्धिनो बाणा: अभृशायन्त अभृशा भृशा अभवन् शीघ्रगतयो जाता इत्यर्थः । ततस्तैरुपद्रुतो दशग्रीवः तूष्णींभूत्वा रणक्ष्मां रणभूमिं पर्यशेषयत् त्यक्तवान् । '१९९४ । शिष असर्वोपयोगे' चुरादिः ॥ ४३९ भट्टि-काव्ये - चतुर्थे तिङन्त - काण्डे लक्षण-रूपे चतुर्थी वर्गः, १४४० –स स्फुरस्यदकर्षच् च सौमित्रेः शक्तिर्मग्र-जः ॥ असिञ्चदौपधीस् ता याः समानीता हनूमता ॥ १४ ॥ सस्फुरस्येत्यादि – अग्रजब रामः सौमित्रेः सस्फुरस्य उच्छ्रसतः शक्ति हृदयलग्नामुद्दकर्षत् उत्कृष्टवान् । याश्च हनूमतौषध्यः समानीतास्ता असिञ्चत् व्रणदेशेषु क्षारितवान् ॥ १४४१ - उदजीवत् सुमित्रा भूर् ." भ्राता ऽऽश्लिष्यत् तमा॑यतम् ॥ सम्यङ् मूर्धन्युपाशिङ्क- दुपृच्छच् च निरामयम् ॥ १५ ॥ उदजीवदित्यादि- ततः सुमित्राभूक्ष्मणः उदजीवत् प्रत्युज्जीवितवान् । तं च जीवितं आता रामः आयतं दीर्घकालमाश्लिष्यत् आलिङ्गितवान् । मूर्धनि च सम्यगुपाशिद्धत् आघातवान् । '१७०१ शिघि आघ्राणे' । निरामयं च कुश. लमपृच्छत् पृष्टवान् । 'किं व्यपगता पीडा' इति । ." १४४२ -- ततः प्रोदसहन् सर्वे योद्धुमभ्यद्रवत् परान् ॥ अकृच्छ्रायत च प्राप्तो रथेना ऽन्येन डरावणः ॥ ९६॥ तत इत्यादि — पुनः सर्व एव रामादयो योद्धुं प्रोदसहन् प्रोत्साहितवन्तः । * १९४६ । सह मर्षणे' इति चौरादिकः परस्मैपदी । 'आषाद्वा' इति णिज्न भवति । नतु भौवादिकः तस्यात्मनेपदित्वात् । रावणश्चान्येन रथेन प्राप्तः सन् परानुत्माहतोऽभ्यद्रवत् अभिमुखं गतवान् । अकृच्छ्रायत च कृच्छ्राय पापाय कर्मणे क्रमितवान् । 'सत्रकक्षकष्टकृच्छ्रगहनेभ्यः कण्वचिकीर्पायामिति वक्तव्यम्' इति क्यङ्ग । कण्वचिकीर्पा पापचिकीर्षा ॥ १४४३ - 'भूमि-ष्ठस्या ऽसमं युद्धं रथ-स्थेने ति मातलिः ॥ आहरद् रथम॑त्युग्रं स-शस्त्रं मघवा ऽऽज्ञया. ॥९७॥ भूमिष्टस्येत्यादि – भूमिष्टस्य रामस्य । ८२९१८ । अस्यास्व ।८।३।१७॥ इति मूर्धन्यः । रथस्थेन रावणेन सह युद्धमसममतुल्यमयुक्तमिति निरूपितवतो मघवतः इन्द्रस्य आज्ञया मातलिः सशस्त्रं रथमत्युग्रमाहरत् आनीतवान् ॥ १४४४ - सो ऽध्यष्ठीयत रामेण, शस्त्रं पाशुपतं ततः ॥ निरास्यत दशऽऽस्यस्, तच्छेऽस्त्रेणा॑जयन् नृपः ॥ सोऽध्यष्टीयतेत्यादि–स रथो रामेणाध्यष्टीयत अध्यासितः । कर्मणि लङ् । ८२४६२ । घुमा-स्था- । ६।४।६६ । इतीत्वम् । '२२७० । उपसर्गात्- । ८।३।६५।' इत्यादिना षत्वमङ्ख्यवायेऽपि । ततोऽनन्तरं दशास्यः पाशुपतमस्त्रं निरास्यत क्षित- तथा लक्ष्य-रूपे कथानके 'रावण-वधो' नाम सप्तदशः सर्गः- ४३३ वान् । 'उपसर्गादस्यत्यूयोर्वावचनम्' इति तङ् । तत्पाशुपतं नृपो रामः शक्रा- त्रेणाजयत् जितवान् ॥ १४४५ - ततः शत- सहस्रेण रामः प्रौर्णोन् निशाचरम् ॥ वाणानाम॑क्षिणोद् धुर्यान्, सारथिं चाऽदुनोद् द्रुतम्. तत इत्यादि — ततोऽनन्तरं रामः निशाचरं बाणानां शतसहस्रेण लक्षण प्रौणत् छादितवान् । '२४४८ । गुणोऽपृते ।७।३।९११॥ इति गुणः । द्रुतं धुर्यानश्वान् । '१६२८। धुरो यड्ढकौ ।४।४।७७॥ इति यत् । अक्षिणोत् हतवान् । सारथिं चादुनोत् उपतापितवान् । १४४६-अदृश्यन्ता ऽनिमित्तानि, माह्वलत् क्षिति-मण्डलम् ॥ रावणः प्राहिणोच्छू, 3 शक्किं चैन्द्रीं महीपतिः ॥ १०० ॥ . अदृश्यन्तेत्यादि — रावणस्यानिमित्तानि अदृश्यन्त दृष्टानि । कर्मणि लङ् ॥ क्षितिमण्डलं प्राह्वलत् चलितम् । '६२ । हृल चलने' । रावणश्चानिमित्तानि दृष्ट्वा ब्रह्मदत्तशूलं प्राहिणोत् क्षिप्तवान् । महीपतिः स राम ऐन्हीं शक्ति प्राहिणोत् । '१३३७॥ हि गतौ' स्वादिः ॥ १४४७ - ताभ्याम॑न्योन्यमा॑साद्य समवाप्यत संशमः ॥ लक्षेण पत्रिणां वक्षः क्रुद्धो रामस्य राक्षसः ॥ १०१ ॥ ताभ्यामित्यादि – ताभ्यां शूल-शक्तिभ्यामन्योन्यमासाद्य संलिप्य संशमः संशमनम् । घणि '२७६३। नोदात्त –।७।३।३४।' इति वृद्धिप्रतिषेधः । समवाप्यत प्राप्तः । कर्मणि लङ् । अनन्तरं क्रुद्ध राक्षसः पत्रिणां शराणां लक्षेण शतसह- स्रेण रामस्य वक्षः अस्तृणादिति वक्ष्यमाणेन सम्बन्धः । छादितवान् । '२५५८॥ प्वादीनां ह्रस्वः ।७।३।८०।' ॥ १४४८- अस्तृणाधिकं रामस् ततो ऽदेवत सायकैः ॥ अक्काम्यद्रावणस्, तस्य सूतो रथर्मनाशयत् ॥ १०२ ॥ अस्तृणादित्यादि — ततोऽनन्तरं रामो राक्षसादधिकं अदेवत क्रीडितवान् । '५३३ । तेवृ देव देवने' इति भ्वादावनुदात्तेत् । स तथा देवबाणेनाहतो रावणः अक्काम्यत् ग्लानिमुपगतः । तस्य तथाभूतस्य रावणस्य सूतः सारथिः स्वामिजी- वितेच्छया रथमनाशयत् दूरं अपनीतवान् ॥ १४४९ - राक्षसोऽतर्जयत् सूतं पुनश् चाऽढौकयद् रथम् ॥ निरास्येतार्मुभौ वाणानु॑भौ धुर्यान॑विध्यताम् ॥१०३॥ भ० का० ३७ ४३४ भट्टिकाव्ये - चतुर्थे तिङन्त काण्डे लक्षण-रूपे चतुर्थो वर्गः, राक्षसं इत्यादि-राक्षसो रावणः सूतमतर्जयत् भतिवान् । 'हा पाप ! किं शत्रुसमीपाट्र्थं पराङ्मुखयसि' इति । इत्थं संतर्जितः सूतः पुनरपि रथम. यत् ढौकितवान् । रामसमीपमित्यर्थात् । उभौ रामरावणौ बाणानिरास्येतां क्षिप्तवन्तौ । 'उपसर्गादस्यत्यूह्योर्वा' इति तङ् । बुर्यानश्वानविध्यतां ताडितवन्तौ ॥ १४५०-उभाव॑कृन्ततां केतूनाव्यथेतामुभौ न तौ ॥ अदीप्येत।मुभौ घृष्णू, प्रायुजातां च नैपुणम् १०४ उभावित्यादि — तावुभौ रामरावणौ केतून् ध्वजानकृन्ततां छिन्नवन्तौ । तावुभौ नाव्यतां न व्यथितवन्तौ । उभावदीप्येतां शोभितवन्तौ । धृष्णूच ग्रगल्भो नैपुणं कौशलं प्रायुञ्जातां प्रयुक्तवन्तौ ॥ १४५१ - उभौ मायां व्यतायेतां, वीरौ ना ऽश्श्राम्यतार्मुभौ ॥ मण्डलानि विचित्राणि क्षिप्रमा॑क्रामतर्मुभौ ॥ १०५॥ उभौ मायामित्यादि —- तावुभौ मायां व्यतायेतां विस्तारितवन्तौ । '५२३ । तायृ सन्तानपालनयोः' भ्वादौ । उभौ वीरौ नाश्राम्यतां न श्रान्तौ । युध्यमानौ व तावुभौ मण्डलानि विचित्राणि मतिवैचित्र्यात् क्षिप्रमाक्रामतां भ्रान्तौ । '२३२१ । वा भ्राश । ३।१।७० ।' इति शप् ॥ १४५२-न चौभाव॑प्य॑ल॒क्ष्येतां, यन्तारावा॑हतार्मुभौ ॥ स्य॒न्दनौ स॒मपृच्येतामु॑भयोर् दीप्त-वाजिनौ ॥ १०६॥ न चेत्यादि - तावुभौ नाप्यलक्ष्येतां प्रेक्षकैर्न ज्ञातौ । 'अयं रामः अयं च रावणः' इति । कर्मणि लङ् । यन्तारौ सूतौ । कर्मपदमेतत् । उभौ परस्परस्य । अहतामाहतवन्तौ । '२४२८ अनुदात्तोपदेश । ६ । ४ । ३७ ।' इत्यादिनानुनासिक- लोपः । स्यन्दनौ रथो उभयोः रामरावणयोः दीप्तवाजिनौ चामरादिमण्डनात् दीप्ता उज्ज्वला वाजिनो ययोः तयोः स्यन्दनौ समपृच्येतां संपृक्तौ । '१५५७। पृची सम्पर्के' कर्मणि लङ् ॥ १४५३ - ततो मायामयान् मूर्ध्ना राक्षसो ऽप्रथयणे, ॥ रामेणैकशतं तेषां प्रावृश्यत शिलीमुखैः ॥ १०७॥ तत इत्यादि — ततोऽनन्तरं राक्षसः मायामयान् मायास्वभावान्मूर्ध्नः शिरां- सि अप्रथयत् प्रदर्शितवान् । 'प्रथ प्रख्याने' इनि घटादौ । तेषां च शिरसां एक- शतं एकाधिकं शतं रामेण शिलीमुखैः शरैः प्रावृत्र्यत छिन्नम् । कर्मणि लङ् ॥ १४५४ - समक्षुभ्रन्नुदन्वन्तः प्राकम्पन्त महीभृतः ॥ > , सन्त्रासमविभः शक्रः, भैखच्चे, क्षुभिता क्षितिः १०८ समक्षुम्नन्नित्यादि — छिन्नानां च पततां क्षोभादुदन्वन्तः सागराः समक्षुनन् सञ्खलिताः । १६१७ । क्षुभ सञ्चलने' इति क्र्यादिः । महीभृतः प्राकम्पन्त तथा लक्ष्य रूपे कथानके 'रावण-चधो' नाम सप्तदशः सर्गः ४३५ कम्पिता: । शक्र इन्द्रः संत्रासमविभः भृतवान् । पततां शिरसां पुनः पुनरुयात् । मायया विमोह्यायं राममजैपीदिति । विभतः लौ द्विवचनम् । '२५९६ । नृजा- मित् ।७।४।७६ ।' धातोर्गुणः । पररूपत्वमिति लोपविसर्जनीयौ । मैत् क्षुभि तश्च स शक्रः । उखेत्यादाविखिरिति पठ्यते । क्षितिश्च क्षुभिता चलिता ॥ १४५५ - ततो मातलिना शस्त्रम॑स्मंर्यत महीपतेः ॥ वधाय रावणस्य॒मं स्वयम्भूर्यदेकल्पयत् ॥१०९॥ तत इत्यादि - रावणस्य वधाय स्वयम्भूर्यदखमकल्पयत् कल्पितवान् । कृपेर्णो गुणः । '२३५०। कृपो रो लः ।८।२।१८॥ तदुस्स्रं मातलिना अस्मर्यंत स्मारितम् । स्मरतेर्ण्यन्तात् कर्मणि लडू । मित्त्वान्द्रस्त्वम् । महीपतेरिति '६१३। अधीगर्थ- ।२।३।५२॥ इति षष्टी ॥ कीडशं तदित्याह- १४५६ नभस्वान् यस्य वाजेषु, फले तिग्मांशु पावकौ ॥ गुरुत्वं मेरु- सङ्काशं, देहः सूक्ष्मो वियन्मयः ॥११०॥ नभवानित्यादि — यस्य शस्त्रस्य वाजेषु [ पक्षेषु ] नभस्वान् वायुः सन्नि- हितं फले [ शल्ये ] तिग्मांशुरादियः पावकश्च । यस्य गुरुत्वं मेरुवत् मेरोरिव । 'दृढत्वं मेरुसङ्काशम्' इति पाठान्तरम् । तत्र मेरुस्थलगौरव सहशमित्यर्थः । सूक्ष्मो देहो दिव्यचक्षुर्गम्यः वियन्मय आकाशस्वभावः ॥ १४५७ - राजितं गारुडैः पक्षैर् विश्वेषां धाम तेजसाम् ॥ स्मृतं तद् रावणं भित्त्वा सुघोरं भुव्य॑शाययत् १११ राजितमित्यादि — गारुडैः पक्षै राजितं शोभितम् । तेजसां विश्वेषां अनेक- प्रकाराणां धाम स्थानम् । तदत्रं रामेण स्मृतं स्मृतिमागत्य सुधोरं रावणं भिवा भुवि अशाययत् शायितवत् । रावणस्योदरं भित्त्वा भूमौ पातितवदित्यर्थः ॥ १४५८ - आबघ्नन् कपि-वदनानि संप्रसाद, प्राशंसत् सुर-समितिर् नृपं जिता ऽरिम् ॥ अन्येषां विगत - परिप्ठवा दिगन्ताः, पौलस्त्योऽजुपत शुचं विपन्न वन्धुः ॥ ११२ ॥ इति भट्टि-काव्ये तिङन्त-काण्डे लङ्-विलसितो नाम सप्तदशः सर्गः ॥ १७ ॥ आबध्नन्नित्यादि — तस्मिन् हते कपिबदनानि कर्तृभूतानि तोषात् संप्रसाद१. 'अस्मार्यत महीपतिः' इति पाठान्तरम् । २-८५३ । पक्षो वाजस्त्रिषूत्तरे।' इत्यमरसिंहः । ३ – प्रहर्षिणीवृत्तम्-'नौज्रौगस्त्रिदशयतिः प्रदर्षिणीयम्' इति लक्षणात् । ४३६ भट्टि- काव्ये – चतुर्थे तित-काण्डे लक्षण-रूपे पञ्चमो वर्गः, बझन् सेवितवन्ति । सुरसमितिः सुरसमूहः नृपं जितारिं प्राशंसत् स्तुत. वती ! अप्येषां अन्यजनानां दिगन्ताः रावणववाद्विगतपरिलवा निरुपद्रवा जाता इत्यर्थात् । पौलस्त्यो विभीषणः विपन्नबन्धुः मृतभ्रातृकः शुचं शोकमजुपत् सेवितवान् । जुपिस्तुदादावनुदात्तेत् ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये चतुर्थे तिङन्त-काण्डे लक्षण-रूपे चतुर्थः परिच्छेदः ( वर्गः ), तथा लक्ष्य-रूपे कथानके 'रावण-वन्धो' नाम सप्तदशः सर्गः ॥ १७ ॥ अष्टादशः सर्गःइतः प्रभृति लटमधिकृत्य लड्डिलसितमाह - तत्र वर्तमाने लट् । ततोऽन्यग्रापि दर्शयिति १४५९ - व्यश्नुते स्म ततः शोको नाभि-सम्बन्ध-सम्भवः ॥ विभीषणसाच्चै रोदिति स्म दशा॒ऽऽननम् ॥१॥ व्यश्रुत इत्यादि- ततो वधादनन्तरं शोको विभीपणं व्यनुते स्म व्याप्त वान् । '२७७८१ लट् स्मे । ३।२।११८ । इति भूतानद्यतनपरोक्षे लट् । नाभिस- म्बन्धेन एकोदरसम्बधेन सम्भवो यस्य शोकस्य । असौ प्रवृद्धशोको विभीषणः उच्चैर्महता शब्देन दशाननं नामग्राहं रोदिति स्म रुदितवान् ॥ तदेव दर्शयन्नाह -- १४६० - 'भूमौ शेते दशग्रीवो महार्ह-शयोचितः, ॥ नैक्षते विह्वलं मां च, न मे वाचं प्रयच्छति ॥ २॥ भूमावित्यादि - महार्हंशयने उचितो यः स भूमौ शेते । शोकाविह्वलं मां घ नेक्षते । मे वाचं प्रतिवचनं न प्रयच्छति न ददाति । '९९६ । दाणू दाने' । '२३६०। पा-घ्रा - ।७।३।७८।' इत्यादिना यच्छादेशः ॥ १४६१ - विपाकोऽयं दश-ग्रीव ! संदृष्टो ऽनागतो मया ॥ त्वं तेनाऽभिहितः पथ्यं किं कोपं न नियच्छसि ॥ ३॥ विपाक इत्यादि - हे दशग्रीव ! अयं विपाको मरणलक्षणं फलं अनागतो भविष्यन्नेव मया संदृष्टः सम्यगुपलब्धः । इदानीं पश्यास तेन कारणेन योऽभि- हितोऽसि 'सीतां मुञ्च' इति । अतः किमिति कोपं न नियच्छसि नापनयसि । नास्त्येव मम दोषः । निपूर्वो यमिरपनयने वर्तते ॥ १४६२ - भजन्ति विपदस् तूर्णमतिक्रामन्ति सम्पदः ॥ तान्, मदात नाऽवतिष्ठन्ते ये मते न्यायवादिनाम्. ४ तथा लक्ष्य-रूपे कथानके 'विभीषण-प्रलापो' नामाष्टादशः सर्गः - ४३७ भजन्तीत्यादि- - अन्यच्च ये स्वामिनो मदादवलेपात् न्यायवादिनां माल्य- वत्प्रभृतीनां मते नावतिष्ठते । ८२६८९१ समव-प्र-विभ्यः स्थः ।१।३।२२॥ इति तङ् । ते पुरुषाः विपदस्तूर्णं भजन्ति अवसाद सेवन्ते । भजिरुभयपदी । सम्पदश्चातिक्रामन्ति त्यजन्ति ॥ १४६३ - अ-पथ्यमा॑यतौ लोभादामनन्त्यनुजीविनः ॥ I प्रियं, शृणोति यस् तेभ्यस्, तमृच्छन्ति न सम्पदः ५ अपथ्यमित्यादि — प्रायेण ह्यनुजीविनः प्रहस्तादिसदृशाः । आयतावागा- मिनि काले वृद्धावस्थायामपथ्यमनिष्टं फलं लोभेन तृष्णया वा प्रियमामनन्ति उपदिशन्ति 'साधु इदम्' इति । तेभ्यो यः शृणोति तं सम्पदो न ऋच्छन्ति । अर्ते ऋच्छादेशः ॥ १४६४ - प्राज्ञास् तेजस्विनः सम्यक् पश्यन्ति च, वदन्ति च ॥ तेऽवज्ञाता महाराज ! क्लाम्यन्ति, विरमन्ति, च ॥६॥ 5 प्राज्ञा इत्यादि — ये प्राज्ञाः तेजस्विनः अस्मद्विधाः सम्यगविपरीतं शास्त्रच- - क्षुषा पश्यन्ति वदन्ति च सम्यक् । हे महाराज ! अवज्ञातास्ते तिरस्कृताः क्लास्यन्ति खिद्यन्ते । विरमन्ति च विमुखा भवन्ति । तदुवज्ञानफलमेतत् इति भावः ॥ १४६५ - लेढि भेषज-वन् नित्यं यः पथ्यानि कटून्यपि ॥ 2 तदर्थं सेवते चा ऽऽठान्, कदाचिन् न स सीदति ॥ ७॥ लेढीत्यादि — यस्तु स्वामी आदौ कटून्यपि पथ्यानि परिणामसुखानि भेषजवदौषधमिव नित्यं लेढि श्रोत्रेन्द्रियेणानुभवति तदर्थं चाप्तानविसंवादिनः सेवते स कदाचिन्नावसीदति इह च परत्र चावसन्नो न भवति ॥ १४६६ - सर्वस्य जायते मानः, स्व-हिताच् च प्रमाद्यति, " वृद्धौ भजति चा ऽपथ्यं नरो येन विनश्यति ॥८॥ सर्वस्येत्यादि — प्रायेण वृद्धौ सत्यां सर्वो जनो मानी सञ्जायते वृद्धेश्चित्त- विकारित्वात् । स्वहिताञ्च प्रमाद्यति हिताइष्टो भवति । अपथ्यं च भजति सेवते । येनापथ्येन सेवितेन नरो विनश्यति ॥ A १४६७ - द्वेष्टि प्रायो गुणेभ्यो यन्, न च स्त्रियति कस्यचित्, वैरायते महद्भिश च शीयते वृद्धिमानपि ॥ ९ ॥ द्वेष्टीत्यादि - यद्यस्माद्वृद्धौ सत्यां प्रायेण गुणेभ्यः वृद्धसेवित्वादिभ्यः प्रभुद्वेष्टि । '५७५। क्रुध द्रुह- । १॥ ४ । ३७ । इति सम्प्रदानसंज्ञा । न च कस्यचित् स्निह्यति प्रीयते । महद्भिश्च सह वैरायते वैरं करोति । '२६७३। शब्द - वैर।३।१।१७।' इति क्यङ् । तस्मात्कारणात् वृद्धिमानपि शीयते विनश्यति । शदेः शिति शीयादेशः । '२३६२ । शदेः शितः । १।३।६० ।' इति तङ् ॥ ४३८ सट्टि - काव्ये -- चतुर्थे तिङन्त-काण्डे लक्षण रूपे पञ्चमो वर्गः, १४६८ - समाश्वसिमि केना ऽहं, कथं प्राणिमि दुर्-गतः ॥ लोक-त्रय - पतिर् भ्राता यस्य मे स्वपिति क्षितौ. १० समाश्वसिमीत्यादि — यस्य मम भ्राता लोकत्रयपतिः क्षितौ स्वपिति सोऽहं केनोपायेन समाश्वसिमि शोकं त्यजामि । '३४७४ । रुदादिभ्यः ।७।२।७३॥ इती । दुर्गतो दुःखितः कथं केन प्रकारेण प्राणिमि जीवामि ॥ १४६९ - अहो जागर्ति कृच्छ्रेषु दैवं, यद् बल- भिज्जितः ॥ www लुठ्यन्ति भूम क्लियन्ति वान्धवा मे स्वपन्ति च. ११ अहो इत्यादि — अहो इति विस्मये । कृच्छेषु दुःखेषु दैवं जागति अव हितमित्यर्थः । नित्यं दुःखोत्पादनात् । यद्यस्मात्कारणादपरमपि मम बान्धवाः बलभिजितः बलं भिनत्तीति बलभिदिन्द्रः तं जयन्तीति किप् । भूमौ लुट्य- न्ति । 'रुठ - लुट लोठने' दिवादी । तथा क्लिद्यन्ति पूयन्ति । स्वपन्ति दीर्घनिद्रां प्रवेशिताः ॥ १४७० - शिवाः कुष्णन्ति मांसानि, भूमिः पिवति शोणितम् दशग्रीव - सनाभीनां → ॥ समदन्त्य [मिषं खगाः ॥ १२ ॥ शिवा इत्यादि – दशग्रीवसनाभीनां दशग्रीवेण तुल्यगोनाणाम् । '१०१३ । ज्योतिर्जनपद-।६।४।८५॥ इत्यादिना समानस्य सभावः । मांसानि शिवाः शृगालाः कुष्णन्ति । '१६१६ । कुष निष्कर्पे । भूमिः शोणितं पिबति । खगाः पक्षिणः मांसशोणितव्यतिरिक्तं वसामज्जादिकं समदन्ति भक्षयन्ति ॥ १४७१ - येन पूत क्रतोर् मूर्ध्नि स्थीयते स्म महाऽऽहवे, ॥ : तस्याऽपौन्द्रजितो दैवाद् ध्वां क्षैः शिरसि लीयते. १३ येनेत्यादि – येनेन्द्रजिता पूतक्रतोरिन्द्रस्य महाहवे महासमरे मूर्ध्नि अग्रतः स्थीयते स्म स्थितम् । '२७७९ । अपरोक्षे च ।३।२।११९॥ इति लट् । विभीष णस्य ह्यपरोक्षभूतानद्यतनत्वादर्थस्य । तस्यापीन्द्रजितः शिरसि दैवादामाद्धेतु भूतात् ध्वांक्षैः काकैर्लीयते । वर्तमान एव भावे लट् ॥ १४७२ - स्वर्भानुर् भास्करं ग्रस्तं निष्ठीवति कृतता॒ऽह्निकः ॥ अभ्युपैति पुनर् भूतिं राम-ग्रस्तो न कश्चन ॥१४॥ स्वर्भानुरित्यादि – स्वर्भानु: राहु: भास्करं प्रस्तं प्रासीकृतं कृताह्निकः कृताहारः निष्ठीवति स्वमुखान्निरस्यति । रामग्रस्तो रामामिभूतः पुनर्भूर्ति नाम्युपैति कश्चन कश्चिदपि भूर्ति नाभ्युपैति प्राप्नोति । '७३ । एत्येधस्यूसु तथा लक्ष्य-रूपे कथानके 'विभीषण-मलापो' नामाष्टादशः सर्गः - ४३९ १६।१।८९ ।' इति वृद्धिः । अभ्यमीति पाठान्तरं तद्युक्तं छान्दसत्वात् । यतः यमो बहुलं छन्दसि हलादावनन्तरे सार्वधातुके '२४४४॥ तुरु-स्तु-शम्यमः सार्वधातुके ।७।३।९५३' इनीटू ॥ १४७३ - त्वम॑जानन्निदं राजनीडिषे स्म स्व-विक्रमम् ॥ दातुं नैच्छसि सीतां स्म, विषयाणां च नैशिपे १५ त्वमित्यादि — हे राजन् ! त्वमिदं यथोदितमजानन् स्वविक्रमीडिषे स्म स्तुतवानसि । '२४४० । इंड-जनो च ।७।२।७८।' इति चकारात् सेशब्द- स्यापी । एवं च कृत्वा त्वं सीतां दातुं नेच्छाम स्म नेष्टवानसि । विषयाणां शब्दादीनां नेशिषे स्म विषयान्न जितवानसि । '२४३९ । ईश: से । ७१२७७' इतीद्र । '६१३ । अधीग - । २।३।५२।' इति कर्मणि षष्टी । सर्वत्र '२७७९॥ अपरोक्षे च ।३।२।११९।' इति लट् ॥ १४७४ - मन्त्रे जातु वदन्त्यज्ञास्, त्वं तान॑प्य॑नुमन्यसे, ॥ कथं नाम भवांस तत्र ना ज्वैति हितमा॑त्मनः ॥ १६॥ मन्त्र इत्यादि — मन्त्रविषये अपण्डिताः मूर्खाः सन्तः जातु कदाचिदपि बदन्ति गर्हितमेतत् । तानपि त्वमनुमन्यसे अनुमतवान् । इदमप्यतिगर्हितम् । '२७९९। गर्हायां लडपिजात्वोः ।३।३।१४२।' इति अपिजास्वोरुपपढ्योः कालसामान्ये लट् । कथमेतत् न्याय्यं यत्तत्र भवान् रावणः विद्वानपि नात्मनो हितमवैति न विदितवान् । '२८०० । विभाषा कथाम लिङ् च ।३।३।१४३ । इति कथंशब्द उपपदे चकारात् गर्हायां लट् । तत्र भवानिति '१९६३ । इत राभ्योऽपि दृश्यन्ते ।५।३।१४।' इति भवदादियोगे प्रथमान्तात् त्रल्प्रत्ययः ॥ १४७५ - अ - पृष्टो नु ब्रवीति त्वां मन्त्रे मातामहो हितम् ॥ 'न करोमति पौलस्त्य ! तदा मोहात् त्वर्मुक्तवान् १७ , अपृष्ट इत्यादि – किमस्मिन् काले युज्यत इति मन्त्रे मातामहो माल्यवान् अपृष्टः सन् हितं नु ब्रवीति । हे पौलस्त्य ! त्वं पुनर्हितमकार्पोरिति माल्यवता पृष्टं तदा तस्मिन् काले न करोमीति मोहादज्ञानादुतवान् । अत्र नुशब्दे नशब्दे चोपपदे । '२७८० । ननौ पृष्टप्रतिवचने । ३ । २ ॥२०।' इति भूते धात्वर्थे ' २७८१॥ नन्वोर्विभाषा ।३।२।१२१॥ इति विभाषा लट्र ॥ १४७६ - त्वं स्म वेत्थ महाराज ! यत् स्माऽऽह न विभीषणः ॥ पुरा त्यजति यत् क्रुद्धो मां निराकृत्य संसदि. ॥१८॥ त्वमित्यादि-हे महाराज ! विभीषणो यदाह स्म उक्तवान् तत्त्वं न वेत्थं स्म न विदितवानसि । किमेतेन हितमुक्तं न वेति । उभयत्र '२७७९॥ अपरोक्षे च ।३।२।११९।' इति लट् । तत्र पूर्वस्मिन् '२४६४ । विदो लटो वा ४४० भट्टि-काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे पञ्चमो वर्गः, SUPPO ३।४।८३।' सिपस्थादेशः । अपरस्य '२४५० । ब्रुवः पञ्चानाम्- । ३।४।८४ । इति तिपो णलादेशः । यद्यस्मावं क्रुद्धः सन् मां संसदि सभायां निराकृत्य पाद- महारेण पुरा पूर्व त्यजसि व्यक्तवानसि २७८२ । पुरि लुङ् चास्मे ।२३।२॥२२॥ इति चकारालटू ॥ १४७७- हविर् जक्षिति निःशङ्को मखेषु मघवान॑सौ ॥ 3 प्रवाति खेच्छया वायुरु॑द्गच्छति च भास्करः ॥१९॥ हविरित्यादि — असौ मघवान् इन्द्रः मखेषु यज्ञेषु हविराज्यादिकमधुना जक्षिति भक्षयति । '२४७४ । रुद्रादिभ्यः ।७।२।७६ । इनीट् । वायुश्च स्वेच्छया वाति गच्छति । 'पवते' इति पाठान्तरम् । पवित्रीकरोतीत्यर्थः । भास्करश्च यथे. मुद्रच्छति उदेति ॥ ■ १४७८ - धनानामशते यक्षा, यमो दाम्यति राक्षसान्, ॥ तनोति वरुणः पाशमि॑न्दुनौदीयते ऽधुना ॥ २० ॥ 1 धनानामित्यादि – यक्षाः कुबेरादयः धनानामीशते [ प्रभवन्ते ]। स्वाभ्यं ऱभन्ते इत्यर्थः । '१०८९। ईश ऐश्वर्ये' । यमोऽपि राक्षसान् दाम्यति वशीकरोति । वरुणः पाशं तनोति विस्तारयति । इन्दुनोदीयतेऽधुना । भावे लट् । अधुनेति नर्वत्र योज्यम् । अणुनेति पाठान्तरं असंपूर्णत्वात् ॥ , १४७९ - शाम्यत्यतु- समाहारस्, तपस्यन्ति चनौकसः ॥ नो नमस्यन्ति ते बन्धून्, वरिवस्यन्ति ना ऽमराः २१ शाम्यतीत्यादि — ऋतूनां समाहारः सम्भूयावस्थानं शाम्यति अपैति । वनौकसो वनवासिनो मुनयः तपस्यन्ति तपश्चरन्ति । '२३७१ । कर्मणो रोमन्थ - ।३।१।१५।' इत्यादिना क्यङ् । तपसः परस्मैपदं च । ते त्वद्वन्धूनमरा नमस्यन्ति न प्रणमन्ति । न वरिवस्यन्ति । नाप्रतिषेधेन परिचरन्ति । '२६७५॥ नमो वरिवश्चित्रङः क्यच् ।३।१।१९। ॥ १४८० - श्रीर् निष्कुष्यति लङ्कायां, विरज्यन्ति समृद्धयः ॥ न वेद तन्, न यस्याऽस्ति मृते त्वयि विपर्ययः २२ , . श्रीरित्यादि-लङ्कायां पुर्या अधुना श्रीर्निष्कुष्यति । 'कुष रोपे' । '२७७२। कुषि-रजोः प्राचां श्यन् परस्मैपदं च ।३।१।१०।' समृद्धयश्च विरज्यन्ति अप- यान्ति । सर्वथा तद्वस्तु न वेद न वेद्मि । '२४६४ । विदो लटो वा ।३।४।८३ । ' इति मिपो गळ् । यस्य त्वयि मृते न विपर्ययः नान्यथाभावः ॥ १४८१ - शक्तिं संस्वजते शक्रो, गोपायति हरिः श्रियम् ॥ " देव-बन्द्यः प्रमोदन्ते, चित्रीयन्ते, घनो॒दयाः ॥२३॥ शक्तिमित्यादि- - शक्रः शक्तिं ग्रहरणमधुना संस्वजते गृह्णाति । '२३९६ । तथ । लक्ष्य रूपे कथानके 'विभीषण-प्रलापो' नामाष्टादशः सर्गः- ४४१ दंश-सञ्ज- स्वआँ शपि ।६।४।२५।' इत्यनुनासिकलोपः । हरिविष्णुः श्रियं गोपा- यति आत्मन्येव कृत्वा रक्षति । देववन्धः प्रमोदन्ते हृप्यन्ति । धनोदयाश्विनी- यन्ते नानारूपेणाद्भुतायन्ते मृते त्वयीति सर्वत्र योज्यम् ॥ विशेषकम् २४, २५, २६- १४८२ विभ्रत्य॑स्त्राणि सामर्षा रण-काम्यन्ति चा ऽमराः ॥ चकासति च, मांसाऽदां तथा रन्ध्रेषु जाग्रति ॥ २४ ॥ विभ्रतीत्यादि – अमराः सामर्षा : सकोपाः अस्त्राणि विभ्रति धारयन्ति । रणकाम्यन्ति च आत्मनो रणमिच्छन्ति । आत्मेच्छायां काम्यच् । चकासति च दीप्यन्ते च । जक्षित्यादित्वादभ्यस्तसंज्ञायां झेरदादेशः । तथा मांसादां राक्षसानाम् । '२९७७ । अदोऽनने ।३।२।६८।' इति विद । रन्ध्रेषु व्यसनेषु जाग्रति सावधाना भवन्ति ॥ १४८३ - चश्चर्यते ऽभितो लङ्कामुस्मांश चा ऽप्य॑तिशेरते, ॥ भूमयन्ति स्व-सामर्थ्य, कीर्तिं नः कनयन्ति च ॥२५॥ चञ्चर्यन्त इत्यादि — लङ्कामभितः बाह्यतोऽभ्यन्तरतश्च । '१९५६। पर्यभिभ्यां च ।५।३।१९॥ इति सर्वोभयार्थे तसिः । चञ्चूर्यन्ते गर्हितं चरन्ति । '२६३५ । लुप-सद - ।३।१।२४।' इति भावगर्हायां यङ् ॥२६३६ । घर फलोश्च ॥७॥४॥८७ ।' इत्यभ्यासस्य नुक् । '२६३७ । उत्परस्यातः ।७।४।८८।' इत्युत्वम् । अस्मांश्चापि अतिशेरते अतिशयिता भवन्ति च । स्वसामर्थ्य भूमयन्ति वर्धयन्ति । बहूनां भाव इति '१७८४ । पृथ्वादिभ्य इमनिच् । ५।१।१२२॥'।'२०१७॥ बहोर्लोपो भू च बहोः ॥४।१५८॥ इति बहोर्भूरादेशः । इमनिजादिलोपश्च । भूमानं कुर्वन्तीति णिचि णाविष्ठवव्यातिपदिकस्येतीष्ठवद्भावात् टिलोपयणादिपरलोपः । विन्मतोर्लुगर्थमिति वचनाद्वा टिलोपः । किंच नोऽस्माकं कीर्ति कनयन्ति अल्पां कुर्वन्ति । अमरा इति योज्यम् । अल्पां कुर्वन्तीति णिचि णाविष्टवद्भावाद् '२०१९ । युवा-ल्पयोः कनन्यतरस्याम् । ५।३।६४॥ इति कनादेशः ॥ १४८४ - दिशो व्यञ्जवते हास् " त्वत्- कृतां जहति स्थितिम् ॥ क्षोदयन्ति च नः क्षुद्रा, हसन्ति त्वां विपद्-गतम् ॥ २६ ॥ दिश इत्यादि – हप्ताः सन्तः दिशो व्यनुवते व्याप्नुवन्ति । स्थितिं व्यवस्थां स्वस्कृताम् । '१३७३ । प्रत्ययोत्तरपदयोश्च ।७।२।१८॥ इति स्वदादेशः । जहति ४४२ भट्टिकाव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपे पन्चमो वर्गः, त्यजन्ति । विपद्भुतं च त्वां हसन्ति । क्षुद्राः अल्पकायाः क्षोदयन्तीव क्षुद्रमि- वाचक्षत इति । भुवने यो हि न्यकृतन्निलोकः स कथं क्षुद्र उच्यते । '२०१५) स्थूल-दूर - ।६।४।१५६।' इत्यादिना पौ यणादिपरलोपः पूर्वस्य च गुणः ॥ १४८५ - शमं शमं नभस्वन्तः पुनन्ति परितो जगत् ॥ उजिहीपे महाराज ! त्वं प्रशान्तो न किं पुनः ॥ २७ ॥ शममित्यादि — नभस्वन्तो वायवः शमं शमं शान्त्वा शान्त्वा । '३३४३। आभीक्ष्ण्ये णमुल ।३।४।२२।' । '२७६३ । नोदात्त ।७।३।३४।' इति वृद्धिप्रतिषेधः । आभीक्ष्ण्ये द्वे भवतः । परितः सर्वतो जगत् पुनन्ति पवित्रयन्ति । प्रशान्ता अपि पुनर्भूत्वा जगत् पुनन्ति । हे महाराज ! त्वं पुन: प्रशान्तोऽपि किं नोज्जिहीपे नोत्तिष्ठसि । 'ओहाङ् गतौ' इत्यभ्यासस्य '२४९६ । भृजामित् १७।४।७६।'। '२४९७ । ई हल्यघोः-।६।१।१३।' इतीत्वम् ॥ १४८६ - प्रोर्णोति शोकस् चित्तं मे, सत्वं संशाम्यतीव मे, ॥ प्रमार्टि दुःखमालोकं, मुञ्चाम्यूर्ज त्वया विना ॥ २८ ॥ । प्रोणतीत्यादि — हे महाराज ! त्वया विना शोको मम चित्तं प्रोणति आच्छादयति । सत्वं अवष्टम्भः संशाम्यतीव अपगच्छतीव । मां त्यजतीत्यर्थः । दुःखं च कर्तृ आलोकं प्रज्ञानं प्रमाष्टि अपनयति । अतस्त्वया विना ऊर्ज बलं मुञ्चामि । अलसो भवामीत्यर्थः ॥ १४८७ - केन संविद्रते-नाऽन्यस् त्वत्तो वान्धव-वत्सलः ॥ विरौमि शून्ये, प्रोणमि कथं मन्यु- समुद्भवम् ॥२९॥ केनेत्यादि - त्वत्तोऽन्यो बान्धववत्सलो नेति के न संविद्वते न जानते । ' २६९९ । समो गमि - । १।३।२९॥ इति तङ् । '२७०१ । वेत्तेर्विभाषा ।७।१।७॥ इति रु । बन्धुरेव वान्धवः । प्रज्ञादित्वादण् । अतोऽहं शून्ये बन्धुविरहिते विरौमि फूत्करोमि । कथं केन प्रकारेण मन्युसमुद्भवं शोकोत्पादं प्रोणमि आच्छादयामि ॥ १४८८ - रोदिम्य॑नाथमा॑त्मानं वन्धुना रहितस् त्वया ॥ प्रमाणं नौपकाराणामेवगच्छामि यस्य ते ॥ ३० ॥ रोदिमीत्यादि- त्वया बन्धुना रहितत्वादनाथोऽस्मीति आत्मानमेव रोदिमि वां कृतकार्यम् । यस्य ते उपकाराणां प्रमाणमियत्तां नावगच्छामि ॥ १४८९ नैदानीं शऋ-यक्षेन्द्रौ विभीतो, न दरिद्रितः ॥ न गर्व जहितो दृसौ, न क्लिनीतो दशा॒ऽऽनन ! ॥३१॥ 5 तथा लक्ष्य-रूपे कथानके 'विभीषण-प्रलापो' नामाटादशः सर्गः - ४४३ नेदानीमित्यादि — इदानीं त्वय्येवंभूते शऋ-यक्षेन्द्रौ न बिभीतः न भयं कुरुतः । '२४९२। भियोऽन्यतरस्याम् ।६।४।११५।' इति इत्वाभावपक्षे रूपम् । न दरिद्वितः दरिद्रौ न भवतः । '२४८२ । इद्दरिद्रस्य १६३४।११४।' इति हलादौ किति सार्वधातुक इत् । हप्तौ न गर्व जहितः परित्यजतः । २४९८ । जहातेश्च ।६।४।११६।' इतीत्वम् । न किश्श्रीतः क्लेशं नानुभवत: । '२४९७७ ई हत्यघोः ।६।४।११३॥' इतीत्वम् ॥ १४९० - त्वया ऽपि नाम रहिताः कार्याणि तनुमो वयम् ॥ कुर्मश च जीविते वुद्धिं, 3 धिक तृष्णां कृत-नाशिनीम् ॥ ३२ ॥ त्वयेत्यादि — यद्वयं त्वया विना कार्याणि राज्याङ्गानि तनुमः प्रसारयिप्यामः । जीविते च बुद्धिं कुर्मः । तदिमां कार्ये जीविते च तृष्णां कृतनाशिनीं धिक् । '२७९९ । गहयां लडपि-जात्वोः ।३।३११४२।' इति भविष्यति लट् ॥ १४९१ - तृणेह्नि देहमा॑ात्मीयं, → त्वं वाचं न ददासि चेत् ॥ द्राधयन्ति हि मे शोकं स्मर्यमाणा गुणास् तव ॥ ३३ ॥ तृणेझीत्यादि – मम प्रतिवचनं न ददासि चेत् यदि त्वं तर्हि आत्मीयं देहं तृणेह्नि हन्मि । '२५४५॥ तृणह इम् ।७।३।९२ । १ । हि यस्मात् स्वर्यमाणा- स्तव गुणा: मम शोकं द्वावयन्ति दीर्घं कुर्वन्ति । णाविष्टद्भावेन '२०१६॥ प्रिय-स्थिर—।६।४।१५७।' इत्यादिना दीर्घशब्दस्य द्वाघादेशः ॥ १४९२ - उन्मुच्य स्रजमात्मीयां मां सृजयति को हसन् ॥ नेदयत्या॑ासनं को मे, कहि मे वदति प्रियम् ॥ ३४ ॥ उन्मुच्येत्यादि —– आत्मीयां स्रजं मालामुन्मुच्यापनीय देहात् हसन् परि- तोषात् को मां सजयति स्रग्विणं करोति । णाविष्टवद्भावात् '२०२० । विन्मतो- र्लुक् ।५।३।६५।' इति विनो लुक् । '२०१०। प्रकृत्यैकाच् ।६।४।१६३।' इति टिलोपाभावः । को वा ममासनं नेदयति अन्तिकं करोति । अत्रापि णौ इष्टव- वात् '२०२४ । अन्तिकबाढयोर्नेदसाधौ ।५।३।६३ । इति अन्तिकशब्दस्य नेदादेशः । कर्हि कदा को मे प्रियं वदति वदिष्यति । '२७८४ । विभाषा कदा- कर्त्योः ।३।३।५।' इति भविष्यति लट् ॥ ४४४ भट्टि काव्ये – चतुर्थी तिङन्त-काण्डे लक्षण-रूपे पथमो वर्गः, १४९३ - न गच्छामि पुरा लङ्का- मा॑यु॒र् यावद् दधाम्य॑हम्, 11 कदा भवति में प्रीतिस्, त्वां पश्यामि न चेद॑हम् ॥ ३५ ॥ न गच्छामीत्यादि –– यावदहमायुर्दधामि धारयिष्यामि । २७८३ । यावपुरानिपातयो ।३।३॥४॥ इति भविष्यति लट् । पुराशब्दोऽत्र भविष्यदासत्तिमाह । प्रीतिर्हि लङ्काप्रवेश इति दर्शयन्नाह - चेद्यद्यहं त्वां जीवन्तं न पश्यामि । वर्तमाने लट् । कड़ा कस्मिन् काले मे मम प्रीतिर्भवति भविष्यति 1 '२७८४ । विभाषा कदाकः ।३।३।५।' इति भविष्यति लट् ॥ १४९४ - ऊर्ध्व म्रिये मुहूर्तार्द्धि " विह्वलः क्षत-वान्धवः ॥ मन्त्रे स्म हितमा॑ख्यामि, न करोमि तवा ऽप्रियम् ॥ ३६ ॥ ऊर्ध्वमित्यादि- मुहूर्तादूर्ध्व उपरि अहं म्रिये मरिष्यामि । क्षतवान्धव- स्वात् विह्वलः सन् । अनेन मरणस्य निमित्तभूतं प्राप्तकालं लोडर्थ दर्शयति । तेन '२७८८। लिङ्ग चोर्ध्वमौर्तिके ।३।३।१९। इति लोडर्थलक्षणे भविष्यति लट्र । लोडश्च प्रैपादकः । २५३८ । म्रियतेलुङलिङोश्च ।१।३।६॥' इति चका- रात् शितश्चात्मनेपदम् । अन्यच्च मन्त्रे मन्त्रविपये हितमाख्यामि स्म आख्या- तवानहम् । '२७७९। अपरोक्षे च ।३।२।११९।' इति लट् । ममाप्रियं मा कार्षी- रिति । पृष्टः सन्नहं न करोमि तवाप्रियमिति न कृतवानसि । ' २७८२ । नन्वो- विभाषा ।३।२।१२१॥' इति पृष्टप्रतिवचने लट् ॥ युग्मम् - ३७-३८ १४९. ५ - अन्तः पुराणि पौलस्त्यं पोराश् च भृश-दुःखिताः ॥ संश्रुत्य स्माऽभिधावन्ति हतं रामेण संयुगे ॥३७॥ अन्तःपुराणीत्यादि – अनन्तरं पौलस्त्यं रामेण हतं संश्रुत्य अन्तः पुराणि पौराश्च दुःखिताः अभिधावन्ति स्म ढौकन्ते स्म । '२७७८ । लट् मे ।३।२।११८। इति भूतानद्यतनपरोक्षे लट् ॥ १४९६ - मूर्धजान् स्म विलुञ्चन्ति, क्रोशन्ति स्मा ऽतिविह्वलम् ॥ अधीयन्त्युपकाराणां मुहुर भर्तुः प्रमन्यु च ॥ ३८ ॥ तथा लक्ष्य-रूपे कथानके 'विभीषण-प्रलापो' नामाष्टादशः सर्गः:–४४५ मूर्धजानित्यादि - [ मूर्धजान् ] केशान्विलुञ्चन्ति स अपनयन्ति स्म । अतिविह्वलं अतिवैक्कृव्यं । गुणप्रधानो निर्देशः । कोशन्ति स्म फूत्कारं कुर्वन्ति स्म । अन्तःपुराणीत्यर्थः । भर्तुश्चोपकाराणां मुहुरधीयन्ति स्म । '११२० इक् स्मरणे' । '६१३। अधीगर्थ- ।२।३।५२॥ इति कर्मणि षष्टी । प्रमन्यु- चेति क्रियाविशेषणम् । प्रकृष्टशोकमित्यर्थः । 'प्रमन्यवः' इति पाठान्तरम् । प्रकृष्ट- शोका इत्यर्थः ॥ १४९७ - रावणस्य नमन्ति स्म पौराः सास्रा रुदन्ति च. ॥' भापते स्म ततो रामो वचः पौलस्त्यमा॑कुलम् ॥३९॥ रावणस्येत्यादि – पौराञ्च रावणस्य नमन्ति स्म नमस्यन्ति । पादावित्यर्थात् तत्सम्वन्धित्वात् । सास्त्राश्च सन्तः रुदन्ति च स्म । ततोऽनन्तरं रामः पौलस्यं विभीषणं आकुलं वचो भाषते स्म उक्तवान् ॥ १४९८ - 'दातुः स्थातुर् द्विषां मूर्ध्नि यष्टुस् तर्पयितुः पितॄन् ॥ युद्धऽभग्नाऽऽविपन्नस्य किं दशाऽऽस्यस्य शोचसि ४० दातुरित्यादि – दशास्यो दाता, द्विषां मूर्ध्नि स्थाता, यष्टा यज्ञानां, पितॄन् तर्पयिता । १९५६ । तृप तृप्तौ' चुरादिः । युधि देवादीनां संग्रामेऽभग्नः अवि- पन्नः । तस्यैवंविधस्य किं शोचसि । शोच्यमेव नास्ति । वर्तमाने लट् ॥ १४९९ - वोभवीति न सम्मोहो व्यसने स्म भवाहशाम् ॥ किं न पश्यसि, सर्वो ऽयं जनस् त्वाम॑वलम्वते ॥४१॥ बोभवीतीत्यादि — भवादृशां युष्मद्विधानां व्यसनेषु दुःखेषु सम्मोहः अज्ञानं न बोभवीति अत्यर्थं न भवति । यङ्लुक रूपम् । एवं च सति स्वार्थो न हीयते । यतः किं न पश्यसि । अयं सर्वो जनः त्वामवलम्बते 'त्वमेव स्वामी' इति प्रतीक्षते ॥ १५०० - त्वम॑र्हसि भ्रतुर॑नन्तराणि , कर्तुं, जनस्या ऽस्य च शोक-भङ्गम् ॥ धुर्ये विपन्ने त्वयि राज्य-भारो मज्जय॑नूढः क्षणदा- चरेन्द्र ! ॥ ४२ ॥ इति भट्टि-काव्ये तिङन्त-काण्डे लविलसितो नामाऽष्टादशः सर्गः ॥ त्वमर्हसीत्यादि — तस्मात् भ्रातुरनन्तराण्यग्निसात्कारादीनि कर्तुं त्वमर्हसि युज्यसे । अस्य च जनस्य शोकभङ्गं शोकापनयनं कर्तुं च । अन्यथा त्वयि भ० का० ३८ ८५६ अद्वि-काव्ये–वतु तिन्त-काण्डे लक्षण-स्ले पो वर्गः, दुर्गे दुरं वहति विपने कपड़े न के दायरे ! राज्यभारः अनूहः अन्यै- रनविष्टितः सज् अजति जोयादि समर्पित । उस्मात् त्वया समाहि- तेन राज्यभारी वोडव्य इति ॥ इति श्री जयमङ्गलाऽऽल्या व्याख्या समलंकृते श्री-भट्टिकाव्ये मतुर्थे तिटन्त का लक्षण-रूपे पञ्चमः परिच्छेदः (वर्गः ), तथा लक्ष्य-रूपे कथानके 'विभीषणप्रलापो' नाम अष्टादशः सर्गः ॥ १८ ॥ एकोनविंशः सर्गःइतः प्रभृति लिङमधिकृत्य विलसितमाह - तत्र विध्यादिपु लिङ्ग । ततो. अन्यत्रापि दर्शयिष्यतिP १५०१ - अपमन्युस् ततो वाक्यं पौलस्त्यो रामर्मुक्तवान् ॥ 'अ-शोच्योऽपि व्रजन्न॑स्तं सनाभिर् दुनुयान् न किम्. १ अपमन्युरित्यादि - रातोऽनन्तरं पौलस्त्यो विभीषणः अपमन्युः अपगतो मर्यस्य । प्रादिभ्यो धातुजस्य बहुत्रीहिर्वा चोत्तरपदलोपश्च । रामं वाक्यमुक्त- वान् । देव ! किमेवमभिधत्से अशोच्य इति । यतः सनाभिः सगोत्रोऽस्तं व्रजन् विनाशं गच्छन्नशोच्योऽपि सन् किं न दुनुयाद्वियोगेन अवश्यतया किं नोपतापयेत् । निमन्त्रणे नियोगकरणे लिङ् ॥ १५०२ - तं नो देवा विधेयासुर् येन रावण वद् वयम् ॥ सपत्नांश चा ऽधिजीयास्म, संग्रामे च मृषीमहि २ तं न इत्यादि - युष्मद्वचनादात्मा मया स्थिरीकृतः किन्त्विदमाशंसे । तमुपायं नोऽस्माकं देवा विधेयासुः । '२३६२ । बु-मा-स्था ।६।४॥६६।' इत्यनु- वृत्तौ '२३७४ । एर्लिङि ।६।४।६७।' इत्येकारादेशः । येनोपायेन रावणवत् सपत्नान् वयमधिजीयास्म । 'उपसगंण धात्वर्थो बलादन्यः प्रतीयते' इति सक- र्मकता । संग्रामे च मृषीमहि । लिङश्चेति लिङः किवान गुण: । आर्धधातुक- त्वान सलोपः । सर्वत्रैवाशिषि लिङ् ॥ १५०३ - क्रियेरंश च दशाऽऽस्येन यथा ऽन्येना ऽपि नः कुले ॥ देवद्यञ्चो नराऽहारा न्यश्चचं द्विषतां गणाः ॥ ३ ॥ क्रियेरनित्यादि- - यथा दशास्येन नराहारा राक्षसाः देवयञ्चः देवैः सहा- अच्छतः क्रियेनू कृताः । '४१८ । विष्वदेवयो-।६।३।१२।' इत्या तथा लक्ष्य-रूपे कथानके 'विभीषणाभिषेको' नामैकोनविंशतितमः सर्गः- दिना टेरयादेशः । द्विषतां च गणाः न्यञ्चन्तः नीचैरञ्चन्तः कृताः तिरस्कृताः । तथा नोऽस्माकं कुले अन्ये नाधिक्रियेरंश्च । आशंसायां कर्मणि लिङ् । कृपीरनिति वा पाठः । आशिपि कर्मणि लिङ्ग ॥ १-४४७ १५०४ - स एव धारयेत् प्राणानौदृशे वन्धु - विप्लवे, 11 भवेददा॑श्वासको यस्य सुहृच्छतो भवादृशः ॥ ४ ॥ स एवेत्यादि — ईशे बन्धुविठवे बन्धुविनाशेऽपि स एव ग्राणान् धारयेन् नियोगतो बिभृयात् । निमन्त्रणे नियोगकरणे लिङ् । यस्य भवादशः सुहृन्मित्रं शक्त आश्वासकः सान्त्वयिता भवेत् । सम्भावनायां लिङ् ॥ १५०५ म्रियेयोर्ध्वं मुहूर्तार्द्धि, न स्यास् त्वं यदि मे गतिः ॥ आशंसा च हि नः, प्रेते जीवेम- दशमूर्धनि ॥ ५॥ म्रियेयेत्यादि — यदि मे मम गतिः शरणं त्वं न स्वाः न भवेः । लिङ् । तदा यस्मिन्मुहूर्ते रावणोऽपि नष्टः तस्मान्मुहूर्तादूर्ध्वं म्रियेय । नियोगतः प्राप्त कालः । प्राणांस्त्यक्तवानहम् । अत्र प्राप्तकाले गम्यमाने '२८१८। लिङ् चोर्ध्व- मौर्ति ।३।३।१६४।' इति लिङ् । तत्र हि प्रैषादयोऽनुवर्तन्ते । '२५३८। म्रियतेर्लुङ्गलिडोश्च । १।३।६॥' इति तङ् । ततः सार्वधातुकत्वात् शः । हि यस्मा- नोऽस्माकं नेयमाशंसा । यद्दशमूर्धनि दशानने प्रेते मृते त्वयि वाऽशरणे जीवेम प्राणान् धारयिष्याम इति । अत्राशंसावचनस्योपपड़त्वात् लिङ् ॥ १५०६ - प्रकुर्याम वयं देशे गह्यं तत्र कथं रतिम् ॥ यत्र विंशति-हस्तस्य न सोदर्यस्य सम्भवः ॥ ६॥ प्रकुर्यामेत्यादि – यत्र देशे सोदर्यस्य भ्रातुर्विंशतिहस्तस्य न सम्भवोऽस्ति तत्र कथं वयं गर्ह्या निन्द्यां रतिं प्रकुर्याम करिष्यामः । नैवेत्यर्थः । अत्र गर्हायामित्य- विकृत्य ' २८००। विभाषा कथमि लिङ् च ।३।३।१४३।' इति कथमित्युपपदे भविष्यति लिङ् ॥ १५०७ - आमन्त्रयेत तान् प्रहान् मन्त्रिणोऽथ विभीषणः - ॥ गच्छेत त्वरितं लङ्कां, राज- वेश्म विशेत च ॥ ७ ॥ आमन्त्रयेतेत्यादि – अथानन्तरं विभीषणः सदसि यैर्मत्रिभिः सह उत्थितः तान्मत्रिणः प्रह्लानामन्त्रयेत कर्मसु नियोगतः संहितवानित्यर्थः । निमन्त्रणे नियोगकरणे लिङ्ग । तदेव दर्शयति । लङ्कां त्वरितं यूयं गच्छेत यात । गताश्च राजवेश्म विशेत च । अत्र विधौ प्रेषणे लिङ् । स हि सर्वलकाराणामपवादः ॥ १५०८ - आददीध्वं महाऽर्हाणि तत्र वासांसि स-त्वराः ॥ उद्दुनीयात सत्-केतून, निर्हरेताऽय-चन्दनम् ॥ ८॥ भट्टि- काव्ये – चतुर्थे तिङन्त काण्डे लक्षण रूपे षष्टो वर्गः, आददी ध्वमित्यादि – तत्र राजवैश्मनि वासांसि महाणि महामूल्यानि सत्वरा आददीध्वं गृह्णीन । '२४८३ । नभ्यस्तयोरातः ।६।४।११२।' इत्याकार- लोपः । सत्केतून् शोभनध्वजान् उद्धुनीयात ऊर्धीकरिष्यथ । '२५५८ प्वादीनां ह्रस्वः।७।३।८०।'। '२४९७ । ई हल्योः ।६।४॥१३।' अभ्यचन्दनं सञ्चन्दनका. ष्ठानि निरेत निर्गमयत ॥ ४४८ १५०९ – मुञ्चेताऽऽकाश-धूपांचं, ग्रश्नीयात स्रजः शुभाः ॥ आनयेता ऽमितं दारु कर्पूराऽगुरु-कुङ्कुमम् ॥ ९ ॥ मुञ्चतेत्यादि- धूपवटिकाभिराकाशधूपांश्च मुञ्चेत प्रवर्तयेत् । स्रजः पुष्प. मालाः शुभाः ग्रनीयात गुम्फिष्यथ । '१६१० । श्रन्थ ग्रन्थ सन्दर्भे' इति लिङ्ग । पुपादिप्रयोगश्च ॥ १५१० - उह्येरन् यज्ञ-पात्राणि, ह्रियेत च विभावसुः ॥ , भ्रियेत चाऽऽज्यमृ॑त्विग्भिः, कल्प्येत च समित्-कुशम् ॥ १० ॥ W उद्येरन्नित्यादि — यज्ञपात्राणि सुगादीनि उह्येरन् आनीयन्ताम् । विभाव- सुश्चाग्निः हियेत । ऋत्विग्भिः आज्यमपि म्रियेत । सामेत्कुशं कल्प्येत च क. ल्प्यम् । सर्वत्र विधौ कर्मणि लिङ् ॥ १५११ – स्नानीयैः स्नापयेताऽऽशु, रम्यैर् लिम्पेत वर्णकैः, 11 अलङ्कुर्यात रत्तैश्च रा॒वणा॒ऽर्थैर् दशा॒ऽऽननम् ॥११॥ स्नानीयैरित्यादि – यथा स्वविहितं च कृत्वा रम्यैः स्नान येर्दशाननं राक्षसा- धिपं स्त्रापयेत नापयिष्यथ । 'ग्लास्त्रावनुवमां च' इति विकल्पेन मित्वम् । तत्र 'ज्वल-ह्वल-नमामनुपसर्गाद्वा' इति वाग्रहणमनुवर्तते । वर्णकेश्चन्दनादिभिः रम्यै- लिम्पेत विलेप्स्यथ । रवैश्च रात्रणाहैर्नित्यनैमित्तिकैरलंकुर्यात अलंकरिष्यथ ॥ १५१२ - वासयंत सु-वासोभ्यां मेध्याभ्यां राक्षसाऽऽधिपम्, ऋत्विक् स्रग्विणमा॑दध्यात् प्राङ्-मूर्धानं मृगाऽजिने ॥ १२ ॥ वासयेतेत्यादि सुवासोभ्यां मेध्याभ्यां पूताभ्यां वासयेत च आच्छादवि। ऋत्विक् यज्वा स्रग्विणं मालाभूषितं कृत्वा मृगाजिने प्राङ्मुर्वानं प्राच्यां स्य पूर्वशिरसमादध्यात स्थापयेत ॥ तथा लक्ष्य-रूपे कथानके 'विभीषणाभिषेको' नामैकोनविंशतितमः सर्गः ४४९ १५१३ - यज्ञ-पात्राणि गात्रेषु चिनुयाच् च यथा-विधि, ॥ जुहुयाच् च हविर् वह्नौ, गायेयुः साम सामगा:.' १३ यज्ञपात्राणीत्यादि- - स एव यथाविधि यथाक्रमं यज्ञस्य पात्राणि सुगाढ़ी नि गात्रेषु विचिनुयात् । हविराज्यं वहाँ जुहुयात् । सामगाः छन्द्रोगा: साम च गायेयुः । सर्वत्र विधो लिङ ॥ १५१४ गत्वा ऽथ ते पुरीं लङ्कां कृत्वा सर्वे यथोदितम् ॥ समीपेऽन्त्याऽऽहुतेः सा॒ऽस्राः प्रोतवन्तो विभीषणम् ॥ १४ ॥ गत्वेत्यादि — अथानन्तरं ते मन्त्रिणः लङ्कां गत्वा यथोदितं च कृत्वा । अन्त्या- हुतेर्मृताहुतेः अनन्तरं सास्राः सवाप्पाः विभीषणं प्रोक्तवन्तः ॥ १५१५ - कृतं सर्वं यथा॒द्दिष्टं, कर्तुं वह्नि-जल-क्रियाम् ॥ प्रयतेथा महाराज ! सह सर्वैः स्व-बन्धुभिः ॥१५॥ कृतमित्यादि – यथोद्दिष्टं यथाविहितं सर्वमस्माभिः कृतं । त्वमिदानीं भ्रातुर्वह्रिक्रियां जलक्रियां च कर्तुं स्ववन्धुभिः सर्वैः सह प्रयतेथाः । प्रार्थनायां लिङ् ॥ १५१६ - अज्ञ-वन् नौत्सहेथास् त्वं, धेया धीर त्वम च्युतम् ॥ , स्थेयाः कार्येषु वन्धूनां, हेयाः शोकोद्भवं तमः ॥ १६ ॥ अज्ञवदित्यादि — शोकादमवर्तमानं पुनराहुः । अज्ञवत् किं नोत्सहेथाः किम- वसीदसि गर्हितमेतत् । '२८०१ । किं- वृत्ते लिङ्लुटौ ।३।४।१४४१' इति गर्हायां लिङ् । इयं चास्माकमाशंसा । यत्तु धीरत्वं धैर्य अच्युतं [ अक्षतं ] धेयाः धास्यसि । बन्धूनां च कार्ये स्थेयाः स्थास्यसि । शोकोद्भवं च तमो हेया- स्त्यक्ष्यसि । सर्वत्राशिषि लिङ् । आर्धधातुकत्वात् '२३७४ । एङि ।६।४।६७॥ इत्यसंयोगादेरेत्त्वम् ॥ १५१७ – नाऽवकल्प्यमिदं, ग्लायेद् यत् कृच्छ्रेषु भवान॑पि ॥ न पृथग्-जन-वज् जातु प्रमुह्येत् पण्डितो जनः १७ ३ नावकल्प्यमित्यादि- – अन्यञ्च नावकल्प्यमिदं न सम्भाव्यमेतत् येन कृच्छ्रेषु दुःखेषु भवानपि ग्लायेत् ग्लानिं याति । अनवक्लृप्तौ असम्भावनायां '२८०२ । अनवक्लृप्त्यमर्षयोः–।३।३।१४५।' इत्यादिना लिङ् । सार्वधातुकत्वात् '२३७८॥ अट्टि-काव्ये -- चतुर्थे तिङन्त-काण्डे लक्षण-रूपे षष्टो वर्गः, वान्यस्य–१६।४।६८।' इत्येत्वं न विकल्प्यते । यस्मात् पण्डितो जनः पृथग्जनवत् अपण्डितवत् जातु कदाचिदपि न प्रमुह्येत् न मोहं यातीति सम्भावयामः । '२८०४ । जानुदोलिंङ् ।३।३।१४७ । इत्यनक्लृप्तौ लिङ् ॥ १५१८ - यच्च यत्र भवांस् तिष्ठेत्, तत्रा ऽन्यो रावणस्य न, ४५० ॥ यच्च यत्र भवान् सीदेन् महद्भिस् तद् विगर्हितम् ॥ १८ ॥ यच्चेत्यादि - यत्र देशे काले वा भवांस्तिष्टेत् तत्र यच्च अन्यो रावणस्य कम्ति टेन् अवस्थानं कः करिष्यति । जैतसम्भावयामः तस्य तत्र न्यूनत्वात् । अन्यस्मि- नवलृप्तिः यच्छव्हेनोपपदेन योगात् '२८०५ । यच्चयत्रयोः ।३।३।१४८।' इत्यन- वक्सौ भविष्यति लिङ्ग । यच्चेति निपातसमुदायो यच्छब्दस्यार्थे वर्तते । किं च यत्र देशे काले वा यच्च भवान् सीदेत् अवसादं करोतीति महद्भिः पण्डितैः विग- हितं निन्दितम् । गयां चेति सर्वलकाराणामपवादो लिङ्' । 'यच्चयत्रयोः' इत्य- नुवर्तते । अनवकृताविति निवृत्तम् ॥ १५१९ - आश्चर्य, यच्च यत्र त्वां प्रत्र्याम वयं हितम् ॥ .3 अपि साक्षात् प्रशिष्यास् त्वं कृच्छ्रेष्विन्द्र पुरोहितम् ॥ १९ ॥ आश्चर्यमित्यादि- -- यत्र देशे काले वा यच्च यद्वयमपि त्वां हितं प्रब्रूयाम तदाश्चर्यं विचित्रमेतत् । '२८०७ । चित्रीकरणे च ।३।३।१५० ।' इति लिङ्ग । '२८०५। यच्चयनयोः ।३।३।१४८। इति वर्तते । त्वामित्यकथितं कर्म । अतस्त्वं कृच्छ्रेषु व्यसनेषु साक्षादिन्द्रपुरोहितं बृहस्पतिं प्रशिष्याः बाढ़ शिक्षयसि । २८०९। उताप्योः समर्थयोर्टिङ् ।३।३।१५२।' अपशब्दस्योपपदत्वात् समर्थत्वं चानयोर्बाढमित्येतस्मिन् अर्थे । '२४८६ । शास इदङ्ग-हलोः । ६।४।३४।' । '२४१०॥ शासि-वसि - ।८।३।६० ।' इत्यादिना पध्वम् ॥ १५२० - कामो जनस्य - 'जह्यास् त्वं प्रमादं नैर्ऋताऽधिप ! ॥ उत द्विषोऽनुशोचेयुर् विप्लवे, किमु बान्धवाः ॥२०॥ काम इत्यादि — हे नैर्ऋताधिप रक्षसां नाथ ! त्वं प्रमादं जह्याः त्यज । अस्य जनस्य पौरस्य काम इच्छा । '२८१०। कामप्रवेदनेऽकच्चिति ।३।३।१५३ । इति लिङ् । कञ्चिच्छब्दस्याप्रयोगात् । कामप्रवेदनं च जनाभिप्रायप्रकाशनम् । अन्यच्च अस्मिन् विप्लवे विनाशे द्विषः शत्रवोऽपि उत अनुशोचेयुः अनुशोचन्ति किम बान्धवाः । २८१९। उताप्योः समर्थयोर्लिङ् ।३।३।१५२॥ ॥ तथा लक्ष्य-रूपे कथानके 'विभीषणाभिषेको' नामैकोनविंशतितमः सर्गः -४५१ १५२१ - स भवान् भ्रातृ वद् रक्षेद् यथावंदखिलं जनम् ॥ 3 न भवान् संप्रमुह्येच् चेदा॑श्वस्युश् च निशाचराः, २१ स इत्यादि – चेद्यदि भवान्न सम्प्रमुह्येत् मोहं न गच्छेत् तदा स भवान् भ्रातृवत् यथा भ्रान्ना जनो रक्ष्यते तद्वत् अखिलं जनं यथावत् सम्यक् रक्षेत् । एते च निशाचरा आश्वस्युराश्वासं गच्छेयुः । '२८१३। हेतुहेतुमतोर्लिंङ् ।३।३। १५६।' अत्र प्रमोहो हेतुः । जनरक्षणं निशाचराश्वासनं च हेतुमत् । श्वसेरदादि- स्वाच्छपो लुक् । आश्वसेयुरिति पाठान्तरम् ॥ १५२२ - ततः स गतवान् कर्तुं भ्रातुर॑ग्नि-जल-क्रियाम् ॥ प्रोक्तवान् कृत कर्तव्यं वचो रामोऽथ राक्षसम् ॥२२॥ तत इत्यादि — ततो वचनानन्तरं भ्रातुरम्निक्रियां जलक्रियां च कर्तु गतवा- न् । अथ कृतकर्तव्यं राक्षसं रामः वचः ग्रोवान् ॥ १५२३ - अम्भांसि रुक्म-कुम्भेन सिञ्चन् मूर्ध्नि समाधिमान् ॥ 'त्वं राजा रक्षसां लङ्का- म॑वेक्षेथा विभीषण ! ॥ २३ ॥ अम्भांसीत्यादि - रुक्मकुम्भेन स्वर्णकलशेनाम्भांसि जलाने मूर्ध्नि सिञ्चन् पातयन् । रामः प्रोक्तवानिति पूर्वेणान्वयः । हे विभीषण ! ( समाधिमान् ध्यानवान् ) त्वमद्यप्रभृति रक्षसां राजा लङ्कामवेक्षेथाः कार्याकार्यनिरूपणेन वक्ष्यसि ॥ १५२४ - क्रुद्धान॑नुनये: सम्यक्, धनैर्लुब्धानुपार्जयेः ॥ मानिनो मानये: काले, त्रस्तान् पौलस्त्य ! सान्त्वयेः ॥ २४ ॥ . क्रुद्धानित्यादि – हे पौलस्त्य ! क्रुद्धाननुनयेः प्रसादयिष्यसि । ये लुब्धा- स्तान् धनेनोपार्जये: दानेन गृहीष्यसि । मानिनः सरकारोचिते काले मानयेः पूजयिष्यसि । त्रस्तान् भीतान् सान्त्वयेः समाश्वासयिष्यसि । सर्वत्र निमन्त्रणे नियोगकरणे प्रार्थनायां वा लिङ् ॥ १५२५ - इच्छा मे परमा, नन्देः कथं त्वं वृत्र - शत्रु-वत्, ॥ इच्छेद्धिं सुहृदं सर्वो वृद्धि संस्थं यतः सुहृत् ॥२५॥ ! इच्छेत्यादि - इयं च मे इच्छा महती । यत्त्वं वृत्रशत्रुवदिन्द्र इव कथमा·नन्देः मुदितो भविष्यसि । '२८१४ । इच्छार्थेषु लिङ्लोटौ ।३।३।१५७१' इति ४५२ अट्टि- काव्ये -- चतुर्थे तित-काण्डे लक्षण-रूपे षष्ठो वर्गः, लिङ् । इच्छार्थस्य धातोरुपपदत्वात् । यतः सर्व एव सुहृत् सुहृदं वृद्धि संस् उदयस्थमिच्छेत् इच्छति । '२८१६ । इच्छार्थेभ्यो विभाषा वर्तमाने । ३।३।३६०॥ इति लिङ्ग ॥ १५२६ - वर्धिषीष्ठाः स्वजातेषु, वध्यास् त्वं रिपु - संहतीः ॥ भूयास् त्वं गुणिनां मान्यस्, तेषां स्थेया व्यवस्थितौ ॥ २६ ॥ वार्धपीष्ठा इत्यादि - वजातेषु स्वजातिषु राक्षसेपु मध्ये त्वं वर्धिषीष्टाः वृद्धिमान् भविष्यसि । आशिषि लिङ् । एवं वक्ष्यमाणेष्वपि सर्वत्र । रिपुसंतीः शत्रुसमूहान् वध्याः विनाशयिष्यसि । '२४३३ । हनो वध लिङि ।२।४।१२॥ भूयाश्च गुणिनां मान्यः । श्रुतशीलवतां मानार्हश्च भविष्यासे । तेषां च युणिनां व्यवस्थायां चिरकालं स्थेयाः स्थास्यसि ॥ १५२७ - धेयास् त्वं सुहृदां प्रीतिं, वन्दिपीष्ठा दिवौकसः ॥ सोमं पेयाश् च, हेयाश् च हिंस्रा हानि-करीः क्रियाः ॥ २७ ॥ धेया इत्यादि —त्वं सुहृदां प्रीतिं धेयाः जनयिष्यसि । दिवौकसो देवान्व- न्दिपीष्ठाः प्रणंस्यसि । सोमं पेयाः पास्यसि । तथा हिंस्राः परोपवातिकाः हानि. करी: अपचयहेतुकाः क्रिया: हेयाः लक्ष्यसि ॥ ." १५२८ - अवसेयाश् च कार्याणि धर्मेण पुर वासिनाम् ॥ अनुरागं क्रिया राजन् ! सदा सर्व गतं जने ॥ २८ ॥ अवसेया इत्यादि – पुनः । पुरवासिनां पौराणां कार्याणि धर्मेणावसेवाः समाप्स्यसि । '१२२२। पोऽन्तकर्मणि' । हे राजन् ! अत्र जने अनुरागं सर्वगतं सर्वव्यापिनं क्रियाः करिष्यसि ॥ १५२९ - घानिषीष्ट त्वया मन्युर्, ग्राहिषीष्ट समुन्नतिः ॥ रक्षोभिर् दर्शिषीष्ठास् त्वं, द्रक्षीरन् भवता च ते. २९ घानिषीष्टेत्यादि – मन्युः क्रोधः त्वया घानिषीष्ट हनिष्यते । चिण्वद्भावो वृद्धिर्घत्वं च । समुन्नतिरभ्युच्चयः ग्राहिषीष्ट ग्रहीप्यते । रक्षोभिर्दर्शनपरैदर्शि षीष्ठाः त्वं द्रक्ष्यसे । ते च राक्षसाः भवता दर्शनपरेण च द्रक्षीरन् । अचिण्वद्भावपक्षः ॥ तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः - ४५३ १५३० - मयुं वध्या भट-वध-कृतं वाल-वृद्धस्य राजन् !, शास्त्राऽभिज्ञाः सदसि सु-धियः सन्निधिं ते क्रियासुः, संरंसीष्ठा : सुर- मुनि गते वर्त्मनि प्राज्य-धर्मे, संभुत्सीष्ठाः सु-नय - नयनैर् विद्विषामीहितानि.' ३० इति भट्टि-काव्ये तिङन्त-काण्डे लिङ्-विलसितो नामैकोनविंशति-तमः सर्गः ॥ मन्युमित्यादि- -अन्यच्च हे राजन् ! बालानां वृद्धानां च । सर्वोgar far षैकवद्भवतीति । वालाश्च वृद्धाश्च बालवृद्धम् । तस्य मन्युं शोकम् । भटवधकृतं भटानां पितृपुत्रादीनां च यो वधः तत्कृतम् । वध्याः प्रियवचनार्थप्रदानादि- भिरपनेष्यसि । शास्त्रार्थज्ञाः शास्त्रार्थकुशलाः ते तव सदसि सभायां सन्निधिं क्रियासुः । सन्निहिता भवन्त्वित्यर्थः । सुरैमुनिभिश्च गते सेविते वर्त्मनि मार्गे प्राज्यधर्मे भूरिपुण्ये संरंसीष्ठा: रंस्यसे । द्विषां शत्रूणां इंहितानि चेष्टितानि सुन- यनयनै शोभनाः ये नयाः तैरेव नयनैश्चक्षुर्भिरिवावस्थितैः सम्भुत्सीष्ठाः जानीयाः ज्ञास्यसि । 'बुध अवगमने' एकाचो बशो भष् ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये चतुर्थे तिङन्त-काण्डे लक्षण-रूपे षष्ठः परिच्छेदः ( वर्गः ), तथा लक्ष्य रूपे कथानके 'विभीषणाभिषेको' नाम एकोनविंशतितमः सर्गः ॥ १९ ॥ विंशः सर्गः । इतः प्रभृति लोटमधिकृत्य तद्विलसितमाह - तत्र 'लोट् च' इति वचना- द्विध्यादिष्वर्थेषु लोटू । ततोऽन्यत्रापि दर्शयिष्यति- १५३१ - समुपेत्य ततः सीतामुक्तवान् पवना॒ऽऽत्मजः - ॥ दिष्ट्या वर्धस्व वैदेहि ! हतस् त्रैलोक्य-कण्टकः ॥१॥ समुपेत्येत्यादि — ततोऽनन्तरं पवनात्मजः रामाज्ञया सीतां समुपेत्य समुपागम्योक्तवान् । हे वैदेहि ! रावणस्त्रैलोक्यस्य प्रतोदकत्वात् कण्टको हतस्तेन दिष्ट्या प्रियवचनेन वर्धस्व नियोगतो वर्त्स्यसीति । निमन्त्रणे लोट् ॥ ● १५३२ - अनुजानीहि हन्यन्तां मयैताः क्षुद्र-मानसाः ॥ रक्षिकास् तव राक्षस्यो, गृहाणैतासु मत्सरम् ॥ २॥ अनुजानीहीत्यादि—अनुजानीहि अनुज्ञां प्रयच्छ । प्रार्थनायां लोट् । येन मयैता राक्षस्यस्तव रक्षिका: क्षुद्रमानसाः पापाशया: हन्यन्तां विनाश्यन्ताम् । । ४५४ महि-काव्ये वतुर्थे तिङन्त काण्डे लक्षण-रूपे सत्यो वर्गः, 4 अत्र विधौ कर्मणि लोट् । तस्मादेवासु मत्सरं गृहाण जनय । प्रार्थनायां लोट् येन गृहीतक्रोधा मामनुज्ञास्यामि ॥ ॥ १५३३ - तृणहानि दुराऽऽचारघोर-रूपाऽऽशय-क्रियाः हिंस्रा भवतु ते बुद्धिरैतासु, कुरु निष्ठुरम् ॥ ३ ॥ M , तृणहानीत्यादि - एता दुराचारा: बोररूपाशयक्रिया: क्रूराणि आकाराभिप्रायानुष्ठानानि यासां तास्तृणहानि हनिष्यामि । तदेतासु हिंस्रा हिंसनशीला तव बुद्धिर्भवतु । निष्ठुरं च नैष्टुर्यं कुरु । भावप्रधानो निर्देशः ॥ १५३४ - पश्चिमं करवामैतत् प्रियं देवि ! वयं तव, ॥' ततः प्रोक्तवती सीता वानरं करुणाऽऽशया ॥४॥ पश्चिममित्यादि – हे देवि ! किमत्र विचारितेन तव पश्चिममन्यं प्रियं एतद्वयं करवाम करिष्यामः । अस्मद एकत्वे बहुवचनमन्यतरस्याम् । ततोऽन- न्तरं सीता करुणाशया सती वानरं प्रोक्तवती ॥ १५३५ - उपशाम्यतु, ते बुद्धिः पिण्ड - निर्वेश-कारिषु ॥ लघु-सत्त्वेषु, दोषोऽयं यत् कृतो निहतो ऽसकौ ॥५॥ उपेत्यादि - लघुसच्चेषु स्त्रीजनेषु पिण्डनिर्देशकारिषु पिण्डस्य ग्रासय नि. र्वेशो निष्क्रयः तत्कारिषु ते बुद्धिरुनु सकरुणा भवतु । सर्वत्र विधौ लोट् । किमिति चेत् । यत्कृतो यज्जनितोऽयं दोपः ममैताभिः कृतः । असको असौ राव- णो निहतो व्यापादितः । कुत्सायाम् '२०२६ । अव्यय सर्वनाशामकच् प्राक् टे: ।५।३।७१ । इति अकच् ॥ १५३६ - न हि प्रेष्य-वधं घोरं करवाण्यस्तु ते मतिः ॥ , एधि कार्य-करम् त्वं मे गत्वा प्रवद राघवम् ॥ ६॥ नहीत्यादि — अन्यञ्च न हि नैत्र घोरं प्रेष्यवधं करवाणि करिष्यामीतीत्यम् मतिस्तवाप्यस्तु । '२१९५ । आशिषि लिङ्लोट । ३।३।१७३॥ इति लोट् । अत- स्वं कार्यकरः कार्यकरणे अनुकूलः । आनुलोम्ये टः । एधि भव । '२४६९ । असोरल्लोपः ।६।४।१११॥' । '२४७१ । ध्वसोरेद्धावभ्यासलोपश्च ।६।४।११९।' । एरवस्य समानाश्रयत्वादसिद्धत्वे । '२४२५। हुअलभ्यो हेर्धिः ।६।४।१०११' कार्य- माह । गत्वा प्रवद राववं ममादेशाद् बृहि ॥ किं मया वक्तव्यमिति चेत्तदाह - १५३७ - 'दिदृक्षुर् मैथिली राम ! पश्यतु त्वाऽविलम्वितम् . तथेति स प्रतिज्ञाय गत्वा राघवमुक्तवान् ॥ ७ ॥ दिक्षुरित्यादि - हे राम ! द्रष्टुमिच्छु मैथिली सीता अविलम्बितं दुतं ज्या लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम शिलः सर्गः-८५५ । सर्वत्र प्रार्थनायां लोट् । स पत्रदात्नजतथेति यथाज्ञापयसीति प्रतिज्ञाय स्वीकृत्य गत्वा राघवसुन्तवान् । किमित्याह १५३८ - 'उत्सुकाऽऽनीयतां देवी काकुत्स्थ-कुल-नन्दन ! ॥' क्ष्मां लिखित्वा विनिश्वस्य स्वराऽऽलोक्य विभीषणम् उत्सुकेत्यादि — हे काकुत्स्थकुलनन्दन ! उत्सुका देवी आनीयतामिति । प्रार्थनायां कर्मणि लोट् । एवमुक्ते रावणवधे महति प्रयासेऽकृतेऽपि जनवाद्भ- यात् न तया सह वासः कार्य इत्यभिप्रायेण राघवः क्षमामङ्गुष्टेन लिखित्वा विनि- श्वस्य स्वरालोक्य आकाशं दृष्ट्वा । स्वरित्यव्ययम् । विभीषणमुक्तवानिति वक्ष्यमा- णेन संबन्धः ॥ १५३९ - उक्तवान् राघवः - 'सीतामान॑या ऽलंकृतामि॑िति.' ॥ गत्वा प्रणम्य तेनौका मैथिली मधुरं वचः ॥ ९ ॥ उक्तवानित्यादि — सीतामलंकृतामानयेति राघव उक्तवान् । विधौ लोट् । तेन विभीपणेन गत्वा प्रणम्य च मैथिल्युक्ता मधुरं वचः ॥ १५४०-'जहीहि शोकं वैदेहि ! प्रीतये धेहि मानसम् ॥ रावणे जहिहि द्वेषं, जहाहि प्रमदा-चनम् ॥ १० ॥ जहीहीत्यादि — शोकं पतिवियोगजं जहीहि । '२४९८। जहातेश्च ।६।४।११६॥ इत्यन्यतरस्यामित्वमीत्वं च । '२४९९१ । आ च हौ । ६॥ ४ । २१७ ।' इत्यकार इति रूपत्रयम् । प्रीतये प्रीत्यर्थ पुनर्मानसं घेहि घटयस्त्र । २४७१ । व्वसोरेद्धावन्या- सलोपश्च ।६।४।११९।' । रावणे रावणविषये द्वेषं जहिहि तस्य विनष्टत्वात् । प्रम- दावनं अशोकवनिकां जहाहि । पत्युरन्तिकं याहीत्यर्थः । सर्वत्र विधौ लोट् ॥ १५४१ - स्नानुलिम्प धूपाय, निवस्स्वाऽऽविध्य च स्रजम् ॥ रत्नान्याऽऽमुञ्च, संदीप्ते हविर् जुहुधि पावके, ॥ ११ ॥ > १५४२ - अद्धि त्वं पञ्च-गव्यं च, छिन्धि संरोध-जं तमः ॥ आरोह शिबिकां हैमीं, द्विषां जहि मनो-रथान् ॥ १२ ॥ स्नाहीत्यादि – लोकद्वयं मिश्रेण व्याख्यातम् । स्त्राहि स्नानं कुरु । ततः कायशुअर्थ सदनुपहतं पञ्चगव्यमद्धि भक्षय । '२४२५ । हु-झलभ्यो हेर्धिः ।६।४।१० ११ १ ८५६ भट्टि- काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे सप्तमो वर्गः, गोरेतानि गव्यानि । सर्वत्र गोरजादिप्रत्ययप्रसङ्गे यत् । पञ्च गव्यानि समाहृतानीति पात्रादिदर्शनान्न ङीप् । ततः पवित्रीकृतकाया, सन्दीप्ते पावके हविर्जुहुधि । ततः स्वामिनं गन्तुमनुष्ठितदेवकार्या सती त्यमालिम्प समालभस्व । ततो निवस्व आच्छादय । '१०९२ । वस आच्छादने' अदादित्याच्छपो लुक् । 'धातुसकारस परगमनम् । ततो धूपाय धूपितमात्मानं कुरु । धूपेरायप्रत्ययः । आविध्य च खजं मालां शिरस्याक्षिप । '१२५७ । व्यध ताडने' इयान २४१२ । हिज्या ।६॥१६। इत्यादिना सम्प्रसारणम् । रत्वान्यामुञ्च विन्यस्वत्ययमर्थवशात् क्रियाक्रमो दृष्टव्यः । यथा देवदत्तं भोजय स्त्रापय उद्वर्तयेति । किंच संरोधजं तमः अस्वतन्त्रीकरणजं शोकं छिन्धि अपनय । हैमीं शिविकां सौवर्णयानमारोह अधितिष्ट । सर्वत्र भर्तु- र्नियोगकरणे लोट् । तामारूढा द्विपां मनोरथान् हृदये स्थितानभिग्रायान् जहि नाशय । हो परतो '२४३ ॥ हन्तेर्जः ॥६।४।३६॥ ॥ 12 १५४३ - तृणेदु त्वद्-वियोगोत्थां राजन्यानां पतिः शुचम् ॥ भवताद॑धियुक्ता त्वमत ऊर्ध्वं स्व- वेश्मनि ॥ १३ ॥ तृणेवित्यादि — गतायां त्वयि राजन्यानां क्षत्रियाणां पती रामः शुचं शोकं त्ववियोगोत्यां त्वद्वियोगप्रभवाम् । २९१६ । सुपि स्थः ।३।२।४॥ इति कः । 'उदः स्थाम्तम्भोः पूर्वस्य' इति पूर्वसवर्णः । तृणेदु हिनस्तु । अतः अस्मात्कालावं का स्ववेश्मनि अयोध्यायां अधियुक्ता त्वं भवतात् भूयाः । '२१९७। तुह्यो:- ।७॥३५।' इति तातङ् ॥ १५४४ - दीक्षस्व सह रामेण त्वरितं तुरगऽध्वरे, ॥ दृश्यस्व पत्या प्रीतेन प्रीत्या प्रेक्षस्व राघवम् ॥१४॥ दीक्षवेत्यादि —तुरगाध्वरे अश्वमेधे रामेण सह त्वरितं दीक्षस्त्र दीक्षिता भूयाः । आशिपि लोट् । प्रीतेन पत्या दृश्यस्व दृष्टा भव । इहापि कर्मणि लोह । प्रीता च सती राघवं त्वं प्रेक्षस्व ॥ १५४५ - अयं नियोगः पत्युम् ते, कार्या नाऽत्र विचारणा ॥ भूषया ऽङ्गं, प्रमाणं चेद्, रामं गन्तुं यतस्व च ॥ १५॥ अयमित्यादि- - तव पत्युरयं नियोगः यत्कृतः स्नानादिव्यापारः । अत्र वस्तुनि विचारणा न कार्या किमेवं न वेति । एतत्प्रमाणं चेत् भूपयाङ्गं स्नानादिपूर्वकमलकरु । रामं गन्तुं यतस्त्र । १५४६ - मुदा संयुहि काकुत्स्थं, स्वयं चा ऽऽनुहि सम्पदम् ॥ उपेह्यूर्ध्व मुहूर्तात् त्वं > देवि ! राघव-सन्निधिम् ॥ १६ ॥ तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः-४५७ मुदत्यादि — गत्वा च काकुत्स्थं मुदा हर्षेण संयुहि मिश्रय । 'यु मिश्रणे' । तन्त्र गमनेन स्वयं च संमदं हर्ष प्रामुहि '३२४५ । प्रमदसंमदौ हर्षे ।३।३।६८।' । सर्वत्र प्रार्थनायां लोट् । हे देवि ! अस्मान्मुहूर्तादूर्ध्व राघवसन्निधिम् । राघवः सन्निधीयते यस्मिन् प्रदेशे इति '३२७११ कर्मण्यविकरणे च ।३॥३।९३ ।' इति किग्रत्ययः । तं त्वमुपेहि गच्छ ॥ 1 १५४७ - ऊर्ध्वं मुहूर्तादह्रो ऽङ्ग ! स्वामिनी स्म भव क्षितेः ॥ राज-पत्नी - नियोग- स्थननुशाधि पुरी जनम् ॥१७॥ ऊर्ध्वमित्यादि- इ- तथा मुहूर्तादूर्ध्वं क्षितेः स्वामिनी भव स्म । अङ्गेति सम्बो- धनपदम् । अत्र '२८१९ । सेलो ।३।३॥१६५ । इत्यनेन प्रैषे लोट् । तत्र हि ' २८१७ । प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च ।३।३।१६३।' इति और्ध्वमौहूर्तिक इति च वर्तते । प्राप्तकालतायां लोट् । राघवसन्निधिं गन्तुं क्षितेः स्वामिनी भवितुं प्राप्तकाला देवी । अन्यथा कालातिकमे मयि विरकेति रामो विरज्येत । अन्यच्च इयमस्माकमाशंसा । त्वं राजपत्तीनियोगस्थं महादेव्याज्ञाकरणतत्परं पुरीस्थमयो- ध्यावस्थितं जनं अनुशाधि विधेयीकुरु । आशिषि लोट् । १२४८७ । शा हौ- ।६।४।३५।' इति शादेशः । तस्य समानाश्रयत्वादसिद्धत्वे '२४२५ । हु-झलभ्यो हेर्धिः ।६।४।१०१॥ ॥ १५४८ - उत्तिष्ठस्व मते पत्युर् यतखा sलङ्कृतौ तथा ॥ प्रतिष्ठस्व च तं द्रष्टुं द्रष्टव्यं त्वं महीपतिम् ॥१८॥' उत्तिष्टखेत्यादि – तस्मात्प्रार्थयेऽहं पत्युर्मते अभिप्राये मत्समीपमागन्तव्य- मिति उत्तिष्ठस्त्र तदर्थं घटस्व । '२६९१॥ उदोऽनुर्ध्वकर्मणि ।१।३।२४।' इति तङ् । तथा अलङ्कृतौ अलङ्करणे यतस्त्र यत्नं कुरु । लज्जया कदाचिन्नोत्सहेतेति पुनःपुन- रभिधानं अविरुद्धम् । यथा स्नाहीत्यादि भूषयाङ्गमिति मन्यते तेन वारद्वयमुक्त- मेवं अलङ्कृत्य त्वं महीपतिं दृष्टव्यं दर्शनार्हम् । '२८२२ । अर्हे कृत्यतृचश्च ।३।३॥१६९॥ इति अवश्यद्रष्टव्ये वा आवश्यके '३३१२ । कृत्याश्च ।३।३।१७१ । ' इति संद्रष्टुं प्रतिष्ठस्त्र गच्छ । प्रार्थनायां लोट् । '२६८९। समव-प्र-वि-भ्यः स्थः ।१।३।२२।' इति तङ् ॥ १५४९ - अनुष्ठाय यथाऽऽदिष्टं नियोगं जनकाऽऽत्मजा ॥ समारूढवती यानं पंऽशुक-वृताऽऽनना ॥१९॥ अनुष्ठायेत्यादि – श्लोकत्रयं एवमुक्ता भर्तुर्यथोद्दिष्टं नियोगं स्नानादिकमनु- ष्टाय कृत्वा जनकात्मजा मां कश्चिन्माद्राक्षीदिति पट्टांशुकवृतानना यानं शिबिका- मारूढवती पत्युरन्तिकं च गत्वा यानादवतीर्येत्यर्थात् ॥ १५५० - लज्जाऽनता विसंयोग-दुःख-स्मरण-विह्वला ॥ सऽस्रा गत्वा ऽन्तिकं॑ पत्युर् दीना रुदितवत्य॑सौ. २० ४५८ भट्टि काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण रूपे सप्तमो वर्गः, लज्जानतेत्यादि–लज्जया आनता वियोगदुःखस्य पूर्वानुभूतस्य स्मरणेन विह्वला साखा दीना सा पत्युरन्तिकं गत्वा सीता रुदितवती ॥ १५५१ - प्राप्त चारित्र्य सन्देहस् ततस् तार्मुक्तवान् नृपः ॥ इच्छा मे -' नाऽऽददे सीते ! त्वामहं गम्यताम॑तः . २१ प्राप्तेत्यादि - ततोऽनन्तरं नृपो राम: 'रावणः किमस्यां खण्डितचारित्रशीलो न वा' इति प्राप्तचारित्र्यसन्देहस्तामुक्तवान् । किमित्याह – हे सीते ! मे ममेय- मिच्छा यत्त्वामहं नाद न गृह्णामि । २८१४ । इच्छार्येपु लिङ्लोटौ । ३।३३१५७।' इति लोट् । अतोऽनिच्छातः कारणाद्यथेष्टं गम्यताम् ॥ किमिति नेच्छसीति चेदाह १५५२ - रावणाऽङ्क-परिश्लिष्टा त्वं हलू-लेख-करी मम ॥ मतिं वधान सुग्रीवे, राक्षसेन्द्रं गृहाण वा ॥ २२ ॥ रावणेत्यादि – रावणाङ्करलिष्टाहरणसमये रावणोत्सङ्गे स्थिता सती परि लिष्टा परिमृदितवती स्वं मम हल्लेखकरी चेतःपीडनशीला । '२९३४ ॥ कृञो हेतु- ताच्छील्य - ।३।२।२०।' इति टः । ९८८ । हृदयस्य हृल्लेखयदण्लास - । ६।३।५० ॥ इति हृदादेशः । कमहं शरणं याम्यामीति चेदाह-सुग्रीवे मतिं बधान बनीया: उत्पादय । राक्षसेन्द्रं विभीषणं वा अनुगृहाण स्वीकुरु ॥ १५५३ - अशान भरताद् भोगान्, लक्ष्मणं प्रवृणीष्व वा ॥ . कामाद् वा याहि, मुच्यन्तामाशा राम-निबन्धनाः २३ अशानेत्यादि — भरताद्वा भोगानशान भुङ्क्ष्व । सर्वत्र '२५५७ । हलः नः ज्ञानज्झौ ।३।१।८३ ।' इति शानच् । लक्ष्मणं प्रवृणीष्व वा अङ्गीकुरु । 'वृञ् वरणे' इत्यस्य रूपम् । '२५५८ प्वादीनां ह्रस्वः ।७।३।८० । १ । स्वेच्छया वा याहि भवत्यै यत्र रोचते तत्र गम्यताम् । रामनिबन्धनाः पुनरपि रामो मे पतिर्भूयादि- त्याशाः मुच्यन्तां त्यज्यन्ताम् ॥ किमिति चेदाह १५५४ - क्व च ख्यातो रघोर् वंशः, व त्वं पर - गृहोषिता, ॥ अन्यस्मै हृदयं देहि, ना ऽनभीष्टे घटामहे ॥२४॥ क्व चेत्यादि-परिशुद्धत्वात्सर्वत्र ख्यातः लोके विदितो रघोवंशः क्व । क्व च त्वं परगृहोषिता जातकलङ्कस्वात् । द्वयमप्येतद्दूरं भिन्नम् । सर्वत्र विधौ । अतोऽन्यस्मै हृदयं देहि चित्तं परस्मै देहि । वयं अनभिमते विषये न घटामहे । निमन्त्रणे लोट् ॥ । १५५५ - यथो॒ष्टं चर वैदेहि !, पन्थानः सन्तु ते शिवाः, कामास् तेऽन्यत्र तायन्तां, विशङ्कां त्यज मद्-गताम्. तथा लक्ष्य-रूपे कथान के सीता-प्रत्याख्यानं नाम विंशतितमः सर्गः:-४५९ यथेष्टमित्यादि – यथेष्टं चर यथेष्टचारिणी भव । विधौ लोट् । तत्र च यथेष्टं चरन्त्याः पन्थानो मार्गाः शिवा निर्विघ्नाः सन्तु भूयासुः । आशिषि लोट् । किं च कामाः अभिलाषास्तवान्यत्र तायन्तां स्फीता भवन्तु । अन्ना- प्याशिषि । यथेष्टचारित्वात्किमयं करिष्यतीति मद्भुतां विशङ्कां भयं त्यज त्यक्ष्य- सि । विधौ लो ॥ १५५६ - ततः प्रगदिता वाक्यं मैथिलाऽभिजना नृपम् ॥ 'स्त्रीसामान्येन सम्भूता शङ्का मयि विमुच्यताम्. २६ तत इत्यादि – ततस्तद्वचनानन्तरं मैथिलाभिजना सीता नृपं वाक्यं प्रग- दिता गदितुं प्रवृत्ता '३०५३। आदिकर्मणि कः-- ।३।४।७१॥ स्त्रीसामान्येन स्त्रीति कृत्वा या तव मयि शङ्का इयं सती न वेति सा विमुच्यताम् । मिथ्या- त्वात् । प्रार्थनायां लोट् ॥ १५५७ - दैवाद् विभीहि काकुत्स्थ !. जिहीहि त्वं तथा जनात् ॥ मिथ्या मा॑मभिसंक्रुध्य 7 न - वशां शत्रुणा हृताम् ॥ २७ ॥ दैवादित्यादि — अन्यच्च हे काकुत्स्थ राम ! अवशां पराधीनां शत्रुणा हृताम् । मिथ्या अभिसंक्रुध्यन् अलीकेन । ८५७६ । क्रुध दुहोरुपसृष्टयोः कर्म ।१॥ ४ । ३८॥ इति कर्मसंज्ञा । दैवात् अनिष्टफलात् बिभीहि भयं जनय भीतो भव । हेरपित्त्वात्कित्वे गुणो न भवति । इतश्च जनादिमं जनं वीक्ष्य जिहीहि लज्जस्व । ल्यब्लोपे पञ्चमी । विधौ लोट् ॥ त्वय्यसंक्रान्तायां मम कीदृशं भयं लज्जा चेति चेत्तदाह - १५५८ - चेतसस् त्वयि वृत्तिर् मे, शरीरं रक्षसा हृतम् ॥ विदांकुर्वन्तु सम्यञ्चो देवाः सत्यमिदं वचः ॥२८॥ — चेतस इत्यादि —-मे चेतसो वृत्तिरात्मव्यापारः त्वयि तिष्ठति अनन्यमन- स्कत्वात् । रक्षसा हृताया मम न सर्व हृतं अपि तु शरीरं हृतम् । नैवेदं मिथ्या । तथाहि हे महाभूताधिष्ठानाः सम्यञ्चः । सर्वत्र वर्तमानाः अञ्चन्तीति क्विप् । अञ्चतावप्रत्यये '४२१ । समः सम । ६।३।९३ । इति सम्यादेशः । एते मदर्थिता: मम वचः सत्यं विदांकुर्वन्तु अवगच्छन्तु । प्रार्थनायां लोट् । विदां- कुर्वन्विति निपातनम् ॥ प्रत्येकं प्रार्थनामाह १५५९ - त्वं पुनीहि पुनीति पुनन् वायो ! जगत् - त्रयम् ॥ चरन् देहेषु भूतानां विद्धि मे बुद्धि-विलवम् ॥ २९॥ ४६० भट्टि काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण-रूपे सप्तमो वर्गः, त्वं पुनीही त्यादि — हे वायो ! पुनीहि पुनीहीति जगत्रयं पुनः पुनः पुनामि भृशं वा पुनामीत्यभिप्रायः । त्वं जगत्रयं पुनन् भूतानां देहेषु चरन् मम बुद्धि- विप्लवं बुद्धेरन्यथात्वं विद्धि अवगच्छ । प्रार्थनायां लोट् । पूर्वत्र '२८२५ । क्रिया- समभिहारे लोट् –।३।४।२॥ इति लोट् । तस्य परस्मैपदसम्बन्धी हिरादेशः । क्रियासमभिहारे द्विवचनम् । पुनन्निति यथाविध्यनुप्रयोगः । पूर्व स्मिन्नित्यनेन पुनातेरनुप्रयोगः । तत्र हि क्रियासमुच्चयाभावात् ॥ १५६० - खमट, द्यामा टर्वीमिय॑न्त्यो ऽति-पावनाः ॥ यूयमा॑पो ! विजानीत मनोवृत्तिं शुभां मम ॥३०॥ खमित्यादि — यूयमापोऽतिपावना: अतिपवित्राः खमट द्यामट उवमट इति वयमन्तरिक्षमटाम देवलोकमटाम भूर्लोकमटामेत्येवमभिप्रायाः सर्वत्राटन्त्यो मम शुभां चित्तवृत्तिं विजानीतेति । अत्र प्रार्थनायां लोट् । पूर्वत्र तु आकाशादिकारकभे- दात् अनेकाटनक्रियासमुच्चयः । ततश्च : '२८२६ । समुच्चयेऽन्यतरस्याम् ।३।४।३। इति लोट् । अटेति समुच्चये सामान्यवचनस्येत्यनुप्रयोगः । आकाशायुपगामिनी- नामटनक्रियाणां पुनरटनक्रियायाः सामान्याया अनुप्रयोगात् ॥ १५६१ - जगन्ति धत्स्व धत्स्वैति दधती त्वं वसुन्धरे ! ॥ ● अवेहि मम चारित्रं नक्तं - दिवम-विच्युतम् ॥३१॥ जगन्तीत्यादि — स्वं वसुन्धरे ! धत्स्त्र धत्स्वेति अहं पुनः पुनर्दधे भृशं वा दूध इति एवमभिप्राया जगन्ति दुधती मम चारित्रं नक्तंदिवमविच्युतं अस्खलितमवेहि । अत्र प्रार्थनायां लोटू । पूर्वत्र क्रियासमभिहारे तस्य चारम नेपदसम्बन्धिनः स्वादेशः ॥ १५६२ - रसान् संहर, दीप्यस्त्र, ध्वान्तं जहि, नभो भ्रम, ॥ इतहमानस् तिग्मा॑ऽशो ! वृत्तं ज्ञातुं घटस्व मे ॥३२॥ रसानित्यादि — हे तिग्मांशो ! त्वमपि अहं रसान् भौमान् संहर संहरा- मीति । दीप्यस्त्र दीप्ये । ध्वान्तं जहि हन्मि । नभो भ्रम भ्रमामीत्येवम- भिप्रायः । ईहमानः जगत्यर्थक्रियासु चेष्टमानः मम वृत्तं चारित्रं ज्ञातुं घटस्व यतस्व । अन्न प्रार्थनायां लोट् । पूर्वत्र '२८२६ । समुच्चयेऽन्यतरस्याम् ।३४।३। इति तस्य च यथायोगं हिस्वादेशः । ईहमान इति '२८२८ । समुच्चये सामान्य- वचनस्य ।३।४।५।' इत्यनुप्रयोगः । संहरेत्यादीनामीहतेः सामान्यवचनस्यानु- प्रयोगात् ॥ १५६३ - स्वर्गे विद्यस्व, भुव्याऽऽस्व, भुजङ्ग-निलये भव ॥ एवं वसन् ममा ऽऽकाश ! संबुध्यस्व कृताऽकृतम् ३३ स्वर्ग इत्यादि – त्वं चाकाश ! स्वर्गे विद्यस्व अहं विथे । भुवि आ आसे। भुजङ्गनिलये पाताले भव भवामीत्येवमभिप्रायः सर्वत्र । वसन् तिष्ठन् तथा लक्ष्य-रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः - ४६१ मम कृताकृतं युक्तायुक्तं बुध्यस्व अवगच्छ । अत्र प्रार्थनायां लोटू । पूर्वत्र '२८२६ । समुच्चयेऽन्यतरस्याम् । ३ । ४ । ३ ॥ इति तस्य च यथायोगं हिस्वादेशः । वसन्निति ७२८२८ । समुच्चये सामान्यवचनस्य ।३।४॥५।' इत्यनुप्रयोगः । विद्यमानादीनां वसतः सामान्यवचनस्यानुप्रयोगात् ॥ 3 एवं पृथिव्यादीनि महाभूतानि कथयित्वा लक्षणमाह- १५६४ - चितां कुरु च सौमित्रे ! व्यसनस्या ऽस्य भेषजम् ॥ रामस् तुष्यतु मे वा ऽद्य, पापां पुष्णातु वा ऽनलः ३४ चितामित्यादि – हे सौमित्रे ! व्यसनस्यास्य मिथ्यादूषणस्य भेषजं प्रतिक्रियां चितां कुरु । विधौ लोट् । मम अग्नौ विशुद्धाया रामो नियोगतस्तुप्यतु । अनलो वा मां पापां नियोगतः लष्णातु दहतु । दहन् मर्त्यलोकान्मोचयत्वित्यर्थः । निम- त्रणे लोट् । 'लुष-प्रुष स्नेहन मोचन पूरणेपु' इति क्र्यादि: मोचने द्रष्टव्यः । अनेकार्थत्वाद्दाहे ॥ १५६५ - राघवस्य मतेना ऽथ लक्ष्मणेनाऽऽचितां चिताम् ॥ दृष्ट्वा प्रदक्षिणीकृत्य रामं प्रगदिता वचः ॥ ३५ ॥ राघवस्येत्यादि — अथ राघवस्य मतेनानुज्ञातेन '६२५। कस्य च वर्तमाने ।२।३।६७ । इति षष्ठी । '३०८९। मति- बुद्धि-पूजार्थेभ्यश्च ।३।२।१८८।' इति वर्तमाने क्तः । तस्य वा मतेनानुज्ञया चितामाचितां रचितां दृष्ट्वा प्रदक्षिणीकृत्य सीतां रामं प्रगदिता वचो गदितुं प्रवृत्ता ॥ , १५६६ - प्रवपाणि वपुर् वह्नौ रामा ऽहं शङ्किता त्वया ॥ सर्वे विदन्तु शृण्वन्तु भवन्तः स प्लवङ्गमाः ॥३६॥ प्रवपाणीत्यादि – येऽत्र सन्निहिता देवादयः ते सर्वे सप्लवङ्गमाः वानरैः सह भवन्तः विदन्तु चेतसा । शृण्वन्तु श्रोत्राभ्यां मद्वचनम् । हे राम ! त्वया दुष्टेति शङ्किता अहं वह्नौ वपुः शरीरं प्रवपाणि नियोगतः प्रक्षिपाणि । निमन्त्रणे लोट् । '२२३१ । आनि लोट् ।८।४।१६।' इति णत्वम् ॥ १५६७ मां दुष्टां ज्वलित-वपुः पुषाणं वह्ने ! संरक्ष क्षत-मलिनां सुहृद् यथा वा ॥ एषा ऽहं ऋतुषु वसोर् यथा ऽऽज्य-धारा त्वां प्राप्ता विधि-वर्दुदीर्ण-दीप्ति- मालम् ॥ ३७॥ इति भट्टि-काव्ये तिङन्त-काण्डे लोटू-प्रदर्शनो नाम विंशतितमः सर्गः ॥ २० ॥ भट्टि- काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपेऽष्टमो वर्गः, मामित्यादि — हे वह्ने ! यद्यहं दुष्टा तदा ज्वलितवपुः ज्वलितशरीरः सन् । मित्वाभावपक्षे रूपम् । हुपाण देहं मर्त्यलोकात् मोचय । यथा वा क्षतमलिनां विशुद्धां सुहृदिव संरक्ष वा । आमन्त्रणे कामचारकरणे कोट् । एपाहं त्वां विधि- वत् सम्यक् प्रासा ऋतुपु यज्ञेषु वसोः राज्ञः आज्यधारे । उदीर्णदीप्तिमालं उद्गत- ज्वालासमूहं स्वामिति ॥ इति श्री जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री-भट्टिकाव्ये चतुर्थे तिङन्त काण्डे लक्षण-रूपे सप्तमः परिच्छेदः ( वर्गः ), तथा लक्ष्य रूपे कथानके 'सीता-प्रत्याख्यानं' नाम विंशतितमः सर्गः ॥ २० ॥ एकविंशः सर्गःइतः प्रभृति ऌङमधिकृत्य विलसितमाह-तन्त्र लिनिमित्ते ऌ क्रियातिपत्तौ भविष्यति भूते च हेतुहेनुमतोर्लिङित्येवमादिकं लिङो निमित्तं क्रियातिपत्तिश्च । कृतश्चिद्वैगुण्यात् क्रियाया अनिष्पत्तिः क्रियातिपत्तिः वैगुण्यं च विधुरप्रत्ययोपनि पातात् सामग्र्यभावाच्च द्रष्टव्यम् ॥ १५६८ - समुत्क्षिप्य ततो वह्निर् मैथिलीं रामर्मुक्तवान् । 'काकुत्स्थ ! दयितां साध्वीं त्वमा॑शङ्कप्यथाः कथम् १ समुत्क्षिप्येत्यादि- ततोऽनन्तरं मैथिलीं समुत्क्षिप्य हस्ताभ्यामाकाशे धृत्वा वह्निर्देहवान् राममुक्तवान् । हे काकुत्स्थ ! सावीं पतिव्रतामपि दयितां असा. ध्वीति त्वं यथाशङ्किप्यथाः शङ्कितवानसि तत्कथम् । गर्हितमेतत् न युक्तमाशङ्कितु- मित्यर्थः । '२८००। विभाषा कथमि लिङ्ग च ।३।३।१४३ ।' इति । अत्र कथंशब्दो गर्हायां च लिङो निमित्तम् । यतस्तत्र गर्हायामित्यनुवर्तते । तस्मिन् लिङ्-निमित्ते क्रियातिपत्तौ ल भविष्यतीत्यधिक्रियते । अत्रासाधुत्वं क्रियायाः तद्विरुद्धसाधु- त्वाभियोगोपनिपातादतिपत्तिर्गम्यते ॥ तदेव साधुत्वं दर्शयति- १५६९ - ना sभविष्यदि॑ियं शुद्धा यद्य॑पास्यम॑हं ततः ॥ न चैनां, पक्षपातो मे धर्मादन्यत्र राघव ! ॥ २ ॥ नेत्यादि — यद्यहमेनां नैवापास्यं नैव रक्षितवान् ततोऽरक्षणादियं शुद्धा नाभविष्यद् न भूता । येनैव मया रक्षिता तेनैवेयं शुद्धेति भावः । '२८१३ । हेतुहेतुमतोर्लिङ् ।३।३।१५६।' इत्यतः हेतुर्हेतुमांश्च लिङो निमित्तम् । तत्र पालनस्य परिशुद्धेश्च हेतुहेतुमत्वे लिनिमित्ते क्रियातिपत्तौ सत्यां भूते नित्यं ऌङ् । तत्र ४२७९८। वोताप्योः ।३।३।१४१।' इति विकल्पेनाधिक्रियते । अत्रापालनोपनिपादतिपत्तिर्गम्यते । तदतिपाताद्धेतुमतोऽपि पक्षपातात् त्वयैवमाचरितमिति चेदाह । हे राघव ! धर्मादन्यत्र अधर्मे न मे पक्षपातोऽनुरागः ॥ ; तथा लक्ष्य रूपे कथानके 'सीता-संशोधन' नामकविंशतितमः सर्गः -- ४६३ इदानीं सीतारावणयोर्यच्चेष्टितमासीत् तच्चानेनावधार्य प्रकाशयन्नाह - १५७० - अपि तत्र रिपुः सीतां ना ऽर्थयिष्यत दुर्मतिः ॥ 1 क्रूरं जाव॑वदिष्यच् च जात्व॑स्तोष्यच्छ्रयं स्वकाम्. ३ अपीत्यादि- ( — तत्र रिपुः स भवान् रिपुः स रावणः । भवच्छब्दोऽर्थागम्यते तेन ' १९६३ । इतराभ्योऽपि दृश्यन्ते ।५।३।१४।' इति ल । अपि वाढं नार्थयि य्यत दुर्मतिरदुष्टचेता अभविष्यत् तदा सीतां बाढं नार्थयिष्यत । भार्या मम भवेति न प्रार्थितवान् । २८०९। उताप्योः समर्थयोः ।३।३।१५२।' इति । अत्रापिशब्दो बाढार्थः लिङ्निमित्तं तस्मिन् लिङ्निमित्ते क्रियातिपत्ता सत्यां भूते नित्यं लङ् । तत्र '२७९८ । वोताप्योः ।३।३।१४१।' इति अनुवर्तते । अन्नार्थन- क्रियायाः तद्विरुद्धदुर्मतित्वोपनिपातादतिपत्तिर्गम्यते । अर्थनमर्थः याचनं । तत्क- रोतीति णिच् । नाहमवकल्पयामि यद्यदुर्मतिरभविष्यत् क्रूरं परुषं जातु कदा- चित् नावदिष्यत् नोक्तवान् । श्रियं विभूतिं स्वकामात्मीयां ईदृशी मे विभूतिरिति नास्तोष्यत् न स्तुतवान् स्तुतवांश्च । '२८०४ । जातु-यदोर्लिंङ् ।३।३।१४७१' इत्यत्र जातुशब्दोऽनवकृतिश्च लिङो निमित्तं तत्र । '२८०२ । अनवक्लृहमर्पयो:- ।३।३।१४५।' इति वर्तते । क्रूराभिधानक्रियाया विभूत्याः स्तवनक्रियायाश्च तद्वि- रुद्धदुर्मतित्वोपनिपातादतिपत्तिः । केचित् 'लडपिजात्वोः' इत्येतदुदाहरन्ति तद्- युक्तं तस्या लिङ्निमित्तत्वात् ॥ 5 १५७१ - सङ्कल्पं ना sकरिष्यच् च तत्र्यं शुद्ध-मानसा ॥ सत्या॒ऽमर्षम॑वाप्स्यस् त्वं रामः सीता- निवन्धनम् ॥ ४॥ सङ्कल्पमित्यादि —–तत्रेयं शुभमानसेति नाहमवकल्पयामि यदीयं शुद्धमा- नसा नाभविष्यत् । तत्र तस्मिन् रावणे इत्थं प्रीयमाणेऽपि सङ्कल्पमभिप्रायमक- रिष्यत् कृतवती स्यात् । न च कृतवती शुद्धमानसत्वात् । सत्याममवाप्स्यस्त्व- मिति । हे राम ! यद्यशुद्धमानसा अभविष्यत् तदा सीतानिबन्धनं सीताहेतुकं अमर्ष क्रोधं सत्यसंभूतमवाप्स्यस्त्वं प्राप्तः स्याः नतु सत्यं यतः शुद्धमानसा । '२८०२। अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि ।३।३।१४५।' इत्यत्र अनवक्लृप्त्यमर्षयोर्लि- निमित्तं तस्मिन् लिङ्निमित्ते क्रियातिपत्तौ भूते वा लुङ् । तत्र '२७९८ । वोता- प्योः—।३।३।१४१।' इत्यधिक्रियते । अन्त्र सङ्कल्पक्रियायाः सत्यामर्षक्रियायाश्च तरुद्धशुद्ध मानसम्वोपनिपातादतिपत्तिः ॥ अन्यथास्मिन्वस्तुनि नाहमेवैकः प्रमाणं भवानपि प्रमाणमेवेति दर्शयन्नाह १५७२ - त्वया ऽद्रक्ष्यत किं ना ऽस्याः शीलं संवसता चिरम् ॥ 2 अदर्शिष्यन्त वा चेष्टाः कालेन बहुना न किम् ॥ ५ ॥ . ४६४ भट्टि-काव्ये -- चतुर्थे तिङन्त काण्डे लक्षण-रूपे 5ष्टमो वर्गः, त्वयेत्यादि — किं नाम तच्छीलं तच्चरित्रं यदस्या: सीतायाः शीलं चिरं कालं संवसता त्वथा नाद्रक्ष्यत नोपलव्धमेव । चेतोधर्मत्वानोपलव्धमिति चेत् किंवा नाम चेष्टाः शीलनिबन्धनाः क्रिया: बहुनापि कालेन त्वया नादर्शिप्यन्त न दृष्टा अभूवन् । अपि तु दृष्टा एव । '२८०१ । किंवृत्ते लटौ । ३ । ३ । १४४ । इति किंशब्दो विभत्तयन्तो गर्दा च लिनिमित्तं तत्र गर्हायामित्येतदनुवर्तते । तस्मिन् लिङ्गनिमित्ते क्रियातिपत्तौ भूने लुङ् । कर्मण्येव चिण्वदि । अत्र शीलानुपलब्धि- क्रियायाश्च तद्विरुद्धचिरवासोपनिपातादृतिपत्तिर्गम्यते । तथाहि 'शीलं संवसता ज्ञेयं तच्च कालेन भूयसा' इति ॥ । १५७३ - यावज्जीवमंशोचिष्यो, ना ऽहास्यश् चेदिंदं तमः ॥ भानुर॑प्य॑पतिष्यत् क्ष्ममक्षोभिष्यत चेर्दियम् ॥ ६॥ यावदित्यादि – अन्यच्च लोकस्याज्ञानमूलं परगृहो पितेयेतावतैवापरिशुद्धेत्य ज्ञानमुत्पन्नमिदं तमः अज्ञानं यदि त्वं नाहास्यः न त्यक्ष्यसि तदास्या वैलक्षण्येन मरणादवइयं यावजीवमशोचिष्यः शोकमेष्यसि । अतो मयाभिधीयमानः स्वयं च विमृशन् परिशुद्धा हीयमित्यवेहि येन न शोचिष्यसि । अत्र भविष्यद्ज्ञाना- त्यागो हेतुः । यावज्जीवशोचनं हेतुमत् । तयोर्हेतुमचे लिनिमित्ते क्रियातिपत्तौ सत्यां भविष्यति नित्यं ऌङ् । अत्राज्ञानत्यागक्रियायास्तद्विरुद्वोपदेशकत्वमर्षित- ज्ञानोत्पादनिपातादतिपत्तिर्गम्यते । अन्यच अभूतवस्तूत्पादकसूचक उत्पातो भवति न च तथाभूतोऽस्तीति दर्शयन्नाह । यदीयमक्षोभिष्यत् दुष्टचित्ताभूत् तदा भानु - रपि क्ष्मां पृथ्वीमपतिष्यत् गतोऽभूत् । अत्रापि क्षोभो हेतुः भानुपतनं हेतुमत् तयोर्हेतुहेतुमचम् । लिनिमित्ते क्रियातिपत्तौ सत्यां भूते ऌङ् । अत्र क्षोभक्रिया यास्तविरुद्धाक्षोभोपनिपातादतिपत्तिः ॥ अन्यच्च सत्येन सवित्रा लोकपाला अदुष्टचित्तेपु संनिधीयन्त इति दर्शयन्नाह - १५७४ - समपत्स्यत राजेन्द्र ! स्त्रैणं यद्य॑त्र चापलम् ॥ लोक-पाला इहा ऽऽयास्यंस् ततो ना ऽमी कलि-द्रुहः. ७ समेत्यादि — स्त्रीणामिदं खैणं चापलं चारित्रबन्धनं तदत्र सीतायां हे राजेन्द्र ! समपत्स्थत संपन्नमभूत् । ततः कारणादमी लोकपालाः एवमादयो मूर्तिमन्तः कलिद्रुहः पापस्य द्रोग्धारः इव नायास्यन् नागता अभूवन् । चापलमत्र हेतुः लोकपालागमनं हेतुमत् । ततो हेतुहेतुमचे लिनिमित्ते क्रियातिपत्तौ सत्यां भूते ऌङ् । अत्र चापलाचरणक्रियायास्तद्विरुद्धचापलोपनिपातादतिपत्तिः ॥ अन्यच्च योषिसामान्येन नेयं द्रष्टव्येति दर्शयन्नाह १५७५ - आश्चर्य यच्च यत्र स्त्री कृच्छ्रे ऽवर्त्स्यन् मते तव, ॥ त्रासादस्यां विनष्टायां किं किमलप्स्यथाः फलम्. ८ आश्चर्यमित्यादि- यच्च यत्र या भवति स्त्री यत्तव कृच्छ्रे मते सङ्कटेsभिये अवत् प्रवृत्तिमती तदाश्चयं चित्रमेव वर्तते नान्येति भावः । '२८०७ । - तथा लक्ष्य-रूपे कथानके 'सीता-संशोधन' नामैकविंशतितमः सर्गः ४६५ चित्रीकरणे च ।३।३।१५० ।' इत्यत्र '२८०५ । यच्चयत्रयोः ।६।३।१४८।' इत्यनुव- तेते । यच्चयत्रशब्द उपपदे गम्यमानं चित्रीकरणं लिनिमित्तं तस्मिन् लिनि- मित्ते क्रियातिपत्तौ सत्यां भूते ऌङ् । अत्र कृच्छ्राभिप्रायानुवर्तनक्रियायास्तस्त्यां योषिदनुवर्तनं सामग्र्यभावाद्गम्यते । अन्यच्च स्वभावत एव योपित् कातरा भवति । ततश्च परगृहावस्थित्या दुष्टेति क्रोधादहमवक्षिप्तेति त्रासादस्यां विपन्नायां प्रच्छ- नविषयं गतायां सत्यां किं किमालप्स्यथाः फलं नाहमवकल्पयामि । किं नाम तत्र फलं यदाप्स्यसि नैवेत्यर्थः । '२८०२ । अनवकृत्यमर्पयोरकिंवृत्तेऽपि ।३।३।१४५।' इत्यत्रापिशब्दात् किंवृत्तमनवक्लृप्तिश्च लिङो निमित्तं तस्मिन् लिङ्- निमित्ते क्रियातिपत्तौ सत्यां भविष्यति ऌङ् । अत्र फलप्राप्तिक्रियायास्तद्वदन्यसाम- ग्रयभावात् गम्यते । 'किंकिलालप्स्यथाः फलम्' इति पाठान्तरं तदयुक्तं, '२८०३। किंकिलास्त्यर्थेषु ।३।३।१४६।' इत्येतस्य लिनिमित्तत्वाभावात् ॥ अथवा नाहं दुष्टेत्यवगच्छन्त्या योषितस्त्रास एव नास्ति येन गर्हितं मरणमाचरेदिति दर्शयन्नाह १५७६ - यत्र यच्चा ऽमरिष्यत् स्त्री साध्वसाद् दोष-वर्जिता ॥ तदसूया - रतौ लोके तस्या वाच्या ऽऽस्पदं मृपा ॥९॥ यत्रेत्यादि — गर्हितमेतत् यच्च यत्र या भवति स्त्री दोपवर्जिता शुद्धचरित्रापि साध्वसात् पतित्रासादमरिष्यत् मृताभूत् नैवेत्यर्थः । अदुष्टाया: साध्वसाभावात् । गर्हायामित्यत्र यच्चयत्रशब्द उपपदं गर्हा च लिङ्निमित्तं तस्मिन् लिनिमित्ते क्रियातिपत्तौ सत्यां भूते वा ऌङ् । अत्र मरणक्रियायास्तविरुद्धसाध्वसे परनिपाता- दतिपत्तिर्गम्यते । यदि हि त्रासात् म्रियेत दोष एव स्यादित्याह । तन्मरणं लोकेs- स्मिन्नसूयारतौ सत्स्वपि गुणेषु दोषाविष्करणपरे तस्या अदुष्टाया योषितः वाच्या- स्पदं वचनीयाश्रयं मृषा अलीकमेव दुष्टैवेयं मृपा अलीकमेव येन प्रच्छन्नम्- तेति । यदि मरणमकरिष्यत् मृषावचनीयास्पदमभविष्यत् इति क्रियातिपत्तौ योज्यम् । अन्यथा वाक्यमिदमशरीरकं स्यात् इदमवगच्छन्त्यानया प्रच्छन्नमरणं नानुष्ठितम् ॥ १५७७ - अम॑स्यत भवान् यद्वद् तथैव च पिता तव ॥ नाऽऽगमिष्यद् विमान-स्थः साक्षाद् दशरथो नृपः. १० अम॑स्यतेत्यादि – यद्वद्यथा भवानमंस्थत दुष्टेति ज्ञातवान् तथैतद्यदि नान्यथा तदा तव पिता दशरथ: साक्षात्प्रत्यक्षो विमानस्थः सन् नागमिष्यत् नागतवान स्यात् । अत्र दुष्टताभवनं हेतुः दशरथागमनं च हेतुमत् । तयोर्हेतुहेतुमचे लिङ् निमित्ते क्रियातिपत्तौ सत्यां भूते ऌङ् । अत्र दुष्टताभवनक्रियायास्तविरुद्धादुष्ट त्वोपनिपातादतिपत्तिः ॥ १५७८ - ना ऽकल्प्स्यत् सन्निधिं स्थाणुः शूली वृषभ-वाहनः ॥ ४६६ भट्टि- काव्ये - चतुर्थे तिङन्त-काण्डे लक्षण-रूपेऽष्टमो वर्गः, अन्वभाविष्यता ऽन्येन मैथिली चेत् पतित्रता ॥ ११ ॥ नाकलस्यदित्यादि – मैथिली पतिव्रता सती चेद्यदि त्वत्तोऽन्येनान्वभावि- प्यत परिभुक्ताभूत् । चिण्वदिट् । तदायं स्थाणुर्महादेवः शूली वृषभवाहनः व्यक्त. चिह्नः सन् सन्निधिं सन्निधानं नाकल्प्स्यत् न कृतवान् स्यात् । '२३५२ तासि च क्लृपः ॥७।२।६०।' इति चकारात् स्खे च परस्मैपदे ऌइ । अन्यानुभवनं हेतुः । स्थाण्वागमनं हेतुमत् । पूर्ववत् क्रियातिपत्तौ सृङ् । अत्रान्यानुभवनक्रियायास्त- द्विरुद्धानन्यानुभवनोपनिपातातिपत्तिः ॥ १५७९ - आनन्दयिष्यदागम्य कथं त्वाम॑रविन्द-सत् ॥ राजेन्द्र ! विश्व - सूर् धाता चारित्र्ये सीतया क्षते. १२ आनन्दयिष्यदित्यादि - हे राजेन्द्र ! सीतया चारित्र्ये क्षते कुत्सिते कृते सति एष धाता ब्रह्मा विश्वसूः सर्वस्य जगतः स्रष्टा अरविन्दसत् कमलासनः सन् आगम्य त्वां कथमानन्दयिष्यत् दर्शनाशीर्वादादिभिरानन्दितवान् गर्हितमेतत् । युक्तम/गत्यानन्दयिनुमित्यर्थः । '२८००। विभाषा कथाम लिङ् च ।३॥३॥११४३′ इति कथंशब्दो गहां च लिनिमित्तं तस्मिन् क्रियातिपत्तौ भूते ऌ । अंत्रानन्द- नक्रियायास्तद्विरुद्धचारित्र्यक्षतोपनिपातादतिपत्तिः ॥ १५८० - प्रणमन् ब्रह्मणा प्रोक्तो राजका ऽधिपतिस् ततः ॥ 'ना, ऽशोत्स्यन् मैथिली लोके, नाऽऽचरिष्यदिँदं यदि प्रणमन्नित्यादि — ततोऽनन्तरं राजकाधिपतिः राजसमूहानां पतिः । राजकं राजसमूहः । १२४६। गोत्रोऽक्ष ।४।२।३१।' इत्यादिना वुज् । रामः प्रणमन् ब्रह्माणमित्यर्थात् । ब्रह्मणा प्रोक्तः मैथिली यदि इदं वह्निप्रवेशनं नाचरिष्यत्, नानुष्ठितवती तदा लोके दुराराधे नाशोत्स्यत् न शुद्धाभूत् किन्तु शुद्धा 'शुव शौचे' दिवादिः । अत्राग्निप्रवेशाचरणं हेतुः अशोधनं च हेतुमत् । तयोर्हेतुहेतु- मत्त्वे लिनिमित्ते क्रियातिपत्तौ भृते शृङ् । अत्राग्निप्रवेशाचरणक्रियायास्तद्विरुवा चरणोपनिपातादृतिपत्तिः ॥ १५८१ - ना sमोक्ष्याम वयं शङ्का- मिहा॑धास्यन् न चेद् भवान्, ॥ किं वा चित्रमिदं युक्तं, भवान् यदकरिष्यत ॥ १४ ॥ नेत्यादि — चेद्यदि भवानिह सीतां नाधास्यत् न रोपितवान् । अन्तर्भावितिज पयर्थः । तदा वयं किं शुद्धा नेति शङ्कां नामोक्ष्याम न मुक्तवन्तः । अॅमिन् वस्तुनि अग्निप्रमाणत्वेन लोको गृह्णीयादित्येवमुक्तवान् । अन्यथा तथा लक्ष्य रूपे कथानके 'सीता-संशोधन' नामकविंशतितमः सर्गः-४६७ ब्रह्मणः सर्ववेदित्वात् कथं शङ्का स्यात् अत्राधानं हेतुः शङ्कात्यागश्च हेतुमान् । अस्मिन् लिङ् निमित्ते क्रियातिपत्तौ भूते लुङ् । अत्रानाधानक्रियाया स्तद्विरुद्वादानोपनिपातादतिपत्तिर्गस्यते । अथवा नाहमवकल्पयामि यदीर्द पर गृहोषिताया अग्निप्रवेशशोधनं युक्तं न्याय्यं तत् भवान् किं चित्रम करिष्यत् विस्मयनीयं कृतवान् । एवं राज्ञः लोकस्य व्यवस्थार्थं विशेषे प्रवर्तनातू । '२८०२ । अनवक्कुत्यमर्षयोरकिंवृत्तेऽपि ।३।३।१४५।' इत्यत्रापिशब्दात् किंवृत्तमनवकृतिश्च लिङ्कनिमित्तं तस्मिन् लिङ्निमित्त क्रियातिपत्तौ भूते लङ् । अन्न चित्रीकरणक्रितद्विरुवस्याचित्रीकरणस्योपनिपातादतिपत्तिर्गम्यते । यदि भवान् परीक्ष्य सीतायाः परिग्रहणमकरिष्यत् लोकोऽपि तथाकरिष्यत् ॥ प्रधानानुयायित्वाल्लोकस्येति दर्शयन्नाह याया अतिप १५८२ - प्रावर्तिष्यन्त चेष्टाश् चेर्द-याथातथ्य-वत् तव ॥ अनुशास्ये त्वया लोके रामाऽवस्तरां ततः १५॥ प्रावर्तिष्यन्तेत्यादि – चेद्यदि तव लोकव्यवस्थाकारिणश्चेष्टाः कर्माणि आया- थातथ्यवत् यथा अज्ञाना असमीक्ष्यकारितया प्रवर्तन्ते तवर्तिप्यन्त तथाप्र- वर्तनात् त्वया आनुशास्ये व्यवस्थायां स्थाप्ये लोके हे राम ! ताश्चेष्टा अवत्स्यस्तरां अतिशयेन प्रावर्तिप्यन्त न च तव प्रवृत्ताः । अत्र रामचेष्टाप्रवर्तनं हेतुः लोकचेष्टाम- वर्तनं च हेतुमत् । तस्मिन् लिङ्गनिमित्ते क्रियातिपत्तौ भूते भविष्यति लङ् । अत्रापि परीक्ष्यस्वीकरणलक्षणक्रियायास्तद्विरुद्धपरीक्षितोपादानानतिपत्तिः । अयाथातथ्य- वदिति वतिप्रत्ययान्तं क्रियाविशेषणम् । १७८९ । यथातथायथापुरयोः पर्यायेण १७।४।३१।' इति नजः पर्यायेण वृद्धिः । प्रावस्तरामिति '२००२ । तिच ।५।३।५६।' इत्यातिशयनिकस्तरः । '२००४ । किमेत्तिङ्- ।५।४।११।' इत्याम् । '१४० । नश्छव्यप्रशान् । ८।३॥७।' इति रुत्वं पूर्वस्यानुस्वारः ॥ १५८३ प्रणमन्तं ततो राममुक्तवानि॑िति शङ्करः ॥ 'किं नारायणर्मात्मानं ना ऽभोत्स्यत भवानजम्. १६ प्रणमन्तमित्यादि — ततो ब्रह्मवचनानन्तरं शङ्करो महादेवः वक्ष्यमाणं वचनं राममुक्तवान् । प्रणमन्तं तमेव राममित्यर्थात् । किन्नाम तत् यथा आत्मानम् नारायणमजं नित्यं अस्मिन् प्रादुर्भावे भवान्नाभोत्स्यत न बुद्धवान् अपि तु तथाविधं कर्म कुर्वन् ज्ञातवानेव । अत्र नारायणानवबोधक्रियायाः तद्विरुद्धबोधनोपनिपातादतिपत्तिः ॥ तदेव दर्शयन्नाह १५८४ - को ऽन्यो ऽकर्त्स्यर्दिह प्राणान् हप्तानां च सुर-द्विषाम् ॥ ४६८ भट्टि- काव्ये – चतुर्थे तित-काण्डे लक्षण रूपेऽटमो वर्गः, को वा विश्वजनीनेषु कर्मसु प्राघटिप्यत ॥ १७ ॥ क इत्यादि — यदि नारायणो न भवान् तदा तस्मादन्यः को नाम सुरद्विषां राक्षसानां दृतानां प्राणानकर्त्स्यत् छिन्नवान् । 'कृती च्छेदने' । नैव । विश्वजनीनेषु सर्वलोकहितेषु कर्मसु अनुग्रहलक्षणेपु को नाम प्राघटिप्यत चेष्टितवान् । अत्राच्छे- दनक्रियाया अघटनक्रियायाश्च तद्विरुढच्छेदनघटनोपनिपातादतिपत्तिः । सर्वत्र '२८०१ । किंवृत्ते ऌइलटौ । ३ । ३ । १४४ । इति क्रियातिपत्तौ भूते गर्दायां लङ् ॥ १५८५ - दैत्य क्षये महाराज ! यच्च यत्रा ऽघटिप्यथाः ॥ समाप्तिं जातु तत्रापि किं ना ऽनेप्यस् त्वमहितम्. १८ दैत्यक्षय इत्यादि — हे महाराज ! नैवेदमवकल्पयामि दैत्यक्षयनिमित्तम् यच्च यत्र त्वमघटिप्यथाः यां पुनरात्मनो घटनां करिष्यसि किन्तु पुनः प्रादुर्भावे घटिष्यसे । तत्रापि प्रादुर्भावत्वमीहितं चेष्टितं जातु कदाचित् समाप्तिं सिद्धिं नानेष्य: किं न नेप्यसि । (२८०४ । जानुयो ।३।३।१४७।' इति जातुय- च्छब्दौ अनवक्लृतिश्च लिङ्गनिमित्तं तस्मिन् क्रियातिपत्तौ भविष्यति नित्यं हृङ्ग अत्राघटनक्रियायाश्चातिपत्तिः ज्ञानेनोपलव्धभविष्यप्रादुर्भावसमाप्तिनयनयोस्त- द्विरुयोरुपनिपातात् ॥ १५८६ - तातं प्रसाद्य कैकेय्या भरताय प्रपीडितम् ॥ सहस्र-चक्षुषं रामो निनंसुः परिदृष्टवान् ॥ १९ ॥ तातमित्यादि — तातं दशरथं कैकेय्या प्रपीडितं सन्तापितं भरताय भरतार्थ राज्येऽभिषिच्यता मिति प्रसाद्य तद्विपये चित्तकालुप्यं त्याजयित्वा रामः सहस्रचक्षुपं इन्द्रं परिदृष्टवान् संदृष्टवान् । निनंसुः नन्तुमिच्छुः ॥ १५८७ - प्रेता वरेण शकस्य प्राणन्तः कपयस् ततः ॥ संजाताः फलिना ऽऽनम्र-रोचिष्णु-द्रुम-सद्रवः. २० प्रेता इत्यादि- - ततः प्रणामानन्तरं शक्रस्य प्रसन्नस्य वरेण कपयः संग्रामे प्रेताः संग्रामे मृताः प्राणन्तो जीवन्तः संजाता: संवृत्ताः । कीदृशा इत्याह - फलिनः फलवन्तः । 'फलवर्हाभ्यामिनच्' । अत एव नम्राः नमनशीला: रोचि ष्णवः दीपनशीला: ये दुमास्तेषु सद्रवः सदनशीला: । '३१३९ । दाधे सि –।३।२।१५९॥' इत्यादिना सढ़े रुः ॥ १५८८ - भ्रमर कुला Ssकुलोलवण-सुगन्धि-पुष्प-तरुस् तरुण-मधूक - सम्भव - पिशङ्गित-तुङ्ग - शिखः ॥ २१ ॥ १ इदं नर्दटकवृत्तम्- 'यदि भवतो नजी भजजला गुरु नर्दटकम्' इति लक्षणात् । तथा लक्ष्य-रूपे कथानके 'सीता-संशोधनं' नामैकविंशतितमः सर्गः-४६९ शिखर - शिला डन्तराल - परिकृप्त- जला ऽवसरः स-रस-फल- श्रियं स विततान सुवेल - गिरिः ॥ २१ ॥ भ्रमरेत्यादि – वरेण च स सुवेलगिरिः सरसां अभिनवां फलश्रियं विभूति विततान विस्तृतवान् । भ्रमरकुलैराकुला व्याप्ता उल्वणाः सुगन्धयश्च सपुष्पास्तरखो यत्र गिरौ । तरुणानां अभिनवानां मधूकानां यः सम्भवः तेन पिशङ्गितास्तुङ्गाः शिखाः शिखराणि यन्त्र । शिखरशिलानामन्तरालेपु परिकृता जलावसरा जलाधारा यत्र । जलमपसरत्येभ्य इति '३२३२ । ऋोरप् ।३।३।५७॥ ॥ १५८९ - संवाद्भिः स कुसुम रेणुभिः समीरैरानवैर् बहु-फल- धारिभिर् वना॒ ऽन्तैः ॥ त्र्योतद्भिर् मधु-पटलैश च वानराणाम् आप्यानो रिपु-वध-सम्भवः प्रमोदः ॥ २२ ॥ संवाद्भिरित्यादि सम्भवत्यस्मादिति सम्भवः । रिपुवधः सम्भवो यस्य प्रमोदस्य स वानराणामाप्यानः वृद्धिं गतः । व्यवस्थितविभापाविज्ञानात् सोपसर्गस्य प्यायतेः पीभावो न भवति । '३०१९ । आदितश्च ।८२४५॥ इति निष्ठानत्वम् । कैराप्यानः समीरैः सकुसुमरेणुभिः संवाद्भिः वहद्भिः । वनान्तैः फलभरधारिभिः । अत एवानम्रैः । मधुकरपटलैः व्योतद्भिः मध्वित्यर्थात् ॥ १५९० - आयान्त्यः स्व-फल-भरेण भङ्गुरत्वं भृङ्गाऽऽली- निचय-चिता लतास् तरूणाम् ॥ सा ऽऽमोदाः क्षिति- तल-संस्थिताऽवलोप्या भोक्तॄणां श्रमम॑दयं न नीतवत्यः ॥ २३ ॥ इति भट्टि-काव्ये तिङन्त-काण्डे लङ्-प्रदर्शनो नाम एकविंशति-तमः सर्गः ॥ आयान्त्य इत्यादि — तरूणां लताः स्वफलभरेण भङ्गुरत्वं सुभेद्यत्वमायान्त्यः गच्छन्त्यः । सामोदाः अतएव भृङ्गालीनिचयचिताः । क्षितितलसंस्थितैरेवावलोतुं शक्याः।भोक्तॄणां कपीनां श्रमं चित्तकायक्लेशं उदयं वृद्धिं न नीतवत्यः । 'विनीतवत्यः' इति पाठान्तरम् । उत्पूर्वादयतेः कर्तर्यंच् । वृद्धिमुपगच्छन्तं श्रममपनीतवत्य इत्यर्थः ॥ इति श्री-जयमङ्गलाऽऽख्यया व्याख्यया समलंकृते श्री भट्टिकाव्ये चतुर्थे तिङन्त-काण्डे लक्षण-रूपेऽष्टमः परिच्छेदः ( वर्गः ), तथा लक्ष्य-रूपे कथानके 'सीता-संशोधनं नाम एकविंशतितमः सर्गः ॥ २१ ॥ १।२। - प्रहर्षिणीवृत्तम्- 'नौजौगस्त्रिदशयतिः प्रहर्षिणीयम्' इति लक्षणात् । भ० का० ४० ४७० भट्टि- काव्ये – चतुर्थे तिङन्त-काण्डे लक्षण रूपे नवमो वर्गः, द्वाविंशः सर्गः । इतः प्रभृति लुटमधिकृत्य विलसितमाह - तत्र भविष्यदनद्यतने लुटू ॥ १५९१ ततो रामो हनूमन्तर्मुक्तवान् हृष्ट-मानसम् ॥ 'अयोध्यां श्वः प्रयातासि कपे ! भरत-पालिताम्. १ तत इत्यादि- -- ततः सीतासंशोधनानन्तरं रामो हनुमन्तं हृष्टमानसं स्वामि- कार्यस्य निष्पादितत्वात् उक्तवान् । हे कपे ! श्वोदिने अयोध्यां भरतपालितां प्रयातासि गन्तासि । '२१९१॥ तासस्त्योर्लोपः ॥७॥४॥५०॥ १ ॥ १५९२ - गाधितासे नभो भूयः स्फुटन्- मेघ-घटाऽऽवलि, ॥ ईक्षितासे ऽम्भसां पत्युः पयः शिशिर-शीकरम् ॥२॥ गाधितास इत्यादि — भूयः पुनरपि नभः गाधितासे प्रस्थातासे । 'गाट प्रतिष्ठालिप्सयोः' इत्यनुदात्तेत् । त्वद्गमनवातात् स्फुटन्त्यः खण्डशो भवन्त्यः मेघघटावलयो मेघपयो यत्र नभसि । अम्भसां पत्थुः समुद्रस्य पयः शिशि- रशीकरं ईक्षितासे दृष्टासि ॥ १५९३ - सेवितासे प्लवङ्ग ! त्वं महेन्द्र ऽद्रेर॑धित्यंकाः ॥ . व्युत्क्रान्त वर्त्मनो भानोः सह- ज्योत्स्ना - कुमुद्दती : ३ सेवितास इत्यादि — हे प्लवङ्ग ! भानोरादित्यस्य व्युत्क्रान्तवर्त्मनः अत्यु- चस्वादतिक्रान्तमार्गस्य महेन्द्रादेः अधित्यकाः उपरिभागान् । कुमुद्वतीः विद्य- मानकुमुदाः सह ज्योत्स्नया । पश्चाद्विशेषणसमासः । सज्योत्स्ना वा कुमुद्दत्यः कुमुदाकरा यासु अधित्यकासु तास्त्वं सेवितासे अनुभवितासि । लवं गच्छतीति खच्, एवं गच्छतीति कर्तरि अच् वा । 'उखडखी 'त्यत्र वागः पठ्यते ॥ १५९४ - चन्दन - द्रुम - संच्छन्ना निराकृत-हिम श्रथाः ॥ १ दर्शितारस् त्वया ताश च मलयोपत्यकाः शुभाः ४ चन्द नेत्यादि – ताश्च पूर्व दृष्टाः मलयोपत्यकाः मलयासन्नाः भुवः शुभाः चन्दनद्रुमसंच्छन्नत्वात् । निराकृतहिमश्रथाः तिरस्कृतचन्द्राः । त्वया दर्शितारः वो द्रष्टव्याः । कर्मणि लुट् । चिण्वदि चेति सकारलोपः । हिमं श्रद्धाति मुञ्च- तीति हिमश्रथः चन्द्रः । 'श्रन्थ सेचनप्रतिहर्पयोः' इति कर्मण्यण् । ३१८७॥ अवोदैध- ।६।४।६९।' इत्यादिना अनुनासिकलोपो निपात्यते ॥ १५९५ प्रतन्व्यः कोमला विन्ध्ये सहितारः स्यदं न ते ॥ . लताः स्तबक - शालिन्यो मधुलेहि कुलाऽऽकुला: ५ प्रतन्व्य इत्यादि – विन्ध्ये लताः स्तबकशालिन्यः सकुसुमस्तबकोपेताः धुलेहिकुलाकुलाः भ्रमरकुलसङ्कलाः प्रतनुष्वात् कोमलत्वाच । गच्छतस्ते तव ११२ - ' ३४७। उपत्यकाऽद्रेरासन्ना भूमिरुर्ध्व मधित्यका ।" इत्यमरसिंहः । तथा लक्ष्य रूप कथानक अयोध्या प्रत्यागमन' नाम द्वाविशः सर्गः –४७१ स्यदं जवं न सहितारः न सहिष्यन्ते । '३१८६ । स्यदो जवे ॥४॥२८।' इत्यनु नासिकलोपो निपात्यते ॥ १५९६ - द्रष्टासि प्रीति - माना॑रात् सखिभिः सह सेविताम् ॥ स-पक्षपातं किष्किन्धां पूर्व-क्रीडां स्मरन् मुहुः ॥६॥ द्रासीत्यादि – किष्किन्धां च आरात् नातिदूरे इष्टासि । प्रीतिमान् जात- प्रीतिः सन् सखिभिर्मित्रैः सह सेवितां अनुभूतां एवं च कृत्वा पूर्वक्रीडां स्मरन् मुहुः । शेषत्वेन विवक्षितत्वात् षष्ठी न भवति । सपक्षपातं सानुरागमिति क्रियाविशेषणम् ॥ १५९७ - त्वया सन्दर्शितारौ ते माल्यवद्-दण्डका-वने ॥ उपद्रुतश् चिरं द्वन्द्वैर् ययोः क्लिशितवान॑हम् ॥७॥ त्वयेत्यादि - माल्यवान् पर्वतः दण्डकावनं दण्डकेति नामकमरण्यं ते त्वया सन्दर्शितारौ । कर्मणि लुट् । ययोर्माल्यवद्दण्डकावनयोः व्यवस्थितैः द्वन्द्वैः सीतावियोगदुःखैः चिरमुपद्रुतोऽभिभूतः सन् अहं क्लिशितवान् पीडामनुभूत- वान् । '३०४९। क्लृिशः क्त्वानिष्टयोः ।७।२।५० ।' इती । '३३२३ । मृडमृद- -।१।२।७।' इत्यादिना कित्चम् ॥ १५९८ - आप्ठारौ भवता रम्यावा॑श्रम हरिणा॒ ऽऽकुलौ ॥ पुण्योदक - द्विजाऽऽकीर्णो सुतीक्ष्ण-शरभङ्गयोः ॥ ८ ॥ आप्तारावित्यादि – सुतीक्ष्णशरभङ्गयो रम्यावाश्रमी हरिणाकुलौ पुण्यरुद् कैद्विजैः पक्षिभिश्चाकीण भवता आप्तारौ प्राप्तव्यौ ॥ १५९९ - अतिक्रान्ता त्वया रम्यं दुःखमंत्रेस् तपोवनम् ॥ पवित्र चित्रकूटे ऽद्रौ त्वं स्थातासि कुतूहलात् ॥९॥ अतिक्रान्तेत्यादि — अत्रेश्च तपोवनं रम्यत्वात् त्वया दुःखमतिक्रान्ता अति क्रमितव्यम् । चित्रकूटे चानौ पवित्रे पुण्ये कुतूहलात् त्वं स्थातासि ॥ १६०० - ततः परं भरद्वाजो भवता दर्शिता मुनिः ॥ द्रष्टारश् च जनाः पुण्या यामुनाऽम्बुक्षतांऽहसः ॥ तत इत्यादि- [- ततः चित्रकूटात्परं गच्छता भवता भरद्वाजो मुनिदर्शित द्रष्टव्यः । जनाश्च पुण्या: यामुनाम्बुक्षतांहसः यमुनाजलस्य स्नानात्पानाञ्च क्षपि तपापाः द्रष्टारो द्रष्टव्या वा । चिण्वदिव च ॥ १६०१ – स्यन्त्वा स्यन्त्वा दिवः शम्भोर् मूर्ध्नि स्कन्त्वा भुवं गताम् ॥ ४७२ भट्टि - काव्ये -- चतुर्थे तिङन्त-काण्डे लक्षण-रूपे नवमो वर्गः, गाहितासे ऽथ पुण्यस्य गङ्गां मूर्तिमिव द्रुतम् ॥ ११ ॥ w स्यन्त्वेत्यादि – अथानन्तरं या गङ्गा दिवः स्वन्त्वा स्यन्त्वा स्रुत्वा स्रुत्वा । '३३४३ । आभीक्ष्ण्ये णमुल च । ३ । ४।२२।' इति चकारात् क्त्वा च आभीक्ष्ण्ये च द्वे भवतः । शम्भोर्मूर्ध्नि स्कन्त्वा गत्वा क्षितिं गता । '३३२१ । क्त्विस्कन्दियन्दोः ।६।४।२१।' इत्यनुनासिकलोपप्रतिषेधः । तां पुण्यस्य मूर्तिमित्र द्रुतां [ द्रवरूपेण स्थिताम् ] गाहितासे स्त्रातुं विलोडितासि ॥ १६०२ - तमसाया महा-नील-पापाण-सदृश - त्विषः ॥ वना॒ऽन्तान् बहु मन्तासे नागराऽऽक्रीड-शांखिनः ॥ तमसाया इत्यादि- तमसायाश्च नद्याः वनान्तान् वनोपकण्ठान महानी- लमणेस्तुल्यत्विपोऽतिनीलत्वात् । नागराणां आक्रीडो रन्तव्यं तत्साक्षिणः बहु मन्तासे श्लावितासे ॥ १६०३ - नगर-स्त्री-स्तन-न्यस्त - धौत-कुङ्कुम-पिञ्जराम् ॥ विलोक्य सरयूं रम्यां गन्ता ऽयोध्या त्वया पुरी. १३ नगरेत्यादि — नगरस्त्रियः अयोध्यास्त्रियः तासां स्तनेषु यत्पूर्वन्यस्तं पश्चाहौतं कुङ्कुमं तेन पिञ्जरां कपिशां अत एव रम्यां सरयूं विलोक्य अयोध्या पुरी त्वया गन्ता गन्तव्या ॥ १६०४ - आनन्दितारस् त्वां दृष्ट्वा प्रष्टारश् चावयोः शिवम् ॥ मातरः सह मैथिल्या, तोष्टा च भरतः परम् ॥ १४ ॥ · आनन्दितार इत्यादि — अयोध्यायां च त्वां दृष्ट्वा मातरः कौसल्याद्याः आनन्दितार: आनन्दिप्यन्ति । आवयोश्च रामलक्ष्मणयोः सह मैथिल्या शिवं कल्याणं प्रष्टारः प्रश्नं करिष्यन्ति । भरतश्च श्रुत्वा परमत्यर्थ तोष्टा प्रीतिं कर्ता । आमन्त्रितार इति पाठान्तरम् । तत्रानित्यण्यन्ता इति दर्शनं तेषां णिज् न भवति । अन्यथा ' २३१३ । णेरनिटि ।६।४।१५३।' इति णिलोपो न प्राप्नोति । ततश्चामन्त्रयितार इति स्यात् । अथवा आमन्त्रणमामन्त्र इति घमन्तादाचारे सर्वप्रातिपदिकेभ्य इति क्विप् । तदन्तात्तासेरिद्र । अतोलोपे च रूपम् । सह पैथिल्योरिति पाठान्तरम् । तत्रापि बहुव्रीहौ ' ८३३ । नयृतश्च ।५।४।१५३।' इति पून भवति समासान्तविधिरनित्य इति कृत्वा ॥ १ - 'गङ्गां मूर्तिमिव द्रुतम्' इति पाठान्तरम् । २- 'आक्रीड- साक्षिणः' इति पाठान्तरम् । 5 तथा लक्ष्य रूपे कथानके 'अयोध्या प्रत्यागमन' नाम द्वाविंशः सर्गः- :–४७३ १६०५ - आख्यातासि हतं शत्रुमु॑भिषिक्तं विभीषणम् ॥ सुग्रीवं चा ऽर्जितं मित्रं, सर्वाश चाऽऽगामुकान् द्रुतम् आख्यातासीत्यादि — हतं शत्रुं रावणं लङ्कायामभिषिक्तं विभीषणं अर्जितं मित्रं च सुग्रीवं विशिष्टमाख्यातासि कथयितासि । सर्वाश्चास्मान् द्रुतमागामुकान् आगमनशीलान् ॥ १६०६ - गन्तारः परमां प्रीतिं पौराः श्रुत्वा वचस् तव ॥ 3 ज्ञात्वैतत् सम्मुखीनश् च समेता भरतो ध्रुवम् १६ गन्तार इत्यादि — स्वद्वचनं श्रुत्वा पौरा: पौरजना परमां प्रीतिं गन्तारो गमिष्यन्ति । एतन्मदागमनवृत्तान्तं श्रुत्वा सम्मुखीनः प्रतिविम्बाश्रय इव सम्मुखो भूत्वा मामेवागमिष्यति भरतो ध्रुवमसंशयम् ॥ १६०७ गते त्वयि पथा ऽनेन वयमध्यंहितास्महे ॥ लब्धाहे ऽहं धृतिं प्राप्ते भूयो भवति सम्मुखे ॥१७॥ गत इत्यादि — त्वयि पथा अनेन मयाभिहितेन गते वयमपि अंहितास्महे प्रयातास्मः 'अहि गतौ । भूयश्च पुनरपि भवति त्वयि सम्मुखे प्राप्ते धृतिमहं लब्धाहे प्राप्तोस्मि । '२२५० । ह एति ।७।४।५२।' इति तासि सकारस्य हकारः ॥ १६०८ गते तस्मिन् गृहीताऽर्थे रामः सुग्रीव-राक्षसौ ॥ उक्तवान् श्वो ऽभिगन्तास्थो युवां सह मया पुरम्. १८ गते तस्मिन्नित्यादि - तस्मिन् हनूमति गृहीतार्थे अवगतसन्देशार्थे गते सति रामः सुग्रीवराक्षसावुक्तवान् । युवां मया सह श्वो दिने अभिगन्तास्थः पुरम- योध्यां गमिष्यथः ॥ १६०९ - द्रष्टास्थस् तत्र तिस्रो मे मातृस् तुष्टाऽन्तराऽऽत्मनः ॥ आत्यन्तीनं सखित्वं च प्राप्तास्थो भरता ऽऽश्रयम् ॥ १९ ॥ द्रष्टास्थ इत्यादि – तत्र च पुनः पुर्या नोऽस्माकं तिस्रो मातृः कौसल्याद्याः । स्वस्त्रादित्वान्न ङीप् । शसि प्रथमयोः पूर्वसवर्णदीर्घत्वम् । तुष्टान्तरात्मनः हृष्टमा- नसाः द्रष्टास्थः । भरताश्रयं च भरतनिबन्धनं च सखित्वं मित्रत्वं आत्यन्तीनं "अत्यन्तं गामीत्यस्मिन्नर्थे ' १८१२ । अवारपार - ।५।२।११।' इत्यादिना खः । प्राप्तास्थः लब्धासाथे ॥ १६१० -नैवं विरह-दुःखेन वयं व्याघानितास्महे ॥ 15 श्रमो ऽनुभविता नैवं भवद्भ्यां च वियोग-जः ॥२०॥ " ४७४ अट्टि-काव्ये – चतुर्थी तिङन्त-काण्डे लक्षण-रूपे नवमो वर्गः, १६११ एवं युवां मम प्रीत्यै कल्झास्थः कपि-राक्षसौ ! ॥ गन्तुं प्रयतितासाथे प्रातः सह मया यदि ॥ २१ ॥ नैवमित्यादि श्लोकद्वयम् – हे कपिराक्षसौ ! प्रातर्मया सह गन्तुं यदि प्रयतितासाथै यत्नं कर्तास्थः । एवं सति युष्मद्विरहदुःखेन वयं न व्यावनितास्महे न पीडिता भवितास्मः । कर्मणि लुट् । चिण्वदि । 'संयोजितास्महे' इति पाठान्तरम् । न संयोजिता भवितास्मः । युजेर्ण्यन्तस्य चिण्वदिट् । इटोऽसिद्धत्वात् ८२३३३ । णेरनिटि । ६ । ४ । ५१।' इति णिलोपः । भवयां च वियोगजः श्रवः खेदो नानुभविता । अत्रापि चिण्वदि । एवं मम प्रीत्यै युवां कल्पास्थः सम्पादितास्थः । २३५१ । लुटि च कृपः ।१।३।९३ । इति तङभावपक्षः । '२३५२ । तासि च क्लृपः ।७।२।६० ।' इतीप्रतिषेधः । कृषि सम्पद्यमाने चतुर्थी । १६१२ - उक्तवन्तौ ततो रामं वचः पौलस्त्य-वानरौ अनुग्रहो ऽयं काकुत्स्थ ! गन्तास्वो यत् त्वया सह. २२ उक्तवन्तावित्यादि — ततोऽनन्तरं पौलस्त्यवानरौ विभीषणसुग्रीवौ रामं वच उक्तवन्तौ । हे काकुत्स्थ ! त्वया सह यदावां गन्तास्व: गमिष्याव: अयमनुग्रहः प्रसाद इति ॥ १६१३ - अनुमन्तास्वहे नाऽऽवां भवन्तं विरहं त्वया ॥ अपि प्राप्य सुरेन्द्र-त्वं, किं नु प्रत्तं, त्वया ऽऽस्पदम् ॥ अनुमन्तावहे इत्यादि - किं च सुरेन्द्रत्वं देवेन्द्रत्वं प्राप्तावप्यावां त्वया सह भवन्तमुत्पद्यमानं विरहं वियोगं नानुमन्तास्महे किं पुनस्त्वया प्रत्तं दृत्तम् । '३०७८। अच उपसर्गात्तः ।७।४।४७ । आस्पदं राज्यं प्राप्तवन्तौ । अत्र सुतरामेव त्वया सह वियोगो न युज्यते । भवन्तं विरहमिति वर्तमानकालः नानुमन्तास्वह इति भविष्यत्कालेन सम्बध्यमानः साधुर्भवति '२८२४ । धातुसम्बन्धे प्रत्ययाः ।३।४।१।' इति । एतावल्लुडिलसितम् ॥ अथ सर्गभङ्गार्थ छन्दोन्तरेण तच्छेपभूतमर्थवशात् प्रकीर्णकक्रियाविलसितं दर्शयन्नाह - १६१४ - ततः कथाभिः समतीत्य दोषामा॑रुह्य सैन्यैः सह पुष्पकं ते ॥ सम्प्रस्थिता वेग शार्द-गाधं प्रक्षोभयन्तः सलिलं पयोधेः ॥ २४ ॥ · तत इत्यादि — कथामिरनन्तरोक्ताभिः दोषां रात्रिं समतीत्य प्रेरयित्वा ततो- स्तरं ते रामादयः पुष्पकं विमानमारुह्य सैन्यैः सह भयोध्यां यातुं संप्रस्थिताः । योधेः सलिलमगाधमक्षोभ्यमपि वेगवशात्प्रक्षोभयन्तः ॥ तथा लक्ष्य-रूपे कथानके 'अयोध्या प्रत्यागमनं' नाम द्वाविंशः सर्गः - ४७५ १६१५ - सेतुं, महेन्द्रं, मलयं स - विन्ध्यं, स- माल्यवन्तं गिरिमृष्यमूकम् ॥ स- दण्डकारण्य -वर्ती च पम्पां रामः प्रियायाः कथयन् जगाम ॥ २५ ॥ सेतुमित्यादि - एष सेतुस्त्वदर्थे मया कारितः । एते च महेन्द्रादयः इत्यादि प्रियायाः सीतायाः कथयन् जगाम । अयोध्याभिमुखं गतवान् ॥ १६१६ - एते ते मुनि जन-मण्डिता दिगन्ताः, शैलोऽयं लुलित वनः स चित्रकूटः ॥ ३ गङ्गेयं सु-तनु- ! विशाल- तीर-रम्या, मैथिल्या रघु-तनयो दिशन् ननन्द ॥ २६ ॥ एते इत्यादि – शोभना तनुः शरीरं यस्याः सा त्वं हे सुतनु ! क्वचिदुकारान्त- मपि स्त्रियः प्रोक्तमिति वचनात् नदीसंज्ञकत्वात् सम्बुद्धिस्वत्वम् । 'कृषिचमित- निसर्जिमजिभ्यः' इत्यौणादिकस्तनुशब्दः । एते दिगन्ता मुनिजनैस्तन्निवासिभिर्म- ण्डिताः भूपिताः । अयं स चित्रकूटः यत्र भरतेनागम्य दृष्टोऽस्मि । लुलितवनोऽ- स्मद्वेगवशात् । इयं च गङ्गा विशालतीरतया रम्या । एवं मैथिल्या दिशन् कथ- यन् ननन्द मुदितः ॥ १६१७ - शिञ्जान भ्रमर-कुलाऽऽकुलाऽग्र - पुष्पाः शीता- ऽम्भः- प्रविलय - संप्लव ऽभिलीनाः ॥ एते ते सु-तनु ! पुरी जनोपभोग्या दृश्यन्ते नयन- मनोरमा वना ऽन्ताः ॥२७॥ शिक्षानेत्यादि – हे सुतनु ! एते वनान्ताः पुर्या दृश्यन्ते । शिक्षानैः कूजद्भिः भ्रमरकुलै: आकुलाग्राणि पुष्पाणि येषां वनान्तानाम् । प्रविलीयतेऽस्मिन्निति प्रविलयः । '३२३१॥ एरच् ।३।३।५६॥ निमिलीभ्यां खलचोः प्रतिषेधो वक्तव्यः । ८ २५०९। विभाषा लीयतेः ।६।१॥५१॥ इत्यात्वं न भवति । शीताम्भसः प्रवि-/ लयः कुल्या तेन यः संप्लवः स्नापना तेनाभिलीना: कुल्यया सिञ्चमानमूलत्वात् अत एव नयनमनोरमाः रमयतीति कर्तर्यच् । पश्चात् षष्ठीसमासः । एवं च पुरी जनानामयोध्या निवासिनां उपभोग्याः ॥ ४७६ भट्टि काव्ये – चतुर्थे तिअन्त-काण्डे लक्षण-रूपे नवमो वर्गः, १६१८ - स्थानं नः पूर्व-जानामि॑ियम॑धिकर्मसौ प्रेयसी पूरयोध्या, दूराददा॑लोक्यते या हुत-विविध-हविः- प्रीणिता ऽशेष - देवा ॥ सो ऽयं देशो, रुदन्तं पुर जनम॑खिलं यत्र हित्वा प्रयातौ, आवां सीते ! वना॒ ऽन्तं सह धृत धृतिना लक्ष्मणेन क्षपा॒ऽन्ते ॥ २८ ॥ स्थानं न इत्यादि — हे सीते ! असौ पुरी नोऽस्माकं पूर्वजानां स्थानमधिकं अतएव च प्रेयसी प्रियतमा । दुरादालोक्यते उच्चप्रासादयोगात् । या हुतैविवि- धैर्हृविर्भिराज्यादिभिः ग्रीणिता अशेपदेवा यत्र देशे। पुरजनभखिलं समस्तं रुदन्तं क्षपान्ते उपसि हित्वा त्यक्त्वा छलेन आवां वनान्तं प्रयातौ सोऽयं देशः सह •लक्ष्मणेन धृतधृतिना धृतसौमनस्येन ॥ १६१९ - तूर्याणामंथ निःस्वनेन सकलं लोकं समापूरयन् विक्रान्तैः करिणां गिरीन्द्र-सदृशां क्ष्मां कैम्पयन् सर्वतः ॥ सा ऽऽनन्दा॒ऽश्रु-विलोचनः प्रकृतिभिः सार्धं सहा ऽन्तः पुरः सम्प्राप्तो भरतः स-मारुतिरलं नम्रः समं मातृभिः ॥ २९ ॥ तूर्याणामित्यादि – अथानन्तरं भरतो हनूमतः समुपलब्धरामवृत्तान्तत्वात् सानन्दाविलोचनः सानन्दाश्रुणी विलोचने यस्य तथाभूतः प्रकृतिभिः अमास्यादिभिः सार्ध । सहान्तःपुरः अन्तःपुरेण समम् । मातृभिः कौसल्यादिभिः १ - स्रग्धरावृत्तम् 'मर्थानां त्रयेण त्रिभुनियतियुता स्नग्धरा कीर्तितेयम्' वे लक्षणात् । २ - शार्दूलविक्रीडितवृत्तम् । लक्षणमुक्तम् । ३ – 'क्ष्मापयन्' इति पाठान्तरम् । तथा लक्ष्य-रूपे कथानके 'अयोध्या प्रत्यागमनं' नाम द्वाविंशः सर्गः – ४७७ सह मातृभिः हनूमता च सह । अयं नत्रः अनुद्धवः 'समीपं मे नाथ आगतः ' इति तर्याणां निःस्वनेन सकलं लोकं मार्गप्राप्तं समापूरयन् व्यानुवन् करिणां च गिरीन्द्रसदृशाम् । '४२९। यदादिपु दृशः– ।३।२।१०।' इति चकारात् छिन् । विक्रान्तैः पादन्यासैः क्ष्मां कम्पयन् सर्वतो विधूनयन् । 'क्षमापयन्' इति पाठान्तरम् । तत्र '२५७० । अर्तिी ।७।३।२६।' इत्यादिना पुकू । सम्प्राप्तः रामसमीपमित्यर्थः ॥ १६२० - अथ स-सम्भ्रम - पौर-जना ऽऽवृतो भरत-पाणि-धृतोज्ज्वल-चामरः ॥ गुरु-जन - द्विज - बन्ध॒भिनन्दितः प्रविशति स्म पुरं रघु-नन्दनः ॥ ३० ॥ अथेत्यादि – अथ भरतसम्प्रायनन्तरं रघुनन्दनो रामः ससम्भ्रमेण साद- रेण सहर्पेण पौरजनेनावृतः । भरतपाणिना धृतमुज्ज्वलं चामरं यस्य । गुरुजनेन द्विजैर्वन्दिमिश्च स्तुतिपाठकैरभिनन्दितोऽभिष्टुतः सन् पुरमयोध्यां प्रविशति स्न प्रविष्टः ॥ १६२१ - प्रविधाय धृतिं परां जनानां युवराजं भरतं ततोऽभिषिच्य ॥ जघटे तुरगाऽध्वरेण यष्टुं कृत सम्भार - विधिः पतिः प्रजानाम् ॥ ३१ ॥ प्रविधायेत्यादि – प्रविश्य च पुरं प्रजानां पती रामः जनानां धृतिं प्रीति- रूपचेतोवृत्तिं परामुत्कृष्टां प्रविधाय कृत्वा भरतं च युवराजमभिषिच्य ततोऽन- न्तरम् तुरगाध्वरेणाश्वमेधेन यष्टुं जघटे चेष्टितवान् । कृतसम्भारविधिः । संभ्रियत इति सम्भारः द्रव्यगण इत्यर्थः । कृतोऽनुष्टितः सम्भारस्य विधिरितिकर्तव्यता- लक्षणो येन स इति ॥ नायकाभ्युदयान्तं महाकाव्यमिति परिसमापय्य तत्र जयमिच्छता अस्मिन्नादरः कर्तव्य इति दर्शयन्नाह १६२२ - इदम॑धिगत- मुक्ति मार्ग - चित्रं विवदिषतां वदतां च सन् - निबन्धात् ॥ १ – द्रुतविलम्बितवृत्तम् । ' द्रुतविलम्बितमाह नभौ भरौ ।" इति लक्षणात् ॥ भट्टिकाव्ये – चतुर्थी तित-काण्डे लक्षण-रूपे नवमो वर्गः, जनयति विजयं सदा जनानां M 717 युधि सुसमाहितमैश्वरं यथा ऽखम्.॥ ३२॥ 'इदमित्यादि – इदं महाकाव्यम् । उक्तेर्वचनस्य यो मार्गः पन्थाः सुसंस्कृत- शब्दलक्षणः प्रपञ्चितः तेन चित्रं विस्मयनीयम् । सुसमाहितं अलङ्कारयुक्तम् । अधिगतं परिज्ञातं सज्जनानां विवदिपतां वक्तुमिच्छतां वदतां च वक्तुं प्रवर्तमा नानां सदा विजयं जनयति । सन्निबन्धात् शोभनबन्धात्कारणात् । यथास्त्र - वरं पाशुपतम्। अधिगतमुक्तिमार्ग अधिगतः प्राप्तः प्रज्ञातो मोचनमार्गः क्षेपण - मार्गो येन । चित्रं नानावर्णकेन चित्रितत्वात् । सुसमाहितं युधि संग्रामे विजयं विदधाति तद्वत् ॥ ४७८ तस्मादादरः कर्तव्य इति तत्रापि य एवं व्याकरणमधीतवान् तस्यैवात्रादरो युक्त इति दर्शयन्नाह १६२३ - दीप तुल्यः प्रवन्धो ऽयं शब्द-लक्षण-चक्षुषाम् ॥ हस्ता sमर्प इवा ऽन्धानां भवेद् व्याकरणाते. ३३ दीपतुल्य इत्यादि - अयं प्रबन्धो महाकाव्यसंज्ञकः । प्रवध्यते विरच्यत इति कृत्वा । शव्दलक्षणमेव चक्षुर्येषां तेषां दीपतुल्यः । अत गवैतत्काव्याधि गमात् स्वातन्त्र्येणान्यानपि शब्दान् प्रयोक्तुं क्षमत्वात् । व्याकरणाहते विना हस्ता- मर्ष इवान्धानां हस्तामर्प इवावबोधः यथा अन्धानां हस्तेन वटपटादिवत् । स्वपरामृश्यसंस्थानमात्रपरिज्ञानं यथावस्थितस्वरूपपरिज्ञानं एवमनधीतव्याकर- णानां न शब्दस्वरूपपरिज्ञानं अन्यत्र शब्दश्रवणात् ततश्च तत्स्वरूपापरिज्ञानात् कुतोऽप्यन्यशब्दप्रयोग इति ॥ एवं च कृत्वा विदुपोऽनुरुध्यमानेन मयेदं काव्यं कृतमिति दर्शयन्नाह १६२४ - व्याख्या गम्यमिदं काव्य- मुत्सवः सु-धियार्मलम् ॥ , हता दुर्-मेधसश् चा ऽस्मिन् विद्वत्- प्रिय तया मया ॥ ३४ ॥ व्याख्यागम्यमित्यादि व्याख्यागम्यं व्याख्यानाद्विना बोद्धुं न शक्यते । किमर्थमीशं कृतमिति चेत् उत्सवः सुधियामलं शास्त्रे क्षुण्णबुदीनां परं प्रमोदो वायते । एवं च सत्यस्मिन् काव्ये विषयभूतदुर्मेधसो व्याकरणबाह्याः मया हता तानुगृहीताः । तस्माद्विद्वत्मियतया विद्वांसः प्रिया यस्य मम विवत्प्रियः तद्भाव. रस्वत्ता तया हेतुभूतयेति ॥