PREFACE The present publication 'Bhīmaparākrama' is a dramatic piece belonging to the class of Vyāyoga. Daśarūpaka, the well known work on dramaturgy, defines it as follows: "ख्यातेतिवृत्तो व्यायोगः ख्यातोद्धतनराश्रयः । हीनो गर्भविमर्शाभ्यां दीप्ताः स्युर्डिमवद् रसाः ॥ अस्त्रीनिमित्तसङ्ग्रामो जामदग्न्यजये यथा । एकाहाचरितैकाङ्को व्यायोगो बहुभिनैरैः ॥" As the name indicates, this play glorifies the exploit of Bhīma in vanquishing and slaying Jarāsandha, the king of Magadha. Yudhiṣṭhira was planning to perform Rājasuya after killing Jarāsandha. But then he received a message from Jarāsandha either to pay him tribute or to leave the kingdom and seek refuge in Dvārakā. The Pāṇḍāvas accepted the challenge and promised to meet Jarāsandha. Thereafter, disguised as Snātakas, Kṛṣṇa, Bhīma and Arjuna set out to Magadha. Jarāsandha welcomed them unaware of their identity, but they refused to partake of his entertainment, as Jarāsandha was preparing for a Puruṣamedha, human sacrifice, in which numerous kings were to be sacrificed. Then arose a dispute between Kṛṣṇa and Jarāsandha as to the righteousness of such a sacrifice. Nārada who happened to come there, was made the umpire. Jarāsandha agreed to do the behest of Kṛṣṇa in case of defeat. Kṛṣṇa gained victory, and according to the original agreement, Jarāsandha had to meet Kṛṣṇa and his companions in a duel. In the duel which followed, Bhīma killed Jarāsandha. Kṛṣṇa thereon celebrated the victory by releasing the kings who had been imprisoned by Jarāsandha. The story, in the main, is taken from Mahābhārata, but is presented with due dramatic effect. No information is available about the anthor, except the vague mention made in the sthāpanā as 'करिष्यते भीमपराक्रमाख्यं काव्यं शतानन्दकवीन्द्रसूनुः । Judging from the style of composition we should admit that this work deserves high praise. The edition is based on Manuscript C. O. 1694 and Transcript No. 31. The manuscript was obtained from Sri K. R. Kesava Pisharodi, Katuttrutti, Vaikam. It is in Malayalam script and is written in palm leaves. We hope that this will be a valuable addition to our Sanskrit series. University Manuscripts Library, 17-12-1954. SURANAD KUNJAN PILLAI, Honorary Director. ॥ श्रीः ॥ शतानन्दकवीन्द्रसूनुविरचितं भीमपराक्रमम् । गौरीबाहुलताशङ्खवलयांशुभिरञ्जसा । कृष्णोऽप्यर्जुनतां नीतः कण्ठो भीमस्य पातु वः ॥ १ ॥ (नान्द्यन्ते ततः प्रविशति सूत्रधारः।) सूत्रधारः - |(सहर्षम्) अयमपूर्वाभ्युदयवृत्तान्तः[^1] श्राणसमायै समुपहर्तव्यः । यतः — उत्सवस्य परा काष्ठा सूक्तिलाभो हि तद्विदाम् । सुहद्भिः[^2] संविभागेन स सहस्रगुणायते ॥ २ ॥ (परिक्रम्य नेपथ्यं प्रति) आर्ये ! यदि कल्याणाकर्णनकुतूहलि ते श्रवणयुगलम्, तदितस्तावदागम्यताम् । (प्रविश्य) नटी – (क) एस हि्म अवहिदा । अय्यो कहेदु [^3] । (क) एषास्म्यवहिता । आर्यः कथयतु । [^1] 'भ्युपूर्वाभ्युदय' ख. [^2] 'सुहृद्भ्य: ' ख. [^3] 'कहहिदु' ख. सूत्रधारः – आर्ये ! ननु स्मरसि यत्[^1] सिद्धार्थकनाम्ना[^2] त्रैकाल्पविदुषा कार्तान्तिकेन मां प्रत्यादिष्टम् — करिष्यते भीमपराक्रमाख्यं काव्यं शतानन्दकवीन्द्रसूनुः । मनीषिणां संसदि तत्प्रयोक्ता[^3] त्वं सम्पदां धाम भविष्यसीति[^4] ॥ ३ ॥ नटी – (क) जाणामि[^5] जाणामि एदम् । ता किं दाणि कइ णा तं णिबन्धणं समाविदम् । सूत्रधारः - आर्ये ! समापितं समर्पितं च मम करे, तदिदमुक्तं च — अणुमपि गुणमुचैः कुर्वतां पण्डितानां विवृणु तदिदमग्रे नेतरेषां कदाचित् । सफलयति यथाब्धौ शुक्तिरभ्रस्य वृष्टिं प्रभवंति न तथा[^6] हि क्वापि शम्बूकयूथम् ॥ ४ ॥ अपि च — ये सूक्तीन्दुकलाकलङ्कजनका ये गाढगर्वज्वरा ये वा केवलतर्ककर्कशघियः साक्षाच्च ये श्रोत्रियाः । ये च द्वेषमषीमलीमसधियस्तान् प्राज्ञगोष्ठीरसप्रौढप्रावृडवग्रहान् परिहरन् वाचां[^7] प्रचारं कुरु ॥ ५ ॥ (क) जानामि जानाम्येतद् । तत् किमिदानीं कविना तन्निबन्धनं समापितम् । [^1] 'यद्' इति खपाठे नास्ति । [^2] 'सिद्धाकनाम्ना' क. [^3] 'तत्प्रयोगात्' ख. [^4] 'करिष्यसीति' ख. [^5] 'द्वितीयं 'जाणामि' ख. पाठे नास्ति । [^6] 'तथापि' ख. [^7] 'वाचः प्रचारं' ख. नटी – (क) अय्य! सोहअम् । अह्माणं मणोरहकप्पपाअवो फुप्फिओ । सूत्र - आर्ये ननु फलित एव । यतस्तदभिनयकुतूहलिन्या विद्वत्परिषदा साम्प्रतमित्थमाज्ञप्तः[^1] । काव्यकोशनिगूढानि ग्रथितानि नवैर्गुणैः । उद्घाट्य रसरत्नानि त्वं नः सन्दर्शयेरिति ॥ ६ ॥ नटी – (ख) अणुग्गहीद ह्म [^2]। (विमृश्य सश्लाघम्) सव्वदा सिलहणिज्जं[^3] एदं णिबन्धणं । जेण सच्चवअणो आदेसओ, कित्ति भाअणं कई, पेख्खणविणोदिणो अय्यमिस्सा सफळमणोरहा अह्मे (वि) संवुत्ता । सूत्र – आर्ये [^4] ! नन्वेवम् अपि स्वार्थे प्रवृत्तानां धीमतां सदुपक्रमः । बहूनामुपकाराणां यान्ति कारणतां फले ॥ ७ ॥ (नेपथ्ये ) भद्र ! कल्याणभाजनं भूयाः यतो भद्रमिदमुदाहरसि । (क) आर्य शोभनम् । अस्माकं मनोरथकल्पपादपः पुष्पितः । (ख) अनुगृहीताः, स्मः । सर्वथा श्लाघनीयमेतद् निबन्धनम् । येन सत्यवचन आदेशकः कीर्तिभाजनं कविः, प्रेक्षणविनोदिनः आर्यमिश्राः, सफलमनोरथा वयमपि संवृत्ताः । [^1] 'सांप्रतमहमिदमाज्ञप्त:' ख. [^2] 'हिद ह्मि' ख. [^3] 'सिळाहणिज्जं' ख. [^4] 'आर्ये' इति खपाठे नास्ति । [^5] 'इदम्' इति खपाठे नास्ति । नटी – (क) अय्य! को एसो तुह्माणं वअणं अहिणन्दइ । सूत्र - (विलोक्य) आर्ये ! एष खलु भरतकुलधुरन्धरस्य धर्मराजस्य पुरोहितो धौम्योऽस्मद्वचनं[^1] श्लाघयान्नित एवाभिवर्तते । तदावामनन्तरकरणीयेषु भरतान्[^2] नियोक्तुमितो गच्छावः । (इति निष्क्रान्तौ ।) स्थापना ॥ (ततः प्रविशति धौम्यः ।) धौम्यः - (सश्लाधम्) 'अपि स्वार्थे प्रवृत्तानां -' इति चतुरमुपन्यस्तम् । तथाहि ज्येष्ठपाण्डवस्यायमारम्भः । निष्पत्तौ राजसूयस्य बन्धमोक्षे च भूभृताम् । भीमस्य च प्रतिज्ञा(भ्युल?नुल्ल)ङ्घने मूलतां गतः ॥ ८ ॥ तत् सर्वथा मयाप्यमुष्य निष्पत्तये यथाशक्ति प्रयतितव्यम् । नेपथ्यं प्रति) वत्स ! मेधातिथे ! । (प्रविश्य ) शिष्यः- (ख) अयह्मि । धौम्यः - वत्स ! कष्टमिदं पारतन्त्र्यं नाम । तत्रापि, - (क) आर्य । क एष युष्माकं वचनमाभिनन्दति । (ख) अयमस्मि । - [^1] 'मद्वचनं' ख. [^2] 'भरतं' ख. [^3] 'नैपथ्यं' ख. नृपाणां[^1] कल्याणं विषदुपगमे प्रार्थ्यमनिशं विपर्यासे दैवान्जगति विततं सत्यमयशः । परार्थे भर्तव्यः पशुभिरिव भारः खलु महा- नहो पौरोहित्यं न च भवति भोगो न च तपः ॥ ९ ॥ शिष्यः - (क) सुठ्ठु भअवं भणादि । धौम्यः - वत्स! साधवः सर्वप्रकारेणाप्यनुग्राह्या इति प्रतिपन्नपाण्डवपौरोहित्यभारा वयं वर्तामहे । सम्प्रति च तत्प्रत्ययादहं रहसि राज्ञा विज्ञापितः । यदुत[^2] जनार्दनवृकोदरधनञ्जयानामविलम्बितमनुष्ठीयतां प्रास्थानिकं शान्तिकर्मेति । तदचिरेणैव[^3] समित्कुशादीनि होमसाधनानि सिद्धार्थकदूर्वायवाङ्कुरगोरोचनाप्रभृतीनि माङ्गलिकानि सम्भावय[^4] । शिष्यः – (ख) भअवं ! अविण्णादवृत्तन्तो पुच्छामि । किं दाणिमैदेहिं उव्वक्कन्तम् । धौम्यः - वत्स ! महान् खलु कार्यभारः i शिष्य:- (ग) तं कहेदु भअवम् । धौम्यः - बालः खल्वसि । रजमन्त्रस्तु[^5] चौर्यार्जितद्रविणसञ्चय[^6] इव न सुखप्रकाश्यो भवति । तथापि त्वामाभ्यन्तर इति किञ्चिन्निवेद्यते । शिष्यः - (घ) अणुग्गहिदो ह्मि । (क) सुष्ठु भगवान् भणति । (ख) भगवन् ! अविज्ञातवृत्तान्तः पृच्छामि । किमिदानीमेतैरुपक्रान्तम् । (ग) तत् कथयतु भगवान् । (घ) अनुगृहीतोऽस्मि । [^1] 'नराणां' ख. [^2] 'तदुत' ख. [^3] 'तन्नचिरमेव' ख. [^4] 'संपादय' ख. [^5] 'राजमन्त्रे' ख. [^6] 'द्रव्य' ख. धौम्यः - (समन्तादवलोक्य) नात्र कश्विदन्यो जनः । तद्विस्रब्धं श्रूयताम् । शिष्यः - (क) अवहिदो ह्मि । धौम्यः - एकदा तु निर्वर्तितदिवसमुखकृत्ये यथोचित सम्भावनापरितोषितभृत्ये नमभरपतिशिरःपरम्परावतंसितचरणे पौरवाभरणे सकलजगदानन्दने पाण्डुनन्दने सह सुहृद्भिर्विविधविनोदनपेशलं दर्शितमयकौशलं चतुरविलासिनीसञ्चारितचारुचामरमच्छीतलं मणिमयसभातलं रुचितुलितपञ्चबाणे सम्यगलङ्कुर्वाणे, किमिदमिति जनानामक्षिविक्षोदहेतुं[^1] विसविदलवलर्क्षं विक्षिपन् दिक्षु तेजः । तरुणपवनकोणास्फालवचालवीण:[^2] परिषदमभिपेदे नारदस्तां नमस्तः ॥ १० ॥ शिष्यः - (ख) अम्मो[^3] विह्मअणिज्जं खु जुहिट्टिलस्स माहव्वं । जदो एआरिसाणं वि महम्माणं अभिगमणिज्जो वट्टइ । धोम्य:- किमुच्यते । पाण्डवज्येष्ठो युधिष्ठिरः खल्वयम्[^4] । अपि च, धम्र्या प्रवृत्ति र्जगतां हिताय सम्बन्धि मित्रं मधुकंटभारिः । लोकोत्तरं भ्रातृषु यस्य हार्दं काः सम्पदो न स्पृहयन्ति तस्मै ॥ ११ ॥ (क) अवहितोऽस्मि । (ख) अहो ! विस्मयनीयं खलु युधिष्ठिरस्य माहात्म्यम् । यथा एतादृशानामपि महात्मनां अभिगम्यो वर्तते । [^1] 'अक्षिनिक्षेपहेतुं' ख [^2] 'वाचालवीणं' ख. [^3] 'अह्मे' ख. [^4] 'खल्वव्ययम्' क. शिष्यः - (क) तदो तदो । धौम्यः - ततः स भगवानजातशत्रुणा यथोचितामपचितिं [^1] लम्भितः समुपविष्टश्च विष्टरे तदेतत् सन्दिदेश । त्रिविष्टपसदां तुष्टयै पितुः पाण्डोर्नियोगतः । राजसूयं तवाहर्तुं वध्यो मगधराडिति ॥ १२ ॥ शिष्यः - (ख) अदिमहन्तो खु णिओअभारो । तदो तदो । धौम्यः - ततश्च महान्[^3] प्रसाद इति तभियोगं निजमकुटशिखरमारोपयति[^4] भीमाग्रजे स तपोनिधिस्तिरोदधे । शिष्यः - (ग) मण्णे तस्स कलहप्पिअस्स मुणिणो एसो अंभिप्पाओ। जइ[^5] जुहिट्टिरो राजसूअं उपक्कमिस्सदि । तदो पण्डुपुत्ताणं सअलराअमण्डलेण सद्धं इदो तदो संपहारा[^6] वट्टिस्संति । धौम्यः - (विहस्य) वत्स ! स खळु भगवान् परमार्थतिरोहितरजोगुणोऽपि[^7] निसर्गतो निरर्गलसुभटसम्फेटलम्पटचित्तवृत्तिरेव वर्तते । (विमृश्य ) भवतु को दोषः । अप्युदारचरित्राणामसारे क्वचिदादरः । कस्मै गुणाय गृह्णाति महानीलमणिस्तृणम् ॥ १३ ॥ (क) ततस्ततः । (ख) अतिमहाम् खलु नियोगभारः । ततस्ततः । (ग) मन्ये, तस्य कलहप्रियस्य मुनेरेषोऽभिप्रायः । युधिष्ठिरो राजसूयमुपक्रमिष्यति । तदा पाण्डुपुत्राणां सकलराजमण्डलेन सार्धं इतस्ततः संप्रहारा वर्तिष्यन्ते । [^1] 'यथोचिंतमुपचितिमुपलम्भितः' ख. [^2] 'विष्टरे सदे' ख. [^3] 'महाप्रसाद:' ख. [^4] 'मकुटभार' ख. [^5] 'जइ' इति कपाठे नास्ति । [^6] 'अवस्सं संप' ख. [^7] 'परमार्थविज्ञानतिरोहित' ख. शिष्यः - (क) तदो तदो । भौम्यः - ततस्तत्कालमेवाजिहीर्षता पुरुषमेधं मगधराजेन प्रीतो क्चो हरः । रे रे पाण्डुनन्दन !, बाणश्रेणिकरालकार्मुकमहःकिर्मिरदोर्मण्डल- व्यापारप्रतिषिद्धवैरिवनिताधम्मिल्लमाल्यार्पणः । [^1]जन्योद्योगपरङमुखे नृपगणे स्वस्मै प्रतापाय यः सङ्घामाग्रसमग्रसम्प्रदभरप्रत्यर्थिने कुप्यति ॥ १४ ॥ स जरासन्धदेवस्त्वागाह नृपविपशुसहस्रसाध्यसीमा पुरुषमखो भविता भवस्य तुष्ट्यै । [^2]तदुपहर करं ममोचितं वा भज [^3]भकरालयमन्धकैः समं वा ॥ १५ ॥ शिष्य: - (ख) अहो अवहीरिअसव्वलोओ गव्वगरिमा माघहस्स । तदो तदो । धौम्यः - ततश्च तदाकर्ण्य मगधराजनिगलितनिखिलक्षत्रियपरित्राणाय किमपि चिन्तयत्यधिगतनये [^4]तपस्तनयेऽनुचिताकर्णनघूर्णमानरोषकलुपीकतेक्षणोत्कया तत्क्षणमिव दिधक्षति जगत्रयं बलतुलितमहासेने भीमसेने, गुरुनियोगपूर्वपरावरप्रतीकारसम्पादनाकुले नकुले, द्विषदनादरतिरोहितरोषमीषदपहसति विनयनन्दितनरदेवे सहदेवे राजानुमत्या कुमारफंल्गुनेन तदिदं प्रत्यभिहितो दूतः । - (क) ततस्ततः । (ख) अहो अवधीरितसर्वलोको गर्वगरिमा मागधस्य । ततस्ततः । - [^1]. 'अद्योद्योगः' क. [^2]. 'तदुपनय करं' ख. [^3]. 'मकराकरमन्धकैः' ख. [^4]. 'तवागाकर्णन' . ख. क्रतुरपि सुकरो मुदे स्मरारे- र्नरपतयः पशवश्च तेन कार्याः । यदि न मृगयते यमस्य तुष्टयै समरमखे मगधेश्वरं पशुत्वम् ॥ १६ ॥ शिष्यः - (क) सरिसं कुरुकुलालङ्कारस्स पुरन्दरतणअस्स । तदो तदो । धौम्यः - ततश्च पुनरपि रिपुदूतेन दर्पोदग्रमिदमुदग्राहि । रे रे कुमाराः ! अनाकलितपरात्मसारोऽयमारम्भो भवताम् । के यूयं जरासन्धदेवे वैरमनुसन्वातुम् । तथाहि आज्ञामास्थाय केचिद्दधति निजपदे स्थास्नुतां क्षुण्णपक्षाः [^1]पर्यस्ताः सन्निवेशाद् दिशि दिशि विवशास्तूंर्णपुत्खाय केचित् । राजानस्तेन भग्नाः कतिचिदधिगता गर्भमम्भोनिधीनां सुत्रामत्रासितानां परिणतिमुररीकुर्वते पर्वतानाम् ॥ १७ ॥ अपि च, सङ्ग्रामे मानतुङ्गं नमयति स [^2 ]धनुर्नैव मौलिं कदाचित् चापस्यैवापराङ्गं प्रकटयति दृशां गोचरे न स्वकीयम् । दृष्टिः पृष्ठे रिपूणां निपतति न पुनर्बाणपङ्क्तिस्तदीया जीवापायः परेषां भवति रणमुखे [^3]नैव तत्कार्मुकस्य ॥ १८ ॥ शिष्यः - (स्व) सच्चं एईदिसो एव्व मागहो । तह वि [^4]किं [^5]जदुधरातक्कपङ्ककपडिअसोअरकुडुम्बुद्धरणकुंजरं बकहिडिम्बविद्धंसणा (क) सदृशं कुरुकुलालङ्कारस्य पुरन्दरतनयस्य । ततस्ततः । (ख) सत्यं एतादृश एव मागधः । तथापि किं जतुगृहातङ्कपङ्क[^1]. 'स्तास्स्वान्निवेशात्' ख. [^2]. 'र्न स्वमौलिं' ख. [^3]. 'नापि' ख. [^4]. 'कि एस जदु' ख. [^5]. 'द्धरणवणकुजरं' ख. डम्बरविह्माविदतिहुवणं भीमसेणं स अळवीरजोहसाहसेक्कणिहसं खंडव दाबदहणखंडिआखण्डलपरक्कमं गण्डीविणं च ण जाणइ । धौम्यः - वत्स! कथमिव न जानाति । औद्धत्यमेवापराध्यति । कुतो मदावलिप्तानां परोत्कर्षविचेतनम् । दन्तभङ्गं [^1]तटाघाती विविनक्ति न हि द्विपः ॥ १९ ॥ शिष्यः - (क) एव्वं एदम् । तदो तो । धौम्यः - [^2]ततश्च दर्शिताहङ्कारस्य विद्विषो वचोहरेण प्रयुक्तमवमानमसहमानेन [^3]कठिनकरास्फालितविपुलमणिसभास्तम्भसम्भ्रमभ्रमितपरिषदा [^4]तुलितकल्पान्तपावकेन कुमारवृकोदरेण [^5]तदिदमजातविद्विषे प्रतिज्ञातिम् । गुरुतरयमदण्डोच्चण्डदोर्दण्डघातै- र्विघटितविकटोरःपीठघाटाललाटम् । [^6]अधिसमरमरातिं भीमसेनेन भग्नं नृप ! नियतमहोभिः श्रोष्यसि द्वित्रमात्रैः ॥ २० ॥ शिष्यः - (ख) समत्थं पडिण्णादम् । तहो तदो । धौम्यः - ततस्तदाकर्ण्य यद्येवमित एव न चिरादागतं मगधराजमवगच्छतेत्यभिधाय प्रस्थितः प्रणिधिः पतितसोदरकुटुम्बोद्धरणकुञ्जरं बकहिडिम्बविध्वंसनाडम्वरविस्मापितत्रिभुवनं भीमसेनं सकलवीरमोधसाहलेकनिकषं खाण्डवदावदहनखण्डिताखण्डलपराक्रमं गाण्डीविनं च न जानाति । (क) एवमेतत् । ततस्ततः । (ख) समर्थं प्रतिज्ञातम् । ततस्ततः । [^1]. 'तदाघाती' ख. [^2]. 'तद्दर्शिता' ख. [^3]. 'करतलास्फालित' ख. [^4]. 'वकेन वृकोदरेण' ख. [^5]. 'तदिदं जातविद्वेषेण ख. [^6]. 'अभिसमर' क. शिष्यः - (क) तदो तदो । धौम्यः - ततश्च [^1]बहुधापि घिया बार्हद्रथं समुच्छिध तत्क्षण[^2]प्रणिहितलेखहारवचनादागतेन भुवनभारसंहारिणा शौरिणा रिपुकुलधनञ्जयेन कुमारधनञ्जयेन सार्धं स्नातकलाञ्छनप्रतिच्छन्नः प्रतिज्ञासमर्थनाय राज्ञा प्राभञ्जनिरनुज्ञातः । [^3]शिष्यः - (ख) तदो तदो । धौम्यः - (ध्यात्वा) अहो धर्मराजभ्य बुद्धिमत्ता । यत् कुमारवृकोदरस्य तस्यौद्धत्यपरतन्त्रतामाशङ्कय, 'अर्जुनः कृष्णमन्वेतु भीमोऽन्वेतु धनञ्जयम्' इति सन्दिष्टम् । शिष्य: - (ग) अहो ए(दे)दाणिं कं तत्थ एक्काइणो गमिस्सन्ति । धौम्यः- अथ किम् । बुद्धिसाधनाः खलु मनस्विनः । [^4]शिष्यः – (घ) अहो एदाणं ह्णादअवेसधारणे को अभि प्पाओ । धौम्यः - तत् खल्वमुष्मिन् कर्मणि निरपायमौपयिकम् । यतः, '[^5]स्नातकव्रतिनः कदाचिदपि नावधीरयामीति मगधराजस्य प्रतिज्ञाव्रतम् । शिष्यः – (ङ) ता एदे किं भोअणत्थमदिहिणो भविस्सन्ति । धौम्यः - युद्धार्थमतिथयो भविष्यन्ति । (क) ततस्ततः । (ख) ततस्ततः । (ग) अहो एते इदानीं किं तत्रैकाकिनो गमिष्यन्ति । (घ) अहो एतेषां स्नातकवेषभारणे कोऽभिप्रायः । (ङ) तदेते किं भोजनार्थमतिथयो भविष्यन्ति । [^1]. 'बहुधा धिया' ख. [^2]. 'लेखाहार' क. [^3]. इदं खपाठे नास्ति । [^4]. 'शिष्यः - किं तस्स एव्वं काइणो गमिस्सन्ति । ख. [^5]. 'व्रतिनं' ख. शिष्यः - (क) अह किं एदाणं एस सङ्कप्पो सफळो भविस्सदि । धौम्यः - न ख (ल्व ? लु) वन्ध्याभिसन्धयो भवन्ति धीमन्तः । तदधुना नियोगमनुतिष्ठ । शिष्यः - (ख) जं भअवो आणवेदि । धौम्यः - अहमपि कालिन्दीमवतीर्य निर्वर्तितनियमाभिषेकः कमण्डलुना सलिलमाहरामि । [इत्युभौ निष्क्रान्तौ ।] [^1]मिश्रविष्कम्भैः । (ततः प्रविशन्ति कृष्णार्जुनभमसेनाः स्नातकवेषधारिणः ।) कृष्णः - (भीमार्जुनाववलोक्य स्वगतम्) अहो नु कुरुकुलकुमारयोरनयोर्गुरुनियोगानुष्ठानसौष्ठवम् । तथाहि तरुणचरणपातैर्लङ्घितं वर्त्म दीर्घं परिजनकरणीयं पाणिभिः कर्म सोढम् । प्रकृतिरपि निगूढा कृत्रिमैः संविधानः किमिव हि गुरुभक्त्या दुष्करं निर्भयानाम् ॥ २१ ॥ [प्रकाशम्] कुमार भीमसेन ! वत्स फल्गुन ! सम्प्रति हि गङ्गां विलङ्घय निकटे कुरुजाङ्गलानां तीत्र्त्वा ततश्च सरयूसरितं रयेण । क्रान्त्वा च [^2]शोणमिममम्बुजरेणुशोणं प्राप्ता वयं पुरमिदं मगधेन्द्रगुप्तम् ॥ २२ ॥ (क) अथ किमेतेषामेष सङ्कल्पः सफलो भविष्यति । (ख) यद् भगवानाज्ञापयति । [^1]. 'विष्कम्भकः' ख. [^2]. 'शोणनदमम्बुज' ख. [अग्रतो विलोक्य ] अहो विभवतिरस्कृतवस्वोकसारा मगधराजधानी मुष्णाति चेतः । यैषा [^1]पृथुकटकालङ्कारैः प्रचलपताकोज्ज्वलाङ्गुलीललितैः । तुङ्गैर्ध्वजवजनिकरैः श्रियमाह्वयतीव नाकस्य ॥ २३ ॥ अर्जुनः - एवमेतत् । यथाह [^2]चाणूरमल्लमथनः । भीमः - वत्स फल्गुन ! प्राप्तं [^3]पदव्याः पर्यवसानं, नाद्यापि प्रतिज्ञायाः । अर्जुन: – तदपि नेदिष्ठं तर्कयामि । यदर्थमेव केशवोऽप्यनु [^4]चितवेषधारणक्लेशमनुभवति । [^5]तथाह्यस्य, अर्जुन: – तदपि नेदिष्ठं तर्कयामि । यदर्थमेव केशवोऽप्यनु चितवेषधारणक्लेशमनुभवति । तथाह्यस्य, पाणौ चक्रप्रणयिनि पदं पश्य धत्ते कुसुम्भं शार्ङ्गस्याधिश्रयति धनुषः स्थानमाषाढ एषः । [^3]वासोयुग्मं विलसति सितं पीतकौशेयधाम्नि प्रत्यादिष्टं सकलमपरं मण्डनं कुण्डलाभ्याम् ॥ २४ ॥ भीमः - एवमेतत् । सत्यमाह वत्स । गतो वामनरूपी यः शक्रस्यार्थे बलेर्मखम् । सोऽस्मदर्थे व्रती भूत्वा याति शत्रोर्गृहं हरिः ॥ २५ ॥ (सर्वे परिक्रामन्ति ।) [^7]कृष्ण: - (पुरोऽवलाक्य) प्रत्यासन्नं राजमन्दिरं [^8]सम्भावयामि । यतः [^1]. 'प्रकटपतकोज्ज्वला' क. [^2]. 'मल्ल' इति ख पाठेन. [^3]. 'पदव्यां' ख. [^4]. 'वेषधारी क्लेशं' ख. [^5]. 'तथाप्यस्य' ख. [^6]. 'युक्तं' ख. [^7]. 'कृष्णः' इति खपाठे नास्ति. [^8]. 'संभावयामः ।' ख. अर्जुनः- राज्ञः प्रस्थानमिति श्रूयते । तत् किं नु खल्विदम् । कृष्ण: - मन्ये दूतकथितकुपितः सम्प्रति बार्हद्रथः [^1]कुरुराष्ट्रं प्रतिष्ठासुरिति । भीमः- यमराष्ट्रं प्रतिष्ठताम् । कृष्ण: - तद् यावदचिरमद्वारेण प्रविश्य राजमन्दिरमरातिप्रस्थानप्रत्यूहमाचरामः । उभौ- बाढम् । (सर्वे परिक्रामन्ति) । कृष्ण: - ( पुरोऽवलोक्य ।) इयमास्थानशाला । कथमत्रासन्निहितो मगधराजः । तदेवं तावत् (किञ्चिदुच्चैः) भो भो राजमन्दिराभ्यन्तरचारिणः कञ्चुकीवर्षवरकिरातादयः ! क्क इदानीं वर्तते मगधराजः । (नैपथ्ये) सम्प्रत्युक्रान्तकुरुराष्ट्रप्रयाणः साङ्ग्रामिकमङ्गलग्रहणाय लोहाभिहारभवनमधितिष्ठति [^2]मगधराजः । भीमार्जुनौ - हन्त [^3]निवृत्तः सन्देहः । कृष्ण: - (नैपथ्यं प्रति) यद्येवं निवेद्यतामसुष्मै कालसमागताः केचन स्नातकातिथयो द्रष्टुकामा इति । (नैपथ्ये ) इदं निवेद्यते । कृष्ण: - तदत्रैव वयं मगधराजागमनं प्रतिपालयामः । (ततः प्रविशति निर्वर्तितनीराजनः कृतसन्नाहविधिर्गदापाणिः क्रुद्धो जरासन्धः, यथोचितव्यापारः परिजनश्च ।) [^1]. 'कुरुराष्ट्रं प्रति प्रतिष्ठासु' क. [^2]. 'महाराज: ' क. [^3]. 'निर्वर्तितः' क. जरासन्धः- (सरोषोत्कम्पम् ) मधुरिपुमथितेऽपि भोजराजे न कटुरदीप्यत कोपधूमकेतुः । मम मनसि यथा तथाद्य माद्य- त्कुरुकुलबालकदर्पजल्पितेन ॥ २८ ॥ तदचिरेण पाण्डुपुत्रा अनुभवन्तु मगधराजविरोधपरिपाकम् । (गदामुद्यम्यावलोक्य च ) । [^1]संरम्भोत्तालतालध्वजभुजमुसलास्फालनोद्दीपिताश्रिश्रेणीपर्यन्तनिर्यच्छि?मिकणकलिकारब्धनीराजनायाम् । यान्तु प्राणाः प्रणाशं मम समरमुखे भीमसेनस्य शत्रोरस्यां क्षोणीश्वराणां रणरणरणिकाभङ्गदायां गदायाम् ॥ २९॥ श्रूयते च कोदण्डविद्यासु पण्डितम्मन्यो गाण्डीवी । (परिजनमवलोक्य) धनुर्धनुः । (पुरुष: धनुरुपनयति ।) जरासन्धः खेलद्वेतालरक्षःकलहकलकलाभीलकच्छोपकण्ठाः कृष्यन्तः कायभारान प्रलयघनवटासन्निभानामिभानाम् । मद्बाणव्रातकुत्तोद्भटसुभटमुखाम्भोजराजविराज- त्कल्लोलोल्लासभीमाः समरभुवमसृक्सिन्धवः क्षालयन्तु ॥ ३० ॥ प्रतीहारी – (स्वगतम्) (क) अम्मो कुरुकुळणरिन्देसु जरासन्धदेवेण आमरणन्तं वेरं णिब्बद्धमासि । जरासन्धः - अहो दुरात्मनोर्वीरम्मन्ययोः कुरुकुलखेटयोर्वाचाटत्वम् । 'ऋतुरपि सुकर' इत्यादि पठति । (क) अहो कुरुकुलनरेन्द्रेषु जरासन्धदेवेन आमरणान्तं वैरं निबद्धमस्ति । [^1]. 'जमुसलहलास्फालनो' ख. प्रतीहारी - (स्वगतम्) (क) [^1]परपरक्कमपरिभावणो होन्ति वीरलोआ । जरासन्धः- [^2]तत् सर्वथा । गाण्डीविनं समरमूर्ध्नि शरैः प्रमथ्य वन्ध्यं विधाय निजनाम युधिष्ठिरस्य । माद्यद्वृकोदरविमर्दमहोत्सवेन निर्वाणमभ्युपगमिष्यति मागधेन्द्रः ॥ ३१ ॥ कियद्दूरे प्रस्थानवेला । ([^3]प्रविश्य मौ(इ)र्तिकः, पार्श्वतः पुरुषमवलोक्य च ) वातवेग ! गच्छ ब्रूहि सुताय सज्जीकृतं साङ्ग्रामिकं रथमुपस्थापयेति । पुरुषः - (ख) जं देवो आणवेदि । (इति निष्क्रान्तः ।) (प्रविश्य) काञ्चुकीयः - जयतु महाराजः । दूरादागता: केऽप्यलघुमहिमानो द्विजन्मानः । जरासन्धः - (अनाकर्णितकेन पुनस्तदेव गाण्डीविनमित्यादि पठति ) काञ्चुकीयः - (स्वगतम्) अत्यारूढप्रतिघनिघ्नान्तःकरणो महाराजः । भवतु, सविशेषं विज्ञापयामि । ( प्रकाशम् ) अद्वारेण गृहं प्राप्ताः स्नातकातिथयस्त्र यः । जरासन्धः - यथासुखमागच्छन्तु । सर्वथा सफलो मेऽद्य दिवसः । (क) परपराक्रमपरिभविनो भवन्ति वीररलोकाः । (ख) यद् देव आज्ञापयति । [^1]. 'मपटिपन्थिणो होन्ति' ख. [^2]. 'तत् इति' खपाठे न । [^3]. 'प्रविश्य' इति खपाठे न । काञ्चुकीयः आस्थानस्थाः प्रतीक्षन्ते देव देवस्य दर्शनम् ॥ ३२ ॥ जरासन्धः - [^1]हन्त! कर्तव्ययोर्विप्रतिषेधे वर्तामहे । (विचिन्त्य) सर्वथा प्राणैरपि प्रीणनीया ह्यतिथयः । तदेतान् सम्भावयामि । (इत्युत्थातुमिच्छति ) । (प्रविश्य सत्वर:) सारथिः - आयुष्मन् ! मुखरकनककिङ्किणीकराल - ध्वजपटपल्लवचुम्बितम्बुवाहः । अयमलघुतुरङ्गहर्षहेषा- प्रतिरवपूरितदिङ्मुखो रथस्ते ॥ ३३ ॥ [^2]तदारोहत्वायुष्मान् । जरासन्धः - अयमहमारूढ एव भगवतो भूमिदेवानभिलषितेन तोषयित्वा । सारथिः - किञ्चिदन्यद् विज्ञाप्यमस्ति । जरासन्धः - ब्रूहि । सारथिः - आयुष्मन् ! रथवाजियोजनवेलायां खलु तार्क्ष्यध्वजाभिख्यां स्यन्दनस्याशु सन्दधत् । क्रूरः पत्ररथः केतौ निलीयोदपतद् द्रुतम् ॥ ३४ ॥ जरासन्धः - (स्वगतम्) अहो क्रूरता निमित्तस्य । (प्रकाशम् ) भवतु । सुकरप्रतीकारमेतत् । सारथिः - यथाज्ञापयत्यायुष्मान् । ( इति प्रस्थितः । ) जरासन्धः - ( उत्थाय निमित्तं सूचयित्वा) स्खलति चरणं वृन्तप्रान्ते विलंबिनि (याससं ? वाससि) स्फुरणाविधिना वामं चक्षुः गतिं प्रतिषेधति - [^1]. 'हन्त' इति खपाठे न । [^2]. 'तदात्वारो' क. इदमपि विना हेतोश्चेतः कुतोऽपि विघूर्णते । किमभिलषितं दैवस्याहो निरदअङ्कुशरंहसः ॥ ३५ ॥ [^1](निश्चित्य) तदेतद् दुर्निमित्तजातं भगवत्तां भूमिदेवानामातिथ्यकल्पनेन [^2]प्रशममुपनयामि । (इति परिक्रामति) । काञ्चुकीयः - देव । इत इतः । इयमास्थानशाला । एतेऽप्यतिथय । कृष्णः - (राजानमवलोक्य स्वगतम्) किं मूर्तोऽयं रसानां प्रसरति निचयो वीररौद्राभुतानां अर्जुनः - (स्वगतम्) निःसीम्नां विक्रमाणां किमयमभिनवो रूपवान् सन्निपातः । भीमः - (स्वगतम् ) किं तावन्मर्त्त्यमूर्त्त्या जगति परिणतो गर्वसर्वस्वमारः सर्वे - (स्वगतम्) सोऽयं (चे? द्वे)ष्टाप्यभीष्टः सुहृदिव हृदयं दानकृष्णुर्धिनोति ॥ ३६ ॥ जरासन्धः - ( अग्रतोऽवलोक्य) [^3]दिष्टयानुगृहीतमिदमस्मद्भ वनमतिथिपुरुषोत्तमसमागमेन । कृष्णः - (स्वगतम् ) किं परिज्ञातोऽस्मि । जरासन्धः - ( सविनयम् ) स्वागतमतिथिमुख्येभ्यः । भीमार्जुनौ - (स्वगतम्) अहो अतिथिसत्कारपारतन्त्र्यं बार्हद्रथस्य । कृष्णः - (स्वगतम्) नन्ववसरोऽयमाशीर्वादस्य । तदेवं तावत् । (प्रकाशम् ) भीमशत्रुकृतान्तस्य धर्मराजनिवेशनम् । प्रस्थितस्य महीपाल ! पन्थानः सन्तु ते शिवाः ॥ ३७ ॥ [^1]. '(निश्वस्य) ' ख. [^2]. 'प्रशमनं' ख. [^3]. 'अस्मदिति' खपाठे न । जरासन्धः - कृतार्थोऽस्मि । उभौ - (जनान्तिकम् ) अहो [^1]आशीर्वादचातुर्यकौशलं केशिसूदनस्य । (राजानं प्रति) अस्य चिरन्तनस्य मुनेराशिषोऽभिप्रायः सिध्यतां (?) ते । जरासन्धः - [^2]उपविशन्त्वमीष्वासनेषु । (सर्व उपविशन्ति) । जरासन्धः - (कृष्णं निर्वर्ण्य स्वगतम्) प्रायः सोऽयं नयनविषयं क्वापि मे प्राप्तपूर्वः (अर्जुनमवलोक्य) कस्याप्येष प्रकृतिसुभगो भाग्यभाजस्तनूजः। (भीममभिवीक्ष्य) पीनस्कन्धः पृथुलनयनः कोऽप्ययं बाहुशाली (समाधाय) ये वा के वा [^3]वपुरनुचितं वेषमेते वहन्ति ॥ ३८ ॥ [^4](निरूप्य) अपूर्वोऽयं स्नातकसमुदाचारः । यदद्वारेण प्रवेशः सव्येन पाणिना यष्टिधारणं बहिर्वाल्यत्वं च । भवतु अर्हणानन्तरं प्रष्टव्यम् । अर्जुन: - (स्वगतम् ) सोऽयं मायामनुष्यस्य प्रभावो भुवनप्रभोः । यद्रिपुर्निपुणोऽप्येनं न नितुं प्रगल्भते ॥ ३९ ॥ जरासन्धः – (कञ्चुकिनं प्रति) गच्छ ब्रूहि विमलमेधसे पुरोधसे । कञ्चुकी – देव ! किमिति । जरासन्धः - शीघ्रमागत्यातिथयो यथाविधानमर्हणीया (इत्यर्धोक्ते) कृष्णः - मा मा मगधराज ! [^1]. 'र्वादकौशलं' ख. [^2]. 'उपविशन्तामिष्ठासनेषु' ख. [^3]. रनुपमं' क. [^4]. (निपुर्ण निरूप्य)' ख. (कथञ्चिदनुसन्धाय प्रकाशम्) गन्धर्वैर्वा भुजगपतिभिर्दैवतैर्दानवैर्वा रक्षोभिर्वा प्रमथपतिभिर्दिग्गजैर्भूमिपैर्वा । व्यस्तैरेभिर्युगपदथवा युष्मदिच्छानुरूपं योद्धुं वाञ्छाभ्यपि भृगुपतौ न प्रहर्तास्मि विप्रे ॥ ५८ ॥ नारदः - सदृशमेतद् भवतः । कृष्णः - न खलु वयं मगधराजस्य वाञ्छानुकूलाः । जरासन्धः - यद्येवं यैः समराङ्कणमवतरामि । कृष्णः - नन्वस्माभिरेव । जरासन्धः - मदांभेहितेषु कतमे भवन्तः । कृष्णः - यतमो भवान् । जरासन्धः - अपि यूयं क्षत्रियाः । कृष्णः - यथावगतं बार्हद्रथेन । जरासन्धः - विशेषं श्रोतुमिच्छामि । कृष्णः अयमनिलसुतस्ते यश्चिराद् योद्धुमिष्टः कुपितबकहिडिम्बध्वंसनो[^1] भीमसेनः । अयमपि कपिकेतुर्धूमकेतुः परेषां तव रिपुरभियोज्यो मध्यमः पाण्डुपुत्रः ॥ ५९ ॥ (जरासन्धः हर्षमभिनीय भीमार्जुनौ पश्यति ।) नारद:- (सर्वानवलोक्य) सर्वथा सर्वस्यापि रसान्तरेष्वस्वतन्त्रमन्तःकरणं भविष्यति । तथाहि, [^1] 'ध्वंसिता' ख. कृष्णः - (दृष्टिक्षेपेण वारयित्वा) न खल्वनिर्धारितवीरप्रतिवीरसमयं द्वन्द्वयुद्धं प्रशंसन्ति । जरासन्धः - भगवन् ! देवर्षे ! अनुजानीहि माम् । नातः परमप्रियाणामहं सोढा । नारदः - भो वीरवृन्दिष्ट ! ननु धर्म्यस्तवायं विधिः । अनुज्ञात एव । यतः, ललाटनिःसृतं रक्तं रञ्जपत्यधरं यदा । सङ्ग्रामयज्ञे तद्राज्ञां सोमपानमिति स्मृतिः ॥ ७१ ॥ जरासन्धः - धन्योऽस्मि । शिष्यः – (क) अम्भो ! महेसिणो कलहवड्ढणवेअड्ढम्[^1] । मम उण एदाणं वअणसंभमेण उब्भन्तं विअ हिअअम् । कृष्णः - भो मगधराज ! त्रयाणामस्माकं कतमस्ते रोचते प्रतिवीरः । जरासन्धः- (सजुगुप्सम्) द्वयोरिति वक्तव्ये त्रयाणामित्यात्मानमपि मया सह सम्मर्दक्षमं निर्दिशसि । तदिदमसाम्प्रतम्[^2] । यतः, नाहं बाणो न खलु नरको नापि केशी न कंस- श्चाणूरो वा न च स ( डिभको? हि बको) नाप्यरिष्टो न हंसः । - (क) अहो ! महर्षिणः कलहवर्धनवैदग्ध्यम् मम पुनरेतेषां वचन सम्भ्रमेण उद्भ्रान्तमिव हृदयम् । - [^1] 'कलहप्पाडवेअड्डं' ख. [^2] 'तदेव सांप्रतम्' ख. गात्रेणाहमकृत्रिमोल्बणमहामांसच्छटाविक्रय- क्रीडाडम्बरमाचरामि समरे नक्तञ्चरेभ्यश्चिरम् ॥ ७५ ॥ भीमः – (कृष्णार्जनाववलोक्य ) वयस्य वृष्णिवीर! वत्स धनञ्जय ! इदमुत्थीयते । सम्प्रत्यवसरः[^1] पौरुषस्य । कृष्णः – निष्प्रतिवीरं वीर(य)स्व । अर्जुनः – विजयिनं[^2] त्वां पश्येयम् । भीमः - (उत्थाय) निभृतं वयस्यवत्साभ्यां स्थीयताम् । (कतिचित् पदानि गत्वा) भगवन् ब्रह्मसम्भव! नमस्ते । जरासन्धः - (अञ्जलिं बद्ध्वा) भगवन् । प्रणामः प्रतिगृह्यताम् । (इत्युभौ प्रणमतः ।) नारदः - विजयकीर्तिभाजनं भवेतां भवन्तौ । ( उभावुत्थाय परिकरं[^3] रचयतः ।) जरासन्धः - एष सज्जोऽस्मि । सज्जीभव[^4] । भीमः – ननु नित्यमेव[^5] सङ्ग्रामसज्जो भीमसेनः । जरासन्धः – तदितः सकलगीर्वाणगन्धर्वयक्षराक्षसदनुजलोक[^6]लोचनमहोत्सवायमानसमरसम्भवसमुचितमल्लयुद्धाक्षवाटमवतरावः[^7] । भीमः - बाढम् । (इत्युभौ साटोपं निष्क्रान्तौ । ) [^1] 'ननु संप्रत्य' ख. [^2] 'जयिनं' ख. [^3] 'परिकर बद्ध्वा' ख. [^4] 'सज्जीभव' इति खपाठे न. [^5] 'सत्यमेव' क. [^6] 'लोचनोत्सवा' ख. [^7] 'समरसंरम्भसंमर्दिमल्ल' ख. नारदः - (विचिन्त्य) भवतु[^1] विज्ञातम् । तदेतद् युद्धं[^2] युद्धमिति तूर्णमाकर्ण्य ससम्भ्रमोदूघूर्णनतिरस्कृतमहार्णवप्रवाहं[^3] सन्नद्धं[^4] मगधराजसैन्यमित एवाभिवर्तते । कृष्णः - (पुरोऽवलोक्य) अहो प्रागल्भ्यं बृहद्रथसुतवरूथिनीमण्डलस्य । यतः, सम्मूर्च्छत्समदचमूमतङ्गज्ञानां क्ष्माचक्रं चरणभरेण दूरनम्रम् । उद्वोढुं कथमपि[^5] दिग्गजा: क्षमन्ते व्याभुग्रोन्नमदुरुकन्धरैः शिरोभिः ॥ ८१ ॥ अर्जुन: - (ससम्भ्रमम् ) वयस्य वासुदेव ! किमावयोगयुधग्रहणवेला वर्तते । कृष्णः - न हि द्वन्द्वयुद्धसीमानभिज्ञो[^6] जरासन्धः । नारदः - एवमेतत् । न युगान्तमन्तरेण दहति दिनकरो जगन्ति । (नैपथ्ये) किं किं स्यन्दनडम्बरेण रथिनः ! स्थेम्नाध्वमाधोरणाः ! दूरे सीदत सादिन: ! किमिह वः सम्पत्तपः पत्तयः !। सर्वे - साधु जरासन्दः । साधु । सत्यसन्धः खल्वसि । [^1] 'भवतु तावत् जातं तदेव' ख. [^2] 'युद्धमिति तूर्ण' क. [^3] 'उद्घूर्ण तिरस्कृत' क. [^4] 'सन्नद्धमगध' क. [^5] 'कथमिव' ख. [^6] 'युद्धप्रकारसीमा' ख. योर्निष्प्रतिबन्धः समरसंरम्भः संवृत्तः तद्वयमप्यार्यस्यारिष्टतातये समराङ्कणनिकटवर्तिनो भवामः । यतः, स्वहस्तसाध्येऽपि जनस्य कर्मणि प्रहर्षहेतुः सुहृदां समागमः । लघूकरोत्याशु निदाघमुल्बणं समीरणो लब्धघवित्रधूननः ॥ ८४ ॥ सर्वे- तथा । ( इति परिकामन्ति ।) कृष्ण: – (पुरो निर्दिश्य) अहो नु खल्वनयोरनियतजयपराजय- मखिललोकविस्मापनमनुज्झितमल्लयुद्धसमयमाचेष्टितम् । तथाहि - निर्धुतदन्तदलनं नितरां निरस्त- केशग्रहं नखविलेखनमार्गशून्यम् । घोणाभिघातविमुखं रहिताक्षिरोधं चित्रं प्रवृत्तमुभयोर्भयदं नियुद्धम् ॥ ८५ ॥ अर्जुन: - एवमेतत् । तथााह्यनयोः आकर्षणभ्रमणचारविकर्षणानि संरोधनिष्क्रमणरक्षणवञ्चनानि । संव्यूहनोद्वहनवेष्टनवेल्लनानि[^1] सम्मोहयन्ति नयनैः सह मानसं नः ॥ ८६ ॥ नारद: - (विलोक्य सहर्षम्) दिष्टया साम्प्रतमवन्ध्यः संवृत्तः प्रजापतेरस्मन्नयननिर्माणयत्नः । यदनयोरस्मदग्रत एव, निबिडगरुडपक्षाक्षेपवित्रस्तलोकं कलितधवलशङ्खं प्रस्फुच्चापयष्टि । [^1] 'संव्यूहनोपहनवेष्टन' क. [^2] 'पक्षं' ख. नारदः - (सविशेषमालोक्य) ह ह ह, घोरोद्गारश्वसनविसरच्छोणिताम्भःकणाना- मासारेण क्षणमरुणयन्नन्तरिक्षस्य कुक्षिम् । बाहयन्त्रप्रगुनघटनोत्पिष्टपृष्ठास्थिभङ्ग- ध्वानत्रस्यत्रिभुवनमरिर्भीमसेनेन[^1] भग्रः ॥ ९७ ॥ कृष्णः - [^2](विलोक्य) भगवन् ! न[^3] खलु भग्नः; किन्तु भुग्रोऽयमस्माकं मनोरथः । यतः, जीवितापायपर्यन्तं भङ्क्त्वा भीमेन भूतले । एष क्षिप्तोऽपि सुप्त्वेव प्रत्यर्थी पुनरुत्थितः ॥ ९८ ॥ अर्जुनः – (सवेदम्) अहो अद्भुतम् । यतः, वीर्यादार्येण भग्नोऽपि पुनरुत्थाय युध्यति । (सहर्षम्) भन्नः पुनरयं दिष्टया (सानुतापम्) धिशेष पुनरुत्थितः ॥ ९९ ॥ नारदः भोश्चित्रं जगति ममापि चक्षुषोः प्रागीदृक्षः समरविधिः परोक्षभृतः । कृष्णः - धिङ्माया किमियमसौ कथं मयि स्यात् । अर्जुनः - किं तावत् प्रभवति नान्तकोऽप्यमुष्मै ॥ १०० ॥ - [^1] 'प्रगुणनघनोत्पिष्ट '- ख. [^2] '(विलोक्य )' इति कपाठे न. [^3] 'न खलु न खलु भग्नः शत्रुः' ख. अपि पश्यतो मम भवन्तमग्रतो हृदयं न विश्वसिति तात! ते वधम् ॥ १०८ ॥ अमात्यः- कुमार ! अलमतिपरिदेवनदैन्येन[^1] । सहदेवः - (अनाकर्ण्य साश्रुपातम्) प्राणास्तृणानि वपुषि प्रणयः परस्ताद् वीरस्य ते भवतु निस्पृहता च राज्ये । मामङ्कलालितमनाथमपोह्य बालं लोकान्तरं कथय तात! कथं गतोऽसि ॥ १०९ ॥ ( इति मूर्च्छति ।) (सर्वे करुणं नाट्यन्ति ।) अमात्यः - कुमार ! समाश्वसिहि समाश्वसिहि । (सहदेवः पुनस्तदेव पठति ।) अमात्यः - नन्वशोच्यस्ते[^2] वीरवर्गोचितां गतिं गतो जनकः । तदिदानीं त्वमपि कालोचितं प्रतिपद्यस्व । सहदेवः - का प्रतिपत्तिरितः[^3] परम् । अमात्यः - नन्ववगतषाड्गुण्यतत्त्वो भवान् । किमत्र मां पृच्छति । सहदेवः – नाहं शोकातुर: किमपि वेत्तुं प्रगल्भः । [^1] 'परिवादन' ख. [^2] 'कुमार नन्वशो' ख. [^3] 'अतः परम्' ख. [^4] 'ननु' इति खपाठे न. सहदेवः - (सर्वानवलोक्य) वासवाद्वसुमस्माच्च बृहद्रथमतः परम् । पितरं मे गतः सोऽयं स्यन्दनः प्रतिगृह्यताम् ॥ ११० ॥ (इति रथमर्पयित्वा प्रणमति ।) सर्वे - (रथं प्रतिगृह्य कुपारमुत्थाप) एवमेव धर्मराजानुवृत्तिनिपुणो राजश्रियः परिणायको भव । सहदेवः - अनुगृह्यतामयं मित्रजनो नियोगदानेन । कृष्णः पाण्डवात् सहदेवात् त्वमभिन्नोऽस्मामिरीक्ष्यसे । तदेष प्रेष्यसे बन्धान्मुच्यन्तां मदिनीभृतः ॥ १११ ॥ सहदेवः – (अमात्यं प्रति) अनुष्टीयतां नियोगः । अमात्यः - यदमिरुचितं भवद्भ्यः । सर्वे - सहदेव! त्वमपि पित्रे कृतयथोचितकृत्यः सिंहासनमशून्यं कुरु । (सहदेवस्तूष्णीमधोमुखस्तिष्ठति ।) भीमार्जुनौ – कुमार! अलं वैक्लब्येन । सर्वथाजातशत्रोर्मित्रमसि । सहदेवः - तथा । ( इति सामात्यो निष्कान्तः ।) नारदः - कमलासनोपस्थानसमयो मां त्वरयति । तद् भवनन्तोऽप्येतेन रथेन[^1] धर्मराजमुपतिष्ठन्तु । [^1] 'रथेन जयिनं धर्म' ख. सर्वे - यदादिशति शतानन्दसम्भवः । (इति प्रणम्य ) भगवन् ! पुनरप्ययमेवमेव स्मर्तव्यः शिष्यवर्गः । (नैपथ्ये) जयति भुवनरक्षादीक्षितः शार्ङ्गपाणिर्जयति 'विजयकीर्त्तिः[^1] पौरवो राजवर्यः नारदः - एषा नभश्चरैर्गीयते भवतां भोगावलिः । (नैपथ्ये) एष वृद्धो महामात्यो विज्ञापयति अपगतनिगलानां साम्प्रतं भूमिपानां स्वसदनमभिगन्तुं दीयतामभ्यनुज्ञा ॥ ११२ ॥ सर्वे - यथासुखं[^2] गच्छन्तु । नारदः - किं वो भूयः प्रियमुपकरोमि । सर्वे - किमतः परमुपकर्तव्यमस्ति । यन्निर्वोढा कुरुपरिवृढः साम्प्रतं सप्तनन्तुं यच्चास्माभिर्न्यवधि मगधग्रामणीः सङ्गराग्रे । यच्चेदानीमवनिपतपः स्वस्तिमन्तः समस्ता- स्तत् किं ब्रूमो भवदुपगमानुग्रहो ह्यत्र हेतुः ॥ ११३ ॥ तथापीदमस्तु – [^1] 'विशदकीर्तिः' ख. . [^2] '(सहर्ष) यथा' ख. । (भरतवाक्यम्) वंशोदग्रे गुणिनि रमतां रत्नगर्भा नरेन्द्रे शश्वच्छम्भोश्चरणकमले भक्तिमानस्तु लोकः । सार्धं मित्रैरविरतरसान् स्वादयन्तः कवीनां वाणीगुम्फान् सततगुणिनः सज्जनाः सन्तु कामम् ॥ ११४ ॥ [ इति निष्क्रान्ताः सर्वे । ] भीमपराक्रमं नाम नाटकं समाप्तम् । ॥ पार्वतीपरमेश्वराभ्यां नमः ॥ । शुभमस्तु ।