॥ श्रीः ॥ शतानन्दकवीन्द्रसूनुविरचितं भीमपराक्रमम् । गौरीबाहुलताशङ्खवलयांशुभिरञ्जसा । कृष्णोऽप्यर्जुनतां नीतः कण्ठो भीमस्य पातु वः ॥ १ ॥ (नान्द्यन्ते ततः प्रविशति सूत्रधारः।)
सूत्रधारः - (सहर्षम्) अयमपूर्वाभ्युदयवृत्तान्तः[^1] श्राणसमायै समुपहर्तव्यः । यतः —
उत्सवस्य परा काष्ठा सूक्तिलाभो हि तद्विदाम् । सुहद्भिः[^2] संविभागेन स सहस्रगुणायते ॥ २ ॥ (परिक्रम्य नेपथ्यं प्रति)
आर्ये ! यदि कल्याणाकर्णनकुतूहलि ते श्रवणयुगलम्, तदितस्तावदागम्यताम् ।
(प्रविश्य)
नटी – (क) एस हि्म अवहिदा । अय्यो कहेदु [^3] । (क) एषास्म्यवहिता । आर्यः कथयतु । [^1] 'भ्युपूर्वाभ्युदय' ख. [^2] 'सुहृद्भ्य: ' ख. [^3] 'कहहिदु' ख.
सूत्रधारः – आर्ये ! ननु स्मरसि यत्[^1] सिद्धार्थकनाम्ना[^2] त्रैकाल्पविदुषा कार्तान्तिकेन मां प्रत्यादिष्टम् —
करिष्यते भीमपराक्रमाख्यं
काव्यं शतानन्दकवीन्द्रसूनुः ।
मनीषिणां संसदि तत्प्रयोक्ता[^3]
त्वं सम्पदां धाम भविष्यसीति[^4] ॥ ३ ॥
नटी – (क) जाणामि[^5] जाणामि एदम् । ता किं दाणि कइ णा तं णिबन्धणं समाविदम् ।
सूत्रधारः - आर्ये ! समापितं समर्पितं च मम करे, तदिदमुक्तं च —
अणुमपि गुणमुचैः कुर्वतां पण्डितानां
विवृणु तदिदमग्रे नेतरेषां कदाचित् ।
सफलयति यथाब्धौ शुक्तिरभ्रस्य वृष्टिं
प्रभवंति न तथा[^6] हि क्वापि शम्बूकयूथम् ॥ ४ ॥
अपि च —
ये सूक्तीन्दुकलाकलङ्कजनका ये गाढगर्वज्वरा ये वा केवलतर्ककर्कशघियः साक्षाच्च ये श्रोत्रियाः । ये च द्वेषमषीमलीमसधियस्तान् प्राज्ञगोष्ठीरसप्रौढप्रावृडवग्रहान् परिहरन् वाचां[^7] प्रचारं कुरु ॥ ५ ॥ (क) जानामि जानाम्येतद् । तत् किमिदानीं कविना तन्निबन्धनं समापितम् । [^1] 'यद्' इति खपाठे नास्ति । [^2] 'सिद्धाकनाम्ना' क. [^3] 'तत्प्रयोगात्' ख. [^4] 'करिष्यसीति' ख. [^5] 'द्वितीयं 'जाणामि' ख. पाठे नास्ति । [^6] 'तथापि' ख. [^7] 'वाचः प्रचारं' ख. नटी – (क) अय्य! सोहअम् । अह्माणं मणोरहकप्पपाअवो फुप्फिओ ।
सूत्र - आर्ये ननु फलित एव । यतस्तदभिनयकुतूहलिन्या विद्वत्परिषदा साम्प्रतमित्थमाज्ञप्तः[^1] ।
काव्यकोशनिगूढानि ग्रथितानि नवैर्गुणैः ।
उद्घाट्य रसरत्नानि त्वं नः सन्दर्शयेरिति ॥ ६ ॥
नटी – (ख) अणुग्गहीद ह्म [^2]। (विमृश्य सश्लाघम्) सव्वदा सिलहणिज्जं[^3] एदं णिबन्धणं । जेण सच्चवअणो आदेसओ, कित्ति भाअणं कई, पेख्खणविणोदिणो अय्यमिस्सा सफळमणोरहा अह्मे (वि) संवुत्ता ।
सूत्र – आर्ये [^4] ! नन्वेवम्
अपि स्वार्थे प्रवृत्तानां धीमतां सदुपक्रमः ।
बहूनामुपकाराणां यान्ति कारणतां फले ॥ ७ ॥
(नेपथ्ये )
भद्र ! कल्याणभाजनं भूयाः यतो भद्रमिदमुदाहरसि । (क) आर्य शोभनम् । अस्माकं मनोरथकल्पपादपः पुष्पितः । (ख) अनुगृहीताः, स्मः । सर्वथा श्लाघनीयमेतद् निबन्धनम् । येन सत्यवचन आदेशकः कीर्तिभाजनं कविः, प्रेक्षणविनोदिनः आर्यमिश्राः, सफलमनोरथा वयमपि संवृत्ताः । [^1] 'सांप्रतमहमिदमाज्ञप्त:' ख. [^2] 'हिद ह्मि' ख. [^3] 'सिळाहणिज्जं' ख. [^4] 'आर्ये' इति खपाठे नास्ति । [^5] 'इदम्' इति खपाठे नास्ति । नटी – (क) अय्य! को एसो तुह्माणं वअणं अहिणन्दइ ।
सूत्र - (विलोक्य) आर्ये ! एष खलु भरतकुलधुरन्धरस्य धर्मराजस्य पुरोहितो धौम्योऽस्मद्वचनं[^1] श्लाघयान्नित एवाभिवर्तते । तदावामनन्तरकरणीयेषु भरतान्[^2] नियोक्तुमितो गच्छावः ।
(इति निष्क्रान्तौ ।)
स्थापना ॥ (ततः प्रविशति धौम्यः ।)
धौम्यः - (सश्लाधम्) 'अपि स्वार्थे प्रवृत्तानां -' इति चतुरमुपन्यस्तम् । तथाहि ज्येष्ठपाण्डवस्यायमारम्भः ।
निष्पत्तौ राजसूयस्य बन्धमोक्षे च भूभृताम् ।
भीमस्य च प्रतिज्ञा(भ्युल?नुल्ल)ङ्घने मूलतां गतः ॥ ८ ॥
तत् सर्वथा मयाप्यमुष्य निष्पत्तये यथाशक्ति प्रयतितव्यम् । नेपथ्यं प्रति) वत्स ! मेधातिथे ! । (प्रविश्य )
शिष्यः- (ख) अयह्मि ।
धौम्यः - वत्स ! कष्टमिदं पारतन्त्र्यं नाम । तत्रापि,
-
(क) आर्य । क एष युष्माकं वचनमाभिनन्दति ।
(ख) अयमस्मि ।
-
[^1] 'मद्वचनं' ख.
[^2] 'भरतं' ख.
[^3] 'नैपथ्यं' ख.
नृपाणां[^1] कल्याणं विषदुपगमे प्रार्थ्यमनिशं
विपर्यासे दैवान्जगति विततं सत्यमयशः ।
परार्थे भर्तव्यः पशुभिरिव भारः खलु महा-
नहो पौरोहित्यं न च भवति भोगो न च तपः ॥ ९ ॥
शिष्यः - (क) सुठ्ठु भअवं भणादि ।
धौम्यः - वत्स! साधवः सर्वप्रकारेणाप्यनुग्राह्या इति प्रतिपन्नपाण्डवपौरोहित्यभारा वयं वर्तामहे । सम्प्रति च तत्प्रत्ययादहं रहसि राज्ञा विज्ञापितः । यदुत[^2] जनार्दनवृकोदरधनञ्जयानामविलम्बितमनुष्ठीयतां प्रास्थानिकं शान्तिकर्मेति । तदचिरेणैव[^3] समित्कुशादीनि होमसाधनानि सिद्धार्थकदूर्वायवाङ्कुरगोरोचनाप्रभृतीनि माङ्गलिकानि सम्भावय[^4] ।
शिष्यः – (ख) भअवं ! अविण्णादवृत्तन्तो पुच्छामि । किं दाणिमैदेहिं उव्वक्कन्तम् ।
धौम्यः - वत्स ! महान् खलु कार्यभारः i
शिष्य:- (ग) तं कहेदु भअवम् ।
धौम्यः - बालः खल्वसि । रजमन्त्रस्तु[^5] चौर्यार्जितद्रविणसञ्चय[^6] इव न सुखप्रकाश्यो भवति । तथापि त्वामाभ्यन्तर इति किञ्चिन्निवेद्यते ।
शिष्यः - (घ) अणुग्गहिदो ह्मि । (क) सुष्ठु भगवान् भणति । (ख) भगवन् ! अविज्ञातवृत्तान्तः पृच्छामि । किमिदानीमेतैरुपक्रान्तम् । (ग) तत् कथयतु भगवान् । (घ) अनुगृहीतोऽस्मि । [^1] 'नराणां' ख. [^2] 'तदुत' ख. [^3] 'तन्नचिरमेव' ख. [^4] 'संपादय' ख. [^5] 'राजमन्त्रे' ख. [^6] 'द्रव्य' ख. धौम्यः - (समन्तादवलोक्य) नात्र कश्विदन्यो जनः । तद्विस्रब्धं श्रूयताम् ।
शिष्यः - (क) अवहिदो ह्मि ।
धौम्यः - एकदा तु निर्वर्तितदिवसमुखकृत्ये यथोचित सम्भावनापरितोषितभृत्ये नमभरपतिशिरःपरम्परावतंसितचरणे पौरवाभरणे सकलजगदानन्दने पाण्डुनन्दने सह सुहृद्भिर्विविधविनोदनपेशलं दर्शितमयकौशलं चतुरविलासिनीसञ्चारितचारुचामरमच्छीतलं मणिमयसभातलं रुचितुलितपञ्चबाणे सम्यगलङ्कुर्वाणे,
किमिदमिति जनानामक्षिविक्षोदहेतुं[^1]
विसविदलवलर्क्षं विक्षिपन् दिक्षु तेजः ।
तरुणपवनकोणास्फालवचालवीण:[^2]
परिषदमभिपेदे नारदस्तां नमस्तः ॥ १० ॥
शिष्यः - (ख) अम्मो[^3] विह्मअणिज्जं खु जुहिट्टिलस्स माहव्वं । जदो एआरिसाणं वि महम्माणं अभिगमणिज्जो वट्टइ ।
धोम्य:- किमुच्यते । पाण्डवज्येष्ठो युधिष्ठिरः खल्वयम्[^4] । अपि च,
धम्र्या प्रवृत्ति र्जगतां हिताय सम्बन्धि मित्रं मधुकंटभारिः । लोकोत्तरं भ्रातृषु यस्य हार्दं काः सम्पदो न स्पृहयन्ति तस्मै ॥ ११ ॥ (क) अवहितोऽस्मि । (ख) अहो ! विस्मयनीयं खलु युधिष्ठिरस्य माहात्म्यम् । यथा एतादृशानामपि महात्मनां अभिगम्यो वर्तते । [^1] 'अक्षिनिक्षेपहेतुं' ख [^2] 'वाचालवीणं' ख. [^3] 'अह्मे' ख. [^4] 'खल्वव्ययम्' क. शिष्यः - (क) तदो तदो ।
धौम्यः - ततः स भगवानजातशत्रुणा यथोचितामपचितिं [^1] लम्भितः समुपविष्टश्च विष्टरे तदेतत् सन्दिदेश ।
त्रिविष्टपसदां तुष्टयै पितुः पाण्डोर्नियोगतः ।
राजसूयं तवाहर्तुं वध्यो मगधराडिति ॥ १२ ॥
शिष्यः - (ख) अदिमहन्तो खु णिओअभारो । तदो तदो ।
धौम्यः - ततश्च महान्[^3] प्रसाद इति तभियोगं निजमकुटशिखरमारोपयति[^4] भीमाग्रजे स तपोनिधिस्तिरोदधे ।
शिष्यः - (ग) मण्णे तस्स कलहप्पिअस्स मुणिणो एसो अंभिप्पाओ। जइ[^5] जुहिट्टिरो राजसूअं उपक्कमिस्सदि । तदो पण्डुपुत्ताणं सअलराअमण्डलेण सद्धं इदो तदो संपहारा[^6] वट्टिस्संति ।
धौम्यः - (विहस्य) वत्स ! स खळु भगवान् परमार्थतिरोहितरजोगुणोऽपि[^7] निसर्गतो निरर्गलसुभटसम्फेटलम्पटचित्तवृत्तिरेव वर्तते । (विमृश्य ) भवतु को दोषः ।
अप्युदारचरित्राणामसारे क्वचिदादरः । कस्मै गुणाय गृह्णाति महानीलमणिस्तृणम् ॥ १३ ॥ (क) ततस्ततः । (ख) अतिमहाम् खलु नियोगभारः । ततस्ततः । (ग) मन्ये, तस्य कलहप्रियस्य मुनेरेषोऽभिप्रायः । युधिष्ठिरो राजसूयमुपक्रमिष्यति । तदा पाण्डुपुत्राणां सकलराजमण्डलेन सार्धं इतस्ततः संप्रहारा वर्तिष्यन्ते । [^1] 'यथोचिंतमुपचितिमुपलम्भितः' ख. [^2] 'विष्टरे सदे' ख. [^3] 'महाप्रसाद:' ख. [^4] 'मकुटभार' ख. [^5] 'जइ' इति कपाठे नास्ति । [^6] 'अवस्सं संप' ख. [^7] 'परमार्थविज्ञानतिरोहित' ख. शिष्यः - (क) तदो तदो ।
भौम्यः - ततस्तत्कालमेवाजिहीर्षता पुरुषमेधं मगधराजेन प्रीतो क्चो हरः । रे रे पाण्डुनन्दन !,
बाणश्रेणिकरालकार्मुकमहःकिर्मिरदोर्मण्डल-
व्यापारप्रतिषिद्धवैरिवनिताधम्मिल्लमाल्यार्पणः ।
[^1]जन्योद्योगपरङमुखे नृपगणे स्वस्मै प्रतापाय यः
सङ्घामाग्रसमग्रसम्प्रदभरप्रत्यर्थिने कुप्यति ॥ १४ ॥
स जरासन्धदेवस्त्वागाह
नृपविपशुसहस्रसाध्यसीमा
पुरुषमखो भविता भवस्य तुष्ट्यै ।
[^2]तदुपहर करं ममोचितं वा
भज [^3]भकरालयमन्धकैः समं वा ॥ १५ ॥
शिष्य: - (ख) अहो अवहीरिअसव्वलोओ गव्वगरिमा माघहस्स । तदो तदो ।
धौम्यः - ततश्च तदाकर्ण्य मगधराजनिगलितनिखिलक्षत्रियपरित्राणाय किमपि चिन्तयत्यधिगतनये [^4]तपस्तनयेऽनुचिताकर्णनघूर्णमानरोषकलुपीकतेक्षणोत्कया तत्क्षणमिव दिधक्षति जगत्रयं बलतुलितमहासेने भीमसेने, गुरुनियोगपूर्वपरावरप्रतीकारसम्पादनाकुले नकुले, द्विषदनादरतिरोहितरोषमीषदपहसति विनयनन्दितनरदेवे सहदेवे राजानुमत्या कुमारफंल्गुनेन तदिदं प्रत्यभिहितो दूतः ।
-
(क) ततस्ततः ।
(ख) अहो अवधीरितसर्वलोको गर्वगरिमा मागधस्य । ततस्ततः ।
-
[^1]. 'अद्योद्योगः' क.
[^2]. 'तदुपनय करं' ख.
[^3]. 'मकराकरमन्धकैः' ख.
[^4]. 'तवागाकर्णन' . ख.
क्रतुरपि सुकरो मुदे स्मरारे-
र्नरपतयः पशवश्च तेन कार्याः ।
यदि न मृगयते यमस्य तुष्टयै
समरमखे मगधेश्वरं पशुत्वम् ॥ १६ ॥
शिष्यः - (क) सरिसं कुरुकुलालङ्कारस्स पुरन्दरतणअस्स । तदो तदो ।
धौम्यः - ततश्च पुनरपि रिपुदूतेन दर्पोदग्रमिदमुदग्राहि । रे रे कुमाराः ! अनाकलितपरात्मसारोऽयमारम्भो भवताम् । के यूयं जरासन्धदेवे वैरमनुसन्वातुम् । तथाहि
आज्ञामास्थाय केचिद्दधति निजपदे स्थास्नुतां क्षुण्णपक्षाः
[^1]पर्यस्ताः सन्निवेशाद् दिशि दिशि