कौटिलीयमर्थशास्त्रम् प्रथमो भागः विनयाधिकारिकं नाम प्रथममधिकरणम् प्रथमोऽध्यायः [मङ्गलम्] ॥ अर्थशास्त्रम् ॥ ॐ नमः शुक्रबृहस्पतिभयाम् । ॥ टी० गणपतिशास्त्रिभिः विरचिता ॥ ॥ श्रीमूला ॥ विघ्नेशं देवतां वाचं प्रणिपत्य गुरूनपि । व्याख्यानमर्थशास्त्रस्य कौटिलीयस्य कुर्महे ॥ अथ निखिलविद्याविचक्षणः स्वबुद्धिसामर्थ्यापहृतनन्दराज्यसिंहासनारोपणानुगृहीतचन्द्रगुप्तः कौटिल्यचाणक्यादिपर्यायपदवाच्यस्तत्रभवान् विष्णुगुप्ताचार्यस्त्रिवर्गसम्पत्तिहेतुभूतार्थार्जनोपायोपदेशप्रधानमर्थशास्त्रमारिप्सुः पूर्वाचार्यप्रमाणलक्षणं मङ्गलमाचरति— 'ॐ नमः शुक्रबृहस्पतिभयाम्' इति । ओमिति माङ्गलिकः शब्दः । 'नम' इति प्रणामः । अस्त्वित्यध्याहारः । शुक्रबृहस्पतिभ्यां शुक्रोऽसुरगुरुः बृहस्पतिर्देवगुरुः ताभ्याम् । 'नमस्स्वस्ती' – ( २, ३, १६ )त्यादिना चतुर्थी । तौ ह्यर्थशास्त्रप्रवर्तकेष्वाचार्येषु कूटस्थाविति तत्प्रणामोऽत्यन्तमुचितः । तत्र शुक्रप्रणीतमौशनसं नाम, यत्सङ्ग्रहात्मा शुक्रनीतिः, बृहस्पतिप्रणीतं तु बार्हस्पत्याख्यमिति द्रष्टव्यम् । अत एव शास्त्रकर्तृत्वादाचार्यत्वविवक्षया तयोर्देवतात्वाविवक्षणाद् "देवता द्वन्द्वे च" ( ६, ३, २६ ) इत्यानङिह द्वन्द्वो न कृतः । ॥ श्रीराजेश्वरशास्त्रिद्राविडव्याख्याता ॥ ॥ वैदिकसिद्धान्तसंरक्षिणी ॥ मङ्गलाचरणम् श्रीगुरुचरणद्वन्द्वस्मरणं कृत्वाऽर्थशास्त्रस्य । वैदिकसिद्धान्तसंरक्षिणीति टीका सपत्रिका क्रियते ॥ ग्रन्थस्य प्रारिप्सितस्य निर्विघ्नपरिसमाप्तये मङ्गलमाचरितमुपनिबध्नाति ॐ नमः इत्यादिना । ॐकारश्चाथ शब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्वा विनिर्यांतौ तस्मान्माङ्गलिकावुभौ ॥ इत्युक्तदिशा श्रवणमात्रेण ॐकारस्य मङ्गलरूपताऽवसेया । अथवा ओमिति शुक्रबृहस्पत्योर्विशेषणम् । ब्रह्मरूपाभ्यामिति तदर्थः । शुक्रेति । भीष्मेण इदमेवौशनससम्मतमर्थशास्त्रमद्य यावत् प्रचलितमस्ति इति महाभारते उक्तत्वात् तत्समयपर्यन्तमौशनसशास्त्रस्य प्रचारनिश्चयात् सञ्जीवनीमन्त्रस्य शुक्रेणैवोपलब्धत्वाच्चादौ तन्नामग्रहणम् । शुक्रस्य अल्पाच्तरत्वात् पूर्वनिपातः इति तु जयमङ्गला । मङ्गलप्रयोजनम् एतन्नमस्कारः गुरुनमस्कारवत् भगवन्नमस्काररूपः शुक्रबृहस्पत्योः भगवत्तेजोंशरूपत्वात् सिद्ध्यति । तयोस्तदंशत्वं भगवद्गीतायामुक्तम्— पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् । ( अ० १० श्लो० २४ ) मुनीनामप्यहं व्यासः कवीनामुशना कविः ॥ ( अ० १० श्लो० ३७ ) इति। तथा च शुक्रे बृहस्पतौ च वर्तमाना भगवत्कला नमनेन प्रसन्ना सती बुद्धिस्फीतिं प्रतिभां च विस्तारयिष्यतीति सिद्ध्यति ॥ ग्रन्थकर्तरि धृतिः अत्र च मङ्गलस्य निबन्धनेन नृपतन्त्रार्थमपेक्षणीया धृतिः मन्त्रिणि ग्रन्थकर्तरि अस्तीति स्फुटीभवति । तस्याः खलु सप्तसु राज्याङ्गेषु महती आवश्यकता वर्तते । तथाहि—लोकतन्त्रपराधीनमेव हि नृपतन्त्रम् । वित्तं बन्धुर्वयः कर्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥ ( म० स्मृ० अ० २ श्लो० १३६ ) इति मनूक्तदिशा धनिकैः, बन्धुभिः, वयोज्येष्ठैः, कर्मकुशलैः, विद्यावद्भिश्च यदा मान्यो भवति तदैव तत्र नृपत्वं सम्भाव्यते । एतत्कर्तृकमान्यतायामेव च शुक्लपक्षे कला आददानः शशाङ्क इव महीपतिश्चिरं वर्धते नान्यथा । लोकतन्त्रं च संवासिमतप्राप्तिरूपमेव । लोकसम्मतत्वरूपलोकमतलाभश्च सत्वारोग्यशीलबलास्तब्धत्वाचापल्यवतामेव चिरस्थायी भवति इत्यग्रे स्फुटीभविष्यति । उक्तेषु सत्वादिगुणेषु सत्वमेव प्रधानतममभ्यर्हितमेतस्मिन् शास्त्रे तस्यैव राज्यफलहेतुत्वात् । सत्त्वं धृतिः तत्र सत्वस्वरूपं "व्यसने अभ्युदये च यदविकारकर"मिति कामन्दकीयव्याख्यायामुक्तं, धृतिस्वरूपविवेचने "अप्राप्तातीतनष्टानामलाभेऽनभिशोचनमिति" भावप्रकाशने, "लोभशोकभयादिजनितोपप्लवनिवारणकारणीभूतश्चित्तवृत्तिविशेषोधृति"रिति रसगङ्गाधरे चोक्तम् । तत्त्रितयपर्यालोचनायां सत्वं धृतिभावरूपमिति सिद्ध्यति । धृतिः किंस्वरूपेत्यालोच्यमाने -- "विवेकः श्रुतिसम्पत्तिर्गुरुभक्तिस्तपस्विता । एते विषयभावेन करणत्वेन च स्थिताः ॥ इष्टाधिकानामिष्टानां लाभस्तु विषयत्वतः । व्रीडा करणभावेन विभावा यत्र सम्मताः ॥ प्राप्तभोग्योपभोगस्य त्वाप्राप्तातीतभोगयोः । जीर्णे नष्टे चाविषादो नानुशोचनमित्यपि ॥ अनुभावद्वयं यत्र धृतिं तां ब्रुवते बुधाः ।" इति सङ्गीतरत्नाकरोक्तदिशा विवेकश्रुतिसम्पत्तिगुरुभक्तितपस्वितैतच्चतुष्टयोद्देश्येनैतच्चतुष्टयं करिष्य इति सङ्कल्पो धृतिरित्युक्तम् ॥ कौटिल्ये धृतिः अर्थशास्त्रस्य प्रस्तुतस्यावलोकनेनैव धृत्यन्तर्गतः ग्रन्थकर्तुर्विवेकः स्फुटीभवति, तत्र तत्राक्षेपसमाधानानां बहुलतरमुपलब्धेः । श्रुतिसम्पत्ति"र्योऽधीतवान् सुचतुरश्चतुरोप्येकवेदवत्" इति कामन्दकवचनतः स्फुटा । "कुलशतमप्रतिग्राहकाणामिति लोकप्रवादः" इति जयमङ्गलोक्तेः अभिचाराद्यौपनिषदिकप्रकरणस्य सफलानुष्ठातृत्वात् तस्य तपस्वित्वं निर्विवादम् । मङ्गलग्रन्थेनानेन तस्य गुरुभक्तिरपि धृतिस्वरूपघटिका स्फुतीभवति । टीका प्रयोजनम् यद्यप्यर्थशास्त्रे दुरूहाणां पदानामर्थनिर्ण्यः परम्परानुसारेण जयमङ्गलाभिक्षुप्रभमति-प्रतिपदपञ्चिका-नयचन्द्रिका-नीतिनिर्नीतिप्रभृतिटीकासु कृत एवेति नूतनस्यास्य टीकाग्रन्थस्यानावश्यकत्वं प्रतिभायात् । तथापि टीकाग्रन्थेषु अवश्यं कर्तव्येषु पदच्छेदः पदार्थोक्तिर्विग्रहो वाक्ययोजना । आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम् ॥ इति पद्योक्तेषु आक्षेपसमाधामनप्येकं कर्तव्यमस्ति । आक्षेपाश्च पुनः पुनर्नूतना उद्भूता भवन्ति । तेषां समाधानार्थं पुनरपि अन्यस्य टीकाग्रन्थस्य निर्माणमावश्यकं भवति । अन्यथा ग्रन्थे अप्रमाण्याशङ्काकवलितत्वानुपयोगित्वादिभिः दुष्टत्वमापद्येतेति नूतनाक्षेपसमाधानाय चिकीर्ष्यमाणस्यास्य "वैदिकसिद्धान्तसंरक्षण्या" --- ख्यस्य टीकाग्रन्थस्य प्रयोजनवत्वं स्फुटं भवेत् ॥ अर्थशास्त्र-प्रयोजनम् अर्थशास्त्रारम्भस्य प्रयोजनं किमिति चेदुच्यते । स्थापितेऽपि लोकतन्त्रे लोकमतं शासनसञ्चालनायापेक्षितं स्वयमेव न प्राप्यते । तत् कथञ्चित् प्राप्तमपि अचिरादेवाननुकूलं भवति सत्वस्य शीलस्य चाभावे । तथा सति स्तब्धता, मानः, परस्परविरुद्धार्थकबुद्धीनामव्यवधानेनोत्पत्तिरूपा चपलता च नैयत्येन भवति । एतेषु दोषेषु समुद्भूतेषु सत्सु भ्रान्तिप्रमादविप्रलिप्सादयो दोषाः स्वयमेवोत्पद्यन्ते । तेन लोकमतं प्रतिकूलं भवति । नियतफलप्राप्तिरपि शास्त्रमन्तरा न भवितुमर्हति सन्दिग्धे फले प्रवृत्तिस्तु नीत्यपसिद्धान्तः । अतः फलप्रमाज्ञानार्थं शास्त्रारम्भस्य आवश्यकता । शास्त्रप्रसूतं ज्ञानं पूर्वपरम्परया सर्वज्ञेश्वरात् प्राप्तं यत् तदेव ज्ञानं यद्यस्मिन्निष्ठं भवति तदा तत्र नित्यज्ञानावृत्तिविषयताशून्यत्वरूपं प्रमात्वमक्षुण्णं भवति ॥ सत्वपरिष्कारः किञ्च शास्त्रप्रसूतमीशसमवेतज्ञानसमानाकारम् ज्ञानं अस्मन्निष्ठं चेत् सत्वाय भवति इति प्रत्यभिज्ञादर्शने उक्तम् । स्वाङ्गरूपेषु भावेषु पत्युर्ज्ञानं क्रिया च या । मायातृतीये ते एव पशोः सत्वं रजस्तमः । इति यदा किल ईशसमवेतं ज्ञानमस्माकमानन्दरूपतया भातं भवति तदा तत् भानं सत्वपदेन बोध्यते । तथोक्तं भावप्रकाशने -- ज्ञानप्रभा च सानन्दा तस्याः सत्वं प्रजायते । इति ॥ सत्वं राज्यमूलं एवं च एतस्य सत्वस्य बलेनैव -- दिव्येन्द्रजालरम्यार्थदर्शनाभीष्टसिद्धिदः । अद्भुतः सोऽभिनेतव्यः श्लाघारोमाञ्चदानतः ॥ इति नाट्यदर्शनोक्तरीत्या रम्यार्थदर्शनाभीष्टसिद्धिद्वारा जनश्लाध्यतादिकमुपलभ्य राजा सर्वेषां ध्यानं स्वामिन् प्रापयति इति सत्वमेव शास्त्रप्रसूतज्ञानोपलब्धं लोकतन्त्रमूलभूतमिति सिद्ध्यति । तदेवोक्तं कामन्द्कीयजयमङ्गलायाम् -- विद्याप्रतिबद्धत्वाल्लोकस्थितेः । इति ॥ सत्वं विनाऽविश्वास्यता यद्यपि पूर्वोक्तसत्वविधुरेषु राज्य सञ्चालकत्वमिदानीं क्वचित् दृश्यते तथापि तेषु लोकमतं पूर्ववदेवानुकूलं स्यादिति वक्तुं न शक्यते । वियतनामयुद्धादिस्वरूपस्य पौण्डमुद्राया अवमूल्यनाद् युत्तरघटनाया देशे दुरवस्थाया वर्तमानायाः सत्याग्रहादिसमस्यायाः स्वरूपस्य च प्रदर्शनेन प्रजाया असात्विकेषु राज्य सञ्चालकेषु अविश्वास्यत्वस्य विवर्धमानस्योपलब्धेः । शास्त्राभावेऽपि प्रवृत्तिः तत्र दोषश्च अथ शास्त्राध्ययनादिकं विनापि अर्थशब्दवपुः काव्यं रसैः प्राणैर्विसर्पति । अञ्जसा तेन सौहार्दं रसेषु कविमानिनाम् ॥ न तथार्थशब्दोत्प्रेक्षा श्लाघ्या काव्ये यथा रसः । विपाककम्रमव्याम्रमुद्वेजयति नीरसम् ॥ इत्युक्तन्यायेन रसात्मकप्रतीतेर्लोकेषु उत्पादयितुं शक्यतया तथा लोकसम्मतत्वप्राप्तिसम्भवेन शास्त्रस्यारम्भो निष्प्रयोजन एवेति चेदत्रोच्यते । तत्र तावदादौ रसप्रतीतिः कथं भवतीति चिन्त्यते । तथाहि तां प्रति विभावानुभावयोर्व्याप्तिवासना, स्थायिभाववासना, काव्यार्थभावना चेति समूहः कारणम् । ( का० प्र० ३-४-४ अभिनवमतम् ) तत्र विभावानुभावव्याप्तिवासना स्थायिभाववासना च प्रसिद्धैव । काव्यार्थभावना तु चित्रतुरगन्यायेन नाटकदर्शिनामात्मनि संजायमाना प्रतीतिः सा च चित्रादौ चित्रत्वतुरगत्वोभयव्यासक्तैकप्रकारताकचित्रनुरगोभयव्यासक्तैकविशेष्यताका भवति । एवं नाट्यदर्शने रामत्वनटत्वोभयपर्या तकप्रकारताकरामनटोभयपर्याप्तै विशेष्यताका सामाजिकेषु भवति । सेयं साहित्यस्य महान् व्यापार: । एतद्विषये विस्तरस्तु श्रीगोकुलनाथोपाध्यायकृतकाव्यप्रकाशव्याख्यायां द्रष्टव्यः । इदमेव वासनात्रयं रसाभासमव्युत्पादयितुं समर्थम् भवति तदुत्पादनन्त्वनुचितम्, औचित्यानौचित्यभेदेन तयोविशेषात् । तथाहि विभावानुभावब्याप्त्यादिसंस्कार : यदि प्रमाजन्यो भवेत् तर्हि तज्जन्या प्रतीतो रस इत्यभिधीयते । यदि च उक्तव्या त्यादिसंस्कारो भ्रमजन्यो भवति तदा तज्जन्या प्रतीती रसाभास इति । सत्यामेवं विधायां स्थितौ यदि शास्त्रजन्यं ज्ञानं न भवेत् तदा सत्यत्वबुद्ध्या अयथार्थेषु उक्तव्याप्तिसंस्कारस्योद्बोधेन रसाभासप्रतीतेरुत्पत्योपहास्यत्वं स्यात् । अतः प्रमात्मकव्याप्त्यादिज्ञानार्थं शास्त्रस्यावश्यकता स्वीकर्तव्या । तथा चार्थशास्त्रमपि तन्न्यायेन प्रमितव्याप्त्यादिनिर्णयायावश्यमारम्भणीयमिति सिद्ध्यति । नीतिशास्त्रेण सत्वोत्पत्तिः एवंरीत्या ईशसमवेतज्ञानप्रभा भावप्रकाशनोक्ता उपर्युद्धृता यदि शास्त्रचिन्तनेन प्राप्यते तर्हि तेन सत्वलाभ इति निर्णीतम् । अत्रेदं चिन्त्यम् । यत् सत्वमदृष्टद्वारा सहकारीति एतत्सहकृतं ज्ञानं धृतिसंवलितं प्रातिभं यथार्थंमेव उत्पद्यते । तदुक्तं वैशेषिकप्रशस्तपादभाष्ये— आम्नायविधातॄणामृषीणामतीतानागतवर्तमानेषु अतीन्द्रियेष्वर्थेषु धर्मांदिषु ग्रन्थोपनिबद्धेष्वनुपनिबद्धेषु चात्ममनसोः संयोगात, धर्मविशेषाच्च यत्प्रातिभं यथार्थवेदनमुत्पद्यते तदार्षमित्युच्यते इति । योगसूत्रेऽपि “तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः” इति वदता पतञ्जलिना स एव विषय उक्तः । 'शौच सन्तोषे'ति सूत्रे तपस्स्वाध्यायेश्वरप्रणिधानानां नियमेषु अन्तर्भावितानां पुनर्ग्रहणं धर्मविशेषस्याशुलाभप्रदर्शनार्थम् । इति । आनन्दप्रभोपयोगः अत्रेदमाकूतम् । शास्त्रप्रसूतज्ञानप्रभा उपर्युक्त सत्वपदार्थघटकस्य आनन्दप्रभात्मकमनःप्रसादस्याभावे सुखाय शान्तये वा न भवति । यतो हि - शास्त्रप्रसूतज्ञानोपलब्धावपि ज्ञानिषु यदि शास्त्राज्ञामुल्लङ्घ्य विषयप्रवृत्तिः रागद्वेषमूला तर्हि सा दोषजन्यत्वात् अजितेन्द्रियत्वे पर्यवसायिनी न प्रसादजनिका भवति ? रागद्वेषयोरतिप्रचुरत्वात् । तदुक्तं – “त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः" इति । ईशसमवेतशास्त्रानुमोदितज्ञानपारतन्त्र्येण जायमाना प्रवृत्तिस्तु न रागद्वेष- मूलिका भवति । एवं स्थिते जितेन्द्रियत्वं, सत्वे स्थितिञ्च निष्पादयन्तीयं प्रवृत्तिः मनःप्रसादं प्रापयति तेन सुखं शान्तिश्च भवतः । तदुक्तं भगवद्गीतायाम् - रागद्वेष वियुक्तैस्तु विषया निन्द्रियैश्चरन् । आत्मवश्यैविधेयात्मा प्रसादमधिगच्छति ॥ प्रसादे सर्वदुःखानां हानिरस्योपजायते । प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ॥ नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना । न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ॥ इति ॥ नीतिशास्त्रेण सत्वोपलब्धिः ननु नीति शास्त्रस्य विचारे क्रियमाणे सति सत्वगुण: किमुपलब्धु शक्यः ? इति प्रश्ने शक्य एवेति वदामः ! तथा हि उपर्युक्तगीतोक्तदिशा मनःप्रसादः आत्मवश्येन्द्रियाणां भवति । स च हर्षादनतिरिक्त इति निर्णीयते, भावप्रकाशने "हर्षो मनःप्रसाद: स्या" दित्यादिना उपलम्भात् तथा च नीतेः वक्ष्यमाणस्वरूपे पर्यालोचिते उपर्युपवर्णिता सर्वविधाऽपि हर्षसामग्री तदनुष्ठाने वर्तते यतः प्रमाणत्रयं, देशकालानुकूल्यं शक्तिं च पर्यालोच्य नीतिमता अग्रे पदं निधातव्यं भवति तेन फललाभो नियतः । अतः अत्रानन्दप्रभारूपो मनःप्रसादोऽस्ति न वेति सन्देहस्यावसर एव नास्ति । ध्वनितं चैतन् नोतिसारे“आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती" इत्यत्र । तस्मान्नीतिं पर्यालोच्य अनुष्ठिते ज्ञानप्रभासम्मिलितानन्दप्रभात्मकहर्षरूपसत्त्वस्योपलब्धिर्नियतैव । साधूनां प्रिया नीतिः अत एवात्र सत्त्वस्य नैयत्येन नीत्यनुष्ठाने लाभात् साधवः कस्मिन्नप्यवसरे नीतिं परित्यक्तुन्नाभिलषन्ति इति तत्स्वभाव उपवर्णित: “समशीतल" इत्यादिनाग्रन्थेन मानसरामायणे सत्त्वगुणस्यास्पदं नीतिमत्त्व येन धार्यते तस्य निर्मलं मनः गृहत्वेन वृणुते भगवानीश्वर इति तुलसीदासकृतमानसरामायणाज्ज्ञायते । एवं तस्मै यो द्रोग्धि स ईशस्य कृपापात्रमपि न भवितुमर्ह इत्यपि सिद्ध्यति ! य ईशकृपापात्रं स एव विश्वास्यः सर्वैः प्रणम्यो भवति । तदुक्तं भागवते यस्य प्रसन्नो भगवान् गुणैर्मैत्र्यादिभिर्हरि: । तस्मै नमन्ति भूतानि निम्नमाप इव स्वयम् ॥ इति । ( भा० ७ ) तथा-चेश्वरे प्रसन्ने योगक्षेमौ भविष्यतः इति किन्नु वक्तव्यम् !! अत एव अनन्याश्चिन्तयन्तो मां ये जना: पर्युपासते । तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ॥ (गीता ) इति उपपन्नं भवति । परन्तु मिथ्याज्ञानजन्यवासनया "भीष्मः खल्वयमप वर्गः बहुभद्रकं मे लुप्येत" इति मत्वा नीतिमागमप्रमाणमनुमानं प्रत्यक्षं वा ये अवहेलयन्ति तेषां वचसि कृतौ वा निष्फलत्वात् अप्रमाणिकत्वात् असभ्यत्वात् अश्रद्धेयत्वाच्च गौरवं किं भवेत् ? इति सुधिय एव जानन्तु । तदाह श्रुतिरपि - "यस्तित्याज सखिविदं सखायं न तस्य वाच्यपि भागो अस्ति यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पन्थाम्" इति । अतः साधवः मिथ्याज्ञानजन्यां वासनां तर्कबहुलेन मनसा दूरीकृत्य स्वस्मात् नीतिमत्वरूपं सात्त्विकत्वं नापसारयन्ति । ### सत्वारोग्ययोः सम्बन्ध: आरोग्यदृष्टया विचार्यमाणेऽपि इदमेव सिद्ध्यति यत् आनन्दप्रभासहचरितज्ञानप्रभया नानाविधा मनसो रोगा दूरीभवन्ति । तदुक्तं भावप्रकाशे आयुर्वेदीये आस्तिक्यमित्यादिना[^१] । अत्रेदं बोध्यम्--उपर्युक्ता हर्षसामग्री सर्वापि नीतौ वर्तते इति यथा आनन्दप्रभोच्छलनं अत्र साहजिकम् तथा ईशप्रभायाः शास्त्रद्वारा ग्रहणाज् ज्ञानप्रभापि विवेकस्वरूपा नासुलभा इति हेतोः नीत्यनुष्ठाने एकाग्रतापि सिद्धैव । तत्सिद्धत्वे सत्वगुणस्य अभिवृद्धिः भवति ! सा चेयं द्विविधा भवति, निष्कामोपासनया सकामोपासनया च । तत्र यदि सत्वगुणवृद्धिः सकामस्य उपासनाविषयस्स्यात् तर्हि सा तावन्मात्रमेव फलं दत्त्वा विश्राम्यति । यदि च निष्कामस्य उपासनाविषय: स्यात् तर्हि तेन सञ्चीयमानमदृष्टं सर्वं सम्पादयितुं समर्थं भवति इति जयमङ्गलाव्याख्याने समाधिनिरूपणावसरे वक्ष्यते । तस्य बाह्यं स्वरूपम् आस्तिक्यं प्रविभज्यभोजनमित्यादि टिप्पण्यां अनुपदमुक्तम् स्मर्तव्यम् । सत्वगुणाभावे दोषः यत्तु ज्ञानप्रभामुपेक्ष्य आनन्दप्रभामेव स्वायत्तीकर्तुं केचिद् वाञ्छन्ति । तत्तु न युक्तम् । तत्र पूर्वमपेक्षितसत्वेनोक्तायाः एकाग्रतायाः समाधौ अभ्यर्हितायाः अभावः रजस्तमसोरभिवृद्ध्या आपद्येत । तथा विवेकाभावेन च निष्फलत्वमपि सम्भाव्यते । नैतावन्मात्रेण विश्रान्ति:, किन्तु रजस्तमसी मनसः कामक्रोधाद्यनेकदुरपनेयरोगकारणभूते भवतः इति अग्रे निरूपयिष्यामः । तेभ्यो नयहीनत्वं नियतं स्यात् । ततः जनापरागोऽपि अनुषक्तः इति । अतो ज्ञानप्रभाप्यपेक्ष्यते आनन्दप्रभायाम् । नीतिमत्ता येषु वर्तते ते यथा सन्त इति प्रोच्यन्ते तथा ऋषिशब्देनापि व्यवह्रियन्ते शास्त्रादौ । तद्यथा- वंशे विशालवंशानामृषीणामिव भूयसाम् । इति । ( नी॰ सा॰ १-२ ) नमः शास्त्राय महते त्रिवर्गस्यैकयोनये । नमस्तस्य प्रणेत्रे च कौटिल्याय महर्षये ॥ इति च । ( नी॰ स॰ ज॰ १-१ ) शास्त्रकृत्सु ऋषिसंज्ञकत्वं नाधुनिककल्पितं, अपि तु रूढमिति शब्दकल्पद्रुमे ----- १. आस्तिक्यं प्रविभज्य भोजनम् अनुत्तापश्च तथ्यं वचो । मेधाबुद्धिधृतिक्षमाश्च करुणा ज्ञानं च निर्दम्भता । कर्मानिन्दितमस्पृहं च विनयो धर्मः सदैवादरात् । एते सत्वगुणान्वितस्य मनसो गीता गुणा ज्ञानिभिः । इति । व्यक्तम् विद्याविदग्धमतय इत्यादिना । यत्किलापस्तम्बेन धर्मसूत्रे १ | २ |५|३ अवरे ऋषयो न भवन्ति इत्युक्तम | तत्तु वेदस्य प्रथमाध्येतृत्वं इति व्याख्यानाभिप्रायेण बोध्यम् । तदुक्तं किरणावल्याम-प्रथमं वेदाध्येतारः इति । ॥ श्रीशङ्करार्यविरचिता ॥ ॥ जयमङ्गला ॥ पूर्वमतानि यथेदं सङ्गृह्यैकं चकार कौटल्यः । कान्तराणि दृष्ट्वा सद्व्याख्यानं समुद्धृत्य ॥ क्रियते तथा मयापि त्यक्त्वा च ग्रन्थविस्तरं पूर्णा । बालहिता टीकेयं दुर्ज्ञेयं यद् वितत्य सर्वमिदम् ॥ प्रेक्षावतां पूज्यपूजनात् सर्वारम्भा अविघ्नितप्रसरा भवन्तीति मन्यमान आह - 'नमः शुक्रबृहस्पतिभ्याम्' इति । पूज्याश्च वक्तृत्वप्रयोक्तृत्वैश्वर्ययोगात् त्रिविधाः । तत्र ये शास्त्राणां वक्तारः ते तच्छास्त्रव्यवहारिभिः पूज्यन्ते, ये शास्त्रार्थानां प्रयोक्तारः ते तन्त्रानुवतिभिः पूज्यन्ते ! ये च अणिमाद्यैश्वर्ययुक्ताः, ते दृष्टादृष्टार्थानुग्राहिणो देवा अत्यन्तं पूज्यन्ते । अनयोश्च त्रितयमपि पूजनीयत्वं निमित्तमस्ति । तत्र कृत्स्नशास्त्रप्रणयनाद् वक्तारौ, देवासुराणां च सन्धिविग्रह- प्रयोगात् प्रयोक्तारौ, ऐश्वर्ययोगाच्च देवौ इति मन्यमान इह कौटल्यस्तावेव नमस्कृतवान् । नमः शब्दयोगाच्चतुर्थी । नमः - शब्दश्च मानसीं भक्तिम् अनुमापयति । पाण्यादीनां साधनानां बाह्यां पूजां प्रदर्शयति । अत्र “आनङ् ऋतो द्वन्द्वे" ( ६-३-२५ ) “देवताद्वन्द्वे च” ( ६ ३-२६) इति नानङ् । पुनर्द्वन्द्वग्रहणात् पूर्वनिर्दिष्टानामेवेति स्थितेः । यथा सूर्याचन्द्रमसोरिति चन्द्रसूर्ययोरिति च व्यवहारौ । ततश्च शुक्रस्या- ल्पाचतरत्वात् पूर्वनिपातः । ॥ पण्डित राजराजेश्वरशास्त्रि द्राविडव्याख्यातं ॥ ॥ जयमङ्गलाक्रोडपत्रम् ॥ क्रियते इति । यथा उद्देशनिर्देशात्मकं ग्रन्थं चाणक्यः सर्वस्यार्थशास्त्रस्य पारं विज्ञानानः संक्षेपेण षट्श्लोकसहस्रेण जगाद् । तथैवायं टीकानिर्माता सर्वाण्यपि पूर्वाण्यर्थशास्त्रव्याख्यानान्याकलय्य संक्षपतः जयमङ्गलामिमां टीकां रचितवानित्यस्यापि समस्तार्थशास्त्रटीकाभिज्ञत्वं, मूलकृतः समस्तार्थशास्त्राभिज्ञत्वमिव विशदीभवति । यतः पूज्यत्वं विना नमनं न भवति यस्माच्च कौटल्य: शुक्रबृहस्पती नमस्करोति तस्मात् तयोः पूज्यत्वं सः मन्यते । तन्निष्ठं पूज्यत्वं किन्निमित्तमिति स्फुटी कर्तुमाह-पूज्या इति । ननु केषुचिद्ग्रन्थेषु आरम्भे पूज्या: नमस्क्रियन्ते, स्मर्यन्ते कीर्त्यन्ते वा । केषुचित्तु ग्रन्थेषु न ते नमस्क्रियन्ते, स्मर्यन्ते कीर्त्यन्त वेति नमस्काररूपमङ्गलस्य दृष्टसाधारणतया प्रयोजनवत्वम् कथं मन्तव्यम् ? इति चेत् प्रतिभासम्पत्तिः मङ्गलस्यासाधारणं फलमिति । तथाहि - प्रतिभासंपत्तिरहितः अधीतशास्त्रोऽपि - अदृष्टकर्माकस्मिन्नपि पदे अधिष्ठातुमयोग्यो भवति । अतः समस्तशास्त्रेषु अधीतेष्वपि विद्यावतां प्रतिभासम्पत्तेरपेक्षा वर्तत एव । सेयं गुर्वादीनां पूज्यानां प्रसादाधीनेति तत्र तत्रोक्तम् । तद्यथा – यस्य देवे परा भक्तिः यथा दैवे तथा गुरौ । तस्यैतेऽकथिता ह्यर्थाः प्रकाशन्ते महात्मनां ॥ अधिगच्छति शास्त्रार्थः स्मरति श्रद्दधाति च । यत्कृपालेशमात्रेण नमोऽस्तु गुरवे सदा ॥ इति ॥ एवमेव पूज्यैः सह विनश्रीभूय कृता सङ्गतिर्वादश्च प्रतिभास्फूर्तये कारणं भवति· इति न्यायसूत्रव्याख्याने वाचस्पतिमिश्रा। साहित्यविदोऽपि इमां प्रतिभां शक्तिपदेन व्यवहरन्ति । तत्स्वरूपं गोकुलनाथोपाध्यायैः एवमुक्तम् - "मनसि सदा सुसमाधिनि विस्फुरणमनेकधाऽभिधेयस्य । अक्लिष्टानि च पदानि विभान्ति यस्यामसौ शक्ति:" ॥ इति ॥ किञ्च यदि पूज्याः कञ्चनोपेक्षन्ते शपन्ति वा, तर्हि सत्यवसरे तस्मिन् प्रतिभोद्बोधकसंस्काराणामुद्बोधो न भवति इति महान् दोषः मङ्गलाभावे स्मर्तव्यः । अत्र युद्धसमये कर्णादीनां प्रसङ्गविशेषे शस्त्रास्त्रे प्रति विस्मरणमुदाहरणं पर्याप्तम् । पूज्यानामपूजने कारणं गर्वेण मदेन वा विकृतं मनो भवति इति भावप्रकाशने द्रष्टव्यम्[१] । न च इष्टापत्तिरितिवाच्यं राज्यहानिप्रसंगात् । अत्रेदमाकूतम् - राज्यसञ्चालने प्रतिक्षणं विलक्षणानि विलक्षणानि कार्याण्युपस्थितानि भवन्ति । तत्र अनेकविधाः प्रयोगा अपि अभ्यूह्या भवन्ति राजनीतिविद्भिः । परन्तु इमे राजनीतिविदो यदि पूज्यान् न नमन्ति, न स्तुवन्ति, न कीर्तयन्ति वा, तर्हि तेषु गर्वमदहेतुकया रजस्तमस्सहचारिण्या मनोविकृत्या पूर्वोक्तरीत्या प्रतिभोद्बोधकसंस्काराणाम् अनुद्बोधो निश्चतः । तथाच सकलजनमनोरञ्जकस्य कवित्वस्य बीजभूतं यदौचित्यं तदेव गर्वमदाभ्यामुपहन्यते ततो विवेकस्थाने जाड्यमापद्यते । तेन पारतन्त्र्यमवश्यंभावि[२] । गुरुपरम्पराऽध्ययने विशेषः । गुरुपरम्पराप्राप्तस्य अस्मच्छास्त्रस्य अयं विशेषः यत् पूज्यभक्तिपूर्वकं यदि शास्त्रमधीयते तर्हि शास्त्रार्थः स्वयमुपस्थितो भवतीति । यदि गुरुभक्तेः आश्रयणं न क्रियते तर्हि तन्मूलकनिर्विकारतायाः अभावेन मनः क्षिप्तं विक्षिप्तं मूढं वा भवेत् । तेन मस्तिष्कसम्बद्धेषु ज्ञानतन्तुषु कार्यकरणाक्षमत्वम् प्रतिभाया अभावो वा निश्चितः । -- १. गर्वो विद्यावलैश्वर्य-वयोरूपधनादिभिः । तमनुत्तरदानेन शून्यालोकैरभाषणैः । आश्रितैरप्यवज्ञानात् दोर्द्वयांगावलोकनात् । असूयामर्षपारुष्यापहासगुरुलंघनैः । अकारणादधिक्षेपाद्गात्राणां विकृतैर्वदेत् । विद्याभिजात्यसंपत्तिमदेऽनुत्तरभाषणम् । अवज्ञागर्भितं वाक्यं सुहृदामप्यानन्दरः । इति । २. जाड्यमप्रतिपत्तिःस्यात् सर्वकार्येषु सर्वदा । प्रियाप्रियश्रुतैस्तत्तद्दर्शनैर्व्याधिभिर्भवेत् ॥ सुखदुःखाविवेकित्वमिष्टानिष्टानभिज्ञता । तुष्णीमप्रतिभा चाक्ष्णोरनिमेषोऽनवेक्षणम् ॥ अभाषणम् पारवश्यमेतैर्जाड्यन्निरूप्यते । इति । तथा सति स्वातन्त्र्यमसत्प्रायमेवेति प्राक् उक्तमेव । मनसः सविकारतायां ज्ञानतन्तुषु अशक्तिः कथं भवतीति चिकित्साशास्त्रे स्पष्टम् । टिप्पण्युद्धृतः मस्तिष्कविकारः अन्यशास्त्रेषु राजसतामससंज्ञया व्यवह्रियते । तदुक्तं-अर्थशास्त्रप्रतिपादितान्वीक्षिकीपदव्यवहार्यषष्टितन्त्रसंग्रहरूपायां सङ्ख्यकारिकायाम्' तत्रैव द्रष्टव्यम् । अतः एतन्निरासहेतुभूतस्य सत्वात्मकस्य मूलटीकायामुप - ( वैदिक सि० ) वर्णितस्य धृतिभावस्य लाभाय शिष्याः पूज्यान् नमस्कुर्वन्ति स्तुवन्ति, कीर्तयन्ति इदं यद् दृष्टं फलं मङ्गलस्य, तन्न गुरुभक्तिरहितेषूपलयते इति । दृष्टादृष्टार्थानुग्राहिणो देवा इति । दृष्टोपकारकत्वम् देवत्वस्य ननु देवत्वस्य दृष्टार्थानुग्राहकत्वं कथमिति चेत् उच्यते । देवत्वं हि ईशकर्तृककार्योपकरणत्वमिति व्यवस्थापयिष्यते । सर्वज्ञेन परमेश्वरेण उपदिष्टाद्वैदिक विधिभागाद् या प्रेरणा उपलभ्यते तथा इष्टसाधनत्वमनुमाय प्रवृत्ती सत्यां अस्मासु देवत्वं भवितुमर्हति, तथा तत्र नियतफलप्राप्त्या संतोषसुखमपि नियतम् । इदमेव सत्त्वगुणस्य स्वरूपमित्येतत्सर्वं विशिदीकृतं टीकायायाम् । एवंरीत्या निश्चितायां फलप्राप्तौ ईश्वरदासभावेन प्रवृत्तो यो नीतिमान् राजा तस्मिन् अवज्ञापाहष्यानृतभाषणपरदारग्रहणगृहभंजनाग्निदाहादिक्रोधोत्पादकव्यवहाराभावेन सर्वव्यवहारेषु आलापेषु स्पर्शेषु चेष्टितेषु निमित्तेषु च माधुर्यं स्वतःसिद्धं भवति । किञ्च तत्र प्रमाणपरतन्त्रत्वात् अबाधितत्वमौचित्यमपि भवत्येव । इदमेव देवत्वस्य महत्फलं यत् तेन माधुर्यस्य आस्वादग्रहणाय पुष्पेषु षट्पदा इव लोकस्य मनांसि आकृष्टानि भवन्ति । इदमेवाकर्षणं राजनीतिशास्त्रदृष्ट्या आन्दोलनमित्युच्यते । तच्च आवेगे अन्तर्भूतम् तदाहुः आवेगस्तु महोत्पातवातवर्षाग्निकुञ्जरैः । प्रियाप्रियश्रुतैः शत्रुव्यसनाभिहतैरपि । इति । ( भा० प्र० १ अ० ) अत्र हि आवेगस्य अष्टविधो विभागः उक्तः । तत्र प्रियश्रुतिजन्यः आवेगः उक्तान्दोलनस्वरूपः उच्यते । तस्मिन् सति वस्त्राभरणदानालिङ्गनादीनि कार्याणि निसर्गसिद्धानि अनुभावरूपाणि संभवन्ति । तदुक्तम् वस्त्राभरणदानाश्रुपुलकालिङ्गनादिभिः । अभ्युत्थानेन वर्ण्योयं प्रियश्रवणजो बुधैः ॥ ( भा०प्र० १ अ० ) इति ॥ एवंच एवं च देवभावे स्थितेन राज्ञा प्रियश्रवणप्रयुक्तः लोकेषु आन्दोलनात्मकः दानव्यवहाराद्यनुभावकः आवेगः दृष्टार्थः संचालयितुं शक्यः | लोकमतमपि आवेगप्रयुक्तं राज्ञा सहजत एव प्राप्तुं सुलभमिति देवत्वस्य आवेगोत्पादनद्वारा दानमुखेन लोकमतप्राप्तिरूपलोकतन्त्रात्मकदृष्टार्थोपकारकत्वं सिद्धम् । अत्यन्तं पूज्यन्ते इति । देवपूजने आत्यन्तिकत्वं अनैश्वर्यासमानाधिकरणैश्वर्यादिगुणसम्पत्तिहेतुकत्वम् । तच्च रससङ्क्रमणवत् ध्यानपूजनादिनापि सम्भवति । तथाहि-ध्यातव्या देवप्रतिमा यादृशी ऐश्वर्यादियुक्ता भवति तदुपासकेषु ता दशस्यैश्वर्यादेः सङ्क्रमणं भवतीति देवपूजनं श्रद्धया कुर्वत्सु एकलव्यसदृशेषु इतिहासप्रसिद्धमेव । ध्वनितं चैतदायुर्वेदेऽपि पूर्वं पश्येद् ऋतुस्नाता यादृशं नरमङ्गना । तादृशं जनयेत्पुत्रं भर्तारं दर्शयेत् अतः ॥ इति ( सु० अ० ३ श्लो० २६ ) यदि च ध्येयप्रतिमायां वैगुण्यं भवेत् तर्हि ध्यातर्यपि वैगुण्यम् ऋतुस्नातृन्यायेन संभवितुमर्हति। अणुमात्रमपि वैगुण्यम् ईशकार्ये अनुरक्तयोः शुक्रबृहस्पत्योः तद्दशायां नास्ति । अतएव अग्रे "कृत्स्नशास्त्रप्रणयनाद् वक्तारौ, देवासुराणां च संधिविग्रहप्रयोगात् प्रयोक्तारौ, ऐश्वर्ययोगाच्च देवौ" इति वक्ष्यते आचार्येण । तेन तयोः सुलक्षणैश्वर्यं सम्पन्नतया तावधिकृत्य ध्यातरि चागक्येपि वक्तृत्वादिगुणत्रयं सम्भावयितुमर्हमिति ध्वनितम् । ऐश्वर्ययोगादिति । एतेन शुक्रबृहस्पत्योः धर्मः ज्ञानं वैराग्यं च आसीत् इति सिद्ध्यति । तज् ज्ञेयम् सांख्यतत्त्वकौमुद्याम् । एवञ्च धर्मज्ञानादिसम्पन्नानां लक्षण्यायाः प्रतिमायाः ध्याने कृते सति आत्मन्यपि ऐश्वर्यं तद्विधमेव प्राप्तुं शक्यते । राज्ञां इदमेवैश्वर्यं प्रभुत्वम्, यस्य प्रभावतः शासनपत्रे लेखारूढो विषय: अविकृतरीत्या कार्यकरणसमर्थो भवति । एतस्यैश्वर्यस्य अल्पीयस्यामपि न्यूनतायां महाननर्थो भवितुमर्हति । तद्यथा रघुनाथराव पेशवामहोदयेन “नारायणरावांस धरा" इति शासनद्वारा आज्ञप्तम् । तत्र मध्ये केनचित् 'ध' स्थाने 'मा' पदं संयोज्य शासनं प्रेषितम् तस्य परिणाम: "पेशवा" इतिहासे प्रसिद्धः । ईदृङ्मेधावी सन् नरः यदि पूर्वोक्तसात्त्विकगुणधर्मज्ञानादिसम्पन्नः एकाग्रभूमिकायां स्थितो भवति । तर्हि स एकाक्यपि भवतु, नृपतिपदाय शमाय च क्षमो भवति । तदुक्तं दशकुमारचरिते उत्तरपीठिकायाम् – “एकशरीरिणमपि मर्त्यं चक्रवर्तिनं विदधीमहि यद्यस्मदुपदिष्टेन मार्गेण आचर्यते” इति । देवाविति - राजनीतिशास्त्रे दवत्वस्य देवत्वस्य नीतिलक्षणानुसारेण कीदृशं स्वरूपं भवितुमर्हतीति वैदिकसिद्धान्तसंरक्षिण्यां संक्षेपतः उक्तमस्ति । तत् विशदीक्रियते । सर्वज्ञस्य परमेश्वरस्य निःश्वासेन प्रसूतः वेदभागः कस्मिन्नपि अंशे सदोषः अस्तीति अद्ययावत् केनापि प्रमाणपुरःसरं न साधितम् । तत्र यो विधिभागः तत्प्रेरितमेव यदि अस्माभिः सहर्षम् अनुष्ठेयत्वेन स्वीक्रियते तर्हि अस्मासु वेदपरम्परया प्राप्ता ज्ञानप्रभा सफलत्वात् आनन्दप्रभामिश्रिता सती सत्वरूपेण प्रकटीभवति इत्युक्तम् । वेदप्रात्ता च ज्ञानप्रभा येन साधिता यदि च तस्य मनः प्राणो वाक् च भगवतः परमेश्वरस्य उपकरणभूता भवन्ति तर्हि तस्मिन् देवत्वं भवति । अन्यथा तु केवलं मन प्राणवाक्संज्ञयैव ते व्यवह्रियो । अन्यत्राऽपि एवमेव देवत्वं बोध्यम् । अथ मनआदीनां स्वरूपं नीतिलक्षणानुसारेण प्रसङ्गाद् विमृश्यते । तथाहि — सत्वपरिणामि द्रव्यं मनः, रजःपरिणामि द्रव्यं प्राणः, तमःपरिणामि द्रव्यं वागिति । तदुक्तम तदुक्तं भावप्रकाशने तत एव द्रष्टव्यम् । द्रव्यमित्यनेन जीवोत्पत्तिविचारे कृतया भावप्रकाशनोक्तदिशा शुक्रशोणितात्मकं ग्राह्यम् इत्यभ्यूह्यतं'। भावप्रकाशने प्रतिपादितं शुक्रशोणितात्मकं द्रव्य "बहु स्यां प्रजायेय” इति श्रुतेः संकल्परूपमेव बोध्यम् । स च सङ्कल्पः गुणत्रयभेदेन त्रिधा भवति सत्वादिभेदात् । अत्रायं विवेकः सत्त्वपरिणामि द्रव्यं जीवनिष्ठं चेत् मनः । तद् एव सत्वपरिणामि द्रव्यं द्रव्यम् ईश्वरे मुक्ते च समवेतं सत् सङ्कल्पः इति व्यपदिश्यते । एवमेव तदेव शुक्रशोणितात्मकं द्रव्यं सङ्कल्पात्मकं रजःपरिणामवत् जीवनिष्ठं चेत् प्राणः । ईश्वरमुक्तयोस्तु समवेतं तदेव स्पन्द इति व्यपदिश्यते । तथैव उपर्युक्तं द्रव्यं सङ्कल्पात्मकं तमःपरिणमवत् जीवसमवेतं चेत् शब्दरूपतां भजते । ईशसमवेतन्तु तदेव शोभना वाक् भवति । एतेन इदं सिद्धम् यत् ईश्वरे मुक्ते जीवे च स्थिता विभिन्नविभिन्ननाम्ना व्यपदिश्यमानाः मनःप्राणवाचः सत्वरजस्तमःपरिणामिरूपाः द्रव्यात्मिका: कार्यं कुर्वन्ति इति । ये च रविः चन्द्रः वह्निः इत्यादिनाम्ना तत्र तत्र पुराणेषु देवाः व्यपदिश्यन्ते पुनस्त एव जीवस्य तत्तत्स्थानेषु स्थित्वा कार्यं प्रचालयन्ति च इति । तदुक्तम् भागवते– दिग्वातार्कप्रचेतोश्विवह्नीन्द्रोपेन्द्रमित्रकाः । इत्यादि । भा० ३ श्लो० २ एतेषु देवेषु उक्ता रविसोमवह्नयः शरीरे वर्तमानाः सन्त: मनःप्राणवाग्रूपा भवन्ति इति ज्ञेयम् । एवं च उपाधिमेदेन देवत्वं मनस्त्वादि च तेषु तेषु देवेषु सिद्धम् । स च उपाधिः “कार्योपकरणात्मत्वात् देवा इत्येव कीर्तिताः" इति भावप्रकाशनोक्तरीत्या ईशकार्योपकरणात्मकत्वम् । तच्च कार्यं जीवस्य ईश्वरस्य च भेदेन द्विधा भवति तत्र अस्मिन्नेव शरीरे यदा जीवस्य कर्तृत्वमस्ति तदा इमे मनःप्राणवाचः जीवकार्योपकरणानि भवन्ति । यदा तु ईश्वरस्य कर्तृत्वं तदा तु ते ईशकार्योपकरणानि भवन्ति तदानीं त एव देवा इति व्यपदिश्यन्ते । जीवस्य कर्तृत्व अयं स्वतन्त्रः । ईशस्य कर्तृत्वे तु सः स्वतन्त्रः इत्यन्यदेतत् । तथाचायं निष्कर्षः, ईशकार्ये एते यदि उपकरणानि स्युः तर्हि ईशकार्योपकरणत्वं देवत्वं तेषां बोध्यम् । जीवकार्योपकरणत्वे एते यथाश्रुतनाम्नैव मनः प्राणो वाक् इति ज्ञायन्ते । यद्यपि आपाततः जीवेन सह सम्बद्धस्य शरीरस्य चेष्टां प्रति ईश्वरस्य कर्तृत्वं न प्रसिद्धम्। तथापि विचार्यमाणे ईश्वरोऽपि शरीरचेष्टां सञ्चालयन् जीवे वर्तत इति अवश्यं वक्तव्यं भवति । तथाहि अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः । इत्यादिगीतोक्तवचनप्रामाण्यानुसारेण उपभुक्ताहारपचनकर्तृत्वं भगवतः ईश्वरस्यैव अस्ति इति सिद्ध्यति । एवं शरीरान्तर्वर्तिनीनां मांसपेशीनां चेष्टायां विचार्यमाणायां सत्यां तच्चेष्टा कर्तृत्वमपि शारीरविज्ञानानुसारेण ईश्वरे सिद्ध्यति । तथाहि-शरीरे मांसपेश्यः द्विविधाः वर्तन्ते । तासु काश्चन जीवसञ्चालनाधीनाः सत्यः चेष्टन्ते यथा करप्रसारणसंकोचनादिकारिण्यः पेश्यः । अपराश्च स्वतन्त्राः ईश्वराधीनाः । तथाहि-जीवो जाग्रद्दशायां चेष्टमानः स्वशरीरे परिश्रान्तः दुःखमनुभवन् विश्रान्तिमीहते । यदि स न विश्राम्येत् तर्हि भुक्तस्याहारस्य रसादिरूपेण परिणामो न भवतीति आयुर्वेदसिद्धम्, जीवस्य विश्रामो हि निद्रात्मकः । तदानीं अस्य सर्वाश्चेष्टाः अवरुद्धा भवन्ति एतदवस्थायां समानवायु: भुक्ताहारं रसरूपेण परिणतं तत्तच्छिराद्वारा सर्वत्र सञ्चारयति । एतत्सञ्चरणसमये तत्र तत्र प्राप्तरसानां ग्रहणार्थं शिराः स्वमुखमुद्धाटयन्ति । रसग्रहणानन्तरं मुखं पिदधति । अयं शिराणां व्यापारः स्वतन्त्रः परं स कस्य प्रेरणया निद्रासमये प्रचलित इति विचार्यमाणे सुप्तस्य जीवस्य कर्तृत्वबाधात् कश्चन अन्यः कर्ता वर्तते इत्यनुमीयते । स ईश्वरान्नातिरिक्तः । कत्तृत्वं हि स्वातन्त्र्यापरपर्यायम् । “स्वतन्त्रः कर्ता" इति पाणिनीयसूत्राभिधानात् । तच्च उपादानगोचरापरोक्षज्ञानचिकीर्षाकृतिमत्वरूपमिति तत्र तत्र नैयायिकंः प्रतिपादितं वर्तते । ईदृशं स्वातन्त्र्यं यत्र स एव चेतनः ! यत्र तन्नास्ति, सः अचेतनः, जड इत्यर्थः । सम्मतं चैतत् वैज्ञानिकानामपि । एवञ्च निद्रावस्थायामबाधितरूपेण जडात्मकशिरामांसपेशीप्रभृतीनां सञ्चालनं कश्चन जाग्रत् कुर्वाण: स्वतन्त्रः चेतनः अस्ति स स्वतन्त्र वात् ईश्वर एव । अतः शरीरे उपाधिभेदेन जीवस्य ईश्वरस्य च कर्तृत्वं सिद्धम् । मनःप्राणवाचोऽपि जीवकर्तृकक्रियायां यदा उपकरणभूताः भवन्ति तदा जीवः, देवो वा भवतु मानवो वा यः कोऽपि वा सः अल्पज्ञत्वात् अबाधिते एव अर्थे ताः प्रेरयेत् इति न नियमः । एव एवं स्थिते देवोऽपि जीवः तत्कालं भ्रान्त इति वक्तुं शक्यते । अतएव शुक्रचार्य: सुरया सह राक्षसैः चूर्णितं शिष्यवचमपि भ्रान्त्या पपौ, इति इतिहासप्रसिद्धमेव । एतस्यामवस्थायां शुक्रबृहस्पतिप्रभृतीनां वचनमपि अननुष्ठेयत्वरूपमप्रामाण्यमावहति । यदा किल मानवोऽपि एकाग्र भूमिकायां तिष्ठन् ऐश्वर्यादिगुणचतुष्टयसम्पन्नः सन् स्वकीयं कर्तृत्वमपहाय ईश्वरस्य कर्त्तृत्वे अभिमुखः, तदा ईशकर्त्तृकक्रियायां तस्य जीवस्य मनःप्राणवाच: उपकरणभृताः चेष्टन्ते, समीहन्ते च, तदानीं तद्वचने अबाधितत्वात् अनुष्ठेयत्वरूपप्रामाण्यं निर्विवादमेव । अतः जीवदशायां शुक्रेण उक्तस्य अर्थस्य ईश्वरमुक्तभावे स्थितेन कौटिल्येन कृतः प्रतिषेधः, तथा ईश्वरभावेन स्थितस्य शुक्रस्य तेन कृतन्नमनमित्युभयमपि युक्तमेव । अर्थात् सर्वत्र नीतिशास्त्रे देवत्वं ईशकर्त्तृकक्रियोपकरणत्वात्मकं बोध्यम् । मानसीं भक्तिमनुमापयतीति । भक्तेः आयुर्वेदरीत्या उपयोगः गुरुभक्तिपूर्वकज्ञानाभिवृद्धौ सम्पादितायां शरीरान्तर्गतधातुषु अष्टमस्य सारभूतस्य ओजसः धातोः रक्षणं भवति तस्मादेव शरीरस्यापि सुरक्षा | सधातुः सर्वशरीरे शाखारूपेण स्थिताभिः हृदये च मूलरूपेणावस्थिताभिः दशशिराभिः प्रवहति । तेनैव शरीरस्य चेष्टितंतन्निबद्धं च सत् सफलं भवति, इति साहित्यायुर्वेदाभ्यामवगम्यते । अतः ओजसस्संरक्षणाय गुरुभक्तिं द्वारीकृत्य शास्त्रप्रसूतं ज्ञानमपेक्ष्यते इति सिद्धम् । यथा यथा पूज्यानां गुरूणां चरणौ भक्तिसाहचर्येण चिन्तितौ स्याताम् तथा तथा गुरुस्वरूपे वर्तमानस्य सत्त्व बहुलस्य ज्ञानतत्त्वस्य संक्रमणेन ओजः उपासकशरीरे नितरां उच्छलति तेन स्वशरीरेपि नैर्मल्यम्, सर्ववेत्तृत्वं, सर्वशक्तिमत्त्वं प्रभुत्वञ्च संप्राप्तुं नाशक्यम् । ननु इदमलौकिकं वस्तुं गुरुसकाशात् शिष्येण कथं प्राप्तव्यम् । इति चेत् शृणु । यथा नटेन सञ्चारितस्य साधारणीकरणव्यापारस्य महिम्ना अनुकार्ये स्थितानां तत्तद्रसानां भावानां वा सामाजिकेषु संक्रमणं भवति । तथैव ध्यानेनापि गुरुसमवेतभावानां शिष्येषु संक्रमणं भवितुमर्हति । अतएव योगिनः आहारं विनापि एकाग्रतया ध्यानमात्रेण अभीप्सितान् शरीरारोग्यकरान् रसादीन् सञ्चारयन्तः तदानन्द महिम्ना अन्तःस्थं ज्वलनसम्भूतं विषं विनाश्य बहिःस्थितस्य प्राणस्य अन्तःप्रवेशमनपेक्ष्यैव चिरकालं प्राणायामादीन् संसाधयन्ति, सिद्धिं च प्राप्नुवन्ति । ओजश्च मूलटीकायामुपवर्णितायाः आनन्दप्रभामिश्रितायाः ज्ञानप्रभायाः परिणामभूतं वस्तु मन्तव्यम् । तदुक्तं चरके – हृद्यन्तत्स्यात् यदौजस्यं स्रोतसां सम्प्रसाधनम् । तत्तयत्नेन संसेव्यं प्रशमो ज्ञानमेव च ॥ इति । औजस्यं ज्ञानं तदेव भवति यत्प्रमाणत्रयसमन्वितं भक्तिपुरःसरं गुरुप्रसाद लब्धञ्च | गुरुतत्त्वंसाक्षी चेतन: ईश्वर एव । स एव मस्तिष्कभागे स्थितः प्राणादिसञ्चारणद्वारा जीवनमूलभूतं चरकोक्तरीत्या ओजः ज्ञानद्वारा यदा प्रयच्छति तदा प्रमाणत्रयसमन्वितार्थस्य प्रकाशमुपलभ्य जीव आत्मानं गोपायितुं समर्थो भवति । यदि सः ईश्वरः अप्रसन्नः तर्हि विपरीतार्थप्रकाशमुपलभ्य जीव: आपत्तीरनुभवति । ' अतो येन एकाग्र भूमिकायां स्थित्वा सत्वं प्रधानीकृत्य पूज्याः गुरवः अभिध्याताः तस्य ओजस्सम्पादनमूलिका सिद्धिरपि न दूरतः । तथाहि विजेतव्या लङ्का चरणतरणीयो जलनिधिः विपक्षः पौलस्त्यो रणभुवि सहायाश्च कपयः । तथाप्येको रामः सकलमवधीद्राक्षसकुलं क्रियासिद्धिः सत्त्वे वसति महतां नोपकरणे ॥ इति सत्त्ववतः रामस्य सहायभूताः कपयः आसन्, इत्यत्र न आश्चर्यम् । ते तु सचेतना: । अचेतना अपि सचेतनस्य साहाय्यं कुर्वन्ति यत्र तत्र सचेतनानां का कथा ? तथोक्तम् ये मज्जन्ति निमज्जयन्ति च परान् ते प्रस्तरा दुस्तरे वाध वीर तरन्ति वानरभटान् सन्तारयन्तेऽपि च । नैते ग्रावगुणा न वारिधिगुणा नो वानराणां गुणाः श्रीमद्दशरथेः प्रतापमहिमा सोऽयं समुज्जृम्भते ॥ इति । तस्मात् ओजः प्राप्तिद्वारा गुरुभक्तिः ज्ञानाभिवृद्धौ सहकारिणीति सर्वं सुस्थम् । नमने गुरुनामकीर्तनम् ननु मङ्गलप्रसङ्गे गुरुनामसङ्कीर्तनं मूलकृता कथं कृतम् । आत्मनाम गुरोर्नाम नामातिकृपणस्य च । श्रेयस्कामो न गृह्णीयाज् ज्येष्ठापत्यकलत्रयोः । इति स्मृतौ निषेधात् । तन्न । तथाविधाचारदर्शनात । यत्र सदाचारः धर्ममूलः, स्मार्त:श्रौतोविधिर्वा कर्तव्यं विदधाति तत्र निषेधस्य प्रसक्तिर्न भवति इति मीमांसायाः सिद्धान्तः । प्रणतिसमये गुरूणां पूज्यानां वा यदा ऐश्वर्यं, देवत्वं वक्तृत्वं, प्रयोक्तृत्वमादि च पूज्यत्वनिमित्तं स्मर्तव्यं भवति, तदा गुरु-पितृ-प्रभृतीनामुल्लेखः आचारसिद्धः । तद्यथा मधुसूदनसरस्वतीभिः सिद्धान्तबिन्दौ ग्रन्थारम्भे-श्रीभगवत्पूज्यपादानां शङ्करा चार्याणां नामग्राहं नमनं कृतम् । एवमभिवादनादौ सङ्कल्पादौ च नामोच्चारणमपि एतन्न्यायेनैव न दोषावहम् । गुरुमतखण्डनेपि गुरुभक्ति: ननु शुक्रबृहस्पती ऐश्वर्यसम्पन्नौ देवौ स्तः तर्हि तदीयमतस्य क्वचिन्मूलकृता 'नेति कौटिल्य' इत्युक्त्या कथं प्रतिषेधः कृतः ? इति चेत् उच्यते । सर्वेऽपे सचेतनाः स्वकृत्या ईशरूपतां जीवरूपतां वा प्राप्तुमर्हन्ति इति पूर्वं प्रपञ्चितमस्ति । तदनुसारेण यदा ईश्वरकर्तृकक्रियोपकरणत्वरूपदेवत्वमात्मनि जीवे उक्तरीत्या आविर्भवति तदा प्रतिपाद्यार्थविषये यथार्थदर्शनं भवति । यदा च तदनुपकरणत्वम् जीवे आविर्भवति तदा तस्य विपरीतार्थोपि दृष्टिगोचरः भवितुमर्हः । शुक्रबृहस्पती च जीवभावेन, कदाचित् देवभावेन वा स्थातुमर्हतः । एवं स्थिते यदा तौ जीवभावमवलम्ब्य ब्रूतः तदा तद्वचने प्रमाणत्रयघटितनीतिलक्षणदृष्ट्या समन्वयः कर्त्तव्य एव । तद्बाधायां तावानंशः अस्माभिः अननुष्ठेयः । एवं सत्यपि अस्माभिरननुष्ठेयत्वेन निश्चितस्यार्थस्य विधायकं जीवभावेन स्थितयोः तयोस्तद्वचनं सर्वथा अप्रमाणमिति तु न मन्तव्यम् तस्यापि सत्यवसरे कैश्चित् अनुष्ठीयमानत्वात् तेषां कृते सफलत्वाच्च । वस्तुतः शुक्रबृहस्पत्योः इतरस्य वा मतस्य चाणक्यनिर्दिष्टमतेन सह समन्वय एव अस्तीति यथासम्भवं प्रयतिष्यते । ननु चाणक्यो मनुष्यः, शुक्रबृहस्पती च देवौ स्तः इति देवतानां वचनापेक्षया मानववचने दोषबाहुल्यं सम्भवितुमर्हति तथा सति मानववचने देववचनापेक्षया अनुष्ठेयत्वलक्षणं विशेषतः प्रामाण्यञ्च कथं स्वीक्रियताम् । इति चेन्न । वचनानां स्वरूपतः निर्दोषत्वेऽपि अप्रामाण्यं भ्रमप्रमादादिदोषप्रयुक्तमेव वक्तव्यं भवति । यदि ॥ अर्थशास्त्र ॥ पृथिव्याः लाभे पालने च यावन्त्यर्थशास्त्राणि पूर्वाचार्यै: प्रस्थापितानि, प्रायशस्तानि सङ्गृह्य एकमिदमर्थशास्त्रं कृतम् ॥ ॥ क्रोड ॥ च पूर्वोक्तरीत्या मनुष्यः धर्मज्ञानविरागैश्वर्यसम्पन्नः सत् वक्ति तर्हि तद्वचने अप्रामाण्यकल्पनायाः अवसर एव नास्ति यतः एकाग्रभूमिकायां स्थितस्य तस्य मुक्तत्वे नास्ति शङ्का। तथा च तथाविधस्य ऐश्वर्यादिसम्पन्नस्य मानवस्यापि वाङ् मुक्तानामेव वाक् भवितुमर्हति । सा च उपर्युक्त टिप्पणीस्थ भावप्रकाशनोद्धृत( पृ० १९) वाक्यात् अव्यभिचरितफला भवतीति स्थितम् । “उपर्युपरिबुद्धीनां चरन्तीश्वरबुद्धयः” इत्युक्त्या मुक्तानां तत्समकक्षानां वा उपरिबुद्धित्वात् तेषां वाक् प्रमाणभूता भवत्येवेति चाणक्योऽपि तथाविधः सन् जीवभावदशायां स्थितयोः शुक्रबृहस्पत्योः मतं खण्डयति तर्हि तद्युक्तमेव । [१] एतेन चाणक्येन मानवेन समयानुसारेण पूर्वावार्य मतं प्रतिषिद्धम् लोकस्थिति दृष्ट्वा, इत्यस्माभिरपि वर्तमानदेशकालपरिस्थितिमवलोक्य तन्मतस्यापि परिवर्तनं कर्तुं शक्यते इति शङ्का अपास्ता । (२८ पृ० ) अपि च नीतिशास्त्रस्य वर्तमानसमयेऽपि तथाविधमेवाभ्यहितत्वमस्तीति वैदिकसिद्धान्तसंरक्षिण्यां प्रपञ्चितत्वात् चाणक्यप्रतिपादिता नीति: अद्यापि अपरिवर्तनीयैवेति मन्तव्यम् तथात्वस्य अग्रे चिन्तितत्वात् । अत्र विषये जयमङ्गलाङ्कृन्मतन्तु अग्रे यथावसरं यथावसरम् "अत्र केचिदाहु"रित्या दिग्रन्थव्याख्याने निरूपयिष्यते । ॥ टी० गणपतिशास्त्रिभि: विरचिता ॥ ॥ श्रीमूला ॥ स्वग्रन्थस्य निर्मूलत्वादिशङ्कानिराकरणपूर्वं प्रकरणाधिकरणसमुद्देशं प्रतिज्ञातुं भूमिकां रचयति – पृथिव्या इत्यादिना | पृथिव्या भूमेः, लाभे अप्राप्तायाः प्राप्तौ, पालने लब्धायाः परिरक्षणे च विषये । अर्थशास्त्राणि अर्थो नाम वृत्तिः वर्तनं स्थितिः, सैव हि मनुष्याणां मुख्योऽर्थः तया च मनुष्यसम्बन्धिन्या तदाधारभूता भूमिरुपलक्ष्यते एवं च मनुष्यवती भूमिरित्यर्थः । तस्याः लाभपालनोपायोपदेशकानि शास्त्राणि अर्थशास्त्राणि | यावन्ति, पूर्वाचार्यैः शुक्रबृहस्पतिविशालाक्षादिभिः, प्रस्थापितानि प्रवर्तितानि तानि । प्रायश इति बाहुल्योक्त्या क्वचित् क्वचिदात्मीयदर्शनानां प्रतिपादनं दर्शयति । संहृत्य संगृह्य, एकमिदमर्थशास्त्रं कृतम् । एकं नाना -- १. युक्तियुक्तमुपादेयं वालादपि सुभाषितम् । त्याज्यं तद्विपरीतं तु अप्युक्तं पद्मयोनिना । चाणक्योनापि उक्तम् – शास्त्रं विप्रतिपद्येत धर्मन्यायेन केनचित् । न्यायस्तत्र प्रमाणं स्यात् तत्र पाठो हि नश्यति । इति । अ० शास्त्र-विप्रकीर्ण-समस्तविषयैकनिधानम् । इदं बुद्धिस्थं अर्थशास्त्रम्। कृतं मया प्रणीतम् । एतेन मदीयस्यास्यैकस्य ग्रन्थस्य परिशीलनात् कृत्स्नपूर्वाचार्य दर्शनविज्ञानं सुखलभ्यमिति सूचयन् स्वशास्त्रस्य – समूलत्वं पूर्वाचार्य ग्रन्थैरगतार्थत्वम् च द्योतयति । ॥ श्री राजेश्वरशास्त्रिद्राविडव्याख्याता ॥ ॥ वैदिकसिद्धान्तसंरक्षिणी ॥ पृथिव्या इति । चतुर्वर्णाश्रमवती हिमवत्समुद्रान्तरवर्तिनी भूमि: तस्या इत्यर्थः । तदुक्तम् “यस्य प्रभावाद्भुवन"मिति ( नीतिसारव्याख्यायाम् [१] ) । एतावद्भूक्षेत्रमेवैतच्छास्त्रे चक्रवर्तिक्षेत्रत्वेन व्यवह्रियते इत्यपि बोध्यम् । लाभे पालने चेति । निमित्तसप्तमीयमिति टीकायां व्याख्यातम् । निमित्तत्वं च स्वान्वयव्यतिरेकानुविधाय्यन्वयव्यतिरेकप्रतियोग्यवश्यानुष्ठानकत्वम्। तच्च ‘राहूपरागे स्नायात्' 'चर्मणि द्वीपिनं हन्ति' इत्यादौ स्फुटम् [२] । ईदृशन्निमित्तत्वमर्थशास्त्रस्य लाभपालनयोर्वर्तते । अर्थात् एतदर्थशास्त्रमनुष्ठानपर्यवसायितया चिन्तितं चेत् श्लाघामुत्पाद्य स्थायिलोकसम्मतिलाभपुरस्सरं पृथिव्या लाभपालनयोः पर्यवसायि भविष्यति । अर्थशास्त्राभावे तु व्यापकाभावात् व्याप्यभाव इति न्यायेन लाभपालने न भविष्यतः । तदुक्तम् आन्वीक्षिकी-त्रयी-वार्ताः सतीविद्याः प्रचक्षते । सत्योऽपि हि न सत्यस्ता दण्डनीतेस्तु विप्लवे ॥ दण्डनीतिर्यदा सम्यङ् नेतारमधितिष्ठति । तदा विद्याविदः शेषा विद्याः सम्यगुपासते ॥ इति लाभः स्वस्य करादिग्रहणाद्युपयोगिस्वत्वोत्पाद: । पालनं चतुर्वर्णाश्रमाणां मनस आकर्षणानुकूलो भयनिवृत्ति-पोषणादिव्यापारः । तदर्थमर्थशास्त्रमिति संबन्धः । ननु वर्धनं सत्पात्रप्रतिपत्तिश्च अर्थशास्त्रस्याधिकं फलमिति नीतिसारे उक्तम्, तदत्र कुतो नोक्तमिति चेन्न । तयोरत्रैवान्तर्भावात् । ( तद्रष्टव्यं जयमंगलायां [३] ) । -- १. भुवनं चतुर्वर्णाश्रमलक्षणो लोकः । २. भाट्टदो २ अ० ४ पा० १ अधि० ( यावज्जीवनिमित्तता धि० ) निमित्तत्वं च स्वान्वयव्यतिरेकानुविधाय्यवश्यानुष्ठानवत्त्वम् । यथा राहूपरागान्वयव्यतिरेकानुविधाय्यवश्यानुष्ठानं यस्य स्नानस्य तद्वत्त्वं राहूपरागे इति । ३. तस्या अर्जनं त्रिविधं नवं भृतपूर्वं पित्र्यं च रक्षणमपि द्विबिधं स्वेभ्यः परेभ्यश्च । ननु रक्षितविवर्धनं वृद्धस्य तीर्थप्रतिपादनमप्यस्ति । सत्यमस्य द्वयस्यैव विशेषोऽयं यतो रक्षितविवर्धनमप्यर्जनमेव । वृद्धस्य तीर्थप्रतिपादनमपि गुणवति पुत्रे निक्षेपो वा अश्वमेधादौ विनियोगो वा । तदुभयमपि सर्वथा रक्षणमेव । इति । ४ यावन्तोति । सर्वमपि प्राचीनमर्थशास्त्रं कौटिल्येन अदृष्टं नास्ति । अर्थशास्त्राणि ब्राह्मनारदीयवैशालाक्षौशनसबार्हस्पत्यादीनि । अर्थो वृत्तिः, तदर्थं शास्त्रम् अर्थशास्त्रम्, तानि । पूर्वाचार्यैब्रह्म-नारद-शुक्र-बृहस्पति-भारद्वाज-विशालाक्ष- भीष्मपराशर-वातव्याधीन्द्र-प्राचेतस-मनु-गौरशिरो-व्यासादिभिः प्रस्थापितानि प्रणीतानि । अत्र प्रमाणं भारते अनुसन्धेयं अग्रे प्रदर्शितम् [१] । ननु वैशालाक्षादिप्राचीनार्थशास्त्रं भारतादन्यत्र निबन्धेषु नोद्धृतं एवञ्च कौटिल्येन तानि दृष्टानि आसन् इत्यत्र विनिगमकं किमिति चेदुच्यते । आधुनिकशिष्टपरिगृहीतनिबन्धेषु तद्वचनानामनुपलब्धावपि भगवत्पूज्यपादशङ्कराचार्यानन्तरभाविसुरेश्वराचार्यापरपर्यायविश्वरूपाचार्यैः स्वकृतायां मिताक्षराटीकायां बालक्रीडायां ( या० स्मृ० अ० २ | इलो० ३०७-३-८) वैशालाक्षबार्हस्पत्यौशनसवचनानि उद्धृतानि उपलभ्यन्ते । बृहस्पतिरित्यादिना [२]। -- १. जयमङ्गलायाम् अर्थशास्त्रे ब्रह्माध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम । तच्छङ्करेण शक्रेण गुरुणा भार्गवेण च ॥ संक्षिप्तं मनुना चैव बहुभिश्च तपोधनैः ॥ एतत्ते राजधर्माणां नवनीतं युधिष्ठिर । बृहस्पतिर्हि भगवान् नान्यं धर्मं प्रशंसति । विशालाक्षश्च भगवान् काव्यश्चैव महातपाः ॥ सहस्राक्षो महेन्द्रश्च तथा प्राचेतसो मनुः । भारद्वाजश्च भगवाँस्तथा गौरशिरा मुनिः ॥ राजशास्त्रप्रणेतारो ब्राह्मणा ब्रह्मवादिनः । इति । ( शा० रा ० पर्व पृ० १३४ अ० ५८ श्लो०१-३ ) २. वृहस्पतिः स्वधर्मं विदनुरक्तः शुचिरनुद्धत उद्युक्तो देशकालविन्नीतिनिगमेतिहासकुशलोऽव्यसनी मृदुरर्थशास्त्रकृतयोग्यो हस्त्यश्वपुरुषाचा राहोरात्रयामनिर्गम विनिश्चितमतिश्च स्वपरबलाबलज्ञो बलाधिकृतः सेनापतिः स्यात् । कुलाढ्य उद्युक्तो मृदुरुदात्तः समरचित्तः शूरोऽनुरक्तोऽभेद्यः पत्तिविशेषज्ञ इंगिताकारकुशल : प्रतिहार: स्यात् । वनकुलकालजातिसात्म्यगुणवयःशीलायुरादानगमनकल्पनावान् व्यपगतभयो विजयोजितमना हस्त्यध्यक्ष : स्यात् । क्षेत्रजातिसात्म्यगुणलक्षणवाहनास्त्रज्ञोऽनुरक्तः शुचिर्दक्ष: स्मृतिमान् देशकालज्ञो दर्शनीयो नीतिगतिज्ञः प्राज्ञो वाग्मी दूतः स्यात् । उभयत उत्तमवंशप्रभवः शुद्धो मनुबृहस्पत्युशनःशास्त्रविद् दण्डनीत्यादिकुशलोऽशठोऽजिम्हः सम्मानासम्मानाविकृतो विगतभीः कार्याकार्यविनिश्चितमतिर हार्यः सर्वोपधाशुद्धी गूढमन्त्री मन्त्री स्यात् । अविकार्योऽविकलेन्द्रियः प्रतापवान् सुभगः सुमुखोऽकृपणोऽप्रमादी दक्षो दाक्षिण्यचारित्ररक्षणार्थमधिकरणासन्दिग्धविवेककृदुपरिकः स्यादिति । तथा बृहस्पतिः ब्रह्मशङ्खस्तुतिपुण्याहशब्दैविबुध्योत्थाय सन्ध्यामुपास्य देवपितृब्राह्मणान् अत: तत्पूर्वभाविनः कौटिल्यस्य समये वैशालाक्षाद्यर्थशास्त्राण्यासन् उपलब्धानि, इत्यत्र नास्ति विप्रतिपत्तिः । संहृत्य संक्षिप्य पूर्वग्रन्थानामति विस्तृतत्वात् । ततः इति शेषः । तदुक्तम् प्रजानामायुषो ह्रासं विज्ञाय च महात्मना । संक्षिप्तं विष्णुगुप्तेन नृपाणामर्थसिद्धये । इति ( जयमङ्गला अ० १ । १ ) विष्णुगुप्तेन कौटिल्येन । प्राचीनार्थशास्त्रपरिमाणम् एतत्पूर्वतनग्रन्थानां विस्तार एवं निर्दिष्ट: । तद्यथा ब्राह्मं लक्षाध्यायात्मकम्, वैशालाक्षं दशसहस्राध्यायात्मकम्, ऐन्द्रं पंचसहस्राध्यायात्मकम् बार्हस्पत्यं त्रिसहस्राध्यायातमकम्, औशनसं सहस्राध्यायात्मकमिति (३३ पृ.) । इदं तु षट्श्लोकसहस्रात्मकम्। यद्वक्ष्यति “शास्त्रसमुद्देशः, पञ्चदशाधिकरणानि, साशीतिप्रकरणानि, सपञ्चाशदध्यायशतं, षट्श्लोकसहस्राणि " । इति १ । १ अथवा संहृत्य स्तोकं स्तोकं परित्यज्येति जयमंगलायाम् । तेन नास्य ग्रन्थस्य गतार्थत्वम्। यद्वा संगृह्येति पाठान्तरम् । एतत् पाठे कानिचन विशिष्टस्थलानि परित्यज्य "यथा नेति कौटिल्य" इत्यादौ ततः अन्यः सर्वोऽव्यंशः पूर्वाचार्य-सङ्गृहीतो बोध्य इति । प्रायशः इति । आधिक्येन अत्र प्राचीनार्थशास्त्रस्य ग्रहणम् । क्वचित्तु "शुल्बधातुशास्त्र" ( २ । १२ अ० ) इत्यादौ स्वनिर्मितस्य धातुकौटिलोयस्य संग्रहो बोध्यते । एकमिति । एतच्छास्त्राध्ययने नास्ति इतरार्थशास्त्राध्ययनापेक्षेति दर्शयति, अनपेक्षितार्थशास्त्रान्तरसहायमिति यावत् । तदुक्तं जयमङ्गलायाम्अनपेक्षितसहायान्तरम् इति । इदं बुद्धिस्थम् । अथवा अयमुद्देशग्रन्थः निर्देशग्रन्थानन्तरं निर्मितः स्यात् इति यदि स्वीक्रियते, तर्हि संपूर्ण निर्देशग्रन्थात्मकार्थशास्त्रपरः इदंशब्दो बोध्यः । अर्थेति । पुनरर्थग्रहणं स्वमते तस्य प्राधान्यप्रदर्शनार्थम् । तेन क्वचित धर्मनिरूपणमर्थार्थमिति बोध्यम् । शास्त्रम् पञ्चदशाधिकरणसमुदायात्मकम् । कृतं मयेति शेषः । इदमर्थशास्त्रं प्राचीनं वा सर्वमपि प्राधान्येन नीतिशास्त्रमित्युच्यते । तदुक्तं कामन्दकीये -- मनसा वा नमस्कृत्य धर्मार्थकामभयोपधाशुद्धावञ्चकगृहीतायुधायातयाम विश्वासोत्पन्नासन्नपरिवृते: इति । तथा एवं च विशालाक्ष:( अ० ३२३ श्लो० व्याख्यानम ) वन्यान् वनगतैनित्यं मण्डलस्थांस्तथाविधैः । चारैरालोच्य सत्कुर्याज्जिगीषुरर्दीर्घदृक् ( आ० ३२८ तमश्लोकव्या० ) ॥ इति । नीतिशास्त्रामृतं श्रीमानर्थशास्त्रमहोदधेः । य उद्दध्रे नमस्तस्मै विष्णुगुप्ताय वेधसे | इति ( स० १ श्लो० ६ ) नीतिलक्षणम् अस्य स्पष्टीकरणाय नीतिस्वरूपमुच्यते । तत्रोपाध्याय निरपेक्षायाम् “प्रत्यक्षपरोक्षानुमानलक्षणप्रमाणत्रयनिर्णीतायां फलसिद्धौ देशकालानुकूल्ये सति यथासाध्यमुपायसाधनविनियोगलक्षणा क्रिया नीतिः” इति । जयमङ्गलायां तु — “प्रत्यक्षानुमानागमप्रमाणदेशकालशक्तिपुरस्सरार्थसाधनविनियोगलक्षणा क्रिया नीतिः” । अ० १ । १ । इति उभयमत साधारण्येन प्रत्यक्षादिप्रमाणत्रयनिर्णीतेष्टसाधनताककर्मानुष्ठानं नीतिरिति तदर्थः । जयमङ्गलोक्तशक्तिनिवेशतात्पर्यन्तु तद्व्यख्याने वक्ष्यते । आगमोपयोगः अत्र नोतिलक्षणे प्रमाणत्रयस्य सार्थक्यं वक्तव्यमस्ति । तत्र अभ्यर्हितत्त्वात् शब्दप्रमाणस्य नीतावुपयोगित्वं प्रस्तूयते । तथाहि - प्रत्यक्षानुमानाभ्यां निर्णीतेऽपीष्टसाधनत्वे कालान्तरे तत् साधनत्वेनाभिमतं तथैव स्यात् । ततः कश्चन दुरपनेयो दोषो वा नोत्पद्येत! अथवा तस्य अन्यथासिद्धत्वं तत्कार्यं प्रति नास्ति इति सर्वज्ञबुद्धिमन्तरा कस्य बुद्धिनिर्णेतुं समर्था भवेत् ? यथा आधुनिकेऽपि समये दन्तवैद्यः दन्तानां सूक्ष्मातिसूक्ष्मं भेदादिविषयं चिन्तयन् अन्यच्चिन्तयितुमवसरं न लभते । न वा स्वीकृतदन्तचिकित्सायामितरावयवेषु दुष्परिणामो न ततः सम्भविष्यतीति वक्तुं स प्रतिभूत्वं स्वीकर्तुं शक्नोति । तथैव अनुष्ठानात्मकनीतौ दीर्घकालानन्तरं समाजस्य कीदृशी स्थितिर्भविष्यति ? किं कदा भविष्यति ? कस्य कीदृशः परिणाम: ? कति वा विरुद्धसंयोगा हानिकराः ? इदं लघु, इदं गुरु, इदं तत्त्वं, इदं नेति निर्णय : केन कर्तुं शक्यः ? सम्भवति च प्रत्यक्षानुमानाभ्यां कृतोपि निर्णय: ईशसमवेतेन ज्ञानेन विसंवाद्यपि । तत्र पूर्वोक्तयुक्त्या ईशज्ञानावृत्तिविषयताशून्यत्वरूपं प्रमात्वं वा न भवेत् । सत्येवं ज्ञानप्रभासत्त्वपरिणामिनी नोपलभ्येत । पुरुषबुद्धिप्रसूतेष्वर्थेषु अप्रामाण्यदर्शनेन तत्र सन्दिग्धत्वं दोषबहुलत्वं, आशङ्कार्हत्वं, क्वचिद्यथार्थत्व वा तत्र न भवितुमर्हं स्यात् ? परमेश्वरस्तु यमर्थमुपदिशति तत्र कार्यकरत्वस्य नँयत्यात् आनन्दप्रभामिश्रितत्वं नियतं इति प्रागुक्तम् । अतः तस्य नैयत्ययुक्तस्य राज्यबीजभूतस्य सत्त्वस्य लाभाय शब्द प्रमाणं नीतिलक्षणं घटकतयोक्तम् । प्रत्यक्षानुमानोपयोगः अथ नीतिलक्षणे प्रत्यक्षानुमानोभयोपयोगित्वमुच्यते । विषयोऽयं रसप्रतीतौ प्रतिबन्धकानां विचारे कृते सति स्फुटः स्यात् । यतः तत्र ये प्रतिबन्धका विघ्नास्त एव नीत्यनुष्ठाने तदधिकारिणां पुरतः सम्भवन्ति । तन्निवारणोपायाश्चोभयत्रापि समानाः, इति प्रत्यक्षानुमानयोः उपयोगित्वप्रदर्शनार्थं रसप्रतीतौ प्रतिबन्धक भूता विघ्नास्तन्निवारणेपायाश्चाभिधीयन्ते । तथाहि-असम्भावना १ - विपरीतभावना २- देश कालविशेषावेशः ३-निजसुखादिविवशीभावः ४-अप्रधानता ५ सन्दिग्धता ६-परिमित प्रमातृता ७- चेति सप्त विघ्नाः साहित्यशास्त्र अभिनवभारत्याम् उपवर्णिताः अमुकं कर्म अमुकेन अमुकसमये कृतं इत्येतत्स्वरूपे ज्ञाने तेन मम कि प्रयोजन ? इति ज्ञात्वा तच्चरित्रदर्शनात्सामाजिक औदासीन्यं भजते । तन्निरासाय नाटके विधिभागः चरित्राभिनयेन ज्ञापयितव्यो भवति । तेन वैधं कर्म अस्माभिरनुष्ठातव्यमिति जानान: सामाजिकः नौदासीन्यं ततः स्वीकरोति इति देशकालविशेषावेशः, एवमेव सर्वसाधारण्येन समयनिर्देशान्निजसुखादिविवशीभावः, साधारणीकरणव्यापारात् परिमितप्रमातृता, रसस्य प्राधान्यात अप्रधानता, अनुभावादीनां यथावदभिनयात् अभिव्यज्यमानविषये संदिग्धता चेति पञ्चदोषा अपसार्यन्ते । असम्भावना विपरीतभावनयोनिराकरणाय ऐतिहासिकं लौकिकं प्रसिद्धं च नेतृचरित्रं नाटके अभिनीयते । अन्यथा अभिनीतं तच्चचरित्रं अलौकिकत्वात् असम्भावितं मन्येरन् नाटकदशिनः । तथैव कार्यकारणभावविपरीतं चेत् तच्चरित्रं बाधितमिति ततो विरसीभवन्ति सामाजिका: । अतः प्रत्यक्षानुमानाभ्यां मिहैवसिद्धत्वं प्रदर्श्य अभिनीतस्य चरित्रस्य लौकिकत्वं संसाध्यते । अर्थात् असम्भावनाविपरीतभावनयोः निरासाय प्रत्यक्षानुमानाभ्यां निर्णीतं यच्चरित्रं लौकिकत्वेन प्रसिद्धं तदेव कविनाऽभिनीयते । एवम् नीतिशास्त्रेणापि यद्विधीयते परिपालनोपायानुष्ठानार्थं, तत्र यदि असम्भावितत्वं आशङ्कितं स्यात् तर्हि तन्निरासाय प्रत्यक्षानुमानाभ्यां नीतिविहिते लौकिकत्वं, तथा पूर्वराजचरितत्वादबाधितत्वं च ज्ञाप्यते इति । एतेन तर्कसचिवस्य इतिहासस्य प्रामाण्यमपि सिद्धं भवति । अतः नीतिलक्षणे प्रत्यक्षानुमानयोनिवेशः कृतः । यद्यपि नीतिशास्त्रात्मकमर्थशास्त्र पृथिव्या लाभपालनार्थं अस्तीति प्राङ् निर्णीतम् । लाभपालने च राजधर्मः । तथा च निष्प्रयोजनत्वात् अर्थशास्त्रं राज्ञः इतरैर्नाध्येयमिति आपाततो भाति, तथापि यस्मिन् समये राजा नीतिशास्त्र पर्यालोचयन् प्रजा: पालयति तदा इतरे नीतिशास्त्रं मा चिन्तयन्तु । यदा तु तथाविधो राजा नास्ति तदा इतरै : पालनधर्मो नोपेक्ष्यः । न वा तद्विधायकं नीतिशास्त्रम् उपेक्ष्यतामहति, पालनधर्मस्य मुख्यत्वात् । तदुक्तम्क्षात्रो धर्मोह्यादिदेवात्प्रवृत्तः पश्चादन्ये शेषभूताश्च धर्माः इति ( भारत ) ' [१] । -- १. तथा दण्डनीतिर्यदा सम्यङ्नेतारमधितिष्ठति । तदा विद्याविदः शेषा विद्याः सम्यगुपासते ॥ ९ ॥ आन्वीक्षिकीत्रयीवार्ताः सतीविद्या प्रचक्षते । सत्योऽपि हि न सत्यस्ता दण्डनीतेस्तु विप्लवे ॥ ८ ॥ इति (नी० स० २ ) - ॥ शङ्करायकृता ॥ ॥ जयमङ्गला ॥ शास्त्रारम्भं प्रयोजनमाह - पृथिव्या इति । अन्यथा अनुक्तप्रयोजने प्रेक्षावताम् अप्रवृत्तेः । पृथिव्या इति तत्स्वभावाया विस्तीर्णरूपाया इत्यर्थः । अनेन शास्त्रस्य महाविषयताम् आह लाभे पालने चेति । लाभनिमित्तं पालननिमितं च "निमित्तात् कर्मसंयोग’’ ( वा० २. ३. ३६ ) इति सप्तमी | लाभो "नवो भूतपूर्वः पित्र्यश्चेति' ( अधि० १३. अध्या० ५ ) | पालनमपि स्वेभ्यः परेभ्यश्चेति द्विविधम् । विषयसप्तमी वा शास्त्रस्य अनन्यत्रभावात् । ननु चोभयोरपि पक्षयोर्वर्धनस्य तीर्थप्रतिपादनस्य चासंग्रहात् कथं प्रतिपत्तिः । यथा वक्ष्यति- “रक्षितवर्धिनी वृद्धस्य तीर्थप्रतिपादनी च” ( अवि० १. अध्या० ४ ) इति । सत्यम् । किञ्चास्यैव विशेषनिर्देशोऽयम् । रक्षितवर्धनमप्यर्जनमेव, तीर्थप्रतिपादनमपि गुणवति पुत्रादौ निक्षेपः, अश्वमेधादौ वा विनियोगः । तदपि हि रक्षणमेव । तस्मादुभयमपि पालनान्तर्भूतमेव द्रष्टव्यम् । ॥ जयमङ्गलाक्रोडपत्रम् ॥ निमित्तादिति । वैदिक सिद्धान्तसंरक्षिण्यां निमित्तत्वं ( २५ पृ.) स्फुटीकृतम् । सप्तम्या अर्थान्तरमाह — विषय इति । शङ्कते नन्विति । स्वत्वास्पदीभूतस्य स्वजीवनानन्तरं रक्षणोपायमाह - गुणवतीति। अगुणश्चेत् पुत्रः धन प्राप्य प्रमादेन अर्थं विनाशयेत् अतः गुणवत्पदोपादानम् | राज्यसंरक्षणक्षमः अपरोऽपि कश्चित् पुत्रसदृशः गुणवान् भवितुमर्हति तद्व्यावृत्तये पुत्रपदम् । तेन पुत्रे आत्मसम्पद्गुणेषु अन्यतमकुलीनत्वलाभोऽपि अधिको गुणो बोध्यः । गुणवत्पुत्राभावे अश्वमेधादौ सम्पत्तेविनियोगो वरः न तु दुष्टहस्ते इत्याशयेनाह - अश्वमेधादाविति । राज्ञः सत्वसूचनम् सर्वा दिशो विजित्य एकत्र सञ्चितायाः सम्पत्तेः विभाजनं यदि राजा न करोति तर्हि विद्याकलाप्रभृतीनां राज्यस्थित्युपायेषु मूलभूतानां संरक्षणं न भवेत् । तदर्थं सञ्चितायाः सम्पत्तेः र्विभज्य विभज्य यज्ञे दानमवश्यं तेन कर्तव्यम् । तच्च सत्त्वसम्पत्तेः सूचकम् । यद्यपि यज्ञादन्यत्रापि सम्पत्तेनं भवितुमर्हति तथापि यज्ञसस्थैव इदृशी वर्तते यत्र सर्वासां विद्यानां, कलानां च संरक्षणम्, सर्वेषां सेवा, दानद्वारा समस्तानां -- वीरमित्रोदये व्यवहारप्रकाशेऽपि न चैवं प्रजापालनविधेरभिषिक्तक्षत्रियाधिकारिकत्वादन्येषां तत्र फलाभावेनाप्रवृत्तिः । दृष्टद्रव्यादिलाभार्थं कथञ्चित् प्रवृत्तावपि तस्मात् धर्माभावप्रसङ्गः अन्यथादर्शनान्यायप्रदर्शना- वृत्यादिना प्रत्यवायाद्यभावापत्तिश्चेति वक्तव्यम् । अतो दयाऽहिंसादिसाधारणधर्मान्तर्भावेन प्रजापालनस्य तेषामपि धर्मजनकत्वात् नृपपदेन तत्संग्रहसंभवाच्च । इति (वी० व्य० पृ० १३) ॥ जयमङ्गला ॥ यावन्तीति । यावत्प्रमाणानि साकल्यार्थं वचनम् । अर्थशास्त्राणीति अर्थो येन लोको वर्तते तदर्थं शास्त्रमिति । यद्येवं वार्ताशास्त्रं तत्, न नीतिशास्त्रम् । यस्माद् भूमिहिरण्यधान्यपशुभाण्डोपस्करादिरर्थः अमुत इति कृत्वा, तेन नीतिशास्त्राणीति वक्तव्यम् । सत्यम् । प्राधान्यादेवमुक्तम् । यतो भूम्यादीनामर्थानां पूर्वः पूर्वः प्रधानम् ॥ जयमङ्गलाक्रोडपत्रम् ॥ रक्षण, समस्तदेवताप्रसाद: सुभिक्षादिसमृद्धिश्च भवितुमर्हति । तथा यागनिमित्तेन धर्मभावनाया वेदमूलिकाया जागरूकत्वात् तन्मूल: सन्धिश्च स्थिरो भवति । तेन सर्वेषामनुरागपात्रता च नियता । अत एव सन्धयेषु धार्मिकोऽपि एक: विजातीयत्वेन सङ्गृहीतः सत्यार्यावित्यादिना [१] । सर्वेषां वर्णानामाश्रमाणां तत्तद्वृत्तिजीविकानां च अन्तर्बहिर्वा कुत्रचित् अधिकारानुसारेण यत्र उपयोग: वर्तते एवंविधासु यज्ञसंस्थातिरिक्तसंस्थासु स्थायिसन्ध्यनुकूलं सम्पत्ते विभज्य दानं भवितुमर्हतीति न वक्तुं शक्यते । सन्धेः स्थिरतार्थमपेक्षितस्य सत्वसूचकस्य अपौरुषेयवेदमूलकस्य यज्ञादिकर्मणः अङ्गत्वं कथं भवतीति “शान्ति का अग्रदूत” – ग्रन्थे सप्रमाणमुपन्यस्तमस्ति । अतोऽत्र पुनस्तन्न विमृश्यते । एवञ्च अश्वमेधादौ सम्पत्तेविनियोगे कृते सति अपेक्षितस्य राज्याधारभूतस्य सत्त्वस्य राज्ञि अभिव्यक्तिर्भवति इति सिद्धम् । अत्राश्वमेध एव न विवक्षितः । किन्तु आदिपदात् सत्त्वगुणस्य परिचायकादि यद्यत् येषु येषु धर्मेषु अभिव्यज्यते ते ते सर्वे धर्माः सन्धायका अत्र विवक्षिताः । इदं फलमुपलक्षणम् । अश्वमेधादिधर्मसम्पादनेन अदृष्टद्वारा सम्भाव्यमानानि उपर्युक्तफलापेक्षया अतिरिक्तफलान्यपि प्रशस्तपादभाष्यादौ उक्तानि वेदितव्यानि ( प्र ० भा० ) कर्मनिरूपणे । अर्थपदं व्याहर्तुमाह – अर्थ इति । अर्थशास्त्रनीतिशास्त्रयो-र्भेदमाशङ्क्य नीति -- १. सत्यार्थी धार्मिकानार्थी भ्रातृसङ्घातवान् बली । अनेकयुद्धविजयी सन्धेयाः सप्त कीर्तिताः । नी० सार स० ९ तथा ज्ञानं तपो यज्ञविधिः प्रदानमेते कृतादौ सुकृतावताराः । एतैः समाकृष्य जगन्ति धर्म सन्तापयामास बलादधर्मम् । ( धर्मविजयनाटके घ० वि० ना० १ अ० १ श्लो० ) २. " योगिनां च बहिरुद्रेचितस्य मनसोऽभिप्रेतदेशगमनं प्रत्यागमनं च तथा सर्गकाले प्रत्यग्रेण शरीरेण सम्बन्धार्थं कर्मादृष्टकारितम् । एवमन्यदपि महाभूतेषु यत्प्रत्यक्षानुमानाभ्या- मनुपलभ्यमानकारणमुपकारापकारसमर्थं च भवति तदप्यदृष्टकारितम् यथा सर्गादावणुकर्म, अग्निवाय्वोरूर्ध्वतिर्यग्गमने, महाभूतानां प्रक्षोभणम् । अभिषिक्तानां मणीनां तस्करं प्रति गमनम् । अयसोऽयस्कान्ताभिसर्पणं चेति” । ॥ जयमङ्गला ॥ अर्थः[^१] प्रधानञ्च मनुष्यवती भूमिः, सर्वकर्मणां योनित्वात् । वक्ष्यति च तन्त्रयुक्तौ— "मनुष्याणां वृत्तिरर्थः, मनुष्यवती भूमिरित्यर्थः । तस्या मनुष्यवत्या भूमेः पृथिव्या लाभपालनोपायभूतं शास्त्रमर्थशास्त्रमिति" ( अधि॰ १५. अध्या॰ १ ) । वृत्तिरर्थ इति वर्तनहेतुत्वात् । पूर्वाचार्यैरिति । पूर्वग्रहणं प्रकर्षार्थत्वाद् बृहस्पत्याद्युपसंग्रहार्थम् । आचार्यैरिति, न यैः कैश्चित् । प्रस्थापितानि प्रवर्तितानि । प्रायश इति प्रतिषेधार्थम् । ( क्वचित् स्वीयमतप्रदर्शनार्थम्, नेति कौटिल्य इति ) । अनेन सामान्येनार्थशास्त्रस्य प्रयोजनमुक्तम् । तेषु सत्सु पुनरारम्भोऽनर्थक इति चेदाह-तानीति । संहत्य ततः स्तोकं स्तोकं परित्यज्य । इयांस्तु विशेषः । अत्र यत् केषाञ्चिन्मतमनुमतं यथा "सर्वमुपपन्नमिति कौटिल्यः" केषाञ्चिन्नानुमतं यथा "नेति कौटिल्यः" इति । एकमिति अनपेक्षितसहायान्तरम् । इदमिति बुद्धिस्थमाह । पुनरर्थशास्त्रग्रहणं प्रसङ्गतो धर्माद्युपदेशेऽपि अर्थोपदेश: प्रधानमिति प्रकाशनार्थम् "अर्थमूलौ हि धर्मकामौ" ( अधि॰ १, अध्या॰ ७ ) इति । कृतमिति शास्त्रपरिसमाप्तिमाशंसते । "वृष्टश्च देवो निष्पन्नाश्शालयः" इति । यथा प्रपञ्चित ( विचित्र ? ) त्रिवर्गाणि पूर्वाचार्यप्रणीतशास्त्राणि संक्षिप्य अल्पेन ग्रन्थेन यदर्थकथनं तदस्य प्रयोजनम् । ऐदंयुगीनानां पूर्वशास्त्राध्ययनासामर्थ्यात् तथा चोक्तम्— "ब्रह्माऽध्यायसहस्राणां शतञ्चक्रे स्वबुद्धिजम् । तच्छङ्करेण शक्रेण गुरुणा भार्गवेण च ॥ सङ्क्षिप्तं मनुना[^२] चैव बहुभिश्च तपोधनैः । प्रजानामायुषो ह्रासं विज्ञाय च महात्मना ॥ संक्षिप्तं विष्णुगुप्तेन नृपाणामर्थसिद्धये ।" इति । ॥ जयमङ्गलाक्रोडपत्रम् ॥ शास्त्रमपि लाभपालनोपायप्रतिपादनात् अर्थशास्त्रान्नान्यत् इति दर्शयितुमाह— सत्यमिति । प्रवर्तितानीति-बहुत्वोक्त्या कदाचित् क्वचित् आत्मीयदर्शनानां प्रतिपादनार्थमिति गणपतिशास्त्रिभिः व्याख्यातम् । प्रकाशनार्थमिति—तेन यत्र कौटिल्येन न निषिद्धं न वा स्वमतमिति उक्तम् तत्सर्वं पूर्वाचार्यसम्मतमेव ज्ञेयम् । विशेषविधिनिषेधयोः शेषविधिनिषेधाभ्यनुज्ञाकल्पकत्वमितिन्यायात् । प्रजानामायुष इति । ह्रासः यः अत्र उक्तः तस्य मूलं महाभारते ज्ञेयम् 𑁍 । ––– अशुद्धम् [^१]. प्रधानं । अर्थः । ( पा॰ ) [^२]. संक्षिप्तं मनसा । ( पा॰ ) 𑁍 तद्यथा शा॰ प॰ रा॰ म॰ भा॰ अ॰ ५९- ॥ जयमङ्गला ॥ सम्बन्धस्तु प्रयोजनस्य शास्त्रस्य प्रतिपाद्यप्रतिपादकलक्षणः, स च तदन्तर्गतत्वात् पृथङ्नोक्तः । सामान्यन्तु प्रयोजनमस्य अस्त्येव । ––– ततो ऽध्यायसहस्राणां शतं चक्रे स्वबुद्धिजम् श्लो० २९ पूर्वार्ध ततस्तां भगवान् नीतिं पूर्वं जग्राह शङ्करः । ब्रह्मरूपो विशालाक्षः शिवःस्थाणुरुमापतिः । ८० । प्रजानामायुषो ह्रासं विज्ञाय भगवान् शिवः । संचिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम् । ८१ । वैशालाक्षमितिप्रोक्तं तदिन्द्रः प्रत्यपद्यत । दशाध्यायसहस्राणि सुब्रह्मण्यो महातपाः । ८२ । भगवानपि तच्छाशस्त्र संचिक्षेप पुरन्दरः । सहस्रैः पञ्चभिस्तात यदुक्तं बाहुदन्तकम् । ८३ । अध्यायानां सहस्रैस्तु त्रिभिरेव बृहस्पतिः । सञ्चिक्षेपेश्वरो बुद्ध्या बार्हस्पत्यं तदुच्यते । अध्यायानां सहस्रेण काव्यः संक्षेपमब्रवीत् । तच्छास्त्रममितप्रज्ञः योगाचार्यो महायशाः । ८५ । एवं लोकानुरोधेन शास्त्रमेतन्महर्षिभिः । संक्षिप्तमायुर्विज्ञाय मर्त्यानां ह्रासमेव च । इति । उदयनाचार्या अपि ह्रासकारणं कुसुमाञ्जली व्यवृण्वन् । तद्यथा "जन्म-संस्कार- विद्यादेः शक्तेः स्वाध्याय - कर्मणोः । ह्रासदर्शनतो ह्रासः सम्प्रदायस्य मीयताम् । न्याय कु० द्वि० स्त० श्लो० ३ सम्प्रदायस्य वेदादिसम्प्रदायस्य ह्रासोऽनुमीयतां कुतः जन्मादेर्ह्रासदर्शनात् । प्रयोगश्च वेदादिसम्प्रदायोऽयं अत्यन्तमुच्छिद्यते ह्रसमानत्वात् प्रदीपवत् । स्वरूपासिद्ध्युद्धारायाह जन्मेति । पूर्वं मानस्यः प्रजास्ततः पुत्रमात्रार्थिताप्रयुक्तमैथुनजाः, सम्प्रति सम्भोगकामिप्रवृत्यावर्जितजन्मान इति जन्मह्रासः । पूर्वं चरुप्रभृतिषु संस्कारः, ततो गर्भे, ततो जननानन्तरम् इदानीं कथञ्चिदिति संस्कारहासः । पूर्वं सहस्रशाखस्य चतुर्वेदस्याध्ययनं तत एकस्याः शाखाया इत्यादिक्रमेण विद्याह्रासः । विद्यादेरित्यादिना वृत्तिधर्मादिसंग्रहः । पूर्वमुञ्छशिलवृत्तयस्ततोऽयाचितवृत्तयस्ततः कृष्यादिवृत्तयस्ततः सेवावृत्तय इति वृत्तिह्रासः । पूर्वं तपोज्ञान-यज्ञदानात्मकश्चतुष्पाद् धर्मः ततः त्रेतादौ एकैकह्रासः । कलौ च विसंष्ठुलः स्खलद्दानैकपादिति धर्मह्रासः । पूर्वं यज्ञशेषभुज- स्ततोऽतिथिशेषभुजस्ततः स्वार्थसाधितभुजस्ततो भृत्यादिसहभुज इत्यादि धर्मह्रासः । स्वाध्यायस्या- ध्ययनस्य कर्मणो यागादेः शक्तेः सामर्थ्यस्य ह्रासात् अध्ययनशक्तेः कारणस्य ह्रासात् विद्या- शक्तेः कार्यस्य ह्रास इति पृथङ् निर्देशः इति । शेषं तट्टीकायाम् द्रष्टव्यम् । ॥ जयमङ्गलाक्रोडपत्रम् ॥ एवंरीत्या अतिचिरन्तनकालात् ह्रासे प्रवृत्तेऽपि भगवदनुकम्पया एकाग्रभूमिकासम्पन्नेन गुरुभक्तेन चाणक्येन अर्थशास्त्रमहोदधिं निर्मथ्य अमृतवत् संक्षिप्तमिदमर्थशास्त्रं प्रदत्तं महते उपकाराय अस्मासु समभूत् । यस्य तु सात्त्विकी प्रज्ञा नास्ति न वा वेदानुगामिनी, न च वेदाध्ययनेन धारणावती, तेन तु अपारं शास्त्रं निर्मथ्य वास्तविकं सप्रमाणममृतमुद्धृत्य मार्गः प्रदर्शयितुम् न शक्यः इति तु निश्चितमेव ( पृ॰ ३४ ) टिप्पण्युद्धृतमहाभाष्यप्रामाण्यात् । तस्य निष्कर्षः । सन्ति केचन शिष्टाः ये जन्मत एव यथाशास्त्रं विनाऽप्यधीतिं साधुशब्दं प्रयुञ्जते । तेषामात्मसन्तोषः व्याकरणेन असाधितेषु प्रयोगेषु साधुत्वस्य निर्णायको भवति इति । अतथाविधैस्तु यथेच्छं व्यवहृतः प्रयोगः साधुत्वपरिचायको न भवति इत्येवं न्यायः अत्राऽपि अनुसर्तव्यः[^१] । अयमेव न्यायः तथाविधैः प्रणीतेषु अन्यसमस्तशास्त्रेष्वपि बोध्यः । कौटिल्यमतस्य शास्त्रसम्मतत्वम् क्वचित् कौटिल्येन पूर्वाचार्यमतं प्रतिषिध्य उपन्यस्ते मते शास्त्रसम्मतत्वं वेदमूलकत्वञ्च नाऽस्ति इत्यतोऽस्य मतस्य शब्दप्रमाणकत्वं कथं भवितुमर्हति इत्ययमंशः अवश्यं विचारणीयतामर्हति । तत्रोच्यते । सर्वोऽपि विषयः शास्त्रेण कण्ठतः उक्तः इति नास्ति स्थितिः । अतएव शास्त्राधीनमहावाक्यतात्पर्यनिर्णयार्थं मीमांसापद्धत्या न्यायानामुपयोगः शास्त्रविद्भिः ----- [^१]. महाभाष्ये पृषोदरादि॰ ६-३-३ पृ॰ २५७ "पृषोदरादीनीत्युच्यते । कानि पृषोदरादीनि । पृषोदरप्रकाराणि । कानि पुनः पृषोदरप्रकाराणि । येषु लोपागमवर्णविकाराः श्रूयन्ते न चोच्यन्ते । अथ यथेति किमिदम् । प्रकारवचने थाल् । अथ किमिदमुपदिष्टानीति उच्चारितानि । कुत एतत् । दिशिरुच्चारणक्रियः । उच्चार्य हि वर्णानाह उपदिष्टा इमे वर्णा इति । कैः पुनरुपदिष्टाः । शिष्टैः । के पुनः शिष्टाः । वैयाकरणाः । कुत एतत् । शास्त्रपूर्विका शिष्टिः शिष्टिपूर्वकं च शास्त्रम् । तदितरेतराश्रयं भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । एवं तर्हि निवासतश्चाचारतश्च । स च आचार आर्यावर्त एव । कः पुनः आर्यावर्तः । प्रागादर्शात्प्रत्यक्‌कालकवनात् । दक्षिणेन हिमवन्तमुत्तरेण पारियात्रमेतस्मिन्नार्यावर्ते निवासे ये ब्राह्मणाः कुम्भीधान्या अलोलुपा अगृह्यमाणकारणाः किञ्चिदन्तरेण कस्याश्चिद्‌विद्यायाः पारङ्गताः तत्र भवन्तः शिष्टाः । यदि तर्हि शिष्टाः शब्देषु प्रमाणम् । किमष्टाध्याय्या क्रियते । शिष्टपरिज्ञानार्थाऽष्टाध्यायी । कथं पुनरष्टाध्याय्या शिष्टाः शक्या विज्ञातुम् । अष्टाध्यायीमधीयानोऽन्यं पश्यत्यनधीयानं येऽत्र विहिताः शब्दाः तान् प्रयुञ्जानं स पश्यति । नूनमस्य देवानुग्रहः । स्वभावो वा योयं न चाष्टाध्यायीमधीते । ये चास्यां विहिताः शब्दाः ताँश्च प्रयुङ्क्ते । नूनमयमन्यान्यपि जानातीति एवमेषा शिष्टज्ञानार्थाऽष्टाध्यायीति" । जयमङ्गला क्रियते । तद्‌द्वारा निर्णीतोऽर्थः शास्त्रमूलको न वेति प्रश्नमादाय न विद्वांसो विप्रतिपद्यन्ते । प्रत्युत "युक्तिहीनविचारे तु धर्महानिः प्रजायते, इत्येव तैः सिद्धान्तितम्[^१] । नीतिशास्त्रविषयोऽपि मीमांसादिसमस्तशास्त्रदृष्ट्या यदि विचार्यते तर्हि कौटिल्यवचनस्याऽपि नीतिशास्त्रमहावाक्यार्थनिर्णये उपयोगित्वात् तत्र वेदमूलकत्वं शास्त्रसम्मतत्वं च वक्तुं युज्यते । तथाहि--एतद्विषयनिरूपणात्पूर्वं शास्त्रं कतिविधं भवति इति अवश्यं ज्ञातव्यमस्ति । अतः आदौ तद्भेदो निरूप्यते । शास्त्रं द्विविधं भवति । अदृष्टार्थकं दृष्टार्थकं च । तत्र अदृष्टार्थकं शास्त्रं 'यजेत', 'उपासीत' 'अग्निहोत्रं जुहोती'त्यादिकम् । ईदृग्विधेषु विधिषु धात्वर्थः अदृष्टोत्पत्यर्थं अज्ञातत्वात् विधीयते । नास्त्यत्र न्यायापेक्षा । दृष्टार्थकं च शास्त्रं 'व्रीहीन् अवहन्ति', इत्यादिकम्। एवंविधेषु विधिषु अवघातादि र्धात्वर्थः । वितुषीकरणरूपेष्टसाधनत्वेन न अज्ञातः इति स न विधीयते । किन्तु "एतादृशस्थलेषु स्वाध्यायोऽध्येतव्यः" इति वचनवलेन प्रयोजनवदर्थज्ञानसाधनीभूताध्ययनभाव्यकत्वेन ज्ञातानामुक्तविधीनां निष्प्रयोजनत्वपरिहाराय नियमादिविधित्वं यथायोग्यं मीमांसान्यायाधीनगौरवलाघवमर्यादया बोध्यं भवति । नह्येतत्कल्पने वेदामूलकत्वं शास्त्रासम्मतत्वं वा कैश्चित् स्वीक्रियते । स एव न्यायः अर्थशास्त्रव्यवहारशास्त्रादिषु दृष्टार्थकेषु समन्वितो भवति । एतानि सर्वाणि शास्त्राणि यत् उद्दिश्य प्रवृत्तानि प्रायः तानि दृष्टफलान्येव । अतः दृष्टमुद्दिश्य प्रवृत्तानि इमानि शास्त्राणि प्रायः नियमविध्यादिपर्यवसायीन्येव भवन्ति । क्वचित् सति सम्भवे तेषु अपूर्वविधित्वं कल्पितमिति अन्यदेतत् । अत एव दृष्टार्थमुद्दिश्य ऋषिभिः प्रोक्तेषु अर्थव्यवहार-शास्त्रादिषु वक्तृतात्पर्यानुरोधेन वाक्यभेदादीनां दोषत्वं न स्वीक्रियते । तदेतत्सर्वं प्रपञ्चितं व्यवहारप्रकाशे द्रष्टव्यम्[^१] । इत्थञ्च नियमविधयः दृष्टार्थकविधिस्थले भवन्तीति स्वीकृतम् । नियमोबलात् इतरव्यावृत्तिरपि अर्थादेव सिद्धा । किञ्च व्रीहीन् अवहन्तीत्यादी तण्डुलस्य निष्पत्तये वितुषीकरणोद्देश्येन प्रवृत्तोऽयं विधिः इदं कार्यमवघातेनैव कर्तव्यमिति नियमे पर्यवस्यति तथा नियमातिक्रमे प्रत्यवायोऽपि भवति इत्यपि च बोधयति । परन्तु उद्देश्यस्य हानौ नियमं परित्ज्य नखविदलनेनापि व्रीहीणां वितुषीकरणं क्रियते । क्वचित् ----- [^१]. घर्में प्रमीयमाणे तु वेदेन करणात्मना । इतिकर्तव्यताभागं मीमांसा पूरयिष्यति । श्लो॰ वा॰ [^२]. ( पृ॰ १३ ) तस्मादयमत्र निष्कर्षः । उत्सर्गापवादादिमूलभूतान्वयव्यतिरेकादिन्यायमूलकता यत्र सम्भवति तादृशव्यवहारशास्त्रस्य सर्वस्य न वेदमूलकता कल्प्यते । यदंशे तदसम्भवस्तत्रादृष्टार्थकतया वेद एव मूलं कल्प्यते । वास्तुसामुद्रिकादिविधिषु ज्योतिःशास्त्रायुर्वेदप्रामाण्यव्यवस्थापनप्रसङ्गे आचार्यैः स्मृत्यधिकरणे व्यक्तमेव एतत्प्रपञ्चितम् । जयमङ्गलाक्रोडपत्रम् समस्तानां अङ्गानां अप्राप्त्या उद्देश्यस्य सर्वथा विलोपे सम्भवति निषिद्धस्यापि ग्रहणं क्रियते । तदिदमुभयमपि अधोनिर्दिष्टेन विवेचनेन स्फुटीभविष्यति । तत्र नियमातिक्रमोदाहरणं - यथा - व्रीहीनवहन्तीति शास्त्रेण अवघाताभावाभावरूपो नियमः उक्तः । अनुष्ठितेपि तस्मिन् यदि एको वा द्वौ वा व्रीही सतुषौ अवशिष्टौ । तदानीम् अवशिष्टस्य तस्य अवयविभावरक्षणपुरस्सरं वितुषीकरणं अवघातेनाशक्यं तदा नखविदलनमपि कर्तुं मीमांसकैरनुमतम् । अथ निषिद्धोदाहरणम् उच्यते । तथाहि- "अयज्ञिया वै माषा" इत्युक्त्या हविर्द्रव्येषु माषाः निषिद्धाः । व्रीहयो यवा वा ग्राह्यत्वेनोक्ताः । तथापि यस्मिन् देशे यस्मिन् समये वा व्रीहियवानामनुपलब्धिः तत्र अनिषिद्धेन माषातिरिक्तेन धान्येन हूयते । यदि कदाचित् माषातिरिक्तं धान्यमपि सर्वथा अनुपलब्धं भवति, होमश्च अवश्यं कर्तव्यः, स तु विलोपयितुं न शयक्ते । एवं स्थिते निषिद्धैरपि माषैः होमः कर्तव्यः एव भवति । अग्निहोत्रस्य विलोपस्तु न भवति[^१] । एवं चात्र उभयत्रापि स्थले मीमांसकैर्न्यायमाश्रित्य योऽयं निर्णयः कृतः स शास्त्रसम्मतः वेदमूलकश्चेति अस्ति वैदिकसमाचारः । तथैव नीतिशास्त्रविषयेऽपि बोध्यम् । अस्य हि मुख्यमुद्देश्यम् आत्मनि विश्वासं दृढतरं चिरस्थायिनमुत्पाद्य लोकानुरागपुरस्सरं पृथिव्या लाभः पालनं च निर्दिष्टम् । तत्र पूर्वाचार्यैर्निर्दिष्टाः ये विधयस्ते दृष्टार्थकत्वात् प्रायः नियमविधित्वे पर्यवसिताः । तेषां स्वीकरणे क्वचित् व्रीहीणां तण्डुलस्य अवघाते कृते तद् - विनाशवत् यदि प्रजापालनात्मकोद्देश्यस्य विनाशः प्रसक्तो भवति तर्हि स वास्तविको न वेति सूक्ष्मतया परिज्ञाय एकाग्रभूमिकायां स्थितेन उपरिबुद्धिना ऐश्वर्यादिसम्पन्नेन पूर्वाचार्योदाहृतनियमानतिक्रम्यापि अन्यद् यदि विहितं तदपि प्रजापालनार्थं प्रवृत्तानामाचार्याणां उद्देश्यसम्मतत्वाद्वेदमूलकमेव इति युक्तमुत्पश्यामः । तदुक्तम् "यत् किञ्चिद् अनूचानः अभ्यूहति आषं तद्भवति" इति । एवंरीत्या कौटिल्येनोक्तः स्वधीसम्मतोऽप्यर्थः शब्दप्रमाणमूलभूतः सन् प्रत्यक्षानुमानप्रमितः कथं भवतीत्यपि नीतिलक्षणसङ्गमनाय चिन्तनीयमेव । तत्तु तत्र तत्र प्रसङ्गे स्वयं मूलकृतैवव्यवस्थापयिष्यते । इत्यलमतिविस्तरेण । विषयप्रयोजनसम्बन्धाधिकारिणः मूलस्थेन "पृथिव्या लाभे पालने चे"ति वाक्येन निरूपिता भवन्तीति विशदीकृत्य, नीतिशास्त्रस्य अध्ययनीयत्वम् अत्यन्त ----- [^१]. अयज्ञिया इत्यत्राहर्थिकप्रत्ययेन साधनत्वमात्रनिषेधात् विशेषविहितातिरिक्तस्थले सर्वत्रैव माषादिप्रतिषेधप्रतीतेर्न प्रतिनिधेयाः । द्रव्यसामान्याभावे तु ग्राह्या एवेति ध्येयम् । अत्र च लक्षणया यज्ञोद्देश्येन माषनिषेधविधानात् नैकप्रसरताभङ्गः । भा॰ दी॰ अ॰ ६ पा॰ ३ । जयमङ्गला अत्र केचिदाहुः - धर्मस्यअलौकिकत्वात्तदभिधायकं[^१] शास्त्रम्, अर्थस्योपायपूर्वकत्वाद् उपायस्य च शास्त्रपूर्वकत्वाद्[^२] युक्तं तदर्थं[^३] वार्ताशास्त्रम् । नीतिशास्त्रं तु न युक्तम्, यतो नीतिशास्त्रमनर्थकमिति । प्रत्यक्षानुमानागमप्रमाणदेशकालशक्तिपुरस्सरार्थसाधन विनियोगलक्षणा[^४] क्रिया नीतिः, सा प्रेक्षावताम्[^५] । दृश्यते नीतिं विना पशूनां तत्कल्पानाञ्च बालानाम् आत्महिततृणस्तन्याहारप्राप्तिरनिमित्ता[^६] । शीतोष्णवात वर्षादिपरिहारश्च फलम् । तथाऽनधीतशास्त्राणा जयमङ्गलाक्रोडपत्रम् मभ्यर्हितम् । तच्चिन्तनाभावे त्रिवर्गसमृद्धिलोपः स्यात् इति दर्शयितुमाह--'अत्र केचिदाहुरिति' । अयं दुर्बोधत्वादयं ग्रन्थो व्याख्यायते । अत्र हि आदिमैः सप्तभिर्वाक्यैः नीतिशास्त्रस्य वैयर्थ्यंमाशङ्क्योपरितनैर्वाक्यैर्भक्तिश्रद्धापूर्वकं तस्यादरणीयत्वं व्यवस्थाप्यते । आशङ्काग्रन्थे सप्तवाक्यात्मके, धर्मशास्त्राणां अर्थशास्त्रान्तर्गतवार्ताशास्त्राणां चावश्यकत्वं प्रथमवाक्येनैव निर्धार्य स्वीकृतम् । उपरितनैः षड्भिस्तत्रत्यैर्वाक्यैर्नीतिशास्त्रस्य निष्प्रयोजनत्वमुपक्षिप्यते इति स्पष्टमेव। अतो निश्चयेनैतद्वक्तुं शक्यते, यल्लौकिकेष्वेवार्थेषु शब्दात्मकस्यास्य शास्त्रस्य समाधानग्रन्थस्थैः पञ्चविंशतिवाक्यैरावश्यकत्वं स्थिरीकृतम् । एतेषु वाक्येषु प्रथमवाक्येन धर्मशास्त्रवार्ताशास्त्रयोरावश्यकत्वे स्थिरीकृते नीतिशास्त्रस्यानर्थक्यशङ्कनं द्वितीयवाक्यस्य विषयः । उपरितनैः पञ्चभिर्वाक्यैर्निष्प्रयोजनत्वमेव स्फुटीक्रियते । नीतेः शास्त्रसम्मतं स्वरूपमनिर्धार्य तत्र निष्प्रयोजनतायाः साधयितुमशक्यत्वात् तृतीयवाक्येन प्रथमतस्तत्स्वरूपमनूदितम् । चतुर्थपञ्चमाभ्यां वाक्याभ्यामेवंलक्षणीयाया नीतेरनावश्यकता । षष्ठेन वाक्येन नीतेरावश्यकत्वेऽपि म्लेच्छदृष्टान्तेन तत्र शास्त्रस्यानावश्यकत्वम् । सप्तमेन तु शास्त्रसत्त्वेऽपि तस्य वैयर्थ्यंमाशङ्कितम् । अथास्य शङ्काग्रन्थस्य यथाक्रममुत्तरम्- १--नीतेर्विना फलं नास्ति । ----- अशुद्धम् [^१]. त्वादमिघायकं शास्त्रम् ( पा॰ ) । [^२]. पूर्वकत्वाद् तद् युक्तम् ( पा॰ ) । [^३]. तदर्थवा ( पा॰ ) । [^४]. पुरःसरार्थवि ( पा॰ ) । [^५]. प्रेक्षावताम् दृश्यते ( पा॰ ) । [^६]. प्राप्तिरभिहिता ( पा॰ ) । जयमङ्गलाक्रोडपत्रम् २--शास्त्रेणैकान्तिको नयः । ३--शास्त्रे सत्यपि नावश्यमिति सर्वेष्वदः समम् । इति त्रिखण्डात्मकेन नवमेन वाक्येन भविष्यतीति शङ्काग्रन्थस्य सर्वस्यापि शङ्कात्रय एव तात्पर्यमित्यत्र न विवादः । तत्र म्लेच्छराजनीतिप्रचारवत्यधुनातनसमये नीतिशक्तिं विनापि जीवनं भविष्यतीति शङ्काया अनुत्थितिरेव । अतो दशमैकादशवाक्याभ्यां यदुक्तं जयमङ्गलाकृता तद्विषये वक्तव्यस्य नास्त्यावश्यकतेति प्रथमः पूर्वपक्षोऽनुत्थानपराहतः । द्वादशवाक्यमवलम्ब्य च शिष्टान्येकविंशतिवाक्यान्यालोचनीयतामर्हन्ति । "अनधीतशास्त्राणामपि यत्कदाचिद्धिताहितप्राप्तिवर्जनं तदपि "यादृच्छिकीं नीतिमेवासाद्य भवती"तीत्यतइदं वाक्यं यादृच्छिकपदघटितं, "कदाचिद्वासनानुगमाच्च, अनन्तरेषु व्यवहितेषु च जन्मसु सर्वपदार्थस्वभावपरिच्छेदानुभूतलोकयात्राणां यदृच्छोत्पन्नवासनाप्रबोधानां हिताहितवस्तुन्यभिलाषेतरौ भवतः" इत्येकविंशतितमेन वाक्येन स्फुटीक्रियते । स्वभावमीश्वरं कालं यदृच्छां नियतिं तथा । परिणामं च मन्यन्ते प्रकृतिं पृथुदर्शिनः ॥ सु॰ शा॰ १-११ इति सुश्रुतग्रन्थोपरि व्याख्याकर्त्रा डल्हणेन- "यदृच्छा पुन क्षितः आकस्मिकपदार्थाविर्भावः स्वभावस्तावत्सत्त्वरजस्तमसां तद्विकाराणां पृथिव्यादिमहाभूतानां च परिणामस्य तादृशो विशेषः" इति व्याख्यानात् यदृच्छास्वभावशब्दार्थौ स्फुटीभवतः । एवं चालक्षिताकस्मिकपदार्थाविर्भावोद्बुद्धवासनानामित्यर्थो "यदृच्छोत्पन्नवासनाप्रबोधाना"मित्यादिवाक्यांशस्य भवति । वक्ष्यमाणगोकुलनाथोपाध्यायोक्त्यनुसारेण संस्कारविशेषरूपायाः शक्तेः पुरस्करणेन जायमाना नीतिर्यदृच्छोत्पन्नवासनाप्रबोधप्रयुक्ता षष्ठे वाक्ये यादृच्छिकीपदेनोच्यते । तथा - विधाप्युद्बुद्धा वासना पूर्वस्मिन् कस्मिन्नपि जन्मनि शास्त्राधीनसर्वपदार्थस्वभावपरिच्छेदानुभूतलोकयात्राणामेव भवतीति परम्परया शास्त्राधीनत्वमेव तस्या व्यवस्थाप्यते । युक्तश्चायमर्थः प्रतिभाति । विंशे वाक्ये हि अन्वयव्यतिरेकैकशरणौ लब्धस्य ज्ञानस्य वाध्यमानत्वमुपपाद्याधीतशास्त्राणामेव यच्च यावच्च प्राकाश्यं लभते इत्युपपादितम्। तदेतत् व्याकरणशास्त्राध्ययनेनैव सम्पूर्णसंस्कृतभाषाज्ञानं संस्कृतत्वादिजात्यभिव्यक्तिश्च भवतीति दृष्टान्तेनास्माभिरप्यनुभूयते । किञ्च नव्यप्रणाल्या तत्तज्जन्मनि जायमानवासनोद्बोधस्य एतज्जन्मीयान्वयव्यतिरेकप्रयोगमूलकत्वेऽप्युपगम्यमाने कीरदष्टं फलं मधुरमेव भवतीति सर्वसम्मतः सिद्धान्तो भज्येत । इदमेव तत्त्वं "शास्त्रेणैकान्तिको नयः इति पद्यांशेनाविष्कृतं ग्रन्थकृता । शास्त्रानभ्युपगमेतु अलक्षितनिमित्तवासनोद्बोधो वा शरणीकरणीयः, अन्वयव्यतिरेजयमङ्गला मपि म्लेच्छादीनां जलारण्यान्तरिक्षवर्तिमीनमृगपक्षिबन्धनार्थसाधनविनियोगलक्षणानीतिः[^१], तथा अशास्त्रविदां तुल्येऽपि शास्त्रे केषाञ्चिदर्थेन योगोऽन्येषामनर्थेनेति । अत्रोच्यते- "नीतेर्विना फलं नास्ति शास्त्रेणैकान्तिको नयः । शास्त्रे सत्यपि नावश्यमिति सर्वेष्वदः समम् ॥" इति । पशवो हि मनुष्यप्रयुक्तैः पाशकूटादिभिरुपहन्यमानाः पाशादिविमोचनाकुशलाः विनाशम्, बालाश्च परिहारानभिज्ञाः सर्पाद्युपद्रावादिकमासादयन्तो नीतेर्विना दृश्यन्ते । अतो नीतेर्विना फलं नास्ति । अनधीतशास्त्राणामपि यत् कदाचित् हिताहितप्राप्तिवर्जनं तदपि यादृच्छिकीन्नीतिमेवासाद्य भवति । सा चैवंविधा नीतिर्घुणाक्षरकल्पत्वादनाश्वासा । अपनयबाहुल्याच्चैते शास्त्रविद्भिरुद्वासीक्रियन्ते[^२] । शात्रेण तु सम्यक्करणीयवर्जनीयविधानादैकान्तिकत्वं नीतेः क्रियते । उपदेशादिष्वसा [^३]वपरिच्छेदोऽप्येषां यदा भवति तदा प्रामाण्यमन्येभ्य एव । तथा हि- "उपदेशादनायोगाद् वासनानुगमादपि । परयत्नाददृष्टाद् वा सर्वाः सर्वत्र वृत्तयः ॥" जयमङ्गलाक्रोडपत्रम् काख्यस्तर्क एव वा पूर्वोक्तबाधासहकृतः शरणीकरणीयः । उभयथाप्यनधीतव्याकरणशास्त्राणां यच्च यावच्च संस्कृतं न प्राकाश्यं लभते, न्यूनाधिकसंख्याव्यवच्छेदपुरस्सरं साधुत्वाभिव्यक्तिश्च न भवतीति वयमनुभवामः । तथैव सम्पूर्णाया राजनीते र्यच्च यावच्च प्राकाश्यं सर्ववाङ्मयं विना न सम्भवतीति किमु वक्तव्यम् ? अतो नीतिलक्षणे आगमप्रमाणमावश्यकमिति सिद्धान्तितम् जयमङ्गलाकृता । "न तत् पदं न तद् वाक्यं न सा विद्या न सा कला ।" जायते यन्न काव्याङ्गमहो ! भारो महान् कवेः ॥ इति साहित्यमीमांसायाम्- "विद्याः समस्ता यस्याङ्गमहो ! भारो महान् कवेः", इत्यग्निपुराणे च स्मरणात् प्रोक्तस्य शक्तिपदार्थस्य लाभाय दर्शनश्रवणादिभिः सर्वपदार्थस्वभावपरिच्छेदानुभूतलोकयात्रत्वमनन्तरेषु व्यवहितेषु वा जन्मसु यस्य तस्यैव तादृशवासनोद्बोध इति, एकविंशतितमेवाक्यार्थः पर्यवसितो भवति, तस्मादर्थशास्त्रा ----- अशुद्धम् [^१]. नीतिः । ( पा॰ ) । [^२]. विद्भिरुदासी ( पा॰ ) । [^३]. पि स्वभाव ( पा॰ ) । जयमङ्गला इत्येषां हिताहितप्राप्तिपरिहारौ । क्वचिन्मात्रादिचरितोपदेशापेक्षया--नहीदं कुर्विदं मा कार्षीरिति वाचैव श्रोतॄणां शब्दार्थप्रतिपतॄणामुपदेशः, किन्तर्हि अनुकर्त्तॄणां नाट्योपदेशवदुपदेशः । कदाचिदनायोगात्--यस्यां प्रवृत्तौ बाध्यन्ते न च फलं प्राप्नुवन्ति ततो निवृत्याऽन्यत्र निराबाधं फलं च किञ्चिल्लभमानाः पौनःपुन्येन इदमतो जयमङ्गलाक्रोडपत्रम् ध्ययनाधीनः ऐकान्तिको निश्चयो भक्तिश्रद्धापुरस्सरं सम्पादनीय इति द्वात्रिंशवाक्यस्य तात्पर्यम्" इति । ननु जयमङ्गलाकृन्मते नीतेः लक्षणं प्रत्यक्षानुमानागमप्रमाणदेशकालशक्तिपुरस्सरार्थसाधनविनियोगलक्षणा क्रिया नीतिः इत्युक्तम् । तत्र शक्तिस्वरूपं कीदृक् ? इति चेत् उच्यते । शक्तिस्वरूपम् उक्तलक्षणे शक्तिपदनिवेशात्मकस्य विशेषस्यार्थदृष्टया महद् गौरवं वर्तते । यतोऽर्थशास्त्र एव नवमाधिकरणे प्रथमाध्याये प्रथमसूत्रे "शक्तिदेशकालबलाबले"त्येवं पठितम् अतो देशकालशक्तीनां विचारो नीतौ परमावश्यक इति व्यक्तम् । सोऽयमावश्यको विषयः उपाध्यायनिरपेक्षाकृता कृते प्रागुक्ते लक्षणे देशकालानुकूल्ये इति भागे अव्यक्ततया स्थितोऽपि जयमङ्गलाकारेण स्फुटं निर्दिष्टः स्वयंकृते प्रागुद्धृते लक्षणे । शक्तौ सत्यां साधनविनियोगः स्वयमेव भवति, अतः स न प्राधान्येन नीतिशास्त्रस्य विषयः किन्तु शक्तिसाधनमेवेति जयमङ्गलाकृतोऽभिप्रायोऽत्र स्फुटः । [^१]''रुद्रहीनम्" इति वचनानुसारेण शक्तेः समुपार्जनं तस्या यथावद्विनियोगश्च नीतिशास्त्रस्य मुख्यं लक्ष्यमिति स्थिते "नरत्वं दुर्लभम्"𑁍 इत्यग्निपुराणवचनानुसारेण शक्तेः समुपार्जनविनियोगौ कस्यचिदेव पुण्यवतो महापुरुषस्य हस्तगतौ भवतो न सर्वेषाम् । यद्यपि "शक्तयस्तिस्रः प्रभावोत्साहमन्त्रजाः" इत्यमरकोशानुसारेणार्थशास्त्रीयनवमाधिकरणाद्याध्यायोक्तप्रकारेण च प्रभावमन्त्रोत्साहशक्तय एवात्र विवक्षितास्तथापि प्रभावादीनां स्वरूपनिर्धारणे किञ्चिद्वैलक्षण्यमवश्यमालोचनीयतामर्हति । नयचन्द्रिकाकारेण हि "उत्साहः शौर्यादिमत्वं प्रभावः कोषादिमत्वं, मन्त्रश्च-विचारपूर्वककार्यनिश्चयश्चेति व्याख्यानं कृतम् । तथाप्यमरकोषे "प्रभावोत् ----- [^१]. रुद्रहीनं विप्णुविष्णुहीनं न वदन्ति नराधमम् । शक्तिहीनस्तु यो मर्त्यस्तं वदन्ति नराधमम् ॥ 𑁍 नरत्वं दुर्लभं लोके विद्या तत्र सुदुर्लभा । कवित्वं दुर्लभं तत्र शक्तिस्तत्र सुदुर्लभा ॥ जयमङ्गलाक्रोडपत्रम् साहमन्त्रजा" इति तज्जन्यत्वं निर्दिश्यते इत्यस्त्येव कश्चिदत्र विशेष आलोचनीयः । तथाहि--भावप्रकाशने-परस्मादात्मनो भान्ति[^१] । इत्यनेन हि सर्वान्तर्यामिपरमात्मसमवेतप्रभात्रयमिश्रणस्य शक्तिरूपत्वमुच्यते । "स न्यस्तचिह्नां"इतिना कलिदासोऽपि तादृशं प्रभाविशेषं राजशरीरे सम्मनुते[^२] । तदेव तेजः कोशदण्डादिमत्वमिति पदेन मतुप्प्रत्ययोत्तरत्वप्रत्ययवाच्येन नयचन्द्रिकाकारः प्रतिपादयति । अन्यथा "कोषदण्डादि" इत्येव ब्रूयात् । सा सत्ता सा महानात्मा तामाहुस्त्वतलादयः । इति वदन्तो वैयाकरणा अपि तदेव तेजस्त्व-तलादि शब्दवाच्यमिति प्रतिपादयन्ति । मनसि सदा सुसमाधिनि[^३] इत्यादिना साहित्यशास्त्रविद्भिर्वर्ण्यमानं शक्तित्त्वमेतादृशं उक्ततेजोरूपप्रकाशविशेष एव । यम्— शक्तिनिपुणता लोकशास्त्रकाव्याद्यवेक्षणात् ।" ( का॰ १ उ॰ ) इत्यादिना काव्यप्रकाशकारो व्याजहार । अत्र "अवेक्षणादिति व्याचष्टे, विमर्शनादिति । विमर्शनमनुषङ्गः पौनःपुन्यम् । निपुणतापदार्थं व्याचष्टे व्युत्पत्तिरिति । तत्तदर्थगोचरो दृढतरः संस्कारः तत्तद्वाक्यार्थप्रतिसन्धानं वेत्यर्थः । स्रग्धरावृत्तत्वावच्छेदेनादौ गुरुचतुष्कत्वमिति संस्कारदार्ढ्यं व्युत्पत्तिः "सानन्दं नन्दिहस्ते"त्यादौ तत्तदानुपूर्वीकपदगोचरः संस्कारः शक्तिरिति विवेकः । एवं शास्त्रान्तरविषयेष्वपि प्रणिधेयः सामान्यविशेषभावेन व्युत्पत्तिशक्तिविषययोर्भेद" इति गोकुलनाथोपाध्यायकृतकाव्यप्रकाशविवरणमवधेयतामर्हति । "आदौ शास्त्रान्धकार" इति वसिष्ठस्मृतिटीकामङ्गलपद्ये[^४] अन्धकारमयाच्छास्त्रावरणात्तृतीयां व्युत्पत्तिकक्षामतीत्य लब्धो वाटिकाविशेषरूपः संस्कारविशेष एव शक्तितत्त्वमिति वर्ण्यते । तदेतद् गोकुलनाथोपाध्यायोक्तरीत्या सामान्यविशेषगोचरोद्बुद्धसंस्कारयोर्व्युत्पत्तिशक्तिरूपत्वे घटते । विशेषतः शक्तिरूपस्योद्बुद्ध ----- [^१]. परस्मादात्मनो भन्ति ज्ञानानन्दक्रियाप्रभाः । ज्ञानप्रभा च सानन्दा तस्याः सत्त्वं प्रजायते ॥ क्रियाप्रभा रजः सत्त्वाच्छक्तिः स्यात्तु तमःप्रसूः । [^२]. स न्यस्तचिह्नामपि राजलक्ष्मीं तेजोविशेषानुमितां दधानः । आसीदनाविष्कृतदानराजिरन्तर्मदावस्थ इव द्विपेन्द्रः ॥ रघु॰ २-७ [^३]. मनसि सदा सुसमाधिनि विस्फुरणमनेकधाऽमिधेयस्य । अक्लिष्टानि पदानि च विभान्ति यस्यामसौ शक्तिः ॥ [^४]. आदौ शास्त्रान्धकारे पतित इव ततोऽभ्यासमार्गे चरिष्णुः । पश्चाद्व्युत्पत्तिदेहल्युपग इव ततः शक्तिवाटीप्रविष्टः ॥ नानाशब्दाख्यपुष्पावचयकरणतो वाग्वशीभूतविश्वो । यत्प्रेमापाङ्गदृष्ट्या भवति कविवरो भारती सा पुनातु ॥ जयमङ्गला दुःखम् अन्यथा अदुःखं भवतीति तमोबाहुल्येऽपि यच्च यावच्च प्राकाश्यं लभन्ते । कदाचिद् वासनानुगमाच्च--अनन्तरेषु व्यवहितेषु च जन्मसु दर्शनश्रवणादिभिः सर्वपदार्थस्वभावपरिच्छेदानुभूतलोकयात्राणां यदृच्छोत्पन्नवासनाप्रबोधानां हिताहितवस्तुन्यभिलाषेतरौ भवतः । ततश्चाभिप्रेतलाभः परिहारश्च । कदाचिद् परप्रयत्नात्उपकरणसम्पदायत्तमात्मोपकारं मन्यमानो गोवत्सादिवदनं मातुरूधःप्रवेशं योजयन् स्वार्थं साधयति । साऽन्येषां च परनीत्यपेक्षया प्रवृत्तिः साफल्यं लभते । कदाचिददृष्टात् जयमङ्गलाक्रोडपत्रम् संस्कारस्य प्रकाशमयत्वं वाटिकारूपकेण स्फुटीभवति । संस्काराणां प्रत्यक्षज्ञानजनकत्वस्य तद्ग्रन्थादेवावगमात् । पूर्वोक्तपद्ये शास्त्रान्धकार इत्युपक्रमादुतरोत्तरं सूक्ष्मतर-सूक्ष्मस्फुट-प्रकाशलाभस्तास्ववस्थासु लभ्यते । सामान्यविशेषप्रकाशयोर्भेदस्तु न्यायमञ्जरीकारेण माघपद्यमुदाहृत्य वर्णितश्चयस्त्विषामित्यादिना[^१] । रामायणाद्युपर्वणितै रामरावणादिपदै र्यद्रामत्वं रावणत्वादिकं वा प्रकाशते, तद्धि उदात्तनायकत्वादिरूपं सामान्यप्रकाशरूपमेव भवत्याधुनिकतमानामपि । "यदादित्यगत"मिति गीतापद्ये[^२] भास्वररूपविशिष्टो यस्तेजोविशेषः उपास्यतया प्रतिपाद्यते सः "अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः" । इत्यादिगीतावाक्येनेश्वररूपतया वर्ण्यते । सोऽयं वह्निः घटपटादिपदवाच्यजातिरूपः सन् "समानोग्निः" इति भावप्रकाशनोक्तरीत्या[^३] विद्युत्समूहमयत्वात्तज्जातीयव्यक्तीनामनन्तानां सृष्टिजनकः, एकः सूर्य इवासंख्येषु दर्पणादिषूपाधिषु अनन्तानां सूर्यप्रतिबिम्बानां जनक इवः चरकसंहितोक्त[^४] वैद्यकसिद्धान्तसिद्धः आस्ति । ----- [^१]. चयस्त्विषामित्यवधारितं पुरा ततः शरीरीति विभाविताकृतिम् । विभुर्विभक्तावयवं पुमानिति क्रमादमुं नारद इत्यबोधि सः । इति । [^२]. यदादित्यगतं तेजो जगद् भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् । भ॰ गी॰ १४-१२ [^३]. समानोऽग्निसमीपस्थः कोष्ठे चरति सर्वतः । अन्नं गृह्णाति पचति विवेचयति मुञ्चति । भा॰ प्र॰ ७ अ॰ १९४ पृ॰ [^४]. सर्वदा सर्वभावानां सामान्यं वृद्धिकारणम् । ह्रासहेतुर्विशेषश्च प्रवृत्तिरुभयस्य तु । सामान्यमेकत्वकरं विशेषस्तु पृथक्त्वकृत् । चरके सूत्रस्थाने ४२-४३ जयमङ्गला पूर्वदेहोत्पन्नौ धर्माधर्मौ प्रत्युत्पन्नपरिपाकौ देहकारणानां सन्निवेशविशेषरचनायाः कारणीभवतः । एवमिष्टानिष्टफलप्राप्तिपरिहारनिमित्ताय प्रवृत्तिविशेषाय[^१] अनन्ताय पुरुषतर्कागोचराय तावेव प्रभवतः इति न किञ्चिद्अनिमित्तं फलमस्ति । येषामपि शास्त्रविदाङ्केषाञ्चिदपनयात् अनर्थेन योगः स तेषामेवापराधो न शास्त्रस्य । नोलूकः पश्यतीत्यादित्येन नोदेतव्यम् । प्रतिपत्रपराधाच्च शास्त्रानर्थक्यं सर्वशात्रेषु जयमङ्गलाक्रोडपत्रम् स च "यथा ह्ययं ज्योतिरात्मा विवस्वानपो भिन्ना बहुधेको ऽनुगच्छन् । उपाधिना क्रियते भेदरूपः" इत्यादिश्रुत्या ज्ञायते । प्राज्ञतैजसविश्वात्मकेषु जीवस्वरूपेषु स्वप्नदशायां पित्ताख्यतेजःप्रचुरत्वादात्मप्रकाशमयत्वाद्वा तैजस इति वेदान्तशात्रे व्यपदिश्यते च । विद्युत्कणैरेव सर्वजगत्सृष्टिर्जातेति वदद्भिराधुनिकर्वैज्ञानिकैरपि निर्विवादं प्रत्यक्षीक्रियत एव । "एकोऽहं बहु स्यां प्रजायेये"ति श्रुत्या वर्ण्यमाना जगन्मूलप्रकृतिगतेयं शक्तिः स्वतन्त्रचेतननिष्ठेति पौराणिकानां सिद्धान्तः, जडप्रकृतिनिष्ठेति निरीश्वरवादिनां नवीनवैज्ञानिकाम् । "स्वातन्त्र्यमेव चेतनत्वं, पारतन्त्र्यमेव जडत्व"मिति नवीनवैज्ञानिकाविरुद्धप्रत्यभिज्ञादर्शनोक्तजडचेतनलक्षणानुसारेणापि तस्याश्चेतननिष्ठत्वमिति पौराणिकसिद्धान्त एव हृदयावर्जको भवति । अयमेवेच्छाज्ञानक्रियाशक्त्यात्मकः समूहः आनन्दरूपतामपि गच्छति । तथा च यस्यैव पुरुषस्य ज्ञानाधिक्यं क्रियाशक्त्याधिक्यं तदुभयवशेन सफलेच्छता च स एव शक्तिमानुत्तमश्चेति गीयते । इदं शक्त्याधिक्यं जगन्मूलायां प्रकृतावीश्वरे च निरवधिकं मन्तुमुचितम् । तदीयानां नियमानामनुसरणेनैव मनुष्यजातेरप्यभ्युन्नतिर्भवितुमर्हतीत्यत्र नास्त्येव पौराणिकनवीनमतयोः कोऽपि भेदः । इयानेव परं विशेष एनयोर्मतयोः - "यदेव किञ्चानूचानोऽभ्यूहत्त्यार्षं तद्भवती"ति निरुक्तस्मृत्यनुसारेण पूर्वशास्त्रानुसरणमुन्नतेर्बीजमिति पोराणिका वदन्ति । पूर्वयुगमज्ञानबहुलमुत्तरोत्तरं प्रज्ञाविवृधिषु, भविष्यति कस्मिंश्चिदागामिनि काले प्रयोगोपलब्धज्ञानानां उपलब्ध्या सर्वज्ञतेति नवीनमतम् । एतादृशनवीनमतानुसारेणैव बौद्धादिभिः पृथक्प्रस्थानोपदेशाः प्रणीताः । भारतीयराजनीतिविदां तु प्रथमः पक्ष एव रोचते । तत्र कारणं तु व्याकरणशास्त्रेणैवं प्रतिपादतम् । "रक्षोहागमलघ्वसन्देहाः प्रयोजन"मिति त्रिमुनिव्याकरणेनैव तत्संस्कृताः शब्दाः ----- अशुद्धम् [^१]. निमित्त यः प्रवृत्तिविशेष ( पा॰ ) जयमङ्गलाक्रोडपत्रम् साधवोऽन्ये त्वसाधव इत्यसन्दिग्धं लधुनोपायेन संस्कृतभाषास्वरूपं लभ्यते । "प्रयोगानुसारिण्या भाषया भाव्यं न तु व्याकरणनियमस्तत्रोपयुक्त" इति नव्यमतानुसारेण भाषास्थैर्यं कथमप्यसम्भवि, उत्तरोत्तरभाषाकाले पूर्वपूर्वभाषाज्ञानस्य लुप्यमानत्वात्पूर्वसन्दृब्धानामर्थानामैतिहासिकानामस्तमयायैव कारणं स्यान्न तु सर्वज्ञतासम्पतये उद्देश्यभूतायै, इति भयेन भारतीयराजनीतिज्ञाः - "शास्त्रदृष्टिर्गुरोर्वाक्यं तृतीयस्स्वात्मनिश्चयः"। इत्युक्तप्रकारेण प्रत्यक्षानुमानागमशक्तिदेशकालपुरस्सरार्थसाधनविनियोगलक्षणां क्रियामुन्नतेर्बीजमाहुः । तदेवं नीतिरूपं धर्मस्य सुन्दरतमं स्वरूपम् । एता दृशशक्तिसम्पत्तिः सरस्वत्युपासकानामेव सम्भवतीति पूर्वं निर्णीतमेव । अन्येषां तु प्रयोगानुसारिणी शक्तिरुद्देश्यविपरीतत्वाद्विसंवादिनी न विस्रम्भणीयतामर्हतीति भारतीयनीतिविदां सिद्धान्तः । युक्तश्चायम् । यत् वैयक्तिकं कार्यमधिकृत्य प्रयोगे क्रियामाणे तस्यासफलत्वे तद्व्यक्तेरेव विनाशः स्यात् । अथवा कथञ्चित् नीतेः वैयक्तिककार्यप्रयोगद्वारा सिद्धान्तान्वेषणे क्रियामाणे असफलप्रयोगैः पूर्वभाविभिर्नाशो व्यक्तिमात्रस्य स्यादिति । नीतेरितरत्र विषये तथा प्रयोगमार्गानुसरणे कदाचिदनुज्ञार्हत्वेऽपि सर्वजनमधिकृत्य प्रस्तुते राजनीतिप्रयोगेपि तथामार्गानुसरणे सिद्धान्तान्वेषणात् प्रागेव सर्वराष्ट्रनाशः प्रसज्येतेत्यनर्थायैव स्यात् । तस्मात् -"मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् । सुकृतः परिशुद्ध आगमः कुरुते दीप इवार्थदर्शनम् । किरात॰ २-३३ इति पन्था एव भद्र इति भारतीयराजनीतिर्मन्यते । अयं च सिद्धान्तः पूर्वोत्तरपक्षमुखेन पूर्वोद्धृतैर्वाक्यैर्जयमङ्गलाकृता स्थिरीकृतः । एतेन लेखेन आनन्दप्रभामिश्रिता ज्ञानप्रभैव शक्तितत्त्वं भवति इति पर्यवसितम् । यथा नीतिः धर्मस्य सुन्दरतमं स्वरूपम् तथेयं ज्ञानप्रभापि शक्तेः बोध्या । अत्र इदमप्यनुसन्धेयम्-यत् विना योगसम्बन्धं ईशसमवेतज्ञानप्रभा पूर्णतया अस्मासु भानविषया न भवतीत्यतः अपेक्षितः योगसम्बन्धः । स च अग्रे समाधिविचारे स्फुटीभविष्यति । आनन्दप्रभामिश्रणं च ज्ञानप्रभायां नीतिमार्गानुसरणे कथं भवति इत्ययमंशोऽपि मूलटीकायां स्फुटीकृतः । विस्तरभयान्नोच्यते । ----- [^१]. "जयमङ्गलाग्रन्थोऽयं अनधीतशास्त्राणां म्लेच्छानां नीतिमुपक्रम्य, अपनयबाहुल्याच्चैते शास्त्रविद्भिरुहासीक्रियन्ते इति पञ्चदोन वाक्येन वर्णाश्रमहीनानां भारतीयजनपदात्तात्कालिकोद्वासनदर्शनाद्वौद्धानां भारतवर्षतो निष्कासनकालिक इति निर्णीयते । यद्यपि मुद्रितपुस्तके इदं वाक्यं "अपनयवाहुल्याच्चैते शास्त्रविद्भिरुदासीक्रियन्ते" इति दृश्यते, तथापि -जयमङ्गला तुल्यं स्वर्गारोग्यापवर्गार्थेषु शास्त्रेषु । न सर्वे तद्विदो धर्माधर्मसेवापरिहारयोः पथ्यापथ्याहारसेवासेवयोः रागादिहानौ तत्वज्ञाने चाभिनिविशमाना दृश्यन्ते । ये तदर्थनो भक्तिश्रद्धान्वितास्तेऽपि शास्त्राणां प्रयोजनहेतव इत्यन्यशास्त्रवद् इदमप्यादरणीयमिति । जयमङ्गलाक्रोडपत्रम् इदं नीतिशास्त्रम् । ----- "इम उद्वासीकारिण इमे दुर्भूतमक्रन्नित्यन्यतरः ( ते॰ ब्रा॰ १-३-६ ) इत्यादि तैत्तिरीयब्राह्मणसंवादात्, "उद्वासं निवासशून्यम्" । इति तत्रत्यसायणभाष्यसंवादाच्चोद्वासीक्रियन्ते इत्येव पाठः सङ्गतः, लेखकप्रमादादुदासीक्रियन्ते इति पाठो मुद्रितः । जयमंगलाकारेण स्वकीयग्रन्थेषु दण्डिकृतकाव्यादर्शस्योद्धरणात् स दण्ड्युत्तरकालिक इति तात्कालिकीं परिस्थितिं वक्ष्यमाणरीत्या आवेदयन् "उद्वासीक्रियन्ते" इत्याकारकं एव पाठमस्मदुक्तरूपं प्रयुक्तवान् इति भाति । किम्बहुना - "वानप्रस्थादन्यः प्रव्रजितभावः, सजातादन्यः सङ्घः, सामुत्थायिकादन्यः समयानुबन्धो वा नास्य जनपदमुपनिविशेत" । ( कौ॰ २ अधि॰ १ अ॰ ४ सू॰ ) "ज्ञातिसामन्तधनिकाः क्रमेण भूमिपरिग्रहान् क्रेतुमभ्याभवेयुः ।" कौ॰ ३ अ॰ ९ अ॰ १ सू॰ इत्यादिना जातिव्यवस्थावर्जितानां वास्तुभूमिलाभाभावव्यवस्थापनं कौटिल्योपज्ञमेव प्रवर्तते । नीतौ विधानरूपेणागतस्य तस्य विषयस्य वर्तमानरूपेण निर्देशो जयमङ्गलाकृता क्रियमाणस्तस्य पञ्चमषष्ठशताब्दीवर्षासन्नकालभवत्वं सूचयति । तेन प्रोक्ते पञ्चदशे वाक्ये अपनयबाहुल्यादनधीतशास्त्राणां यदुद्वासनं प्रतिपाद्यते तद्बौद्धीयदशरथजातकोक्तां तत्कालभवां परिस्थितिं यद्यनुमापयति तर्हि न कस्याप्यत्र दोषोऽनुमातुर्वक्तुर्वा वक्तुं शक्यते । "नचान्य आगमो लोकयात्रामुद्वहन् महाजनपरिगृहीत ईश्वरप्रणीततया स्मर्यमाणो दृश्यते ( न्या॰ सू॰ २-१-६८ ) इति न्यायवार्तिकतात्पर्यटीकाकर्तुर्वैदिकागमविषयक उल्लेखः, "कैश्चिदेव म्लेच्छादिभिः पुरुषापसदैः पशुप्रायैः परिग्रहाद्बोद्धव्यम् ।" इति (सा॰ कीं॰ ५ का॰ ) तदीय सांख्यतत्त्वकौमुद्युल्लेखश्चैतन्मूलभूतः श्लोकवार्तिकगतः - "न चापि स्मृत्यविच्छेदात्सर्वज्ञः परिकल्प्यते । विगानाच्छिन्नमूलत्वात्कैश्चिदेव परिग्रहात् ॥" इत्याद्युल्लेखश्च जयमंगलाकृदुक्तमुद्वासनकारणमपनयबाहुल्यमिति विशदयति । क्रिस्तपूर्वषष्ठशताब्दे प्रवृत्ते सहस्रसंवत्सरव्यायिनि बौद्धकाले आयुर्वेदादिविषयान् विहाय लुप्तप्रायाणां भारतीयानां कतिपयानां विद्यानां पुनरुज्जीवनं पाणिनिप्रभृतिभिः सर्वतन्त्रस्वतन्त्रैराचार्यैः कृतम् । एवंविधेऽपि बौद्धसमये ऽलुप्तप्रचारमिदं नीतिशास्त्रं जयमङ्गला कारादिभिर्बोद्धैरेव परिगृहीतं यद्वर्णयति तदविरोध्येवार्थः उत्तरत्र कुमारिलभट्टपाद-शङ्करतस्यायं प्रकरणाधिकरणसमुद्देशः - ----- श्रीमूला तदिदमर्थशास्त्रं साशीतिशतसङ्ख्यैः प्रकरणैः तत्परिच्छिन्नैश्च पञ्चदशसङ्ख्यैरधिकरणैर्विभज्य प्रस्थापितम् । तेषु यथास्थानं वितत्य विशेषतो व्युत्पादयिष्यमाणेषु प्रथमं विषयतः समाख्यातः क्रमत इयत्तया च किमपि सामान्यज्ञानं विशेषजिज्ञासानिमित्तं शिष्याणां जनयितुं तत्समुद्देशं प्रतिजानीते - तस्यायमिति । तस्य अर्थशास्त्रस्य, अयम् आरब्धाध्यायगोचरः प्रदर्श्यमानप्रकारः । प्रकरणाधिकरणसमुद्देशः, प्रकरणानामधिकरणानां च सर्वेषां समुद्देशः संक्षेपेण निर्देशः संक्षिप्तस्वरूपक्रमेयत्ताख्यानमित्यर्थः । क्रियत इति शेषः । प्रक्रियन्ते प्रकर्षेण व्युत्पाद्यन्ते एष्वर्था इति प्रकरणानि । अधिक्रियन्ते विषयीक्रियन्ते एषु प्रकरणानीत्यधिकरणानि । वैदिकसिद्धान्तसंरक्षिणी तस्य निर्देशग्रन्थस्य । अयं बुद्धिस्थः उद्देशग्रन्थ । तस्य नामामिधातुमाह प्रकरणेति । तत्त्वं च तत्तत्फललाभाय तत्तत्साधनसामग्रीविषयिणी या जिज्ञासा तद्विषयतापर्याप्त्यधिकरणत्वं यावत्स्वर्थेषु तावतामर्थानामभिधायकवाक्यकूटत्वम् । तत्समुदायोऽधिकरणम्। इत्येतत् सर्वं जयमङ्गलाव्याख्यायां स्फुटं भविष्यति । तयोः समुद्देशः संक्षेपेण कीर्तनम्, "समुद्देशः समासेन कथन" मिति तन्त्रयुक्तौ व्याख्यानाद्बोध्यम् । अत्र पुनः समस्तस्य संक्षेपेण सूत्रमुखेन निर्वचनं पौनस्वत्याय भवतीति न मन्तव्यम् । यतो यं विषयं अध्येतुमिच्छति जिज्ञासुः स विषयः कुत्र वर्णितो वर्तते इति अनेनोद्देशग्रन्थेन ज्ञात्वा तावान् विषयः सारल्येन तेन ज्ञातव्यः स्यात् इति प्रयोजनसत्त्वान्न पौनरुक्त्यम् । शेषं तदीयटीकाव्याख्यायां वक्ष्यते । उद्देशं कीर्तयति मूले विद्यासमुद्देश इत्यारभ्य तन्त्रयुक्तय इत्यन्तेन । शेषं निगदव्याख्यातम् । जयमङ्गला शास्त्रप्रणयनं च द्विधा समुद्देशतो निर्देशतश्च । तत्र स्वरूपसङ्ख्याभ्यां पूर्वमधिकृत्याह - तस्येति । संक्षिप्तस्य शास्त्रस्य । अयमिति । प्रकरणानामधिकरणानां च समुद्देशः, समासवचनम् । वक्ष्यति -- "समासवाक्यं समुद्देशः", "व्यासवाक्यं निर्देशः " ( अधि॰ १५ अध्या॰ १ ) इति । अस्य च प्रयोजनम् अध्येतॄणां विदित जयमङ्गलाक्रोडपम्जयमङ्गलाक्रोडपत्रम् समुद्देशतः संक्षेपतइति यावत् । निर्देशतः विस्तरतः इत्यर्थः, तन्त्रयुक्तौ तथैव व्याख्यानात् । उद्देशग्रन्थे ----- भगवत्पाददादिभिः प्रतिपादित इत्येषां सर्वेषां प्राचीनग्रन्थसत्यत्वे तत्प्रतिपाद्यविषयपरिच्छेदे च स्वतःप्रामाण्याभ्युपगमे न कस्यापि विमतिरुचिता । जयमङ्गला शास्त्रार्थं प्रकरणानुपूर्वीकाणाम् प्रज्ञातप्रकरणार्थत्वात् असम्मोहेन[^१] अध्ययने प्रवृत्तिः यथाभिलषितप्रकरणार्थप्रत्यवमर्शश्च[^२] भविष्यतीति । एवं च कृत्वोक्तं व्यासेन-"इष्टं हि विदुषां लोके समासव्यासती भाषणम् ।" ( आदिपर्व ९।४९ अधि॰ १, अध्या॰ १ ) जयमङ्गलाक्रोडपत्रम् प्रकरणानां प्रकरणसमूहात्मकानामधिकरणानां स्वरूपं संख्य । च निर्दिष्टा अस्ति इत्यभिप्रेत्याह-तत्रेति । समुद्देशनिरूपणफलमाह । 'अस्य चेति' । आनुपूर्वीणामिति । एतेन पूर्वापरप्रकरणयोः सङ्गतिः सुस्पष्टा भवति । तस्य फलमध्येतॄणां प्रज्ञातप्रकरणार्थत्वात् असम्मोहो बोध्यः । ननु च प्रकरणानां सङ्गतिप्रदर्शनं यथा क्रियते तथा अधिकरणानां सङ्गतिः कुतो न प्रदर्शिता ? इति चेदुच्यते । अधिकरणं हि न प्रकरणादन्यत् अपि तु प्रकरणसमूहः । तच्च सिद्धान्तशिरोमणिटीकायां मरीच्याम् त्रिप्रश्नाधिकारे द्रष्टव्यम् ' । वक्ष्यति च टीकाकारः पञ्चमाध्याये "सप्रकरणान्येवे"त्यादिना ग्रन्थेन । न च प्रकरणयोः परस्परसङ्गतिप्रदर्शनवत् पूर्वोत्तरसूत्रयोरपि सङ्गतिः कुतो न प्रदर्शिता इति वाच्यम् । टीकाकृतैव पञ्चमाध्याये प्रश्नस्यास्य समाधास्यमानत्वात् । प्रकरणत्वं च एकार्थत्त्वम् इति अधोनिर्दिष्टटिप्पण्या सिद्धम्𑁍 । प्रज्ञातेति । ----- [^१]. इत्यादि धाक्यं लेखकप्रमादात् अशुद्धं भाति । अतः कामसूत्रीय जयमंगलानुसारेण संयोजनीयम् । अशुद्धम् नुपूवींकाणामसम्मोहेन ( पा॰ ) । [^२]. प्रकरणसार्थ ( पा॰ ) । [^१]. च प्रज्ञासमाना भविष्यति ( पा॰ ) । [^१]. तं बुद्धिस्थं-अधिकारं अधिक्रियन्ते गणितादीनि यत्रासावधिकारस्तं प्रकृतार्थ जिज्ञासाऽगमप्रयोजकतापर्याप्त्यधिकरणीभूतं ग्रन्थैकदेशमिति यावत् । प्रकृतत्वं च उद्देश्यविषयतापर्याप्त्यधिकरणत्वम् । तत्वं चाधिकारप्रतिपादितसकर्लोर्थं इति न कापि क्षतिः इति । 𑁍 पूर्वप्रकरणापेक्षं हि तदुत्तरसूत्रम् । उत्तरसूत्रत्रकरणानुरूपं च तदादिमसूत्रम् । तयोः स्वप्रकरणे गुणीभूतयोः नापेक्षा । यथा वाक्यावयवानां पदानां वाक्यान्तरावयवैर्नापेक्षा । कथमधिकरणानां प्रकरणानां सम्बन्ध इति चेत् प्रकरणान्येवैकार्थानि अधिकरणं, अधिकरणत्वमेवैषां न समुदायान्तरमित्यदोषः" । ( प्रक्रियन्त इति प्रकरणानि अर्थाः ) ज॰ जयमङ्गला इति । विद्यासमुद्देशादयश्च यथाप्रस्तुतार्थनिमित्तनामानः । निर्वचनं च यथा निर्देशं वक्ष्यामः । प्रक्रियन्त इति । प्रकरणानि अर्थाः । ग्रन्थभागास्तु तत्साहचर्यात् तन्नामानः प्रकरणार्थाधारत्वात् । अधिकरणानि अधिक्रियन्त एष्विति तानि च यथायथं जयमङ्गलाक्रोडपत्रम् अयं हेतूपन्यासः असम्मोहं प्रति कारणत्वप्रदर्शनार्थः, तेन विदितशास्त्रार्थप्रकरणानुपूर्वीणामित्यनेन न पौनरुक्त्यम् । असम्मोहेनेति । मोहः किङ्कर्तव्यमूढता चितस्य शून्यतेति यावत्† । यदि च प्रकरणार्थः सुसङ्गतत्वेन न ज्ञातः तर्हि मोहः सम्भवतीति भावः । इदं मोहापसारणं फलमुक्त्वा अपरं फलं प्रदर्शयन्नाह यथाऽभिलषितेति । यं विषयं अध्येतुमध्येता इच्छति सः विषयः कुत्र वर्तते इति अध्येत्रा उद्देशग्रन्थेन ज्ञातं चेत् तावानेव विषयस्तेन सारल्येन अध्येतुं शक्यते अन्यथा विषयस्थलस्यापरिचयात् सर्वस्य ग्रन्थस्य अध्येयत्वमापद्येत इति । उद्देश्यसिद्धौ च महान् श्रमः स्यात् । इत्यपि बोध्यम् । इष्टमिति यद्यपि इष्टं हि विदुषां लोके इति इदं पद्यं कामसूत्रे उपलभ्यते तथापि जयमङ्गलाकर्ता व्यासोक्तत्वेन अनुमन्यते, तेन "तदुक्तं व्यासेने"ति अभिधानात् । प्रकरणार्थाधारत्वात् प्रतिपादकतासम्बन्धेन इति शेषः । यथायथमिति । निर्मित्तं शक्यतावच्छेदकं तद्भेदाश्च ये उपात्ताः तेषां समाख्याप्रतिपादकाः शब्दाः विनयाधिकारिकमित्यादयः येषां तानि अधिकरणानि इति यावत् । ----- † तदुक्तं भावप्रकाशने । मोहश्चित्तस्य शून्यत्वं पूर्ववैरस्मृतेर्मदात् । दैवोपघातान्मात्सर्यात् भयाच्चापि प्रहारतः ॥ आवेगात् तत्प्रतीकारविहतेरेवमुद्भवेत् । निश्चेष्टता प्रपतनं वैवर्ण्यं देहघूर्णता ॥ सर्वेन्द्रियप्रमोहश्च निःश्वासो नष्टसंज्ञता । मोहस्य कथिताः सद्भिरनुभावाः स्वरूपतः ॥ भा॰ प्र॰ १ अधिकारः तथा काव्यप्रकाशविवरणे -- 'मोहो विचित्तता' भीतिः दुःखावेगानुचिन्तनैः इति धनिकः । विचित्तता चित्तस्य चैतन्यस्यापाटवम् । यथा -- 'इतिकर्त्तव्यतोपायादर्शनं मोह उच्यते' इत्यग्निपुराणम् । परस्परविरोधिनानाकर्तव्योपनिपाते किंकर्तव्यमित्यनिर्धारणं मोह इति तदर्थः । इति । चतुर्थ उल्लासः । १५९ पृष्ठम् । प्रकरणाधिकरणविभागः [ प्रथममधिकरणम् ] १. विद्यासमुदेश । २. वृद्धसंयोगः । ३. इन्द्रियजयः । ४. अमा- त्योत्पत्तिः । ५. मन्त्रिपुरोहितोत्पत्तिः । ६. उपधाभिः शौचाशौचज्ञान- ममात्यानाम् । ७. गूढपुरुषोत्पत्तिः । ८. गूढपुरुषप्रणिधिः । ९. स्वविषये कृत्याकृत्यपक्षरक्षणम् । १०. परविषये कृत्याकृत्यपक्षोपग्रहः । ११. मन्त्रा- धिकारः । १२. दूतप्रणिधिः । १३. राजपुत्ररक्षणम् । १४. अवरुद्धवृत्तम् । १५. अवरुद्धे च वृत्तिः । १६. राजप्रणिधिः । १७. निशान्तप्रणिधिः । १८. आत्मरक्षितकम् ॥ इति विनयाधिकारिकं प्रथममधिकरणम् ॥ ----- जयमङ्गला अध्यक्षाः प्रचरन्त्यनेनेति अध्यक्षप्रचारः धर्मस्थेभ्यो हितं तद्व्यापारोपदेशादिति धर्मस्थीयम् । कण्टकाः शोध्यन्तेऽनेनेति कण्टकशोधनम् । योगः प्रच्छन्नयोगः तस्य प्रवर्तनं योगवृत्तम् । मण्डलयोनिर्मण्डलज्ञानकारणम् । षडेव गुणाः षाडगुण्यम् । चातुर्वर्ण्यवत् । अभियास्यतः कर्म अभियास्यत्कर्म । सङ्ग्रामा अत्र भवन्तीति साङ्ग्रामिकम् । अवलीयसामिदम् आबलीयसम् । दुर्गलाभस्योपायो दुर्गलाभोपायः । लम्भ इत्यपप्रयोगः "उपसर्गात् खल्घञोः " ( ७-१-६७ ) इति नियमात् । उपनिषद् रहस्यं तदधिकृत्य कृतम् औपनिषदिकम् । तन्त्रयुक्तयः शास्त्रव्याख्यायुक्तयो बह्वयः, तासां प्रकरणभूतानामाधारत्वात् तन्त्रयुक्तिरधिकरणम् इति । श्रीमूला तत्र विनयाधिकारिकस्य प्रथमाधिकरणस्य प्रथमं प्रकरणं समुद्दिशति -विद्यासमुद्देश इति ! विद्यानाम् आन्वीक्षिकी त्रयी वार्ता दण्डनीतिरित्येतासां चतसॄणां समुद्देशः विद्यासमुद्देशः । तदाख्यं प्रकरणमित्यार्थम् । विद्यासमुद्देश इत्येतच्च सूत्रमिति व्यवहर्तव्यं, विस्तारार्बहुलार्थगर्भवात् । सूत्रमेव चेदं तत्प्रकरणे 'आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्चेति विद्याः' इत्युपक्रम्य 'स्वधर्मकर्माभिरतो वर्तते स्वेषु वेश्मसु' इत्यन्तैस्त्रिभिरध्यायैर्महता प्रयत्नेन प्रपञ्च्यत इति सूत्रस्य तथाविधं व्याख्यानं भाष्यं भवितुमर्हति । एवं प्रकरणाधिकरणसमुद्देशः' इत्युक्तचरमुत्तराण्यपि वृद्धसंयोग' इत्यादीनि सूत्राणि भवन्ति, तत्तत्प्रकरणगतानि प्रपञ्चनवाक्यानि च भाष्याणि । एवमधिकरणेषु सर्वेषु । एवञ्च 'स्वयमेव विष्णुगुप्तश्चकार सूत्रं च भाष्यं च' इति ग्रन्थान्तोक्तिरुपपन्ना भवतीति वेदितव्यम । श्रीमूला तत्र विनयविहीनो लोकशास्त्रव्यवहारेष्वशिक्षितो राजा राज्यरक्षणानर्हत्वाद् वैनयिकीषु विद्यास्ववश्यं विनेतव्य इत्यतो विद्यासमुद्देश इत्येतत् प्रकरणमादौ सूत्रितम् ॥ १ ॥ विद्याश्च वृद्धसंयोगाभावे लब्धुं न शक्या इति वृद्धसंयोग इति सूत्रम् ॥ २ ॥ वृद्धसंयोगश्च इन्द्रियजयमन्तरेण न लभ्य इति इन्द्रियजय इति सूत्रम् ॥ ३॥ वृद्धैर्विद्यासु शिक्षितो जितेन्द्रियोऽपि सहायाभावे कार्यं साधयितुं न क्षम इति तदनन्तरम् अमात्योत्पत्तिरिति सूत्रम् ॥ ४ ॥ अमात्याश्च केचिद् बुद्धिसाचिव्याय नित्यनैमित्तिककर्मसाचिव्याय चापेक्षिताः, शान्तिकपौष्टिककर्मानुष्ठानाय चान्ये । तदर्थं मन्त्रिपुरोहिताः कर्तव्या इति मन्त्रि- पुरोहितोत्पत्तिरिति सूत्रम् ॥ ५ ॥ तैश्च सर्वप्रकारविशुद्धैभाव्यमिति उपधाभिः शोचाशौचज्ञानममात्यानाम् इति सूत्रम् ॥ ६ ॥ उपधाशुद्धिर्गूढपुरुषानन्तरेण ज्ञातुमशक्येति ततो गूढपुरुषोत्पत्तिः इति सूत्रम ॥ ७ ॥ तेषां च स्वामिनियोगमन्तरेणाव्यापाराद् गूढपुरुषप्रणिधिः इति सूत्रम् । गूढ- पुरुषाणां प्रणिधिः प्रणिधानं तत्तत्कार्येषु स्वामिना नियोजनमिति तदर्थः ॥ ८ ॥ तैश्च नियुक्तैः स्वराज्यगतान् क्रुद्धलुब्धादीन् विज्ञाय तद्दोषप्रतिविधानं, परराष्ट्रगतान् विज्ञाय तेषां भेदनेन स्वपक्षे प्रवेशनं चावश्यकमिति स्वविषये कृत्याकृत्यपक्षरक्षणम् इति, परविषये कृत्याकृत्यपक्षोपग्रहः इति च सूत्रे । स्वदेशे कृत्याः शत्रुभेद्याः क्रुद्धादयः, अकृत्याः अभेद्याः सुहृदः, कृत्याकृत्यानां पक्षाणां सङ्घानां शत्रूपजापाद् रक्षणमिति प्रथमसूत्रस्यार्थः । परराष्ट्रे ये कृत्याकृत्याः पक्षाः तेषामुपजापादिना स्वपक्षे सङ्ग्रहणमिति द्वितीयसूत्रस्यार्थः ॥ ९, १० ॥ स्वराष्ट्ररक्षणं परराष्ट्रहरणमित्येतावद् राज्ञः कर्मसर्वस्वम् । तस्य मन्त्रा- यत्तत्वान्मन्त्राधिकारः इति सूत्रम् कर्मणामारम्भोपायादिसम्प्रधारणं मन्त्रः, तस्या- धिकारी मन्त्राधिकार इति ॥ ११ ॥ परराष्ट्रकरणीयानां स्वकर्मणां स्वयं कर्तुमशक्यतया दूतसापेक्षत्वाद् दूत- प्रणिधिः इति सूत्रम् ॥ १२ ॥ यथा राजपुत्रास्स्वपितरि न द्रोहमावरेयुः तथा ते प्रयत्नेन परोपजापादिभ्यो रक्षणीया इति राजपुत्ररक्षणम् इति सूत्रम् ॥ १३ ॥ पित्रा क्वचिदवरुध्य तथा रक्ष्यमाणः कुमारः पितरि कथं व्यवहरेत्, पिता च तस्मिन् कथमित्येतद् वक्तुं सूत्रे अवरुद्धवृत्तम् इति, अवरुद्धे च वृत्तिः इति च ॥ १४, १५ ॥ [ द्वितीयमधिकरणम् ] १९. जनपदद्विनिवेशः[^१] । २०. भूमिच्छिद्रविवानम्[^२] । २१. दुर्गविधा ----- श्रीमूला इत्थमात्मानं रक्षतो राज्ञो नियतकालां व्यापारपरिपाटीं वक्तुं सूत्रं राज- प्रणिधिः इति । राज्ञः प्रणिधिः प्रणिधानं व्यापारपरिचिन्तनमित्यर्थः ॥ १६ ॥ निशान्तप्रणिधिः इति सूत्रम् । निशान्तं राजभवनं, तस्य प्रणिधिः प्रणिधानं देशसन्निवेशादिचिन्तनम् ॥ १७ ॥ आत्मरक्षितकम् इति सूत्रम् । रक्षितमितिभावे क्तः, स्वार्थे च कः । राज्ञ आत्मरक्षणौपयिकं प्रकरणेऽस्मिन्नुपदिश्यत इत्यर्थः ॥ १८ ॥ इति विनयाधिकारिकमित्यादि । विनयः विद्यादिशिक्षणं तस्याधिकारः प्रस्तावो विनयाधिकारः, सोऽस्मिन्नस्तीति विनयाधिकारिकं नाम प्रथममधिकरणं समुद्दिष्टमित्यर्थः ॥ इत्थं प्रथमाधिकरणसूत्रिताष्टादशप्रकरणोपदिष्टवर्त्मना समासादितविनयसम्पत्को राजा तन्त्रावापयोरधिकारी भवति । तन्त्रं नाम स्वराज्यक्षेमसाधनानुकूलः पञ्चस्वाद्येष्वधिकरणेषु पञ्चनवत्या सूत्रैः प्रतिपाद्यमानोऽर्थः । आवापः शत्रुराष्ट्रहरणानुकूलः षष्ठादिषु त्रयोदशान्तेषु अष्टस्वधिकरणेषु सूत्राणामेकाशीत्या प्रतिपाद्यमानोऽर्थः, अर्थं ह्येनं विज्ञाय प्रवर्तमानो विजिगीषुः परराष्ट्रं स्ववशे करोतीति । तत्र येऽर्थाः द्वितीयेऽधिकरणे अध्यक्षप्रचाराख्ये अष्टात्रिंशता सूत्रैः प्रतिपाद्यन्ते, ये तृतीये धर्मस्थीये एकोनविंशत्या सूत्रैः, ये चतुर्थे दुर्गराष्ट्रसम्बन्धिकण्टकशोधनाख्ये त्रयोदशभिः सूत्रैः, ये च पञ्चमे राजराज्यकण्टकशोधनपरे योगवृत्तनाम्नि सप्तभिः सूत्रैः, तेष्वेव सर्वेष्वधीनं राज्यकुटुम्बभरणकर्मेति तमेतं चतुरधिकरण्यर्थं तन्त्रमाहुः, तत्रिधातो कुटुम्बधारणार्थत्वात् । द्विसूत्रं प्रकरणद्वयात्मकं मण्डलयोनिसंज्ञमधिकरणं षष्ठम्, एकोनत्रिंशत्सूत्रयुक्तं षाड्गुण्यं सप्तमम्, अष्टसूत्रीरूपं व्यसनाधिकारिकमष्टमं, द्वादशसूत्रमभियास्यत्कर्माख्यं नवमं, त्रयोदशसूत्रं साङ्ग्रामिकं दशमं, द्विसूत्रं सङ्घवृत्तमेकादशम्, नवसूत्रमाबलीयसं द्वादशम्, षट्सूत्रं दुर्गलम्भोपायाख्यं त्रयोदशमित्येकाशीतिसूत्रामष्टाधिकरणीं शत्रुराज्यहरणोपायोपदेशिनीमावापं व्यवहरन्ति । त्रिसूत्रमौपनिषदं नाम चतुर्दशमधिकरणं तन्त्रावापयोरत्यन्तमनुगुणम् । एकसूत्रात्मकं तन्त्रयुक्तिसंज्ञं पञ्चदशमधिकरणणं कौटिल्यशास्त्रादृतास्तन्त्रयुक्ती र्द्वात्रिंशतं व्युत्पादयतीति स्थितिः । तत्र स्वराज्यं रक्षतो राजधान्याद्यपेक्षणादध्यक्षप्रचाराधिकरणे जनपदविनिवेश इति प्रथमं प्रकरणं सूत्रितम् ॥ १॥ स्वराज्यगतानां कृषिनिवासानर्हाणां गिरिवनश्वभ्रप्रायाणां भूभागानामुपयोगप्रकारोपदेशार्थं सूत्रं भूमिछिद्रविधानम् इति । भूमिच्छिद्राणां कृष्याद्यनर्हभूभागानां विधानम् उपयोग्रप्रकार इत्यर्थः । "भूमिच्छिद्रं कृष्ययोग्ये"ति यादवः ॥ २ ॥ र्णिकप्रचारः[^१४] । ३३. कोष्ठागाराध्यक्षः[^१५] । ३४. पण्याध्यक्षः[^१६] । ३५. कुप्याध्यक्षः[^१७] । ३६. आयुधागाराध्यक्षः[^१८] । ३७. तुलामानपौतवम्[^१९] । ३८. देशकालमानम्[^२०] । ३९. शुल्काध्यक्षः[^२१] । ४०. सूत्राध्यक्षः[^२२] । ४१. सीताध्यक्षः[^२३] । ४२. सुराध्यक्षः[^२४] । ४३. सूत्राध्यक्षः[^२५] । ----- श्रीमूला विशिखायां सौवर्णिकप्रचारः इति सूत्रम् । विशिखायाम् आपणवीथ्यां, सौवर्णिकप्रचारः सुवर्णनियुक्तस्य व्यापारः ॥ १४॥ कोष्ठागाराध्यक्ष इति सूत्रम् । कोष्ठमुदरं लक्षणया तत्पोषणार्थं व्रीहि- गोधूमादिकमाहारद्रव्यं तस्य अगारं सङ्ग्रहस्थानम् तस्याध्यक्षः, अर्थात् तद्- व्यापारः ॥ १५ ॥ पण्याध्यक्षः इति सूत्रम् । विक्रेयद्रव्याध्यक्ष इत्यर्थः ॥ १६ ॥ कुप्याध्यक्षः इति सूत्रम् । कुप्यं सारदारुवेणुवल्लिवल्कादि तस्मिन् नियुक्तः कुप्याध्यक्षः ॥ १७ ॥ आयुधागाराध्यक्षः इति सूत्रम् । स्पष्टार्थम् ॥ १८ ॥ तुलामानपौतवम् इति सूत्रम् । तुला उन्मानसाधनं, मानं कुडुबादि, ताभ्यां पौतवं परिच्छेदनं तुलामानपौतवं, लक्षणया तत्संशोधनमित्यर्थः । तच्च वाणिजकाः कूटतुलामानव्यवहारिणो माभूवन्नित्येतदर्थम् ॥ १९ ॥ देशकालमानम् इति सूत्रम् । देशो योजनगव्यूतिक्रोशादिः, कालस्त्रुटिलवादिः तयोर्मानं परिच्छेद इति सूत्रार्थः ॥ २० ॥ शुल्काध्यक्षः इति सूत्रम् । शुल्कं पञ्चदशभागादिकं शुल्कव्यवहारे वक्ष्यमाणं राज्ञो देयं, तस्याऽध्यक्षः तद्व्यापार इत्यर्थः ॥ २१ ॥ सूत्राध्यक्षः इति सूत्रम् । सूत्रं कार्पासादिजस्तन्तुः तस्य अध्यक्षः तद्वानादि- कारयिता ॥ २२ ॥ सीताध्यक्षः इति सूत्रम् । सीता कृषिः तस्या अध्यक्षः कृषितन्त्र - वृक्षायुर्वेदौ विज्ञाय प्रवर्तकः ॥ २३ ॥ सुराध्यक्ष इति सूत्रम् । सुरा मधुमैरेयादि तस्या अध्यक्षः सन्धानविक्रयाद्य- धिकृतः सुराध्यक्षः ॥ २४ ॥ सूनाध्यक्षः इति सूत्रम् । सूना भक्ष्यप्राणिवधस्थानम्, तस्या अध्यक्षः वध्या- वध्यनियमनाद्यधिकृतः ॥ २५ ॥ ४४. गणिकाध्यक्षः[^२६] । ४५. नावध्यक्षः[^२७] । ४६. गोऽध्यक्षः[^२८] । ४७. अश्वाध्यक्षः[^२९] । ४८. हस्त्यध्यक्षः[^३०] । ४९. रथाध्यक्षः[^३१] । ५०. पत्त्यध्यक्षः[^३२] । ५१. सेनापतिप्रचारः[^३३] । ५२. मुद्राध्यक्षः[^३४] । ५३. विवीताध्यक्षः[^३५] । ५४. समाहर्तृप्रचारः[^३६] । ५५. गृहपतिकवैदेहक- तापसव्यञ्जनाः प्रणिधयः[^३७] । ५६. नागरिकप्रणिधिः[^३८] ॥ ॥ इत्यध्यक्षप्रचारो द्वितीयमधिकरणम् ॥ ----- श्रीमूला गणिकाध्यक्षः इति सूत्रम् । धनमेव गणयन्तीति गणिका वेश्याः तासामध्यक्षः गणिकाध्यक्षः ॥ २६ ॥ नावध्यक्षः इति सूत्रम् । नावां यानपात्राणां अध्यक्षः आदेयराजभाग- ग्रहणाधिकर्ता ॥ २७ ॥ गोध्यक्ष इति सूत्रम् । गवाम् उपलक्षणेन गोमहिषाजादीनां तदाजीवानां गोपालादीनां च अध्यक्षः नियामक इत्यर्थः ॥ २८ ॥ अश्वाध्यक्ष इति सूत्रम् । अश्वानां लक्षणकुलादिकं विज्ञाय तद्रक्षणादिकर्मा- नुष्ठाता अश्वाध्यक्षः ॥ २६ ॥ हस्त्यध्यक्षः इति सूत्रम् । अश्वाध्यक्षवद् हस्त्यध्यक्षो व्याख्येयः ॥ ३० ॥ रथाध्यक्षः इति सूत्रम् । रथानां देवरथादीनां घटनाद्यधिकर्ता रथाध्यक्षः ॥ ३१॥ पत्त्यध्यक्षः इति सूत्रम् । पत्तयः पदातयः ये पादचारेण युध्यन्ते, तेष्वधिकृतः पत्त्यध्यक्षः ॥ ३२ ॥ सेनापतिप्रचारः इति सूत्रम् । सेनापतिः चतुरङ्गबलनेता तस्य प्रचारः सेनाविषयो व्यापारः प्रतिपाद्यत इत्यर्थः ॥ ३३ ॥ मुद्राध्यक्षः इति सूत्रम् । मुद्रा नाम राजचिह्नं राजनामधेयं प्रतिमादिलक्षणं यच्छासनपत्रादौ दीयते, तस्या अध्यक्षः प्रवर्तयिता ॥ ३४ ॥ विवीताध्यक्षः इति सूत्रम् । विवीतं तृणजलवान् अकृष्यः प्रदेशः पश्वर्थः, तस्याध्यक्षः तद्व्यापार इत्यर्थः ॥ ३५ ॥ समाहर्तृप्रचारः इति सूत्रम् । समाहर्ता आयस्थानेभ्यो राजार्थसङ्ग्राहको जनपदाध्यक्षः तस्य प्रचारो व्यापारः जनपदचिन्तनमित्यर्थः ॥ ३६ ॥ गृहपतिकवैदेहकतापसव्यञ्जनाः प्रणिधयः इति सूत्रम् । गृहस्थ-वणिक्-तप- स्विषाः प्रणिधयः गूढपुरुषाः । अर्थात् तेषां जनपदेषु नियोजनम् । तच्च समाहर्तृ - कार्योपयोगिने जनपदवृत्तान्तज्ञानाय ॥ ३७ ॥ नागरिकप्रणिधिः इति सूत्रम् । नगरे नियुक्तो नागरिकः, तस्य प्रणिधिः प्रणिधानं व्यापारचिन्तनमित्यर्थः ॥ ३८ ॥ इतीत्यादि । अध्यक्षप्रचारोऽध्यक्षाणां व्यापारः ॥