<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>KAVYAMALA.
A collection of old and rare Sanskrit Kāvyas.
Nātakas, Champūs, Bhāṇas, Prahasanas,
Chhandas, Alankāras &c.
PART II.
EDITED BY
PAṆDIT DURGĀPRASĀD
AND
KĀŚINĀTH PĀṆDURANG PARAB,
VĀSUDEV LAXMAN SHĀSTRĪ PANSHIĪKAR.
Second Edition.
PUBLISHED
BY
PĀNDURANG JĀWAJĪ,
PROPRIETOR OF THE 'NIRNAYA SĀGAR' PRESS,
BOMBAY.
1932.</p>
<pb n="2" />
<p>[All rights reserved by the publisher. ]
PUBLISHER:-Pandurang Jawaji,
PRINTER:-Ramchandra Yesu Shedge,
at the Nirnaya-sagar Press,
26-28, Kolbhat Lane, Bombay</p>
<pb n="3" />
<p>॥ श्रीः ॥
काव्यमाला ।
नाम
नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसन-
च्छन्दोलंकारादिसाहित्यग्रन्थानां
संग्रहः ।
द्वितीयो गुच्छकः ।
पण्डितदुर्गाप्रसादेन, परबोपाह्वपाण्डुरङ्गात्मजकाशिनाथशर्मणा,
पणशीकरोपाह्वलक्ष्मणात्मजवासुदेवशर्मणा च
संशोधितः ।
द्वितीयं संस्करणम् ।
स च
मुम्बयां
पाण्डुरङ्ग जावजी श्रेष्ठिभिः
स्वीये निर्णयसागराख्ययन्त्रालये मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः ।
शाकः १८५३ ख्रिस्ताब्दः १९३२.
मूल्यमेको</p>
<pb n="4" />
<p>अनुक्रमणिका ।</p>
<note>१. शंकराचार्यकृतं विष्णुपादादिकेशान्तवर्णनस्तोत्रम् ( सटीकम् )</note>
<note>२. गुमानिक विप्रणीतमुपदेशशतकम्</note>
<note>३. क्षेमेन्द्रकृतं सुवृत्ततिलकम्</note>
<note>४. जगन्नाथपण्डितराजविरचिता करुणालहरिः</note>
<note>५. शंभुमहाकवि विरचितान्योक्तिमुक्तालता</note>
<note>६. क्षेमेन्द्रकृतः सेव्यसेवकोपदेशः</note>
<note>७. विक्रमविरचितं नेमिदूतम्</note>
<note>८. जगन्नाथपण्डितराजविरचिता लक्ष्मीलहरिः</note>
<note>९. रुद्रकविकृतो भावविलासः</note>
<note>१०. क्षेमेन्द्रकृता चारुचर्या</note>
<note>११. मधुसूदनसरखतीविरचितानन्दमन्दाकिनी</note>
<note>१२. शंकराचार्यकृतमम्बाष्टकम् ( सटीकम् )</note>
<note>१३. मुकुन्दमुक्तावलिः</note>
<pb n="5" />
<p>महाकविश्रीशुंभविरचिता</p>
<p>अन्योक्तिमुक्तालता</p>
<lg>
  <l>मानं मुञ्च विपञ्चि पञ्चमरवन्यक्कारपारंगमा</l>
  <l>मा भूवन्कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः।</l>
  <l>प्राप्तः पञ्चशरप्रपञ्चशरणं यद्भृङ्गभङ्ङ्गीगुरु-</l>
  <l>र्बन्धूकप्रियबान्धवो धवलित[^२]श्यामाधवो माधवः॥१॥</l>
</lg>
<lg>
  <l>हेलाक्रान्त[^३]हरिन्ति कुन्तलवधूवेणीहरिन्ति[^४] स्फुटं</l>
  <l>भिन्दन्नेष तमांसि लोचनसुधावल्लस्तमीवल्लभः।</l>
  <l>पश्योद्गच्छति हारिकीरतरुणीहारानुकारैः करै-</l>
  <l>रोंकारं[^६] कुरु कैरवाकर निजोन्मेषेषु योग्यः क्षणः॥२॥</l>
</lg>
<lg>
  <l>सत्यं सन्ति कियन्ति सन्ति[^६] न सखे रत्नानि रत्नाकरे</l>
  <l>संजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः।</l>
  <l>यो जातः स्मरकेलिलोलकमलासोल्लासदोः कन्दली-</l>
  <l>लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शार्ङ्गिणः॥३॥</l>
</lg>
<note>अस्माच्छ्लोकादग्रे आर्यमित्रपुस्तके 'इमां वै विष्णुलहरीं जगन्नाथेन निर्मिताम्।
यः पठेत्तस्य सर्वत्र जायन्ते जयसंपदः॥' अयं फलश्रुतिश्लोकोऽपि वर्तते. अन्यपुस्तकेषु
तु न प्रोक्तः.</note>
<note>मेघराहित्यादुज्ज्वलीकृतचन्द्रः.</note>
<note>हेलयाक्रान्तदिङमण्डलानि.</note>
<note>श्या-मवर्णानि.</note>
<note>आरम्भम्. 'प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम्' इति नैषधी-
यकाव्यम् (२०/२). 'दिनोंकरे दिनप्रारम्भे' इति तट्टीकायां मल्लिनाथनारायणौ.</note>
<note>समीचीनानि.</note>
<pb n="6" />
<lg>
  <l>पातालं च नभस्तलं च गरिमद्वारेण यद्वारिणा</l>
  <l>पूरंपूरमपूरि यस्य बहुलं कल्लोलकोलाहलः।</l>
  <l>देवो येन स कच्छपोऽपि कलितः कच्छेऽपि तस्याम्भसां</l>
  <l>भर्तुर्गोष्पदमात्रपूरणविधौ नो विस्मयो न स्मयः॥४॥</l>
</lg>
<lg>
  <l>उत्फुल्लैर्बकुलैर्लवङ्गमुकुलैः शेफालिकाकुड्भलै-</l>
  <l>र्नीलाम्भोजकुलैस्तथा विचकिलै: क्रान्तं च कान्तं च यत्।</l>
  <l>तस्मिन्सौरभधाम्नि दाम्नि किमिदं सौगन्धवन्ध्यं मुधा</l>
  <l>मध्ये मुग्ध कुसुम्भमुम्भसि[^१] भवेन्नैवैष युक्तः क्रमः॥५॥</l>
</lg>
<lg>
  <l>यस्मिन्नङ्कुरितं कुरङ्गकदृशां प्रेम्णा किमन्यद्ध्रुवं</l>
  <l>यत्रास्ते मदनस्य लुप्तरमणीमग्नक्रमो विक्रमः।</l>
  <l>पक्वं नागरखण्डपल्लवमिदं जाल्मैः फलश्रीदल-</l>
  <l>भ्रान्त्या हन्त न वीक्षितं न कलितं नास्वादितं नादृतम्॥६॥</l>
</lg>
<lg>
  <l>केनात्र कर्कशकरीरवनान्तराले</l>
  <l>बाले बलाद्बकुलकन्दलि रोपितासि।</l>
  <l>यत्राप्नुयुर्मधुलिहस्तव कोमलानि</l>
  <l>नो कुड्भलानि न दलानि न कन्दलानि॥७॥</l>
</lg>
<lg>
  <l>धत्ते कीरवधूरदच्छदसुधामाधुर्यमुद्रां रसो</l>
  <l>येषां सा परिपाकसंपदपि च क्षौद्रद्रवद्रोहिणी।</l>
  <l>तेषां पुण्ड्रक[^२]काण्ड पाण्डिमजुषां त्वत्पर्वणां चर्वणां</l>
  <l>किं मुग्धाः करभा मुधैव विरसा विन्दन्ति निन्दन्ति च॥८॥</l>
</lg>
<lg>
  <l>मद्गुमाद्यति यत्र यत्र भजते भङ्गिं बको यत्र स</l>
  <l>क्रौञ्च: किं च मदादुदञ्चति सरस्तन्मुञ्च कोऽयं ग्रहः।</l>
  <l>आस्ते बालमरालसालसलसद्दिक्कुञ्जरं पार्वती-</l>
  <l>कर्णोत्तंसितकाञ्चनाब्जलमुकुलं यन्मानसं ते सरः॥९॥</l>
</lg>
<lg>
  <l>श्रीसंकेतनिकेत केतक कुरु त्वं कुड्भलाडम्बरं</l>
  <l>हे नीप स्मरदीप दीपय तनौ टङ्कं नवैरङ्कुरै:।</l>
</lg>
<note>‘उम्भपुरणे’.</note>
<note>पुण्ड्रक इक्षुभेद:.</note>
<pb n="7" />
<lg>
  <l>स्नेहस्नातपुरंध्रिकुन्तललताकान्तिः करोत्यम्बरे</l>
  <l>नीरोद्गारगभीर धीररसितप्रारम्भमम्भोधरः॥१०॥</l>
</lg>
<lg>
  <l>गुर्वीमुर्वीतिलक तिलक स्वीकुरु स्वामभिख्यां</l>
  <l>रूपं लक्ष्मीनगर तगर श्लाघ्यमुन्मीलयेथा:।</l>
  <l>भङ्गीमङ्गीकुरु रतिपतेर्मल्लि हे चूतवल्लि</l>
  <l>प्रक्रान्तोऽयं विषमरमणीमानजैत्रः स चैत्रः॥११॥</l>
</lg>
<lg>
  <l>अद्रिद्रोण्यां निवस दिवसं जातलीलानुषङ्गै-</l>
  <l>रङ्गैर्मा स्म स्मयतरलितैरङ्ग सारङ्ग रङ्गः[^१]।</l>
  <l>दर्पद्वारं द्विरदकदनोदग्रपाणिर्यदग्रे</l>
  <l>प्रत्यासन्नो वनविहरणक्रीडया कुञ्जरारिः॥१२॥</l>
</lg>
<lg>
  <l>कांतिं केतककोरकद्युतिसखीं राकामृगाङ्कस्य य-</l>
  <l>च्चञ्चचञ्चु चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः।</l>
  <l>तन्मन्ये नयनामृतं रतिपतेर्मृत्युंजयेनार्थिना</l>
  <l>तेनेदं रमणीकपोलफलके लावण्यमालोकितम्॥१३॥</l>
</lg>
<lg>
  <l>आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः</l>
  <l>खेलन्हेलोन्मदमधुकरीमानसे मानसे यः।</l>
  <l>भेकोद्रेकप्रणयिनि वलद्वालजम्बालजाले</l>
  <l>स स्यादुत्कः परिमितजले पल्वले किं मरालः॥१४॥</l>
</lg>
<lg>
  <l>द्यां च क्ष्मां च गतं यदम्बुशिखरैराक्रान्तनाकोऽप्यसौ</l>
  <l>मेनाकोऽपि न कोऽपि यत्र दयितं यः सद्म पद्मापतेः।</l>
  <l>लोलद्वालकुलीरकम्पकलया देवस्य तस्याम्भसां</l>
  <l>भर्तुः कस्य कदा कियान्क्व  नु ननु क्षोभो दृशोर्गोचरः॥१५॥</l>
</lg>
<lg>
  <l>गर्वं खर्वं कुरु कररुहोदञ्चनं मुञ्च कण्ठे</l>
  <l>कुण्ठः कण्ठीरव तव रवः किं च संकोचमेतु।</l>
  <l>शक्तः सप्ताम्बुनिधिपरिखामेखलामेष गुर्वी-</l>
  <l>मुर्वी वोढुं मदजलसरित्संगतो दिड्भतङ्गः॥१६॥</l>
</lg>
<note>'रगि गतौ'.</note>
<pb n="8" />
<lg>
  <l>चूतं चर्वय चम्पकं चर नवां वासन्तिकामन्तिका-</l>
  <l>न्मा मा मुञ्च सविभ्रमं भ्रमर हे सङ्गं लवङ्गे कुरु।</l>
  <l>एकः कार्मुककर्मनर्मणि सखा देवस्य कान्तागुरोः</l>
  <l>प्रक्रान्तः प्रमदामदावहवहन्मन्दानिलो माधवः॥१७॥</l>
</lg>
<lg>
  <l>उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः</l>
  <l>सानन्दं पिचुमन्दकन्दलदलाखादेषु का वा क्षतिः।</l>
  <l>एतत्किं तु तव क्रमेलक कथंकारं सहे दुःसहं</l>
  <l>तस्मिन्पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः॥१८॥</l>
</lg>
<lg>
  <l>शान्तं कान्तपुरंध्रिकुन्तललतालावण्यचौरं तमः</l>
  <l>पश्यारोहति पूर्वपर्वतशिखामम्भोजिनीवल्लभः।</l>
  <l>एवं का गणना तवाद्य हि रतावद्योतखद्योत हे।</l>
  <l>दूर्वाकाण्डतले दिनं नय सखे खर्वोऽस्तु गर्वग्रहः॥१९॥</l>
</lg>
<lg>
  <l>अत्रोन्मीलति मालती स्मितमितो मल्ली समालम्बते</l>
  <l>तद्रोलम्ब विडम्बनाय नलिनीं किं यासि कोऽयं क्रमः।</l>
  <l>एतस्यामपि दर्दुरैरपि बकैरेकैकमुट्टङ्किते</l>
  <l>गीते कुण्ठित एव कण्ठकुहरे जायेत ते पञ्चमः॥२०॥</l>
</lg>
<lg>
  <l>आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतो</l>
  <l>लेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः।</l>
  <l>देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्किते</l>
  <l>शङ्कं निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः॥२१॥</l>
</lg>
<lg>
  <l>कुन्दे दलितादरः सरसिजे संजातकौतूहल:</l>
  <l>कल्हार कलितस्पृहः किमपरं यः केतके कौतुकी।</l>
  <l>निर्माता किममर्त्यराजतरुणी लीलावतंसश्रियो</l>
  <l>योग्यस्तस्य मधुव्रतस्य ललिताकल्पः स कल्पद्रुमः॥२२॥</l>
</lg>
<lg>
  <l>शुभ्रो वा मलिनोऽस्तु वा मृगमदः किं तावता तादृशः</l>
  <l>कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौगन्ध्यमेको गुणः।</l>
</lg>
<pb n="9" />
<lg>
  <l>येनैव स्मरविभ्रमैकवसतिर्भाले कपोलस्थले</l>
  <l>दोर्मूले कुचमण्डले च कुरुते रङ्गं कुङ्गीदृशाम्॥२३॥</l>
</lg>
<lg>
  <l>शान्तध्वान्तकलङ्क शंकरशिरोरत्न त्वमेणाङ्क चे-</l>
  <l>त्कंदर्पाङ्कुरकन्द कुन्दकलिकाकारैः करैरुद्गतः।</l>
  <l>तत्किं मीलितमम्बुजैर्विदलितं किं दन्ति[^१]दन्ताङ्कुरै-</l>
  <l>र्भङ्ग: किं नु तथा रथाङ्गमिथुनैः प्रत्यङ्गमङ्गीकृतः॥२४॥</l>
</lg>
<lg>
  <l>झम्पामस्तगिरेः करोतु भजतां विष्णोः पदं गाहतां</l>
  <l>क्षामाङ्गो गिरिजाभुजंगमुकुटोत्सङ्गेऽपि गाङ्गं पयः।</l>
  <l>एष क्लाम्यति केवलं कुमुदिनीकान्तो नहि त्वन्मुखे</l>
  <l>शङ्के किंकरतां नताङ्गि लभते दूरोऽस्तु साम्यक्रमः॥२५॥</l>
</lg>
<lg>
  <l>येनाप्तः कमलाविलासकमले किंजल्कपानोत्सवो</l>
  <l>यो लीलां वितनोति नाभिनलिनोत्सङ्गे तथा शार्ङ्गिणः।</l>
  <l>तस्य स्यात्कुसुमान्तरे मधुलिहः कुत्राप्यहो न स्थिति-</l>
  <l>र्न प्रीतिर्न रतिर्न केलिसमयो नो विस्मयो न स्मयः॥२६॥</l>
</lg>
<lg>
  <l>अप्येतानि चुलुम्पितानि चुलकन्यायेन येन क्षणा-</l>
  <l>त्पारावारपयांसि येन विदधे विन्ध्योऽपि वन्ध्याकृतिः।</l>
  <l>सोऽपि क्वाऽपि भवत्तटे निवसति त्रैलोक्यमान्यो मुनि[^२]-</l>
  <l>स्तन्मन्ये तव नास्ति रोहण परः स्पर्धापरः क्ष्माधरः॥२७॥</l>
</lg>
<lg>
  <l>रोहत्सौरभविभ्रमाणि कमला[^३]सद्मानि पद्माकरे</l>
  <l>पद्मान्यत्र कियन्ति सन्ति नु नतिः का तेषु नुतिः।</l>
  <l>तत्साक्षादरविन्दमद्भुतलताकन्दं तु वन्देमहि</l>
  <l>त्रैलोक्यप्रभवः पुरा समभवद्यस्मात्पुराणः कविः[^४]॥२८॥</l>
</lg>
<note>चन्द्रिकायां हस्तिदन्ता विदलन्तीति कविसंप्रदायः 'कवाटिदन्तैर्विस्फोटश्चन्द्र-
कान्तै सिरोद्गमः । श्वयथुः पयसां पत्या दधे राज्ञयुदयोन्मुखे' (८/३२४४) इति, 'महेभां- स्तापयत्यर्थः कुर्याद्भग्नरदान्विधु:’ (८/३३९२) इति च राजतरङ्गिणी. कवाटिनो गजा: राशि चन्द्रे.</note>
<note>अगस्त्यः.</note>
<note>लक्ष्मीगृहाणि.</note>
<note>ब्रह्मा.</note>
<pb n="10" />
<lg>
  <l>किं ताभिर्वितताभिरद्भुतकथाकन्थाभिरेतावता</l>
  <l>वन्द्योऽयं विभुरम्भसां समभवद्गन्तं कौस्तुभ:।</l>
  <l>चक्रे लग्नरमाघनस्तनतटीकर्पूरपत्राङ्कुरे</l>
  <l>यः श्रीवत्समनोहरे हृदि धृतिं देवस्य दैत्यद्रुहः॥२९॥</l>
</lg>
<lg>
  <l>नानन्दं मुचुकुन्दकुड्भलकुले नो केतके कौतुकं</l>
  <l>नोत्फुल्ले कुमुदे मदं न कुटजे कौटुम्ब्यमालम्बते।</l>
  <l>चोलीदन्तचतुष्किकाशुचिरुचिस्मेरां स्मरन्मालतीं</l>
  <l>किं त्वास्ते तरुकोटिकोटरकुटीबद्धास्पदः षट्पदः॥३०॥</l>
</lg>
<lg>
  <l>अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः</l>
  <l>प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः।</l>
  <l>तत्ते कालं कतिपयमयं भाति खद्योतपोतं</l>
  <l>द्योतं द्योतं पुनरपि पुनर्द्योततां को विलम्बः॥३१॥</l>
</lg>
<lg>
  <l>पुष्पोत्करेषु च फलेषु च सावलेप-</l>
  <l>स्त्वं कन्दलेषु च दलेषु च सावहेल:।</l>
  <l>किं मुग्ध दग्धमकरोः सुरभेरगार-</l>
  <l>मङ्गारकार सहकारमकारणेन॥३२॥</l>
</lg>
<lg>
  <l>याच्यस्ते खदिरः करीरविटपः सेव्योऽपि किं कुर्महे</l>
  <l>मार्गः संगत एष ते खरतरुर्यद्भैरवो मारवः।</l>
  <l>तनौत्मल्लीमुकुलं तदुत्पलकुलं सा यूथिकावीथिका</l>
  <l>तच्च लवङ्गमङ्ग भवतो हा भृङ्ग दूरं गतम्॥३३॥</l>
</lg>
<lg>
  <l>लीनः पाघरकंदरासु रचयनक्वापि स्थितिं भङ्गुरै-</l>
  <l>रङ्गैरङ्ग कुरङ्ग रङ्गसि कथंकारं विकाराकुलः।</l>
  <l>प्राप्तः पश्य विचेतुमुद्भटसटाटोपः सकोपः स्वयं</l>
  <l>गर्जत्कुञ्जरपुञ्जभञ्जनपटुः पञ्चाननः काननम्॥३४॥</l>
</lg>
<note>सुन्दरम्.</note>
<pb n="11" />
<lg>
  <l>एता: केरलसुन्दरीरदरुचः सन्त्येव मुक्तालता</l>
  <l>मल्लीमाल्यमयानि सौरभभरोद्दामानि दामानि च।</l>
  <l>किं नीतः शितिकण्ठ कण्ठनिकटं गौरीभुजाकन्दली-</l>
  <l>लीलालिङ्गनयोग्यमुग्रगरलग्राम: फणिग्रामणीः॥३५॥</l>
</lg>
<lg>
  <l>सोढं येन पयोभृतां दिवि दलन्नीलारविन्दद्युतां</l>
  <l>नैवोत्तुङ्गमृदङ्गनादविजयि क्वाप्यूर्जितं गर्जितम्।</l>
  <l>वारंवारमुदारवारणरणव्यापारपारंगमो</l>
  <l>दृष्टः केन कुरङ्गसंगरविधौ कुण्ठः स कण्ठीरवः॥३६॥</l>
</lg>
<lg>
  <l>यत्केलिमन्थरमरालमराल[^१]बाल-</l>
  <l>शेवालकोमलमलं विमलं मृणालैः।</l>
  <l>तत्पश्य शुष्यति सरः प्रसरत्तुषार-</l>
  <l>रुद्धं विरुद्धविधिरेव विधिः किमन्यत्॥३७॥</l>
</lg>
<lg>
  <l>त्वय्युद्गच्छति को न बालकलिकाकान्तः कदम्बद्रुमो</l>
  <l>रोलम्बाकुलकम्प्रकुड्भलकुलल्कान्तो न कः केतकः।</l>
  <l>दोषः किं तु तवाम्बुवाह कलुषैरुद्वेजितोऽयं जलै -</l>
  <l>र्दूरं येन गतो गलत्कमलिनीलीलारसः सारसः॥३८॥</l>
</lg>
<lg>
  <l>रेमे यस्मिन्मधुपपटली यस्य लीलावतीभिः</l>
  <l>कॢप्तो बालैर्बहुलमुकुलै: केलिकर्णावतंसः।</l>
  <l>तस्य क्रीडाकुरबकतरोरङ्गके दुर्निवारः</l>
  <l>स्फारं मुञ्चत्यहह दहनोद्गारमङ्गारकारः॥३९॥</l>
</lg>
<lg>
  <l>वीचीडम्बरमम्बरं नय बलाद्वेलावनालीमिमा-</l>
  <l>मुद्यन्नल्पय किं च कल्पय रयात्कल्लोलकोलाहलम्।</l>
  <l>देवः कीरपुरंध्रिहारलतिकाकारैरुदारैः करैः</l>
  <l>पश्योदेति समुद्र मुद्रिततमस्तोमस्तमी[^२]वल्लभः॥४०॥</l>
</lg>
<note>कुटिल.</note>
<note>चद्रः.</note>
<pb n="12" />
<lg>
  <l>यस्य भ्राम्यन्मकरनिकरक्लान्तमूर्तेरसार-</l>
  <l>स्तारक्षारव्यतिकरखरः सीकरोऽपि क्व पेयः।</l>
  <l>तत्ते पाथः पवनजनितोत्तालकल्लोलजालं</l>
  <l>ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन॥४१॥</l>
</lg>
<lg>
  <l>निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः</l>
  <l>संजातं बकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः।</l>
  <l>किं रोलम्ब विलम्बसे विहरणक्रीडां कुरु क्वापि ते</l>
  <l>किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः॥४२॥</l>
</lg>
<lg>
  <l>नासीर[^१]द्रवनिर्झरैर्मृगमदस्यन्दैस्तथा चान्दनै-</l>
  <l>र्नि:स्यन्दै: सह वालवालवलये युक्तो निषेकक्रमः।</l>
  <l>आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः</l>
  <l>संनद्धो यदयं निबद्धजगतीदाहग्रहोऽवग्रहः॥४३॥</l>
</lg>
<lg>
  <l>केलिं कल्पय कोल[^२]बाल लवलीवल्लीदलान्याहर-</l>
  <l>नुल्लासैरभिगर्ज सैरिभ भज त्वं पङ्कतल्पोत्सवम्।</l>
  <l>म्लानिं मुञ्च मयूर दूरय भयं दर्पाञ्चित: पञ्चतां</l>
  <l>युष्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः॥४४॥</l>
</lg>
<lg>
  <l>कुञ्जे कोरकितं करीरतरुभिर्द्रेक्काभिरुन्मुन्द्रितं</l>
  <l>यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः।</l>
  <l>तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुरा-</l>
  <l>भङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि[^३] कोऽयं क्रमः॥४५॥</l>
</lg>
<lg>
  <l>खेलद्वालमृगाङ्कमौलिरमणीदोः कन्दलान्दोलिते</l>
  <l>पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः।</l>
  <l>हा जम्बालकदम्बचुम्बिनि मदभ्राम्यद्वकालम्बिनि</l>
  <l>भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः॥४६॥</l>
</lg>
<p>नासीरं कर्पूरम्. 'श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिकाकाश्मीरादिनिरादरं
मलयजालेपावलेपावहम्' इति स्तुतिकुसुमाञ्जलौ (३३।६) जगद्धरः 'नासीरं धनसारः'
इति तट्टीकायां रत्नकण्ठः.</p>
<note>सूकरशिशो.</note>
<note>त्वम्.</note>
<pb n="13" />
<lg>
  <l>अक्षामं मणिदाम संवृणु ननु त्वं दर्शयेथा मुहु-</l>
  <l>र्मा मा मुग्धमनोहराः शशिकराकाराश्च हारस्रजः।</l>
  <l>एषा वैकटिक[^1] स्फुटैव पुरतः सा पामराणां पुरी</l>
  <l>यस्यां काचललन्तिकाङ्कितकुचोत्सङ्गाः कुरङ्गीदृशः॥४७॥</l>
</lg>
<lg>
  <l>यत्कर्णे च कुचान्तरे रचयितुं युक्तं कुरङ्गीदृशां</l>
  <l>धत्ते धैर्यधुरां जगत्र्त्रयजयस्मेर: स येन स्मरः।</l>
  <l>तन्मल्लीमुकुलं वनेऽत्र विजने केनापि नोत्तंसितं</l>
  <l>नाघ्रातं न निरूपितं न कलितं नोदञ्चितं नोम्भितम्॥४८॥</l>
</lg>
<lg>
  <l>यल्लीलातरला मरालशिशवः प्रेम्णा भजन्ते सरः</l>
  <l>को वैरिञ्च[^२] विमानहंस भवतस्तस्मिन्निवासग्रहः।</l>
  <l>यत्संक्रन्दनसुन्दरीकुचतटास्फालोच्छलद्बिन्दुनि</l>
  <l>स्वच्छन्दं तव सिद्धसिन्धु[^3]सलिले तत्रोचिताः केलयः॥४९॥</l>
</lg>
<lg>
  <l>वापीं दूरे किरति कुरुते नो मृणालीषु लीलां</l>
  <l>नीलाम्भोजं त्यजति भजते नाब्जकिंजल्ककेलिम्।</l>
  <l>किं तु क्लान्तिं वहति नलिनीनाललग्नाग्रकण्ठः</l>
  <l>क्षामः श्यामारमणकिरणव्याकुलाङ्गो रथाङ्गः॥५०॥</l>
</lg>
<lg>
  <l>शोकात्कोककुलैरमीलि कमलैरम्लायि दन्ताङ्कुरै-</l>
  <l>रस्फोटि स्फटिकामल: करटिनां[^४] यस्मिन्नवाप्तोदये।</l>
  <l>तं दृष्ट्वैव कुरङ्ग[^५]केतनमहो मुग्धः स दुग्धाम्बुधिः</l>
  <l>किं मिथ्या नरिनर्ति चञ्चलवलत्कल्लोलदोः कन्दलः॥५१॥</l>
</lg>
<lg>
  <l>तालीपल्लवपाकपाण्डिमसखी यत्कान्तिरन्तर्गतो</l>
  <l>यत्कोऽपि प्रगुणो गुणः किमपरं यज्जन्म रत्नाकरात्।</l>
  <l>युक्तो मौक्तिकहार हारिणि कचत्कर्पूरपत्राङ्कुरे</l>
  <l>त्वत्सङ्गोऽयमनङ्गधामनि कुचोत्सङ्गे कुरङ्गीदृशाम्॥५२॥</l>
</lg>
<note>हे रत्नवणिक्.</note>
<note>हे ब्रह्मदेववाहन हंस.</note>
<note>गङ्गाजले.</note>
<note>हस्तिनाम्.</note>
<note>चन्द्रम्.</note>
<pb n="14" />
<lg>
  <l>कुन्दे नन्दति कैरवे विहरते पङ्केरुहे रोहति</l>
  <l>प्रेमाणं तगरे तनोति भजते सङ्गं लवङ्गेऽपि यत्।</l>
  <l>तन्मन्ये न ददर्श सौरभभरेणाक्रान्तदिक्कंदरं</l>
  <l>कंदर्पैकविलासमन्दिरमिमं मन्दारमिन्दिन्दिरः ॥५३॥</l>
</lg>
<lg>
  <l>कंदर्पैककृपाणवल्लरि वने कमादकस्मादियं</l>
  <l>हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः।</l>
  <l>सह्यन्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गैरिमाः</l>
  <l>कान्तैः कान्तपुरंध्रिकुन्तलभरच्छायैः कुठारच्छिदः॥५४॥</l>
</lg>
<lg>
  <l>लीलावासः कुसुमधनुषः कोऽपि यस्याधिवासः</l>
  <l>कुर्युर्यस्यास्तरुमुकुलकोसङ्गभङ्गं नताङ्ग्यः।</l>
  <l>सान्द्रे तस्मिन्नपि जडतया पङ्कशङ्कां वहन्तो</l>
  <l>हन्त खान्तं मृगमदरसे पामरा नार्पयन्ति॥५५॥</l>
</lg>
<lg>
  <l>ऊढापि द्यु[^१]तरङ्गिणि त्रिजगतीवन्द्येन तेनाप्य[^२]हो</l>
  <l>मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते।</l>
  <l>तारक्षारकरं करालमकरं सश्वभ्रमभ्रकषं</l>
  <l>मुग्धे जाड्यनिधिं मुघा जलनिधिं यातासि चित्राः स्त्रियः॥५६॥</l>
</lg>
<lg>
  <l>नीरं नीरसमस्तु कौपमिति तत्पाथो वरं मारवं</l>
  <l>कासाराम्बु तदस्तु वा परिमितं तद्वास्तु वापीपयः।</l>
  <l>पाने मज्जनकर्मनर्मणि तथा बाह्यैरलं वारिधे</l>
  <l>कल्लोलावलिहारिभिस्तव नभःसंचारिभिर्वारिभिः॥५७॥</l>
</lg>
<lg>
  <l>कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रुवां</l>
  <l>यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः।</l>
  <l>अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः</l>
  <l>पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्घः स कालागुरुः॥५८॥</l>
</lg>
<lg>
  <l>एतैर्जातै: किमिह बहुभिर्भोगिभि: किं तु मन्ये</l>
  <l>मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः ।</l>
</lg>
<note>हे गङ्गे.
[^२] शिवेन.</note>
<pb n="15" />
<lg>
  <l>यस्मिन्गौरी पृथुकुचत टीकुङ्कुमस्थासकाङ्के</l>
  <l>येन स्थाणोरुरसि रहितो हारवल्लीविलासः॥५९॥</l>
</lg>
<lg>
  <l>यस्मिन्रोहति निम्बडम्बरभियान्यस्मिन्करीरद्रुमै-</l>
  <l>रुद्रेकः कलितः पटोलपटली यत्रेयमुन्मीलति।</l>
  <l>तस्मिन्नत्र निवेशितासि विपिने केनासि हा दुःसहः</l>
  <l>सह्योऽयं सहकारमञ्जरि कथंकारं निकारज्वरः॥६०॥</l>
</lg>
<lg>
  <l>द्वित्रान्वारिलवानवाप्य जलदादारम्भि संरम्भिभिः</l>
  <l>क्रीडाताण्डवडम्बरः शिखिकुलै: केकारवव्याकुलैः।</l>
  <l>उन्मीलत्कनकाब्जचुम्बिनि सुधानिःष्यन्दिदुग्धाम्बुनि</l>
  <l>प्राप्ते सारस मानसेऽपि भवता नैको विकारः कृतः॥६१॥</l>
</lg>
<lg>
  <l>चूतं मुञ्च त्यज सरसिजं भृङ्ग मा गा लवङ्गं</l>
  <l>सङ्गं दूरीकुरु कुरबके केतके मा निषीद।</l>
  <l>लीलोत्तंसीकृतमुकुलकः स्वर्गसीमन्तिनीभि-</l>
  <l>र्यत्ते दैवात्परिसरगतः पारिजातः स जातः॥६२॥</l>
</lg>
<lg>
  <l>पश्यैताः कति न स्फुरन्ति सरितः सान्द्रारविन्दच्छद-</l>
  <l>च्छायाभिः शिशिराः खरातपविपन्निर्वापिका वापिकाः।</l>
  <l>माद्यन्मेदुरदर्दुरं बककुलैरप्याकुलं सेव्यते</l>
  <l>तत्कस्मादविचार्य सारस रसान्निःसारनीरं सरः॥६३॥</l>
</lg>
<lg>
  <l>ब्रूमः किंचन जह्नुपुत्रि जडिमा कस्मादियान्स्वीकृतः</l>
  <l>पाथो[^१]धाम्नि कृतः करालमकरासङ्गेऽपि यत्संगमः।</l>
  <l>यम्मौलौ कलितं शशाङ्ककलिकाकान्ते वृषाङ्कस्य त-</l>
  <l>त्पश्य खादु च हारदामशुचि च क्षारायते ते पयः॥६४॥</l>
</lg>
<lg>
  <l>ये तावन्ति पयः[^२] पृषन्ति जलदादत्यन्तमुत्कण्ठिता</l>
  <l>याचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते बर्हिणः।</l>
</lg>
<note>समुद्रे.</note>
<note>जलकणान्.</note>
<pb n="16" />
<lg>
  <l>यः शूलाङ्कशिरः शशाङ्क कलिकापीयूषवर्षेऽप्यहो</l>
  <l>नो जातः प्रणयी स तारकरिपोरन्ये पुनर्बर्हिणः[^१]॥६५॥</l>
</lg>
<lg>
  <l>मुञ्चत्यन्तर्विचकिलरुचिं चूतवल्लीविलासं</l>
  <l>मल्लीलीलां सरसिजरसं केतकीकौतुकं च।</l>
  <l>जातप्रीतिर्बकुललतिकामुन्मिषत्कोरकान्तां</l>
  <l>कान्तां किं तु श्रयति रचयन्पञ्चमं चञ्चरीकः॥६६॥</l>
</lg>
<lg>
  <l>उद्यद्विद्युति मेचकद्युतिभृति स्त्रीणां मनोमोहिनि</l>
  <l>व्योमारोहिणि नीलकण्ठरमणीकेलिप्रदे वारिदे।</l>
  <l>यासि क्वापि मरालबालक बकक्रौञ्चाविले पल्वले</l>
  <l>सह्यन्तां कतिचिद्वियुक्तवनितादत्तज्वरा वासराः॥६७॥</l>
</lg>
<lg>
  <l>अङ्गाट्ट[^२]ङ्किकया  कलङ्कमतसीनीलं लुनीहि स्वयं</l>
  <l>सर्वां किं च निषिञ्च चन्दनरसस्यन्दैरमन्दैस्तनुम्।</l>
  <l>उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं</l>
  <l>जाने तामनुकर्तुमाननगतां भङ्गीं कुरङ्गीदृशः॥६८॥</l>
</lg>
<lg>
  <l>आनीतैरिषुकार कारणमिह श्लाघ्यै किमेभिः शरैः</l>
  <l>प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि।</l>
  <l>दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं</l>
  <l>धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः॥६९॥</l>
</lg>
<lg>
  <l>यल्लीलातरलैरलङ्घि कपिभिर्ज्वालाभिरौर्वानलो</l>
  <l>यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः।</l>
  <l>तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदर</l>
  <l>त्वं मेनाक जवाज्जले जलनिधेर्मज्जन्न किं लज्जितः॥७०॥</l>
</lg>
<lg>
  <l>त्वं कालं नय कैरवेऽत्र विहरँल्लीलारविन्दे रस-</l>
  <l>न्कह्लारे निवसन्मधुव्रत पतन्नङ्केऽपि पङ्केरुहाम्।</l>
</lg>
<note>'मयूरो बर्हिणो बहीं' इत्यमरः.</note>
<note>क्षुद्रशस्त्रविशेषेण.</note>
<pb n="17" />
<lg>
  <l>शेफालीमुकुलैरलायि बकुलैरम्लायि किं चामलै-</l>
  <l>स्तैर्मल्ली मुकुलैरमीलि दहनक्लान्ते वनान्ते यतः॥७१॥</l>
</lg>
<lg>
  <l>कान्तिर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत्सौरभं</l>
  <l>निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि ह्लादकः।</l>
  <l>सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा</l>
  <l>पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः॥७२॥</l>
</lg>
<lg>
  <l>येन प्राप्तः सुरभितककुष्कंदरः कोऽप्युदारो</l>
  <l>मन्दारोऽपि भ्रमररमणीदत्तरागः परागः।</l>
  <l>स त्वं तत्त्वं वद पदमहो मुग्ध कस्मादकस्मा-</l>
  <l>दस्मिन्मिथ्या मधुप कुरुषे कर्णिकारे किमेतत्॥७३॥</l>
</lg>
<lg>
  <l>यद्गौरीरमणेन नाकतटिनीनीराङ्किते मूर्धनि</l>
  <l>न्यस्तः स्फारफणः फणी भवतु तच्चित्रः प्रभूणां विधिः।</l>
  <l>एतत्किं तु कथं सहेमहि महद्दुःखं यदत्रामुना</l>
  <l>निःशङ्कं कलितः शशाङ्क कलिकापीयूषपानोत्सवः॥७४॥</l>
</lg>
<lg>
  <l>दृष्टाश्चम्पकसंपदो विच किलश्रेणी गता गोचरं</l>
  <l>प्राप्तं केतकघाम कैरववनं दृष्टं विमृष्टं च तत्।</l>
  <l>सा श्रीस्तन्मधु तन्मधुव्रतकुलं तत्सौरभं वेधसा</l>
  <l>साश्चर्यं निरमायि हेम कमल त्वय्येव तुभ्यं नमः॥७५॥</l>
</lg>
<lg>
  <l>बद्धः कोऽपि शिखामणिस्तव नवो मुक्तागुणो गुम्फितः</l>
  <l>कान्तः कृत्रिमपुत्रिके यदि कृतः कर्पूरपत्राङ्कुरः।</l>
  <l>तत्किंचिन्नयनाञ्जनं रतिपतिह्लादप्रदा सा गति-</l>
  <l>स्तन्मुग्धं हसितं सदामृतरसं मुञ्चमन्कुतः पञ्चमः॥७६॥</l>
</lg>
<lg>
  <l>मुञ्चैतां नवमालिकां कुरु पुरो मा मालतीमाल्यकं</l>
  <l>मा मा मालिक मल्लिकास्रजमपि क्वापि त्वमुन्मुद्रयेः।</l>
  <l>स्रग्दामैकरतः कुतः कथमथ स्यात्कर्णपूरोन्मुखः</l>
  <l>कुग्रामेऽत्र कदावतंसरसिको जायेत जाल्मो जनः॥७७॥</l>
</lg>
<pb n="18" />
<lg>
  <l>हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपकं चम्पकं</l>
  <l>वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः।</l>
  <l>किं चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽधरः</l>
  <l>सत्यं सुन्दरि वैद्रुमोऽपि विरमत्संपल्लवः पल्लवः॥७८॥</l>
</lg>
<lg>
  <l>लीलोद्यानतलेऽपि केऽपि तरवो निष्कान्तयः किं तु ते</l>
  <l>निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह।</l>
  <l>कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली</l>
  <l>छाया सैव स एव सौरभभरस्ता एव पुष्पश्रिय:॥७९॥</l>
</lg>
<lg>
  <l>कूपोल्लङ्घनकर्मनर्म विषमं जानन्ति शाखामृगा</l>
  <l>झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे।</l>
  <l>दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ</l>
  <l>हेलैव प्लवग[^१]प्रभोः कृतजगत्पारिप्लवो विप्लव:॥८०॥</l>
</lg>
<lg>
  <l>मुक्त्वाम्भोधिं मदनजयिनः किं कपालावचूडे</l>
  <l>चूडामूले सितकरकले कल्पितोऽयं निवासः।</l>
  <l>यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं</l>
  <l>तत्रोन्मीलद्बकुलकलिकाकोमलं तान्तिमेति॥८१॥</l>
</lg>
<lg>
  <l>वल्लीभिर्ज्वलितं जलैरपगतं दावानलैरुद्गतं</l>
  <l>दर्भैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैर्दीपितम्।</l>
  <l>तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव-</l>
  <l>प्रस्तारोऽपि परिस्फुरत्परिमलोद्गारोऽपि हा रोपितः॥८२॥</l>
</lg>
<lg>
  <l>कैलासः कचिदुद्वहन्नपि पुरारातिं यदप्यायता-</l>
  <l>मूर्वीमेष बिभर्ति[^२] सागरसरिद्गर्वी गिरिग्रामणीः।</l>
  <l>लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे</l>
  <l>चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः॥८३॥</l>
</lg>
<lg>
  <l>लास्याभ्यासं जहिहि विहितश्रोत्रपीयूषमेकां</l>
  <l>केकां दूरीकुरु गुरुरयं मुग्ध बर्हिन्विमोहः।</l>
</lg>
<note>हनुमतः.</note>
<note>महीधरत्वात्.</note>
<pb n="19" />
<lg>
  <l>मिथ्या बिभ्रत्कनकनिकषस्निग्धसौन्दर्यलेखां</l>
  <l>विद्युल्लेखामुदयति यतः शारदोऽयं पयोदः॥८४॥</l>
</lg>
<lg>
  <l>हंस भ्राम्यदनेक भेकशबले पङ्काविले पल्वले</l>
  <l>युक्तास्ते किमसारवारिणि रणत्कौञ्चाकुले केलयः।</l>
  <l>तल्लीलालससारसं हि सरसं दृष्टं त्वया मानसं</l>
  <l>वीचिन्यञ्चितकाञ्चनाम्बुजरजःप्रस्तारमग्नं सरः॥८५॥</l>
</lg>
<lg>
  <l>कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी</l>
  <l>तं विक्रेतुमिहासि[^१] यासि किमहो हारं विहारं श्रियः।</l>
  <l>एतां पश्य पुरः पुलिन्दनगरीं भूषाः कुरङ्गीदृशां</l>
  <l>यत्रैता गलकन्दले च कुचयोरङ्के च गुञ्जास्रजः॥८६॥</l>
</lg>
<lg>
  <l>लक्ष्मीवल्लभकेलितल्पमुदधिर्यज्जन्मभूर्भूषणं</l>
  <l>यन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः।</l>
  <l>तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै-</l>
  <l>र्दूरे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः॥८७॥</l>
</lg>
<lg>
  <l>यस्मिन्विस्मयजन्म मन्मथमहोत्साहप्रदं सौरभं</l>
  <l>यस्य स्यात्कुचकुड्मलोपरि परिष्वङ्गः कुरङ्गीदृशाम्।</l>
  <l>नेदं तस्य जनैकनन्दन सहे हे चन्दन क्वापि ते</l>
  <l>मूले हालहलाकुलैरहिकुलैर्यत्संगमोऽङ्गीकृतः॥८८॥</l>
</lg>
<lg>
  <l>बालैः पञ्चशरीं शिरीषमृदुलैर्निर्माय यत्पल्लवैः</l>
  <l>शङ्के शंकरसंगरेऽपि चतुरो जातोऽङ्क[^२]कारः स्मरः।</l>
  <l>सा श्रीस्तानि दलानि ते मधुलिहस्तत्सौरभं मल्लिके</l>
  <l>तस्यास्ते विरतं दवानलशिखामात्रेण धात्रे नमः॥८९॥</l>
</lg>
<lg>
  <l>मुग्धा वृथा कुमुदिनीरमणे चकोराः</l>
  <l>को राग एष जडिमाग्लपिता मतिर्वः।</l>
</lg>
<note>त्वम्.</note>
<note>'व्युत्पन्नयोद्धा' इति श्रीकण्ठचरितटीकायां ( १/४३) जोनराजः.</note>
<pb n="20" />
<lg>
  <l>एतन्न पश्यथ मुखं मदिरे[^१]क्षणानां</l>
  <l>यस्मिन्स किंकरति कैर[^२]विणीकुटुम्बः॥९०॥</l>
</lg>
<lg>
  <l>न कुन्दं सामोदं जनयति मुदं नैव कुमुदं</l>
  <l>न सारं कह्लारं कुसुमतिलकं नैव तिलकम्।</l>
  <l>उदात्तं निर्धूतं न च कमलमावर्जकमलं</l>
  <l>तदश्रान्तभ्रान्तभ्रमरवलयं चेत्कुवलयम्॥९१॥</l>
</lg>
<lg>
  <l>निर्मायाम्बुनि नर्मकर्म कवलक्रीडां कुरु श्यामलैः</l>
  <l>शेवालैर्बिसकन्दलैरविरलैर्बालैर्मृणालीदलैः।</l>
  <l>हे मातङ्ग तरङ्गरङ्गपटलीखेलत्पुलिन्दाङ्गनं</l>
  <l>लक्ष्मीप्राङ्गणमङ्गसंगतमिदं पुण्यैर्हि पम्पासरः॥९२॥</l>
</lg>
<lg>
  <l>वापीवारिणि हंस शंस कतरः प्रेमग्रहो गम्यतां</l>
  <l>खेलत्पल्लवपार्वतीभुजलतालोलोर्मि दिव्यं सरः।</l>
  <l>व्याप्य व्योम च दिङ्मुखानि च नदत्युद्दामसौदामनी-</l>
  <l>दामव्याप्तवपुर्वियुक्तवनितादम्भोलिरम्भोधरः॥९३॥</l>
</lg>
<lg>
  <l>कंचित्कालं नय गिरिगुहागह्लरे रे मुधैव</l>
  <l>क्रीडन्हालाहलरसलसद्दर्प मा सर्प[^३] सर्प।</l>
  <l>माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले</l>
  <l>येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः॥९४॥</l>
</lg>
<lg>
  <l>चित्रे चन्दनचित्रके समुचिते कर्पूरपत्राङ्कुरे</l>
  <l>कस्तूरीमकरेषु कुङ्कुमरसस्थानेषु[^४] यत्कौतुकम्।</l>
</lg>
<note>मदिरा दृष्टिविशेषस्तद्युक्ते ईक्षणे यासामगिघूर्णमानमध्या या क्षामा चाश्चित-
लोचना। दृष्टिर्विकसितापाङ्गा मदिरा तरुणे।।' इति हरविजयटीकायामलकरा-
जानकः, 'तथा संगीतकलिकायाम् – 'सौष्ठवेन परित्यक्ता स्मेरापाङ्गमनोहरा। वेपमा-
नान्तरा दृष्टिर्मदिरा परिकीर्तिता॥' इति ( १८७९ मितख्रिस्त संवत्सरमुद्रित-विक्र-
मोर्वशीयटिप्पणे ५२ पृष्ठे ) शंकर-पाण्डुरङ्ग-पण्डित:. मल्लिनाथस्तु ( रघुवंशटीकायाम्
८/६८ ) 'माद्यत्यनयेति मदिरा लोकप्रसिद्धा। तथापि 'नार्यो मदिरलोचनाः' इत्यादि-
प्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे अक्षिणी यस्याः' इति वदन्भ्रान्त एव भाति.</note>
<note>चन्द्रः.</note>
<note>हे सर्प, मा गच्छ.</note>
<note>स्थासक एवं स्थासः.</note>
<pb n="21" />
<lg>
  <l>किं कुर्मस्तदमुत्र पामरपुरे सैरंध्रि दूरेऽस्तु ते</l>
  <l>वृत्ता यत्र कुतः प्रसाधनविधौ वार्तापि वामभ्रुवाम्॥९५॥</l>
</lg>
<lg>
  <l>यल्लीलाम्बुजनर्म केतकलताकौतूहलं मालती-</l>
  <l>माल्यप्रेम लवङ्गसंगमरसः कङ्केलिकेलिक्रमः।</l>
  <l>तत्सर्वं विजहाति किं तु रसयत्यालम्बते सादरं</l>
  <l>नन्दन्नन्दनकन्दलीसुमनसामामोदमिन्दिन्दिरः॥९६॥</l>
</lg>
<lg>
  <l>माद्यन्मद्गु वलद्वकावलि बलिक्रौञ्चाविलं पल्वलं</l>
  <l>मन्ये मान्य मराल पङ्कपटलीयुक्तं न युक्तं तव।</l>
  <l>तत्त्वन्नेत्रपुटीरसायनरसासारं ससारं सर[^१]</l>
  <l>स्वच्छं गात्रनिमज्जनोत्सुकसुरस्त्रीमानसं मानसम्॥९७॥</l>
</lg>
<lg>
  <l>अम्भोजैर्गलितं तटैर्विघटितं हंसैद्रुतं विद्रुतं</l>
  <l>वापीभिर्विरतं पुरैव पतितैरद्या विलैस्त्वज्जलैः।</l>
  <l>हा धिक्किं पुनरप्युपार्जितमहादौर्जन्य पर्जन्य हे</l>
  <l>प्रारब्धोऽयमतानवैरभिनवैर्वा रिप्लवैर्विप्लव:॥९८॥</l>
</lg>
<lg>
  <l>तापातङ्कं कलय विलयं याहि हे दुर्निवारं</l>
  <l>वारं वारं विगलितगतिर्नेह दाहं सहेथाः।</l>
  <l>दैवादग्रे खरतरजरद्दर्भसंदर्भगर्भो</l>
  <l>नेदीयांस्ते नववनदवोद्दीपितः पान्थ पन्थाः॥९९॥</l>
</lg>
<lg>
  <l>यद्भूतं च भवच्च भावि च कुलं भूमण्डले भूरुहां</l>
  <l>तन्मध्ये न बभूव नास्ति भविता न क्वापि तादृक्तरुः।</l>
  <l>साम्ये यश्चलकेलिकङ्कणरणत्काराङ्गदोर्लेखया</l>
  <l>पौलोम्या[^२] निहितालवालपयसः कल्पद्रुमस्य क्षमः॥१००॥</l>
</lg>
<lg>
  <l>लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेकभेकस्वरं</l>
  <l>किं च क्रौञ्चवचः प्रपञ्चविरसं दैवादिदं ते सरः।</l>
  <l>तत्ते हंस न गीतिरत्र सरसा सा कान्तसीमन्तिनी-</l>
  <l>लीला चङ्क्रमणक्रमानुकरणोयुक्ता च युक्ता गतिः॥१०१॥</l>
</lg>
<note>गच्छ.</note>
<note>इन्द्राण्या.</note>
<pb n="22" />
<lg>
  <l>उन्मीलन्मुकुलो न चात्र बकुलो नावर्जकाः केतका</l>
  <l>नास्मिन्कोमलकुड्भला विचकिला नोद्दीपकाश्चम्पकाः।</l>
  <l>तत्किं मुग्ध मुधैव दग्धसिकतागर्भः सदर्भों मरो</l>
  <l>मार्ग: पान्थ पतत्पतंगकिरणाङ्गारोऽयमङ्गीकृतः॥१०२॥</l>
</lg>
<lg>
  <l>वार्ता यत्र न शेखरेषु न तथा घम्मिल्लमाल्यप्रथा</l>
  <l>कर्णोत्तंसकथा न काचन न च स्रग्दामनामग्रहः।</l>
  <l>तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैष ते</l>
  <l>खात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः॥१०३॥</l>
</lg>
<lg>
  <l>एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरग्रणी-</l>
  <l>रेकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः।</l>
  <l>केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भर्तरि</l>
  <l>द्राक्कल्लोलविकार कल्पितजगत्कम्पेऽपि झम्पारसः॥१०४॥</l>
</lg>
<lg>
  <l>साश्चर्या : सरसाश्च सन्ति सरितः पाथः[^१] पतिप्रेयसि</l>
  <l>क्षोणी विभ्रम वैजयन्ति तदपि त्वां ताम्रपर्णि स्तुमः।</l>
  <l>खच्छे निर्जितनारिकेलसलिलखादिम्नि यद्वारिणि</l>
  <l>प्राप्तः केतकपत्रगर्भरुचिभिर्मुक्ताफलैरुद्भवः॥१०५॥</l>
</lg>
<lg>
  <l>इयं यदि रदच्छदच्छविरपाटला[^२] पाटला</l>
  <l>नताङ्गि तव चेदियं रुचिरकिंचनं काञ्चनम्।</l>
  <l>किमन्यदमृतद्रवः श्रवणयोरिदं चेद्वचः</l>
  <l>क्व न भ्रमरयोषितां गलदहंकृतिर्हुकृति:॥१०६॥</l>
</lg>
<lg>
  <l>उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णामृतस्यन्दिनी</l>
  <l>हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः।</l>
  <l>अन्यस्तन्वि तथापि ते पशुपतिप्लुष्टस्य जीवार्पणे</l>
  <l>पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः॥१०७॥</l>
</lg>
<lg>
  <l>या लक्ष्मीः स्मरकार्मुके स्फुरति या बाले प्रवाले रुचि-</l>
  <l>र्यो नीलाम्बुरुहच्छदे मृदुमरुत्प्रेङ्खोलिते विभ्रमः।</l>
</lg>
<note>हे समुद्रपत्नि.</note>
<note>पुष्पविशेषः</note>
<pb n="23" />
<lg>
  <l>या कान्तिः कनकाम्बुजेऽपि सकलं द्रष्टुं तदेकत्र चे-</l>
  <l>च्चेतः कन्दलिताद्भुतं तव सखे पश्याननं सुभ्रुवः॥१०८॥</l>
</lg>
<p>इति महाकविश्रीशंभुमिश्रकृतान्योक्तिमुक्तालता समाप्ता।</p>
</body>
</text>
</TEI>