KAVYAMALA. A collection of old and rare Sanskrit Kāvyas. Nātakas, Champūs, Bhāṇas, Prahasanas, Chhandas, Alankāras &c. PART II. EDITED BY PAṆDIT DURGĀPRASĀD AND KĀŚINĀTH PĀṆDURANG PARAB, VĀSUDEV LAXMAN SHĀSTRĪ PANSHIĪKAR. Second Edition. PUBLISHED BY PĀNDURANG JĀWAJĪ, PROPRIETOR OF THE 'NIRNAYA SĀGAR' PRESS, BOMBAY. 1932. [All rights reserved by the publisher. ] PUBLISHER:-Pandurang Jawaji, PRINTER:-Ramchandra Yesu Shedge, at the Nirnaya-sagar Press, 26-28, Kolbhat Lane, Bombay ॥ श्रीः ॥ काव्यमाला । नाम नानाविधप्राचीनकाव्यनाटकचम्पूभाणप्रहसनच्छन्दोलंकारादिसाहित्यग्रन्थानां संग्रहः । द्वितीयो गुच्छकः । पण्डितदुर्गाप्रसादेन, परबोपाह्वपाण्डुरङ्गात्मजकाशिनाथशर्मणा, पणशीकरोपाह्वलक्ष्मणात्मजवासुदेवशर्मणा च संशोधितः । द्वितीयं संस्करणम् । स च मुम्बयां पाण्डुरङ्ग जावजी श्रेष्ठिभिः स्वीये निर्णयसागराख्ययन्त्रालये मुद्राक्षरैरङ्कयित्वा प्राकाश्यं नीतः । शाकः १८५३ ख्रिस्ताब्दः १९३२. मूल्यमेको अनुक्रमणिका । १. शंकराचार्यकृतं विष्णुपादादिकेशान्तवर्णनस्तोत्रम् ( सटीकम् ) २. गुमानिक विप्रणीतमुपदेशशतकम् ३. क्षेमेन्द्रकृतं सुवृत्ततिलकम् ४. जगन्नाथपण्डितराजविरचिता करुणालहरिः ५. शंभुमहाकवि विरचितान्योक्तिमुक्तालता ६. क्षेमेन्द्रकृतः सेव्यसेवकोपदेशः ७. विक्रमविरचितं नेमिदूतम् ८. जगन्नाथपण्डितराजविरचिता लक्ष्मीलहरिः ९. रुद्रकविकृतो भावविलासः १०. क्षेमेन्द्रकृता चारुचर्या ११. मधुसूदनसरखतीविरचितानन्दमन्दाकिनी १२. शंकराचार्यकृतमम्बाष्टकम् ( सटीकम् ) १३. मुकुन्दमुक्तावलिः मानं मुञ्च विपञ्चि पञ्चमरवन्यक्कारपारंगमा मा भूवन्कलकण्ठकण्ठकुहरे कुण्ठक्रमास्ते गिरः। प्राप्तः पञ्चशरप्रपञ्चशरणं यद्भृङ्गभङ्ङ्गीगुरु- र्बन्धूकप्रियबान्धवो धवलित[^२]श्यामाधवो माधवः॥१॥ हेलाक्रान्त[^३]हरिन्ति कुन्तलवधूवेणीहरिन्ति[^४] स्फुटं भिन्दन्नेष तमांसि लोचनसुधावल्लस्तमीवल्लभः। पश्योद्गच्छति हारिकीरतरुणीहारानुकारैः करै- रोंकारं[^६] कुरु कैरवाकर निजोन्मेषेषु योग्यः क्षणः॥२॥ सत्यं सन्ति कियन्ति सन्ति[^६] न सखे रत्नानि रत्नाकरे संजातस्तु स वस्तुतः स्तुतिकथापात्रं परं कौस्तुभः। यो जातः स्मरकेलिलोलकमलासोल्लासदोः कन्दली- लीलालिङ्गनभाजनं भगवतो वक्षःस्थले शार्ङ्गिणः॥३॥ [^१] अस्माच्छ्लोकादग्रे आर्यमित्रपुस्तके 'इमां वै विष्णुलहरीं जगन्नाथेन निर्मिताम्। यः पठेत्तस्य सर्वत्र जायन्ते जयसंपदः॥' अयं फलश्रुतिश्लोकोऽपि वर्तते. अन्यपुस्तकेषु तु न प्रोक्तः. [^२] मेघराहित्यादुज्ज्वलीकृतचन्द्रः. [^३] हेलयाक्रान्तदिङमण्डलानि. [^४] श्या-मवर्णानि. [^५] आरम्भम्. 'प्रतीचीसिन्धुवीचीव दिनोंकारे सुधाकरम्' इति नैषधी- यकाव्यम् (२०/२). 'दिनोंकरे दिनप्रारम्भे' इति तट्टीकायां मल्लिनाथनारायणौ. [^६] समीचीनानि. पातालं च नभस्तलं च गरिमद्वारेण यद्वारिणा पूरंपूरमपूरि यस्य बहुलं कल्लोलकोलाहलः। देवो येन स कच्छपोऽपि कलितः कच्छेऽपि तस्याम्भसां भर्तुर्गोष्पदमात्रपूरणविधौ नो विस्मयो न स्मयः॥४॥ उत्फुल्लैर्बकुलैर्लवङ्गमुकुलैः शेफालिकाकुड्भलै- र्नीलाम्भोजकुलैस्तथा विचकिलै: क्रान्तं च कान्तं च यत्। तस्मिन्सौरभधाम्नि दाम्नि किमिदं सौगन्धवन्ध्यं मुधा मध्ये मुग्ध कुसुम्भमुम्भसि[^१] भवेन्नैवैष युक्तः क्रमः॥५॥ यस्मिन्नङ्कुरितं कुरङ्गकदृशां प्रेम्णा किमन्यद्ध्रुवं यत्रास्ते मदनस्य लुप्तरमणीमग्नक्रमो विक्रमः। पक्वं नागरखण्डपल्लवमिदं जाल्मैः फलश्रीदल- भ्रान्त्या हन्त न वीक्षितं न कलितं नास्वादितं नादृतम्॥६॥ केनात्र कर्कशकरीरवनान्तराले बाले बलाद्बकुलकन्दलि रोपितासि। यत्राप्नुयुर्मधुलिहस्तव कोमलानि नो कुड्भलानि न दलानि न कन्दलानि॥७॥ धत्ते कीरवधूरदच्छदसुधामाधुर्यमुद्रां रसो येषां सा परिपाकसंपदपि च क्षौद्रद्रवद्रोहिणी। तेषां पुण्ड्रक[^२]काण्ड पाण्डिमजुषां त्वत्पर्वणां चर्वणां किं मुग्धाः करभा मुधैव विरसा विन्दन्ति निन्दन्ति च॥८॥ मद्गुमाद्यति यत्र यत्र भजते भङ्गिं बको यत्र स क्रौञ्च: किं च मदादुदञ्चति सरस्तन्मुञ्च कोऽयं ग्रहः। आस्ते बालमरालसालसलसद्दिक्कुञ्जरं पार्वती- कर्णोत्तंसितकाञ्चनाब्जलमुकुलं यन्मानसं ते सरः॥९॥ श्रीसंकेतनिकेत केतक कुरु त्वं कुड्भलाडम्बरं हे नीप स्मरदीप दीपय तनौ टङ्कं नवैरङ्कुरै:। [^१] ‘उम्भपुरणे’. [^२] पुण्ड्रक इक्षुभेद:. स्नेहस्नातपुरंध्रिकुन्तललताकान्तिः करोत्यम्बरे नीरोद्गारगभीर धीररसितप्रारम्भमम्भोधरः॥१०॥ गुर्वीमुर्वीतिलक तिलक स्वीकुरु स्वामभिख्यां रूपं लक्ष्मीनगर तगर श्लाघ्यमुन्मीलयेथा:। भङ्गीमङ्गीकुरु रतिपतेर्मल्लि हे चूतवल्लि प्रक्रान्तोऽयं विषमरमणीमानजैत्रः स चैत्रः॥११॥ अद्रिद्रोण्यां निवस दिवसं जातलीलानुषङ्गै- रङ्गैर्मा स्म स्मयतरलितैरङ्ग सारङ्ग रङ्गः[^१]। दर्पद्वारं द्विरदकदनोदग्रपाणिर्यदग्रे प्रत्यासन्नो वनविहरणक्रीडया कुञ्जरारिः॥१२॥ कांतिं केतककोरकद्युतिसखीं राकामृगाङ्कस्य य- च्चञ्चचञ्चु चुलुम्पति प्रतिदिनं प्रेम्णा चकोरार्भकः। तन्मन्ये नयनामृतं रतिपतेर्मृत्युंजयेनार्थिना तेनेदं रमणीकपोलफलके लावण्यमालोकितम्॥१३॥ आस्ते रोहत्कनककमले केलिपात्रे मृडान्याः खेलन्हेलोन्मदमधुकरीमानसे मानसे यः। भेकोद्रेकप्रणयिनि वलद्वालजम्बालजाले स स्यादुत्कः परिमितजले पल्वले किं मरालः॥१४॥ द्यां च क्ष्मां च गतं यदम्बुशिखरैराक्रान्तनाकोऽप्यसौ मेनाकोऽपि न कोऽपि यत्र दयितं यः सद्म पद्मापतेः। लोलद्वालकुलीरकम्पकलया देवस्य तस्याम्भसां भर्तुः कस्य कदा कियान्क्व नु ननु क्षोभो दृशोर्गोचरः॥१५॥ गर्वं खर्वं कुरु कररुहोदञ्चनं मुञ्च कण्ठे कुण्ठः कण्ठीरव तव रवः किं च संकोचमेतु। शक्तः सप्ताम्बुनिधिपरिखामेखलामेष गुर्वी- मुर्वी वोढुं मदजलसरित्संगतो दिड्भतङ्गः॥१६॥ [^१] 'रगि गतौ'. चूतं चर्वय चम्पकं चर नवां वासन्तिकामन्तिका- न्मा मा मुञ्च सविभ्रमं भ्रमर हे सङ्गं लवङ्गे कुरु। एकः कार्मुककर्मनर्मणि सखा देवस्य कान्तागुरोः प्रक्रान्तः प्रमदामदावहवहन्मन्दानिलो माधवः॥१७॥ उत्कण्ठाकुलमस्तु कण्टककुले संजायतां ते मनः सानन्दं पिचुमन्दकन्दलदलाखादेषु का वा क्षतिः। एतत्किं तु तव क्रमेलक कथंकारं सहे दुःसहं तस्मिन्पुण्ड्रककन्दलीकिसलये येनासि निन्दापरः॥१८॥ शान्तं कान्तपुरंध्रिकुन्तललतालावण्यचौरं तमः पश्यारोहति पूर्वपर्वतशिखामम्भोजिनीवल्लभः। एवं का गणना तवाद्य हि रतावद्योतखद्योत हे। दूर्वाकाण्डतले दिनं नय सखे खर्वोऽस्तु गर्वग्रहः॥१९॥ अत्रोन्मीलति मालती स्मितमितो मल्ली समालम्बते तद्रोलम्ब विडम्बनाय नलिनीं किं यासि कोऽयं क्रमः। एतस्यामपि दर्दुरैरपि बकैरेकैकमुट्टङ्किते गीते कुण्ठित एव कण्ठकुहरे जायेत ते पञ्चमः॥२०॥ आश्चर्यैकनिधिः स दुग्धजलधिर्मन्ये किमन्यद्यतो लेभे जन्म स लोकलोचनसुधासारस्तुषारद्युतिः। देवीकेलिकचग्रहेण ललिते गङ्गातरङ्गाङ्किते शङ्कं निरटङ्कि शंकरजटाजूटेऽपि येन स्थितिः॥२१॥ कुन्दे दलितादरः सरसिजे संजातकौतूहल: कल्हार कलितस्पृहः किमपरं यः केतके कौतुकी। निर्माता किममर्त्यराजतरुणी लीलावतंसश्रियो योग्यस्तस्य मधुव्रतस्य ललिताकल्पः स कल्पद्रुमः॥२२॥ शुभ्रो वा मलिनोऽस्तु वा मृगमदः किं तावता तादृशः कोऽप्यस्यानवधिश्चमत्कृतिनिधिः सौगन्ध्यमेको गुणः। येनैव स्मरविभ्रमैकवसतिर्भाले कपोलस्थले दोर्मूले कुचमण्डले च कुरुते रङ्गं कुङ्गीदृशाम्॥२३॥ शान्तध्वान्तकलङ्क शंकरशिरोरत्न त्वमेणाङ्क चे- त्कंदर्पाङ्कुरकन्द कुन्दकलिकाकारैः करैरुद्गतः। तत्किं मीलितमम्बुजैर्विदलितं किं दन्ति[^१]दन्ताङ्कुरै- र्भङ्ग: किं नु तथा रथाङ्गमिथुनैः प्रत्यङ्गमङ्गीकृतः॥२४॥ झम्पामस्तगिरेः करोतु भजतां विष्णोः पदं गाहतां क्षामाङ्गो गिरिजाभुजंगमुकुटोत्सङ्गेऽपि गाङ्गं पयः। एष क्लाम्यति केवलं कुमुदिनीकान्तो नहि त्वन्मुखे शङ्के किंकरतां नताङ्गि लभते दूरोऽस्तु साम्यक्रमः॥२५॥ येनाप्तः कमलाविलासकमले किंजल्कपानोत्सवो यो लीलां वितनोति नाभिनलिनोत्सङ्गे तथा शार्ङ्गिणः। तस्य स्यात्कुसुमान्तरे मधुलिहः कुत्राप्यहो न स्थिति- र्न प्रीतिर्न रतिर्न केलिसमयो नो विस्मयो न स्मयः॥२६॥ अप्येतानि चुलुम्पितानि चुलकन्यायेन येन क्षणा- त्पारावारपयांसि येन विदधे विन्ध्योऽपि वन्ध्याकृतिः। सोऽपि क्वाऽपि भवत्तटे निवसति त्रैलोक्यमान्यो मुनि[^२]- स्तन्मन्ये तव नास्ति रोहण परः स्पर्धापरः क्ष्माधरः॥२७॥ रोहत्सौरभविभ्रमाणि कमला[^३]सद्मानि पद्माकरे पद्मान्यत्र कियन्ति सन्ति नु नतिः का तेषु नुतिः। तत्साक्षादरविन्दमद्भुतलताकन्दं तु वन्देमहि त्रैलोक्यप्रभवः पुरा समभवद्यस्मात्पुराणः कविः[^४]॥२८॥ [^१] चन्द्रिकायां हस्तिदन्ता विदलन्तीति कविसंप्रदायः 'कवाटिदन्तैर्विस्फोटश्चन्द्र- कान्तै सिरोद्गमः । श्वयथुः पयसां पत्या दधे राज्ञयुदयोन्मुखे' (८/३२४४) इति, 'महेभां- स्तापयत्यर्थः कुर्याद्भग्नरदान्विधु:’ (८/३३९२) इति च राजतरङ्गिणी. कवाटिनो गजा: राशि चन्द्रे. [^२] अगस्त्यः. [^३] लक्ष्मीगृहाणि. [^४] ब्रह्मा. किं ताभिर्वितताभिरद्भुतकथाकन्थाभिरेतावता वन्द्योऽयं विभुरम्भसां समभवद्गन्तं कौस्तुभ:। चक्रे लग्नरमाघनस्तनतटीकर्पूरपत्राङ्कुरे यः श्रीवत्समनोहरे हृदि धृतिं देवस्य दैत्यद्रुहः॥२९॥ नानन्दं मुचुकुन्दकुड्भलकुले नो केतके कौतुकं नोत्फुल्ले कुमुदे मदं न कुटजे कौटुम्ब्यमालम्बते। चोलीदन्तचतुष्किकाशुचिरुचिस्मेरां स्मरन्मालतीं किं त्वास्ते तरुकोटिकोटरकुटीबद्धास्पदः षट्पदः॥३०॥ अस्तं यातस्तिमिरपटलीदत्तभङ्गः पतंगः प्राप्तो नैवोदयगिरिशिरोमूलमेणावचूलः। तत्ते कालं कतिपयमयं भाति खद्योतपोतं द्योतं द्योतं पुनरपि पुनर्द्योततां को विलम्बः॥३१॥ पुष्पोत्करेषु च फलेषु च सावलेप- स्त्वं कन्दलेषु च दलेषु च सावहेल:। किं मुग्ध दग्धमकरोः सुरभेरगार- मङ्गारकार सहकारमकारणेन॥३२॥ याच्यस्ते खदिरः करीरविटपः सेव्योऽपि किं कुर्महे मार्गः संगत एष ते खरतरुर्यद्भैरवो मारवः। तनौत्मल्लीमुकुलं तदुत्पलकुलं सा यूथिकावीथिका तच्च लवङ्गमङ्ग भवतो हा भृङ्ग दूरं गतम्॥३३॥ लीनः पाघरकंदरासु रचयनक्वापि स्थितिं भङ्गुरै- रङ्गैरङ्ग कुरङ्ग रङ्गसि कथंकारं विकाराकुलः। प्राप्तः पश्य विचेतुमुद्भटसटाटोपः सकोपः स्वयं गर्जत्कुञ्जरपुञ्जभञ्जनपटुः पञ्चाननः काननम्॥३४॥ [^१] सुन्दरम्. एता: केरलसुन्दरीरदरुचः सन्त्येव मुक्तालता मल्लीमाल्यमयानि सौरभभरोद्दामानि दामानि च। किं नीतः शितिकण्ठ कण्ठनिकटं गौरीभुजाकन्दली- लीलालिङ्गनयोग्यमुग्रगरलग्राम: फणिग्रामणीः॥३५॥ सोढं येन पयोभृतां दिवि दलन्नीलारविन्दद्युतां नैवोत्तुङ्गमृदङ्गनादविजयि क्वाप्यूर्जितं गर्जितम्। वारंवारमुदारवारणरणव्यापारपारंगमो दृष्टः केन कुरङ्गसंगरविधौ कुण्ठः स कण्ठीरवः॥३६॥ यत्केलिमन्थरमरालमराल[^१]बाल- शेवालकोमलमलं विमलं मृणालैः। तत्पश्य शुष्यति सरः प्रसरत्तुषार- रुद्धं विरुद्धविधिरेव विधिः किमन्यत्॥३७॥ त्वय्युद्गच्छति को न बालकलिकाकान्तः कदम्बद्रुमो रोलम्बाकुलकम्प्रकुड्भलकुलल्कान्तो न कः केतकः। दोषः किं तु तवाम्बुवाह कलुषैरुद्वेजितोऽयं जलै - र्दूरं येन गतो गलत्कमलिनीलीलारसः सारसः॥३८॥ रेमे यस्मिन्मधुपपटली यस्य लीलावतीभिः कॢप्तो बालैर्बहुलमुकुलै: केलिकर्णावतंसः। तस्य क्रीडाकुरबकतरोरङ्गके दुर्निवारः स्फारं मुञ्चत्यहह दहनोद्गारमङ्गारकारः॥३९॥ वीचीडम्बरमम्बरं नय बलाद्वेलावनालीमिमा- मुद्यन्नल्पय किं च कल्पय रयात्कल्लोलकोलाहलम्। देवः कीरपुरंध्रिहारलतिकाकारैरुदारैः करैः पश्योदेति समुद्र मुद्रिततमस्तोमस्तमी[^२]वल्लभः॥४०॥ [^१] कुटिल. [^२] चद्रः. यस्य भ्राम्यन्मकरनिकरक्लान्तमूर्तेरसार- स्तारक्षारव्यतिकरखरः सीकरोऽपि क्व पेयः। तत्ते पाथः पवनजनितोत्तालकल्लोलजालं ज्वालं ज्वालं ज्वलतु जलधे सर्वमौर्वानलेन॥४१॥ निर्यातं तगरैः स्थितं कुरबकैरुज्जृम्भितं चम्पकैः संजातं बकुलैः स्मितं विचकिलैरुन्मीलितं पाटलैः। किं रोलम्ब विलम्बसे विहरणक्रीडां कुरु क्वापि ते किं चोदञ्चतु वञ्चितामृतरसः पाकाञ्चितः पञ्चमः॥४२॥ नासीर[^१]द्रवनिर्झरैर्मृगमदस्यन्दैस्तथा चान्दनै- र्नि:स्यन्दै: सह वालवालवलये युक्तो निषेकक्रमः। आस्तामेतदमुत्र मालति जलैः सेकोऽपि ते दूरतः संनद्धो यदयं निबद्धजगतीदाहग्रहोऽवग्रहः॥४३॥ केलिं कल्पय कोल[^२]बाल लवलीवल्लीदलान्याहर- नुल्लासैरभिगर्ज सैरिभ भज त्वं पङ्कतल्पोत्सवम्। म्लानिं मुञ्च मयूर दूरय भयं दर्पाञ्चित: पञ्चतां युष्मन्निर्मथनप्रपञ्चचतुरः प्राप्तः स पञ्चाननः॥४४॥ कुञ्जे कोरकितं करीरतरुभिर्द्रेक्काभिरुन्मुन्द्रितं यस्मिन्नङ्कुरितं करञ्जविटपैरुन्मीलितं पीलुभिः। तस्मिन्पल्लवितोऽसि किं वहसि किं कान्तामनोवागुरा- भङ्गीमङ्ग लवङ्ग भङ्गमगमः किं नासि[^३] कोऽयं क्रमः॥४५॥ खेलद्वालमृगाङ्कमौलिरमणीदोः कन्दलान्दोलिते पद्मासद्मनि मानसाम्बुनि पदं भेजे च रेजे च यः। हा जम्बालकदम्बचुम्बिनि मदभ्राम्यद्वकालम्बिनि भ्रष्टोऽल्पीयसि वापिकापयसि स त्रासालसः सारसः॥४६॥ [^१] नासीरं कर्पूरम्. 'श्यामाकामुकमाधवादिविरसं नासीरकस्तूरिकाकाश्मीरादिनिरादरं मलयजालेपावलेपावहम्' इति स्तुतिकुसुमाञ्जलौ (३३।६) जगद्धरः 'नासीरं धनसारः' इति तट्टीकायां रत्नकण्ठः. [^२] सूकरशिशो. [^३] त्वम्. अक्षामं मणिदाम संवृणु ननु त्वं दर्शयेथा मुहु- र्मा मा मुग्धमनोहराः शशिकराकाराश्च हारस्रजः। एषा वैकटिक[^1] स्फुटैव पुरतः सा पामराणां पुरी यस्यां काचललन्तिकाङ्कितकुचोत्सङ्गाः कुरङ्गीदृशः॥४७॥ यत्कर्णे च कुचान्तरे रचयितुं युक्तं कुरङ्गीदृशां धत्ते धैर्यधुरां जगत्र्त्रयजयस्मेर: स येन स्मरः। तन्मल्लीमुकुलं वनेऽत्र विजने केनापि नोत्तंसितं नाघ्रातं न निरूपितं न कलितं नोदञ्चितं नोम्भितम्॥४८॥ यल्लीलातरला मरालशिशवः प्रेम्णा भजन्ते सरः को वैरिञ्च[^२] विमानहंस भवतस्तस्मिन्निवासग्रहः। यत्संक्रन्दनसुन्दरीकुचतटास्फालोच्छलद्बिन्दुनि स्वच्छन्दं तव सिद्धसिन्धु[^3]सलिले तत्रोचिताः केलयः॥४९॥ वापीं दूरे किरति कुरुते नो मृणालीषु लीलां नीलाम्भोजं त्यजति भजते नाब्जकिंजल्ककेलिम्। किं तु क्लान्तिं वहति नलिनीनाललग्नाग्रकण्ठः क्षामः श्यामारमणकिरणव्याकुलाङ्गो रथाङ्गः॥५०॥ शोकात्कोककुलैरमीलि कमलैरम्लायि दन्ताङ्कुरै- रस्फोटि स्फटिकामल: करटिनां[^४] यस्मिन्नवाप्तोदये। तं दृष्ट्वैव कुरङ्ग[^५]केतनमहो मुग्धः स दुग्धाम्बुधिः किं मिथ्या नरिनर्ति चञ्चलवलत्कल्लोलदोः कन्दलः॥५१॥ तालीपल्लवपाकपाण्डिमसखी यत्कान्तिरन्तर्गतो यत्कोऽपि प्रगुणो गुणः किमपरं यज्जन्म रत्नाकरात्। युक्तो मौक्तिकहार हारिणि कचत्कर्पूरपत्राङ्कुरे त्वत्सङ्गोऽयमनङ्गधामनि कुचोत्सङ्गे कुरङ्गीदृशाम्॥५२॥ [^१] हे रत्नवणिक्. [^२] हे ब्रह्मदेववाहन हंस. [^३] गङ्गाजले. [^४] हस्तिनाम्. [^५] चन्द्रम्. कुन्दे नन्दति कैरवे विहरते पङ्केरुहे रोहति प्रेमाणं तगरे तनोति भजते सङ्गं लवङ्गेऽपि यत्। तन्मन्ये न ददर्श सौरभभरेणाक्रान्तदिक्कंदरं कंदर्पैकविलासमन्दिरमिमं मन्दारमिन्दिन्दिरः॥५॥ कंदर्पैककृपाणवल्लरि वने कमादकस्मादियं हे कालागुरुबालमञ्जरि हहा मोहादिह प्रारुहः। सह्यन्तामुपजातसौरभपरिष्वङ्गैस्तदङ्गैरिमाः कान्तैः कान्तपुरंध्रिकुन्तलभरच्छायैः कुठारच्छिदः॥५४॥ लीलावासः कुसुमधनुषः कोऽपि यस्याधिवासः कुर्युर्यस्यास्तरुमुकुलकोसङ्गभङ्गं नताङ्ग्यः। सान्द्रे तस्मिन्नपि जडतया पङ्कशङ्कां वहन्तो हन्त खान्तं मृगमदरसे पामरा नार्पयन्ति॥५५॥ ऊढापि द्यु[^१]तरङ्गिणि त्रिजगतीवन्द्येन तेनाप्य[^२]हो मौलौ बालकुरङ्गकेतनकलालीलावतंसाङ्किते। तारक्षारकरं करालमकरं सश्वभ्रमभ्रकषं मुग्धे जाड्यनिधिं मुघा जलनिधिं यातासि चित्राः स्त्रियः॥५६॥ नीरं नीरसमस्तु कौपमिति तत्पाथो वरं मारवं कासाराम्बु तदस्तु वा परिमितं तद्वास्तु वापीपयः। पाने मज्जनकर्मनर्मणि तथा बाह्यैरलं वारिधे कल्लोलावलिहारिभिस्तव नभःसंचारिभिर्वारिभिः॥५७॥ कान्तिर्यस्य विनिद्रनीलनलिनच्छायासखी सुभ्रुवां यत्पङ्केऽपि मुदोऽस्ति यस्य सुरभिः कासां रसोऽगोचरः। अङ्गारार्थितया जनेरतिजडैरुड्डामरैः पामरैः पश्यैष प्रगुणैर्गुणैरपि गुरुर्दग्घः स कालागुरुः॥५८॥ एतैर्जातै: किमिह बहुभिर्भोगिभि: किं तु मन्ये मान्यः कोऽपि प्रभवति जगत्येकशेषः स शेषः । [^१] हे गङ्गे. [^२] शिवेन. यस्मिन्गौरी पृथुकुचत टीकुङ्कुमस्थासकाङ्के येन स्थाणोरुरसि रहितो हारवल्लीविलासः॥५९॥ यस्मिन्रोहति निम्बडम्बरभियान्यस्मिन्करीरद्रुमै- रुद्रेकः कलितः पटोलपटली यत्रेयमुन्मीलति। तस्मिन्नत्र निवेशितासि विपिने केनासि हा दुःसहः सह्योऽयं सहकारमञ्जरि कथंकारं निकारज्वरः॥६०॥ द्वित्रान्वारिलवानवाप्य जलदादारम्भि संरम्भिभिः क्रीडाताण्डवडम्बरः शिखिकुलै: केकारवव्याकुलैः। उन्मीलत्कनकाब्जचुम्बिनि सुधानिःष्यन्दिदुग्धाम्बुनि प्राप्ते सारस मानसेऽपि भवता नैको विकारः कृतः॥६१॥ चूतं मुञ्च त्यज सरसिजं भृङ्ग मा गा लवङ्गं सङ्गं दूरीकुरु कुरबके केतके मा निषीद। लीलोत्तंसीकृतमुकुलकः स्वर्गसीमन्तिनीभि- र्यत्ते दैवात्परिसरगतः पारिजातः स जातः॥६२॥ पश्यैताः कति न स्फुरन्ति सरितः सान्द्रारविन्दच्छद- च्छायाभिः शिशिराः खरातपविपन्निर्वापिका वापिकाः। माद्यन्मेदुरदर्दुरं बककुलैरप्याकुलं सेव्यते तत्कस्मादविचार्य सारस रसान्निःसारनीरं सरः॥६३॥ ब्रूमः किंचन जह्नुपुत्रि जडिमा कस्मादियान्स्वीकृतः पाथो[^१]धाम्नि कृतः करालमकरासङ्गेऽपि यत्संगमः। यम्मौलौ कलितं शशाङ्ककलिकाकान्ते वृषाङ्कस्य त- त्पश्य खादु च हारदामशुचि च क्षारायते ते पयः॥६४॥ ये तावन्ति पयः[^२] पृषन्ति जलदादत्यन्तमुत्कण्ठिता याचन्ते च नदन्ति च प्रतिपदं सन्त्येव ते बर्हिणः। [^१] समुद्रे. [^२] जलकणान्. यः शूलाङ्कशिरः शशाङ्क कलिकापीयूषवर्षेऽप्यहो नो जातः प्रणयी स तारकरिपोरन्ये पुनर्बर्हिणः[^१]॥६५॥ मुञ्चत्यन्तर्विचकिलरुचिं चूतवल्लीविलासं मल्लीलीलां सरसिजरसं केतकीकौतुकं च। जातप्रीतिर्बकुललतिकामुन्मिषत्कोरकान्तां कान्तां किं तु श्रयति रचयन्पञ्चमं चञ्चरीकः॥६६॥ उद्यद्विद्युति मेचकद्युतिभृति स्त्रीणां मनोमोहिनि व्योमारोहिणि नीलकण्ठरमणीकेलिप्रदे वारिदे। यासि क्वापि मरालबालक बकक्रौञ्चाविले पल्वले सह्यन्तां कतिचिद्वियुक्तवनितादत्तज्वरा वासराः॥६७॥ अङ्गाट्ट[^२]ङ्किकया कलङ्कमतसीनीलं लुनीहि स्वयं सर्वां किं च निषिञ्च चन्दनरसस्यन्दैरमन्दैस्तनुम्। उद्यन्नङ्ग कुरङ्गकेतन भवानेवं भवेद्भाजनं जाने तामनुकर्तुमाननगतां भङ्गीं कुरङ्गीदृशः॥६८॥ आनीतैरिषुकार कारणमिह श्लाघ्यै किमेभिः शरैः प्रख्यातामपि किं न पामरपुरीमेतां पुरः पश्यसि। दात्रं पात्रमिति ब्रवीति कुरुते स्तोत्राणि तोत्रे रसं धत्ते यत्र हले कुतूहलमपि ग्रामीणकग्रामणीः॥६९॥ यल्लीलातरलैरलङ्घि कपिभिर्ज्वालाभिरौर्वानलो यच्चक्राम यदाचचाम चुलकेनैकेन कुम्भोद्भवः। तस्मिन्नेव नगेन्द्रनन्दन सखे हे पार्वतीसोदर त्वं मेनाक जवाज्जले जलनिधेर्मज्जन्न किं लज्जितः॥७०॥ त्वं कालं नय कैरवेऽत्र विहरँल्लीलारविन्दे रसन्कह्लारे निवसन्मधुव्रत पतन्नङ्केऽपि पङ्केरुहाम्। [^१] 'मयूरो बर्हिणो बहीं' इत्यमरः. [^२] क्षुद्रशस्त्रविशेषेण. शेफालीमुकुलैरलायि बकुलैरम्लायि किं चामलै- स्तैर्मल्ली मुकुलैरमीलि दहनक्लान्ते वनान्ते यतः॥७१॥ कान्तिर्लोचनवर्तिरद्भुतमयी मूर्तिर्महत्सौरभं निःष्यन्दोऽथ सुधाकरादपि सुधास्यन्दादपि ह्लादकः। सर्वोऽयं विरलो जगत्यपि गुणग्रामोऽभिरामो हहा पश्योत्तंसभुजंगसंगमजुषः श्रीखण्ड ते खण्डितः॥७२॥ येन प्राप्तः सुरभितककुष्कंदरः कोऽप्युदारो मन्दारोऽपि भ्रमररमणीदत्तरागः परागः। स त्वं तत्त्वं वद पदमहो मुग्ध कस्मादकस्मा- दस्मिन्मिथ्या मधुप कुरुषे कर्णिकारे किमेतत्॥७३॥ यद्गौरीरमणेन नाकतटिनीनीराङ्किते मूर्धनि न्यस्तः स्फारफणः फणी भवतु तच्चित्रः प्रभूणां विधिः। एतत्किं तु कथं सहेमहि महद्दुःखं यदत्रामुना निःशङ्कं कलितः शशाङ्क कलिकापीयूषपानोत्सवः॥७४॥ दृष्टाश्चम्पकसंपदो विच किलश्रेणी गता गोचरं प्राप्तं केतकघाम कैरववनं दृष्टं विमृष्टं च तत्। सा श्रीस्तन्मधु तन्मधुव्रतकुलं तत्सौरभं वेधसा साश्चर्यं निरमायि हेम कमल त्वय्येव तुभ्यं नमः॥७५॥ बद्धः कोऽपि शिखामणिस्तव नवो मुक्तागुणो गुम्फितः कान्तः कृत्रिमपुत्रिके यदि कृतः कर्पूरपत्राङ्कुरः। तत्किंचिन्नयनाञ्जनं रतिपतिह्लादप्रदा सा गति- स्तन्मुग्धं हसितं सदामृतरसं मुञ्चमन्कुतः पञ्चमः॥७६॥ मुञ्चैतां नवमालिकां कुरु पुरो मा मालतीमाल्यकं मा मा मालिक मल्लिकास्रजमपि क्वापि त्वमुन्मुद्रयेः। स्रग्दामैकरतः कुतः कथमथ स्यात्कर्णपूरोन्मुखः कुग्रामेऽत्र कदावतंसरसिको जायेत जाल्मो जनः॥७७॥ हासश्चेदमृतं मृतं यदि रुचिर्नोद्दीपकं चम्पकं वाचश्चेत्कलकण्ठकण्ठकुहरे कुण्ठक्रमः पञ्चमः। किं चान्यद्यदि मारमण्डनमणिस्पर्धाधरस्तेऽधरः सत्यं सुन्दरि वैद्रुमोऽपि विरमत्संपल्लवः पल्लवः॥७८॥ लीलोद्यानतलेऽपि केऽपि तरवो निष्कान्तयः किं तु ते निःसारेऽपि खरेऽपि चम्पक मरौ रूढस्य दैवादिह। कान्तिः सैव स एव पल्लवगुणः सैव द्विरेफावली छाया सैव स एव सौरभभरस्ता एव पुष्पश्रिय:॥७९॥ कूपोल्लङ्घनकर्मनर्म विषमं जानन्ति शाखामृगा झम्पामप्युपकल्प्य कंचन पदं यान्ति प्लवंगाः परे। दुर्वारेऽपि दुरुत्तरेऽपि विपुलस्फारेऽपि वारां निधौ हेलैव प्लवग[^१]प्रभोः कृतजगत्पारिप्लवो विप्लव:॥८०॥ मुक्त्वाम्भोधिं मदनजयिनः किं कपालावचूडे चूडामूले सितकरकले कल्पितोऽयं निवासः। यत्ते निर्यन्नयनदहनाङ्गारसङ्गेन गात्रं तत्रोन्मीलद्बकुलकलिकाकोमलं तान्तिमेति॥८१॥ वल्लीभिर्ज्वलितं जलैरपगतं दावानलैरुद्गतं दर्भैरङ्कुरितं रवेरपि खरैर्यस्मिन्करैर्दीपितम्। तत्रैवासि मरौ शिरीष जगतीसारोऽपि सत्पल्लव- प्रस्तारोऽपि परिस्फुरत्परिमलोद्गारोऽपि हा रोपितः॥८२॥ कैलासः कचिदुद्वहन्नपि पुरारातिं यदप्यायता- मूर्वीमेष बिभर्ति[^२] सागरसरिद्गर्वी गिरिग्रामणीः। लीलाकन्दुकविभ्रमेण तमपि प्रागेतमेकः करे चक्रे विक्रमभासुरः सुरचमूविद्रावणो रावणः॥८३॥ लास्याभ्यासं जहिहि विहितश्रोत्रपीयूषमेकां केकां दूरीकुरु गुरुरयं मुग्ध बर्हिन्विमोहः। [^१] हनुमतः. [^२] महीधरत्वात्. मिथ्या बिभ्रत्कनकनिकषस्निग्धसौन्दर्यलेखां विद्युल्लेखामुदयति यतः शारदोऽयं पयोदः॥८४॥ हंस भ्राम्यदनेक भेकशबले पङ्काविले पल्वले युक्तास्ते किमसारवारिणि रणत्कौञ्चाकुले केलयः। तल्लीलालससारसं हि सरसं दृष्टं त्वया मानसं वीचिन्यञ्चितकाञ्चनाम्बुजरजःप्रस्तारमग्नं सरः॥८५॥ कान्तिर्यस्य शरन्निशाकरकलालावण्यसंवादिनी तं विक्रेतुमिहासि[^१] यासि किमहो हारं विहारं श्रियः। एतां पश्य पुरः पुलिन्दनगरीं भूषाः कुरङ्गीदृशां यत्रैता गलकन्दले च कुचयोरङ्के च गुञ्जास्रजः॥८६॥ लक्ष्मीवल्लभकेलितल्पमुदधिर्यज्जन्मभूर्भूषणं यन्मौलौ च कुचस्थले च सुदृशां पात्रं यदेव श्रियः। तन्मुक्ताफलमेतदस्थिकणिकाशङ्कापरैः पामरै- र्दूरे मुक्तमयुक्तमुक्तमपि च न्यक्कारयुक्तं वचः॥८७॥ यस्मिन्विस्मयजन्म मन्मथमहोत्साहप्रदं सौरभं यस्य स्यात्कुचकुड्मलोपरि परिष्वङ्गः कुरङ्गीदृशाम्। नेदं तस्य जनैकनन्दन सहे हे चन्दन क्वापि ते मूले हालहलाकुलैरहिकुलैर्यत्संगमोऽङ्गीकृतः॥८८॥ बालैः पञ्चशरीं शिरीषमृदुलैर्निर्माय यत्पल्लवैः शङ्के शंकरसंगरेऽपि चतुरो जातोऽङ्क[^२]कारः स्मरः। सा श्रीस्तानि दलानि ते मधुलिहस्तत्सौरभं मल्लिके तस्यास्ते विरतं दवानलशिखामात्रेण धात्रे नमः॥८९॥ मुग्धा वृथा कुमुदिनीरमणे चकोराः को राग एष जडिमाग्लपिता मतिर्वः। [^१] त्वम्. [^२] 'व्युत्पन्नयोद्धा' इति श्रीकण्ठचरितटीकायां ( १/४३) जोनराजः. एतन्न पश्यथ मुखं मदिरे[^१]क्षणानां यस्मिन्स किंकरति कैर[^२]विणीकुटुम्बः॥९०॥ न कुन्दं सामोदं जनयति मुदं नैव कुमुदं न सारं कह्लारं कुसुमतिलकं नैव तिलकम्। उदात्तं निर्धूतं न च कमलमावर्जकमलं तदश्रान्तभ्रान्तभ्रमरवलयं चेत्कुवलयम्॥९१॥ निर्मायाम्बुनि नर्मकर्म कवलक्रीडां कुरु श्यामलैः शेवालैर्बिसकन्दलैरविरलैर्बालैर्मृणालीदलैः। हे मातङ्ग तरङ्गरङ्गपटलीखेलत्पुलिन्दाङ्गनं लक्ष्मीप्राङ्गणमङ्गसंगतमिदं पुण्यैर्हि पम्पासरः॥९२॥ वापीवारिणि हंस शंस कतरः प्रेमग्रहो गम्यतां खेलत्पल्लवपार्वतीभुजलतालोलोर्मि दिव्यं सरः। व्याप्य व्योम च दिङ्मुखानि च नदत्युद्दामसौदामनी- दामव्याप्तवपुर्वियुक्तवनितादम्भोलिरम्भोधरः॥९३॥ कंचित्कालं नय गिरिगुहागह्लरे रे मुधैव क्रीडन्हालाहलरसलसद्दर्प मा सर्प[^३] सर्प। माद्यन्नुद्यत्सजलजलदव्याकुले मेघकाले येन प्राप्तो वनविहरणोत्कण्ठया नीलकण्ठः॥९४॥ चित्रे चन्दनचित्रके समुचिते कर्पूरपत्राङ्कुरे कस्तूरीमकरेषु कुङ्कुमरसस्थानेषु[^४] यत्कौतुकम्। [^१] मदिरा दृष्टिविशेषस्तद्युक्ते ईक्षणे यासामगिघूर्णमानमध्या या क्षामा चाश्चित- लोचना। दृष्टिर्विकसितापाङ्गा मदिरा तरुणे।।' इति हरविजयटीकायामलकरा- जानकः, 'तथा संगीतकलिकायाम् – 'सौष्ठवेन परित्यक्ता स्मेरापाङ्गमनोहरा। वेपमा- नान्तरा दृष्टिर्मदिरा परिकीर्तिता॥' इति ( १८७९ मितख्रिस्त संवत्सरमुद्रित-विक्र- मोर्वशीयटिप्पणे ५२ पृष्ठे ) शंकर-पाण्डुरङ्ग-पण्डित:. मल्लिनाथस्तु ( रघुवंशटीकायाम् ८/६८ ) 'माद्यत्यनयेति मदिरा लोकप्रसिद्धा। तथापि 'नार्यो मदिरलोचनाः' इत्यादि- प्रयोगदर्शनान्माद्यत्याभ्यामिति मदिरे अक्षिणी यस्याः' इति वदन्भ्रान्त एव भाति. [^२] चन्द्रः. [^३] हे सर्प, मा गच्छ. [^४] स्थासक एवं स्थासः. किं कुर्मस्तदमुत्र पामरपुरे सैरंध्रि दूरेऽस्तु ते वृत्ता यत्र कुतः प्रसाधनविधौ वार्तापि वामभ्रुवाम्॥९५॥ यल्लीलाम्बुजनर्म केतकलताकौतूहलं मालती- माल्यप्रेम लवङ्गसंगमरसः कङ्केलिकेलिक्रमः। तत्सर्वं विजहाति किं तु रसयत्यालम्बते सादरं नन्दन्नन्दनकन्दलीसुमनसामामोदमिन्दिन्दिरः॥९६॥ माद्यन्मद्गु वलद्वकावलि बलिक्रौञ्चाविलं पल्वलं मन्ये मान्य मराल पङ्कपटलीयुक्तं न युक्तं तव। तत्त्वन्नेत्रपुटीरसायनरसासारं ससारं सर[^१] स्वच्छं गात्रनिमज्जनोत्सुकसुरस्त्रीमानसं मानसम्॥९७॥ अम्भोजैर्गलितं तटैर्विघटितं हंसैद्रुतं विद्रुतं वापीभिर्विरतं पुरैव पतितैरद्या विलैस्त्वज्जलैः। हा धिक्किं पुनरप्युपार्जितमहादौर्जन्य पर्जन्य हे प्रारब्धोऽयमतानवैरभिनवैर्वा रिप्लवैर्विप्लव:॥९८॥ तापातङ्कं कलय विलयं याहि हे दुर्निवारं वारं वारं विगलितगतिर्नेह दाहं सहेथाः। दैवादग्रे खरतरजरद्दर्भसंदर्भगर्भो नेदीयांस्ते नववनदवोद्दीपितः पान्थ पन्थाः॥९९॥ यद्भूतं च भवच्च भावि च कुलं भूमण्डले भूरुहां तन्मध्ये न बभूव नास्ति भविता न क्वापि तादृक्तरुः। साम्ये यश्चलकेलिकङ्कणरणत्काराङ्गदोर्लेखया पौलोम्या[^२] निहितालवालपयसः कल्पद्रुमस्य क्षमः॥१००॥ लब्धं वल्गदवल्गुमद्गुरसितं सोद्रेकभेकस्वरं किं च क्रौञ्चवचः प्रपञ्चविरसं दैवादिदं ते सरः। तत्ते हंस न गीतिरत्र सरसा सा कान्तसीमन्तिनी- लीला चङ्क्रमणक्रमानुकरणोयुक्ता च युक्ता गतिः॥१०१॥ [^१] गच्छ. [^२] इन्द्राण्या. उन्मीलन्मुकुलो न चात्र बकुलो नावर्जकाः केतका नास्मिन्कोमलकुड्भला विचकिला नोद्दीपकाश्चम्पकाः। तत्किं मुग्ध मुधैव दग्धसिकतागर्भः सदर्भों मरो मार्ग: पान्थ पतत्पतंगकिरणाङ्गारोऽयमङ्गीकृतः॥१०२॥ वार्ता यत्र न शेखरेषु न तथा घम्मिल्लमाल्यप्रथा कर्णोत्तंसकथा न काचन न च स्रग्दामनामग्रहः। तस्मिन्मालतिवल्लि हालिकपुरे रूढासि पश्यैष ते खात्मन्येव शमं गतस्त्रिजगतीगण्यो गुणानां गणः॥१०३॥ एतस्मिन्विपुले प्लवंगमकुले जातो गुणैरग्रणी- रेकः क्वापि कपिः स कोऽपि मरुतां वन्द्यो मरुन्नन्दनः। केलिप्राङ्गणवापिकावदभवद्यस्याम्भसां भर्तरि द्राक्कल्लोलविकार कल्पितजगत्कम्पेऽपि झम्पारसः॥१०४॥ साश्चर्या : सरसाश्च सन्ति सरितः पाथः[^१] पतिप्रेयसि क्षोणी विभ्रम वैजयन्ति तदपि त्वां ताम्रपर्णि स्तुमः। खच्छे निर्जितनारिकेलसलिलखादिम्नि यद्वारिणि प्राप्तः केतकपत्रगर्भरुचिभिर्मुक्ताफलैरुद्भवः॥१०५॥ इयं यदि रदच्छदच्छविरपाटला[^२] पाटला नताङ्गि तव चेदियं रुचिरकिंचनं काञ्चनम्। किमन्यदमृतद्रवः श्रवणयोरिदं चेद्वचः क्व न भ्रमरयोषितां गलदहंकृतिर्हुकृति:॥१०६॥ उद्भिन्ना कलकण्ठकण्ठकुहरात्कर्णामृतस्यन्दिनी हृद्या यद्यपि मार्दवैकवसतिः सा काकलीहुंकृतिः। अन्यस्तन्वि तथापि ते पशुपतिप्लुष्टस्य जीवार्पणे पञ्चेषोरुचितः प्रपञ्चितरसः पाकाञ्चितः पञ्चमः॥१०७॥ या लक्ष्मीः स्मरकार्मुके स्फुरति या बाले प्रवाले रुचिर्यो नीलाम्बुरुहच्छदे मृदुमरुत्प्रेङ्खोलिते विभ्रमः। [^१] हे समुद्रपत्नि. [^२] पुष्पविशेषः या कान्तिः कनकाम्बुजेऽपि सकलं द्रष्टुं तदेकत्र चेच्चेतः कन्दलिताद्भुतं तव सखे पश्याननं सुभ्रुवः॥१०८॥ इति महाकविश्रीशंभुमिश्रकृतान्योक्तिमुक्तालता समाप्ता।