अमरुककविः ।
अमरुशतकं मण्डनमिश्रपत्न्याः शारदायाः प्रश्नानामुत्तरदानार्थं गतासोरमरुकाख्यमहीपतेर्देहं प्रविष्टेन श्रीशंकराचार्येण प्रणीतमिति बहूनां प्रवादः. “भगवाञ्छंकराचार्यो दिग्विजयच्छलेन काश्मीरमगमत् । तत्र शृङ्गाररसवर्णनार्थं सभ्यैरभ्यर्थितः "शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत्” इति वचनादमरुकनाम्नो राज्ञो मृतस्य परवपुःप्रवेशविद्यया शरीरे प्रवेशं कृत्वा स्त्रीशतेन सह केलिं विधाय प्रातस्तथा कारयामास | पिशुनैः कापटिकोऽयमाजन्मब्रह्मचारीत्युपहसितः शान्तरसमत्र व्याचष्टे इति किंवदन्ती ।" इति रविचन्द्रः स्वकृताया अमरुशतकटीकायाः प्रारम्भे लिलेख. किं त्वेतत्सर्वं शंकरदिग्विजयानवलोकनमूलं प्रमादविलसितम्. तथा हि माधवकविप्रणीते शंकरदिग्विजये नवमदशमसर्गयोः “कलाः कियत्यो वद पुष्पधन्वनः किमात्मिकाः किं च पदं समाश्रिताः । पूर्वे च पक्षे कथमन्यथास्थितिः कथं युवत्यां कथमेव पूरुषे ॥ इति श्रीशंकराचार्यं प्रति शारदाप्रश्नाः । ततः शारदाप्रश्नश्रवणानन्तरं यद्यस्याः प्रश्नानामुत्तरं न दास्यामि तदा ममाल्पज्ञता प्रतीयेत, उत्तरदाने तु संन्यासिनो मम कामशास्त्रचर्चया धर्मक्षयो भवेदिति विचार्य प्रश्नोत्तरदाने मासमात्रमवधिं विधाय शिष्यैः सह गगनमुत्पपाताचार्यः । गगने बम्भ्रम्यमाण एव मृगयार्थमायातमटव्यामेव दैवयोगाद्गतप्राणं विलपन्तीभिः प्रमदाभिः परीतममरकाख्यमहीपतिं तरुमूले विलोक्य सनन्दनाख्यशिष्येण सह संमन्त्र्य शिष्यैः कृतरक्षमात्मकलेवरं कुत्रचन गिरिगह्वरे निधाय योगयुक्त्यामरकनृपशरीरे प्रविवेश । प्रमुदितैर्मन्त्रिभिर्महिषीभिश्च समेतो नृपशरीरधारी राजधानीं च जगाम । तत्र च मनोहरतराभिर्महीपतिपङ्कजाक्षीभिस्तांस्तान्भोगानुपभुज्य कामतत्त्वं सम्यगभिज्ञाय 'वात्स्यायनप्रोदितसूत्रजातं तदीयभाष्यं च विलोक्य सम्यक् । स्वयं व्यधत्ताभिनवार्थगर्भं निबन्धमेकं नृपवेषधरी ॥" इत्याख्यायिका वर्तते. एतेन श्रीशंकराचार्यो वात्स्यायनीयकामसूत्रानुकूलं कमपि निबन्धं रचयामास, तत्रैव च शारदाप्रश्नानामुत्तराण्यप्यन्तर्भावयांचकारेति प्रतीयते. न त्वमरुशतकनिर्माणसूचनमात्रमपि शंकरदिग्विजये समुपलभ्यते. नाप्यमरुशतके शारदाप्रश्नोत्तरानुरूपं किमप्यस्ति. एवं रविचन्द्रोक्तमप्यसंबद्धमेव. यतस्तत्रैव षोडशे सर्गे आचार्यस्य काश्मीरयात्रा तत्र च शारदासदने तत्तद्देशवासिभिर्वादिभिर्विवादश्च सम्यग्वर्णितः किं तु शृङ्गाररसवर्णनार्थं सभ्यैरभ्यर्थित इत्यादिरविचन्द्रोक्तं तत्र नोपलभ्यते तस्मादेवंविधा निर्मूला जनश्रुतयः कथं प्रमाणत्वेन स्वीकर्तुमर्हाः ? अथ यदि शारदाप्रश्नोत्तरदानार्थं निबन्धं प्रणीयामरुशतकमप्याचार्येणैव निरमायीति को विकल्पावकाश इत्युच्यते, तर्हि तन्निबन्धनिर्माणं शारदाप्रश्नोत्तरदानार्थमात्मनः सर्वज्ञताकीर्तिरक्षार्थं च, किं त्वमरुशतकप्रणयनं शृङ्गारव्यसनितयैवेत्यप्यङ्गीकार्यमिति महती विडम्बना यतिवरस्य. तस्मादस्य शतकस्य प्रणेतामरुककविः कश्चिदन्य एव. स च कदा कुत्र समुत्पन्न इति न ज्ञायते, किं तु ध्वन्यालोकस्य तृतीयोद्द्योते ‘मुअमरुककविविरचितं
अमरुशतकम् ।
महाराजश्रीमदर्जुनवर्मदेवप्रणीतया रसिकसंजीविनीसमाख्यया व्याख्ययोपेतम् ।
देवी रतिर्विजयते मृगनाभिचित्त्रपत्त्रावली पृथुपयोधरसीम्नि यस्याः ।
भाति त्रिलोकविजयोपनतस्वकान्तप्रक्रान्तसायकनिशाणनकालिकेव ॥
भ्रूलास्योत्सविनी सविभ्रमगतिर्मूर्छन्नितम्बस्तना
संकीर्णे वयसि स्मितार्द्रभणितिः सा पार्वती पातु वः ।
यस्याः कर्णतटं दृशावगमतां तूर्ण तदन्तःपथे
गत्वा द्रष्टुमिवेश्वरं हृदि कृताधिष्ठानमाकुञ्चिते ॥
अमरुककवित्वडमरुकनादेन विनिह्नुता न संचरति ।
शृङ्गारभणितिरन्या धन्यानां श्रवणयुगलेषु ॥
आपद्यन्तां विकासं कथमिह कुमुदानीव कार्कश्यदीप्य-
त्सूर्यारब्धप्रबन्धव्यसननिपतितान्युत्तमानां मनांसि ।
आविर्भावं भजन्ते यदि न बुधगुरोर्मन्मथप्रौढिकाराः
क्रीडाधाम्नह् कलानाममरुकसुकवेः केऽप्यमी श्लोकपादाः ॥
क्षिप्ताशुभःसुभटवर्मनरेन्द्रसूनुर्वीरव्रती जगति भोजकुलप्रदीपः ।
प्रज्ञानवानमरुकस्य कवेः प्रसारश्लोकाञ्छतं विवृणुतेऽर्जुनवर्मदेवः ॥
अव्युत्पत्तिमतामन्तःप्रबोधाय सचेतसाम् । काव्याभिधेयालंकारलक्षणं लिख्यते मनाक् ||
तत्रादिमोऽयमाशंसनश्लोकः—
ज्याकृष्टिबद्धख[^१]टकामुखपाणिपृष्ठ-
प्रेङ्खन्नखांशुचयसंवलितोऽ[^२]म्बिकायाः ।
त्वां पातु मञ्जरितपल्लवकर्णपूर-
लोभभ्रमाद्भ्रमरविभ्रमभृत्कटाक्षः ॥ १ ॥
[^१] 'तर्जनीमध्यमामध्ये पुङ्खोऽङ्गुष्ठेन पीड्यते । यस्मिन्ननामिकायोगः स हस्तः कटकामुखः ॥' इति शृङ्गारदीपिका. [^२] 'मृडान्याः' इति शृङ्गारदीपिकासंमतः पाठः. "यद्गतागतिविश्रान्तिवैचित्र्येण विवर्तनम् | तारकायाः कलाभिज्ञास्तं कटाक्षं प्रचक्षते ॥" सर्वमङ्गलायाः कटाक्षस्त्वां पातु रक्षतु । किंविशिष्टः । ज्याकृष्टीत्यादि । बाणासनगुणाकर्षणेन रचितो यः खटकामुखो नाम हस्तस्तस्य पृष्ठं तत्र परिस्फुरन्यः करजकिरणकलापस्तेन संवलितः करम्बितः । खटकामुखलक्षणं चैतत्-- "अस्या एव यदा मुष्टेरूर्ध्वोङ्गुष्ठः प्रयुज्यते । हस्तकः शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः ॥ शिखरस्यैव हस्तस्य यदाङ्गुष्ठनिपीडिता । प्रदेशिनी भवेद्वक्रा कपित्थो जायते तदा ॥ उत्क्षिप्ता च यदा वक्रानामिका सकनीयसी । एतस्यैव कपित्थस्य तदा स्यात्खटकामुखः ॥" अथ कटाक्षस्योपमानगर्भं विशेषणमाह--पुनः किंविशिष्टः । मञ्जरितेत्यादि । मञ्जरी उद्भिद्यमानमुकुलसंततिः । सा संजातास्येति तारकादिभ्य इतच् । मञ्जरितो यः पल्लवः स एव कर्णपूरस्तत्र लोभस्तेन भ्रमन्यो भ्रमरस्तस्य विभ्रमो विलासस्तं बिभर्तीति क्विप् । इति तावद्वाक्यार्थः । रहस्यं चैतत्परमार्थसहृदया मन्यन्ते -- यं रसमुपनिबद्धुमेष कविः प्रवृत्तः स यद्यप्यकृत्रिमानुरागस्त्रीपुंसपरस्परानुरागकल्लोलितः परां कोटिमधिरोहति तथापि नायिकायाः प्राधान्यम् । तत्प्राधान्यप्रकाशनपरश्चायमौचित्यात्कटाक्षमुख्यत्वेनाभीष्टदेवताशंसनश्लोकोऽपि प्रथमं लिखितः, "क्षिप्तो हस्तावलग्नः" इत्यादिश्लोकस्तु चरमम् । किं च धर्मार्थयोरुपरिवर्तमानस्य मोक्षात्किंचिदर्वाचीनस्य पुरुषार्थविशेषस्य निधानमपत्येनैव पितॄणामानृण्यहेतुभूता नितम्बिनीर्विहाय किमन्यदुपादेयम् । यदुक्तमुपाध्यायेन बालसरस्वत्यपरनाम्ना मदनेन – "संसारे यदुदेति किंचन फलं तत्कृच्छ्रसाध्यं नृणां किं त्वेतत्सुखसाध्यमस्ति युगलं सम्यग्यदि ज्ञायते । यल्लक्ष्मीसमुपार्जनं पुलकिनां रक्तखरं गायतां यत्कान्तारतिनिस्तरङ्गमनसामुत्पद्यते नन्दनः ॥" कामशास्त्रेऽप्युक्तम्-"किं स्यात्परत्रेत्याशङ्का यस्मिन्कार्ये न जायते । न चार्थघ्नं सुखं चेति शिष्टास्तस्मिन्व्यवस्थिताः ॥" परस्त्रीगतोऽप्ययं रस उपनिबध्यमानो न पातकाय । एवंविधसंविधानकैः स्त्रीणां चारित्रखण्डनं भवति तस्मात्प्रयत्नेनैताः संरक्षणीया इत्युपदेशपर्यवसितत्वात् । अन्यथा वात्स्यायनो महर्षिस्तत्तदुपायैः परस्त्रीसाधनं कथं प्रणीतवान् । उक्तं च--"संदृश्य शास्त्रतो योगान्पारदारिकलक्षितान् । न याति च्छलनं कश्चित्स्वदारान्प्रति शास्त्रवित् ॥" यद्यपि धनुर्वेदे खटकामुखः प्रणीतोऽस्ति तथाप्यत्र नृत्यसंस्कार एवायं हस्तको देव्याः । एवं च महान्विशेषः । लास्यलीलयैव देव्या दुरतिक्रमदैत्यकुलक्षयः कृत इति प्रभावातिशयप्रतीतेः । "यतो हस्तस्ततो दृष्टिर्यतो दृष्टिस्ततो मनः" इत्युक्तत्वात्खटकामुखे कटाक्षनिवेशनं युक्तम् । सहृदयंमन्यैश्च पुनरत्र मु[^१]रटाप्रभृतिपञ्चमुष्टीनां मध्ये केयं मुष्टिः कैशिकप्रमुखपञ्चन्यायेषु कश्चायं न्याय इत्यादिशरासनशास्त्रचर्चा क्रियते । वयं त्वेवं ब्रूमः -- यत्र शृङ्गारैकरसः कविः पुरुषायितप्रवृत्तकामिनीवदनमेव त्वां पातु किं हरिहरस्कन्दादिभिर्दैवतैरिति देवताशंसनमप्यपार्थकप्रायं प्रतिपादयति तत्र को नाम धनुर्वेदमनिर्वेदः पल्लवयितुमुत्सहत इति । प्रेङ्खन्नखांशुपाणिपृष्ठकटाक्षयोर्मञ्जरित
[^१] "मुचटी" इति द्वितीयपुस्तके पल्लवकर्णपूरभ्रमराभ्यां सहोपमानोपमेयभावः । तेन कोमलारुणपाणिनिर्मलनखान्ततरङ्गितचपलापाङ्गचमत्कारेण चन्द्रचूडचित्तानुमोदननिबन्धिनी देव्याः सौन्दर्यविभ्रमसंपत्तिः प्रतिपादिता । देवीनां हि लावण्यवर्णनाभिनिवेशस्तत्प्राणेश्वरप्रीतिप्रतिपादनाकाङ्क्षयैव कवीनाम् । इतराकाङ्क्षया तु कलङ्किन एव ते स्युः । उपनिबद्धं च भ[^१]ट्टबाणेनैवंविध एव सङ्ग्रामप्रस्तावे देव्यास्तत्तद्भङ्गिभिर्भगवता भर्गेण सह प्रीतिप्रतिपादनाय बहुधा नर्म । यथा - "दृष्टावासक्तदृष्टिः प्रथममथ तथा संमुखीनाभिमुख्ये स्मेरा हासप्रगल्भे प्रियवचसि कृतश्रोत्रपेयाधिकोक्तिः । उद्युक्ता नर्मकर्मण्यवतु पशुपतेः पूर्ववत्पार्वती वः कुर्वाणा सर्वमीषद्विनिहितचरणालक्तकेव क्षतारिः ॥" अत एवाम्बिकाया इति पदं न्यस्तम् । कोऽभिप्रायः । अन्येषां सर्वेषामपि मातुर्भगवतश्च नीलकण्ठस्य प्रियायाः । अन्यथा कटाक्षादिवर्णनप्रस्तावे कोऽवकाशोऽम्बिकादीनां पदानामिति । संवलितोऽम्बिकाया इत्यत्र, लोभभ्रमद्भ्रमरेत्यादौ चानुप्रासो नाम शब्दालंकारः । यदाह भट्टरुद्रट:--"एकद्वित्र्यन्तरितं व्यञ्जनमविवक्षितस्वरं बहुशः । आवर्त्यते निरन्तरमथवा यदसावनुप्रासः ॥" अत्र वीररसस्यानुगुणो विकटपदानां प्रकृष्टो न्यासोऽनुप्रासः । अलंकाराणां सामान्यलक्षणं चैतत् - "काव्यशोभाकरान्धर्मानलंकारान्प्रचक्षते ।" ज्याकृष्टीत्यादौ मञ्जरीत्यादौ च यथाशक्तिसमासाद्गौडीया रीतिः । यदुक्तम् - "द्वित्रिपदा पाञ्चाली लाटीया पश्च सप्त वा यावत् । शब्दाः समासवन्तो भवति यथाशक्ति गौडीया ॥" ये च दण्डिनाचार्येण – "श्लेषः प्रसादः समता माधुर्यं सुकुमारता । अर्थव्यक्तिरुदारत्वमोजःकान्तिसमाधयः । इति वैदर्भमार्गस्य प्राणा दश गुणाः स्मृताः ॥" इति गुणाः प्रतिपादितास्ते चात्र शृङ्गाररसोचिता बाहुल्येन भविष्यन्ति । तस्माद्वैदर्भमार्गे सर्वथा समास एव न स्यादिति न वाच्यम् । ओजसः समासभूयस्त्वात् । तर्ह्योजोगुण एव गौडीयो मार्ग इति चेत्, गौडीये केवलं यथाशक्ति समास एव वैदर्भे पुनः श्लेषप्रसादादयोsपीति । ननु गुणा अपि काव्यशोभाहेतवस्तत्कथं "काव्यशोभाकरान्" इत्याद्यलंकारलक्षणं समानजातीयव्यवच्छेदकं स्यात् । उच्यते - नहि गुणाः कटककेयूरादिवदाभरणत्वेनालंकुर्वन्ति । किं तु शौर्यौदार्यवत्प्रकर्षमादधते । उक्तं चानन्दवर्धनाचार्येण – "उपकुर्वन्ति तं सन्तं येऽङ्गद्वारेण जातुचित् । हारादिवदलंकारास्तेऽनुप्रासोपमादयः ॥ तमर्थमवलम्बते येऽङ्गिनं ते गुणाः स्मृताः । अङ्गाश्रितास्त्वलंकारा मन्तव्याः कटकादिवत् ॥" अर्थालंकारश्चात्र कल्पितोपमा । यदुक्तम् – "सा कल्पितोपमाख्या यैरुपमेयं विशेषणैर्युक्तम् । तादृग्भिस्तावद्भिः स्यादुपमानं तथा यत्र ॥" यथा – "मुखमापूर्णकपोलं मृगमदलिखितार्द्रपत्त्रमेतत्ते । भाति लसत्सकलकलं सलाञ्छनं चन्द्रबिम्बमिव ॥" सामान्यलक्षणं चैतत् – "उभयोः समानमेकं गुणादिसिद्धं यथा यदेकत्र । अर्थेऽत्यत्र तथा तत्साध्यत इति सोपमा ज्ञेया ॥" श्रुतालंकारैरत्रोत्प्रेक्षा कैश्चिदुक्ता । सा च न भवति । सिद्धोपमानसद्भावाभावात् । यदुक्तम् – "अतिसारूप्यादैक्यं विधाय सिद्धोपमानसद्भा
[^१] चण्डीशतके.
वम् । आरोप्यते च तस्मिन्नतद्गुणादीति सोत्प्रेक्षा ॥" यथा - "चम्पकशिखराग्रमिदं कुसु-
मसमूहच्छलेन मदनशिखी । अयमुच्चैरारूढः पश्यति मथिकान्दिधक्षुरिव ॥" यत्र संभा-
वनमात्रेण "लिम्पतीव तमोऽङ्गानि" इत्यादिवदुपमानोपमेयभाव एव नास्ति तत्रातिशयो-
त्प्रेक्षाव्यवहारः । भट्टरुद्रटमते हि चतस्रोऽलंकाराणां जातयः--वास्तवमौपम्यमतिशयः
श्लेष इति । अत्र यद्यपि दैत्यदलनोपक्रमे भ्रूभङ्गलोचनलौहित्यादिविकाराभावादुप-
मायाः सौन्दर्यविभ्रमसंपत्तिं धैर्यातिशयशालिनीं प्रतिपादयन्त्या "उत्साहात्मा वीरः स च
त्रिधा धर्मयुद्धदानेषु" इति वचनाद्युद्धवीररसे गौडीरीतिव्यञ्जितौजसि तत्परता । तथापि
न रसस्य प्राधान्यम् किं तु त्रयस्त्रिंशत्कोटित्रिदशैरप्यशक्ये कर्मण्यध्यवसिताया देव्याः
प्रभावातिशयमात्रात्मनो वाक्यार्थस्य । तेनोपमाया रसवदलंकारत्वम् । यदुक्तम्-
"प्रधानेऽन्यत्र वाक्यार्थे यत्राङ्गं तु रसादयः । काव्ये तस्मिन्नलंकारो रसादिरिति मे
मतिः ॥" भ्रमरसाधर्म्यारोपणेन कवेरसितः कटाक्षोऽभिप्रेतः । वर्णयन्ति सितमसितं
सितासितं च कटाक्षम् । तत्र सितो यथा- धनंजयस्य – "उज्जृम्भाननमुल्लसत्कुचतटं
लोलभ्रमद्भ्रूलतं स्वेदाम्भःस्नपिताङ्गयष्टि विगलद्व्रीडं सरोमाञ्चया । धन्यः कोऽपि युवा
स यस्य वदने व्यापारिताः सांप्रतं मुग्धे दुग्धमहाब्धिफेनपटलप्रख्याः कटाक्षच्छटाः ॥"
असितो यथा कस्यापि - "गतः कालो यत्र प्रणयिनि मयि प्रेमकुटिलः कटाक्षः कालि-
न्दीलघुलहरिवृत्तिः प्रभवति । इदानीमस्माकं जरठकमठीपृष्ठकठिना मनोवृत्तिस्तत्किं
व्यसनिनि मुधैव क्षपयसि ॥" सितासितो यथा – "अदृश्यन्त पुरस्तेन खेलाः खञ्जनप-
ङ्क्तयः । अस्मर्यन्त विनिःश्वस्य प्रियानयनविभ्रमाः ॥" इति ॥
क्षिप्तो हस्तावलग्नः प्रसभमभिहतोऽप्याददानोंऽशुकान्तं
गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण ।
आलिङ्गन्योवधूतस्त्रिपुरयुवतिभिः साश्रुनेत्रोत्पलाभिः
कामीवार्द्रापराधः स दहतु दुरितं शांभवो वः शराभिः ॥ २ ॥
स शांभवः शराग्निर्युष्माकं दुरितं दहतु हरतु । स कः । य आर्द्रापराधः कामीव त्रि-
पुरयुवतिभिर्बाष्पझलज्झलायितलोचनेन्दीवराभिः करव्यतिषक्तः प्रेरितः । बलात्कारेण
वस्त्राञ्चलमवलम्बमानस्ताडितः । निरस्तश्च शिरोरुहेषु लगन् । पादप्रणतस्तु पर्याकुलतया
नावलोकितोऽपि । निर्भर्त्सितश्च परिष्वजमान इति । अत्र भगवतः पिनाकपाणेर्बाणा-
नलभस्मीकृतोद्भटदानवेन्द्रस्य प्रभावातिशयद्योतको वीररसोऽङ्गीकृतः । क्षिप्तो हस्ताव-
लग्न इत्यादिना दनुजेन्द्रदयितानामीर्ष्यारूपो विप्रलम्भशृङ्गारः, साश्रुनेत्रोत्पलाभिरित्य-
नेन प्राणेश्वरशोकात्मा करुणरसश्चाङ्गम् । न चानयोरन्योन्यं विरोधः । अन्यपरत्वात् ।
यथाहि महर्षीणामाश्रमेष्वहिनकुलादीनाम् । यदुक्तम् – "विवक्षिते रसे लब्धप्रतिष्ठे तु
विरोधिनाम् । वाच्यानामङ्गभावं च प्राप्तानामुक्तिरच्छला ॥" विशेषतस्तु प्रस्तुतपरिपो-
षकारिणावेतौ । ईर्ष्यारूपस्तावदत्र विप्रलम्भशृङ्गारः करुणमेव पुष्णाति । यदुक्तं-
"प्रकृतिरमणीयाः पदार्थाः शोचनीयतां प्राप्ताः प्रागवस्थाभाविभिः संस्मर्यमाणैर्विलासै-
रधिकतरं शोकावेशमुपजनयन्ति । यथा - "अयं स रसनोत्कर्षी पीनस्तनविमर्दनः । ना-
भ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥" इति । इह हि यास्तत्तदुपायपरिचर्याचतुरेण
कान्तेन कुपिताः प्रसादितास्ता एव दनुजराजराजीवलोचनाश्चिरमननुभूतान्यविषयतया
विपद्व्यसनेऽपि मानिनीमानदर्शनं दर्शयन्त्यो दारुणदहनेन परिभूयन्त इति प्रतीतेः करु-
णोऽपि प्रतिपक्षगतस्त्रिपुररिपोरभिनन्द्यवन्द्योदयस्य वीरं पुष्णाति । अत्रासूयाश्रुणी व्य-
भिचारिसात्त्विकौ भावौ प्रकर्षेण रसतां गतौ । यदुक्तम् – "निर्वेदोऽथ तथा म्लानिः
शङ्कासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ व्रीडा चपलता
हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च ॥ सुप्तं विबोधो
हर्षश्चाप्यवहित्थमथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणमेव च ॥ त्रासश्चैव वितर्कश्च
विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदमी भावाः प्रयान्ति रससंस्थितिम् ॥ स्तम्भः स्वे-
दोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विकाः स्मृताः ॥"
अलंकारश्च क्षिप्तो हस्तावलग्न इत्याद्येकैकवाक्यप्रतिपादितशराग्निसापराधकामिवृत्तान्ते-
नार्थश्लेषेणानुग्राह्योपमा । अर्थश्लेषलक्षणम्- "एकार्थवाचकानामेव शब्दानां यत्रानेको-
ऽर्थः सोऽर्थश्लेषः" इति । तेन "यत्रैकमनेकार्थैर्वाक्यं रचितं पदैरनेकस्मिन् । अर्थे कुरुते
निश्चयमर्थश्लेषः स विज्ञेयः ॥" इति भट्टरुद्रटेन यल्लक्षणं कृतं तच्छब्दश्लेषमेव प्राप्नोति ।
अनेकार्थानां हि शब्दानामन्वयव्यतिरेकाभ्यां तस्य प्रवृत्तिनिवृत्ती । यथा - "तवैष वि-
द्रुमच्छायो मरुमार्ग इवाधरः । करोति कस्य नो बाले पिपासाकुलितं मनः ॥" अत्र हि
प्रवालशब्देन श्लेषो न भवति । अभग्नपदो यथा- "तव तन्वि कुचावेतौ भूधराविव रा-
जतः । अन्योन्यमण्डलाक्रान्तौ संधिहीनौ करार्थिनौ ॥" अत्रापि परिणाहान्तरहस्त-
शब्दैः श्लेषो न भवति । अर्थश्लेषे तु क्षिप्तो हस्तावलग्न इत्यादिषु प्रेरितः करव्यतिषक्त
इत्यादिभिः पदैः श्लेषो न निवर्तते । संकरश्चायम् । यदुक्तम् – "मिश्रालंकाराणां तिल-
तण्डुलवच्च दुग्धजलवद्वा । व्यक्ताव्यक्तांशत्वात्संकर उत्पद्यते द्वेधा ॥" अत्रापि वाक्या-
र्थस्यैव प्राधान्यम्, संकीर्णस्य रसादेश्चाङ्गत्वम् । तेन रसवदलंकारस्थितिः पूर्ववदेव । यच्च
प्राग्वीररसस्याङ्गत्वं प्रतिपादितं तद्विप्रलम्भकरुणावेक एव । आर्द्रशब्दो नवोद्भिन्नकिस-
लयादौ प्रसिद्धः । अत्र तु स्वार्थे स्खलद्गतिवादमूर्तस्यापराधस्य नूतनत्वं लक्षयति ।
तेन चातिदुःसहत्वं व्यङ्ग्यम् । अत एवार्द्रापराधः कामी वह्निसमानत्वेन प्रतिपादितः ।
संतापातिशयजनकत्वात् । लक्षणा चेयं वृत्तिः । यदुक्तं काव्यप्रकाशे – "मुख्यार्थबाधे
तद्योगे रूढितोऽथ प्रयोजनात् । अन्योऽर्थो लक्ष्यते यत्सा लक्षणा रोपिता किया ॥"
इयमेव च विदग्धवक्रोक्तिरिति स्पृहणीया कवीनाम् । वाचकलाक्षणिकव्यञ्जकानां श-
ब्दानामभिधा लक्षणा व्यक्तिरिति तिस्रो वृत्तयः । अर्था अपि तावन्त एव वाच्यल-
क्ष्यव्यङ्ग्या इति । आददानोंऽशुकान्तमित्यत्र "आङो दोऽनास्यविहरणे" इत्यात्मनेपदम् ।
तेन व्यादानं मुखप्रसारणे वर्तत इति दोषो नाशङ्कनीयः । गृह्णन्केशेष्वित्यत्र क्रियाया-
स्त्रिपुरयुवतय एव कर्मत्वेनावधार्याः, न तु केशाः । यथा - "गृहीत इव केशेषु-"
इति । आलिङ्गन्योऽवधूत इत्यत्र चरणनिपतितोऽपि दृष्टिमात्रेणापि न संभाव्यते स क-
थमालिङ्गितुमिच्छतीत्यर्थः । कस्यांचित्कृते कृत्वा (?) प्रतिपादितमुन्मादितः कामातुर -
स्तस्यालिङ्गनमुचितमिति समाधानम् । अस्य कवेस्तावदन्यः कोऽपि प्रबन्धो न दृ-
श्यते । तन्नूनमनयोः श्लोकयोः संकीर्णरसोपनिबन्धोऽनेन दर्शितः । अग्रे सर्वत्र शृङ्गा-
ररसस्यैवोपनिबन्धनीयत्वात् । संकीर्णरसोपनिबन्धस्तु निकषो रसकवीनाम् । किं चा-
मीषां, श्लोकानां तावती रसोपकरणसामग्री यावती प्रबन्धेषु भवति । अत एवोक्तं भर-
तटीकाकारैः—"अमरुककवेरेकः श्लोकः प्रबन्धशतायते" इति ॥
आलोलामलकावलीं विलुलितां बिभ्रच्चलत्कुण्डलं
किंचिन्मृष्टविशेषकं तनुतरैः स्वेदा[^१]म्भसः शीकरैः ।
तन्व्या यत्सुरतान्ततान्तनयनं वक्रं रतिव्यत्यये
तत्त्वां पातु चिराय किं ह[^२]रिहरस्कन्दादिभिर्दैवतैः ॥ ३ ॥
तत्कृशाङ्ग्याः पुरुषायितसंभोगमध्ये खेदालसलोचनं मुखं त्वामनेककालं त्रायताम् । किं वैकुण्ठशितिकण्ठषण्मुखप्रमुखैर्नाकिभिः । अपि तु न किमपि । नहि ते रसातिरेकोन्मत्तपुरुषायितसंरब्धविदग्धनितम्बिनीवदनचन्द्रविरहदहनदन्दह्यमानं रक्षितुं क्षमन्ते । एतेनानुरागविह्वला तरुणी तवाभिलाषोचितमानुगुण्येन संपादयत्वित्यर्थः । यदुक्तम्"पातु वो दयितामुखम्" इति सांमुख्ये ।" किं कुर्वाणम् । चञ्चलां चूर्णकुन्तलमालां विलुप्तरचनाविशेषां दधानम् । पुनश्च कीदृशम् । कम्पमानकर्णाभरणम् । भूयः कथंभूतम् । स्तोकोत्पुंसिततिलकम् । कैः । सूक्ष्मसूक्ष्मैः श्रमसात्त्विकसंकीर्णैर्जलबिन्दुभिः । अनुशयाक्षेपोऽलंकारः । "मुखेन्दौ तव सत्यस्मिन्नितरेण किमिन्दुना ।" परमत्र वाक्यार्थस्य न प्राधान्यम् । किं तु रसस्यैव । नापि रसवदलंकारव्यवहारः । अपि तु रसोऽलंकार्यः । अलंकारश्च यथार्थ एव । "नायकस्य संतताभ्यासात्परिश्रममुपलभ्य रागस्य चानुपशममनुमता च तेन तमवपात्य पुरुषायितेन साहायकं दद्यात् ।" इति वात्स्यायनः । अत्र प्रगल्भा नायिका । "यौवनान्धा स्मरोन्मत्ता प्रगल्भा दयिताङ्गके । विलीयमानेवानन्दाद्रतारम्भेऽप्यचेतना ॥" परित्यक्तव्रीडा चेयम् । यदुक्तम् – "एवमन्येऽपि परित्यक्तव्रीडायन्त्रणा वैदग्ध्यप्रागल्भ्यप्रायाः प्रगल्भा व्यवहारा वेदितव्याः ।" संभोगशृङ्गारो रसः । यदुक्तम्– "अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स संभोगो मुदान्वितः ॥" शृङ्गारस्य सामान्यलक्षणमेतत् – "रम्यदेशकलाकालवेषभोगादिसेवनैः । प्रमोदात्मा रतिः सैव यूनोरन्योन्यरक्तयोः ॥ प्रकृष्यमाणः शृङ्गारो मधुराङ्गविचेष्टितैः । अयोगो विप्रयोगश्च संयोगश्चेति स त्रिधा ॥" रसस्यैवाथ सामान्यलक्षणमेतत् - "विभा
[^१.] "स्वेदाम्भसां जालकैः" इति शृङ्गारदीपिका. [^२.] "हरिहरब्रह्मादिभिर्दैवतैः" इति शृङ्गारदीपिका. वैरनुभावैश्च सात्त्विकैर्व्यभिचारिभिः । आनीयमानः स्वाद्यत्वं स्थायिभावो रसः स्मृतः॥" स च व्यङ्ग्यव्यञ्जकभावेन भाव्यभावकभेदेन वा चर्व्यमाणात्मकोऽसंलक्ष्यक्रमध्वनिसंज्ञितः। यदुक्तं ध्वनिकृता—"यत्रार्थः शब्दो वा तमर्थमुपसर्जनीकृतस्वार्थौ । व्यङ्क्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥" अस्ति ध्वनिः । स चाविवक्षितवाच्यो विवक्षितान्यपरवाच्यश्चेति द्विविधः । "अर्थान्तरे संक्रमितमत्यन्तं वा तिरस्कृतम् । अविवक्षितवाच्यस्य ध्वनेर्वाच्यं द्विधा मतम् ॥ असंलक्ष्यक्रमद्योत्यः क्रमेण द्योतितोऽपरः । विवक्षिताभिधेयस्य ध्वनेरात्मा द्विधा मतः ॥ रसभावतदाभासभावशान्त्यादिरक्रमः । ध्वनेरात्माङ्गिभावेन भासमानो व्यवस्थितः ॥ [क[^१]मेण परिपाट्या यः स्वानुस्वानाभसंनिभः । शब्दार्थशक्तिमूलत्वाद्द्विधा सोऽपि व्यवस्थितः ॥" यदाह भरतः -"बहवोऽर्था विभाव्यन्ते वागर्थाभिनयाश्रयाः । अनेन यस्मात्तेनायं विभाव इति संस्मृतः ॥ वागङ्गसत्त्वाभिनयैरस्मादर्थो विभाव्यते। वागङ्गोपाङ्गसंयुक्तः सोऽनुभाव इति स्मृतः ॥" विविधमाभिमुख्येन रसं चरन्तीति व्यभिचारिणः । विभावैर्ललनोद्यानादिभिरालम्बनोद्दीपनकारणैः स्थायी रत्यादिको भावो जनितोऽनुभावैः कटाक्षभ्रूभुजाक्षेपादिभिः सहकारिभिरुपचितो रसः । यदाह भरतः - "सर्वथा नास्त्येव हृदयहारिणः काव्यस्य स प्रकारो यत्र प्रतीयमानमर्थसंस्पर्शनसौभाग्यं तदिदं काव्यरहस्यं परम्" इति ॥]
परपुरुषप्रथमानुरागिणीं कामपि नायिकां रहः सहचरी प्राह
अलसवलितैः प्रेमार्द्रार्द्रैर्मुहुर्मुकुलीकृतैः
क्षणमभिमुखैर्लज्जालोलैर्निमेषपराङ्मुखैः ।
हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः
कथय सुकृती कोऽयं मुग्धे त्वयाद्य विलोक्यते ॥ ४ ॥
हे मुग्धे, कथय क एष पुण्यराशिर्भवत्या वीक्ष्यते । कदा । अद्य । कोऽभिप्रायः । अद्यप्राक्कोऽप्येवं त्वया नावलोकित इति । कैः । ईक्षणैः । भावभेदाद्बहुवचनम् । किं कुर्वद्भिरिव । उद्भिरद्भिरिव । किं तत् । हृदयनिहितं भावाकूतमभिलाषोचितं संकल्पविशेषम् । वयःसंधौ हि नायिकाश्चिरसंचितं लज्जासंवृतं बहुतरमभिलाषं हृदये धारयन्ति । यश्च येनाध्मातो भवति स तमुद्गिरतीति युक्तमेव । पुनः किंविशिष्टैः । अलसवलितैरसौष्ठवतिरश्चीनैः । मन्थरतिर्यग्भूतैरिति भावः । यथा कश्चित्केनापि लोभेन स्थानमत्यक्तुकाम इतरेण कार्यवशाद्बलात्कारेण प्रेर्य उत्थाप्यते न च प्राञ्जलो गच्छति तथेक्षणान्यपि हि स्फारोत्फुल्लानि भूत्वा प्रियदर्शनरसपानोद्युक्तानि साध्वसेन प्रसह्य साचीक्रियन्ते । पुनः किंभूतैः । प्रेमार्द्रार्द्रैः प्रीतिस्निग्धस्निग्धैः। यदाह भगवान्भरतः स्थायिभावदृष्टीनामुपक्रमे – "व्याकोशा स्नेहमधुरा स्मितपूर्वाभिभाषिणी । अपाङ्गभ्रूकृता दृष्टिः स्निग्धेयं रतिभावजा ॥" पुनः कीदृशैः । मुहुर्मुकुलीकृतैर्दर्शनसुखविशेषानुभवेन वारंवारमर्धनिमीलितैः । यथा क
[^१.] कोष्टकान्तःस्थितः पाठः पुस्तकान्तरे नास्ति.
श्चिदभिलषितं वस्तु चिरप्राप्यमास्वाद्य नितान्तसौहित्येन मान्द्यमाप्नोति । न तु निमीलि-
तैरेव । निमेषपराङ्मुखैरित्यत्रानुपपद्यमानत्वात् । पुनस्तर्षातिरेकेण क्षणमभिमुखैः । न तु
चिरम् । यतस्त्रपातरलैः। कोऽभिप्रायः । आभिमुख्ये प्रियस्यानुरागरूपचेष्टाविशेषात् (षं)
किंचिदुपलभ्य लज्जालोलानि जातानीत्युभयानुरागः । नहि निरनुरागे पुंसि नायिकानां
दृष्टयो लज्जामनुभवन्ति । पुनः किंभूतैः । दर्शनरसान्तरायकातर्येण निमेषपराङ्मुखैः ।
अनुभवैकवेद्याश्चैवंविधा दृष्टयः । यथास्मत्पूर्वजरूपवर्णने नाचिराजस्य - "सत्रासा इव
सालसा इव लसद्गर्वा इवार्द्रा इव व्याजिह्मा इव लज्जिता इव परिभ्रान्ता इवार्ता इव । त्वद्रूपे
निपतन्ति कुत्र न जगद्देवप्रभो सुभ्रुवां वातावर्तननर्तितोत्पलदलद्रोणि द्रुहो दृष्टयः ॥"
त्वयेति पदं न युष्मदर्थमात्रम् । किं त्वर्थान्तरसंक्रमितवाच्यम् । क एवंविधः पुण्यराशिर-
स्ति यस्त्वया जगदेकस्पृहणीयसौन्दर्यसंपदानेकाभ्युपायेनाशक्यापहारचित्तत्वान्निर्विकार-
या सस्पृहमवलोक्यते । अत एव सुकृतीति । मुग्धे इति पदस्य पुनरयमभिप्रायः – यदित्थं
मुग्धा त्वं यदेवमभिमतं जनं स्वच्छन्दमवलोकयसि । एवं हि लोकैः सूक्ष्मेङ्गितज्ञैरुपल-
क्षिष्यसे । तस्मात्प्रच्छन्नमास्व अहमेव ते समीहितं संपादयिष्यामीति । अत्र कविनि-
बद्धवक्तृप्रौढोक्तिनिष्पन्नोऽर्थशक्तिव्यङ्ग्यः । यदेनमेवमवलोकयसि तत्त्वमस्मिन्ननुरक्तेत्यनु-
मानालंकारः प्रथमानुरागदर्शनात्मकसंभोगशृङ्गारस्याङ्गम् । यदुक्तम् – "अर्थशक्तेरलं-
कारो यत्राप्यन्यः प्रकाशते । अनुमानोपमाव्यङ्ग्यः स प्रकारोऽपरो ध्वनेः ॥ ध्वन्यात्म-
भूते शृङ्गारे समीक्ष्य विनिवेशितः । रूपकादिरलंकारवर्गो याति यथार्थताम् ॥" यथा -
"लावण्यकान्तिपरिपूरितदिङ्मुखेऽस्मिन्स्मेरेऽधुना तव मुखे तरलायताक्षि । क्षोभं यदेति
न मनागपि तेन मन्ये सुव्यक्तमेव जडराशिरयं पयोधिः ॥" अत्र मुखं चन्द्र एवेति
रूपकम् । अनुमानस्योदाहरणं चैतत् - "वचनमुपचारगर्भं दूरादुद्गमनमासनं सकलम् ।
इदमद्य मयि यथा ते तथासि नूनं प्रिये कुपिता ॥" परमेष वाच्योऽलंकारः । अत
एवोक्तम्- "शरीरकरणं येषां वाच्यत्वेन व्यवस्थितम् । तेऽलंकाराः परां छायां यान्ति
ध्वन्यङ्गतां गताः ॥" नाट्यालंकारस्तु हावो नाम । "हेवाकस्तु सशृङ्गारो भावो-
ऽक्षिभ्रूविलासकृत् ।" इयं स्वस्त्री न भवति । नाप्यनुरक्तः पुरुषो वक्ता । कोऽयं सुकृती-
त्यनुपपद्यमानत्वात् । दूती चात्र निसृष्टार्था । यदुक्तम् – "निसृष्टार्था परिमितार्था पत्त्र-
हारिणी स्वयंदूती भार्यादूती मूकदूती बालदूती चेति दूतीविशेषाः । नायकस्य नायि-
कायाश्च यथामनीषितमर्थमुपलभ्य स्वबुद्ध्या कार्यसंपादिनी निसृष्टार्था । सा प्रायेण सं-
स्तुतभाषणयोर्नायकनायिनाकयोरप्रयुक्ता । संस्तुतसंभाषणयोरपि कौतुकादनुरूपाविमौ
युक्तौ परस्परस्येति" । प्रथमानुरागलक्षणं चैतत् - "तत्संमुखी तं न वीक्षते । प्रेक्षिता
व्रीडां दर्शयेत् । रुच्यमात्मनोऽङ्गमन्यापदेशेन प्रकाशयति । प्रमत्तं प्रच्छन्नं नायकम-
तिक्रान्तं च वीक्षते । पृष्टा च किंचित्सस्मितमव्यक्ताक्षरमनवसितार्थं मन्दम-
न्यतोमुखी कथयति । तत्समीपे चिरं स्थानमभिनन्दति । दूरे स्थिता पश्यतु
मामिति मन्यमाना परिजनं समुखविकारमाभाषते । तं च देशं न मुञ्चति । य-
त्किंचिद्दृष्ट्वा विहसितं करोति । तत्र कथामवस्थानार्थमनुबध्नाति । बालस्याङ्कगतस्य चु-
म्बनमालिङ्गनं च करोति । परिचारिकायास्तिलकं च रचयति । परिजनानवष्टभ्य ता-
स्ताश्च लीला दर्शयति । तन्मित्रेषु विश्वसिति । वचनं तेषां बहुमन्यते करोति च । त-
त्परिचारकैः सह प्रीतिं संकथां द्यूतं चारभते । स्वकर्मसु चैतान्प्रभविष्णुरिव नियुङ्क्ते ।
तेषु च नायकसंकथामन्यस्य कथयत्स्ववहिता तां शृणोति । धात्रेयिकया प्रोत्साहिता
नायकस्योदवसितं प्रविशति । तामन्तरा कृत्वा तेन सह द्यूतं क्रीडामालापं चायोजयितु-
मिच्छति । अनलंकृता दर्शनपथं परिहरति । कर्णपत्त्रमङ्गुलीयकं स्रजं वा तेन याचिता
स धीरमिव गात्रादवतार्य सख्या हस्ते ददाति । तेन च दत्तं नित्यं धारयति । अन्यव-
रसंकथासु विषण्णा भवति । तद्विपक्षैश्च सह न संसृज्यत इति । "दृष्ट्वैतान्भावसंयुक्ताना-
कारानिङ्गितानि च । कन्यायाः संप्रयोगार्थं तांस्तान्योगान्विचिन्तयेत् ॥" सा च
मुग्धा नायिका । "मुग्धा नववयःकामा रतौ वामा मृदुः क्रुधि ।" यथा - "दृष्टेः साल-
सतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसंभोगवार्तास्वपि ।
पुंसामङ्कमपेतशङ्कमधुना नारोहति प्राग्यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना
शनैः ॥" "नर्मस्फोटस्तु भावानां सूचिताल्परसो लवैः" इत्यनेन नर्मस्फोटः । यथा माल-
तीमाधवे मकरन्देन माधवस्य मालत्यामनुरागो लक्षितः— "गमनमलसं शून्या दृष्टिः शरी-
रमसौष्ठवं श्वसितमधिकं किं त्वेतत्स्यात्किमन्यदितोऽथवा । भ्रमति भुवने कंदर्पाज्ञा वि-
कारि च यौवनं ललितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥" प्रथमानुरागश्वो-
कोऽप्येष क्रमौचित्यात्प्रथमं लिखितः ॥
अङ्गुल्यग्रनखेन बाष्पसलिलं विक्षिप्य विक्षिप्य किं
तूष्णीं रोदिषि कोपने बहुतरं फूत्कृत्य रोदिष्यसि ।
यस्यास्ते पिशुनोपदेशवचनैर्मानेऽतिभूमिं गते
निर्विण्णोऽनुनयं प्रति प्रियतमो मध्यस्थतामेष्यति ॥ ५ ॥
कुपितनायिकाप्रसादने साम दानं भेदः प्रणतिरुपेक्षा रसान्तरं चेति षडुपायाः । तन्मध्येऽत्र भेद एव । इह हि नायकेनानुप्रविश्य शिक्षिता सखी वक्त्री वक्ष्यमाणप्रकारेण मानत्याजनाय नायिकां भीषयति । हे कोपने ईर्ष्यावति, अङ्गुल्यग्रनखेन बाष्पसलिलमपनीयापनीय लाघवलज्जातिशयेन मानाध्मातहृदया किं कण्ठार्धनिरुद्धगद्गदं रोदिषि। किंशब्दोऽल्पार्थः । न तु हेतुप्रेरणार्थः । मानरूपस्य हेतोः स्वयं ज्ञातत्वात् । आत्मीयचरितेन प्रचुरतरमुच्चैःशब्दं रोदिष्यसि । यस्यास्तव परगृहोपप्लावकानां पिशुनानां शिक्षाकर्णजापैर्माने मर्यादामतिक्रान्ते विफलप्रसादनोपायतया निर्वेदं यावत्प्राप्तो बहुमानं प्रति प्रियतम औदासीन्यं गमिष्यति । न त्वन्याङ्गनाम् । यस्मात्त्वं पिशुनोपदेशेषु लग्नासि । तस्यापराधगन्धोऽपि नास्तीति भावः । विक्षिप्य विक्षिप्येति वीप्सया बाष्पनैरन्तर्यमुक्तम् । अत्र प्रियतमोऽथ च निर्विण्ण इति नायिकायाः सविशेषं भयोत्पादनकारणमुक्तम् । न तु निर्वेदो व्यभिचारिभावः । तस्य शृङ्गारे निषिद्धत्वात् । शृङ्गारश्चात्र विप्रलम्भ एव । यदुक्तम् - "विप्रलम्भस्तु विश्लेषो रूढविस्रम्भयोर्द्विधा । मानप्रवासभेदेन मानो हि प्रणयेर्ष्ययोः ॥ तत्र प्रणयमानः स्यात्कोपवश्यतया द्वयोः । स्त्रीणामीर्ष्याकृतो मानः स्यादन्यासङ्गिनि प्रिये ॥ श्रुते चानुमिते दृष्टे श्रुतिस्तत्र सखीमुखात् । उत्स्वप्नायितभोगाङ्कगोत्रस्खलनकल्पितः ॥ त्रिधानुमानिको दृष्टः साक्षादिन्द्रियगोचरः ।" न च निर्विण्णशब्देनैव निर्वेदव्यभिचारभावप्रतीतिः । रसादीनां वाच्यत्वाभावात् । यदुक्तम्– "तथा हि । वाच्यत्वं तस्य शब्दनिवेदितत्वेन वा स्याद्विभावादिप्रतिपादनमुखेन वा । पूर्वस्मिन्पक्षे स्वशब्दनिवेदितत्वाभावे रसादीनामप्रतीतत्वप्रसङ्गः । न च सर्वत्र तेषां स्वशब्दनिवेद्यत्वम् । यत्रापि तदस्ति तत्रापि विशिष्टविभावादिप्रतिपादनमुखेनैषां प्रतीतिः । स्वशब्देन सा केवलमनूद्यते । न तु तत्कृतैव सा । विषयान्तरे तस्या अदर्शनात् । न हि केवलशृङ्गारादिशब्दमात्रभाजि विभावादिप्रतिपादनरहिते काव्ये मनागपि रसवत्त्वप्रतीतिः । केवलं स्वाभिधानमात्रादप्रतीतिः । तस्मादन्वयव्यतिरेकाभ्यामभिधेयसामर्थ्याक्षिप्तत्वमेव रसादीनाम् । न त्वभिधेयत्वं कथंचिदिति । एवंविधस्य रसध्वनेरुपनिबन्धक्षमा अमरुकप्राया एव महाकवयः । यदुक्तमभिनवगुप्तपादैः – "प्रतीयमानानुप्राणितकाव्यनिर्माणनिपुणप्रतिभाभाजनस्यैव महाकविव्यपदेशः । अन्यथा व्युत्पत्त्यभ्यासयोर्मध्ये प्रधानभूतया प्रतिभयापि कविरेवोच्यते । यदुक्तम् – "प्रज्ञा नवनवोल्लेखशालिनी प्रतिभा मता । तदनुप्राणनाजीवद्वर्णनानिपुणः कविः ॥" अलंकारश्चात्राप्यनुमानम् । यदुक्तम् – "यत्र बलीयः कारणमालोक्याभूतमेव भूतमिति । भावीति वा तथान्यत्कथ्येत तदन्यदनुमानम् ॥" यथा – "वहति यथा मलयमरुद्यथा च हरितीभवन्ति विपिनानि । प्रियसखि तथैष न चिरादेष्यति तव वल्लभो नूनम् ॥" परमसौ वाच्यः । वाच्यो व्यङ्ग्योऽप्यलंकारो रसस्याङ्गं भवतीत्याचार्याः । गुणस्तु प्रसाद एव । अत एवात्र यमकादयो निषिद्धाः । "ध्वन्यात्मभूते शृङ्गारे यमकादिनिबन्धनम् । शक्तावपि प्रमादित्वं विप्रलम्भे विशेषतः ॥"
दत्तोऽस्याः प्रणयस्त्वयैव भ[^१]वतैवेयं चिरं लालिता
दैवादद्य किल त्वमेव कृतवानस्या नवं विप्रियम् ।
मन्युर्दुःसह ए[^२]व यात्युपशमं नो सान्त्ववादैः स्फुटं
हे निस्त्रिंश विमुक्तकण्ठकरुणं तावत्सखी रोदितु ॥ ६ ॥
अत्र नायकं प्रति मानिन्याः सखी वक्त्री । त्वयैवास्याः प्रणयो बहुमानो दत्तः । न पुनरियं मुग्धा बहुमानोत्पादनाय प्रत्यभियोक्तुं जानाति । अन्यच्च भवतैवेयं चिरं लालिता । न पुनरनया लालनकारणं किंचिदारब्धम् । अत एव दैवात्, न बुद्धिपूर्वकमद्य पुनस्त्वमस्या नवं व्यलीकं कृतवान् । यः खलु यस्याः स्वयं प्रणयं ददाति, स्वयं च
[^१.] "भवता सेयं" इति शृङ्गारदीपिका. [^२.] "एष" इति शृङ्गारदीपिका. प्रेमातिरेकेण लालयति, न तस्याः प्रतिकूलं बुद्धिपूर्वकमारभते । तत्रापि किलशब्दप्रयोगः । कोऽर्थः । विप्रियं विप्रियमिति श्रूयते न हि भवान्वस्तुतो विप्रियं करोतीति ज्ञातापराधेऽपि नायके नायिकाया धृत्युत्पादनम् । एवं सति मन्युरेव मानजनितो दुःखविशेष एव दुःसहो न सामवादैरुपशमं याति । स्फुटमेतत् । तस्मात् हे निस्त्रिंश निरनुक्रोश, विमुक्त उच्चैःशब्दत्वात्कण्ठो यस्मिन्नसौ विमुक्तकण्ठः स चासौ करुणो यथा भवत्येवं तावत्सखी रोदितु । विमुक्तकण्ठविषये करुणा यत्रेति वा समासः । कोऽभिप्रायः । एवं रोदितुं यदि न प्राप्स्यति तदा मन्युनाध्मातमस्या हृदयं परिपाकोच्छ्वसितबीजविदीर्णदाडिमफलन्यायेन स्फुटिष्यति । तस्मादुच्चैःशब्दं रोदितुं देहि । पश्चाद्यथा जानासि तथा प्रसादय । अथ च यदि रुदित्वा जीवन्ती निर्वक्ष्यति तदा प्रसादनं घटत इत्यसूया । विषमोऽलंकारः । यदुक्तम्- "कार्यस्य कारणस्य च यत्र विरोधः परस्परं गुणयोः । तद्वत्क्रिययोरथवा संजायेतेति तद्विषमम् ।" यथा— "आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥"
वारंवारमनुनीयमानामपि प्रौढेर्ष्यावशादशिथिलमानग्रन्थिं मनस्विनीं प्रति प्रधानसखी प्राह
लिखन्नास्ते भूमिं बहिरवनतः प्राणदयितो
निराहाराः सख्यः सततरुदितोच्छूननयनाः ।
परित्यक्तं सर्वं हसितपठितं पञ्जरशुकै-
स्तवावस्था चेयं विसृज कठिने मानमधुना ॥ ७॥
हे कठिने, बहिः प्राणदयित आस्ते । किं कुर्वन् । शून्यतासूचकचिन्तासंतानसमुचितचेष्टानुभावेनावनतो भूमिं लिखन् । अकृते प्रसादे द्वारं न मुञ्चतीत्यर्थः । तथा च वर्तन्तेऽनशनाः सख्यः । पुनः कीदृश्यः । निरन्तरबाष्पेणोच्छूने लोकोक्त्या उच्छ्वसिते नयने यासां ताः सततरुदितोच्छूननयनाः । अत्र नायिकाया अमङ्गलचिन्तनमेव हेतुः । किं च, पञ्जरशुकैरपि हसितपठितं परित्यक्तम् । तथापि तवावस्था चेयम् । निरुद्धबाष्पारुणितनेत्राध्मायमाननिःश्वासकदर्थ्यमानाधरस्फुरणादिमन्युचेष्टाभिरधृष्या तथैव तिष्ठसीत्यर्थः । तस्मान्मानं परित्यज । कदा । अधुनापि । अपिशब्दोऽध्याहार्यः । एतावतीमपि दशां दुर्जनोपहसनीयां प्राप्ता मानं न मुञ्चसीति प्रतीयमानत्वात् । यस्याः कृते सख्योऽपि पञ्जरशुका अथाहारं हसितपठितं च परित्यजन्ति सा त्वं कथमिव प्रियाय न प्रतिभाषसे । प्रियोऽपि यस्यास्तव प्राणदयितस्तदलमतिमानेनेति भावार्थः । अत एव कठिने इति संबोधनम् । अत्रार्थशक्त्युद्भवः सहोक्तिरलंकारः । नायिकायामाहारादिकं कुर्वत्यां सर्वेऽपि कुर्वन्ति, निवर्तमानायां च निवर्तन्त इति प्रतीतेः । सुप्तिङ्व्यङ्ग्यमात्रं चात्र कर्मलकाराभ्यामेवोद्भासितम् । अत्र न लिखतीति, अपि तु लिखन्निति प्रसादनपर्यन्तम् । आस्ते इति, न त्वासित इति । भूमिमिति, न भूमाविति । नहि बुद्धिपूर्वकं किंचिल्लिखतीति तिङ्सुब्विभक्तीनां व्यङ्ग्यम् । हसितपठितमित्यत्र "सर्वो हि द्वन्द्वो विभाषैकवद्भवति" इत्येकवचनम् । अत्र श्लोके त्वया तस्यापराधः सोढव्य इति क्वापि नोक्तम् । एतच्च वक्तुः कौशलम् । अपराधस्मारणे हि मानिनी प्रतिनायिकां स्मरति । ततश्चाधिकं कुप्यति । न चैवंविधः प्रसाधननिर्बन्धः पूर्वमस्यां केवलेन दाक्षिण्येन, अपि तु लोकोत्तरेण प्रेम्णा च । उक्तम् – "अ[^१]क्खडइ पिआ हिअए अण्णं महिलाअणं रमन्तस्स । दिट्ठे सरिसम्मि गुणेऽसरिसम्मि गुणे अईसन्ते ॥"
अनेकनायिकाकमनीयनायकव्यलीकविलीयमानविलासां वरवर्णिनीं विदग्धवयस्या वक्ति
नार्यो मुग्धशठा हरन्ति रमणं तिष्ठन्ति नो वारिता-
स्तत्किं ताम्यसि किं च रोदिषि मुधा तासां प्रियं मा कृथाः ।
कान्तः केलिरुचिर्युवा सहृदयंस्तादृक्पतिः कातरे
किं नो बर्बरकर्कशैः प्रियशतैराक्रम्य विक्रीयते ॥ ८ ॥
अङ्गनास्तावद्बहिर्मुग्धा अन्तःशठास्तव रमणमपहरन्ति । निषिद्धा अपि न निवर्तन्ते । तत्किमिति मुधा ताम्यसि कस्माच्च रोदिषि । उभयमपि व्यर्थमित्यर्थः । एवं हि तासामभीप्सितं भवति । अत एव तासां प्रियं मा कृथा इति । तर्हि किं समयोचितमित्याह — कान्त इत्यादि । हे कातरे, किं न विक्रीयते । लक्षणया अनन्याधीनः किं न क्रियते । अनन्याधीनं हि वस्तु विक्रेतुं याति । कोऽसौ । पतिः । किंविशिष्टः । कान्तः सुन्दरः । क्रीडारसिकः । तरुणः सहृदयस्तादृगनिर्वचनीयचेतनः । किं कृत्वा । आक्रम्य । मुग्धशठाभ्य एव नायिकाभ्य आच्छिद्येत्यर्थः । कैः । प्रियशतैः । किंविशिष्टैः । ब[^२]र्बरकर्कशैः सोल्लुण्ठनर्मनिरनुक्रोशैः । यदुक्तं गोवर्धनाचार्येण – "अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः । इतरेन्धनजन्मा यो धूमः सोऽगुरुसमुद्भवो धूपः ॥" अत एव केलिरुचिर्न चासंभावितो वश्यतां याति । यतस्तादृक्सहृदयः । "दक्षिणोऽस्यां सहृदयः" । अपमानितश्च नार्या विरज्यते । स पुनरुत्कृष्ट इति मया स्वयं मानमुत्सृज्य संगमयितुं कथं युज्यते पतिरिति लाघवलज्जाभीरुत्वेन कातरे इति संबोधनम् । प्रशंसामनोज्ञानुनयप्रवर्तिका चेयमुक्तिः । यः कान्त इत्यादि गुणस्पृहणीयो वारिताभिरप्यङ्गनाभिरपह्रियते स त्वयापराधोचितनिग्रहस्थानीयेन बर्बरकार्कश्येन विक्रेयकोटिमानीयते । तस्माद्युवतिषु धन्या त्वमिति प्रतीयमानत्वात्परिवृत्तिरलंकारः । बर्बरकर्कशं दत्त्वा पतिरपह्रियतामिति पर्यवसितत्वात् । यदुक्तम् – "युगपद्दानादाने अन्योन्यं वस्तुनोः क्रियेते
[^१.] "आस्खलति प्रिया हृदये अन्यं महिलाजनं रममाणस्य । दृष्टे सदृशे गुणे असदृशे गुणे अदृश्यमाने ॥" इति गाथासप्तशतीटीकायां (१९४४) छाया. [^२.] "बर्बरकर्कशैः परुषकठिनैः" इति शृङ्गारदीपिका. यत् । क्वचिदुपचर्येते वा प्रसिद्धितः सेति परिवृत्तिः ॥" यथा - "दत्त्वा दर्शनमेते मत्प्राणा वरतनु त्वया क्रीताः । किं त्वपहरसि मनो यद्ददासि रणरणकमेतदसत् ॥"
कोपात्कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढं
नीत्वा वा[^१]सनिकेतनं दयितया सा[^२]यं सखीनां पुरः ।
भूयोऽप्येवमिति स्खलन्मृदुगिरा संसूच्य दुश्चेष्टितं
धन्यो हन्यत एव निह्नुतिपरः प्रेयान्रुदत्या हसन् ॥ ९ ॥
हन्यते क्रीडाकमलादिना ताड्यते । कोऽसौ । प्रेयान् । कीदृशः । धन्य एव । कया ।
दयितया । किं कुर्वत्या । रुदत्या । किं कुर्वन् । निह्नुतिपरो हसन् । नाहं तत्र गत इत्या-
दिवचनेन मानोपशमं लक्षयित्वा स्मयमानः । किं कृत्वा हन्यते । वासनिकेतनं नीत्वा ।
वासनिकेतनमेव किं कृत्वा नीतः। कोपात्कोमललोलबाहुलतिकापाशेन बद्ध्वा दृढम् । बा-
हुलतिकाया लोलत्वं सात्त्विको भावः । लतिकेत्यनेन दुःसहविरहक्लेशकार्श्यम् । अत
एव बन्धनव्याजादौत्सुक्येन स्वयंग्रहाश्लेषः । क्व । पुरः । कासाम् । सखीनाम् । कदा ।
सायम् । यदि मानमेव धृत्वाद्यतनीमपि रात्रिं प्रतिपालयिष्यामि तदा मा कदाचिदल-
(य) मन्यत्र वर्त्स्यतीत्यौत्सुक्यप्रतिपादकः सायंशब्दप्रयोगः । अत एव लज्जापरित्याग-
द्योतकं सखीनां पुरः इत्युक्तम् । पुनः किं कृत्वा । व्यलीकं संसूच्य । कथमिति । भूयो-
ऽप्येवमिति । अर्थादिदानींतनोऽपराधः सोढ इति लभ्यते । भूयोऽप्येवं करिष्यसीति
वाच्ये यदर्धोक्तं तत्र रोषसात्त्विकसंकीर्णसंभ्रमहेतुको वाक्स्तम्भः कारणम् । अत
एव स्खलन्मृदुगिरा । अहो अन्यदेव किमपि दयितायाः प्रभुत्वं यत्समकालमेव निग्रह-
प्रसादौ । नहि बाहुलतिकाबन्धनं विहाय कश्चिदन्यः प्रसादोऽस्ति । अत्र कविर्वक्ता ।
ईर्ष्यामानात्मकविप्रलम्भारम्भः संभोगशृङ्गारपर्यवसितो रसः । अत्रालंकारो रसनिर्वाहणै -
कतानहृदयेन कविनात्यन्तं न निर्वाहं नीतः । यदाह ध्वनिकारः–"अत्र हि बाहुलतापा-
शेनेति रूपकमाक्षिप्तमनिर्व्यूढं च परं रसपुष्टये ।" अधीरा प्रगल्भा नायिका ॥
कश्चिद्देशान्तरगमनोपक्रमं विहाय यथापूर्वमवस्थितः केनचिदगमनकारणं पृष्टः प्राह
याताः किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मत्कृते
नो कार्या नितरां कृशासि कथयत्येवं सबाष्पे मयि ।
लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा
दृष्ट्वा मां हसितेन भाविमरणोत्साहस्तया सूचितः ॥ १० ॥
भाविन्यावश्यके । निःसंदेह इति यावत् । मरणे उत्साहस्तया सूचितः । केन । हसितेन । अर्थाद्वैलक्ष्यजन्मना । किं कृत्वा । मां दृष्ट्वा । केन । चक्षुषा । न तु चक्षुर्भ्याम् ।
[^१.] "मोहनमन्दिरं" इति शृङ्गारदीपिका. [^२.] "स्वैरं" इति शृङ्गारदीपिका. एष निर्दयहृदयो मामेवंविधां विहाय जिगमिषतीत्यसूयाजन्यावधीरणव्यञ्जकमत्रैकवचनमिति वचनध्वनिः । किंविशिष्टेन लज्जामन्थरतारकेण । अत्र मां त्यक्त्वा देशान्तरमसौ याति तदलमनुपादेयया मयेति लघुत्वसंभावनजन्या लज्जा । पुनः किंविशिष्टेन । निपतत्पीताश्रुणा निपतत्सत् पीतमपह्नुतमश्रु येन । प्राणैर्हि दुःखनिस्तारकामो न बाष्पमुत्सृजति । क्व सति । मयि सबाष्पे एवं कथयति सति । एवं किम् । हे सुन्दरि, याताः सन्तो भूयः किं न मिलन्ति । अपि तु मिलन्ति । तस्मात्त्वया मत्कृते चिन्ता न कार्या । यतो नितरां कृशासि । नह्येवंविधे कार्श्ये सचिन्तया वर्तितुं शक्यते । कार्श्यं तत्कालमापृच्छमानप्राणेश्वरविरहसंभावनासंभवमेव । प्रिये सबाष्पे स्वयं निपतत्पीताश्रुणा चक्षुषेत्यबाष्पा यदनुवृत्तिं परिजहार तत्र "त्यक्तश्चात्मा का च लोकानुवृत्तिः" इति न्यायेन प्राणनिरपेक्षतैव कारणम् । अथवा अमङ्गलसूचनमश्रु प्रस्थानकाले न प्रकाश्यत इति प्रीत्यतिशयः । यथा – "अद्यापि तन्मनसि संप्रतिवर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । जीवेति मङ्गलवचः परिहृत्य कोपात्कर्णे कृतं कनकपत्त्रमनालपन्त्या ॥" भविष्यत्प्रवासात्मको विप्रलम्भः । उत्तरालंकारः । यदुक्तम्- "उत्तरवचनश्रवणादुन्नयनं यत्र पूर्ववचनानाम् । क्रियते तदुत्तरं स्यात्प्रश्नादप्युत्तरं यत्र ॥" उपायाक्षेपश्च । यदुक्तम् – "दुष्करं जीवितोपायमुपन्यस्योपरुध्यते । पत्युः प्रस्थानमित्याहुरुपायाक्षेपमीदृशम् ॥"
सखीभिर्मानं शिक्षितापि कृतप्रियसंगमा काचिन्नायिका ताः प्रति प्राह
तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयो -
स्त[^१]स्यालापकुतूहलाकुलतरे श्रोत्रे निरुद्धे मया ।
पाणिभ्यां च तिरस्कृतः सपुलकः खेदोद्गमो गण्डयोः
सख्यः किं करवाणि यान्ति शतधा य[^२]त्कञ्चुके संधयः ॥ ११ ॥
हे सख्यः, किं करवाणि । अपि तु न किमपि । क्वविषये, यत्कञ्चुके संधयः शतधा यान्ति । दलन्तीत्यर्थः । यतो मानाभिव्यक्तये किं किं न मया कृतमित्याह - तस्य प्रियस्य वक्त्राभिमुखं सत्स्वमुखं विनमितं नम्रीकृतम् । दृष्टि: स्वपादयोर्न्यस्ता । अत्र तद्वक्त्राभिमुखं मुखं विनमितं दृष्टिः कृता पादयोरिति वाक्यद्वयेनापि दिदृक्षारसस्यैव निषेधो बोद्धव्यः । अभिमुखमुखतया तद्दर्शनाभिलाषिणी दृष्टिर्निवारितेत्यर्थः । न तु प्रथमवाक्ये विवक्षारसनिषेधः शङ्कनीयः । द्वितीयवाक्ये तद्दर्शनोत्सुका दृष्टिः कृता पादयोरिति तच्छब्दसहितपदस्यान्वेषणीयत्वात् तृतीयवाक्ये विवक्षारससूचकचिह्नतिरस्काराच्च । यद्वा मुखविनमनेनैव दृष्टेः पादगमने सिद्धे दृष्टिः कृता पादयोरिति यदुक्तं तेन प्रेयानपाङ्गेनापि नावलोकित इत्यर्थः । पादयोरित्यत्र संबन्धपदाभावेन सखीषु वचनच्छलं व्यज्यते । तत्पादयोर्दृष्टिः कृतेत्यत्रापि प्रतीतिसंभवात् । न केवलमेतदेव कृतम्, तद्वच
[^१.] "तत्सल्लाप" इति शृङ्गारदीपिका. [^२.] मत्कञ्चुलीसंधयः' इति शृङ्गारदीपिका. नश्रवणकौतुकचपले श्रोत्रे च कर्णकण्डूयनव्यपदेशेनाकुञ्चिते । अपरं च स्वविवक्षारससूचकः कपोलयोः सरोमाञ्चः स्वेदोद्गमो हस्ताभ्यामाच्छादितः । अत्रेदं प्रकर्षेण (?) प्रियविषये प्रीतिप्रकर्षे एव। मानाय नायिकया प्रयत्ने क्रियमाणेऽप्यवयवानां प्रियसंगमोत्सुकत्वात् । अत्राप्युत्तर एवालंकारः । यथा – "भण मानमन्यथा मे मौनं भ्रुकुटिं विधातुमहमसहा । शक्नोमि तस्य पुरतः सखि न खलु पराङ्मुखी भवितुम् ॥" यत्नाक्षेपश्च । यदुक्तम् – "यत्नाक्षेपः स यत्नस्य कृतस्यानिष्टवस्तुनि । विपरीतफलोत्पत्तेरानर्थक्योपदर्शनात् ॥" यथा -– "गच्छेति वक्तुमिच्छामि त्वप्रियं मत्प्रियैषिणी । निर्गच्छति मुखाद्वाणी मा गा इति करोमि किम् ॥"
प्रहरविरतौ मध्ये वाह्नस्ततोऽपि प[^१]रेण वा
किमुत सकले याते वाह्नि प्रिय त्वमिहैष्यसि ।
इति दिनशतप्राप्यं देशं प्रियस्य यियासतो
हरति गमनं बालाला[^२]पैः सबाष्पगलज्जलैः ॥ १२ ॥
वासरशतप्राप्यं देशं प्रियस्य जिगमिषोः प्रस्थानं मुग्धा निषेधति । कैः । अश्रुगलज्जलै-
रालापैः । कथम् । इत्यमुना प्रकारेण । हे प्रिय, प्रथमप्रहरावसाने त्वमिहागमिष्यसि ।
अथवा मध्याह्ने । उत स्वित्तस्मादपि परेण । तृतीयप्रहरेणेत्यर्थः । अत्र "विवक्षातः का-
रकाणि भवन्ति" इति करणे तृतीया । यथा – "समेन धावति", "विषमेण धावति" इत्यादौ ।
अपिशब्दस्यायमभिप्रायः - हे निष्करुण, मध्याह्नादप्यनन्तरं बहिः स्थातुं न युज्यत
इति । अत्र सप्तम्यन्तानां पदानामन्तरेऽस्य पदस्य तृतीयान्तत्वेनोपक्रमभङ्गो न दोष
एव । अर्थस्यान्यथा प्रतीतेः । पददोष एवास्य रसकवेः क्वाप्यस्तु । यदुक्तमुपाध्यायेन-
"पदविह्वलता क्वापि स्पृहणीया भवति रसकवीन्द्राणाम् । घनजघनस्तनमण्डलभारालस-
कामिनीनां च ॥" अनेनापि प्रश्नेन यदा नायकोऽनभ्युपगमनसूचकं मौनमेव जग्राह,
तदा नायिका पुनराह – अनन्तरमाहोस्वित्सर्वस्मिन्नेव दिनेऽतिक्रान्ते । अत्र मौग्ध्येन
नर्मस्पर्शिन्यां विरहासहिष्णुतायां तात्पर्यम् । अत एव रात्रौ व्यतीतायामुदिते स्विदा
गमिष्यतीति प्रयोगो न कृतः । विरहासहिष्णुतात्मकविप्रलम्भरसोत्कर्षहेतुर्जाति-
रलंकारः ॥
धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छासमुदश्रुणा विरहिणीं बालां चिरं ध्यायता ।
[^१.] "परेऽथवा" इति शृङ्गारदीपिका. [^२.] "वाक्यैः सबाष्पझलज्झलैः" इति शृङ्गारदी-
पिकासंमतः पाठः. "सबाष्पाणि च तानि झलज्झलानि च तैः । सबाष्पगद्गदैरित्यर्थः ।"
इति तद्व्याख्यानम्.
अध्वन्येन विमुक्तकण्ठमखिलां रात्रिं तथा क्रन्दितं
ग्रामीणैः पुनरध्वगस्य वसतिग्रमे निषिद्धा यथा ॥ १३ ॥
अर्धरात्रे निर्भरमम्भोधरस्य वर्षतः स्तनितमाकर्ण्य दीर्घोत्कटश्वासमुत्कटबाष्पाम्बुना विरहिणीं मुग्धां विरहातिवाहनोपायेष्वनभिज्ञतया शङ्कनीयां गद्गदलोलमनिशं तदेकतानेन स्मरता पथिकेन समस्तामपि रात्रिमसंकोचितकण्ठस्वरं तथा रुदितं यथा ग्रामनिवासिभिर्भूयः पान्थस्य वासो ग्रामे निवारित इति । यदि मार्गो वहति तदा प्रचलति । यदि च लोको जाग्रद्भवति तदा वाङ्मिश्रणेनापि कियतीमपि विरहव्यथामतिवाहयति । निशीथे उभयस्याप्यभावादप्रतिविधानस्तपस्वी पान्थः शब्दान्तराभावात्केवलं नीरदनिनादमेव दुःश्रवं श्रुत्वा मुक्तश्वासोऽनुद्यमद्योतकमश्रुपातं विधाय क्रन्दितुमेवारब्धवान् । मेघवृष्टिर्दृष्टिप्रतिबन्धको बाष्पयोगश्चेत्यपरं गमननिरोधे कारणद्वयम् । वारिधरस्य, न तु वारिमुचः । वारिमुच इत्यनेन हि पदेन क्रमात्सलिलक्षयोऽपि संभाव्यते । न तु वारिधरस्येत्यनेन । अत एव सान्द्रसलिलसंपदाध्माततया धीरं वारि किरत इति । बालां पूर्वाननुभूतविरहव्यथाम् । अखिलत्वं क्रन्दनविषयायाः पश्चिमाया एव रात्रेः । न तु सकलरात्र्यभिप्रायेण । अर्धरात्र एव मेघध्वनेः श्रुतत्वात् । ग्रामीणाः प्रायो नायिकानुराग विदग्धवक्रोक्तिविरहवेदनानर्मभङ्गिष्वनभिज्ञा भवन्ति । परं तैरप्यध्वगस्य वसतिर्ग्रामे निषिद्धा । "ग्रामाद्यखञौ" । "आयनेयीनीयियः फडखछघां प्रत्ययादीनाम्" इति खस्थाने ईनादेशः । प्रवासात्मको विप्रलम्भः । कविर्वक्ता । अत्र न तथालंकारः कश्चिदुद्भावनायामवतरति । अस्मिन्काव्ये तथाविधा अलंकाराः प्रायशो न दृश्यन्ते । प्राणात्मकेन रसेनैव चमत्कारः परां कोटिमधिरोहति । यदुक्तमुपाध्यायेन - "स्वभावरमणीयानां पदार्थानामलंक्रिया । प्रत्युताच्छादकत्वेन न प्रकर्षाय जायते ॥"
कश्चित्तत्कालमागतो मानिनीं प्रत्याह
कृतो दूरादेव स्मितमधुरमभ्युद्गमविधिः
शिरस्याज्ञा न्यस्ता प्र[^१]तिवचनवत्यानतिमति ।
न दृ[^२]ष्टेः शैथिल्यं मिलन इति चेतो दहति मे
निगूढान्तः कोपा[^३] कठिनहृदये संवृतिरियम् ॥ १४ ॥
हे कठिनहृदये, इयं निगूढान्तःकोपा तवाकारगुप्तिर्मम चेतो दहति । कथं संवृतिः । इत्यमुना प्रकारेण । प्राय ईर्ष्यास्मितेनापि यन्माधुर्यं तत्किमपि नायिकाया रामणीयकं द्योतयति । अभ्युद्गमविधिरित्यत्र विधिशब्दस्यायमभिप्रायः - षडर्घ्या भवन्ति । आचार्यो ऋ
[^१.] "प्रतिवचनमप्यालपसि च" इति शृङ्गारदीपिका. [^२.] "दृष्टिः शैथिल्यं भजत इति" इति शृङ्गारदीपिका. [^३.] "कोपे" इति शृङ्गारदीपिका. त्विग्विवाह्यो राजा प्रियः स्नातक इति । श्रौताचारवतामागमनोचितमेतत् । न पुनः प्रणयोचितम् । शिरस्याज्ञा न्यस्ता, न तु हृदये । सापि पाषाणभारवदतिदुर्वहा । अतिदुर्वहं वस्तु मस्तके धार्यते । अत एवानतिमतीति शिरोविशेषणम् । मिलने दृष्टेर्न शैथिल्यम् । मनसो मिलने तु शैथिल्यमेव । अथ च दृष्टेः शैथिल्यं न । अमुना प्रकारेण त्वया दूरादेव स्मितमधुरं यथा भवत्येवमभ्युत्थानं कृतम् । इदं क्रियतामित्यादिकार्यनियोग आज्ञा । सापि प्रियवचनवती मे आनम्रशिरसि प्रतीष्टा । अन्यच्च तव दृष्टेर्मम दृष्ट्या सह मिलने शैथिल्यं नास्तीत्येतावत्संवृतिस्वरूपम् । दूरादेवाभ्युद्गमः कृतो न तु प्रत्यासत्तौ । शरीरसंपर्कसंभावनायामप्यसहनत्वात् । यः पूर्वं मम तथा वशीभूत आसीत्तस्यैव प्रियतमस्यान्याङ्गनासङ्गिनोऽप्यनुवृत्तिं करोमि प्राणांश्च धारयामीत्यात्मन्यसंभावना। अभ्युपगमोऽपि तस्या नास्ति, अपि तु साटोपत्वम् । तवौदासीन्यमात्रेऽपि मम चेतो दह्यते तत्का नामान्याङ्गनासङ्गसंभावना। तस्मात्पिशुनविजृम्भितमेतत् । यच्च मम हृदये दह्यमानेऽपि तव हृदयस्य काठिन्यं तत्र निगूढान्तःकोपता हेतुः । अन्तर्निखातकर्कशपदार्थं हि कोमलमपि कठिनं भवति । मिलन इत्यत्र यद्यपि गुणप्रतिषेधो न प्राप्नोति तथापि रूढिरस्ति । अनुमानालंकारः । यथा - "वचनमुपचारगर्भम्-" इत्यादि प्राग्दर्शितम् । औदार्यं प्रदर्श्य सदे(?)त्यनेनौदार्यं नाट्यालंकारः । यथा –"अ[^१]इदुक्किआएँ दिअहं सकलं काऊण गेहवावारम् । गरुए वि मण्णुदुःक्खे भरिमो पाअन्तसुत्तस्स ॥"
काचित्प्रणयकलहान्तरिता सहचरीं प्रत्याह-
कथमपि सखि क्रीडाकोपाद्व्रजेति मयोदिते
कठिनहृदयः श[^२]य्यां त्यक्त्वा बलाद्गत एव सः ।
इति स[^३]रभसं ध्वस्तप्रेम्णि व्यपेतघृणे स्पृहा
पुनरपि हतव्रीडं चेतः करोति करोमि किम् ॥ १५ ॥
हे सखि, किं करोमि । अपि तु न किमपि । यतः पुनरपि मे निस्त्रपमन्तःकरणं तस्मिन्प्रियतमे स्पृहां करोति । किंविशिष्टे । यतो व्यपेतघृणे निःशङ्के । पुनरपि कीदृशे । सरभसमपर्यालोचितमपास्तप्रेम्णि । तस्मादिति कस्मात् । यतः स कर्कशहृदयो बलात्कारेण गत एव । क्व सति । कथमपि प्रणयरोषाद्गच्छेति मयोक्ते सति । कथमपिशब्दस्यायमभिप्रायः — क्रीडयापि कोपं न करोमि । क्रीडाकोपेऽपि माकदाचिदसौ वैमनस्यं गच्छेत । शय्यां त्यक्त्वा गतः, न तु माम् । उपनतेऽप्यमङ्गले न कश्चिदात्मनः स्वयममङ्गलं शंसतीत्याशयः । बलाद्गतः सोऽपि किं स्वभावेन गन्तुं शक्नोति । अत एव सरभसं ध्वस्तप्रेम्णि । व्यपेतघृणे इयं मया विना न जीविष्यतीति जानत्यप्युपेक्षितवति । किं करोमि । इतिकर्तव्यतामो
[^१.] "अतिदुःखिताया दिवसं सकलं कृत्वा गेहव्यापारम् । गुरुकेऽपि मन्युदुःखे
स्मरामः पादान्तसुप्तस्य ॥" इति च्छाया. [^२.] "त्यक्त्वा शय्यां" इति शृङ्गारदीपिका.
[^३.] "सरभसध्वस्त-" इति शृङ्गादीपिका.
हेनोपायमपि न जानामीत्यर्थः । अत्रेदं विमृश्यते – ननु य एष क्रीडाकोपमात्रेण श-
य्योत्थायं गत एव स किं ग्राम्यः, उतान्यासक्तः । न तावदाद्यः । शृङ्गारोपनिबद्धस्याग्रा-
म्यत्वात् । नापि द्वितीयः । सापराधस्य विटस्यापि वा नायिकायाः सुमहत्यपि कोपे
प्रसादनैकपरत्वात् । न च सापराधे प्रेयसि क्रीडाकोपो भवति भामिनीनाम्, अपि तु
वास्तव एव । तस्मादयं क्रीडाकोपावमानितः सन्नुत्थाय कुड्यान्तरितो भूत्वा प्रियतमाया-
स्तत्कालमदर्शनमात्रेण प्राणपरिहारं यावदध्यवसितायाः प्रेमसर्वस्वनिधानमुद्राभङ्गका-
रिभिरभिमानवाक्यैः श्रवणेन्द्रियं चरितार्थयति । प्रणयमानात्मको विप्रलम्भः । "कल-
हान्तरितामर्षाद्विधूतेऽनुशयार्तियुक्" इति कलहान्तरिता नायिका ॥
दंपत्योर्निशि जल्पतोर्गृहशुकेनाकर्णितं यद्वच-
स्तत्प्रातर्गुरुसंनिधौ निगदतः श्रु[^१]त्वैव तारं वधूः ।
कर्णालम्बितपद्मरागशकलं विन्यस्य च[^२]ञ्च्वाः पुरो
व्रीडार्ता प्र[^३]करोति दाडिमफलव्याजेन वाग्बन्धनम् ॥ १६ ॥
त्रपापर्याकुला वधूः श्रवणालम्बितशोणमणिशकलं विन्यस्य चञ्च्वाः पुरः प्रणिधाय दाडिमफलरूपेण च्छद्मना वाग्बन्धनं प्रयत्नेन करोति । किं कृत्वा । श्रुत्वैव किं तत् । वचः । कस्य । अर्थवशाद्विभक्तिविपरिणामेन शुकस्यैव । किं कुर्वतः । प्रभाते श्वशुरश्वश्रूप्रभृतीनां प्रत्यासत्तावुच्चैः स्वरं निगदतः । तत्किम् । यद्रात्रौ स्त्रीपुंसयोः किंचिदेकान्तोचितं वाच्यावाच्यं जल्पतोः संबन्धि तेनैव मन्दिरशुकेन श्रुतम् । दंपत्योर्मध्ये वधूरिति संबन्धः । तयोरेतावती लज्जा यन्निशि दंपत्योर्जल्पतोः दिवा पुनरौदासीन्येन दंपती इति न ज्ञायेते । न च परस्परं जल्पतोः । प्रातः श्रुत्वेत्यनेन सुरतालापैर्जागरितसकलरात्रिरपि प्रथमप्रबुद्धेयं नायिका । कुलाङ्गना हि चरमं शायिन्यः प्रथमं प्रबोधिन्यश्च भवन्तीति । एवंविधैरालापैस्तु रजनिरज्ञातैव प्रयाति । यथोत्तरचरिते – "किमपि किमपि मन्दं मन्दमासक्तियोगादविचलितकपोलं जल्पतोरक्रमेण । अशिथिलपरिरम्भव्यापृतैकैकदोष्णोरविदितगतयामा रात्रिरेव व्यरंसीत् ॥" श्रुत्वैवेत्येवशब्दस्याव्ययानामनेकार्थत्वेनाविलम्बोऽर्थः । केचित् "तस्यैव वधूः" तारं"तस्यैव तारं वधूः" इति पठन्ति । तेन चान्वयः सुखावहो न भवति । यदुक्तम् –"वाक्यं यत्राभिमतं परस्परं सव्यपेक्षवृत्तीनाम् । समुदायः शब्दानामेकपराणामनाकाङ्क्षः ॥ अन्यूनाधिकवाचकसक्रमपुष्टार्थशब्दचारुपदम् । क्षोदक्षममक्षुण्णं सुमतिर्वाक्यं प्रयुञ्जीत ॥" उक्तं हि — "अभिहितान्वयवादिनां मते सामान्यरूपाणां पदार्थानामाकाङ्क्षायोग्यतासंनिधिवशात्परस्परसंसर्गे पदार्थव्यतिरिक्तो वाक्यार्थः प्रकाशते" इति । अखण्डवाक्यवादिनां मते तु वाक्योपदेशः कर्तुं न युज्यते । व्यङ्ग्यव्यञ्जकभावाभावात् । यदुक्तम्– "सोऽयमिषोरिव दीर्घदीर्घो व्यापारः शब्दस्य" इति । शब्दश्रुतेरन
[^१.] "तस्यातिमात्रं वधूः" इति शृङ्गारदीपिका. [^२.] "चञ्चूपुटे" इति शृङ्गारदीपिका. [^३.] "विदधाति" इति शृङ्गारदीपिका. न्तरं यावानर्थो गम्यते तावता शब्दस्याभिधैव व्यापार इति चेत्, प्रष्टव्या यूयम् "ब्राह्मण, पुत्रस्ते जातः कन्या ते गर्भिणी" इत्यादौ हर्षशोकादीनामपि [न] वाच्यत्वम् । कस्माच्च लक्षणा । लक्षणीयेऽप्यर्थे दीर्घदीर्घाभिधाव्यापारेणैव प्रतीतिसिद्धेः । जाया च पतिश्च दंपती । उत्तरपदाधिकारे जायाशब्दस्य जंभावो दंभावश्च निपात्यते । दुर्गसिंहाचार्यस्तु जंदंशब्दौ जायासमानार्थाविति मन्यते । शुकादयस्स्तु शृङ्गारिणां भवनेषु भवन्त्येव यदुक्तम् – "वृक्षायुर्वेदयोगमेषकुक्कुटलावकयुद्धविधिशुकशारिकाप्रलापनम्" इत्यादि । दाडिमबीजमेव पद्मरागसदृशं भवति न तु फलमित्याशङ्का यदि भवति तदा "दाडिममृषाबीजेन" इति युक्तः पाठः । वाग्बन्धनमियत्र कारणे कार्योपचारः । तेन मुखबन्धनमित्यर्थः । अन्योऽपि यः परमर्मोद्घाटनं करोति तस्य बन्धनं विधीयत इत्युक्तिलेशः । कविर्वक्ता । लज्जया व्यभिचारिभावेन पुष्टः संभोगशृङ्गारः । पद्मरागशकले दाडिमबीजभ्रान्तिरिति भ्रान्तिमानलंकारः । यदुक्तम् - "वस्तुविशेषं पश्यन्नवगच्छेदन्यमेव तत्सदृशम् । निःसंदेहं यस्मिन्प्रतिपत्ता भ्रान्तिमान्स इति ॥" यथा - "पालयति त्वयि वसुधां विविधाध्वरधूमशालिनीः ककुभः । पश्यन्तो दूयन्ते घनसमयाशङ्किनो हंसाः ॥" काचिन्मानिनी मन्यूपतापेन नायकं प्रति सोल्लुण्ठमभिधत्ते-
अज्ञानेन पराङ्मुखीं परिभवादाश्लिष्य मां दुःखितां
किं लब्धं शठ दुर्नयेन नयतां सौभाग्यमेतां दशाम् ।
पश्यैतद्दयिताकुच[^१]व्यतिकरोन्मृष्ट्राङ्गरागारुणं
वक्षस्ते म[^२]लतैलपङ्कशबलैर्वेणीपदैरङ्कितम् ॥ १७ ॥
हे कितव, त्वया किमुपार्जितम्, अपि तु न किमपि । किं कुर्वता । मदालिङ्गनरूपेण दुर्नयेनात्मनः सौभाग्यमेतामयोग्यामवस्थां प्रापयता । किं कृत्वा । अन्याङ्गनासंगमलक्षणात्परिभवाद्दुःखितामनभिमुखीमाश्लिष्य । केन । अज्ञानेन । कोऽर्थः । यस्यां त्वमनुरक्तस्तद्भ्रमेण । कीदृशी सौभाग्यदुरवस्थेत्याह—– पश्यैतदित्यादि । वर्तते । किं तत् । तव वक्षः । कीदृशम् । मलतैलपङ्कशबलैर्वेणीपदैरङ्कितं लाञ्छितम् । किंविशिष्टं पूर्वमासीत् । दयिताकुचव्यतिकरोन्मृष्टाङ्गरागारुणम् । वल्लभास्तनयोर्व्यतिकरेण संबन्धेन प्रोञ्छितो योऽङ्गरागस्तेनारुणम् । अत्र दयिताया आज्ञाभङ्गो दुर्नयशब्दार्थः । तेन च तया त्वं निग्राह्योऽसीति व्यङ्ग्यम् । पश्येतिक्रियाया वाक्यार्थ एव कर्म, न तु वक्षः । नहि वक्षस्ते पश्येत्युक्तिर्भवति अपि तु वक्षस्त्वमिति । इयं च नायिका ऋतुस्नातोन्मुखी । अन्यथा तैलपङ्कादिप्रयोगः शृङ्गारोपनिबन्धे तत्रभवतां छान्दसानामेव सुकरः । तस्मिन्नेवावसरे नायकेन नूनमन्याङ्गनासङ्गः कृतः । ईर्ष्यामानात्मको विप्रलम्भः । आलिङ्गनेन स्पर्शनात्मकः संभोगोऽपि किं न स्यादिति चेत्, न । परस्परानुकूल्याभावात् । न चैवं प्रतीतिरपि नास्तीति वाच्यम् । पराङ्मुखत्वेऽपि नान्योऽयमिति प्रतीतेः । यथोत्तरचरिते
[^१.] "व्यतिकरासक्ताङ्ग" इति शृङ्गारदीपिका. [^२.] "मम तैलपङ्कमलिनैः" इति शृङ्गारदीपिका. सीतायां वनं प्रेषितायां शम्बूकं हत्वा प्रतिनिवर्तमानो यानि दयितया सह पूर्वं निषेवितानि गोदावरीपरिसरस्थानानि तानि दृष्ट्वा मूर्छितो भागीरथीप्रभावाददृश्यसीताकरारविन्दस्पर्शमासाद्य साह्लादोच्छ्वासो रामः- "हन्त भोः, किमेतत् । आश्च्योतनं नु हरिचन्दनपलवानां निष्पीडितेन्दुकरकन्दलजो नु सेकः । आतप्तजीविततरोः परितर्पणो मे संजीवनौषधिरसो नु हृदि प्रसिक्तः ॥ स्पर्शः पुरा परिचितो नियतं स एष संजीवनश्च मनसः परिमोहनश्च । संतापजं सपदि यः प्रतिहत्य मोहमानन्दनेन जडतां पुनरातनोति ॥" उक्तं च - "अभ्यासादभिमानाच्च तथा संप्रत्ययादपि । विषयेभ्यश्च तत्त्वज्ञा विदुः प्रीतिं चतुर्विधाम् ॥ प्रीतिः साभ्यासिकी ज्ञेया मृगयादिषु कर्मसु । अनभ्यस्तेष्वपि पुरा कर्मस्वविषयात्मिका ॥ संकल्पाज्जायते प्रीतिर्या सा स्यादाभिमानिकी । नान्योऽयमिति यत्र स्यात्प्रतीतिः प्रीतिकारणम् ॥ तत्त्वज्ञैः कथ्यते सापि प्रीतिः संप्रत्ययात्मिका । प्रत्यक्षा लोकतः सिद्धा स्यात्प्रीतिर्विषयात्मिका । प्रधानफलभूता सा तदर्थाश्चेतरा अपि ॥"
एकत्रासन[^१]संस्थितिः परिहृता प्रत्युद्गमाद्दूरत-
स्त[^२]म्बूलाहरणच्छलेन रभसाश्लेषोऽपि संविघ्नितः ।
आलापोऽपि न मिश्रितः परिजनं व्यापारयन्त्यान्तिके
कान्तं प्रत्युपचारतश्चतुरया कोपः कृतार्थीकृतः ॥ १८ ॥
गृहागतं प्रियं प्रति विदग्धयानुवृत्तिरूपादुपचारादेव कोपश्चरितार्थतां नीतः । यतो
दूरादेवाभ्युत्थानादेकस्मिन्पीठे उपवेशनं त्यक्तम् । ताम्बूलस्य वीटिकाया आहरणं तद्व्या-
जेन रभसालिङ्गनमपि सम्यग्विघ्नितम् । सखीप्रभृतिपरिजनं सविधे नियुञ्जानया वाङ्मि-
श्रणमपि न कृतम् । मीलितमलंकारः । यदुक्तम् - "तन्मीलितमिति यस्मिन्समानचि-
ह्वेन कोपहर्षादि । अपरेण तिरस्क्रियते नित्येनागन्तुना वापि ॥" यथा -- "मदिरामदभ-
रपाटलकपोलतललोचनेषु वदनेषु । कोपो मनस्विनीनां न लक्ष्यते कामिभिः प्रभवन् ॥"
सावहित्थादरा नायिका प्रगल्भा ॥
दृष्ट्वैकासन[^३]संस्थितेः प्रियतमे पश्चादुपेत्यादरा-
देकस्या नयने नि[^४]मील्य विहितक्रीडानुबन्धच्छलः ।
ईष[^५]द्वक्रितकंधरः स[^६]पुलक: प्रेमोल्लसन्मानसा-
मन्तर्हासलसत्कपोलफलकां धूर्तोऽपरां चुम्बति ॥ १९ ॥
एकासनोपविष्टे द्वे प्रियतमे दृष्ट्वा पृष्ठदेशं सप्रयत्नमागत्यैकस्या लोचने क्रीडानुबन्धव्याजेन मुद्रयित्वा दक्षिणो नायक इतरां चुम्बति । कथंभूतः सन् । यथा द्वितीया न
[^१.] "संगतिः" इति शृङ्गारदीपिका. [^२.] "ताम्बूलानयनच्छलेन" इति शृङ्गारदीपिका. [^३.] "संगते" इति शृङ्गारदीपिका. [^४.] "पिधाय" इति शृङ्गारदीपिका. [^५.] "तिर्यग्वक्रित" इति शृङ्गारदीपिका. [^६.] "सपुलकप्रेमो" इति शृङ्गारदीपिका. जानातीति मनाङ्मितग्रीवः । पुनः कीदृशः । सरोमाञ्चः तां किंविशिष्टाम् । प्रीत्युल्लसच्चेतसम् । पुनः कीदृशीम् । मत्कारणेनेयं वञ्चितेत्यन्तर्निभृतहासलसद्गण्डमण्डलाम् । यस्या नेत्रे मुद्रिते सा ज्येष्ठा । तस्यामपि नायकस्य प्रीतिरस्त्येव । यतः - "दक्षिणोऽस्यां सहृदयः" इति वचनात्पूर्वस्यामपि नायिकायां हृदयेन सह व्यवहरति । तस्माद्विहितक्रीडानुबन्धच्छल इति योऽयं छलशब्दः स चुम्बितनायिकापेक्षयैव नायके न पुनर्वास्तवेनैव । क्रीडानुबन्धेन प्रथमा प्रथममेव संभाविता, द्वितीयस्यां च नेत्रमुद्रणाच्चुम्बनात्मकस्य संभावनाप्रकारस्य वैशिष्ट्यात्सपुलकत्वाच्च विशिष्टा प्रीतिः । नूतननायिकायां च विशिष्टप्रीतिप्रतिपादनादेव पूर्वस्यां दाक्षिण्यमात्रादुपचार एवेत्येतेन । द्वयोरपि नायिकयोः प्रियतमे इत्युक्तत्वात् विशेषोऽलंकारः । यदुक्तम् – "यत्रान्यत्कुर्वाणो युगपत्कर्मान्तरं च कुर्वीत । कर्तुमशक्यं कर्ता विज्ञेयोऽसौ विशेषोऽन्यः ॥"
चरणपतन[^१]प्रत्याख्यानप्रसादपराङ्मुखे
निभृतकितवाचारेत्यु[^२]क्ते रुषा परुषीकृते ।
व्रजति रमणे निःश्वस्योच्चैः स्त[^३]नार्पितहस्तया
नयनसलिलच्छ[^४]न्ना दृष्टिः सखीषु निपातिता ॥ २० ॥
कयाचित्कलहान्तरितया, सखीषु दृष्टिर्न्यस्ता । कीदृशी । नयनसलिलच्छन्ना । किं विशिष्टया । उच्चैर्निःश्वस्य स्तनविनिहितहस्तया । क्व सति । दयिते गच्छति सति । कुतो हेतोर्गच्छतीत्याह – चरणपतनस्य यन्निराकरणं तेनालब्धप्रसादे । पुनः कीदृशे । निगूढशठचरितेत्यभिहिते । पुनरपि किंविशिष्टे । क्रुधा कर्कशतां यावन्नीते । "अपमानितश्च नार्या विरज्यते यः स उत्कृष्टः" इति वचनादन्यत्र गच्छतो नायकस्य दक्षिणत्वम् । स्तनार्पितहस्तयेति हृदयसंतापसूचकश्चेष्टाविशेषः । नयनसलिलच्छन्नेति सखीष्वेव प्रतिविधानसूचिका दीना दृष्टिः । यदुक्तम् - "अर्धस्रस्तोत्तरपुटा छन्नतारा जलाविला । मन्दसंचारिणी दृष्टिर्दीनेति परिकीर्त्यते ॥"
काञ्च्या गाढतरा[^५]वनद्धवसनप्रान्ता किमर्थं पुन-
र्मुग्धाक्षी स्वपितीति तत्परिजनं स्वैरं प्रिये पृच्छति ।
मातः स्व[^६]प्तुमपीह वारयति मामित्याहितक्रोधया
पर्यस्य स्वपनच्छलेन शयने दत्तोऽवकाशस्तया ॥ २१ ॥
तया नायिकया शयने शय्यायामवकाशो दत्तः अर्थात्प्रियस्य । किं कृत्वा परिवृत्त्य । केन । स्वपनच्छलेन । आहितक्रोधयेव आहितः क्रोधो यया । कथमिति । हे मातः,
[^१.] "प्रत्याख्यानात्" इति शृङ्गारदीपिका. [^२.] "उक्त्वा" इति शृङ्गारदीपिका. [^३.] "स्तनाहित" इति शृङ्गारदीपिका. [^४.] "क्लिन्ना" इति शृङ्गारदीपिका. [^५.] "अवबद्ध" इति शृङ्गारदीपिका. [^६.] "सुप्तिमपीह लुम्पति ममेत्यारोपित" इति शृङ्गारदीपिका. निद्रातुमप्यत्र स्थाने निषेधति । क्व सति । प्रिये पर्यनुयुञ्जाने सति । कम् । प्रियायाः परिजनम् । कथम् । स्वैरम् । "मन्दस्वच्छन्दयोः स्वैरम्" इतिवचनान्मन्थरमित्यर्थः । द्विकर्मकत्वेन पुनरिति पृच्छति सति । इतीति किम् । किं पुनर्विह्वलाक्षी कटिसूत्रेण निबिडनियमितसिचयान्ता निद्रायते । अत्र गाढतरनितम्बवस्त्राञ्चलवहनाभ्यसूयागर्भो रम्भास्तम्भाभिरामोरुकाण्डस्पर्शलौल्यपर्यवसायी भणितेरुल्लेखः । इयं च साङ्गभङ्गैरलसचेष्टाविशेषैर्लम्बितपक्ष्मलोचनाञ्चला मदनमदविक्लवतामनुभवन्त्यासीत् । न पुनर्वास्तवीं निद्राम् । यदि वा मृषा सुप्तिरियम् । यदुक्तम् – "सापि भावजिज्ञासार्थिनी नायकस्यागमनकाले मृषा सुप्ता स्यात् ।" अत एव मन्दमपि प्रियस्य प्रश्नवचनमश्रौषीत् । मातः स्वप्तुमपीति मातःशब्दः स्त्रीणामुक्तिमात्रे । सूक्ष्मोऽलंकारः । यदुक्तम् – "इङ्गिताकारलक्ष्योऽर्थः सौक्ष्म्यात्सूक्ष्म इति स्मृतः ।" यथा – "कदा नौ संगमो भावीत्याकीर्णे वक्तुमक्षमम् । अवेत्य कान्तमबला लीलापद्मं न्यमीलयत् ॥" काञ्च्या गाढतरेत्यादि संभोगनर्म । यथा - "सा[^१]लोए व्विअ सूरे घरिणी घरसामिअस्स घेत्तूण । णेच्छन्तस्स वि पाए धुवइ हसन्ती हसन्तस्स ॥" एते च नर्मभेदाः । "वैदग्ध्यक्रीडितं नर्म प्रियोपच्छन्दनात्मकम् । हासेनैव सशृङ्गारभयेन विहितं त्रिधा । आत्मोपक्षेपसंभोगमानैः शृङ्गार्यपि त्रिधा । शुद्धमङ्गं भयं द्वेधा त्रेधा वाग्वेषचेष्टितैः ॥ सर्वं सहासमित्येवं नर्माष्टादशधोदितम् ।" मातः स्वप्तुमपीत्यादिना आत्मोपक्षेपनर्म। यथा - "मध्याह्नं गमय त्यज श्रमजलं स्थित्वा पयः पीयतां मा शून्येति विमुञ्च पान्थविवशः शीतः प्रपामण्डपः । तामेव स्मर घस्मरस्मरशरत्रस्तां निजप्रेयसीं त्वच्चित्तं तु न रञ्जयन्ति पथिक प्रायः प्रपापालिकाः ॥"
एकस्मिञ्शयने विपक्षरमणीनामग्रहे मुग्धया
सद्यः कोपप[^२]राङ्मुखं ग्लपितया चाटूनि कुर्वन्नपि ।
आवेगादवधीरितः प्रियतमस्तूष्णीं स्थितस्त[^३]त्क्षणा-
न्मा भून्म्ला[^४]न इवेत्यमन्दवलितग्रीवं पुनर्वीक्षितः ॥ २२ ॥
कयाचिन्मुग्धया प्रियतमस्तत्कालमेव पराङ्मुखं यथा भवत्येवमवज्ञातः । किं कुर्वन्नपि । चाटूनि कुर्वन्नपि लालनवाक्यानि ब्रुवाणोऽपि । तथाभूतोऽपि कस्मादवधीरितः । आवेगात् । तस्य लक्षणम् – "आवेगः संभ्रमोऽस्मिन्नभिसरजनिते शस्त्रनागाभियोगो त्रासात्पांसूपदिग्धस्त्वरितपदगतिर्वर्षजे पिण्डिताङ्गः । उत्पातात्स्त्रस्तताङ्गेष्वहितहितकृते शोकहर्षानुभावा वह्नेर्धूमाकुलाक्षः करिजमनुभयस्तम्भकम्पापसाराः ॥" अत्र सपत्नीनामग्रहणमेवाहितम् । तत्कृत आवेगः । किंविशिष्टया । ग्लपितया । क्व सति । एकस्यां शय्यायां सपत्नीनामोच्चारणे सति एकस्मिञ्शयने प्रस्तुतायां रतिप्रवृत्तौ विपक्षस्त्रीनामग्रह इत्येव
[^१.] "सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा । अनिच्छतोऽपि पादौ धावति
हसती हसतः ॥" इतिच्छाया. [^२.] "पराङ्मुखग्लपितया" इति शृङ्गारदीपिका.
[^३.] "तत्क्षणं" इति शृङ्गारदीपिका. [^४.] "सुप्त" इति शृङ्गादीपिका.शृङ्गारदीपिका.
नं, अपि तु विपक्षरमणीनामग्रहे भूताविष्टस्य ग्रह इव ग्रहे । अत एव नायिकाया
आवेगः । मुग्धाश्च स्तोकेऽप्युपाये कोपं परिहरन्तीति । न केवलमवधीरितः, अवधी-
रणहेतोस्तूष्णीं स्थितः सन्मा भून्म्लान इवेति द्रुतमेव वेगविवर्तितकंधरं यथा भवत्येवं
पुनरवलोकितः । अत्रौत्सुक्यभावस्योदयः । यदुक्तम् – "भावस्य शान्तिरुदयः संधिः
शबलता तथा ।" उपायश्चात्र चाटूनि कुर्वन्नपीत्यनेन साम । यदुक्तम् – "नरः कलासु
कुशलो वाचालश्चाटुकारकः । असंस्तुतोऽपि नारीणां चित्तमाश्वेव विन्दति ॥" यथास्म-
त्पूर्वजस्य वाक्पतिराजापरनाम्नो मुञ्जदेवस्य – "दासे कृतागसि भवत्युचितः प्रभूणां पाद-
प्रहार इति सुन्दरि नास्मि दूये । उद्यत्कठोरपुलकाङ्कुरकण्टकाग्रैर्यत्खिद्यते तव पदं ननु
सा व्यथा मे ॥" तूष्णीमित्यनेनोपेक्षामात्रं च । म्लान इवेत्यत्रेवकारेण म्लानसदृशोऽपि
मा भूदिति प्रीत्यतिशयः । ईर्ष्यामानात्मकविप्रलम्भपूर्वको दर्शनात्मा संभोगशृङ्गारः ।
"गूढविप्रियकृच्छठः" इत्यनेन शठो नायकः । यथा – "शठान्यस्याः काञ्चीमणिरणितमाकर्ण्य
सहसा यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः। तदेतत्क्वाचक्षे घृतमधुमयत्वद्बहुवचोविषे-
णाघूर्णन्ती किमपि न सखी मे गणयति ॥" मृदुकोपा मुग्धा नायिका ॥
एकस्मिञ्शयने पराङ्मुखतया वीतोत्तरं ताम्यतो-
र[^१]न्योन्यं हृदयस्थितेऽप्यनुनये संरक्षतोर्गौरवम् ।
दंपत्योः शनकैरपाङ्गवलनान्मिश्रीभवच्चक्षुषो-
र्भग्नो मानकलिः स[^२]हासरभसं व्यावृत्तकण्ठग्रहः ॥ २३ ॥
दंपत्योः प्रणयमानकलहो भग्नः । किंविशिष्टः सहासरभसं यथा भवत्येवं व्याघुटितः
कण्ठाश्लेषो यत्र स तथा । अभग्ने मानकलहे कण्ठग्रहः किल निवृत्त आसीदिति हेतो-
र्व्यावृत्त इति भङ्गविशिष्टस्यैव मानकलेरिदं विशेषणम् । केवले मानकलहे कण्ठग्रहस्या-
नुपपन्नत्वात् । केन क्रमेण भग्न इत्याह – एकस्मिन्नित्यादि । एकस्मिञ्शयने त्वया
किमित्येवंकृतमित्यादिकलहप्रश्नानामपगतान्युत्तराणि यत्र तद्वीतोत्तरं यथा भवत्येवं
ताम्यतोः । उत्तरव्यय एव कथं जात इत्याह-पराङ्मुखतया । पुनः कथंभूतयोः । पर-
स्परं चित्तस्थितेऽपि प्रसादनप्रकारे गौरवं संरक्षतोः । स्वं स्वं लाघवमाशङ्कमानयोरि-
त्यर्थः । अथ च मानभङ्गहेतुगर्भं विशेषणमाह - पुनः कीदृशयोः । स्तोकस्तोकं लोचना-
श्चलविवर्तनेन संघटमानदृष्ट्योरिति । प्रणयमानात्मकविप्रलम्भपूर्वकः स्पर्शनात्मा संभो-
गः । "एकत्रासनसंस्थितिः-" इत्यारभ्यामुं श्लोकं यावत्षट्श्लोकेषु कविर्वक्ता ॥
[^१.] "अन्योन्यस्य हृदि स्थिते" इति शृङ्गारदीपिका. [^२.] "सहासरभसव्यावृत्तकण्ठग्रहम्" इति शृङ्गारदीपिका. कस्मात्त्वमद्य विमना इव लक्ष्यसे इत्यादि केनचित्पृष्टः कश्चिन्नायकः कान्ताप्रणयमानचेष्टामाचष्टे
पश्यामो मयि किं प्रपद्यत इति स्थैर्यं मयालम्बितं
किं मां नालपतीत्ययं खलु शठः कोपस्तयाप्याश्रितः ।
इत्यन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे
सव्याजं हसितं मया धृतिहरो बा[^१]ष्पस्तु मुक्तस्तया ॥ २४ ॥
पश्यामस्तावदियं मयि स्वयं कीदृशीमालपनादिप्रतिपत्तिमुपक्रमत इत्यपेक्षया मया निर्व्यापारेण स्थितम् । एष निश्चयेन कितवः कस्मान्मां न भाषत इति मनसि विभाव्य तया कोपः स्वीकृतः । इत्यमुना प्रकारेणान्योन्यस्य या विलक्षा दृष्टिस्तत्र चतुरं यत्कोपप्रसादरूपाया अवस्थाया मध्यं तस्मिन्मया संप्रतिपत्तिप्रवृत्तेन किमपि मिथ्यैवोद्भाव्य हसितम् । तया पुनर्धृतिहरो बाष्पस्त्यक्तः । धृतिं हृतवान् । "पचादिभ्यश्च" इत्यच् । अधृतं सूचितवानित्यर्थः । नहि बाष्पः प्रथममुत्पद्य धृतिं जहार । अपि त्वभृतिसमनन्तरमुत्पन्नो नायकस्य धृतिं हृतवानिति चेत्, मैवम् । मानिनीमानस्य प्रत्युताश्रुमोक्षान्तत्वात् । "पश्यामः" इत्यत्र "पश्येयम्" इति पाठो युक्तः । मयीत्येकवचनव्यपदेशात् । "किं मां नालपतीति" इत्यत्रेतिशब्दोऽस्थान निवेशितः । शठशब्दानन्तरं प्रयोजनीयत्वात् । "अन्योन्यविलक्षदृष्टिचतुरे तस्मिन्नवस्थान्तरे" इत्यत्रावस्थान्तरं चतुरताधिकरणं भवितुमशक्तं सत्स्वंबद्धं मिथुनं लक्षयति । तां विलक्षां दृष्टिं तदेवावस्थान्तरं जानाति न पुनरन्यः कोऽपीति दृष्टेरनिर्वचनीयत्वं चात्र प्रयोजनम् । प्रणयबहुमानलालिता मुग्धा नायिका ॥ कस्यापि विस्रम्भसंभावितस्याग्रे नायको वक्ति
परिम्लाने माने मुखशशिनि तस्याः करधृते
मयि क्षीणोपाये प्रणिपतनमात्रैकशरणे ।
त[^२]या पक्ष्मप्रान्तध्वजपुटनिरुद्धेन सहसा
प्रसादो बाष्पेण स्तनतटविशीर्णेन कथितः ॥ २५ ॥
तया प्रसादः कथितः । अनुमानेन प्रतिपादित इत्यर्थः । केन । बाष्पेण । किंविशिष्टेन । पक्ष्मप्रान्तध्वजपुटनिरुद्धेन । पक्ष्मप्रान्तावेव ध्वजौ तयोः पुटं तत्र निरुद्धेन । अव्ययानामनेकार्थत्वान्निमेषमात्रं रुद्धेन । न तु निःशेषतो रुद्धेन । अत एव रोद्धुमशक्यत्वात्सहसा स्तनतटविशीर्णेन । अयमभिप्रायः - हृदये द्रुताया नायिकायास्तावदश्रूद्गमो जातः । पश्चात्तया संवरणार्थं रोद्धुमारब्धः । अथ दुर्वहतयासौ बलात्कारेण स्तनयोरुपरि पपात । पक्ष्मप्रान्तयोर्ध्वजपुटरूपेण दैर्घ्यं साधारणो धर्मः । पुटशब्दोश्रुनिरोधप्रयत्न
[^१.] "मुक्तश्च बाष्पस्तया" इति शृङ्गारदीपिका. [^२.] "तदा पक्ष्मप्रान्तव्रजपुट" इति शृङ्गारदीपिका. प्रतिपादकः । तटशब्दः स्तनयोः परिणाहं द्योतयति, विशीर्णशब्दस्तु काठिन्यम् । अन्यथा कथं बाष्पः कणशो विशीर्णतां व्रजेत् । अनुनयेन मानो गत उत स्वयमित्याहतस्याः परिम्लाने माने अपराधातिशयात्पूर्वमनुनीयमानापि प्रसादं कथमपि न चकार पश्चाद्यथा कश्चित्तीव्रं रुदन्निवारितोऽपि न निवर्तते किं तु परिश्रान्तः स्वयमेव, तथा तस्या मानः स्वयं शिथिलो बभूव । अत एव विषादद्योतकं मुखशशिनि करधृत इति । अर्थवशाद्विभक्तिविपरिणामेन तया करधृत इत्यर्थः । परिम्लानता कुसुमादिषु प्रसिद्धा अमूर्ते माने स्खलद्गतिः स्वसंबद्धं शैथिल्यं लक्षयति । व्यङ्ग्यं चात्र चमत्कारेण, केवलमनुमेयं गूढमेव । यथा - "मुखं विकसितस्मितं वशितवक्रिम प्रेक्षितं समुच्चलितविभ्रमा गतिरपास्तसंस्था मतिः । उरोमुकुलितस्तनं जघनमंसबन्धोद्धुरं बतेन्दुवदनातनौ तरुणिमोद्गमो मोदते ॥" न केवलमेवं सति, अन्यच मयि क्षीणोपाये । ननु षण्णामुपायानां मध्ये प्रणतिरस्त्येव । तत्कथं "क्षीणोपाये" इत्युक्त्वा "प्रणिपतनमात्रैकशरणे" इत्युक्तम् । युक्तमेवैतत् । परमिदं प्रणिपतनमुपायतया नारब्धम्, किं त्वनन्यगतिकत्वेन । अत एव मात्रच्प्रत्ययः, शरणशब्दप्रयोगश्च । मुखशशिनीति काव्यालंकारो रूपकम् । नाट्यालंकारः कोपकालुष्येऽपि माधुर्यम् । यदुक्तम् – "यौवने सत्त्वजाः स्त्रीणामलंकारास्तु विंशतिः।" भावहावहेलास्त्रयोऽङ्गजाः । शोभाकान्तिर्दीप्तिर्माधुर्यं प्रागल्भ्यमौदार्यं धैर्यमित्ययत्नजाः सप्त । "लीला विलासो विच्छित्तिर्विभ्रमः किलकिञ्चितम् । मोट्टायितं कुट्टमितं विव्वोको ललितं विहृतम् ॥" इति स्वाभाविका दश । अनुल्बणत्वं माधुर्यम् । यथा"सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति । इयमधिकमनोज्ञा वल्कलेनापि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥"
तस्याः सान्द्रविलेपनस्त[^१]नयुगप्रश्लेषमुद्राङ्कितं
किं वक्षश्चरणानतिव्यतिकरव्याजेन गोपा[^२]य्यते ।
इत्युक्ते क्व तदित्युदीर्य सहसा तत्संप्रमार्ष्टुं मया
साश्लिष्टा रभसेन तत्सुखवशात्त[^३]स्याश्च तद्विस्मृतम् ॥ २६ ॥
सा मया परिरब्धा । किं कृत्वा । क्व तदित्युदीर्य । क्व तत्सान्द्रविलेपनम्, अपि तु न क्वापीत्यर्थः । किं कर्तुम् । वेगेन संप्रमार्ष्टुं तदेव विलेपनं स्वहृदयलग्नं प्रोञ्छितुम् । विलेपनप्रोञ्छनमेव केवलमधिकृत्यालिङ्गिता, न तु प्रीत्येत्याह - रभसेन हर्षविशेषेण । क्व सति । तया इत्युक्ते सति । इति किम् । किमिति चरणप्रणामसंबन्धच्छद्मना हृदयमपह्नयते । किंविशिष्टं वक्षः । तस्या यद्घनश्रीखण्डादिविलेपनं स्तनयुगं तस्य प्रकृष्टमालिङ्गनं तेन विलेपनमयी मुद्रा तया लाञ्छितम् । अन्यदपि यन्मुद्रालाञ्छितं निधानादिकं भवति तत्प्रयत्नेन गोपाय्यते । व्यतिकरव्याजेनेति व्याजशब्दस्यायमीर्ष्याद्योतकोऽभि
[^१.] "स्तनतट" इति शृङ्गारदीपिका. [^२.] "गोपायते" इति शृङ्गारदीपिका. [^३.] "तन्व्या च" इति शृङ्गारदीपिका. प्रायः । तत्प्रियतमास्तनविलेपनलाञ्छितस्य वक्षसो रक्षणं तव महत्प्रयोजनम्, चरणानतिव्यतिकरस्तु मिथ्यारम्भ इति । यद्यपि तस्या इति पदस्य स्तनयुगपदेन सह संबन्धस्तथापि वक्षःपदेन सह संबन्धविधायको भिन्नविभक्तिनिर्देश उचितः । तस्याश्च आधीनं तव हृदयमिति प्रतीतेः । आश्लिष्टापि मानं तत्याज न वेत्याह - तस्याश्च परिरम्भसुखवशात्तद्विलेपनं विस्मृतम् । चशब्दस्तुल्यकालताप्रतिपादनार्थः । यदैवालिङ्गिता तदैव कोपकारणं विस्मृतवतीति प्रीतिप्रकर्षः । अत्र कोपस्य शान्तिरित्यत्र भावशान्तिः । ईर्ष्यामानात्मकविप्रलम्भारम्भपर्यवसितः संभोगः । नायको वक्ता पूर्ववत् । पिहितमलंकारः । यदुक्तम्— "यत्रातिप्रबलतया गुणः समानाधिकरणमसमानम् । अर्थान्तरं विदध्यादाविर्भूतमपि तत्पिहितम् ॥" "व्यक्तागा वितथो धृष्टः" इत्यनेन धृष्टो नायकः । माननर्म चैतत् । यथा — "तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः । मदधिवसति मा गाः कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन ॥"तदवितथमवादीर्यन्मम त्वं प्रियेति प्रियजनपरिभुक्तं यद्दुकूलं दधानः । मदधिवसति मा गाः कामिनां मण्डनश्रीर्व्रजति हि सफलत्वं वल्लभालोकनेन ॥"
त्वं मुग्धाक्षि विनैव कञ्चुलिकया धत्से मनोहारिणीं
लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिका[^१]संस्पृशि ।
शय्योपान्तनिविष्टसस्मितस[^२]खीनेत्रोत्सवानन्दितो
निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥ २७ ॥
अलीकवचनानामुपन्यासो यत्र तद्यथा भवत्येवं वयस्याजनः शनकैर्निर्गतः । किंविशिष्टः । शय्योपान्तेत्यादि । कान्तशय्योपान्ते [निविष्टा] या सखी नायिका तस्या नेत्रोत्सवेन प्रमुदितः । क्व सति । कञ्चुलिकाया वीटिकासंस्पृशि प्रियतमे इत्यभिधायिनि सति । इतीति किम् । हे विह्वलाक्षि, त्वं कञ्चलिकामन्तरेणैव रमणीयां शोभां दधासि । अत्र मदनालसलोचनां दृष्ट्वा ग्राम्येतरभङ्गीभणितिप्रक्रमेण रिरंसुः कामी मुग्धाक्षीति संबुबुधे । सत्यां कञ्चलिकायामङ्गसौन्दर्यस्य प्रत्युत पिधानं भवतीति विनैवेत्येवकारस्य तात्पर्यम् । कञ्चुलिका चेयं दाक्षिणात्यचोलिकारूपैव । तस्या एव ग्रथनपदार्थे वीटिकाव्यपदेशः । अन्यत्र क[^३]षातनिकेत्येवमादयः । भवतीष्वप्युपविष्टास्वयमेवंविधं चेष्टत इति सलज्जकृतस्मिताया नायिकायाः सखीजनं प्रत्यवलोकनमात्रमेव नेत्रोत्सवः । ननु स्पर्शसुखेन नयननिमीलनं नायिकानां प्रसिद्धम् । यदाह कालिदासः - "मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः । शृङ्गेण च स्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः ॥" इत्यादिषु तिर्यक्संभोगेऽपि तदेव श्लाघ्यम् । तत्कथमत्र विकस्वरदृष्टिता व्याख्यायते । अत्रोच्यते — नहि सर्वासामेव नायिकानां स्पर्शसुखेन लोचननिमीलनं स्पृहणीयम् । प्रौढनायिकानामेवोपवर्ण्यमानत्वात् । ता हि सुरतारम्भ एवाचेतना भवन्ति । इयं च मध्या नायिका मुग्धाक्षीति मदनालसलोचनेति कान्तं प्रत्यनभियोगित्वात् ।
[^१.] "वेणिका" इति शृङ्गारदीपिका. [^२.] "वधू" इति शृङ्गारदीपिका. [^३.] "कस" "तनी" इति तद्वाचकौ हिन्दीभाषाशब्दौ. यदुक्तम् – एवमपरेऽपि व्रीडानुपहताः स्वयमनभियोगकारिणो मध्याव्यवहारा भवन्ति । यथा-- "स्वेदाम्भःकणिकाचितेऽपि वदने जातेऽपि रोमोद्गमे विस्रम्भेऽपि गुरौ पयोधरभरोत्कम्पेऽपि वृद्धिं गते । दुर्वारस्मरनिर्भरेऽपि हृदये नैवाभियुक्तः प्रियस्तन्वङ्ग्या हठकेशकर्षणघनाश्लेषामृते लुब्धया ॥" सद्भावरहःसहचरीणां परस्परसौभाग्यसाक्षात्कारेणाह्लादो भवतीत्यालीजन आनन्दितः । कविर्वक्ता । विनैव कञ्चुलिकया धत्से मनोहारिणीं लक्ष्मीमित्यनेन विभावनालंकारः । यदुक्तम् – "सेयं विभावनाख्या यस्यामुपलभ्यमानमभिधेयम् । अभिधीयते यतः स्यात्तत्कारणमन्तरेणापि ॥ "अत्रार्थशक्त्याक्षिप्तो रिरंसालक्षणोऽर्थः कविना सखीजनसव्याजगमनात्मिकया स्वोक्त्या भूयोऽपि व्यञ्जितः । यदुयदु- क्तम् – "शब्दार्थशक्त्याक्षिप्तोऽपिं व्यङ्ग्योऽर्थः कविना पुनः । यत्राविष्क्रियते स्वोक्त्या सान्यैवालंकृतिर्ध्वनेः ॥" यथा - "अम्बा शेतेऽत्र वृद्धा परिणतवयसामग्रणीरत्र तातो निःशेषागारकर्मश्रमशिथिलतनुः कुम्भदासी तथात्र । अस्मिन्पापाहमेका कतिपयदिवसप्रोषितप्राणनाथा पान्थायेत्थं तरुण्या कथितमवसरव्याहृतिव्याजपूर्वम् ॥" मनोहारिणीं लक्ष्मीमित्यनेन शोभा नाम नाट्यालंकारः - "रूपोपभोगतारुण्यैः शोभाङ्गानां विभूषणम् ।" यथा - "तां प्राङ्मुखीं तत्र निवेश्य बालां क्षणं व्यलम्बन्त पुरो निषण्णाः । भूतार्थशोभाह्रियमाणनेत्राः प्रसाधने संनिहितेऽपि नार्यः ॥" मुग्धाक्षीत्यनेन कान्तिश्च –"मन्मथाप्यायिता छाया सैव कान्तिरिति स्मृता ॥"
यथा मानं त्याजिता सती तत्कालमवलम्ब्यमानेर्ष्यातिरेकेण संयुज्यमाना रहसि रमणे रतिरमणरहस्यसर्वस्वमुन्मुद्रयति न तथा नित्यमेवेत्यनुसंधाय सखीभिः प्रणयमानं शिक्षिता सती ताः प्रति काचिदाह
भ्रूभङ्गे रचितेऽपि दृष्टिरधिकं सोत्कण्ठमुद्वीक्षते
रुद्धायामपि वाचि सस्मितमिदं दग्धाननं जायते ।
कार्कश्यं गमितेऽपि चेतसि तनू रोमाञ्चमालम्बते
दृष्टे निर्वहणं भविष्यति कथं मानस्य तस्मिञ्जने ॥ २८ ॥
लोचनगोचरे सति तस्मिञ्जने मानस्य निर्वाहः कथं भविष्यति, अपि तु न कथमपि
तस्मिन्नित्यनिर्वचनीयचमत्कारे जने इत्यर्थान्तरसंक्रमितत्वेन प्राणेश्वर इत्यर्थः । नहि
कृत्रिमैरुपायैरयुतसिद्धं वस्तु निह्नोतुं शक्यते । तदत्र क उपायः किं च वस्त्वित्याह-
भ्रूभङ्ग इत्यादिना । एवमेव तावत्प्रियतमं दृष्टिः सोत्कण्ठमुद्वीक्षते । भ्रुकुटिकौटिल्ये
नाटिते पुनरधिकं सोत्कण्ठमुद्वीक्षते । यथा कश्चित्पक्षी बलात्कारेण रुध्यमानः कथं-
कथमप्युड्डीय यत्रत्यो भवति तत्रैव गत्वा रमते । अभिनीतेऽपि वाचंयमत्वे ममेदं दग्ध-
मुखं सस्मितं भवति । धिक्कारे दग्धहतकादयः शब्दाः प्रयुज्यन्ते । अथ च तेन सार्ध-
मालापनमन्तरेणाप्रयोजनमाननं दग्धमेव । काठिन्यं गत इत्येव न, अपि तु काठिन्यं
गमिते । तथाभूतेऽपि मनसि तनुः पुलकं बिभर्ति । अथ च प्रिये काठिन्यं गमिते
चेतसि तनुः तनुस्वे (?) कृशेत्यर्थः । तस्मिन्दृष्टे मानस्य कथं निर्वाहो भविष्यति ।
कोऽर्थः – मया भ्रूभङ्गादीनि दुष्कराणि कृतानि, परंतु न मानो निर्व्यूढः । तस्मादतः-
परं मानार्थे यत्नमपि न करिष्यामीति प्रीतिप्रकर्षो भविष्यत्या व्यज्यते । उत्तरयत्नाक्षे-
पालंकारौ ॥
सा[^१] पत्युः प्रथमेऽपराधसमये सख्योपदेशं विना
नो जानाति सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् ।
स्वच्छैरच्छकपोलमूलगलितैः पर्यस्तनेत्रोत्पला
बाला केवलमेव रोदिति लुठ[^२]ल्लोलोदकैरश्रुभिः ॥ २९ ॥
सा बाला भर्तुर्व्यलीकप्रस्तावे केवलं रोदित्येव । कीदृशी । लम्बितपक्ष्मलोचनेन्दीवरा ।
कैर्विशिष्टा । अश्रुभिः । कथंभूतैः । निर्मलकपोलयोर्यन्मूलं नेत्रयोरधोभागस्तत्र क्षरितैः ।
पुनः किंविशिष्टैः । लुठल्लोलोदकैः निमेषार्धबद्धबिन्दुजालतया लुठत्पतनशीलत्वेन लोल-
मुदकं येषां तैः । पुनः कीदृशैः । नैरन्तर्येण प्रथममेवोन्मृष्टकज्जलत्वात्स्वच्छैः । अथ-
वा ईर्ष्यामानेऽप्यनुपन्यस्तवक्रोक्त्यादेर्नायिकायाः स्वच्छतानुमापकैः । उपचारेणाश्रु-
भिरपि स्वच्छैः । ननु किमिति रोदित्येवमुल्लुण्ठनादिकमेव किमिति नारभत इत्याह---
नो जानाति । किं तत् । सविभ्रमाङ्गवलनावक्रोक्तिसंसूचनम् सहेलंसविभ्रमाङ्गवलनावक्रोक्तिसंसूचनं सहेलं भ्रूक्षेपादिभिरङ्गवल-
नादिभिरनृजुभणितिभिश्चापराधस्य सम्यगनुमानम् । तदेव किमिति न वेत्तीत्याह---
सख्योपदेशं विना सख्येनोपदेशः अर्थात्सख्यास्तं विना । अत्र तावत्कविः प्रायस्तटस्थो
वक्ता । सेति पदं च दूतीदूतप्रभृतिकस्य रतिवासनालिङ्गितान्तःकरणस्य वा वक्तुर्युज्यते,
न तु तटस्थस्य । तस्मात् "कान्तस्य प्रथमेऽपराधसमये" इति पाठो युक्तः । अथानुरक्त
एव वक्तास्तु । मैवम् । पत्युरित्यनुपपन्नत्वात् ॥
काचिदन्यनायिकानुरक्तं नायकं प्रति ब्रूते
भवतु विदितं व्यर्थालापैरलं प्रिय गम्यतां
तनुरपि न ते दोषोऽस्माकं विधिस्तु पराङ्मुखः ।
तव यदि तथारूढं प्रेम प्रपन्नमिमां दशां
प्रकृतितरले का नः पीडा गते हतजीविते ॥ ३० ॥
हे प्रिय, भवतु अनुनयोपक्रमैरालापैरास्ताम् । कोऽर्थः - ज्ञातं तव स्वरूपम् । प्रसादनप्रवृत्तस्यापि सर्वाकारमन्यासक्तिशंसिन्येव च्छाया बाह्याकारेण दाक्षिण्यमात्रमेतत् । अत एव व्यर्थालापैः पूर्यताम् । त्वदधीनं मे जीवितमित्यादीनामालापानामर्थस्य विगतत्वाद्व्यर्थता । तस्माद्यत्रैव प्रतिभासते तत्रैव गम्यताम् । नहि प्रियस्य समीहितप्रतिबन्धः कर्तुं
[^१.] "प्राणेशप्रणयापराधसमये" इति शृङ्गारदीपिका. [^२.] "लोलालकैः" इति शृङ्गार-
दीपिका.
युज्यते । अस्मिन्प्रेमवैशसे तव स्वल्पोऽपि दोषो नास्ति । अस्माकमेव दैवं वक्ष्यमाणम-
रणाध्यवसायेन प्रतिकूलम् । अस्माकमिति बहुवचनमौदासीन्यव्यञ्जकम् । अनेकार्थत्वाद-
व्ययानां । तुशब्दोऽवधारणार्थ: । केन प्रकारेण विधिः पराङ्मुख इत्याह --- तव यदीत्या-
दि । तव यद्यनिर्वचनीयेन प्रकारेण कोटिं प्राप्तं प्रेम इमां प्रसादनसमयेऽप्यन्यासक्तिशं-
सनलक्षणामवस्थां प्रपन्नमस्मादस्माकं स्वभावगत्वरे निन्द्यजीविते गते का व्यथा । अपि
तु न कापि । प्रकर्षप्राप्तस्य प्रेम्णो विपर्यासे त्वेषैव स्थितिः । यथा रत्नावल्याम् ----
"समारूढा प्रीतिः प्रणयबहुमानादनुदिनं व्यलीकं वीक्ष्येदं कृतमकृतपूर्वं खलु मया ।
प्रिया मुञ्चत्यद्य स्फुटमसहना जीवितमहो प्रकृष्टस्य प्रेम्णः स्खलितमविषह्यं हि भव-
ति ॥" तनुरपि न ते दोष इत्यत्र तवैव गरीयान्दोष इति विपरीतलक्षणया निषेधे वि-
धिः । एवं च त्वयि निरनुक्रोशेऽस्माकं विधिः पराङ्मुख इति प्रीत्यतिशयः । तवेत्यर्था-
न्तरसंक्रमितत्वेन शठस्येत्यर्थः । वयं त्वदेकशरणाः, तस्मात्का नः पीडा । अपि तु तवैव ।
प्रकृतितरले इत्यनेन संसारस्यानित्यता प्रतिपाद्यते । वैराग्यं च शृङ्गारोपनिबन्धे वयं
तावदनुचितं मन्यामहे । यथोदाहृतं दोषनिर्णये मम्मटालकाभ्याम् --- "प्रसादे वर्तस्व
प्रकटय मुदं संत्यज रुषं प्रिये शुष्यन्त्यङ्गान्यमृतमिव ते सिञ्चतु वचः । निधानं सौख्यानां
क्षणभिमुखंक्षणमभिमुखं स्थापय मुखं न मुग्धे प्रत्येतुं प्रभवति गतः कालहरिणः ॥" अत्र शृङ्गारे
प्रतिकूलस्य शान्तस्यानित्यताप्रकाशनरूपो विभावस्तत्प्रकाशितो निर्वेदश्च व्यभिचारी ।
यद्यपि शुद्धतार्किकाणां जातिघोटिक(?)वैयाकरणानामैकान्तिकच्छान्दसानां च दन्त-
कलहो न निवर्तिष्यते, यद्यपि च करणीय(?)सहृदयाः प्रस्रवणनिरोधवाधिता (?) इव
नासासंकोचं करिष्यन्ति, तथापि परमार्थसहृदयैः कृतयोगक्षेमाः पाठान्तरमभिदध्महे---
"अकृतविफले का नः पीडा गते हतजीविते" इति नायकस्यान्यासक्तिलक्षणस्य नायि-
'कायाः प्रीतिलक्षणस्यान्तरस्य प्रतीतिजनको भावो नामालंकारः । यदुक्तम्- "अभिधे-
यमभिदधानं तदेव तदसदृशसकलदोषगुणम् । अर्थान्तरमवगमयति वाक्यं तदसौ परो
भावः" इति ॥
काचित्स्वैरिणी जरदभिसारिकया सोपदेशमभिधीयते ---
उरसि निहितस्तारो हारः कृता जघने घने
कलकलवती काञ्ची पादौ रणन्मणिनूपुरौ ।
प्रियमभिसरस्येवं मुग्धे त्वमाहतडिण्डिमा
यदि किमधिकत्रा[^१]सोत्कम्पं दिशः समुदीक्षसे ॥ ३१ ॥
हे मुग्धे, यदि त्वमित्थं वादितपटहा प्रियं प्रत्याभिमुख्येन गच्छसि, तदा अधिकत्रासेनोत्कम्पो यत्र तद्यथा भवत्येवं ककुभः किमित्युत्कंधरमीक्षसे । एवमाहतडिण्डिमा । एवं कथमित्याह---वक्षसि पारिप्लवं मुक्तादाम न्यस्तम् । शब्दायमाना मेखला नितम्बे
[^१.] "त्रासोत्कम्पा" इति शृङ्गारदीपिका.
निवेशिता । किंविशिष्टे । घने । प्रचुरपरिणाहिनीत्यर्थः । चरणौ च शिञ्जानरत्नमञ्जीरौ ।
हारश्चाकचक्यायमानतया प्रकाशकः, काञ्चीनूपुरौ च सशब्दत्वेन । पादौ रणन्मणिनूपु-
रावित्यत्र यद्यपि बहुव्रीहिणैव प्रकाशमानात्मकोऽर्थः संघटते, तथाप्युरसि हारवज्जघने
काञ्चीवदाधाराधेयभावेनाप्रयोगादुपक्रमभङ्गो दूषणम् । ईषद्दूषणत्वाच्चादूषणप्रायम् । मुग्धे
इत्यत्र मोहः प्रियसंगमौत्सुक्यवती विह्वलतैव अन्यथोपलम्भकारणानि भङ्क्त्वा किमित्य-
भिसरणमारभते । आहतडिण्डिमेत्यत्र लक्षणया सुप्रकाशकत्वमर्थः । अधिकत्रासोत्कम्प-
मित्यत्र च संकल्पकल्पितेन प्रियसमागमेन सात्त्विक एव तावदुत्कम्पः । त्रासेन पुनर-
धिक इति । अथ चाहतडिण्डिमा यदि प्रियमभिसरसि तदा किमद्यापि दिशः समुदी-
क्षसे । वेगेन गत्वा समीहितं साधयेति साभ्यसूयं कार्यशिक्षा । विषमोऽलंकारः । यदु-
क्तम् - "विषम इति प्रथितोऽयं वक्ता विघटयति कमपि संबन्धम् । यत्रार्थयोरसन्तं
परमतमाशङ्क्य तत्सत्त्वे ॥" यथा -– "यो यस्य नैव विषयो न स तं कुर्यादहो बलात्कारः ।
सततं खलेषु भवतां क्व खलाः क्व च सज्जनस्तुतयः ॥" अभिसारिकाश्च प्रदोषेषु विवा-
हादिप्रकरणेषु मध्याह्नशून्येषु मार्गेषु वसन्तोत्सवे उद्यानयात्रासु विदूरेषु चैवंविधेष्वन्ये-
ष्वपि संविधानक्रेषु संविधानकेषु कामुकमभिसरन्ति । यदुक्तम् --- "अटव्यामन्धकारे वा शून्ये वापि
सुरालये । उद्याने वा सरित्कुञ्जे प्रदेशे गर्हितेऽथवा । परदारेषु संकेतः कर्तव्यो रति-
सिद्धये । दूतीवक्रेण निश्चित्य स्वयं तत्र पुरा व्रजेत् ॥ ततः प्राप्तां प्रियां शीघ्रं सेवेत
रतिकोविदः । प्रेषयेदन्यमार्गेण स्वयमन्येन च व्रजेत् ॥ यथा न ज्ञायते कैश्चित्सुनिगूढो
विचक्षणः ॥" अभिसारयन्ति च दूत्यो नायिकामनेककौतुकवासनाभिः । यदुक्तमीश्वर-
कामिते – "प्रागेव स्वभवनस्थां ब्रूयात् अमुष्यां क्रीडायां तव राजभवनस्थानानि रामणी-
यकानि दर्शयिष्यामीति । काले च योजयेत् । बहिः प्रवालकुट्टिमं ते दर्शयिष्यामि ।
मणिभूमिकां वृक्षवाटिकां मृद्वीकामण्डपिकां चित्रकर्माणि यन्त्राणि क्रीडामृगान्-"
इत्यादि । भवननर्म चैतत् । यथा रत्नावल्यामालेख्यदर्शनावसरे– "जा[^१]णिदो मए एसो
सव्वो वुत्तन्तो समं चित्तफलएण । ता गदुअ देवीए कहइस्सम् ।" इत्यादि ॥
काचित्प्रोषितभर्तृका विरहार्तिमोहेन प्रतिविधानमाकाङ्क्षन्ती वर्षारम्भबलाहकं प्रत्याह --
मलयमरुतां व्राता याता विकासितमल्लिका-
परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि ।
घन घटयितुं तं निःस्नेहं य एव निवर्तने
प्रभवति गवां किं नश्छिन्नं स एव धनंजयः ॥ ३२ ॥
हे घन, चैत्रीयाश्चन्दनसमीरा वहन्ति स्म । निदाघकालोऽपि पर्यवसितः । किं
[^१.] "ज्ञातो मया एष सर्वो वृत्तान्तः समं चित्रफलकेन । तद्गत्वा देव्यै कथयिष्यामि ।"
इति च्छाया.
विशिष्टः । दलितकोमलविचकिलानां परिमलभरो यस्मिंस्तथा । उभयोरप्युद्दीपनवि-
भावयोः सुगन्धित्वोक्तिः । ताभ्यामपि प्रियो न मेलितः । अतएव वाता इति भग्न इति
चाक्षमत्वोक्तिः । लोके ह्यप्रयोजके वायुरिति व्यपदिश्यते परिश्रान्ते च भग्न इति ।
उभावाक्षिप्य मेघमुत्तेजयति — यदि परं तं प्रियमुद्दीपनविभावोद्गमेऽपि स्वस्थावस्थत्वा-
त्त्यक्तानुरागं मेलयितुं त्वमुद्यच्छसे । मेघागमे हि यथाकथंचिद्दूरदेशान्तरादप्यागत्य पा-
न्थाः कान्ताभिः सह संगच्छन्ते । अमुमेवार्थमाख्यानेन द्रढयति — य एव गवां निवर्तने
प्रत्यानयने क्षमते स एव धनंजयः । किमस्माकं त्रुटितम् । कोऽर्थः — वयं जीवाम एव ।
धनंजयपदमुचितम् । गोसमूहस्यापि धनशब्देन प्रसिद्धत्वात् । आख्यानकवाक्यान्तः-
पतितत्वात्किं नश्छिन्नमिति न गर्भितं नाम दूषणमाधत्ते । क्वचिदेवंविधस्य दोषस्यापि
गुणप्रतीतेः । यथा काश्मीरकबिह्लणस्य –"कृत्वा नूपुरमूकतां चरणयोः संयम्य नीवीम-
णीनुद्दामध्वनिपण्डितान्परिजने किंचिच्च निद्रायति । कस्मात्कुप्यसि यावदस्मि चलिता
तावद्विधिप्रेरितः काश्मीरीकुचकुम्भविभ्रमधरः शीतांशुरभ्युद्गतः ॥" इत्यत्र कस्मात्कुप्य-
सीति । अत्र हि संकेतप्राप्तस्य कामुकस्य वैमनस्यमपनेतुं स्वविलम्बकारणमुदाहरन्ती
स्वैरिणी वाक्यस्यान्तरेव प्रसत्तिजनकं कस्मात्कुप्यसीत्यवोचत् । तथा प्रोषितभर्तृकापि
मेघात्संभाव्यमानेऽपि प्रियसमागमे संकल्पितसमीहितसिद्धिरसमाप्तेऽपि वाक्ये किं न-
श्छिन्नमिति संतोषव्यञ्जकं पदमुक्तवती ॥
काचिदेकग्रामप्रवासेन मन्दमन्दोद्दीपितमन्मथानलज्वालाभिभूततनुर्व्याधिव्यपदेशेन मानमन्युमनुभवन्ती सपत्ननायिकासक्तं नायकं प्रति सोल्लुण्ठकरुणोपन्यासमाचष्टे—
प्रातःप्रातरुपागतेन जनिता निर्निद्रता चक्षुषो-
मन्दाया मम गौर[^१]वं व्यपगतं प्रोत्पादितं लाघवम् ।
किं[^२] तद्यन्न कृतं त्वया मरणभीर्मुक्ता मया गम्यतां
दुःखं तिष्ठसि यच्च पथ्यमधुना कर्तास्मि तच्छ्रोष्यसि ॥ ३३ ॥
यद्यपि मानविषयस्यार्थस्यात्र मुख्यता तथापि संविधानकवशेन रुग्विषय एवार्थ आदौ प्रतिपाद्यते — प्रतिप्रभातमागतस्त्वम् । रोगिणो हि विशेषाविशेषपरिज्ञानमिष्टजनः प्रभात एवागत्य करोति । मम चक्षुषोर्निद्रा निवारिता । किंविशिष्टायाः । मन्दायाः सरुजः । दिवास्वापो हि निषिद्धः सव्याधेः । दृष्टौ हि मीलनोन्मीलनपरिज्ञानार्थमवनं कार्यमिति विशेषणं चक्षुषोरिति प्रसिद्धं युक्तम् (?) । अन्यथा जनिता निर्निद्रितेत्येतावतैव पूर्यते । उचितप्रतिविधानैरेव यत्र पारवश्यं व्यपगतम् । अन्तर्भूतकारितार्थत्वे व्यपग मि तमि- व्यपग[मि]तमि- त्यर्थः । अन्यथा नायककर्तृकयोर्निद्रानिरोधलाघवोत्पादनवाक्ययोरन्तरा गौरवं स्वयमेव व्यपगतमिति प्रयोक्तुं न युज्यते । स्फूर्तिमत्त्वं प्रकर्षेणोत्पादितम् । अथवा किं बहुना,
[^१.] "गौरवव्यपनयादुत्पादितं" इति शृङ्गारदीपिका. [^२.] "किं मुग्धेन कृतं त्वया रम-
णभीः" इति शृङ्गारदीपिका.
किं तत्समयोचितं न कृतं त्वया । अपि तु सर्वं कृतम् । अत एव मृत्युभयं परित्यक्तं
मया । अतःपरं निःसंशयं जीविष्यामीत्यर्थः । इदानीं गम्यताम् । यतः कृच्छ्रमास्ते
भवान् । यच्चेदानीं मुद्गरसप्रायं पथ्यं करिष्यामि तदाकर्णयिष्यसि । कोऽर्थः– पथ्यं
श्रुतिविषयमेवास्तु, न तु दृष्टिविषयम् । दृष्टिविषये किल भवदीयकार्यसंकोचक्लेशकारिणी
वेला लगिष्यति । अथ प्रातःप्रातरुपागतोऽसि, न तु रात्रौ । तदा हि कदाचित्संगमा-
वकाशोऽपि संभवति । अन्यच्चान्याङ्गनासङ्गशंसीन्यधरक्षतादीन्यपि प्रातर्दृश्यन्ते । तानि
चाक्षिदुःखमुत्पादयन्ति । अत एव जनिता निर्निद्रिता चक्षुषोः । अन्यथा विरहवेदना-
जागरितसकलरात्रेर्दिवा कदाचिन्निद्रापि मुहूर्तं घटते । कचाकर्षणताद्यकरणादक्षमाय-
मम बहुमानो व्यपगमितः । तुच्छता तु प्रकर्षेण जनिता । अथ वा किं तद्यत्त्वया विरुद्धं
न कृतम् । अत एव मया मरणे निश्चयः कृतः । तदितः स्थानाद्गम्यताम् । यतोऽत्र
दुःखं तिष्ठसि । तत्रैव ते सुखमित्यर्थः । यच्चेदानीं प्राणपरित्यागलक्षणमुचितं करिष्यामि
तदवश्यं श्रोष्यसि । न तु कर्णपिधानादिना शोकावेगं सूचयिष्यसि । तवैव समीहित-
त्वात् । कर्तास्मीत्यत्र लुटि उत्तमैकवचनम् । मन्दामशब्दशक्त्युद्भव उपमालंकारः । यथा
सरागा वराकीति संभाव्यते तथा त्वयाहं संभावितेति प्रतीतेः । यदुक्तम् – "ननु शब्द-
शक्त्या यत्रार्थान्तरं प्रकाशते स यदि ध्वनेः प्रकार उच्यते तदानीं श्लेषस्य विषयोऽप-
हृत एव स्यात् । नापहृत इत्याह - "आक्षिप्त एवालंकारः शब्दशक्त्या प्रकाशते । य-
स्मिन्ननुक्तः शब्देन शब्दशक्त्युद्भवो हि सः" ॥
कस्यांचिदनुरक्तः कश्चित्स्वयं सवितर्कमनुसंधत्ते । विस्रम्भपात्रस्य वा प्रतिविधानप्रत्याशया कस्याप्यग्रे निवेदयति
सा बाला वयमप्रगल्भमनसः सा स्त्री वयं कातराः
सा पीनोन्नतिमत्पयोधरयुगं धत्ते सखेदा वयम् ।
साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वयं
दोषैरन्यजनाश्रयैरपटवो जाताः स्म इत्यद्भुतम् ॥ ३४ ॥
सा अनिर्वचनीया मुग्धा, वयं च तदप्राप्तिपर्याकुलतया अप्रगल्भमनसः । अथ च
यत्रैव बाल्यं तत्रैवाप्रगल्भमनस्कत्वं युज्यते । सा स्त्री, वयं च तां विना स्थातुं न शक्नुम
इति गतधैर्याः । अथ च यत्रैव स्त्रीत्वं तत्रैव कातरत्वमुचितं भवति । सा पीनं चोन्नति-
मच्च एवंविधं स्तनयुगलं बिभर्ति, वयं च तद्गाढालिङ्गनमप्राप्नुवन्तः सखेदाः । अथ च य
एव गुरुपदार्थभारं वहति स एव सखेदो दृश्यते । "भरं" इति पाठे स्तनभारं बिभर्ती-
त्यर्थः । अत्र पाठे धरभरमित्यनुप्रासालंकारः । भारश्च साक्षादुक्तः । पूर्वत्र तु पाठे पी-
नोन्नतिमत्त्वेन भार आक्षिप्यत इति । सा महता नितम्बभरेणाक्रान्तां, वयं च तां त-
त्प्राग्भारलीलालसगामिनीं स्मरन्तो जडिम्ना गन्तुं न क्षमाः । अथ च य एव महता भा-
रेणाक्रान्तो भवति स एव गन्तुं न शक्नोति । एवं सत्यन्यजनावलम्बिभिर्दोषैर्वयमसौष्ठवाः
संवृत्ता इत्याश्चर्यमेतत् । असंगतिरलंकारः । यदुक्तम् – "विस्पष्टं समकालं कारणमन्यत्र
कार्यमन्यत्र । यस्यामुपलभ्येते विज्ञेयाऽसंगतिः सेयम् ॥" दोषैरित्यत्र विपरीतलक्षणया
गुणैरित्यर्थः । अत एवानिर्वचनीयताद्योतकः सर्वत्र साशब्दः । अथ च तस्या एव दोषो
या यथाकथंचिदागत्य संकेते मया सह न संगच्छत इत्यभिप्रायः । अन्यच्च सा बाला
चेष्टाविशेषानुमेयानुरागापि प्रच्छन्नचाराद्ययोग्यतया संगमोपायं न जानातीत्युभयानुरागः।
एकानुरागे हि शृङ्गाराभास एव स्यात् । यथा बालरामायणस्योन्मत्तदशाननाङ्के । तत्र
हि सुलभानेकस्त्रीरत्नस्यापि रावणस्य यदप्राप्तावुन्मादो जातस्तस्याः प्राणेश्वररामचन्द्रै-
कचेतसो जानक्याः स्पृहणीयतातिशयः प्रतिपादितो भवति, न तु रसोपनिबन्धः । उ-
भयानुरागाभावात् ॥
काचिद्भाविप्रोषितभर्तृका आत्मानं प्रति सोपालम्भमाचष्टे —
प्रस्थानं वलयैः कृतं प्रियसखैरस्रैरजस्रं गतं
धृत्या न क्षणमा[^१]सितं व्यवसितं चित्तेन गन्तुं पुरः ।
यातुं निश्चितचेतसि प्रियतमे स[^२]र्वे समं प्रस्थिता
गन्तव्ये सति जीवित प्रियसुहृत्सार्थः किमु[^३] त्यज्यते ॥ ३६ ॥
हे जीवित, कृत्याकृत्यविवेकपराङ्मुखतया प्रियतमे देशान्तरं गन्तुं निःसंदेहमनसि
सति सर्वे सुहृदः सहैव प्रचलिताः । कथमित्याह — प्रस्थानं वलयैरित्यादि । दौर्बल्यवशेन
पतनशीलतया हस्ताभरणैः प्रस्थानं कृतम् । किं विशिष्टेः । प्रियसखैः वल्लभसहचरैः ।
प्रिये तिष्ठति तिष्टद्भिर्गच्छति गच्छद्भिरित्यर्थः । एवमस्रादिष्वपि प्रियसखत्वं योज्यम् ।
अस्रैरप्यनवरतं गतम् । अश्रूणामप्रवृत्तिरेवावस्थितिः गतिश्च प्रवृत्तिरेव । न त्वभाव
एव । तथा सत्यश्रूणामभाव एव स्यात् । संतोषेण क्षणमपि न स्थितम् । मनसापि पुनः
प्रथममेव गन्तुमुपक्रान्तम् । तत्त्वयाप्यवश्यगन्तव्ये सति कुतो हेतोः प्रियसुहृत्संघातः
परित्यज्यते । गम्यतामेवेत्यर्थः । आस्तां तावत्प्रियतमे गते, गन्तुं निश्चितचेतस्यपि
नायिका जीवितनिरपेक्षा बभूवेति भावः । सहोक्तिरलंकारः । यदुक्तम् — "भवति यथा-
रूपोऽर्थः कुर्वन्नेवापरं तथारूपम् । उक्तिस्तस्य समाना तेन समं या सहोक्तिः सा ॥"
यथा – "कष्टं सखे क्व यामः सकलजगन्मन्मथेन सह तस्याः । प्रतिदिनमुपैति वृद्धिं
कुचकलशनितम्बभित्तिभरः" ॥
संदष्टेऽधरपल्लवे सचकितं हस्ताग्रमाधुन्वतीं
मा मा मुञ्च शठेति कोपवचनैरानर्तितभ्रूलता ।
सीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी
प्राप्तं तैरमृतं श्रमाय मथितो मूढैः सुरैः सागरः ॥ ३६ ॥
[^१.] "आस्थितं" इति शृङ्गारदीपिका. [^२.] "सर्वैः समं प्रस्थितं" इति शृङ्गारदीपिका.
[^३.] "किमुत्सृज्यते" इति शृङ्गारदीपिका..
तैरेव पीयूषं लब्धं यैः सहर्षोत्तरलं मनस्विनी चुम्बिता । अधररस एवामृतमित्यर्थः ।
यावदप्रसादं हि मानिनी महान्तं संतापमुत्पादयति, प्रसन्ना च लोकोत्तरमानन्दम् ।
अत एवाचेतनैरमरैः खेदाय विलोडितः क्षीरोदः । किं कुर्वती चुम्बिता, दष्टाधरत्वा-
त्कराग्रं समन्ताद्धुन्वती । कथम् । सचकितम् । चकितमत्र चमत्कृतिरेव । क्व सति । ओष्ठ-
प्रवाले हठात्खण्डिते सति । किंविशिष्टा । सविलासतरङ्गितभ्रूवलिः । कैर्विशिष्टा । मा मा
मुञ्च शठेति कोपवचनैः । मा मेति पर्याकुलताप्रतिपादकाभ्यां शब्दाभ्याम्, मुञ्चेति क्रियया
च संभोगाभियोगस्य निषेधः । न तु ताभ्यां मुञ्चेति क्रियायाः । कोपस्य वचनैरेव, न तु
वास्तवेन कोपेन । पुनः कीदृशी । सीत्काराञ्चितलोचना सीत्कारपूर्वकं विलासदशास्पर्शेन
कूणिते लोचने यया सा तथोक्ता । कलहरूपं चैतत्सुरतम् । यदुक्तम् – "कलहरूपं
सुरतमाचक्षते । विवादात्मकत्वाद्वामशीलत्वाच्च कामस्य" इति । सीत्कारः कामिनीनां
दयितस्पर्शसुखातिशयेन हृदयोल्लासचमत्कारपूर्वकः श्वसितात्मा मन्मथोद्दीपनो मुखस्य
चेष्टाविशेषः । आक्षेपोलंऽकारः । यथा — "कुतः कुवलयं कर्णे करोषि कलभाषिणि ।
किमपाङ्गमपर्याप्तमस्मिन्कर्मणि मन्यसे ॥" अनुभवी वक्ता । यदपि चामी श्लोकाः संभो-
गमीर्ष्यामानं प्रणयमानेन, प्रणयमानमभिसरणेन, अभिसरणं प्रवासविप्रलम्भेन, तिरयन्ति
तदपि कवेरभिसंधानम् । अतिनिरन्तरमेकरसोपनिबन्धोऽप्युद्वेजको भवति । यथा ना-
टकादावभिनेयः सान्तरोपनिबन्धो रसश्चमत्कारी स्यात्तथैवंविधकाव्येषु श्रव्योऽपीति ।
किलकिञ्चितं चात्र नाट्यालंकारः । यदुक्तम् – "क्रोधाश्रुहर्षभीत्यादिसंकरः किलकिञ्चि-
तम् ।" यथा —"रतिक्रीडाद्यूते कथमपि समासाद्य समयं मया लब्धे तस्याः क्वणितकल-
कण्ठार्धमधरे । कृतभ्रूभङ्गासौ प्रकटितविलक्षार्धरुदितस्मितक्रोधोद्भ्रान्तं पुनरपि विद-
ध्यान्मयि मुखम् ॥" "सानन्दान्तः कुट्टमिते कुप्येत्केशाधरग्रहे" इत्यनेन कुट्टमित-
मपीति ॥
काचिन्नर्मसख्याः पुरतः कथयति
सुप्तोऽयं सखि सुप्यतामिति गताः सख्यस्ततोऽनन्तरं
प्रेमावेशितया मया स[^1]रलया न्यस्तं मुखं तन्मुखे ।
ज्ञातेऽलीकनिमीलने नयनयोर्धूर्तस्य रोमाञ्चतो
लज्जासीन्मम तेन साप्यपहृता तत्कालयोग्यैः क्रमैः ॥ ३७ ॥
हे सखि, अयं ते दयितः सुप्तैस्तस्मादस्माभिरपि सुप्यतामिति मां प्रत्युक्त्वा सख्यासख्यो गताः । ततः प्रघटनानन्तरं प्रेमग्रहगृहीतया तत्रापि प्राञ्जलया मया प्रियमुखे स्वमुखं निवेशितम् । अथ तस्य धूर्तस्य रोमाञ्चचिह्नेन नेत्रयोर्मिथ्यासंकोचने ज्ञाते मम व्रीडा बभूव । तेन च संभोगसमयोचिताभिर्नीवीव्यपनयनप्रायाभिः परिपाटीभिः सापि लुण्ठिता । कोऽर्थः— अहमपि तत्कालोचितप्रवृत्तिरभूवम् । सुप्यतामिति पदस्याग्रे
[^१.] "तरलया" इति शृङ्गारदीपिका.
उक्त्वेत्यध्याहरणीयम् । सुप्तमुखचुम्बनं च नायिकानां रागोद्दीपनम् । यदुक्तम् — "सुप्तस्य
मुखमालोकयन्त्याः स्वाभिप्रायेण चुम्बनं रागोद्दीपनम्" इति । यच्च तेन रिरंसुना विज
नमाकाङ्क्षतालीकनिमीलनं कृतं तत्सख्यो जानन्ति, अत एवायमित्यर्थान्तरसंक्रमितत्वेन
धूर्तोऽस्मन्निर्गमाय सुप्त इत्युपन्यस्य स्वयमुत्थाय गताः । अर्थान्तरसंक्रमितस्योदाहरणमे-
तत् — "स्निग्धश्यामलकान्तिलिप्तवियतो वेल्लद्बलाका घना वाताः शीकरिणः पयोदसुहृ-
दामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु
कथं भविष्यति हहा हा देवि धीरा भव ॥" अत्र हि पितृमरणादिदुःखसहनक्षमत्ववि-
शिष्टो राम इति संज्ञा प्रतीयते न तु संज्ञिमात्रम् । यदुपज्ञेन ध्वनिवर्त्मना संचरमाणाः
सचेतसः प्रहर्षं प्राप्नुवन्ति तेषामाचार्याणामुक्तिषु मीमांसायां के वयम् । परं तथाप्या-
त्मावबोधार्थमिदमुदाहरणं परामृशामः — ननु सर्वंसहत्वे हेतुभूतकठोरहृदयत्वेनैव राम
इति संज्ञिनो वैशिष्ट्यमुच्यते । यदि कठोरहृदयत्वमत्र सर्वंसहत्वे हेतुभूतमभविष्यत्तदा
राम इति पदमेव न प्रायोक्ष्यत । वैदेही तु कथं भविष्यतीत्यनेनैव दाशरथिप्रतीतेः ।
तस्मात्कठोरहृदयत्वविशिष्टस्यैव संज्ञिनस्तत्त्वान्तरं ध्वननीयम् । येन मया प्रवासकाले
मातृभिः स्थाप्यमाना त्वमयोध्यायामुपेक्षिता सोऽहं शतकोटिकोटिकर्कशचेताः सर्वं-
सहः । नहि मया त्वमाहूता, अपि तु स्वयमागता । यथा — "कृतककुपितैर्बाष्पाम्भोभिः
सदैन्यविलोकितैर्वनमपि गता यस्य प्रीत्या धृतापि तथाम्बया । नवजलधरश्यामाः
पश्यन्दिशो भवतीं विना कठिनहृदयो जीवत्येव प्रिये स तव प्रियः ॥" यच्चालोचनका-
रेण पितृमरणादिदुःखसहनक्षमत्वं ध्वनिविषयीकृतं तदसत् । दुःखस्य विजातीयत्वात् ।
नहि प्रियाविरहसंतप्तः पुमाञ्जीवतो लोकान्तरितस्य वा पितुः स्मरति ॥
काचिन्मानिनी बहुभिरुपायैरतिनिर्बन्धप्रसादनेन गतकल्पं मानं परित्यक्तुमनाः प्रियं प्रति ब्रवीति
कोपो यत्र भ्रुकुटिरचना निग्र[^१]हो यत्र मौनं
यत्रान्योन्यस्मितमनुनयो दृ[^२]ष्टिपातः प्रसादः ।
तस्य प्रेम्णस्तदिदमधुना वैशसं पश्य जातं
त्वं पादान्ते लुठसि न च मे मन्युमोक्षः खलायाः ॥ ३८ ॥
तस्यावयोरेवंविदितस्य प्रेम्णस्तदिदमतिगर्हितमधुना वैशसं विनाशो जातः पश्य, मान्धो भूः । तस्य कस्येत्याह - यत्र प्रणयकलहेषु भ्रुकुटेरभिनय एव रोषः । वाक्पारुष्येणापि मनसो दूषयितुमशक्यत्वाद्वचननिरोध एव यस्मिन्निग्रहः । क्रीडाकमलादिनापि ताडनस्य दुष्करत्वात्परस्परमनुवृत्तिवशीकरणव्यञ्जकमीषद्धसितमेव प्रसादनम् । सामदानाद्युपायानामपि भेदसूचकत्वात् । उभयोरपि तुल्यकालमेव प्रसादनमभिलषितमिति प्रतिपादयितुमन्योन्यशब्दप्रयोगः । दृष्टिक्षेप एव यत्रानुग्रहः । चरणपतनाद्यसंभवे
[^१.] "विग्रहो" इति शृङ्गारदीपिका. २. "यत्र दृष्टिः प्रसादः" इति शृङ्गारदीपिका.
बाहौ धृत्वोत्थापनादिसंप्रतिपत्तेरभावात् । कीदृशं प्रेम्णो वैशसमित्याह — त्वमुरःस्थलै-
कधारणीयः पादसमीपे लुठसि, न तु पादयोः । अपराधातिशयाभावात् । न च मे दु-
र्जन्याः स्वान्तस्थस्य क्रोधशल्यस्य परित्यागः । कोऽर्थः तथा निःशङ्केन किमप्याचरितं
यथाहमप्यनन्यशरणा ते दुर्जनी जाता। अवसरोऽलंकारः । यदुक्तम् – "अर्थान्तरमुत्कृष्टं
सरसं यदि वोपलक्षणीक्रियते । अर्थस्य तदभिधानं प्रसङ्गतो यत्र सोऽवसरः ॥" यथा—
"तदिदमरण्यं यस्मिन्दशरथवचनानुपालनव्यसनी । निवसन्बाहुसहायश्चकार रक्षःक्षयं
रामः ॥" धीराधीरा प्रगल्भा मध्या नायिका । चतुर्थवाक्ये यत्रशब्दप्रयोगाभावादुप-
क्रमभङ्गः ॥
सुतनु जहिहि मौनं पश्य पादानतं मां
न खलु तव कदाचित्कोप एवंविधोऽभूत् ।
इति निगदति नाथे तिर्यगामीलिताक्ष्या
नयनजलमनल्पं मुक्तमुक्तं न किंचित् ॥ ३९ ॥
मानिन्या मानत्यागसूचकं वाष्पसलिलमस्तोकं दुर्निवारत्वेन मुक्तम्, प्रतिवचनं च न
किंचिदुदीरितम् । किंविशिष्टया । तिर्यगामीलिताक्ष्या अपराधक्षपणलक्षणयापमानलज्जया
साचि यथा भवत्येवं बाष्पनिरोधबुद्ध्या समन्तात्संकोचिते अक्षिणी यया सा तथोक्ता तया ।
क्व सति । नाथे निर्बन्धेनेति निगदति सति । इति किम् । हे सुतनु, मौनं त्यज । मानज-
नितातिकार्कश्याद्वाङ्निरोधहृदयाध्माननिरुच्छ्वासात्कुसुमशरजयश्रीकार्मणमङ्गनिर्माणमिदं
दुर्दशां मा नैषीरिति भावः । अथवा यदि वचनामृतैरभिषिच्य मां संतप्तं नाह्लादयसि
तर्हि चरणपतितं दृष्टिप्रसादेन संभावय। आत्मनः प्रियामानात्मकविप्रलम्भदुःसहताका-
रणमाह — निश्चयेन तव जातु कदाचिदीदृशः क्रोधो नासीत् । यदि चाभविष्यत्तदा त-
त्संस्कारवशादिदानीमपि सहिष्ये ॥
कश्चिन्नर्मविदग्धो वियोगी तदेकतानेन मानिनीसर्वस्वमनुध्यायति—
गाढालिङ्गनवामनीकृतकुचप्रोद्भू[^१]तरोमोद्गमा
सान्द्रस्नेहरसातिरेकविगलच्छ्री[^२]मन्नितम्बाम्बरा ।
मा मा मानद माति मामलमिति क्षामाक्षरोल्लापिनी
सुप्ता किं नु मृता नु किं मनसि किं लीना विलीना नु किम् ॥ ४० ॥
किं नु शयिता, उतस्विदुपरतैव, अथवान्तःकरणेऽभेदं प्राप्ता, आहोस्विद्द्रवतां ययौ, इत्यमुना संदेहेनानिर्वचनीयावस्था। मदकलकलहंसचञ्चुकोटित्रोटितकोमलमृणालिनीकिसलयवत्परिक्लान्तैरङ्गकैः प्राभातिकनीलेन्दीवरवन्मुकुलितेन लोचनयुगलेन विलयं गच्छन्ती नोपलब्धेत्यर्थः । तस्यापि तत्कालमानन्देन मन्दचेतनत्वात् । केन क्रमेणैवंविधा बभूवे
[^१.] "प्रोद्भिन्न" इति शृङ्गारदीपिका. [^२.] "काञ्चीप्रदेशाम्बरा" इति शृङ्गारदीपिका.
त्याह — गाढेत्यादि । अतिनिर्भराश्लेषेणावामनौ वामनौ कृतौ यौ कुचौ तत्र प्रकर्षेणो-
द्भूतः पुलकोद्गमो यस्याः सा तथोक्ता । कथमुल्लापिनीति । मा, मा, मानद मानखण्डन,
मा अतिशयेन । मामलमित्यत्र पीडयति क्रियां विना पर्याकुलताद्योतकमर्धोक्तम् ।
मा मेत्यादि पौनरुक्त्यं च सुन्दरम् । अत्रापि यदि कथ्यते तदा वधू रुष्यति, यदि मौ-
नाय्यते तदा गृहं नश्यति । तथापि करुणबीभत्सस्मारकं मृतेति पदं न मानयामः ।
तस्मात् "किं म्लाना शयिता नु किं मनसि मे लीना विलीना नु किम्" इति पठिष्यामः ।
संशयोऽलंकारः । यदुक्तम् – "वस्तुनि यत्रैकस्मिन्ननेकविषयस्तु भवति संदेहः । प्रतिपत्तुः
सादृश्यादनिश्चयः संशयः स इति" ॥
अभिनवस्नुषा प्रथमनर्मारम्भे किं करोतीत्याह —
पटालग्ने पत्यौ नमयति मुखं जातविनया
हठाश्लेषं वाञ्छत्यपहरति गात्राणि निभृतम् ।
न[^१] शक्नोत्याख्यातुं स्मितमुखसखीदत्तनयना
ह्रिया ताम्यत्यन्तः प्रथमपरिहासे नववधूः ॥ ४१ ॥
वस्त्राञ्चलाकर्षिणि प्रिये किंचिदङ्गीकाराज्जातप्रश्रया मुखं नमयति । बलात्कारेण परिरम्भमाकाङ्क्षति सत्यङ्गानि निभृतं यथा भवत्येवमन्यतो नयति । न तु मध्यावत्सभ्रूभङ्गाभ्यसूयाभिनयपूर्वकमपहरति । अत्रैवावसरे स्मितमुखीं वरसंनिधिं प्रापयितुमागतां सहचरीं प्रति क्षिप्तलोचना तत्कालोचितप्रियप्रश्नोत्तरमाख्यातुं न क्षमते । यदि कथमपि सखी नाभविष्यत्तदा सा कदाचित्किंचिदाख्यातुमप्यक्षमिष्यतेत्यर्थः । इत्थमन्तःकरणे लज्जया ताम्यति । लज्जा तस्याः प्रियतमस्वच्छन्दसंगमप्रतिकूला वैरिणी जातेत्यर्थः । यदुक्तम् – "दूरादुत्कण्ठन्ते दयितानां संनिधौ तु लज्जन्ते । ताम्यन्ति वेपमानाः शयने नवपरिणया वध्वः ॥" मुग्धानां च प्रियोपक्रान्तसंभोगच्छलारम्भ एवाकल्पिकेयमिति कौतुकिन्यः सख्यो न सत्वरमेव संनिधानमुज्झन्ति । जातिरलंकारः । यदुक्तम् – "संस्थानावस्थानक्रियादि यद्यस्य यादृशं भवति । लोके चिरप्रसिद्धं तत्कथनमनन्यथा जातिः ॥" "हरति रुचिरं गाढाश्लेषे यदङ्गकमाकुला स्थगयति तथा यत्पाणिभ्यां मुखं परिचुम्बने । यदपि बहुशः पृष्टा किंचिद्ब्रवीत्यपरिस्फुटं रमयतितरां तेनैवासौ मनोऽभिनवा वधूः ॥" रते वामा मुग्धा नायिका । विहृतं नाम नाट्यालंकारः । "प्राप्तकालं न यद्ब्रूयाद्व्रीडया विहृतं हि तत्" ।
नोपेतोऽनुनयेन यः प्रियसुहृद्वाक्यैर्न यः संहृतो यो दीर्घं दिवसं विषह्य विष[^२]मं यत्नात्कथंचिद्भृतः ।
[^१.] "अशक्ता चाख्यातुं" इति शृङ्गारदीपिका. २. "हृदये" इति शृङ्गारदीपिका.
अन्योन्यस्य हृते मुखे निहित[^१]योस्तिर्यक्कथंचिद्दृशोः
स[^२] द्वाभ्यामतिविस्मृतव्यतिकरो मानो विहस्योज्झितः ॥ ४२ ॥
स प्रणयमानो द्वाभ्यामतिशयेन विस्मृतानुसंधानः स्वयं विहस्य मुक्तः । कयोः सत्योः ।
दृशोस्तिर्यक्कथंचिन्निक्षिप्तयोः । क्व । मुखे । कस्य । अन्योन्यम्य । किंविशिष्टे । कोपाद-
न्यतो नीते । दृशोर्मुखे इत्युभयत्रान्योन्यस्येति संबन्धः । स कः । यः प्रसादनेन नाप-
गतः । यः सखीप्रभृतीनां वचनैर्न शमितः । यश्च वियोगव्यथया दीर्घं विषयं च दिवसं
प्रतिपाल्य गतकल्पोऽपि लाघवशङ्कया यत्नात्कथंचित्कथमपि व्यवस्थापितः । "यत्रासं-
भाव्यभावो वा" इति विषममलंकारः ॥
काचिन्मनस्विनी दयितव्यलीकखेदं सख्याः कथयति
गते प्रेमा[^३]बन्धे प्रणयबहुमाने विगलिते
निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।
तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसा-
न्न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥ ४३ ॥
हे प्रियसखि, न वेद्मि किं कारणं यन्मे हृदयं शतधा न स्फुटति । कस्मिन्सती-
त्याह — स्नेहानुबन्धे गते । अन्योन्यगुणवशीकारगौरवे गलिते । निष्प्रपञ्चनायां निवृत्ता-
याम् । विधेये प्रियतमे उदासीन इव गच्छति । किं कृत्वा हृदयं शतधा न याति, त-
त्पूर्वोक्तं पर्यालोच्य षड्गुण यत्वेति (?) लोकोक्तिः । न परं तदुत्प्रेक्षा । विधेयेन प्रेयसा
सह व्यतीतांस्ताननिर्वचनीयवासरान् । इदानींतनदुःखं प्राक्तनं सुखमनुस्मृत्येत्यर्थः ।
यथा किंचिदपक्वपात्रस्थितमवष्टम्भेन विना विदीर्यते तथा मानाध्मातं हृदयं प्रेमबन्धेन
विना किमिति न स्फुटतीत्युक्तिलेशः । नायिकाः खलु सानुरागमपि नायकमीर्ष्याकालेषु
निरनुरागं व्यपदिशन्तीत्येकानुरागो नात्र शङ्कनीय इति ॥
चिरविरहिणोर[^४]त्युत्कण्ठाश्लथीकृतगात्रयो-
र्नवमिव जगज्जातं भूयश्चिरादभिनन्दतोः ।
कथमिव दिने दी[^५]र्घे याते निशामधिरूढयोः
प्रसरति कथा बह्वी यूनोर्यथा न तथा रतिः ॥ ४४ ॥
बहुदिनवियोगिनोर्भागधेयैः संगतयोस्तरुणयोर्यथा लम्भकानुपलम्भकैर्भूयसी गृहदेशान्तरानुभूतवृत्तान्तकथा प्रसरति न तथा संभोगः । किंविशिष्टयोः । महता कष्टेन दीर्घेऽहनि व्यतीते सति रात्रिमधिरूढयोः । अथ च दीर्घं निःश्रेणिकाप्रायं पदार्थमतिक्र
[^१.] "विहितयोः" इति शृङ्गारदीपिका. [^२.] "संबन्धे सपदि स्मितव्यतिकरे" इति
शृङ्गारदीपिका. [^३.] "प्रेमावेशे" इति शृङ्गारदीपिका. ४. "उत्कण्ठार्त्या" इति शृङ्गारदी-
पिका. [^५.] "याते दीर्घे" इति शृङ्गारदीपिका.
म्योच्चैरधिरुह्यते । प्राप्तयोरित्येतावन्मात्रे वाच्येऽधिरूढयोरिति लक्षणया लब्धोत्कर्षयो-
रित्यर्थः । यथा कश्चिदभिमानी गजस्कन्धाधिरूढः । संपूर्णमनोरथत्वेन किंचिन्न मान-
यति । दिन एव किंविशिष्टयोरित्याह - रत्युत्कण्ठाश्लथीकृतगात्रयोः । अस्मिन्दुरात्मनि
दिने गते प्राप्तैकान्तौ स्वच्छन्दं रंस्यावह इति सुरतोत्कलिकया शिथिलीकृतान्यङ्गानि
याभ्यां तयोः । रिरंसोर्हि प्रतिक्षणमुद्धृषितहृदयस्यावयवाः शिथिलीभवन्ति । पुनः क-
थंभूतयोः । भूयो नूतनमिव संसारमभिलक्ष्यीकृत्य समुद्धृतयोः । कदा । चिरात् । कोऽर्थः ।
अद्य प्राग्विरहनिष्फलत्वेन जगन्नष्टमिति ताभ्यां चिन्तितम् । बह्वीशब्दस्यायमभिप्रा-
यः — रतिरपि बह्वी परं कथामानेन न भवति । सुरतान्तरालेषु परस्परवृत्तान्तोपवर्णन-
प्रश्नपरम्पराभिर्विभावरी प्रयाति, निद्रायाः कथैव नास्तीति तात्पर्यम् ॥
दीर्घा वन्दनमालिका विरचिता दृष्ट्यैव नेन्दीवरैः
पुष्पाणां प्रकरः स्मितेन रचितो नो कुन्दजात्यादिभिः ।
द[^१]त्तः स्वेदमुचा पयोधरभरेणा[^२]र्धो न कुम्भाम्भसा
स्वैरेवावयवैः प्रियस्य विशतस्तन्व्या कृतं मङ्गलम् ॥ ४५ ॥
यथ यथा कश्चिद्वशीकर्तुकामः सर्वाधिकारेषु स्वीयमेव कुटुम्बं नियुङ्क्ते तथा दयितस्य गृहं
प्रविशतः कृशाङ्ग्याः स्वैरेवाङ्गैर्मङ्गलमुपढौकितम् । किं तदित्याह - दीर्घेत्यादि । उत्स-
वेषु या तोरणादिसंनिवेशनीया लोकप्रसिद्धा वन्दनमाला सा दृष्टयैव दीर्घा सूत्रिता न
तु कुवलयैः । कुसुमानामितस्ततः प्रक्षेप ईषद्धसितेनैव निर्मितो न पुनर्मालत्यादिभिः ।
स्वेदस्यन्दिना स्तनप्राग्भारेणैवार्घः संपादितः, न तु कलशतोयेन । दृष्ट्यैवेत्यत्र य एवकारः
स एव स्मितेनेत्यत्र पयोधरभरेणेत्यत्र चानुवर्तते । वन्दनमालिकेत्यत्र स्वार्थे कप्रत्ययः । न
तु ह्रस्वार्थे । तथासति दीर्घेत्यस्यानुपपद्यमानत्वात् । दैर्घ्येण स्निग्धश्यामलत्वेन पक्ष्मलत्वेन
च दृष्ट्यैव यदर्थः साधितस्तैरिन्दीवरैः किम् । सौकुमार्येण वैशद्येन परिमलेन च स्मितेनैव
यत्कार्यमनुष्ठितं तेन पुष्पप्रकरेणालम् । काठिन्येन प्रथिम्ना सजलत्वेन गरिम्णा च पयो-
धरेणैव यद्विधेयं संपादितं तेन कुम्भाम्भसा पर्याप्तमित्याक्षेपोऽलंकारः । इन्दीवरैः कुन्द-
जात्यादिभिरिति बहुवचनापेक्षया दृष्टिस्मितयोरेकवचनेन महानुत्कर्षः । अयमवश्यं गृह-
प्रवेशो देशान्तरादागतस्यावधार्यमाणो रसपुष्टिमाधत्ते । अत एव तन्व्येति । "भाविन्या-
गमने भर्तुरात्मानं च गृहं च या । अलंकरोति हर्षेण सा स्याद्वासकसज्जिका ॥" इत्यनेन
तत्कालं वासकसज्जा नायिका ॥
अद्य त्वमन्यादृशी, वयमेव दुर्जनीभूताः स्मः । युवां पुनरभिन्नावेवेति सस्मितं सख्या प्रभाते पृष्टा काचित्तां प्रत्याह—
कान्ते सागसि शा[^३]पिते प्रियसखीवेषं विधायागते भ्रान्त्यालिङ्ग्य मया रहस्यमुदितं तत्संगमाकाङ्क्षया ।
[^१.] "दत्तम्" इति शृङ्गारदीपिका. [^२.] "अर्घ्यम्" इति शृङ्गारदीपिका. ३. "यापिते"
इति शृङ्गारदीपिका.
मुग्धे दु[^१]ष्करमेतदित्यतितमामुद्दामहासं बला-
दाश्लिष्य च्छलितास्मि तेन कितवेनाद्य प्रदोषागमे ॥ ४६ ॥
सापराधे प्रेयसि यद्यस्मद्गृहमागच्छसि तदामुकशपथस्तवेति निवारितेऽप्यमुकसखीवेषं
कृत्वा प्राप्ते सति मया निजवयस्याभ्रमेण परिरभ्य प्रियसंगमस्पृहया स दुरात्मा यद्येवं
परिरभ्यत इत्यादिकमपि रहस्यमुक्तम् । अथ सिद्धसमीहितेन तेन शठेन मुग्धे यदेत-
त्त्वयोक्तं तन्मम दुष्करमित्युक्त्वा निरतिशयेन सशब्दहासं यथा भवत्येवं हठादालिङ्ग्याद्य
रजनीमुखसमये वञ्चितास्मि । तदाहं तमज्ञास्यम् । भवादृशीनां सखीनामेव भ्रमेण
मुष्टास्मीति भावः । अत्र कामुकस्य हठाश्लेष उद्दामहासोपलम्भेन नायिकाया अपसरणं
सूचयति । अन्यथा सखीभ्रमेण स्वयं कृताश्लेषायाः कीदृशं हठालिङ्गनम् । मुग्धे इत्यत्र
पत्यौ सखीमोहः रहस्यमुदितमित्यनेन काममोहश्च । रसान्तरं प्रसादनोपायः । यथा —
"अभिव्यक्तालीकः सकलविफलोपायविभवश्चिरं ध्यात्वा सद्यः कृतकृतकसंरम्भनिपु-
णम् । इतः पृष्ठे पृष्ठे किमिदमिति संत्रास्य सहसा कृताश्लेषां धूर्तः स्मितमधुरमाश्लिष्यति
वधूम् ॥" समयाभियोगश्चायं नायकस्य । यदुक्तम् — "प्रदोषे निशि तमसि च योषितो
मन्दसाध्वसाः सुखेन सुरतव्यवसायिन्यो रागवत्यश्च भवन्ति" इति । प्रदोषागमे छलिते-
त्युचितम् । अन्यस्यापि यस्य भूतादिच्छलनं भवति तस्य प्रदोषे प्रायः श्रूयते । अद्य
प्रदोषागमे इत्यत्राद्यशब्दो विचार्यते — यदैव सा छलिता तदैव नायकः संप्रतिपत्तिमात्रं
कृत्वा गत इति तावन्न घटते । यतो मानिनी सखीवेषप्रायोपायकष्टप्रसादिता सर्वा शर्वरी
लालनीया भवति । अगते च तस्मिन्प्रदोषसमयानन्तरं कस्याग्रे कथं वा स्ववृत्तान्तं
निवेदयति । न चैवंविधानि वाक्यानि मनोगतानि घटन्ते । ततश्चाद्यशब्दः कथमुपप-
द्यते । अत्रोच्यते — लोकोक्तिमात्रमेतत् । यथा व्यतीतरात्रिवृत्तान्तेऽप्युपवर्ण्यमाने
अद्य रात्रौ मया स्वप्नो दृष्ट इति व्यवह्रियते । तथा अद्य प्रदोषागमे इत्यत्रापि ॥
कश्चिद्वियोगी प्रियतमामानवृत्तान्तमनुस्मरति —
आशङ्क्य प्रणतिं पटान्तपिहितौ पादौ करोत्यादरा-
द्व्याजेनागतमावृणोति हसितं न स्पष्टमुद्वीक्षते ।
मय्यालापवति प्रतीपव[^२]चनं सख्या सहाभाषते
तन्व्यास्तिष्ठतु निर्भरप्रणयिता मानोऽपि रम्योदयः ॥ ४७ ॥
तन्व्यास्तावदास्तां निरन्तरमनुवृत्तिपरता, यावन्मानोऽपि रमणीयोदयः । सर्वास्ववस्थासु स्पृहणीयेति भावः । कथमित्याह — आशङ्क्येत्यादि । एष प्रणामं करिष्यतीति चेष्टाविशेषैरनुमीय प्रयत्नाद्वस्त्राञ्चलावगुण्ठितौ स्वचरणौ विदधाति । न त्वन्यतो नयति । कोपस्य स्वल्पत्वात् । पूर्वानुभूतस्य कस्यचिन्नर्मण उल्लेखेनाकस्मादागतं हास्यं किमिद
[^१.] "दुष्कर एष इत्यतितरामुक्त्वा सहासं बलादालिङ्ग्य" इति शृङ्गारदीपिका.
[^२.] "वचना सख्या समं भाषते" इति शृङ्गारदीपिका.
मिति मिथ्यापदार्थनिर्वर्णनार्थं ग्रीवावलनापदेशेन रुणद्धि । व्यक्तं नावलोकते । मय्यन्य-
तोमुखेऽन्तरान्तरा पश्यतीत्यर्थः । मयि वाङ्मिश्रणार्थमालापयुक्ते तदन्तरार्थं सख्या सह
विपरीतवचनमाचष्टे । लेशोऽलंकारः । यदुक्तम् — "दोषीभावो यस्मिन्गुणस्य दोषस्य
वा गुणीभावः । अभिधीयते तथाविधकर्मनिमित्तः स लेश इति" ॥
या[^१]वन्त्येव पदान्यलीकवचनैरालीजनैः पाठिता
तावन्त्येव कृतागसो द्रुततरं [^२]संलप्य पत्युः पुरः ।
प्रा[^३]रेभे परतो यथा मनसिजस्येच्छा तथा वर्तितुं
प्रेम्णो मौग्ध्यविभूषणस्य सहजः कोऽप्येष कान्तः क्रमः ॥ ४८ ॥
मुग्धा यावन्त्येव पदानि व्यलीकवचनैः कृत्वा सखीजनैः शिक्षिता तावन्त्येव कृता-
पराधस्य भर्तुरग्रे अनन्यसामान्योऽयमर्थो मयैव केवलं साधित इत्यद्भुतातिशयेन शुक्रव-
दुच्चार्य तदनन्तरं यथा मनसिजस्येच्छा तथा चेष्टितुमुपचक्रमे । संभोगप्रवणा बभूवेत्यर्थः।
यतः प्रेम्णो मौग्ध्येन शोभमानस्याकृत्रिमः कोऽप्यनिर्वचनीयः सुन्दरः प्रकारः । अलीक-
वचनैरित्यत्रालीकशब्दो व्यलीकवदपराधार्थः । यथा — "अभिव्यक्तालीकः" इत्यादि ।
तेनापराधे यानि वचनान्युच्यन्ते तैरलीकवचनैः, न तु प्रणयमानार्थं मिथ्यापराधारोपकै-
रिति । अन्यथा कृतागस इत्यस्यानुपपद्यमानत्वात् । संलप्येति क्त्वाप्रत्ययेन पूर्वकाल-
तायां प्रतिपादितायां मनसिजस्येच्छावर्तनस्य यद्यपि परत्वं स्वतःसिद्धं तथाप्यमुकं
कृत्वा पश्चादमुकं कर्तव्यमिति लोकोक्त्या परतःशब्दो नाधिकः ॥
दूरादुत्सुकमागते विवलितं संभाषिणि स्फारितं
संश्लिष्यत्यरुणं गृहीतवसने को[^४]पाञ्चितभ्रूलतम् ।
मानिन्याश्चरणानतिव्यतिकरे बाष्पाम्बुपूर्णे[^५]क्षणं
चक्षुर्जातमहो प्रपञ्चचतुरं जातागसि प्रेयसि ॥ ४९ ॥
अहो आश्चर्यम् । यज्जातापराधे प्रियतमे मानिन्याश्चक्षुरनेकरूपतादक्षिणं संवृत्तम् । कथं तथा जातमित्याह — दूरादित्यादि । यदि तमपराधकारिणं पश्यामि तदा शिक्षां ग्राहयामीत्युत्पन्नकोपावेगेन दूरस्थे तस्मिन्नुत्सुकम् । सविधं प्राप्तेऽवधीरणयान्यतो नीतम् । वक्तुं प्रवृत्ते सत्यद्यापि निःशङ्को वदन्वर्तत इत्याक्षेपबुद्ध्या स्फारितम् । बलादालिङ्गितुमुपनते बहुमानयोग्यामेवं मां धृष्यतीति रोषेण लोहितम् । धृतवस्त्रे कोपकुश्चितभ्रूलतम् । अत्रारुणतासकाशादञ्चितभ्रूलतत्वस्योद्भटत्वेन सर्वेष्वपि भावेषु कोपहेतुकेषु सत्स्वपि विशेषतः कोपाञ्चितेत्यमुना कोपशब्दप्रयोगेण बहुमानरोष एव पोषं प्रापितः ।
[^१.] "सा यावन्ति" इति शृङ्गारदीपिका. [^२.] "व्याहृत्य" इति शृङ्गारदीपिका. [^३.] "प्रा-
रब्धा" इति शृङ्गारदीपिका. [^४.] "संकुञ्चितभ्रूलतम्" इति शृङ्गारदीपिका. ५. "पूर्णे-
क्षणात्" इति शृङ्गारदीपिका.
तस्मात् "किंचाञ्चितभ्रूलतम्" इति यत् कैश्चित्पाठान्तरं कृतं तद्व्यर्थश्रमपर्यालोचितमरम-
णीयं च मन्यामहे । पादप्रणामसंपर्के च बहुमानलाभात्प्रसादोन्मुखत्वव्यञ्जकेन बाष्पा-
म्बुना पूर्णा संवरणायोपक्रान्ता ईक्षणक्रिया यस्य तत्तथोक्तम् । चक्षुरित्येकवचनमवज्ञाद्यो-
तकम् । कर्तृक्रियादीपकमलंकारः ॥
अङ्गानामतितानवं कुत इदं क[^१]स्मादकस्मादिदं
मुग्धे पाण्डुकपोलमाननमिति प्राणेश्वरे पृच्छति ।
तन्व्या सर्वमिदं स्वभावत इति व्याहृत्य पक्ष्मान्तर-
व्यापी बाष्पभरस्तया व[^२]लितया निःश्वस्य मुक्तोऽन्यतः ॥ ५० ॥
तन्व्या तत्कालमेव पराङ्मुखत्वेनान्यतो विवृत्तया बाष्पोत्पीडो निःश्वासपूर्वमुक्तः ।
किं कृत्वा । इत्युदीर्य । इति किम् । सर्वमिदमङ्गतानवादिकं स्वभावादेव । क्व सति । प्राणेप्राणे-
श्वरे मया सह यथाकथंचिदेव वाङ्मिश्रणं करोत्वित्यनुसंधानेनेति पर्युनुयुञ्जानेपर्यनुयुञ्जाने । इति किम् ।
हे मनोहरे, अवयवानामतिकार्श्यं कस्मादेतत् । कुतश्चेदं पाण्डुगण्डफलकं मुखम् । क-
थम् । अकस्मात् । कोऽभिप्रायः — मया ते शरीरदौर्बल्यपाण्डुकपोलत्वसदृशं किमपि न
चेष्टितमस्तीति स्वापराधापह्नवः । प्राणेश्वरशब्दस्य चायमभिप्रायः — य एव प्राणेश्वरः
स एव यद्युदासीनवत्पृच्छति तदा जीवितव्यस्य किं कार्यमिति । अत एव निःश्वासपू-
र्वमन्यतो भूत्वाश्रुमोक्षः कृतः । व्याजोक्तिरलंकारः । यदुक्तम् — "व्याजोक्तिश्छद्मनोद्भि-
न्नवस्तुरूपनिगूहनम्" । यथा — "शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चादि-
विसंस्थुलाखिलविधिव्यासङ्गभङ्गाकुलः । हा शैल्यं तुहिनाचलस्य करयोरित्यूचिवान्स-
स्मितं शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद्वः शिवः" ॥
कश्चित्कुपितनायिकाप्रसादनारम्भनिरुपायः कस्यापि रहःसहचरस्याग्रे निवेदयति —
पु[^३]रस्तन्व्या गोत्रस्खलनचकितोऽहं नतमुखः
प्रवृत्तो वैलक्ष्यात्किमपि लिखितुं दैवहतकः ।
स्फुटो रेखान्यासः कथमपि स तादृक्परिणतो
गता येन व्यक्तिं पुनरवयवैः सैव तरुणी ॥ ५१ ॥
ततश्चाभिज्ञाय स्फुरदरुणगण्डस्थलरुचा मनस्विन्या रूढप्रणयसहसोद्गद्गदगिरा ।
[^१.] "कम्पश्च कस्मादयं" इति शृङ्गारदीपिका. [^२.] "दयितया" इति शृङ्गारदीपिका. [^३.] एतद्युग्मं शृङ्गारदीपिकायां नास्ति, किं तु दशरूपावलोकस्य चतुर्थपरिच्छेदेऽसूयोदाहरणे धनिकेनामरुशतकनाम्नैव समुद्धृतमस्ति. अहो चित्रं चित्रं स्फुटमिति निगद्याश्रुकलुषं रुषा ब्रह्मास्त्रं मे शिरसि निहितो वामचरणः ॥५२॥ (युगलम्)
तन्व्या पुरतो वार्तान्तरेऽन्याङ्गनानामोच्चारणचकितोऽहं किंचिदवाञ्चितवदनः प्रति-
कूलविधिप्रेरितो वैलक्ष्यात्किंचिल्लिखितुं प्रवृत्तः । अथ मयि लिखत्येव केनाप्यनिर्वचनी-
यप्रकारेण व्यक्तः स कोऽपि रेखालेखस्तादृशं परिपाकं गतो येन यस्या एव गोत्रस्खल-
नमापतितं सैव युवतिर्नामापेक्षया पुनरप्यङ्गैरभिव्यक्तिं जगाम । ततश्चित्रनायिकामुप-
लभ्य तया वामोऽथ च प्रतिकूलश्चरणश्चण्डिम्ना निक्षिप्तः । किंविशिष्टः । रूपकालंकारेण
ब्रह्मास्त्रम् । यथा वारंवारमतिप्रहारिणि शत्रावनन्योपायतया ब्रह्मास्त्रं मुच्यते तथा मयि
प्रथममपराधिनि पुनर्गोत्रस्खलनकारिणि पश्चादन्याङ्गनाचित्रलेखिनि वामपदो न्यस्त
इत्यर्थः । किं कृत्वा । अश्रुकलुषं यथा भवत्येवमित्यभिधाय । इति किम् । अहो आश्चर्यमा-
श्चर्यमभिव्यक्तम् । कोऽभिप्रायः — लोकाः, पश्यत दुरात्मनोऽस्य तस्यां तदेकतानताम् ।
गोत्रस्खलने न पर्याप्तमिदानीं तामेव लिखन्वर्तते । किं विशिष्टया सत्या निगद्य । आरू-
ढप्रणयेत्यादि । प्रकर्षं प्राप्तेन प्रेमविशेषेण य एव मे तथा वशीभूत आसीत्स एवायमित्थ-
मुद्वृत्तो जात इत्याश्चर्यकोपव्यञ्जकेन हासेन सह वर्तत इति सहसा उद्गतरोदनस्वना च
गीर्यथा स्यात्तथा । कुटस्यादिः कुटादिरिति षष्ठीतत्पुरुषेण कुटादिसंबन्धाल्लिखितुमित्यत्र
गुणप्रतिषेधसमर्थनम् । अन्यथा लेखितुमित्येव प्राप्नोति । यथा — "सृष्ट्वा सृष्ट्वा समस्तं ज-
नमनुलिखता भूरिभाग्याक्षराणि क्षिप्रं विद्वल्ललाटे कथमपि विधिना लेखितुं विस्मृता
श्रीः । दत्वास्मिन्हंसपादं मलयजतिलकच्छद्मना क्ष्मातलेन्दो हस्ते दत्तैः सुवर्णैः प्रति-
कृति भवता शोधितो भालदेशः ॥" यच्च लेखनारम्भे सैव तरुणी व्यक्तिं गता तत्र ना-
यकस्य तन्मयी चित्तवृत्तिर्निमित्तम् । चित्रकला च विलासिनां प्रसिद्धैव । यदुक्तम् —
"गीतं वाद्यं नृत्तं चालेख्यं विशेषकपत्रच्छेद्यम्" इत्यादि । विषममलंकारः । यदु —
क्तम् — "यत्र क्रियाविपत्तेर्न भवेदेव क्रियाफलं तावत् । कर्तुरनर्थश्च भवेत्तदपरमभिधीयते
विषमम्" ॥
कश्चिन्नायिकां समासोक्तिभिरनुनयति —
कठिनहृदये मुञ्च भ्रान्ति व्यलीकक[^१]थाश्रितां
पिशुनवचनैर्दुःखं नेतुं न युक्तमिमं जनम् ।
किमिदमथवा सत्यं मुग्धे त्वयाद्य विनिश्चितं
यदभिरुचितं तन्मे कृत्वा प्रिये सुखमास्यताम् ॥ ५३ ॥
मामनपराधमुपेक्ष्य मत्संगमं विनैव तिष्ठसीति हेतोः हे कठिनहृदये, अपराधकथाविषयां मिथ्याबुद्धिं त्यज । व्यलीककथाश्रितां न तु व्यलीकाश्रिताम् । व्यलीकस्य कथा
[^१.] "कथाश्रयां" इति शृङ्गारदीपिका.
पि नास्तीत्यर्थः । परगृहभङ्गव्यसनिनां कर्णेजपानां वचनैरिममिति त्वद्वैमुख्येनैवंविधदुः-
स्वस्थं जनमतिविधेयं मां दुःखं प्रापयितुं न ते युक्तम् । अथवा अलमनेन कियन्मे जी-
वितेन प्रयोजनम् । तस्मात्सत्यं कथय अचेतने, किमिदं त्वया ममोपरि विनिश्चितं
किं पर्याप्तम् । हे प्रिये, यत्किंचिदभिवाञ्छितं तन्मे विधाय सुखं स्थीयताम् । तवैव
सुखार्थमहमकारणोत्पन्नं मानं त्याजयामि । ममाभावे (?) चेत्तव सुखं तत्किं मानत्या-
जनेनेत्यर्थः । युक्तमित्यत्र "नपुंसके भावे क्तः" । तेन "विषवृक्षोऽपि संवर्ध्य स्वयं छेत्तुमसां-
प्रतम्" इत्यादिवत् "प्रधानक्रियाशक्त्यभिधाने गुणक्रियाशक्तिरभिहितवत्प्रकाशते" इति
न्यायेनेमं जनमित्यत्र न प्रथमा । तत्र तु सांप्रतमित्यत्र द्वितीया न युज्यत इति
कर्मविवक्षा ॥
रात्रौ वारिभरालसाम्बुदरवोद्विग्नेन जाताश्रणाजाताश्रुणा
पान्थेनात्मवियोगदुःखपिशुनं गीतं तथोत्कण्ठया ।
आस्तां जीवितहारिणः प्रवसनालापस्य संकीर्तनं
मानस्थापि जलाञ्जलिः सरभसं लोकेन दत्तो यथा ॥ ५४ ॥
कस्मिंश्चिद्ग्रामे यामिन्यामध्वगेन मुक्ताश्रुणा तेन प्रकारेण तत्कालोचितं किंचिदुत्क-
लिकया गीतम्, यथा "ककुभोत्था विभाषैव निर्दिष्टा याष्टिकेन या । धैवतांसग्रहन्यासा-
ङ्गहीना मन्द्रमध्यभाक् । समस्वरा च संपूर्णा करुणे मधुकर्यसौ ॥" एवंप्रायम् । किं वि-
शिष्टम् । विरहक्लेशसूचकम् । अथ वात्मशब्देन जीवात्मा अत एवोत्तरार्धम् "आस्तां
जीवितहारिणः" इत्यादि । कीदृशेन । वारिभरालसजलधररसितोद्विग्नेन । अत्र लाक्षणिके-
नालसशब्देन गर्भवेदनाक्रान्तयुवतिस्तनितवद्गर्जितस्य निःसीमगम्भीरता व्यज्यते ।
निशीथे हि निवातनिर्भरं वर्षन्तो बलाहकास्तथैव गर्जन्ति, भवन्ति च वराकाणां वियो-
गिनामुद्वेजनाद्दुर्ललिताः । अत एवोक्तमुपाध्यायेन — "या क्रिया मान्मथैर्बाणैः शल्यितेषु
वियोगिषु । जलं ददति यत्तस्यै तेनामी जलदाः स्मृताः ॥" तथा कथं गीतमित्याह —
आस्तां तावत्प्राणहारिणः प्रवासनाम्नो ग्रहणं यावत्प्रेमवर्त्माभिज्ञेन लोकेनोभयरूपस्यापि
मानस्य जलाञ्जलिर्दत्तः । लक्षणया लोकान्तरं गतो मान इत्यर्थः । "त्वं तावदास्व दूरे
भृत्यावयवोऽपि ते निहन्त्यहितान्" इत्यादिवदत्र विषमालंकारः ॥
कश्चिद्वियोगी मत्तनायिकायाः प्रणयमानमनुस्मरति
स्वं दृष्ट्वा करजक्षतं मधुमदक्षीबाविचार्येर्ष्यया
गच्छन्ती क्व नु गच्छसीति विधृता बाला पटान्ते मया ।
प्रत्यावृत्तमुखी सबाप्पनयना मां[^१] मुञ्च मुञ्चेति सा
कोपप्रस्फुरिताधरा यदवदत्तत्केन विस्मार्यते ॥ ५५ ॥
[^१.] "सा मुञ्च मुञ्चेति मां रोष" इति शृङ्गारदीपिका.
मया मुग्धा वस्त्राञ्चले गृहीता । किं कुर्वती । गच्छन्ती । कया ईर्ष्यया । किं कृत्वा ।
स्वमेव नखपदं दृष्ट्वा । पुनः किं कृत्वा । अविचार्य । यतो मदिरामदमत्ता मया किं
कृत्वा विधृता । नु इति प्रश्ने । क्व गच्छसीत्युक्त्वा । अथ सा वलितवदना सास्रदृष्टिः
कोपकम्प्रौष्ठी मां त्यज त्यजेति यदवोचत्तत्केन विस्मार्यते । अपि तु न केनापि । अत
एव स्वं करजक्षतं दृष्ट्वा न त्वन्याङ्गनायाः । तस्य तदेकचित्तत्वात् । अत्र बालाशब्दो-
ऽज्ञानमात्रापेक्षया न तु वयोपेक्षया । बालानायिकाविधेयनखपदादीनामवर्ण्यमानत्वात् ।
ताः प्रत्युत संगमेषु पराङ्मुख्यो भवन्ति । निर्बन्धेन नीवीनिरसनोद्युक्ते प्रेयसि बलात्सु-
रतप्रतीपं विदधति । किं च मिथ्यानखपदारोपणेऽपि कम्पन्ते यदुक्तं मुग्धाविस्रम्भणे —
"अप्रतिपद्यमानां च भीषयेत् । अहं खलु दन्तपदानि तवाधरे करिष्यामि । स्तनम-
ण्डले नखपदानि । आत्मनश्च स्वयं कृत्वा त्वया कृतमिति ते सखीजनस्य वक्ष्यामि ।"
यथानर्घराघवस्य अभिषेकसुग्रीवाङ्के(सुग्रीवाभिषेकाङ्के) — "स्ववपुषि नखलक्ष्म स्वेन
कृत्वा भवत्या कृतमिति चतुराणां दर्शयिष्ये सखीनाम् । इति सुतनु रहस्ते भीषितायाः
स्मरामि स्मर परिमलमुद्राभङ्गसर्वसहायाः॥" मधुमदक्षीवेति रतावसानिकम् । यदुक्तम् —
"सव्येन बाहुना परिरभ्य चषकं गृहीत्वा सान्त्वयन्पाययेत् । भृष्टमांसमातुलुङ्गचुक्रा-
द्युपदंशान्मधुरमिदं मृदु विशदमिदमिति विदश्य तत्तदुपाहरेत् । हर्म्यतलस्थितायाश्च-
न्द्रिकासेवनार्थमासनम् । तत्र चानुकूलाभिः कथाभिरनुवर्तेत । अङ्गसंलीनायाश्चन्द्रमसं
पश्यन्त्या नक्षत्रपङ्किव्यक्तीकरणमरुन्धतीध्रुवसप्तर्षिमण्डलदर्शनं च ॥" इति ॥
काचिन्मानिनीं शिक्षयति —
चपलहृदये किं स्वातन्त्र्यात्तथा गृहमागत-
श्चरणपतितः प्रेमार्द्राद्रः प्रियः समुपेक्षितः ।
तदिदमधुना यावज्जीवं निरस्तसुखोदया
रुदितशरणा दुर्जातानां सहस्व रुषां फलम् ॥ ५६ ॥
कार्याकार्यपर्यालोचनशून्यतया हे अव्यवस्थितहृदये, कुतो हेतोर्वल्लभोऽवधीरितः ।
किंविशिष्टः। गृहमागतः । कथम् । तथा । कोऽर्थः प्रसाद्य संगमाकाङ्क्षया । पुनः कीदृशः ।
चरणप्रणतः । पुनरपि कथंभूतः । प्रेमाद्रिः । लक्षणयातिसरसकोमल इत्यर्थः । कस्मात्स-
मुपेक्षितः, स्वातन्त्र्यात् । मामपृष्ट्वैवेत्यर्थः । तदिदानीं दुरुत्पन्नानां निजक्रुधां फलमनु-
भव । कीदृशी सती । रुदितशरणा । किं तत्फलमित्याह — निरस्तसुखोदया । कियन्तं
कालम् । यावज्जीवम् । जीवोऽपि तव क्षणस्थायीति भावः । रुषामिति बहुवचनेन वारंवारं
त्वया कोपं कृत्वा सर्वं विनाशितमिति प्रतीयते । किं स्वातन्त्र्यादित्यत्र स्वातन्त्र्यमेव
त्वया कुतः कृतमिति किंशब्दार्थः । अन्यथा स्वातन्त्र्यहेतुके प्रियसमुपेक्षणे सिद्धे
किंशब्दोऽधिकः स्यात् । परिकरोऽलंकारः । यदुक्तम् — "साभिप्रायैः सम्यग्विशेषणैर्वस्तु
यद्विशेष्येत । द्रव्यादिभेदभिन्नं चतुर्विधः परिकरः स इति ॥" यथा – "उचितपरिणाम-
रम्यं स्वादु सुगन्धि स्वयं करे पतितम् । फलमुत्सृज्य तदानीं ताम्यसि मुग्धे मुधे-
दानीम् ॥
अत्रान्तरे बहवः प्रक्षेपकश्लोकाः सन्ति । तत्र विचारः — यः कश्चित्स्वाञ्श्लोकान्रचयित्वा परकाव्ये प्रक्षिपति स तावन्न प्रसिद्धये, स्वनामलेखनाभावात् । तस्मादेवं संभाव्यते — यद्यस्मिन्सार्वपार्षदे काव्ये मम श्लोका अर्हन्ति तदाहं विशिष्टः कविरिति प्रक्षेपककवेराशयः । तेऽपि सन्तु यथा विसदृशनीरलहरीलेह्यस्वराणां (?) गायनानामोडवप्रयोगेनातोद्यलास्यानुविधानशालिनि रक्तिनिर्भरगीतलास्यमानमनसां प्रविष्टानामातोद्यकराणां ततसुषिरघनावनद्धात्मनि वादित्रे मन्दमुन्मुद्रितनिनादे नायिकानां नानाविधदृष्टिवृष्टिभिराप्यायितविदग्धचेतसां ललितहस्तकचारीचमत्कारेणाञ्चितभ्रमितनमितकुञ्चितस्तिमितक्षिप्तक्षुभितावयवानां कुचकलशनितम्बडम्बरान्तरतरङ्गितोद्वलितललितवलिभागानां क्वचिद्विस्रब्धमिव क्वचित्त्वरितत्वरितमिव क्वचिद्भीतभीतमिव क्वचित्सुप्तसुप्तमिव क्वचिदुन्निद्रितोन्निद्रितमिव सान्द्रमुखरागमनोभवमनोज्ञं नृत्यन्तीनामन्तरेऽट्टचेटकास्तथानिर्वचनीयचमत्काराणाममरुकश्लोकानां मध्ये छन्दोमात्रमेलनेन हासोत्पादकतया च प्रक्षेपकश्लोकाः ते यथा —
"म[^१]न्दं मुद्रितपांसवः परिपतज्झांकारिझञ्झामरु-
द्वेगव्यस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धान्तराः ।
कर्मव्यग्रकुटुम्बिनीकुचभरस्वेदच्छिदः प्रावृषः
प्रारम्भे मदयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥
अमी झञ्झानिलाः शिरोर्तिमुत्पादयन्ति विदुषाम् ॥
"इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥"
जीवितहारिणी शाकिनी ॥
"सालक्तकं शतदलाधिककान्तिरम्यं रत्नौघधामनिकरारुणनूपुरं च । क्षिप्तं भृशं कुपितया मृगनेत्रया यत्सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥"
इयं सा भद्रदेशिनां सर्वस्वं सौभाग्यस्योपरिमञ्जरी (?) ॥
"श्रुत्वाकस्मान्निशीथे नवघनरसितं विश्लथाङ्गं पतन्त्या शय्याया भूमिपृष्ठे करतलधृतया दुःखितालीजनेन । सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटापातशीर्णाश्रुबिन्दु स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥"
वियोगमर्म निगूढं दुःखमेवोपवर्णयन्ति । तद्विपर्ययादियं मिथ्यामरणनिःसृताया
योषितो मांधारिका (?) ॥
[^१.] इतः प्रभृति प्रक्षिप्तं श्लोकपञ्चकं शृङ्गारदीपिकायामपि नास्ति. "पीतो यतःप्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥"
नूनं शा[^१]कंभरीखनिकर्मकर एष महानुभावः कविः ॥
नूनमियं श्लोककन्था कुतार्किकच्छान्दसवैयाकरणैर्ग्रथिता । यदुक्तमुपाध्यायेन — "संप-
र्केण कुतर्काणां छन्दोव्याकरणस्पृशाम् । उड्डीयते रसः खण्डैः पावकेनेव पारदः" ॥
बाले नाथ विमुञ्च मानिनि रुषं रोषान्मया किं कृतं
खेदोऽस्मासु न मेऽपराध्यति भवान्सर्वेऽपराधा मयि ।
तत्किं रोदिषि गद्गदेन वचसा कस्याग्रतो रुद्यते
नन्वेतन्मम का तवास्मि दयिता नास्मीत्यतो रुद्यते ॥ ५७ ॥
कश्चिन्मानिनीमनुनेतुं संबोधयति — हे मुग्धे । नायिका वक्ति — हे नाथ । नायकः — विमुञ्च मानिनि रुषम् । नायिका — रोषान्मया किं कृतम् । अपि तु न किमपि । कोऽभिप्रायः — न ते किंचिद्विरुद्धमुक्तम् । न च ताडनादिकं कृतम् । नापि तत्र गच्छन्वारितोऽसि । स्वशरीरेण दुरवस्थामनुभवन्ती तिष्ठामि । नायकः — रोषात्त्वया किमपि न कृतमित्येव न परमस्मासु खेदः कृतः । नायिका — खेदस्तस्योपपद्यते योऽपराधी भवति । भवांस्तु न मेऽपराध्यति । विपरीतलक्षणया विधिरत्र । सर्वेऽपराधा मयि । मया यत्त्वमुपेक्षितस्तेनैवमुच्छृङ्खलो जातः । नायकः — उक्तेरभिप्रायमजानन्निव, तत्किं रोदिषि गद्गदेन वचसा । नायिका — कस्याग्रतो रुद्यते । त्वमन्यासक्तो न मे कष्टं जानासि । त्वां च विहाय ममान्या गतिर्नास्तीति भावः । नायकः — पूर्ववत् । नन्वेतन्ममाग्रतो रुद्यते । नायिका — का तवास्मि । उदासीनो मयि सांप्रतं भवानित्यर्थः । नायकः — वलभा त्वं मे । नायिका — नास्मीत्यतो रुद्यते । कोऽर्थः दयिता नास्मि योषित्संबन्धः पुनरस्त्येव । प्रश्नोत्तरमलंकारः । न तु वक्रोक्तिः । शब्दश्लेषकाक्वोरभावात् । यत्क्वचिदर्थान्तरमत्र प्रतीयते तद्व्यङ्ग्यमेव । वक्रोक्तेरुदाहरणं चैतत् — "किं गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वदनुमानत एव सत्यमित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥" "गुरुपरतन्त्रतया बत दूरतरं देशमुद्यतो गन्तुम् । अलिकुलकोकिलललिते नैष्यति सखि सुरभिसमयेऽसौ ॥" धीराधीरा मध्या नायिका । "न मेऽपराध्यति भवान्सर्वेऽपराधा मयि" इत्यनेन धैर्यम्। "चापल्यरहिता धैर्यं हृद्वृत्तिरविकत्थना ॥"
श्लिष्टः कण्ठे किमिति न मया मूढया प्राणनाथश्चुम्बत्यस्मिन्वदनविनतिः किं कृता किं न दृष्टः
[^१.] शाकंभरी राजपूतानादेशान्तर्वर्ती "सांभर" इति प्रसिद्धो लवणाकरः.
नोक्तः कस्मादिति नववधूचेष्टितं चिन्तयन्ती
पश्चात्तापं वहति तरुणी प्रेम्णि जाते रसज्ञा ॥ ५८ ॥
यथा यथा मौग्ध्यमपगतं तथा तथा प्रियसंगमबाहुल्येनोपलब्धे प्रेम्णि आस्वादा-
मिज्ञाभिज्ञा संवृत्ता सती इत्थममुना प्रकारेण तरुणी पश्चात्तापं बिभर्ति । किं कुर्वती । इति
स्वमेव नववधूचेष्टितं चिन्तयन्ती । इति किम् । मया मन्दभाग्यया किमिति न प्राणेश्वरः
कण्ठे आलिङ्गितः । तस्मिन्परिरब्धुमुद्यते मया भुजाभ्यां निजमुरः किं पिहितमित्यर्थः ।
अस्मिंश्चुम्बति सति वदनविनतिः किमिति मया कृता । प्रतिचुम्बनं किमिति नारब्धमि-
त्यर्थः । किमिति न दृष्टः सततं नीर[^१]रङ्गीलम्बनव्यग्रया सम्यक्कदाचिदपि स्फारीकृतलो-
चनया नावलोकित इत्यर्थः । नोक्तः कस्मात् । तस्मिन्सविलासमालपति सति प्रत्यु-
त्तरं किं न दत्तम् । अवनतवदनया स्थितमेवेत्यर्थः । तारुण्ये संगमसुखमनुभवन्ती मौ-
ग्ध्येन तदाहं वञ्चितेति चिन्तयतीति भावः ॥
काचिदपमानितानुनया पश्चात्तापयुक्ता यदि त्वं तेन विना स्थातुं न शक्नोषि तत्किमिति मानं करोषीति सख्या निर्भत्सिता तां प्रत्याह —
श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्ता-
द्दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि ।
तस्मिन्नागत्य कण्ठग्रहनिकटपदस्थायिनि प्राणनाथे
भग्ना मानस्य चिन्ता भवति म[^३]यि पुनर्वज्रमय्यां क[^४]दाचित् ॥ ५९॥
नाहं सर्वदैव मानं करोमि किंत्वत्यन्तकठिनायां मयि निन्द्या मानचिन्ता कदाचिदु-
त्पद्यते । क्व सति । तस्मिन्प्राणेश्वरे प्रसादनतात्पर्येणागत्य कपोलचुम्बनप्रत्यासन्नस्थानस्था-
यिन्यपि । कोऽर्थः । यस्मिन्नवसरे चुम्बनं युज्यते तस्मिन्नाहं मानं करोमि । तस्मिन्प्रा-
णेश्वरे कीदृशे । यस्य नामाप्याकर्ण्य व्यक्तसान्द्ररोमाञ्चं ममाङ्गं सर्वतो जायते । यस्य व-
क्त्रचन्द्रमसमवलोक्येदं वपुरुद्भिन्नस्वेदबिन्दुजालतया चन्द्रकान्तमणिसदृशं भवति । द-
यितमुखं दृष्ट्वा स्विद्यामीति पर्यवसितत्वाद्भिन्नकर्तृकता नाशङ्कनीया । अयमपि श्लोकः
प्रक्षेपक इति संभाव्यते । परं विरुद्धो नास्ति । एवंविधा अन्येऽप्यन्तरान्तरा द्वित्राः
सन्ति । तेऽप्यविरुद्धा इति व्याख्यास्यन्ते ॥
लाक्षालक्ष्म ललाटपट्टमभितः केयूरमुद्रा गले
वक्त्रे कज्जलकालिमा नयनयोस्ताम्बूलरागोऽपरः ।
दृष्ट्वा कोपविधायि मण्डनमिदं प्रातश्चिरं प्रेयसो
लीलातामरसोदरे मृगदृशः श्वासा समाप्तिं गताः ॥ ६० ॥
[^१.] नीरङ्गी मुखाच्छादनवस्त्रम्. [^२.] "यत्समन्तात्" इति शृङ्गारदीपिका. [^३.] "मम"
इति शृङ्गारदीपिका. [^४.] "कथंचित्" इति शृङ्गारदीपिका.
ईर्ष्याविकारसंवरणार्थमाघ्राणच्छद्मना मुखप्रत्यासन्नीकृतस्य लीलातामरसस्योदरे कु-
रङ्गलोचनायाः श्वासा निसृत्य निसृत्य प्रौढापमानजन्मनाभिषङ्गेणान्तर्निरुद्धतया समाप्तिं
गताः । किं कृत्वा । अन्याङ्गनाया मण्डनं तदिदं प्रेयसः संक्रान्तमत एव कोपविधायि
प्रभाते चिरं दृष्ट्वा । इदं किम् । ललाटपट्टमभितस्तत्प्रसादनपादपतनानुमापकं लाक्षा-
लक्ष्म । तदालिङ्गनशंसिनी केयूरमुद्रा कण्ठे । तल्लोचनचुम्बनसूचको वक्त्रे कज्जलका-
लिमा । अपरश्च तत्कृतचुम्बनपिशुनो नयनयोस्ताम्बूलरागः । अहेतुरलंकारः । यदुक्तम् —
"बलवति विकारहेतौ सत्यपि नैवोपगच्छति विकारम् । यस्मिन्नर्थः स्थैर्यान्मन्तव्योऽसा-
वहेतुरिति ॥" "ज्ञातेऽन्यासङ्गविकृते खण्डितेर्ष्या कषायिता" इत्यनेन खण्डिता नायिका ।
धृष्टो नायकः । यच्चेदं लीलातामरसं तदवश्यं विरहसंतापप्रतिविधानोपनतसखीजनोपनी-
तशीतोपचारीयम् ॥
काचित्प्राणपरित्यागकृताध्यवसाया देशान्तरं प्रस्थितं प्रियं प्रत्याह —
लो[^१]लैर्लोचनवारिभिः सशपथैः पादप्रणामैः प्रियै-
र[^२]न्यास्ता विनिवारयन्ति कृपणाः प्राणेश्वरं प्रस्थितम् ।
पु[^३]ण्याहं व्रज मङ्गलं सु[^४]दिवसः प्रातः प्रयातस्य ते
यत्स्नेहोचितमीहितं प्रिय[^५] मया तन्निर्गतः श्रोष्यसि ॥ ६१ ॥
अन्यास्ताः प्राणलोभेन कृपणाः स्त्रियः न त्वहम् । याः प्रस्थितं प्राणेश्वरं निवार-
यन्ति । कैः । झलज्झलायमानैर्बाष्पाम्बुभिः । न केवलं तैः । किं तु यदि त्वं यास्यसि
तदा तेऽमुकस्य शपथ इति सशपथैश्चरणप्रणामैः । किंविशिष्टैः । अनुरागव्यञ्जकत्वा-
त्प्रियैः । अहं पुनरेवं वच्मि — हे प्रिय, पुण्याहं कल्याणं सुदिनं ते तस्माद्यदृच्छया
गच्छ । यच्च तव प्रोषितस्य स्नेहोचितं मया किंचिदीप्सितमस्ति तन्निश्चयेन गतः सन्क-
स्मादपि पथिकादाकर्णयिष्यसि । अथ च यद्यहमिदानीमेव प्राणान्मुञ्चामि तदा तवाम-
ङ्गलं स्यात् । अत एव पुण्याहमित्यादि । पराभवोऽलंकारः । आशीर्वचनाक्षेपश्च ।
यथा — "गच्छ गच्छसि चेत्कान्त पन्थानः सन्तु ते शिवाः । ममापि जन्म तत्रैव भू-
याद्यत्र गतो भवान् ॥ इत्याशीर्वचनाक्षेपो यदाशीर्वादवर्त्मना । स्वावस्थां सूचयन्त्यैव
कान्तयात्रा निषिध्यते" ॥
काचिन्निजसख्याः स्वयं स्थापितप्रतिष्ठासु भर्तृकायाः स्वरूपं सिद्धसमीहितत्वेनान्यासामग्रे कथयति —
लग्ना नांशुकपल्लवे भुजलता न द्वारदेशेऽर्पित[^६] नो वा पादयुगे स्व[^७]यं निपतितं तिष्ठेति नोक्तं वचः ।
[^१.] "वान्तैः" इति शृङ्गारदीपिका. [^२.] "अन्यैः" इति शृङ्गारदीपिका. [^३.] "धन्याहं"
इति शृङ्गारदीपिका. [^४.] "सुदिवसं" इति शृङ्गारदीपिका. [^५.] "प्रियतम त्वं निर्गतः" इति
शृङ्गारदीपिका. [^६.] "स्थितं" इति शृङ्गारदीपिका. ७. "मुहुः" इति शृङ्गारदीपिका.
काले केवलमम्बुदालिमलिने गन्तुं प्रवृत्तः शठ-
स्तन्व्या बाष्पजलौघकल्पितनदीपूरेण रुद्धः प्रियः ॥ ६२ ॥
सा वस्त्राञ्चले प्रियस्य न लग्ना । तथा द्वारदेशेऽर्गलवद्भुजलता न न्यस्ता । नापि
चरणयुगले लुठितम् । तिष्टेतितिष्ठेति वचनमपि नोक्तम् । कथं तर्हि निवारित इत्याह — काल
इत्यादि । यस्मिन्देशान्तरादागत्य मिथुनानि मिलन्ति तस्मिन्मेघमालामलीमसे समये
निर्दयः साहसिको गन्तुं प्रवृत्तः सन्कृशाङ्ग्या केवलमश्रुकल्लोलकल्पितनदीपूरेण वल्लभो
निषिद्धः । अत्राश्रुनदीपूरेणेति वाक्येन रूपकेण मेघकार्यमश्रुभिरेव कृतमित्यनेन मेघाक्षे-
पेण परिपुष्टो विप्रलम्भः । औपम्यभेदः । पूर्वालंकारोऽप्यत्र प्रतीयते । यथा — "काले
जलदकुलाकुलदशदिशि पूर्वं वियोगिनीवदनम् । गलदविरलसलिलभरं पश्चादुपजायते
गगनम्" ॥
काचित्पपरपुरुषानुरागिणी कस्याश्चिज्जरत्कुलटायाः पुरतः प्रतीकारप्रत्याशया स्वदुःखं निवेदयति —
आस्तां विश्वसनं सखीषु विदिताभिप्रायसारे जने
तत्राप्यर्पयितुं दृशं सु[^१]रचितां शक्नोमि न व्रीडया ।
लोकोऽप्येष परोपहासचतुरः सूक्ष्मेङ्गितज्ञोऽप्यलं
मातः कं शरणं व्रजामि हृदये जीर्णोऽनुरागानलः ॥ ६३ ॥
हे मातः, कं शरणं व्रजामि । अपि तु न कमपि । तस्माद्धृदय एव केवलं संतापहेतुत्वेनानुराग एवानलो जरां प्राप्तः । तत्फलं किमपि नासादितमित्यर्थः । कथमित्याह — आस्तामित्यादि । प्रियं जनं प्रति प्रेषणतदानयनादिकार्यसाधके सखीजने विश्वसनं तावदास्ताम् । ताः कस्याप्यग्रे स्फुटित्वा कथयेयुरित्यर्थः । तर्हि स्वयं दूतीविलसितं किमिति नारभ्यते इत्याह — इयं मयि सर्वात्मनानुरक्तेति विदितोऽभिप्रायसारो येन तस्मिञ्जने दृष्टिमप्यारोपयितुं लज्जया न शक्नोमि । का कथा गमनानयनादिकार्यस्य । तर्हि लज्जां परित्यज्य तदवलोकनरसास्वादेनैव किमिति कालो नातिवाह्यत इत्याह — एष स्वपरगृहसंचारी लोकोऽमुक्यमुकेन सह वर्तत इत्यादि परोपहासकुशलोऽप्यतिशयेन सूक्ष्मेङ्गितज्ञोऽपि । अपिशब्दः । समुच्चये । सूक्ष्मेङ्गितज्ञोऽपि यदि मनसि धृत्वा तिष्ठति तदा कः शङ्कते । असौ परोपहासचतुरोऽपीति तात्पर्यम् । असत्समुच्चयोऽलंकारः । यथा राज्ञः श्रीहर्षदेवस्य — "दुल्लहजणाणुराओ लज्जा गरुई परव्वसो अप्पा । पिअसहि विसमं पेम्मं मरणं सरणं णवर एकम् ॥"
[^१.] "सललितां" इति शृङ्गारदीपिका. [^२.] "दुर्लभजनानुरागो लज्जा गुर्वी परवश आत्मा । प्रियसखि विषमं प्रेम मरणं शरणं केवलमेकम् ॥" इति च्छाया. त्वमस्माकमग्रे परं मानस्य वार्तामेव करोषि तत्संनिधौ पुनरन्यैव संपद्यस इति सखीभिः काचिदुपालब्धा स्वदोषं परिहरति —
न जाने संमुखायाते प्रियाणि वदति प्रिये ।
सर्वाण्यङ्गानि किं यान्ति नेत्रतां किमु कर्णताम् ॥ ६४ ॥
अहं किं करोमि समस्तान्येव ममाङ्गानि लोचनतां गच्छन्ति श्रवणतामथवेति न
जाने । क्व सति । प्रिये संमुखायाते सति । न परं तथा, अभिमतालापं जल्पति च । त-
मभिमुखमागच्छन्तमुत्कण्ठया पश्यन्त्यास्तत्पेशलालापानाकर्णयन्त्याश्च ममेन्द्रियान्त-
राणि स्वव्यापारं परिहरन्तीति तात्पर्यम् । अङ्गशब्दोऽत्रेन्द्रियार्थः । अन्तरङ्गमित्यत्रापि
दृष्टत्वात् । उत्तरसंशययथासंख्यान्यलंकाराः । ललितं नाम सात्त्विको नायकगुणः । य-
दुक्तम् — "शोभा विलासो माधुर्यं गाम्भीर्यं स्थैर्यतेजसी । ललितौदार्यमित्यष्टौ सत्त्वजाः
पौरुषा गुणाः ॥" यथा — "लावण्यमन्मथविलासविजृम्भितेन स्वाभाविकेन सुकुमारम-
नोहरेण । किं वा ममैव सखि योऽपि ममोपदेष्टा तस्यैव किं न विषमं विदधीत ता-
पम् ॥" भावप्रगल्भा नायिका ॥
अनल्पचिन्ताभरमोहनिश्चला विलोक्यमानैव करोति साध्वसम् । स्वभावशोभानतिमात्रभूषणा तनुस्तवेयं बत किं न सुन्दरि ॥ ६५ ॥ इति प्रिये पृच्छति मानविह्वला कथंचिदन्तर्धृतबाष्पगद्गदम् । न किंचिदित्येव जगाद यद्वधूः कियन्न तेनैव तयास्य वर्णितम् ॥ ६६ ॥ (युग्मम्)
अन्तर्निरुद्धबाष्पगद्गदं यथा भवत्येवं वधूर्न किंचिदेवोत्तरं यदवोचत्तेनैव तयास्य प्रि-
यस्य कियन्न स्वदुःखं वर्णितम् । अपि तु भूयः । किंविशष्टा सती जगाद, बहुदिवसोप-
चितेन मानेन विह्वला । क्व सति । सापराधे दयिते इति पर्यनुयुञ्जाने सति । इति किम् ।
इयं दुर्बला शरीरलता गुरुतरचिन्ताया दुर्वहत्वेन यद्वैचित्यं तेन निश्चला निरीक्ष्यमा-
णैव सती किमिति भयमुत्पादयति । कार्श्येन निश्चेष्टतया चामङ्गलचिन्तां प्रणिददाती-
त्यर्थः । विशेषेण दृश्यमानैव साध्वसं करोति दूरात्पुनराकृत्यविसंवादेन पूर्ववत्स्वस्थाव-
स्थैव प्रतिभासते । यत आभरणनिरादरतया स्व एवरामणीयकास्वभावरामणीयका । तथा च प्राग्भारे(?) प्राग्भारे(?)-
णानतिस्तन्मात्रं भूषणं यस्याः सा तथा । "अङ्गानामतितानवं कुत इदं - "इत्यादिश्लोकव-
दत्रापि संविधानम् ॥
काचिद्दूती प्रणयापमानितं नायकं संबोधयति —
विरहविषमः कामो वा[^१]मस्तनूकुरुते तनुं दिवसगणनाद[^२]क्षश्चायं व्यपेतघृणो यमः ।
[^१.] "कामं तनुं कुरुते" इति शृङ्गारदीपिका. [^२.] "दक्षः स्वैरं" इति शृङ्गारदीपिका.
त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किसलयमृदुर्जीवेदेवं कथं प्रमदाजनः ॥ ६७ ॥
हे नाथ, विषमेषुर्युवयोस्तनुं दुर्बलां करोति । किंविशिष्टः । प्रतिकूलः । कीदृशः
सन्प्रतिकूलः । विरहे विषमः । संभोगे पुनरनूकूल एवेत्यर्थः । शरीरकार्श्योपन्यासेनैवं
प्रतिदिनोत्पद्यमानक्षीणताया कतिपयदिवसैः संभोगयोग्यतैव युवयोरस्तमेष्यतीत्यर्थः ।
अयमिति प्रत्यक्षनिर्देशेन पुर इव वर्तमानो निरनुक्रोशोऽन्तकश्च दिवसगणनादक्षः एवं-
विधानपि दिवसांल्लेखयति । संभोगे विप्रलम्मे चायुःक्षयस्तावदस्त्येव । तस्माद्विप्रलम्भे
मृत्युर्वरमुतस्वित्संभोग इति यमशब्दस्योपयोगः । देहदौर्बल्येन संभोगपरिहारेण च मान
एव व्याधिस्तस्य त्वमपि वशगः । अद्य यावन्मयैवं ज्ञातमासीद्यत्सैव मानव्याधेर्वशगेत्य-
पिशब्दार्थः । तस्माद्विचिन्तय, एवमुत्पातपरम्परया प्रमदाजनः कथं जीवति । प्रस्तुते
एकस्यामपि प्रमदायां प्रमदाजन इति जात्यपेक्षया लोकोक्तिः । अथवा प्रकृष्टो मदो
रिरंसालक्षणो मान्मथो विकारो यस्याः सा प्रमदा । सैव विधेयत्वेन जनः । अथवा
नायकस्यानेकनायिकास्पृहणीयत्वेन प्रमदासमूह एवास्तु । किंविशिष्टः । किसलयमृदुः ।
विरहदुरवस्थां सोढुमक्षम इत्यर्थः । अथ च किसलयकोमलं प्रमदाजनमालिङ्ग्य किमिति
चरितार्थो न भवसीति । असत्समुच्चयोऽलंकारः ॥
कश्चित्प्रियामानोपशान्तिं कस्यचिद्विस्रम्भसंभावितस्याग्रे कथयति —
पादासक्ते सुचिरमिह ते वामतां कैव[^१] मुग्धे
मन्दारम्भे प्रणयिनि जने कोऽप[^२]राधोपरोधः ।
इत्थं तस्याः प[^३]रिजनकथाकोमले कोपवेगे
बाष्पोद्भेदैस्तदनु सहसा न स्थितं न प्रवृत्तम् ॥ ६८ ॥
तस्यास्तदनन्तरं त्वरितमेव बाष्पोत्पीडैर्न विलम्बितं न च स्पन्नम् । क्व सति । कोपवेगे सति । किंविशिष्टे । सखीप्रायपरिजनस्येत्थं संबोधकथया शिथिले न तु दृढे । कोपवेगस्य कोमलतयाश्रुभिर्न स्थितम् । कोपसत्तया च न प्रवृत्तम् । स्तम्भितैरेव जातमित्यर्थः । इत्थं कथमित्याह — हे अचेतने, इह प्रणयिनि जने सुचिरं चरणलग्ने कैव तव वामता । प्रातिकूल्यं न युज्यत इत्यर्थः । अथ च येन स्वेदरोमाञ्चप्रभृतयो भवन्ति तस्मिन्नपि दयितशरीरस्पर्शे तव कठिनायाश्चेतसि मानस्तिष्ठतीति भावः । ननु सापराधोऽयं वामतां कथं त्यजामीत्याह — अस्मिन्मन्दारम्भे । कोऽर्थः — दोषोद्घोषणे कृतेऽपि निरुत्तरतया नम्रमुखे यथाकथंचित्प्रसादमेवाकाङ्क्षति सति । तस्मादपराधस्य क उपरोधः ।
[^१.] "नैव कान्ते" इति शृङ्गारदीपिका. [^२.] "कोपने कोऽपराधः" इति शृङ्गारदीपिका.
[^३.] "परिजनगिरा कोपवेगे प्रशान्ते" इति शृङ्गारदीपिका.
प्रणयिजनस्यैवोपरोधोऽस्त्विति भावः । विरोधोऽलंकारः । यदुक्तम् — "यस्मिन्द्रव्यादीनां
परस्परं सर्वथा विरुद्धानाम् । एकत्रावस्थानं समकालं भवति स विरोधः" ॥
काचिन्मनस्विनी दयितमुपालभते —
त[^१]थाभूदस्माकं प्रथमम[^२]विभक्ता तनुरियं
त[^३]तो न त्वं प्रेयानहमपि हताशा प्रियतमा ।
तदानीं नाथस्त्वं वयमपि कलत्रं किमपरं
म[^४]याप्तं प्राणानां कुलिशकठिनानां फलमिदम् ॥ ६९ ॥
आदौ तावदियमस्माकं तनुस्तथानिर्वचनीयेन प्रकारेणाविभक्ता जाता । संयोगाभावः
कदाचिदपि नासीदित्यर्थः । अत एवैक्यप्रतिपादकस्तनुरियमिति प्रयोगः, न तु तनू इमे
इति । आवयोरिति वाच्ये प्रणयबहुमानादस्माकमिति । तदनन्तरं न त्वं प्रेयान् अह-
मपि हताशा न प्रियतमेति ज्ञानमविभागेऽपि भेदमाचष्टे । तदतिशायी तादात्म्येन स्त्री-
पुरुषभेदोऽपि निवृत्त इत्यर्थः । इदानीं गवामिव त्वमस्माकं पतिः वयमप्यग्निसाक्षितया
परिणीता इति यावज्जीवं भर्तव्या इति कलत्रम् । न तु प्रेमगन्धोऽपि । तदेतस्मादपि
किमन्यत् । केवलं त्वयि पराङ्मुखे येन गजोन्मूलितकोमलमृणालनालन्यायेन विशुष्का-
स्तेन तेषां वज्रकर्कशानां प्राणानामिदं नाथकलत्रव्यवस्थारूपं फलमासादितम् । अथ
च कारणानुरूपं कार्यमिति कर्कशानां फलमपि कर्कशमेवेत्यर्थः ॥
मुग्धे मुग्धतयैव नेतु[^५]मखिलः कालः किमारभ्यते
मानं धत्स्व धृतिं बधान ऋजुतां दूरे कुरु प्रेयसि ।
स[^६]ख्यैवं प्रतिबोधिता प्रतिवचस्तामाह भीतानना
नीचैः शंस हृदि स्थितो हि ननु मे प्राणेश्वरः श्रोप्यति ॥ ७० ॥
काचिदमुना प्रकारेण सख्या प्रतिबोधिता सती प्रतिवचनमाह — नीचैः शंस । यस्मात्त्वय्युच्चैरुच्चरन्त्यां मम हृदये कृतास्पदः प्राणेश्वरः श्रोष्यति । तवोपरि क्रुद्धो भविष्यतीति भावः । अथ च प्राणनाथोऽयं यस्य हस्ते स जयतीति(?) यद्यहमनेन सह विप्रतिपद्ये तदा मे प्राणान्गृहीत्वा तिष्ठतीति । अत एव भीतानना । संकुचितत्वेन भीतमिवाननं यस्याः सा तथा । इयं च मुग्धा तदेकताने हृदि प्राणेश्वरं साक्षादेव स्थितं मन्यते । एवं कथं प्रतिबोधितेत्याह — हे मुग्धे, बाल्यदुर्ललितेनैव सर्वः कालोऽतिवाहितुं कस्मादारभ्यते त्वया । केवलं मुग्धेत्याशङ्कनीया भविष्यसि । तस्मादीर्ष्याकारणं विनापि मानं धारय । माने धृते कथमवस्थातुं प्रभविष्यामीत्याह — धृतिमवस्थापय । न
[^१.] "पुरा" इति शृङ्गारदीपिका. [^२.] "अविछि(भि)न्ना" इति शृङ्गारदीपिका. [^३.] "त-
तोऽनु त्वं प्रेयान्वयमपि हताशाः प्रियतमाः" इति शृङ्गारदीपिका. [^४.] "हतानां" इति
शृङ्गारदीपिका. [^५.] "अखिलं कालं" इति शृङ्गारदीपिका. ५.[^६.]"सख्येदं" इति शृङ्गारदीपिका.
न्वयं विना कारणैः स्थातुं न शक्नोमि तेन सह बाह्याकारेण(?) धृतिं बध्नामीत्याह — प्रे-
यसि विषये प्राञ्जलतां परित्यज । मोट्टायितं नाम नाट्यालंकारः । "मोट्टायितं तु तद्भा-
वभावनेष्टकथादिषु" । यथा पद्मगुप्तस्य — "चित्रवर्तिन्यपि नृपे तत्त्वावेशेन चेतसि ।
व्रीडार्धवलितं चक्रे मुखेन्दुमवशैव सा" ॥
एष प्रक्षेपकश्लोकोऽपि व्याख्यायते । काचिज्जरदभिसारिका नवनिष्पन्नस्वैरिणीं प्राह —
क्व प्रस्थितासि करभोरु घने निशीथे
प्रा[^१]णाधिको वसति यत्र ज[^२]नः प्रियो मे ।
एकाकिनी ब[^३]त कथं न बिभेषि बाले
नन्वस्ति पुङ्खितशरो मदनः सहायः ॥ ७१ ॥
मणिबन्धकनिष्ठयोरन्तरं करभः । तदाकारावूरू यस्यास्तस्याः । यथापूर्वं पीवरतया
ऊर्वोर्गौरवेण कथं गन्तुं शक्ष्यसीत्याशयेन संबोधनं हे करभोरु, निर्भरेऽर्धरात्रे क्व चलि-
तासि । यथा मरणाध्यवसिता यदृच्छया मनोगतमाचष्टे तथा मन्मथोन्मत्ततया दुष्क-
राभिसारप्रवृत्ता सती उत्तरमाह — जीवितादप्यधिको यत्र स्थाने मम वल्लभो वसति ।
किंभूतः । जनो विधेयः । इत्युभयानुरागः । पूर्वा पुनः पृच्छति — हे बाले, असहाया
केन प्रकारेण न बिभेषि। बतशब्दः खेदार्थो बालाशब्दवत् । सोल्लुण्ठं स्वैरिण्युत्तरं ब्रूते —
ननु विद्यते सज्जितसायको मदनः सहायः । शरप्रहारोन्मुखमन्मथहेतुकोऽयमारम्भ
इत्यर्थः । सहायो हि गन्तव्यं स्थानं प्रापयति । ननु सहायो यं सहायिनमनुगच्छति न
तु तमेव प्रहर्तुं शरं पुङ्खयति तत्कथमत्र मदनः सहायः । सत्यम् । ईदृशमेवात्र साहाय्यं
यत्पुङ्खितशरसज्जितमेव सहायी गन्तव्यं स्थानं प्राप्यते । यथा हन्यमानस्वार्थस्येव दर्श-
नेन्द्रियस्य तमसि नीलिमोपलम्भः । अथवा नन्वस्ति पुङ्खितशरो मदनः सहाय इति
सोल्लुण्ठम् । अहं किं करोमि, यद्यद्विषमशरः कारयति तदेव करोमि । यथा विपरीतल-
क्षणायाम् — "उपकृतं बहु तत्र किमुच्यते सुजनता प्रथिता भवता परम् । विदधदी-
दृशमेव सदा सखे सुखितमास्व ततः शरदां शतम् ॥" प्रश्नोत्तरमलंकारः ॥
लीलातामरसाहतोऽन्यवनितानिः शङ्कदष्टाधरः
क[^४]श्चित्केसरदूषितेक्षण इव व्यामील्य नेत्रे स्थितः ।
मु[^५]ग्धा कुड्मलिताननेन्दु ददती वायुं स्थिता तत्र सा
भ्रान्त्या धूर्ततया[^६]थवा नतिमृते तेना[^७]निशं चुम्बिता ॥ ७२ ॥
कञ्चित्कामुकोऽन्याङ्गनास्वच्छन्ददष्टोष्ठौ नायिकया क्रीडातामरसेन ताडितः सँल्लो
[^१.] "प्राणेश्वरः" इति शृङ्गारदीपिका. [^२.] "मनः प्रियः" इति शृङ्गारदीपिका. २.[^३.] "वद"
इति शृङ्गारदीपिका. [^४.] "प्रेयान्" इति शृङ्गारदीपिका. [^५.] "कान्ता कुड्मलिताननेन" इति
शृङ्गारदीपिका. [^६.] "तदा" इति शृङ्गारदीपिका. [^७.] "तेनाभवत्" इति शृङ्गारदीपिका.
चने मुद्रयित्वा स्थितः । किंविशिष्ट इव । कैतवेन कुशेशयकिंजल्कदूषितदृष्टिरिव । अथ
सा मुग्धा नायमधरक्षतप्रकाशापह्नवार्थमभिनयं करोति, किं तु मत्प्रहारदूषितदृष्टित्वेन
व्यथित एवेति या भ्रान्तिस्तया । अथवाभिनयं जानाति परं प्रेम्णः कुटिलस्वरूपत्वा-
ल्लुण्ठनार्थं या धूर्तता तया मुकुलिताननमृगाङ्कं यथा भवत्येवं वदनमारुतं निश्चला सती
तस्य लोचनयोर्ददती तेन प्रणामोपायं विनैव सिद्धसमीहितेन वारंवारं चुम्बिता । भ्रा-
न्तिपक्षे प्रियतमस्यापराधग्रहणं तावद्दूरत एवास्ताम्, प्रत्युत प्रहरणीकृतपङ्कजकिंजल्कक-
ल्कदूषितदृष्टिरिति स्वयमपराधिनी जाता। अतः कुड्मलिताननेत्यनेनानुल्बणमुखमारु-
तवितरणप्रयत्नः । अन्यथा चुम्बनार्थमभियुक्ता कोपेन पराङ्मुखी भवति । मौग्ध्यमप्ये-
तस्मिंस्तदिति प्रत्यय एव । न तु वयोमौग्ध्यम् । धूर्ततयेत्यनुपपन्नत्वात् । धूर्ततापेक्षया
च स्थितेत्यत्र प्रियप्रत्यासत्तिजनितेन हर्षातिरेकेणापराधविस्मरणं हेतुः । अत एव
प्रणत्युपायं विनैव तेन चुम्बिता । अत्र केचिद्वायुपदेन जुगुप्साश्लीलमिति दोषमाचक्षते ।
तद्यदि कीरदेशे कुड्मलिताननेन्दुपदसंनिधावपि कमलपरिमलोद्गारिणो मुखमारुतस्य
प्रतीतिर्न भवति भवति चाश्लीलप्रतीतिस्तदा वाग्देवतादेश इति व्यवसितव्य एवासौ ।
किं तु ह्लादैकमयीवरलब्धप्रसादौ काव्यप्रकाशकारौ प्रायेण दोषदृष्टी येनैवंविधेष्वपि पर-
मार्थसहृदयानन्दमन्त्रे(पदे)षु सरसकविसंदर्भेषु दोषमेव साक्षादकुरुताम् । उक्तं च भ-
ट्टवार्तिके — "न चाप्यतीव कर्तव्यं दोषदृष्टिपरं मनः । दोषो ह्यविद्यमानोऽपि तच्चित्तानां
प्रकाशते ॥" इति ॥
काचित्सखी कोपनिर्धूतभर्तृकायाः पश्चात्तापमपरस्याः प्रतिपादयति —
स्फुटतु हृदयं कामः कामं करोतु तनुं तनुं
न सखि चपलप्रेम्णा कार्यं पुनर्दयितेन मे ।
इति सरभसं मा[^१]नावेशादुदीर्य वचस्तया
रमणपदवी सारङ्गाक्ष्या निर[^२]न्तरमीक्षिता ॥ ७३ ॥
तया कुरङ्गलोचनया गतवतो रमणस्य पदवी निरन्तरं निर्वर्णिता । किं कृत्वा । इत्य-
मुना प्रकारेणापर्यालोचिताध्यवसितत्वेन सरभसं यथा भवत्येवं मानावेशवशाद्वचनमु-
चार्य । इति कथम् । हे सखि, संततचिन्ताप्राग्भारेण हृदयं मे विदीर्यताम् । स्वेच्छया
मन्मथस्तनुं दुर्बलां करोतु । क्षणिकप्रेम्णा प्रियेण न किंचित्प्रयोजनम् । धृत्यौत्सुक्ये
व्यभिचारिभावौ ॥
काचित्कान्तैकान्तवृत्तान्तं सख्याः कथयति —
गा[^३]ढाश्लेषविशीर्णचन्दनरजःपुञ्जप्रकर्षादियं शय्या संप्रति कोमलाङ्गि परुषेत्यारोप्य मां वक्षसि ।
[^१.] "कोपाटोपात्" इति शृङ्गारदीपिका. [^२.] "सशङ्कितं" इति शृङ्गारदीपिका. [^३.] "प-
श्याश्लेष" इति शृङ्गारदीपिका.
गाढौष्ठ[^१]ग्रहपूर्वमाकुलतया पादाग्रसंदंशके-
नाकृष्याम्बरमात्मनो यदुचितं धूर्तेन तत्प्रस्तुतम् ॥ ७४ ॥
तेन धूर्तेन स्वच्छन्दमधरपीडनपूर्वकमनङ्गपर्याकुलतया चरणाग्रस्थाङ्गुलियन्त्रेण म-
न्नितम्बसिचयं मोचयित्वा तत्कालयोग्यमात्मनो यत्समीहितं तत्प्रक्रान्तम् । अत्र संनि-
वेशवशेन पुरुषायितम् । तथा आत्मनो यदुचितं न तु मम । तेनाग्राम्यत्वं लज्जा च ।
किं कृत्वा । इति हृदये मामारोप्य । इति किम् । हे सुकुमाराङ्गि, इदानीमिदं तल्पं कर्क-
शम् । कस्मात् । निर्भरमालिङ्गनोद्घटितचन्दनरजःपुञ्जप्रसञ्जनात् । इयं च नायिका प्रौ-
ढत्वेन मनस्विनी पूर्वमासीत् । अन्यथा सात्त्विकस्वेदेन चन्दनरजो नोपपद्यते ॥
कथमपि कृ[^२]तप्रत्याख्याने प्रिये स्खलितोत्तरे
विरहकृशया कृत्वा व्याजं प्रकल्पितमश्रुतम् ।
असहनसखीश्रोत्रप्रा[^३]प्तिप्रमादससंभ्रमं
विग[^४]लितदृशा शून्ये गेहे समुच्छ्वसितं पुनः ॥ ७५ ॥
सापराधे प्रिये कथमपि प्रणामशपथादिभिः कृतनिराकरणे सति । अथ तस्यै गोत्र-
स्खलितावसरे सुबहुदिवसमानात्मकविरहदुर्बलतया यथाकथंचित्संगमलौल्येन संप्रतिपि-
त्सया परिजनव्यापारादिकं व्याजं विधायाश्रुतं नाटितम् । अथ चासहनवयस्याकर्णे-
ऽन्याङ्गनानामप्राप्तिः सैव प्रमादस्तेन पर्याकुलं यथा भवत्येवं बाष्पायितदृष्ट्या शून्ये वे-
श्मनि पुनः समुच्छ्वसितम् । निवृत्ते रुदिते यदि प्राणी रुदितहेतुभूतां दुरवस्थामनुस्मरति
तदोत्कम्पितहृदयः पुनरुच्छ्वसिति । संगमलोभेन सैव नायिका परगोत्रस्खलनं सहते न
तु सखी । तस्मात्तयैवं चिन्तितं यद्येतद्गोत्रस्खलनमसहनसखीकर्णे प्रमादात्पतितं भवति
तदाहमपि लघ्वी कथं जीवामि । अतिबहुमानसंभावनायाः ससंभ्रममिति विशेषणम् ॥
आदृष्टिप्रसरात्प्रियस्य पदवीमुद्वीक्ष्य निर्विण्णया
विच्छि[^५]न्नेषु पथिष्वहःपरिणतौ ध्वान्ते समुत्सर्पति ।
दत्त्वैकं सशुचा गृहं प्रति पदं पान्थस्त्रियास्मिन्क्षणे
मा भूदागत इत्यमन्दवलितग्रीवं पुनर्वीक्षितम् ॥ ७६ ॥
कयाचिदध्वगवध्वा सकलं दिवसं यावद्दृष्टिः प्रसरति तावदन्तरे दयितस्यागमनपद्धतिमुद्ग्रीविकया वीक्ष्य प्राणनिरपेक्षतारम्भकं निर्वेदं प्राप्तया वासरान्ते विरलसंचारेषु वर्त्मसु तमसि सम्यगुत्कटं प्रसरति सति निष्प्रत्याशया सशुचा गृहं प्रति पदमेकं क्षिप्त्वा
[^१.] "ग्रहपीडनाकुलतया" इति शृङ्गारदीपिका. [^२.] "कृतप्रत्यापत्तौ" इति शृङ्गारदीपिका. [^३.] "प्राप्तिं विशङ्क्य" इति शृङ्गारदीपिका. [^४.] "विवलितदृशा" इति शृङ्गारदीपिका. [^५.] "विश्रान्तेषु" इति शृङ्गारदीपिका. स्मिन्नेवान्तरे कदाचिदागतो मा भूदिति प्रत्याशया औत्सुक्याद्वेगविवर्तितकंधरं यथा भवत्येवं पुनः पृष्ठतो विलोकितमिति तदेकतानेन प्रीतिप्रकर्षः । पथिष्विति बहुवचनेन सर्वमार्गेषु प्रियस्यागमनपदवी निर्वर्णितेत्यर्थः । पान्थस्त्रियेत्येकवचनेन विरहहृद्रोगभेषजात्मकप्रबोधनवाक्यप्रस्तावनादिभिराश्वासदायिनी वयस्यापि तस्या नास्तीति भावः । तदेवं प्रवासात्मको विप्रलम्भोऽप्येष करुणप्राय एवेति मर्मणि स्पृशति । परमग्रेतनश्लोकस्यौचित्येन रसिकाः संजीवन्ति । "दूरदेशान्तरस्थे तु कार्यतः प्रोषिते प्रिये" इति प्रोषितभर्तृका नायिका ।
आयाते दयिते मनोरथशतैर्नीत्वा कथंचिद्दिनं
वैद[^१]ग्ध्यापगमाज्जडे परिजने दीर्घां कथां कुर्वति ।
दष्टास्मीत्यभिधाय सत्वरपदं व्याधूय ची[^२]नांशुकं
तन्वङ्ग्या रतिकातरेण मनसा नीतः प्रदीपः शमम् ॥ ७७ ॥
कृशाङ्ख्या रत्यर्थं कातरेण मनसा विशिष्टया प्रदीपो विध्यापितः (निर्वापितः) । किं कृत्वा । द्रुतपदं प्रदीपसमीपमेत्य चीनदेशोद्भवं वस्त्रं विशेषेणास्फाल्य । एतदेव किं कृत्वा । इति मिथ्याभिधाय । इति किम् । दष्टास्मीति । वृश्चिकादिना हि दष्टो विशृङ्खलवस्त्राञ्चलचरणविन्यासप्रक्रियोद्भ्रान्तो दीपविध्यापनभाण्डपातनादिकमवश्यं करोति । क्व सति । दयिते मनोरथशतैरायाते सति । पुनरपि किं कृत्वा दीपः शमितः । उभयत्र संबन्धान्मनोरथशतैरेवमेवमुपालम्भपरिरम्भचुम्बनादिकं करिष्यामीति स्वरूपैर्महता कटेन दिनमतिवाह्य । ननु व्याजेन दीपमुपशमय्य किमिति रतिमाकाङ्क्षतीत्याह — वैदग्ध्येत्यादि । इदानीं कीदृशोऽवसरः । कीदृशमत्रत्यानां चेतः । किमस्माभिः कर्तव्यमित्यादिवैदग्ध्याभावान्मूर्खे परिजने गृहदेशान्तराकथां दीर्घां कुर्वति । इयं च कथा संभोगान्तरायत्वाद्विद्विष्टा । यदुक्तम् — "या गोष्ठी लोकविद्विष्टा या च स्वैरविसर्पिणी । परहिंसात्मिका या च न तामवगिरेद्बुधः ॥ नात्यन्तं संस्कृतेनैव नात्यन्तं देशभाषया । कथां गोष्ठीषु कथयंल्लोके बहुमतो भवेत् ॥ लोकचित्तानुवर्तिन्या क्रीडामात्रैककार्यया । गोष्ठ्या समाचरंल्लोके नृणां बहुमतो भवेत् ॥"
कश्चिद्विरही प्रियतमामनुध्यायति —
आलम्ब्याङ्गणवा[^३]टिकापरिसरे चूतद्रुमे मञ्जरीं
सर्पत्सान्द्रपरागलम्पटर[^४]टद्भृङ्गाङ्गनाशोभिनीम् ।
मन्ये स्वां तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुर-
त्कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ७८ ॥
[^१.] "गत्वा वासगृहे जडे" इति शृङ्गारदीपिका. [^२.] "चेलाञ्चलम्" इति शृङ्गारदीपिका. [^३.] "वापिका" इति शृङ्गारदीपिका. [^४.] "रणत्" इति शृङ्गारदीपिका. मन्येऽवश्यमस्मिन्समये मुग्धा रोदिति । किंविशिष्टा । स्फुरणानुमेयो यः कण्ठध्वानस्तस्य निरोधस्तेन कम्पितौ कुचौ येन तादृशः श्वासोद्गमो यस्याः सा तथोक्ता । किं कृत्वा । निजां कृशां शरीरलतामुपरितनांशुकशकलेन पिधाय । पुनः किं कृत्वा । रसालशाखिनि मञ्जरीमालम्ब्य । किंविशिष्टाम् । सर्पत्सान्द्रपरागो येषु । ते च रजस्यसंभवायोग्यतया मधुनि मधुलम्पटा मधुकराः प्रसरन्ति । घने कुसुमरजसि परिमललोभेन लम्पटा रटन्तो ये भृङ्गास्तेषामङ्गनाश्च ताभिः शोभत इत्येवंशीला ताम् । चूतद्रुम एव क इत्याह — यत्र मया सह क्रीडितं यत्रैव च पिष्टविकाराशन(?)द्यूतपणव्यतिकरे जयपराजयव्यवस्थया विलसितं तस्या अङ्गणवाटिकायाः प्रदेशे । स्वामित्यनेन विशेषध्वनिना संप्रति तस्यास्तनुरेवेत्यर्थः । प्राणानां गतकल्पत्वात् । यः शाखादिकमवलम्ब्य तिष्ठति तस्याङ्गमुद्घाटितं भवति । तथापि विकलतयोत्तरीयशकलेनाच्छाद्य न तु सावधानतया समस्तेन । चूतद्रुमालम्बनपूर्वकं संस्थानमपि प्राणजिहासया दुष्करप्रायम् । मुकुलिताम्रदर्शनस्यापि विरहिणामशक्यत्वात् । यथा मालतीमाधवे — "धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति बकुलामोदगर्भस्य वायोः । दावप्रेम्णा सरसबिसिनीपत्त्रमात्रान्तरायस्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् ॥" अङ्गनवाटिका च शृङ्गारिणां भवत्येव । यदुक्तम् — "तत्र भवनमासन्नोदकं वृक्षवाटिकासहितं द्विवासगृहं कारयेत् ॥ [ अथ च मूलगृहद्वारि सहकारारोपणं सुप्रसिद्धम् । यदुक्तम् — "किं द्वारि दैवहतिके सहकारकेण संवर्धितेन विषपादप एष पापः । अस्मिन्मनागपि विकासविकारभाजि भीमा भवन्ति मदनज्वरसंनिपाताः ॥" इति ॥ ]
काचित्प्रोषितभर्तृकात्मानमधिक्षिपति —
यास्यामीति समुद्यतस्य गदितं विस्रब्धमाकर्णितं
गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि ।
तच्छून्ये पुनरास्थितास्मि भवने प्राणास्त एते दृढाः
सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादहं रोदिमि ॥ ७९ ॥
हे सख्यः, स्वस्थावस्थया तिष्ठत मद्विषये नाधृतिः कार्या । यतोऽहं जीविताकाङ्क्षिणी
च्छद्मना रोदिमि । यदि च प्राणनिरपेक्षा भवामि रोदिम्येव न । किं च, दयितस्य
प्रवासार्थमुद्यतस्य यास्यामीति वचनं मया विस्रब्धं यथा भवत्येवमाकर्णितम् । गच्छन्स-
न्मदपेक्षया वारंवारमसौ व्यावृत्य तिष्ठन्नपि दूरं यावदुपेतः । तदैव किल जीवितत्यागा-
वसर आसीत् । तस्मादनेकसङ्ग्रामनिर्व्यूढास्मि । इदानीं पुनर्यस्मिन्नेव भवने तेन सह
विलसितं तस्मिन्नेषा वज्रमयी आस्थितास्मि । त एते चण्डालचरिताः प्राणा अपि
दृढा एव । अत्र चायमुक्तेरुल्लेखः — पूर्वार्धे यद्यहं यास्यामीति गदिते पर्याकुली भवामि
तदा च गच्छन्तं निवारयामि । यदि जीविताकाङ्क्षिणी भवामि । तस्माद्विस्रब्धचेष्टा
गमनोपेक्षिणी च किं न भवामि इति मे पूर्वं निश्चितमासीत् । इदानीं कस्मादपि दुर्दै-
वादेवंविधा कर्कशा संवृत्तास्मि । गदितमित्यत्र भावे क्तः । अत्राविवक्षितवाच्यस्य
ध्वनेर्भेदोऽत्यन्ततिरस्कृतवाच्यो नाम । यथादिकवेर्वाल्मीकेः — "निःश्वासान्ध इवादर्शश्च-
न्द्रमा न प्रकाशते" इति ॥
काचित्सखी नायिकां भीषयित्वा मानग्रहापस्मारान्मोचयति —
अनालोच्य प्रेम्णः परिणतिमनादृत्य सुहृद-
स्त्वयाकाण्डे मानः किमिति स[^१]रले संप्रति कृतः ।
समाकृष्टा ह्येते प्रलयदहनोद्भासुरशिखाः
स्वहस्तेनाङ्गारास्तदलमधुनारण्यरुदितैः ॥ ८० ॥
धूर्तविदग्धानां कुटिलमनोज्ञेषु चेष्टितचमत्कारेषु प्रविश्य क्रीडितुं न जानासीति हे
सरले, तस्मिन्नेवावसरे तव दयितोऽन्याङ्गनानवरङ्गस्नेहवागुरायां पतित इत्यकाले संप्रति
त्वया किमिति मानः कृतः । किं कृत्वा । प्रेम्णः परिणतिमनालोच्य । दिनानि पञ्च यथा
तथास्तु । अक्षिणी निमील्य समयोऽतिवाहनीयः । पानीयमवश्यं पानीयवर्त्मन्यागमि-
ष्यतीत्यादि किमपि न संप्रधारितमित्यर्थः । न केवलमिदं कृत्वा, एवंविधोपदेशपेशला-
नस्मादृशान्सुहृदोऽप्यनादृत्य । इदानीं पुनः किं कर्तुं याति । यतः प्रलयदहनस्येवोद्भा-
सुराः शिखा येषां तेऽमी स्वहस्तेनाङ्गारास्त्वया सम्यगाकृष्टाः । उपाख्यानमेतत् । अथ
च देहदाहात्मक उपन्यासः । तस्मादिदानीं पुनः पर्याप्तमरण्यरुदितैः । लोकोक्तिरि-
यम् । अथ चारण्यप्रायं सर्वमिदानीं ते शून्यमासीत् ॥
कश्चिन्मनस्विनीमनुनयति —
कपोले पत्त्राली करतलनिरोधेन मृदिता
निपीतो निःश्वासैरयममृतहृद्योऽधररसः ।
मुहुः कण्ठे लग्नस्तरलयति बाष्पः स्तनतटं
प्रियो मन्युर्जातस्तव निरनुरोधे न तु वयम् ॥ ८१ ॥
हे निरनुरोधे, पादोपान्तेऽपि लुठतोऽपि मे भणितं न करोषि मन्युस्ते वल्लभो
जातः । किंचिदुपेक्षालेशेनान्तर्गर्भितेयमुक्तिः । अत एव न तु वयमित्यौदासीन्यव्यञ्जकं
बहुवचनम् । कथं मन्युरेव प्रियकार्यं करोतीत्याह — कपोल इत्यादि । विषादानुभाव-
तया यस्मिन्सततं मुखं न्यस्तं तस्य करतलस्य निरोधेन कपोले पत्त्राली प्रोञ्छिता ।
स्वेनाननुभूतत्वात् । सुधास्वादुरयमित्यनिर्वचनीय ओष्ठरसो निःश्वासैः शोषितः ।
अन्तर्निरुद्धतया कण्ठे सक्तो बाष्पः स्तनतटं कम्पयति । अपह्नुतिरलंकारअपह्नुतिरलंकारः ॥
शून्यं वासगृहं विलोक्य शयनादुत्थाय किंचिच्छनैर्निद्राव्याजमुपागतस्य सुचिरं निर्वर्ण्य पत्युर्मुखम् ।
[^१.] "तरले" इति शृङ्गारदीपिका. [^२.] "स्तनतटीं" इति शृङ्गारदीपिका.
विस्रब्धं परिचुम्ब्य जातपुलकामालोक्य गण्डस्थलीं
लज्जानम्रमुखी प्रियेण हसता बा[^१]ला चिरं चुम्बिता ॥ ८२ ॥
व्रीडानम्रवदना बाला वल्लभेन स्मयमानेन चिरं चुम्बिता । किं कृत्वा लज्जानम्र-
मुखी । पत्युः कपोलस्थलीं जातपुलकामिति हेतोर्जाग्रदवस्थाशंसिनीं विलोक्य । कपो-
लावलोकनमेव किं कृत्वा कृतम् । निद्राव्याजमुपागतस्य मुखं परिचुम्ब्य । कथम् । वि-
स्रब्धम् । विस्रब्धचुम्बनमेव किं कृत्वा कृतम् । सुचिरं निर्वर्ण्य । मुग्धा ह्यन्यदा लज्जा-
साध्वसाभ्यां पराङ्मुखीकृताः क्व दयितमुखनिर्वर्णनचुम्बनरसमनुभवन्ति । सुचिरं निर्व-
र्णनमेव किं कृत्वा कृतम् । शयनात्स्तोकमुत्थाय । कथम् । प्रबोधशङ्कया शनैः । स्तोको-
त्थानमेव किं कृत्वा कृतम् । मा कदाचिदपि कोऽपि मां पश्येदिति शङ्कया शून्यमपि
वासगृहं विशेषेण दृष्ट्वा । (अत्र भिन्नकर्तृकत्वशङ्का न कार्या । लज्जाक्रियापेक्षया समान-
कर्तृकत्वात् ।) नायिकायाश्च साभिप्रायचुम्बनमेतत् । यदुक्तम् — "सुप्तस्य मुखमालो-
कयन्त्याः साभिप्रायेण चुम्बनं रागोद्दीपनम्" इति । स्वाधीनपतिका मुग्धा नायिका ॥
लोल[^२]द्भ्रूलतया विपक्षदिगुपन्यासेऽव[^३]धूतं शिर-
स्तद्वृत्तान्तनिरीक्षणे कृतनमस्कारो विलक्षः स्थितः ।
कोपा[^४]त्ताम्रकपोलभित्तिनि मुखे दृष्ट्या गतः पादयो-
रुत्सृष्टो गुरुसंनिधावपि विधिर्द्वाभ्यां न कालोचितः ॥ ८३ ॥
श्वशुरप्रायगुरुजनसकाशेऽपि द्वाभ्यां चातुर्येण कोपप्रसादनात्मको विधिः समयोचि-
तो न मुक्तः । कथं कथमित्याह — तत्र गत्वा आगतोऽसीति सूचकं स्पन्दितया भ्रूल-
तयान्यवनितागृहोद्देशोपक्षेपे नायिकया शिरोऽवधूतम् । नायकोऽपि शिरःकम्पनवृ-
त्तान्तनिरीक्षणे विलक्षः स्थितः । किंविशिष्टः । नमस्या भवती यदेवमेव निरपराधस्य
ममापराधमारोपयतीत्याशयेन कृतनमस्कारः । अथवा तस्यै दिशे मम नमस्कार एवेति
भावः । न केवलं विलक्षः स्थितः नायिकाया मुखे इदानीं किं ते कितव कर्तुं शक्नोमि
यद्येकान्ते लब्धो भवसि तदा शिक्षां ग्राहयामीति कोपात्ताम्रगण्डमण्डले मुखे सत्य-
भिनयेन प्रणामं सूचयन्दृष्ट्या तत्पादयोः पतितः । अत्र कोपेन पुलकाद्यभावात्कपोले
कर्कशत्वसाधारणधर्मो भित्तित्वेन रूपितः । दृष्टिश्चेयं लज्जितशङ्किता । यथा — "किंचि-
दञ्चितपक्ष्माग्रा पतितोर्ध्वपुटा भिया । त्रपाधोगततारा च शङ्किता दृष्टिरिष्यते" ॥
काचित्सखीभिरुपदिष्टं मानं स्थापयितुमक्षमा ताः प्रत्याह —
जाता नोत्कलिका स्तनौ न लुलितौ गात्रं न रोमाञ्चितं वक्त्रं स्वेदकणान्वितं न सहसा यावच्छठेनामुना ।
[^१.] "बालाभवच्चुम्बिता" इति शृङ्गारदीपिका. [^२.] "लोलभ्रूलतया" इति शृङ्गारदी-
पिका. [^३.] "विधूतं" इति शृङ्गारदीपिका. [^४.] "ईषत्ताम्रकपोलकान्तिनि मुखे दृष्ट्या
नतः" इति शृङ्गारदीपिका.
दृष्टेनैव मनो हृतं धृतिमुषा प्राणेश्वरेणाद्य मे
तत्केनात्र निरूप्यमाणनिपुणो मानः समाधीयताम् ॥ ८४ ॥
तस्मात्कथयत केनोपायेनात्र संस्थानके मानः स्थैर्यं नीयताम्, अपि तु न केनापि ।
कथंभूतः । निरूप्यमाणनिपुणः । निपुणं निरूप्यमाणो निरूप्यमाणनिपुणः । सुप्सुपेति
समासः । पूर्वनिपातानियमः । यतो यन्मानात्मकविरहातिवाहनक्षममिति संभावितमा-
सीत्तदद्य मे मनो दृष्टेनैव यावदमुना शठेन प्राणेश्वरेण सहसा लुण्ठितम् । किंविशिष्टेन ।
एतदसंगमे कथं जीविष्यामीति मे धृतितस्करेण । ( यदि पुनः संनिधावुपविश्य प्रणा-
मादिकमारभते तदा तस्य कथैव का । तच्चानेन कृतमेव न । कथं ज्ञायत इत्याह —
उत्कण्ठा न जाता । कुचौ न कम्पितौ । अङ्गं न पुलकितम् । मुखमपि स्वेदकणचितं न
जातम् । ) संनिधावुपविश्य यदि प्रणामादिकमारभते तदा सर्वमेव जातप्रायं भवती-
त्यर्थः । अहो नूतनोऽयं तस्करो यद्दृष्टिमात्र एव पदार्थमपहरतीत्याश्चर्यद्योतकं शठेनेति
प्रीतिवचनमेव ॥
दृष्टः कातरनेत्रया चिरतरं बद्ध्वाञ्जलिं याचितः
पश्चादंशुकप[^१]ल्लवेन विधृतो निर्व्याजमालिङ्गितः ।
इ[^२]त्याक्षिप्य यदा समस्तमघृणो गन्तुं प्रवृत्तः शठः
पूर्वं प्राणपरिग्रहो दयितया मुक्तस्ततो वल्लभः ॥ ८५ ॥
तदा प्रवसतो नायकस्य दयितया प्रथमं जीवितास्था मुक्ता तदनन्तरं दयितो मुक्तः ।
तदा कदा । यदेत्यादिकं सर्वममानयित्वा गन्तुमेव कितवः प्रवृत्तः । किंविशिष्टः । मुमू-
र्षुमपि वल्लभामुपेक्षत इति निर्घृणः । इत्यादिकं किमित्याह — स्थापनार्थे दैन्यव्यञ्जकत्वेन
कातरचक्षुषा चिरतरमवलोकितः । पश्चादञ्जलिं बद्ध्वा प्रार्थितः । अनन्तरं वस्त्राञ्चलेन
विधृतः । चरमं गाढमुपगूढः । गन्तुं प्रवृत्तो न तु गत एवेति हेतोरेकानुरागो न शङ्क-
नीयः । कर्तृदीपकमलंकारः । यदुक्तम् — "यत्रैकमनेकेषां वाक्यार्थानां क्रियापदं
भवति । तद्वत्कारकपदमपि तदेतदिति दीपकं द्वेधा ॥" अतिशयभेदः पूर्वं च । यदु-
क्तम् — "यत्रातिप्रबलतया विवक्ष्यते पूर्वमेव जन्यस्य । प्रादुर्भावः पश्चाज्जनकस्य तु तद्भ-
वेत्पूर्वम् ॥" यथा — "दुर्लभजनमभिलषतामादौ दंदह्यते मनो यूनाम् । गुरुरनिवारप्रसरः
पश्चात्कामानलो ज्वलति" ॥
कश्चिद्वियोगी दयितादुरवस्थामनुस्मरति —
तप्ते महाविरहवह्निशिखावलीभिरापाण्डुरस्तनतटे हृदये प्रियायाः ।
[^१.] "पल्लवे च" इति शृङ्गारदीपिका. [^२.] "इत्याक्षिप्य समस्तमेवमघृणो" इति शृङ्गा-
रदीपिका.
मन्मार्गवीक्षणनिवेशितदीनदृष्टे-
र्नूनं छमच्छमिति बाष्पकर्णाः पतन्ति ॥ ८६ ॥
नूनमहमेवं मन्ये — दयिताया हृदि च्छमच्छमित्यश्रुविप्रुषः पतन्ति । किंविशि-
ष्टायाः । मदागमनपदवीगवेषणदत्तदीनदृष्टेः । किंविशिष्टे हृदये । महतीभिर्वियोगानल-
ज्वालाभिस्तप्ते । पुनः कीदृशे । आपाण्डुरस्तनतटे । संतप्तवस्तुनि पतितं पयश्छमत्करो-
तीत्यनुकारः । रूपकमलंकारः । यदुक्तम् — "यत्र गुणानां साम्ये सत्युपमानोपमेययोर-
भिधा । अविवक्षितसामान्या कल्प्यत इति रूपकं ज्ञेयम् ॥" परं गृहीतमुक्तोऽलंकारः ॥
काचित्सखी मानिनीवृत्तान्तमपरसख्याः कथयति —
चिन्तामोह[^१]विनिश्चलेन मनसा मौनेन पादानतः
प्र[^२]त्याख्यानपराङ्मुखः प्रियतमो गन्तुं प्र[^३]वृत्तोऽधुना ।
सव्रीडैरलसैर्निरन्तरलुठद्बाष्पाकुलैरीक्षणैः
श्वा[^४]सोत्कम्पिकुचं निरीक्ष्य सुचिरं जीवाशया वारितः ॥ ८७ ॥
तया प्रियतमो निवारितः । किंविशिष्टः सन् । गन्तुं प्रवृत्तः । यतः प्रत्याख्यानेन
पराङ्मुखो निराकृत एव । किंविशिष्टः सन् । चरणानतः । केन विशिष्टः । विदितापरा-
धत्वान्मौनेन। पुनरपि केन । चेतसा । कथंभूतेन । प्रसादं करिष्यति न वेति चिन्तयान्तः-
करणशून्यत्वान्मोहेन च स्तिमितेन । विनिश्चलमिति भीरुत्वोक्तिः । कदा । अधुना ।
इदानीं यावत्प्रसादोपायांश्चकारेत्यर्थः । कया वारितः । जीविताशया । प्रत्याख्यानं ताव-
त्साहसेन कृतम् । गन्तुं प्रवृत्ते तस्मिन्प्राणान्धारयितुमशक्यत्वादनन्यगतिकत्वं जातमि-
त्यर्थः । अद्याहमेव त्वया विना जीवितुं न शक्नोमि, तदा किमेवं लघ्वी भवामीत्यभिधा-
नात् । श्वासेनोत्कम्पितौ कुचौ यत्र तत्तथोक्तम् । अथ च यद्यहं जीवामि तदा प्रियसं-
गमं प्राप्नोमीति जीवने कृता आशा जीवाशा । किं कृत्वा वारितः । सुचिरं निरीक्ष्य ।
कैः । ईक्षणैः । किंविशिष्टैः । अवष्टम्भत्यागव्यञ्जकतया सव्रीडैः । दैन्यद्योतकतयालसैः ।
अपमानातिशयान्निरन्तरलुठद्बाष्पाकुलैः ॥
कश्चिद्देशान्तरादागतो मनोरथप्राप्तप्रियतमासमागमं प्रणिधत्ते —
म्लानं पाण्डु कृशं वियोग[^५]विधुरं लम्बालकं सा[^६]लसं भूयस्तत्क्षणजातकान्ति र[^७]भसप्राप्ते मयि प्रोषिते ।
[^१.] "मोहनिबध्यमानमनसा" इति शृङ्गारदीपिका. [^२.] "प्रत्याख्यात" इति शृङ्गार-
दीपिका. [^३.] "प्रवृत्तः शठः" इति शृङ्गारदीपिका. [^४.] "तन्वङ्ग्या स पुनस्तया तरलया
तत्रान्तरे वारितः" इति शृङ्गारदीपिका. [^५.] "विलास" इति शृङ्गारदीपिका. [^६.] "चा-
लसं" इति शृङ्गारदीपिका. [^७.] "मधुरं प्राप्ते" इति शृङ्गारदीपिका.
साटोपं रतिके[^१]लिकालसरसं रम्यं किमप्यादरा-
द्य[^२]त्पीतं सुतनोर्मया व[^३]दनकं वक्तुं न तत्पार्यते ॥ ८८ ॥
यन्मया सुतनोर्वदनकमधरग्रहचमत्कारिचुम्बनपूर्वकत्वेन यत्नात्पीतं तदनिर्वचनीयत्वा-
द्वक्तुं न शक्यते । तस्य विशेषणान्याह — आन्तरेण मर्मस्पृशा दुःखेन कुसुममिव म्लानम् ।
प्रत्यूषतुषारांशुवत्कान्तिविगलितत्वेन पाण्डु । असौस्थ्येनाहारस्यारोचकत्वात्सुतनोरिति
[पदेन] शरीरकार्श्यात्कृशम् । किंविशिष्टं सदुक्तवक्ष्यमाणविशेषणयोग्यं जातमित्याह — वि-
योगविधुरम् । इदं विशेषणं हेतुत्वेन सालसं यावत्सर्वत्र संबध्यते । नहि वैधुर्यमेव केवलं
वियोगहेतुकम् । म्लानत्वादीनामपि तन्निमित्तत्वात् । प्रसाधनपरित्यागेन कर्तनादिरहित-
त्वाल्लम्बालकम् । अन्तःखेदेन सालसम् । अथ दर्शनात्मकसंभोगसमुचितं विशेषणमा-
ह । चिरमनोरथप्राप्त्या पुनस्तत्कालोल्लसितकान्ति । क्व सति । मयि पथिकेऽकस्माद्रभ-
सप्राप्ते सति । अथ चुम्बनसमयविशेषणमाह — त्वमद्य यावन्मां विहाय तत्र स्थित इत्या-
शयेन मानाद्भूभङ्गादिभिः मानाद्भ्रूभङ्गादिभिः साटोपम् । रतिक्रीडासमये आर्द्रमत एव किमपि रमणीयम् ।
सालसमित्यत्रालसपदं भावप्रधानम् । तेन सालस्यमित्यर्थः । मुग्धाया अल्पत्वेन मुखम-
प्यल्पं तेनाल्पार्थे कप्रत्ययेन वदनकम् । भूयस्तत्क्षणजातकान्तीत्यनेन विलासः ।
"तात्कालिको विशेषस्तु विलासोऽङ्गक्रियादिषु" ॥
सैवाहं प्रमदा नृणामधिगतावेतौ च तौ नूपुरा-
वेषास्माकमवृत्तिरेव सहजव्रीडाधनः स्त्रीजनः ।
इत्थं लज्जितया स्मृतेरुपगमे मत्वा तनुं संभ्रमा-
त्पुंभावः प्रथमं रतिव्यतिकरे मुक्तस्ततो वल्लभः ॥ ८९ ॥
कयाचिद्विपरीतरतिव्यतिकरे पूर्वं पर्याकुलतया पुरुषभावस्त्यक्तस्तदनन्तरं वल्लभो
मुक्तः । किं कृत्वा । तनुं ज्ञात्वा । मोहनसमये शरीरपरिज्ञानमेव नासीत्, का पुनः कथा
स्त्रीपुरुषविषयविभागस्येति भावः । किंविशिष्टया । लज्जितया । क्व सति । इत्थं स्मृ-
तेरुपगमे । इत्थं कथम् । सैवाहं लज्जावती गृहलोकानां विदिता इदानीं प्रकृष्टमदा
जाता । एतौ च तौ नूपुरौ संभोगाभियोगेन शब्दायमानौ मयोच्छृङ्खलया लोकानां
श्रुतिसंवादेन ज्ञापितौ । एषास्माकं स्त्रीणामक्रियैव । यतः सहजव्रीडैव धनं यस्य स
तथोक्तः स्त्रीजनः । अतिशयभेदः पूर्वमलंकारः । "निःसाध्वसत्वं प्रागल्भ्यम्" इत्यनेन च
प्रागल्भ्यं नाम नाट्यालंकारः ॥
करकिसलयं धूत्वा धूत्वा विमा[^४]र्गति वाससी क्षिपति सुमनोमालाशेषं प्रदीपशिखां प्रति ।
[^१.] "केलिदत्तरभसं" इति शृङ्गारदीपिका. [^२.] "पीतं यत्' इति शृङ्गारदीपिका.
[^३.] "मुखमिदं तत्केन विस्मार्यते" इति शृङ्गारदीपिका. [^४.] "विलम्बितमेखला" इति
शृङ्गारदीपिका.
स्थगयति मुहुः पत्युर्नेत्रे विहस्य समाकुला
सुरतविरतौ र[^१]म्या तन्वी मुहुर्मुहुरीक्षते ॥ ९० ॥
संभोगावसाने क्षामाङ्गी रमणीया पतिं वारंवारमवलोकते । अत एव साकूतं विहस्य
लज्जया संभ्रान्ता भर्तुर्नेत्रे भूयोभूयः समाच्छादयति । रम्यैव कथमित्याह — इतस्ततः
पतिते वाससी पाणिपल्लवं भ्रमयित्वा परिधानार्थं मृगयति । प्रदीपविध्यापनार्थं सुरतसं-
मर्दत्रुटितधम्मिल्लकुसुममालाशेषं क्षिपति । प्रियनयनस्थगनं च घट्टितकचुम्बनेऽप्युक्त-
मस्ति मुग्धायाः — "ईषत्परिगृह्य मीलिताक्षी जिह्वाग्रेण घट्टयन्ती करेण तस्य नयने छा-
दयतीति घट्टितकम्" । "मन्मथाप्यायिता छाया सैव कान्तिरिति स्मृता" इत्यनेन का-
न्तिर्नाट्यालंकारः । यथा भट्टनारायणस्य — "उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनै-
केन कृत्वा धृत्वा चान्येन वासो विगलितकबरीभारमंसे वहन्त्याः । भूयस्तत्कालकान्ति-
द्विगुणितसुरतप्रीतिना शौरिणा वः शय्यामालिङ्ग्य नीतं वपुरलसलसद्बाहु लक्ष्म्याः
पुनातु" ॥
काचित्सखी मानिनीं भीषयित्वा नायकसंप्रतिपत्तौ प्रवेशयति —
सन्त्येवात्र गृहे गृहे युवतयस्ताः पृच्छ गत्वाधुना
प्रेयांसः प्रणमन्ति किं तव पुनर्दासो यथा वर्तते ।
आत्मद्रोहिणि दु[^२]र्जनैः प्रलपितं कर्णेऽनिशं मा कृथा-
श्छिन्नस्नेहरसा भवन्ति पुरुषा दुः[^३]खानुवर्त्याः पुनः ॥ ९१ ॥
सन्त्येवात्र गृहे गृहे यौवनोद्धताः स्त्रियः । ताः पृच्छ गत्वा । कदा । अधुना । वि-
लम्बं मा कृथा इत्यर्थः । किं पृच्छामीत्याह — प्रेयांसः किं तथा प्रणमन्ति यथा तव
प्रेयान्दासवत्प्रणमंश्च वर्तते । प्रेयांसो हि प्रणम्यन्ते । तस्मात् हे आत्मद्रोहिणि, दुर्जनै-
रनर्थमभिहितं कर्णेऽप्यनिशं मा कृथाः का पुनः कथा हृदये । कर्णेजपवचनैर्हि प्रियो-
ऽपमानितः सन्कदाचित्स्नेहमुत्सृजति । निःस्नेहे तस्मिन्सति किं भवतीत्याह — छिन्नस्ने-
हरसाः पुरुषाः पुनर्दुःखानुवर्त्या भवन्ति दुःखेनानुवर्तितुं शक्यन्ते । दुराराध्या इत्यर्थः ॥
काचिन्मानशिक्षणनिर्बन्धदुर्ललिताः सखीरुपालभते —
निःश्वासा वदनं दहन्ति हृदयं निर्मूलमु[^४]न्मथ्यते
निद्रा नैति न दृश्यते प्रियमुखं नक्तंदिवं रुद्यते ।
अङ्गं शोषमुपैति पादपतितः प्रेयांस्त[^५]दोपेक्षितः
सख्यः कं गुणमाकलय्य दयिते मानं वयं कारिताः ॥ ९२ ॥
[^१.] "रम्यं तन्वी पुनः पुनरीक्षते" इति शृङ्गारदीपिका. [^२.] "दुर्जनप्रलपितं कर्णे भृशं"
इति शृङ्गारदीपिका. [^३.] "दुःखानुवृत्त्या यतः" इति शृङ्गारदीपिका. [^४.] "उन्मूल्यते" इति
शृङ्गारदीपिका. [^५.] "तथा" इति शृङ्गारदीपिका.
हे सख्यः, कं स्वार्थमनुसंधाय दयिते वयं मानं कारिताः । वयमिति बहुवचनेन
सखीष्वौदासीन्यम् । अनर्थ एव को जात इत्याह — निःश्वासा इत्यादि । अनन्तदुःखसं-
बाधत्वेन संततमुल्लसन्तो निःश्वासवायवो मुखमुष्णतया तपन्ति । निराधारतया हृदयं
निर्मूलमुन्मथ्यते । कर्मकर्तरि यक् । चिन्ताज्वरेण निद्रा नागच्छति । संतापशमनं
चन्द्ररुचिरं प्रियमुखं न दृश्यते । तद्दर्शनमन्तरेण चक्षुषोः साश्रुत्वादहोरात्रं रुद्यते ।
सरस्त्याजितायाः कमलिन्या इवाङ्गं मे शुष्यति । तदा पादपतितोऽपि युष्मद्भणितेन
प्रेयानवगणितः । विषमालंकारः । यदुक्तम् —"यत्र क्रियाविपत्तेर्न भवेदेव क्रियाफलं
तावत् । कर्तुरनर्थश्च भवेत्तदपरमभिधीयते विषमम्" ॥
काचिन्मानिनी पुण्यसामग्र्या मनोरथशतप्राप्तप्रियतमसंप्रतिपत्तिः पुनर्विप्रतिपत्तिविषये स्वगतेन शपथं करोति —
अद्यारभ्य य[^१]दि प्रिये पुनरहं मानस्य वान्यस्य वा
गृह्णीयां शठदुर्नयेन मनसा नामापि संक्षेपतः ।
त[^२]त्तेनैव विना शशाङ्कध[^३]वलाः स्पष्टाट्टहासा निशा
ए[^४]को वा दिवसः पयोदमलिनो यायान्मम प्रावृषि ॥ ९३ ॥
यद्यहमद्यारभ्य मानस्यान्यस्य वापि परिचरणप्रसादादेर्नामापि गृह्णीयाम् । अस्तु
तावत्करणम् । केन । मनसा । कीदृशेन । शठदुर्नयेन । कोऽर्थः । मिथ्यैवास्य दोषमारोपया-
मीति । तदा किं स्यादित्यत आह — संक्षेपत इत्यादि । संदिग्धमरणानेकप्रतिज्ञानां प-
रिहारेण निःसंदेहमरणाध्यवसायतया संक्षेपतस्तेनैव प्रियेण विना सुधांशुधवला अत एव
स्पष्टाहासा इव यामिन्यो मे यान्तु । दुःखितस्य हि हसन्कोऽपि न प्रतिभासते । अत
एव प्रावृट्काले समन्ततः संनद्धमेघमालामलीमस एकोऽपि दिवसो यायात् । एकसं-
ख्याविशेषेण चन्द्रवत्यनेकरात्रिभ्योऽपि प्रावृड्दिवसस्यातिवाहयितुमशक्यत्वमुक्तम् ॥
काचित्सखी नूतनमानिनीमात्मप्रियदुर्नयावेदनेन बोधयति —
इदं कृष्णं कृष्णं प्रियतम ननु श्वेतमथ किं
गमिष्यामो यामो भवतु गमनेनाथ भवतु ।
पुरा येनैवं मे चिरमनुसृता चित्तपदवी
स एवान्यो जातः सखि परिचिताः कस्य पुरुषाः ॥ ९४ ॥
हे सखि, कस्य परिचिताः पुरुषाः । अपि तु न कस्यापि । आत्मीया न भवन्तीत्यर्थः । अथातिनिर्बन्धमानेनोद्वेजितैस्तैः सह परिचयोऽपि दुर्लभः । यतः स एवान्यो
[^१.] "नहि प्रिये पुनरहं मानस्य वा भाजनं गृह्णीयां विषरूपिणः शठमतेर्नामापि" इति
शृङ्गारदीपिका. [^२.] "किं तेनैव" इति शृङ्गारदीपिका. [^३.] "किरणस्पष्टा-" इति शृङ्गा-
रदीपिका. [^४.] "नैकोऽपि" इति शृङ्गारदीपिका.
जातः । एतेनातः प्राग्यैवाहं स एवासीदित्यर्थः । तस्मात्त्वमपि सागसि प्रिये खेदं मा कृथाः ।
स एव कः येन पुरा मम चित्तपदवी चिरकालमेवमनुसृता । येन येन वर्त्मना मम
चित्तं विलसितं तेन तेन पृष्ठतो लग्नः । सर्ववारानुवृत्तिपर आसीदित्यर्थः । एवं कथ-
मित्याह — हे प्रियतम, इदं कृष्णम् । स आह — कृष्णम् । ननु श्वेतमिदम् । स आह —
अथ किम् । गमिष्यामः । स आह — यामः । नायिकाभविष्यदुक्तौ नायकस्य वर्तमानो-
क्त्यानुवृत्तेरतिशयः । आस्तां गमनेन । स आह — आस्ताम् ॥
काचिदन्तर्विलीनमाना स्वगतेन वितर्कं संधारयति —
चरणपतनं स[^१]ख्यालापा मनोहरचाटवः
कृशतरतनोर्गाढाश्लेषो हठात्परिचुम्बनम् ।
इ[^२]ति हि चपलो मानारम्भस्तथापि हि[^३] नोत्सहे
हृदयदयितः कान्तः कामं किमत्र करोम्यहम् ॥ ९५ ॥
इत्यमुना प्रकारेण नूनं गत्वर एव मानोपक्रमः । तथापि स्फुटमीर्ष्यया न मानं त्यक्तु-
मुत्सहे । इतिशब्दस्यापि शब्दस्याग्रे च हिशब्दो मानारम्भचापल्यस्य मानत्यागानुत्साहस्य
च निश्चयं गमयति । इति किम् । चरणपतनेत्यादि । प्रियस्य मच्चरणे पतनम् । तदनुरुद्ध-
सखीनामालापाः । किंविशिष्टाः । मनोहराणि चाटूनि येषु ते तथोक्ताः । मदीयदुर्बला-
ङ्गस्य प्रियकृतं गाढालिङ्गनम् । बलात्कारेण समन्ताच्चुम्बनम् । कृशतरतनोरित्यस्य पद-
स्यायमभिप्रायः — मया तावन्मानः कृतो यावत्क्षीणेन्दुलेखाशेषं मम शरीरमभूत् । ननु
यदि नोत्सहे तदा प्रियेण विनैव स्थास्यामीत्याह — अतिशयेन हृदयदयितः कान्तश्च
तत्किमत्र प्रस्तावे करोमीति । चिन्ता व्यभिचारिभावः ॥
तन्वङ्ग्या गुरुसंनिधौ नयनयोर्यद्वारि संस्तम्भितं
तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः ।
मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता
श्वासायाससमाकुलालिसरणिव्याजेन धूमावली ॥ ९६ ॥
इयं बाल्य एव प्रियं विना स्थातुं न शक्नोतीति गुरुजनेन ज्ञास्य इति लज्जया तत्सं-
नीधौनिधौ नयनयोर्वारि स्तम्भितम् । तेनाभ्यन्तर एव व्यावृत्त्य गलितेन यो हृदये विरहो-
द्भवः कामानलः सिक्तस्तस्य संस्तभ्यमानज्वालस्य नूनमेषा वदनद्वारेण धूमवर्तिरु-
त्थिता । केन । सुगन्धिश्वासेन य उष्णताजनित आयासस्तेन समाकुलानामलीनां या
पद्धतिस्तद्व्याजेन । जलाभिषेकेण मन्दितार्चिषि वैश्वानरे हि धूमोद्गमः समुल्लसति ॥
[^१.] "सास्रालापाः" इति शृङ्गारदीपिका. [^२.] "इति बहुफलो" इति शृङ्गारदीपिका. [^३.] "च" इति शृङ्गारदीपिका. काचित्सखीभिर्मानं शिक्षितानध्यवसायगर्भं संदेहमाह —
भ्रूभेदो गुणितश्चिरं नयनयोरभ्यस्तमामीलनं
रोद्धुं शिक्षितमादरेण हसितं मौनेऽभियोगः कृतः ।
धैर्यं कर्तुमपि स्थिरीकृतमिदं चेतः कथंचिन्मया
बद्धो मानपरिग्रहे परिकरः सिद्धिस्तु दैवे स्थिता ॥ ९७ ॥
मानस्वीकारे मया सामग्री प्रगुणीकृता सिद्धिः पुनर्दैवाधीना । दैवयोगान्माननि-
र्वाहो भवति न वेत्यर्थः । कथं परिकरो बद्ध इत्याह — भ्रूभेद इत्यापि इत्यादि । सूत्रपाठप्राथमक-
ल्पिकन्यायेन भ्रूभङ्गश्चिरं गुणितः । लोचनयोः संकोचनमभ्यस्तम् । प्रयत्नेन स्मितं
निवारयितुं शिक्षितम् । वाचंयमत्वेऽभियोगः कृतः । अकातरतां विधातुमपि कथंचिदे-
तच्चेतः स्थिरीकृतम् । एते प्रकारास्तस्मिन्दृष्टे निर्वाहं न गमिष्यन्तीत्यर्थः ॥
काचित्स्वैरिणी चिरमनोरथप्राप्तकामुकचौर्यरतं साधितसाध्यतया सख्याः कथयति —
अहं तेनाहूता किमपि कथयामीति विजने
समीपे चासीना सरसहृदयत्वादवहिता ।
ततः कर्णोपान्ते किमपि वदताघ्राय वदनं
गृ[^१]हीता धम्मिल्ले सखि स च मया गाढमधरे ॥ ९८ ॥
हे सखि, किमपि कथयामीति व्यपदेशेन विजने तेनाहमाहूता । अहं च सखि,
साभिलाषहृदया तस्य प्रियतमस्य समीप आसीना । अथ च तेन श्रवणोपान्ते किंचिद्वदता
पर्याकुलतया मन्मुखमाघ्रायापसरणशङ्कयाहं धम्मिल्ले गृहीता । न केवलमेवम्, स च
मया गाढमधरे गृहीतः । किमपि कथयामीति विस्रम्भणम् । यदुक्तम् — "विविक्ते च
किंचिदस्ति कथयितव्यमित्युक्त्वा निर्वचने भावं तत्रोपलक्षयेत्" ॥
देशैरन्तरिता शतैश्च सरितामुर्वीभृतां काननै-
र्यनेनापि न याति लोचनपथं कान्तेति जानन्नपि ।
उद्ग्रीवश्च[^२]रणांर्धरुद्धवसुधः प्रोन्मृज्य सास्रे दृशौ
तामाशां पथिकस्त[^३]थापि किमपि ध्यायन्पु[^४]नर्वीक्षते ॥ ९९ ॥
तथापि किमपि ध्यायन्पथिकस्तां दयितासंबद्धां दिशं वारंवारमवलोकयति । अथ वाशामिवाशाम् । किं कृत्वा । साश्रुणी नेत्रे पदार्थोपलम्भार्थं प्रकर्षात्प्रोञ्छ्य । किंविशिष्टः । दर्शनोत्कलिकयोत्कंधरः । पुनः कीदृशः । उन्नतो भवितुं परार्धेनावष्टब्धभूमिः ।
[^१.] "गृहीत्वा धम्मिल्ले मम सखि निपीतोऽधररसः" इति शृङ्गारदीपिका. [^२.] "चर-
णाग्र" इति शृङ्गारदीपिका. [^३.] "तथैव" इति शृङ्गारदीपिका. [^४.] "मुहुः" इति शृङ्गार-
दीपिका.
तथापि कथमित्याह — इति जानन्नपि । इति किम् । यत्नेनापि कान्ता नयनयोर्गोचरं न
गच्छति । किंविशिष्टा । यतोऽन्तरिता । कैः । देशैः । न परं तैः । नदीनां पर्वतानां च
शतैः । न केवलमेभिः, विपिनैश्च ॥
च[^१]क्षुःप्रीतिप्रसक्ते मनसि परिचये चिन्त्यमानाभ्युपाये
रा[^२]गे यातेऽतिभूमिं विकसति सुतरां गोचरे दूतिकायाः ।
आस्तां दू[^३]रेण तावत्सरभसदयितालिङ्गनानन्दलाभ-
स्तद्गेहोपान्तरथ्याभ्रमणमपि परां निर्वृतिं संतनोति ॥ १०० ॥
साभिलाषप्रियाश्लेषसंगमप्राप्तिस्तावद्दूरत एवास्तु । कस्तादृशः सुकृतराशिर्यस्यैवं संपद्यते । तन्मन्दिरोपान्तरथ्यासंचरणमप्यनिर्वचनीयं (********अस्मिन्नपि निस्तरणोपाये कश्चित्परेङ्गितज्ञः प्रतिबन्धीभवतीत्यभिप्रायः । केन । मनसा । संस्तवे चिन्त्यमानप्रातिवेश्मिकमैत्रीप्रभृत्युपाये । अनुरागे प्रकर्षं गते । दूतिकायाः सुतरां पुष्पवन्मनोज्ञे********विकसति । अनुभवी वक्ता । "यत्रासंभाव्यभावो वा" इति विषमभेदः ॥ )
तव प्रियः कथं रमत इति सखीभिः पृष्टा काचिदाह —
कान्ते तल्पमुपागते विगलिता नीवी स्वयं ब[^४]न्धना-
द्वासो विश्लथमेखलागुणधृतं किंचिन्नितम्बे स्थितम् ।
एतावत्सखि वेद्मि सां[^५]प्रतमहं तस्याङ्गसङ्गे पुनः
कोऽ[^६]यं कास्मि रतं नु[^७] वा कथमिति स्वल्पापि मे न स्मृतिः ॥ १०१ ॥
हे सखि, सांप्रतं तावदेतावदेवाहं जानामि । एतावत्किम् । कान्ते शय्यां प्राप्ते सति
नितम्बसिचयबन्धनसंस्पर्शनिर्वृतिं सम्यग्विस्तारयति । स्पर्शमपि विनैव नीवीविस्रं-
सनं जातमिति सात्त्विकातिशयः । विशृङ्खलमेखला तत्रावलम्बितमम्बरं नितम्बे मना-
क्स्थितम् । तदङ्गस्पर्शे तु क एषः । का वाहम् । रतमाहोस्वित्केन प्रकारेण । कापि
स्मृतिर्नास्तीत्यर्थः । अत एवोक्तम् — "धन्यासि या कथयसि प्रियसंगमेऽपि विश्रब्ध-
चाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहिते तु करे प्रियेण सख्यः शपामि यदि
किंचिदपि स्मरामि ॥" इति ॥
कश्चिद्वियोगी स्वगतं वितर्कयति —
प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य ।
[^१.] "चक्षुःप्रीत्या निषण्णे मनसि परिचयाच्चिन्त्यमाने" इति शृङ्गारदीपिका. [^२.] "या-
ते रागे विवृद्धिं प्रविसरति गिरां विस्तरे" इति शृङ्गारदीपिका. [^३.] "दूरे स" इति शृङ्गा-
रदीपिका. [^४.] "तत्क्षणात्तद्वासः श्लथ—" इति शृङ्गारदीपिका. [^५.] "केवलं" इति शृङ्गा-
रदीपिका. [^६.] "कोऽसौ" इति शृङ्गारदीपिका. [^७.] "तु किं कथमपि" इति शृङ्गारदीपिका.
हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा
सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ १०२ ॥
तद्विरहातुरस्य ममान्या कापि प्रकृतिर्नास्ति । तर्हि किमस्तीयाह — प्रासादादिषु
सैव । तस्मादहो आश्चर्यम् । सा सेति सकले जगति कोऽयमद्वैतवादः । आत्मनोऽप्य-
लेखितत्वेन तस्यां तादात्म्यम् । विशेषोऽलंकारः । यदुक्तम् — "यत्रैकमनेकस्मिन्नाधारे
वस्तु विद्यमानतया । युगपदभिधीयतेऽसावत्रान्यः स्याद्विशेष इति ॥" यथा — "हृदये
चक्षुषि वाचि च तव सैवाभिनवयौवना वसति । वयमत्र निरवकाशा विरम कृतं
पादपतनेन ॥" पूर्वार्धे यावन्त एव साशब्दाः प्रयुक्तास्तावन्त एवोत्तरार्धेऽनूदिताः ॥
समाप्तेयं रसिकसंजीविनी टीका ।
कृतिर्महाराजाधिराजवीरचूडामणिश्रीमदर्जुनवर्मदेवस्य ।
समाप्तमिदं रसिकसंजीविनीटीकासमेतममरुशतकम् ।
——————————
१ परिशिष्टम् ।
वेमभूपालविरचितशृङ्गारदीपिकाख्यटीकायां केचन श्लोका अधिकाः सन्ति, तेऽत्र सटीकास्तत एवोद्ध्रियन्ते । यथा —
नायकोक्तिः —
नभसि जलदलक्ष्मीं सास्रया वीक्ष्य दृष्ट्या
प्रवससि यदि कान्तेत्यर्धमुक्त्वा कथंचित् ।
मम पटमवलम्ब्य प्रोल्लिखन्ती धरित्रीं
यदनु कृतवती सा तत्र वाचो निवृत्ताः ॥ १०३ ॥
नभस्याकाशे जलदलक्ष्मीं मेघसामग्रीं सास्रया सबाष्पया दृष्ट्या दृशा वीक्ष्यावलोक्य "हे कान्त हे प्रिय, प्रवससि यदि प्रवासं करोषि चेत्" इति कथंचित्कृच्छ्रेणार्धं सावशेषम् । वाक्यमिति शेषः । उक्त्वा मम पटमंशुकमवलम्ब्य गृहीत्वा धरित्रीं भुवं प्रोल्लिखन्ती कर्षन्ती अनु पश्चात्सा यत्कर्म कृतवती तत्र तस्मिन्कर्मणि वाच उक्तयो निवृत्ता व्यावृत्ता इति संबन्धः । यत्कृतवतीत्यत्र यच्छब्दवाच्यैश्चिन्तानिःश्वासवैवर्ण्य बाष्पगद्गदिकादिभिरनुभावैस्त्वां विना क्षणमपि जीवितुमहं न शक्नोमीत्ययमर्थः प्रवससि यदीत्यस्य वाक्यस्य शेषत्वेनावगन्तव्यः । तत्र वाचो निवृत्ता इत्यनेन नायिकायाश्चिन्तानिःश्वासादीनामनुभावानां दशाविशेषः पश्यतां मनोगोचर एव न वाग्गोचर इत्ययमर्थोऽवगम्यते । दैन्यं नाम संचारिभावः । अत्र नायिका स्वीया मुग्धा च । नायकोऽनुकूलः । भविष्यत्प्रवासविप्रलम्भशृङ्गारः । तत्र नर्मस्फोटः । जातिरलंकारः । मालिनी वृत्तम् ॥ कवेर्वाक्यम् —
स्मररसनदीपूरेणोढाः पुनर्गुरुसेतुभि-
र्यदपि विधृतास्तिष्ठन्त्यारादपूर्णमनोरथाः ।
तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा •
नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ १०४ ॥
प्रियाः । "पुमान्स्त्रिया" इत्येकशेषः । प्रियश्च प्रियाश्चेत्यर्थः । स्मररसनदीपूरेणोढाः
स्मरेण कामेन कृतो रसो रागः स एव नदीपूरस्तेनोढा उद्धृताः । बलान्नीता इत्यर्थः । पुन-
र्भूयो गुरुसेतुभिर्गुरवो गुरुजनास्त एव सेतवः प्रवाहबन्धास्तैर्यद्यस्मात्कारणाद्विधृता अपि
निवारिताश्च भवन्ति । तस्मादारात्समीपेऽपूर्णमनोरथा अपर्याप्तकामास्तिष्ठन्ति आसते ।
तदापि तथापि लिखितप्रख्यैश्चित्रसदृशैरङ्गैः शरीरैरुपलक्षिताः परस्परमन्योन्यमुन्मुखा
अभिमुखाः सन्तो नयननलिनीनालानीतं नयनानि दर्शनान्येव नलिनीनालानि पद्मका-
ण्डानि तैरानीतमाहृतं रसं पिबन्ति आस्वादयन्तीति संबन्धः । अत्र स्मररसनदीपूरे-
णोढा इत्यनेनात्यन्ताभिलाषपरतन्त्रा इति गम्यते । लिखितप्रख्यैरङ्गैरित्यनेन स्तम्भं
नाम सात्त्विकभावं गता इति गम्यते । अत्रौत्सुक्यं नाम संचारी भावः । संभोगशृङ्गारः ।
यथोक्तं दशरूपके — "अनुकूलौ निषेवेते यत्रान्योन्यं विलासिनौ । दर्शनस्पर्शनादीनि स
संभोग उदाहृतः ॥" इति । अत्र चेष्टाकृतं संभोगेच्छारूपं शृङ्गारिनर्म जातिलंकारः ।जातिरलङ्कारः ।
हरिणीवृत्तम् ॥
नायकमानेतुं गत्वा समागतां लक्ष्यमाणसंभोगचिह्नां दूतीं नायिका प्राह —
निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो
नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ १०५ ॥
स्तनतटं कुचतटं निःशेषच्युतचन्दनं निःशेषं यथा भवति तथा च्युतं गलितं चन्दनं
यस्मात्तथोक्तम् । अधरो दशनच्छदो निर्मृष्टरागोऽपगतालक्तकोऽपगतताम्बूलरागो वा ।
नेत्रे दूरमत्यर्थमञ्जने कज्जलरहिते । तन्वी तवेयं तनुः पुलकिता सरोमाञ्चा मिथ्यावा-
दिन्यसत्यप्रलापिनि बान्धवजनस्य सुहृज्जनस्याज्ञातपीडागमे । अज्ञातोऽनवगतः पीडागमो
दुःखप्राप्तिर्यया सा तथोक्ता तस्याः संबुद्धिः । अज्ञातबान्धवजनपीडागमे इत्यर्थः । हे
दृति संदेशहरे, अतोऽस्मात्प्रदेशाद्वापीं दीर्घिकां स्नातुं जलावगाहनं कर्तुं गतासि
यातासि तस्याधमस्य निकृष्टस्य नायकस्यान्तिकं पुनः समीपं तु न गतासीति संबन्धः ।
अत्र वापीस्नानचिह्नकथनव्याजेन संभोगचिह्नकथनान्नायकस्याधमत्वकथनाच्च तदन्तिक-
मेव रन्तुं गतासीत्ययमर्थो व्यज्यते । अत्र नायिका स्वीया प्रगल्भा च । नायकः शठः ।
ईर्ष्याक्रोधप्रायं नर्म । समाधिरलंकारः । यथोक्तं काव्यादर्शे — "युगपन्नैकधर्माणामभ्या-
सश्च मतो यथा" इति । शार्दूलविक्रीडितं वृत्तम् ॥
नायकोक्तिः —
आयस्ता कलहं पुरेव कुरुते न स्रंसने वाससो
भुग्नभ्रूरतिखण्ड्यमानमधरं धत्ते न केशग्रहे ।
अङ्गान्यर्पयति स्वयं भवति नो वामा हठालिङ्गने
तन्व्या शिक्षित एष संप्रति पुनः कोपप्रकारोऽपरः ॥ १०६ ॥
आयस्ता आयासं प्राप्ता । ईर्ष्याकोपेनेति शेषः । पुरेव पूर्वमिव वाससो वस्त्रस्य स्रंसने
कलहं विवादं न कुरुते न विधत्ते । किं च केशग्रहे कचाकर्षणे पुरेव भुग्नभ्रूर्भ्रूभङ्गवती
सती अतिखण्ड्यमानमत्यन्तं दश्यमानमधरं दन्तच्छदं न धत्ते न वहति । किं च
हठालिङ्गने प्रसभाश्लेषे पुरेव वामा वक्रा न भवति । किं त्वङ्गानि गात्राणि स्वयमात्मना-
र्पयति प्रयच्छति । संप्रति पुनरिदानीं तु तन्व्या कान्तया एषोऽयमपरोऽन्यः कोपप्रकारो
रोषभङ्गिः शिक्षितोऽभ्यस्त इति संबन्धः । अत्रावहित्थं नाम संचारी भावः । नायिका
स्वीया धीरा प्रगल्भा च । नायकः शठः । ईर्ष्यामानकृतो विप्रलम्भशृङ्गारः । अत्र
नर्मगर्भः । युक्तिरलंकारः । शार्दूलविक्रीडितम् ॥
कवेर्वाक्यम् —
क्वचित्ताम्बूलाक्तः क्वचिदगुरुपङ्काङ्कमलिनः
क्वचिच्चूर्णोद्गारी क्वचिदपि च सालक्तकपदः ।
वलीभङ्गाभोगैरलकपतितैः शीर्णकुसुमैः
स्त्रिया नानावस्थं प्रथयति रतं प्रच्छदपटः ॥ १०७ ॥
क्वचिदेकत्र ताम्बूलाक्तस्ताम्बूलरसेन रञ्जितः । क्वचिदेकत्रागुरुपङ्काङ्कमलिनोऽगुरोः
पङ्कस्तस्याङ्को लक्ष्म तेन मलिनो मलीमसः । क्वचिदेकत्र चूर्णोद्गारी चूर्णस्य कर्पूरादि-
क्षोदस्योद्गारो गलनं सोऽस्मिन्नस्तीति चूर्णोद्गारी । "अत इनिठनौ" इति मत्वर्थ इनि-
प्रत्ययः । क्वचिदपि च कुत्रापि सालक्तकपदोऽलक्तकेन लाक्षया सहितं सालक्तकं पदं
पादमुद्रा यस्मिन्स तथोक्तः । वलीभङ्गाभोगैर्वल्य एव भङ्गास्तरङ्गास्तेषामाभोगो विस्ता-
रस्तैश्च । अलकपतितैरलकेभ्यः पतितान्यलकपतितानि तैः शीर्णकुसुमैः शीर्णानि
विकीर्णानि च तानि कुसुमानि च शीर्णकुसुमानि तैश्चोपलक्षितः प्रच्छदपट आस्तरण-
वस्त्रं स्त्रियाः कान्ताया नानावस्थं बहुप्रकारावस्थानं रतं रमणं प्रथयति ख्यापयतीति
संबन्धः । अत्र क्वचित्ताम्बूलाक्त इत्यनेन मार्जारकरणं सूचितम् । यथोक्तं रतिरहस्ये —
"प्रसारिते पाणिपादे शय्यास्पृशि मुखोरसि । उन्नतायां स्त्रियः कट्यां मार्जारकरणं
मतम् ॥" इति । क्वचिदगुरुपङ्काङ्कमलिन इत्यनेन करिपदं नाम बन्धविशेषः सूच्यते ।
यथोक्तम् — "भूगतस्तनभुजास्यमस्तकामुन्नतस्फिजमधोमुखीं स्त्रियम् । कामति स्वकर-
कृष्टमेहने वल्लभे करिपदं तदुच्यते ॥" इति । क्वचिच्चूर्णोद्गारीत्यनेन धेनुकं नाम करणं
सूच्यते । यथोक्तम् — "न्यस्तहस्तयुगला भुवस्तले योषिदेति कटिरूढवल्लभा । अग्रतो
यदि शनैरधोमुखी धेनुकं वृषवदुन्नते प्रिये ॥" इति । क्वचिदपि च सालक्तकपद इत्यनेन
पुरुषायितं सूच्यते । तत्स्पष्टमेव । वलीभङ्गाभोगैरित्यनेनालकपतितैः शीर्णकुसुमैरित्यनेन
च रत्युपमर्दातिशयः सूच्यते । जातिरलंकारः । शिखरिणीवृत्तम् ॥
कवेर्वाक्यम् —
पुष्पोद्भेदमवाप्य केलिशयनाद्दूरस्थया चुम्बने
कान्तेन स्फुरिताधरेण निभृतं भ्रूसंज्ञया याचिते ।
आच्छाद्य स्मितपूर्णगण्डफलकं चेलाञ्चलेनाननं
मन्दान्दोलितकुण्डलस्तबकया तन्व्यावधूतं शिरः ॥ १०८ ॥
पुष्पोद्भेदं रजःप्रादुर्भावमवाप्य प्राप्य केलिशयनाद्दूरस्थया क्रीडातल्पं विहाय विप्र-
कृष्टया । ल्यब्लोपे पञ्चमी । स्फुरिताधरेण स्पन्दिताधरेण कान्तेन प्रियेण भ्रूसंज्ञया
साधनेन निभृतं निगूढं चुम्बने याचिते प्रार्थिते सति स्मितपूर्णगण्डफलकं मन्दहासभ-
रितकपोलतलमाननं चेलाञ्चलेनांशुकपल्लवेनाच्छाद्य पिधाय मन्दान्दोलितकुण्डलस्त-
बकया मन्दं शनैरान्दोलिते आलोलिते कुण्डले कर्णवेष्टने एव स्तबकौ गुच्छौ यस्याः सा
तथोक्ता तया तन्व्या कान्तया शिरोऽवधूतं तिर्यग्वक्रितमिति संबन्धः । शिरोऽवधूत-
मित्यनेन प्रतिषेधः सूचितः । औत्सुक्यं नाम संचारी भावः । नायिका स्वीया
मध्याप्रगल्भयोरन्यतरा स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः ।
अत्र चेष्टाकृतं संभोगेच्छारूपं शृङ्गारिनर्म। सूक्ष्मोऽलंकारः । यथोक्तं काव्यादर्शे —
"इङ्गिताकारलक्ष्यार्थसौक्ष्म्यात्सूक्ष्म इति स्मृतः" इति । शार्दूलविक्रीडितम् ॥
नायिका नायकमुपालभते —
शठान्यस्याः काञ्चीमणिरणितमाकर्ण्य सहसा
यदाश्लिष्यन्नेव प्रशिथिलभुजग्रन्थिरभवः ।
तदेतत्क्वाचक्षे घृतमधुमयत्वद्बहुवचो-
विषेणाघूर्णन्ती किमपि न सखी मे गणयति ॥ १०९ ॥
हे शठ धूर्त, अन्यस्या इतरनायिकायाः काञ्चीमणिरणितं मेखलारत्नशिक्षितमाकर्ण्या-
श्लिष्यन्नेवालिङ्गन्नेव सहसा शीघ्रं प्रशिथिलभुजग्रन्थिर्विश्लथबाहुबन्धनोऽभव आसीरिति
यत्तदेतच्छाठ्यं क्वाचक्षे कुत्र ब्रवीमि । यतो घृतमधुमयत्वद्हुवचोविषेण घृतमधुमयं
सर्पिःक्षौद्ररूपं त्वद्बहुवचस्तव भूरिवचनं घृतमधुमयं च तत्त्वद्बहुवचश्च तदेव विषं तेना-
घूर्णन्ती भ्राम्यन्ती मे सखी किमपि न गणयति न विचारयति । न विश्वसितीत्यर्थः ।
वचनमिति शेषः । इति संबन्धः । अत्र नायकवचसां घृतमधुमयत्वकथनेन तदानीं हि-
तत्वं पश्चादहितत्वं च गम्यते । यतो घृतं मधुमिश्रितं विषाके विषत्वमापद्यते । यथोक्तं
वाग्भटे — "मधुसर्पिर्वसातैलपानीयानि द्विशस्त्रिशः । एकत्र वा समांशानि विरुध्यन्ते
परस्परम् ॥" इति । तदेतत्काचक्षे इत्यनेन सखी त्वया वञ्चिता कस्याग्रतो मम दुःखं
कथयामीति स्वनिर्वेदः सूचितः । अत्र नायिका स्वीया प्रगल्भा च । नायकः शठः ।
विप्रलम्भशृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपालंकारः । शिखरिणीवृत्तम् ॥
दूती नायकमुपालभते —
अच्छिन्नं नयनाम्बु बन्धुषु कृतं चिन्ता गुरुष्वर्पिता
दत्तं दैन्यमशेषतः परिजने तापः सखीष्वाहितः ।
अद्य श्वः परनिर्वृतिं भजति सा श्वासैः परं खिद्यते
विस्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥ ११० ॥
अच्छिन्नं संततं नयनाम्बु अश्रु बन्धुषु कृतमर्पितम् । चिन्ता विचारो गुरुषु जनन्या-
दिष्वर्पिता न्यस्ता । दैन्यं दीनत्वं परिजनेऽशेषतः सर्वस्मिन्परिचारकवर्गे । सप्तम्यर्थे
तसिल् । दत्तं निहितम् । तापः संज्वरः सखीषु वयस्यास्वाहितो निक्षिप्तः । एवमनेन
प्रकारेण तया विप्रयोगजनितं विरहोत्पादितं दुःखं विभक्तं विभागं प्रापितम् । सा
यतः श्वासैः श्वसितैः परमत्यर्थं खिद्यते खिन्ना भवति । तस्मादद्यास्मिन्दिवसे श्वः
परस्मिन्दिवसे वा परनिर्वृतिमत्यन्तसौख्यं भजति प्राप्नोति । अतो विस्रब्धो निश्चिन्तो
भवेति संबन्धः । परनिर्वृतिं भजतीत्यनेन मरणं सूच्यते । विस्रब्धो भवेत्यनेनोपालम्भो
गम्यते । अत्र मूर्च्छा नाम दशाविशेषः । नायिका परकीया कन्या च । अयोगविप्र-
लम्भशृङ्गारः । अत्र सोपालम्भवचनं नर्म । आक्षेपालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥
पूर्वं कृतपरिचयेन नायकेन पश्चात्परित्यक्ता नायिका स्ववाटिकायां यदृच्छागतं प्रियं दृष्ट्वा तमुपालभते —
रोहन्तौ प्रथमं ममोरसि तव प्राप्तौ विवृद्धिं स्तनौ
संल्लापास्तव वाक्यभङ्गिमिलनान्मौग्ध्यं परं त्याजिताः ।
धात्रीकण्ठमपास्य बाहुलतिके कण्ठे तवासञ्जिते
निर्दाक्षिण्य करोमि किं नु विशिखाप्येषा न पन्थास्तव ॥ १११ ॥
प्रथमं ममोरसि रोहन्तावुद्भवन्तौ स्तनौ तवोरसि विवृद्धिं प्राप्तौ गतौ । मम संल्लापाः
संभाषणानि तव वाक्यभङ्गिमिलनाद्वचनरीतिमिश्रणात्परमत्यर्थे मौग्ध्यं मूढतां त्याजिताः ।
मम बाहुलतिके धात्रीकण्ठमुपमातृकण्ठमपास्य विहाय तव कण्ठे आसञ्जिते आसङ्गं
प्रापिते । हे निर्दाक्षिण्य अज्ञातपरचेतोनुवर्तन, एषा विशिखापि इयं रथ्यापि तव पन्था
मार्गो न भवति । एवं सति किं नु करोमि किं कर्तव्यम् । नु पृच्छायाम् । भवन्तं
किमुपालभे इत्यर्थः । इति संबन्धः । अत्र नायिका साधारणा । सोपालम्भवचनं नर्म ।
आक्षेपालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥
कवेर्वाक्यम् —
पराची कोपेन स्फुटकपटमुद्रामुकुलिता
प्रविश्याङ्गेनाङ्गं प्रणयिनि परीरम्भचतुरे ।
शनैर्नीवीबन्धं स्पृशति सभयव्याकुलकरं
विधत्ते संकोचग्लपितमवलग्नं वरतनुः ॥ ११२ ॥
कोपेन प्रणयकोपेन पराची पराङ्मुखी । स्फुटकपटनिद्रामुकुलिता । स्फुटं प्रव्यक्ता ।
तथैव भासमानेत्यर्थः । कपटेन कृता निद्रा तया मुकुलिता निमीलिताक्षी सती वरतनु-
स्तन्वी अङ्गेन गात्रेणाङ्गं स्वस्य गात्रं प्रविश्यासाद्य परीरम्भचतुरे आलिङ्गनदक्षे प्रण-
यिनि प्रिये नीवीबन्धं वस्त्रग्रन्थि सभयव्याकुलकरं सभयो भयसहितो व्याकुलस्तरलः
करो यस्मिन्कर्मणि तत्तथोक्तं शनैर्मन्दं स्पृशति सत्यवलग्नं मध्यं संकोचग्लपितमम्बरा-
कर्षणकर्शितं विधत्ते करोतीति संबन्धः । अत्र कपटनिद्रयावलग्नसंकोचेन च नायिकाया
विरहासहिष्णुत्वं व्यज्यते । औत्सुक्यं नाम संचारी भावः । नायिका स्वीया मध्या
स्वाधीनपतिका च । नायकोऽनुकूलः संभोगशृङ्गारः । कैशिकीवृत्तेरङ्गं नर्म । युक्तिरलं-
कारः । शिखरिणी वृत्तम् ॥
नायकमानेतुं प्रेषिताया लक्ष्यमाणसंभोगचिह्नाया दूत्या नायिकायाश्च प्रश्नोत्तररूपा वाक्यमाला —
स्विन्नं केन मुखं दिवाकरकरैस्ते रागिणी लोचने
रोषात्तद्वचनोदिताद्विलुलिता नीलालका वायुना ।
भ्रष्टं कुङ्कुममुत्तरीयकषणात्कान्तासि गत्यागतै-
रुक्तं तत्सकलं किमत्र वद हे दूति क्षतस्याधरे ॥ ११३ ॥
हे दूति, तव मुखं केन कारणेन स्विन्नं सस्वेदं जातम् । अयं नायिकायाः प्रश्नः ।
दिवाकरकरैः स्विन्नमिति दूत्या उत्तरमुक्तम् । ते तव लोचने दृशौ केन कारणेन
रागिणी रक्ते । अयं नायिकायाः प्रश्नः । तद्वचनोदितात्तस्य धूर्तस्य वचनं वाक्यं तस्मा-
दुदितादुद्गताद्रोषाद्रक्ते इत्युत्तरम् । नीलालकाः कृष्णकुन्तलाः केन विलुलिता व्याकु-
लिताः । अयं प्रश्नः । वायुना विलुलिता इत्युत्तरम् । कुङ्कुमं काश्मीरं केन भ्रष्टं विग-
लितम् । अयं प्रश्नः । उत्तरीयकषणात्संव्यानघर्षणाद्भ्रष्टम् । इत्युत्तरम् । केन क्लान्तासि
क्लान्ता भवसि । अयं प्रश्नः । गत्यागतैर्गमनागमनैः क्लान्तास्मि । इत्युत्तरम् । हे दूति,
सकलं त्वया यदुक्तं तत्सर्वं युक्तमुपपन्नम् । अधरे क्षतस्य व्रणस्य किं कारणमत्रास्मि-
न्प्रश्ने वद ब्रूहि । उत्तरमिति शेषः । इति संबन्धः । अत्र वदेत्यनेन त्वया वैदग्ध्यात्त-
त्सर्वं संभोगचिह्नमपह्नुतमधरक्षतं कथमपह्नूयेतेत्यमर्थो गम्यते । नायिका स्वीया प्रग-
ल्भा च । नायकः शठः । विप्रलम्भशृङ्गारः । वाक्योत्तरमलंकारः । शार्दूलविक्रीडितं
वृत्तम् ॥
अत्यन्तापराधिनि प्रिये समागते सति कुपिताया नायिकाया आकारगोपनप्रकारं कविराह —
नान्तः प्रवेशमरुणद्विमुखी न चासी-
दाचष्ट रोषपरुषाणि न चाक्षराणि ।
सा केवलं सरलपक्ष्मभिरक्षिपातैः
कान्तं विलोकितवती जननिर्विशेषम् ॥ ११४ ॥
सा नायिका नायकस्यान्तः प्रवेशं स्वगृहान्तः प्रवेशं नारुणन्न निवारयति स्म । किं
च विमुखी पराङ्मुखी नासीत् । किं च रोषपरुषाणि कोपकर्कशान्यक्षराणि वचनानि
नाचष्ट नाभाषत । किं तु सरलपक्ष्मभिः सरलानि ऋजूनि पक्ष्माण्यक्षिरोमाणि येषु ते
तथोक्तास्तैरक्षिपातैः संदर्शनैः कान्तं प्रियं जननिर्विशेषं सर्वजनसामान्यं यथा भवति
तथा केवलं विलोकितवती दृष्टवती । एवेति शेषः । इति संबन्धः । जननिर्विशेषं विलो-
कितवतीत्यनेनापराधिनः प्रियस्यासाधारणं दण्डनं कृतमित्यवगम्यते । अवहित्थं नाम
संचारी भावः । अत्र नायिका स्वीया धीरा प्रगल्भा च । नायकः शठः । ईर्ष्यामान-
कृतो विप्रलम्भशृङ्गारः । ईर्ष्याक्रोधप्रायं नर्म । आक्षेपालंकारः । वसन्ततिलकावृत्तम् ॥
कवेर्वाक्यम् —
प्रियकृतपटस्तेयक्रीडाविडम्बनविह्वलां
किमपि करुणालापां तन्वीमुदीक्ष्य ससंभ्रमम् ।
अपि विगलिते स्कन्धावारे गते सुरताहवे
त्रिभुवनमहाधन्वी स्थाने न्यवर्तत मन्मथः ॥ ११५ ॥
प्रियकृतपटस्तेयक्रीडाविलम्बनविह्वलां प्रियेण कृता प्रियकृता पटस्तेयक्रीडा पटस्य
वस्त्रस्य स्तेयं चौर्यं तदेव क्रीडा विनोदस्तया विलम्बनं कालक्षेपस्तेन विह्वला व्याकुला
ताम् । किमपि करुणालापामनिर्वाच्यादीनभाषितां तन्वीं कान्तामुदीक्ष्यावलोक्य त्रिभुव-
नमहाधन्वी त्रैलोक्यैकवीरो मन्मथः कामः सुरताहवे संभोगसंगरे गते निवृत्ते सति स्क-
न्धावारे शिबिरे विगलिते च्युते सत्यपि ससंभ्रमं सत्वरं यथा भवति तथा न्यवर्तत नि-
वृत्तोऽभूत्स्थाने युक्तमिति संबन्धः । अत्र पटस्तेयक्रीडासंभोगावसाने कृतेति वेदितव्यम् ।
गते सुरताहवे इत्युक्तत्वात् । सुरतस्याहवत्वरूपणं परस्परोपमर्दस्य विद्यमानत्वात् । अत्र
स्कन्धावारशब्देन स्रक्चन्दनादिप्रसाधनहारमेखलाद्याभरणलीलाविलासविभ्रमादिचेष्टा-
स्वरूपोद्दीपनसामग्री कथ्यते । विगलिते इत्यनेन सुरतान्ते लक्ष्यमाणं सामग्रीशैथिल्यं क-
थ्यते । न्यवर्तत मन्मथ इत्यनेन पुनः सुरतारम्भो गम्यते । यथा लोके शूरः पुरुषः परा-
न्निर्जित्य गलितसंनाहः प्रयातः सन्पश्चात्परैरभिभूतानां स्वकीयानामार्तनादं श्रुत्वा तत्प्र-
शमनाय पुनर्निवर्तते तद्वदयमपीत्यभिप्रायः । अत्र व्रीडा नाम संचारी भावः । नायिका
स्वीया मध्या स्वाधीनपतिका च । नायकोऽनुकूलः । संभोगशृङ्गारः । चेष्टाकृतं सहासं
शृङ्गारिनर्म। हेतुरलंकारः । हरिणी वृत्तम् ॥
कवेर्वाक्यम् —
सालक्तकेन नवपल्लवकोमलेन
पादेन नूपुरवता मदनालसेन ।
यस्ताड्यते दयितया प्रणयापराधा-
त्सोऽङ्गीकृतो भगवता मकरध्वजेन ॥ ११६ ॥
स्पष्टोऽर्थः । अत्र दयितया पादेन ताडितोऽपि भगवता मकरध्वजेन सोऽङ्गीकृत
इत्यनेन नानाविधैरुपचारैरुपलालितः किमुतेत्ययमर्थः सूचितः । एतावता कामपुरुषार्थ-
स्योपादेयत्वमुक्तं भवति ॥
२ परिशिष्टम् ।
रुद्रमदेवकुमारप्रणीतटीकायां केचनाधिकाः श्लोकाः । यथा —
प्रयच्छाहारं मे यदि तब रहोवृत्तमखिलं
मया वाच्यं वोच्चैरिति गृहशुके जल्पति शनैः ।
वधूर्वक्त्रं व्रीडाभरनमितमन्तर्विहसितं
हरत्यर्धोन्मीलन्नलिनमनिलावर्जितमिव ॥ ११७ ॥
काचन नायिका गृहशुके शनैर्मन्दमिति वदति सति मुखं वक्रं करोति । कथं
जल्पति । हे नायिके, मह्यमाहारं देहि यदि न दास्यसि तदा तवैकान्तवृत्तान्तं समस्तं
मयोच्चैः कथनीयम् । कीदृशं मुखम् । लज्जातिशयनम्रम् । गुप्तहसितम् । इदानीमुत्प्रे-
क्षते — अर्धविकसत्पद्मं वायुवक्रीकृतमिव ॥
किंचिन्मुद्रितपांसवः शिखिगणैरुत्पक्ष(रूर्ध्वाक्ष)मालोकिता
जीर्णावासरुदद्दरिद्रगृहिणीश्वासानिलैर्जर्जराः ।
एते ते निपतन्ति नूतनघनात्प्रावृड्भरानन्दिनो
विच्छायीकृतविप्रयुक्तवनिता वक्त्रेन्दवो बिन्दवः ॥ ११८ ॥
त एते नूतनघनाज्जलबिन्दवः पतन्ति । कथंभूताः । किंचिन्निषिद्धरेणवः । मयूरवृन्दै-
रूर्ध्वनयनं यथा स्यादेवं दृष्टाः । पुराणभवनदरिद्रकान्तानिःश्वासमारुतैरनेकधा कृताः ।
वर्षागमहर्षिणः । मलिनीकृतवियोगिवनिता वक्त्रचन्द्राः ॥
[^१]नीत्वोच्चैर्विक्षिपन्तः कृततुहिनकणासारसङ्गान्परागा-
ना[^२]मोदानन्दितालीनतितरसुरभीन्भूरिशो दिङ्मुखेषु ।
एते ते कुङ्कुमाङ्कस्तनकलशभरास्फालनादुच्छलन्तः
पीत्वा सीत्कारिवक्त्रं हरिणशिशुदृशां हैमना वान्ति वाताः ॥ ११९ ॥
एते ते प्रसिद्धा हेमन्तसंबन्धिनो वाता वहन्ति । मृगाक्षीणां सीत्कारयुक्तं मुखं
स्पृष्ट्वा । किं कुर्वन्तः । कुङ्कुमलेपयुक्तस्तनकलशताडनादूर्ध्वं गच्छन्तः । पुनः किं कु-
र्वन्तः । अनेकान्परागानुच्चैर्नीत्वा दिशामुखेषु निक्षिपन्तः । जनिततुषारकणवृष्टिभ्रमान् ।
पुनः कथंभूतान् । परिमलतोषितभ्रमरान् अतिशयसुगन्धान् ॥
पीतस्तुषारकिरणो मधुनैव सार्ध-
मन्तः प्रविश्य चषकप्रतिबिम्बवर्ती ।
ना[^३]नाकरं मनसि मानवतीजनस्य
नूनं बिभेद यदसौ प्रससाद सद्यः ॥ १२० ॥
कविरुत्प्रेक्षते — निश्चयेनायं चन्द्रो मधुपात्रे प्रतिबिम्बितः सन्मद्येनैव सह पीतः
सन्मानिनीसमूहस्य चित्तेऽन्तः प्रविश्य मानोत्पत्तिस्थानं चूर्णयामास । कथमेतज्ज्ञा-
यते — यदसौ मानिनीलोकस्तत्क्षणान्मानरहितो बभूव ॥
ललनालोलधम्मिल्लमल्लिकामोदवासिताः ।
वान्ति रात्रौ रतक्लान्तकामिनीसुहृदोऽनिलाः ॥ १२१ ॥
एवंविधा वायवो रात्रौ ग्रीष्मे वहन्ति । कथंभूताः । अङ्गनाचपलकेशपाशमल्लिकाप-
रिमलसुगन्धयः संभोगखिन्नकामिनीप्रियाः ॥
वान्ति कह्लारसुभगाः सप्तच्छदसुगन्धयः ।
वाता नवर[^४]तिम्लानवधूसंगममन्थराः ॥ १२२ ॥
शरत्काले एवंविधा वाता वहन्ति । कीदृशः । सौगन्धिकमनोज्ञाः विषमच्छदसुर-
भयः । नवसंभोगखिन्नकामिनीसुखोत्पादनमन्मदाः ॥
रामाणां रमणीयवक्त्रशशिनः स्वेदोदबिन्दुप्लुतो व्यालोलामलकावलीं प्रचलयंश्चुम्बन्नित[^५]म्बांशुकम् ।
[^१.] "क्षिप्त्वोच्चैः" इति पाठः. [^२.] "कौन्दानानन्दितालीनतिशय" इति पाठः. [^३.] "मा-
नान्धकारमपि" इति पाठः. [^४.] "रतग्लानवधूगमन" इति पाठः [^५.] "नितम्बाम्बरम्"
इति पाठः.
प्रातर्वाति मधौ विकृ[^१]ष्टविकसद्राजीवराजीरजो-
जालामोदमनोहरो रतिरसग्लानिं हरन्मारुतः ॥ १२३ ॥
मधौ वसन्ते प्रभात एवंविधो वातो वहति । कीदृशः । रमणीनां मनोहरमुखचन्द्रस्य
स्वेदजलबिन्दुयुक्तः । तथा तासां चञ्चलां कुटिलकेशपङ्किं कम्पयन् । तथा तासां कटी-
वस्त्रं स्पृशन् । तथा तासां संभोगसक्तिश्रमं स्फेटयन् । कीदृशः । अपहृतकमलपङ्क्तिप-
रागसमूहसौगन्ध्यहृद्यः ॥
अङ्गं चन्दनपाण्डु पल्लवमृदुस्ताम्बूलताम्रोऽधरो
धारायन्त्रजलाभिषेककलुषे धौताञ्जने लोचने ।
अन्तःपुष्पसुगन्धिराजिकबरी सर्वाङ्गलग्नाम्बरं
कान्तानां कमनीयतां विद[^२]धते ग्रीष्मेऽपराह्णागमे ॥ १२४ ॥
ग्रीष्मस्य संध्यासमये नारीणामेतानि वस्तूनि रमणीयतां कुर्वन्ति । एतानि कानि ।
चन्दनशुभ्रमङ्गम् । न केवलमङ्गम् । किसलयकोमलस्ताम्बूलरक्तोऽधरश्च । तथा प्रक्षा-
लितकज्जले नयने च । कथंभूते । धारागृहजलस्नानारुणिते । तथा अशुष्कः केशपा-
शश्च । कीदृशः । मध्यस्थितकुसुमसुरभिः । तथा निर्मलसूक्ष्मवस्त्रं च ॥
वरमसौ दिवसो न पुनर्निशा ननु निशैव वरं न पुनर्दिनम् ।
उभयमेतदपि व्रजतु क्षयं प्रियतमेन न यत्र समागमः ॥ १२५ ॥
एका सखी एवं ब्रूते — हे सखि, असौ दिवसो वरं न पुना रात्रिः । ततो द्वितीया
ब्रवीति — हे सखि, रात्रिरेव श्रेष्ठा न पुनर्दिनं वरम् । ततस्तृतीया वदति — यत्र दिने
यस्यां रात्रौ च प्रियतमेन सह मेलापको नास्ति तद्द्वितयमपि नाशं यातु ॥
म[^३]न्दं मुद्रितपांसवः परिपतञ्ज्ञा[^४]तान्धकारा मरु-
द्वेगध्वस्तकुटीरकाग्रनिपतच्छिद्रेषु लब्धान्तराः ।
कर्मव्यग्रकुटुम्बिनीकुचभरस्वेदच्छिदः प्रावृषः
प्रारम्भे म[^५]दयन्ति कन्दलदलोल्लासाः पयोबिन्दवः ॥ १२६ ॥
वर्षायाः प्रारम्भे एवंविधा जलबिन्दवो हर्षयन्ति । कथंभूताः । मन्दं यथा स्यादेवं
निवारितधूलयः । सर्वदागच्छज्ज्ञाततमसः । वायुवेगापसारिततृणकुटीरकजातच्छिद्रेषु
प्राप्तप्रवेशाः । तथा गृहकर्माकुलगृहस्थकामिनीकुचयुगस्वेदापहारिणः कन्दलपत्त्रो-
ल्लासिनः ॥
[^१.] "प्रकाम" इति पाठः. [^२.] "प्रकुरुते ग्रीष्मापराह्णागमः" इति पाठः. [^३.] इतः प्रभृतिश्लोकपञ्चकमर्जुनवर्मदेवेन प्रक्षिप्तमित्युक्त्वा षट्पञ्चाशश्लोकानन्तरमुद्धृत (४६ पृष्ठे )मस्ति. [^४.] "झांकारिझञ्झामरुत्" इति पाठः. [^५.] "निपतन्ति" इति पाठः. कोऽपि नायकः कामपि नायिकां दृष्ट्वानुरागातिशयात्पुनरुक्तं दोषमगणयित्वा इदमाह —
इयमसौ तरलायतलोचना गुरुसमुन्नतपीनपयोधरा ।
पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवितहारिणी ॥ १२७ ॥
इयमसौ प्रियतमा मम जीवितमानन्दयति । चञ्चलदीर्घनयना । पृथुलोन्नतमांसल-
स्तनी । विस्तीर्णकटिप्रदेशभारमन्थरगामिनी ॥
सालक्तकं शतदलाधिककान्तिरम्यं
रात्रौ स्वधामनिकरारुणनूपुराङ्कम् ।
क्षिप्तं भृशं कुपितया तरलायताक्ष्या
सौभाग्यचिह्नमिव मूर्ध्नि पदं विरेजे ॥ १२८ ॥
कस्यचिन्नायकस्य मस्तके चञ्चलदीर्घलोचनया प्रियया कुपितया रात्रौ पदं दत्तं
विरेजे शुशुभे । किमिव । सौभाग्यचिह्नमिव । कीदृशम् । सयावकम् । कमलाधिकदी-
प्तिमनोज्ञम् । निजायतनसमूहरक्तीकृतपादकटकचिह्नम् ॥
श्रुत्वाकस्मान्निशीथे नवघनरसितं विश्लथाङ्गं पतन्त्या
शय्याया भूमिपृष्ठे करतलधृतया दुःखितालीजनेन ।
सोत्कण्ठं मुक्तकण्ठं कठिनकुचतटोपान्तदीर्णा[^१]श्रुबिन्दु
स्मृत्वा स्मृत्वा प्रियस्य स्खलितमृदुवचो रुद्यते पान्थवध्वा ॥ १२९ ॥
कयाचन पथिकस्त्रियार्धरात्रे नवमेघगर्जितमचिन्तितमेव श्रुत्वा रुद्यते । शयनान्मद-
शरीरं यथाभवत्येवं भूमौ पतन्त्या । दुःखितसखीजनेन प्रसारितहस्तं धृतया । कथं
रुद्यते । उत्कण्ठायुक्तम् । तथा मुक्तकण्ठम् । किं कृत्वा । वल्लभं स्मृत्वा स्मृत्वा । क-
ठिनस्तनोपरिपतितविदीर्णाश्रुबिन्दु अव्यक्तमृदुवचनं च यथा भवत्येवमनुरुद्यते ॥
कोऽपि नायको दूतीं प्रति ब्रूते —
पीतो यतः प्रभृति कामपिपासितेन
तस्या मयाधररसः प्रचुरः प्रियायाः ।
तृष्णा ततः प्रभृति मे द्विगुणत्वमेति
लावण्यमस्ति बहु तत्र किमत्र चित्रम् ॥ १३० ॥
यतः प्रभृति कंदर्पव्यथितेन मया तस्या अधररसः प्रचुरः पीतस्तदादि मम तृष्णा-
भिलाषो द्विगुणतामेति । अत्र किमाश्चर्यम् । यतस्तत्र लावण्यं सौन्दर्यमस्ति ॥
[^१.] "शीर्णाश्रु" इति पाठः. ३ परिशिष्टम् ।
मूलपुस्तकेष्वधिकाः श्लोकाः —
ग्रामेऽस्मिन्पथिकाय पान्थ वसतिर्नैवाधुना दीयते
रात्रावत्र विवाहमण्डपतले पान्थः प्रसुप्तो युवा ।
तेनोत्थाय खलेन गर्जति घने स्मृत्वा प्रियां तत्कृतं
येनाद्यापि करङ्कदण्डपतनाशङ्की जनस्तिष्ठति ॥ १३१ ॥
कान्ते कत्यपि वासराणि गमय त्वं मीलयित्वा दृशौ
स्वस्ति स्वस्ति निमीलयामि नयने यावन्न शून्या दिशः ।
आयाता वयमागमिष्यसि सुहृद्वर्गस्य भाग्योदयैः
संदेशो वद कस्तवाभिलषितस्तीर्थेषु तोयाञ्जलिः ॥ १३२ ॥
कोपस्तया हृदि कृतो यदि पङ्कजाक्षि
सोऽस्तु प्रियस्तव किमत्र विधेयमन्यत् ।
आश्लेषमर्पय मदर्पितपूर्वमुच्चै-
र्मह्यं समर्पय मदर्पितचुम्बनं च ॥ १३३ ॥
हारो जलार्द्रवसनं नलिनीदलानि
प्रालेयशीकरमुचस्तुहिनांशुभासः ।
यस्येन्धनानि सरसानि च चन्दनानि
निर्वाणमेष्यति कथं स मनोभवाग्निः ॥ १३४ ॥
तन्वी शरत्त्रिपथगा पुलिने कपोले
लोले दृशौ रुचिरचञ्चलखञ्जरीटौ ।
तद्बन्धनाय सुचिरार्पितसुश्रुचाप-
चाण्डालपाशयुगलाविव शून्यकर्णौ ॥ १३५ ॥
पादाङ्गुष्ठेन भूमिं किसलयरुचिना सापदेशं लिखन्ती
भूयो भूयः क्षिपन्ती मयि शितशबले लोचने लोलतारे ।
वक्त्रं ह्रीनम्रमीषत्स्फुरदधरपुटं वाक्यगर्भं दधाना
यन्मां नोवाच किंचित्स्थितमपि हृदये मानसं तद्दुनोति ॥ १३६ ॥
ऊरुद्वयं मृगदृशः कदलस्य काण्डौ
मध्यं च वेदिरतुलं स्तनयुग्ममस्याः ।
लावण्यवारिपरिपूरितशातकुम्भ-
कुम्भौ मनोजनृपतेरभिषेचनाय ॥ १३७ ॥
हारोऽयं हरिणाक्षीणां लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिंकराः ॥ १३८ ॥ ,
४ परिशिष्टम् ।
सुभाषितावलावमरुकनाम्ना समुद्धृताः पूर्वागतश्लोकाधिकाः श्लोकाः । यथा —
अन्योन्यग्रथितारुणाङ्गुलि नमत्पाणिद्वयस्योपरि
न्यस्योच्छ्वासविकम्पिताधरदलं निर्वेदशून्यं मुखम् ।
आमीलन्नयनान्तवान्तसलिलं श्लाघ्यस्य निन्द्यस्य वा
कस्येदं दृढसौहृदं प्रतिदिनं दीनं त्वया स्मर्यते ॥ १३९ ॥
असद्वृत्तो नायं न च खलु गुणैरेष रहितः
प्रियो मुक्ताहारस्तव चरणमूले निपतितः ।
गृहाणेमं मुग्धे व्रजतु निजकण्ठप्रणयिता-
मुपायो नास्त्यन्यस्तव हृदयसंतापशमने ॥ १४० ॥
आलोकयति पयोधरमुपमन्दिरमभिनवाम्बुभरनीलम् ।
दयितारचितचितानलधूमोद्गमशङ्कया पथिकः ॥ १४१ ॥
आश्लिष्टा रभसाद्विलीयत इवाक्रान्ताप्यनङ्गेन या
यस्याः कृत्रिमचण्डवस्तुकरणाकूतेषु खिन्नं मनः ।
कोऽयं काहमिति प्रवृत्तसुरता जानाति या नान्तरं
रन्तुः सा रमणी स एव रमणः शेषौ तु जायापती ॥ १४२ ॥
किं बाले मुग्धतेयं प्रकृतिरियमथो रौद्रता किं नु कोपः
किं वा चापल्यमुच्चैर्व्रतमुत किमु ते यौवनारम्भदर्पः ।
यत्केशालापवक्त्रस्मितललितकुचभ्रूविलासावलग्नैः
स्वस्थो लोकस्त्वदीयैर्मनसि विनिहितैर्दह्यतेऽमीभिरार्यः ॥ १४३ ॥
गच्छेत्युन्नतया भ्रुवैव गदितं मन्दं वलन्त्या तया
तेनाप्यञ्चितलोचनद्वयपुटेनाज्ञा गृहीता शनैः ।
संकेताय वलद्दृशा पिशुनिता ज्ञाता च दिक्प्रेयसा
गूढः संगमनिश्चयो गुरुपुरोऽप्येवं युवभ्यां कृतः ॥ १४४ ॥
चटुलनयने शून्या दृष्टिः कृता खलु केन ते
क इह सुकृती द्रष्टव्यानामुवाह धुरं पराम् ।
यमभिलिखितप्रख्यैरङ्गैर्न मुञ्चसि चेतसा
वदनकमलं पाणौ कृत्वा निमीलितलोचना ॥ १४५ ॥
चलतु तरला धृष्टा दृष्टिं खला सखि मेखला
स्खलतु कुचयोरुत्कम्पान्मे विदीर्यतु कञ्चुकम् ।
तदपि न मया संभाव्योऽसौ पुनर्दयितः शठः
स्फुटति हृदयं मानेनान्तर्न मे यदि तत्क्षणम् ॥ १४६ ॥
तैस्तैश्चाटुभिराज्ञया किल तया वृत्ते रतिव्यत्यये
लज्जामन्थरया तया निवसिते भ्रान्त्या मदीयांशुके ।
तत्पट्टांशुकमुद्वहन्नहमपि स्थित्वा यदुक्तोऽधुना
वेषो युज्यत एष एव हि तवेत्येतन्न विस्मर्यते ॥ १४७ ॥
पत्रं न श्रवणेऽस्ति बाष्पगुरुणोर्नो नेत्रयोः कज्जलं
रागः पूर्व इवाधरे चरणयोस्तन्व्या न चालक्तकः ।
वार्तोच्छित्तिषु निष्ठुरेति भवता मिथ्यैव संभाव्यते
सा लेखं लिखतु च्युतोपकरणा न्यायेन केनाधुना ॥ १४८ ॥
यदि विनिहिता शून्या दृष्टिः किमु स्थिरकौतुका
यदि विरचितो मौने यत्नः किमु स्फुरितोऽधरः ।
यदि नियमितं ध्याने चेतः कथं पुलकोद्गमः
कृतमभिनयैर्दृष्टो मानः प्रसीद विमुच्यताम् ॥ १४९ ॥
यद्रात्रौ रहसि व्यपेतविनयं वृत्तं रसात्कामिनो-
रन्योन्यं शयनीयमीहितरसावाप्तिप्रवृत्तस्पृहम् ।
तत्सानन्दमिलद्दृशोः कथमपि स्मृत्वा गुरूणां पुरो
हासोद्भेदनिरोधमन्थरमिलत्तारं कथंचित्स्थितम् ॥ १५० ॥
याते गोत्रविपर्यये श्रुतिपथं शय्यागतायाश्चिरं
निर्ध्यातं परिवर्तनं हृदि पुनः प्रारब्धमङ्गीकृतम् ।
भूयस्तत्प्रकृतं कृतं च वलितक्षिप्तैकदोर्लेखया
मानिन्या न तु पारितः स्तनभरो नेतुं प्रियस्योरसः ॥ १५१ ॥
सा यौवनमदोन्मत्ता वयमस्वस्थचेतसः ।
तस्या लावण्यभङ्गेषु दाहोऽस्मासु विजृम्भते ॥ १५२ ॥
सति प्रदीपे सत्यग्नौ सत्सु तारामणीन्दुषु ।
विरामे मृगशावाक्ष्यास्तमोभूतमिदं जगत् ॥ १५३ ॥
सुरतविरतौ व्रीडावेशश्रमश्लथहस्तया
रहसि गलितं तन्व्या प्राप्तुं न पारितमंशुकम् ।
रतिरसजडैरङ्गैरङ्गं पिधातुमशक्तया
प्रियतमतनौ सर्वाङ्गीणं प्रविष्टमधृष्टया ॥ १५४ ॥
सख्यस्तानि वचांसि यानि बहुशोऽधीतानि युष्मन्मुखा-
द्वक्ष्येऽहं बहुशिक्षिता क्षणमिति ध्यात्वापि मौनं श्रिता ।
धूर्तेनैत्य च मण्डलीकृतकुचं गाढं परिष्वज्य मां
पीतान्येव सहाधरेण हसता वक्त्रस्थितान्येव मे ॥ १५५ ॥
उत्कम्पो हृदये स्खलन्ति वचनान्यावेगलोलं मनो
गात्रं सीदति चक्षुरश्रुकलुषं चिन्ता मुखं शुष्यति ।
यस्यैषा सखि पूर्वरङ्गरचना मानः स मुक्तो मया
वन्द्यास्ता अपि योषितः क्षितितले यासामयं संमतः ॥ १५६ ॥
मानव्याधिनिपीडिताहमधुना शक्नोमि तस्यान्तिकं नो गन्तुं न सखीजनोऽस्ति चतुरो यो मां बलान्नेष्यति । मानी सोऽपि जनो न लाघवभयादभ्येति मातः स्वयं कालो याति चलं च जीवितमिति क्षुण्णं मनश्चिन्तया ॥ १५७ ॥ ५ परिशिष्टम् ।
सूक्तिमुक्तावलावमरुकनाम्ना समुद्धृताः पूर्वश्लोकातिरिक्ताः श्लोकाः । यथा —
कान्ते कथंचिद्गदितप्रयाणे क्षणं विनम्रा विरहार्दिताङ्गी ।
ततस्तमालोक्य कदा गतोऽसीत्यालिङ्ग्य मुग्धा मुदमाससाद ॥ १५८ ॥
यद्गम्यं गुरुगौरवस्य सुहृदो यस्मिल्लभन्तेऽन्तरं
यद्दाक्षिण्यवशाद्भयाच्च सहते मन्दोपचारानपि ।
यल्लज्जा निरुणद्धि यत्र शपथैरुत्पाद्यते प्रत्यय-
स्तत्किं प्रेम स उच्यते परिचयस्तत्रापि मानेन किम् ॥ १५९ ॥
दृष्टे लोचनवन्मनाङ्मुकुलितं पार्श्वस्थिते वक्त्रव-
न्न्यग्भूतं बहिरासितं पुलकवत्स्पर्शं समातन्वति ।
नीवीबन्धवदागतं शिथिलतां संभाषमाणे क्षणा-
न्मानेनापसृतं ह्रियेव सुदृशः पादस्पृशि प्रेयसि ॥ १६० ॥
ललितमुरसा तरन्ती तरलतरङ्गौघचालितनितम्बा ।
विपरितरक्तासक्तेव दृश्यते सरसि सा सख्या ॥ १६१ ॥
६ परिशिष्टम् ।
शार्ङ्गधरपद्धतौ पूर्वश्लोकाधिकः श्लोकः । यथा —
कान्तामुखं सुरतकेलिविमर्दखेद-
संजातघर्मकणविच्छुरितं रतान्ते ।
आपाण्डुरं विलसदर्धनिमीलिताक्षं
संस्मृत्य हे हृदय किं शतधा न यासि ॥ १६२ ॥
७ परिशिष्टम् ।
औ[^१]चित्यविचारचर्यायां पूर्वश्लोकातिरिक्तः श्लोकः । यथा —
गन्तव्यं यदि नाम निश्चितमहो गन्तासि केयं त्वरा
द्वित्राण्येव पदानि तिष्ठतु भवान्पश्यामि यावन्मुखम् ।
संसारे घटिकाप्रणालविगलद्वारा समे जीविते
को जानाति पुनस्त्वया सह मम स्याद्वा न वा संगमः ॥ १६३ ॥
[^१.] औचित्यविचारचर्चायाममरकनाम्नायं श्लोकः समुद्धृतस्तत्रामरुकस्येति भाति.