<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>-</p>
<pb n="2" />
<p>-</p>
<pb n="3" />
<p>-</p>
<pb n="4" />
<p>-</p>
<pb n="5" />
<p>-</p>
<pb n="6" />
<p>श्रीमदार्यभटीयम्
परमादीश्वराचार्यविरचितभटदीपिकासहितम्
भट्टकर्णसंशोधितम्
होल्लन्ददेशे लैदननगरे
ब्रिल्लीयमुद्रायन्त्रालये
मुद्रितम्
१८७४ । शाके १७१६
The Âryabhaṭîya,
with the Commentary Bhaṭadîpikâ of
Paramâdîçvara,
edited by Dr. H. KERN.
LEIDEN, E. J. BRILL.
1874.
PARIS,
MAISONNEUVE & Cie.
LONDON,
TRÜBNER AND Co.</p>
<pb n="7" />
<p>-</p>
<pb n="8" />
<p>The Âryabhaṭîya,
a manual of astronomy,
with the Commentary Bhaṭadîpikâ of
Paramâdîçvara.</p>
<pb n="9" />
<p>-</p>
<pb n="10" />
<p>श्रीमदार्यभटीयम्
परमादीश्वराचार्यविरचितभटदीपिकासहितम्
भट्टकर्णसंशोधितम्
होल्लन्ददेशे लैदननगरे
ब्रिल्लीयमुद्रायन्त्रालये
मुद्रितम्
१८७४ । शाके १७१६
The Âryabhaṭîya,
with the Commentary Bhaṭadîpikâ of
Paramâdîçvara,
edited by Dr. H. KERN.
LEIDEN, E. J. BRILL.
1874.</p>
<pb n="11" />
<p>-</p>
<pb n="12" />
<p>-</p>
<pb n="13" />
<p>-</p>
<pb n="14" />
<p>-</p>
<pb n="15" />
<p>-</p>
<pb n="16" />
<p>-</p>
<pb n="17" />
<p>-</p>
<pb n="18" />
<p>-</p>
<pb n="19" />
<p>-</p>
<pb n="20" />
<p>अविघ्नमस्तु</p>
<lg>
  <l>यत्तेजः प्रेरयेत् प्रज्ञां सर्वस्य शशिभूषणं।</l>
  <l>मृगटङ्काभवेष्टाङ्कत्रिनेत्रन्तमुपास्महे ॥</l>
</lg>
<lg>
  <l>लीलावती भास्करीयं लघु चान्यच्च मानसं ।</l>
</lg>
<lg>
  <l>व्याख्यातं शिष्यबोधार्थं येन प्राक्तेन चाधुना ॥</l>
  <l>तन्त्रस्यार्यभटीयस्य व्याख्याल्पा क्रियते मया ।</l>
  <l>परमादीश्वराख्येन नाम्नात्र दीपिका ॥</l>
  <l>परमादीश्वराख्येन नाम्नात्र भटदीपिका ॥</l>
</lg>
<p>तत्रायमाचार्य आर्यभटो विघ्नोपशमनार्थं स्वेष्टदेवतानमस्कारं प्रतिपाद्य वस्तु-
कथनञ्चार्यरूपया करोति ।</p>
<lg>
  <l>प्रणिपत्यैकमनेकं कं सत्यां देवतां परं ब्रह्म ।</l>
  <l>आर्यभटस्त्रीणि गदति गणितं कालक्रियां गोलं ॥१॥</l>
</lg>
<p>इति~॥ कं ब्रह्माणं एकं कारणरूपेणैकम् अनेकं कार्यरूपेणानेकं सत्यां देवतां
देव एव देवता । स्वयम्भूरेव पारमार्थिको देव अन्ये तेन सृष्टा इत्यपारमा-</p>
<pb n="21" />
<p>र्थिकाः । परं ब्रह्म जगतो मूलकारणं त्रिमूर्त्यतीतं सर्वव्याप्तं ब्रह्म स्वय-
म्भूरित्युक्तो भवति । आर्यभट एवं ब्रह्माणं प्रणिपत्य गणितं कालक्रियां गोलम्
इत्येतानि त्रीणि वस्तूनि निगदति । परोक्षत्वेन निर्देशान्निगदतीति वचनम् । तत्र
गणितन्नाम सङ्कलितमिश्रश्रेडीदर्शधीकुट्टाकारच्छायाक्षेत्राद्यनेकविधम् । इह तु का-
लक्रियागोलयोर्यावन्मात्रं परिकरभूतं तावन्मात्रं सामान्यगणितमेव प्रायशः
प्रतिज्ञातं । अन्यच्च किञ्चित् । कालस्य क्रिया कालक्रिया । कालपरिच्छेदोषा-
यभूतं ग्रहगणितं कालक्रियेत्यर्थः । गोलन्नाम ब्रह्माण्डकटाहमध्यवर्त्याकाशमध्यस्थं
ग्रहनक्षत्रकक्ष्यात्मकं स्वमध्यस्यघनवृत्तभूमिकमपक्रमाद्यशेषविशेषोपेतं प्रवहा-
ख्यवायुप्रेरितं कालचक्रज्योतिश्चक्रभपञ्जरादिशब्दवाच्यं गोलः । स च वृत्तक्षेत्र-
वाच्चतुरश्राद्यनेकक्षेत्रकल्पनाधारत्वाच्च गणितविशेषगोचर एव । एतत्त्रयमपि
द्विविधम् । उपदेशमात्रावसेयन्तन्मूलन्यायावसेयञ्चेति । तत्र युगप्रमाणमन्दोच्चादिवृ-
त्ताद्यपक्रमाद्युपदेशमात्रावसेयम् । इष्टदिनग्रहगतीष्टापक्रमस्वाहोरात्रचरदलादिच्छा-
यानाडिकाद्युपदेशसिद्धयुगप्रमाणादितो न्यायावसेयम् । एवं द्वैविध्यम् ॥ अत्र स्वय
म्भूप्रणामकरणेन करिष्यमाणस्य तन्त्रस्य ब्रह्मसिद्धान्तं मूलमितिच प्रदर्शितं ॥
अथोपदेशावगम्यान्युगभगणादीन् सङ्क्षेपेण प्रदर्शयितुं दशगीतिकासूत्रं
करिष्यन् तदुपयोगिनीं परिभाषामाह ।</p>
<lg>
  <l>वर्गाक्षराणि वर्गेऽवर्गेऽवर्गीक्षराणि कात् ङ्मौ यः ।</l>
  <l>खद्विनवके स्वरा नव वर्गेऽवर्गे नवान्त्यवर्गे वा ॥२॥</l>
</lg>
<pb n="22" />
<p>इति ॥ वर्गाक्षराणि वर्गे । ककारादीनि मकारातानि वर्गाक्षराणि । तानि
वर्गस्थाने एकशतायुताद्योजस्थाने स्थाप्यानि एवं क्रमेण संख्या वेद्या ॥ अवर्गे
अवर्गाक्षराणि । यकारादीनि अवर्गाक्षराणि । तान्यवर्गस्थाने दशसहस्रलक्षा-
दियुग्मस्थाने स्थाप्यानि । कात् ककारादारभ्य संख्या वेद्या । ककार एकसंख्यः
खकारो द्विसंख्य एवं क्रमेण संख्या वेद्या~। ञकारो दशसंख्यः । टकार एका-
दशसंख्यः । नकारो विंशतिसंख्यः | मकारः पञ्चविंशतिसंख्यः । एवं लिपिपा-
ठक्रमेण संख्या वेद्या ॥ ङ्मौ यः । ङकारमकारयोर्योगेन तुल्यो यकारः । पञ्चसं-
ख्यायाः पञ्चविंशतिसंख्यायाश्च योगस्त्रिंशन्संख्य इत्यर्थः । अत्र प्रथमस्थानमङ्गीकृत्य
त्रिंशदित्युक्तं नतु द्वितीयस्थानमकृत्य द्वितीयस्थाने हि त्रिसंख्यो यकारः ।
इत्युक्तं भवति । रेफादयः क्रमेण द्वितीयस्थाने चतुरादिसंख्यास्युः । हकारो
द्वितीयस्थाने दशसंख्यः शतसंख्यावाचक इत्यर्थः । एवमवर्गस्थानविहितापि
हकारसंख्या संख्यान्तरत्वेन वर्गस्थाने स्थाप्यते । एवं ञकारादिसंख्या वर्ग-
स्थानविहिताप्यवर्गस्थाने संख्यान्तरत्वेन स्थाप्यते । एतद्धि न्यायतस्सिद्धम् । अत्र
गतुल्यो यकार इति वक्तव्ये ङ्मौ य इति वर्णद्वयेन यदुक्तं तेन संयुक्तैरप्य-
क्षरैस्संख्या प्रतिपादयिष्यत इति प्रदर्शितं भवति ॥ शून्यभूतानामनङ्गीकृत-
संख्याविशेषाणां के प्रयुज्यन्ते । इत्यत्राह । खद्विनवके स्वरा नव वर्गे ऽवर्गे ।
इति । द्विनवके अटादशके नव स्वराः क्रमेण प्रयुज्यन्ते । अ इ उ ऋ ऌ
ए ऐ ओ औ । इत्येते नव स्वराः । एतदुक्तं भवति । ककाराद्यक्षरगता-</p>
<pb n="23" />
<p>स्स्वरास्स्थानप्रदर्शका भवन्ति न संख्याविशेषप्रदर्शका इति । कथं नवसंख्या
अष्टादशके प्रयुज्यन्ते । इत्यत्राह । वर्गे ऽवर्गे । इति । वर्गस्थानेषु नवस्वका-
राया नव स्वराः क्रमेण प्रयुज्यन्ते । तथा अवर्गस्थानेषु च त एव । एव-
मन्यैरपि कल्प्यं । तथा प्रथमस्वरयुतैर्यकारादिभिर्विहिता संख्या प्रथमे अव-
र्गस्थाने स्थाप्या । द्वितीयस्वरयुतैर्द्वितीये अवर्गस्थाने । एव-
मन्यैरपीति । एवमष्टादशस्थानेषु संख्या वेद्या ॥ यदा पुनस्ततो ऽधिकापि संख्या केनचिद्विव-
क्षिता तदा कथमित्यत्राह | नवान्त्यवर्गे वा । इति । नवानां वर्गस्थानाना-
मन्त्ये ऊर्ध्वगते वर्गस्थाननवके तथा नवानामवर्गस्थानानामन्त्ये ऊर्ध्वगते
अवर्गस्थाननवके च एते नव स्वरा प्रयुज्यन्ते वा । केनचिदनुस्वारादिवि-
शेषेण संयुक्ताः प्रयोज्या इत्यर्थः । शास्त्रव्यवहारस्त्वष्टादशस्थानानि नातिवर्तते ॥
अथ चतुर्युगे रव्यादीनां भगणसंख्यामाह ।</p>
<lg>
  <l>युगरविभगणाः ख्युघृ शशि  चयगियिङुशुछ्लृ कु ङिशिबुणॢख्षृ प्राक् ।</l>
  <l>शनि ढुङ्विघ्व गुरु ख्रिच्युभ कुज भद्लिझ्नुखृ भृगुबुध सौराः ॥१॥</l>
</lg>
<p>अष्टादशस्थानगतानां संख्यानां संज्ञा तु</p>
<lg>
  <l>एकदशशतसहस्रायुतलक्षप्रयुतकोटयः क्रमशः ।</l>
  <l>अर्बुदमब्जं खर्वनिखर्वमहापद्मशङ्कवस्तस्मात् ॥</l>
</lg>
<p>जलधिञ्चान्त्यं मध्यं परार्धमिति दशगुणोत्तरं संज्ञाः । [^*]
------
[^*] तथा लीलावयाम्</p>
<pb n="24" />
<p>इत्यनेन वेद्या ॥ युगरविभगणाः । चतुर्युगे रवेर्भगणाः ख्युघृ इति । उकार-
युतखकारेणायुतद्वयमुक्तं । उकारयुतयकारेण लक्षत्रयं । एवं सर्वत्र हल्द्वये
एक एव स्वर उभयत्र सम्बध्यते । ऋकारयुतघकारेण प्रयुतचतुष्कं । एवमनेन
न्यायेन सर्वत्र संख्या वेद्या । शशि । शशिन इत्यर्थः । सूत्रे  यद्विभक्तिकोऽपि
प्रयोगस्स्यात् । चयगियिङुशुछ्लृ इति युगभगणाश्शशिनः । च षठ् । य त्रिंशत् ।
गि त्रिशतं । यि त्रिसहस्रं । ङु युतपञ्चकं । शु लक्षसप्तकं । छृ प्रयुतसप्तकं ।
लृ कोटिपञ्चकं । इति ॥ कु । भूमेरित्यर्थः । ङिशिवुणॢख्षृ इति भगणाः ।
प्राक् प्राग्गत्या सम्भूता भगणा इत्यर्थः । णॢ पञ्चदशार्बुदं | नवमस्थाने पञ्च
दशमस्थाने एकञ्चेत्यर्थः । खृ प्रयुतद्वयं । षृ कोट्यष्टकं । भूमेर्यत्प्राङ्मुखं भ्रमणं
तस्य चतुर्युगे संभूता संख्यात्रोक्ता । भूमिर्यदचलेति प्रसिद्धा तस्याः कथमत्र
भ्रमणकथनं । उच्यते । प्रवहाक्षेपात्पश्चिमाभिमुखं भ्रमतो नक्षत्रमण्डलस्य मि-
थ्याज्ञानवशाद्भूमेर्भ्रमणं प्रतीते । तदङ्गीकृत्येह भूमेर्भ्रमणमुक्तं । वस्तुतस्तु न
भूमेर्भ्रमणमस्ति । अतो नक्षत्रमण्डलस्य भ्रमणप्रदर्शनपरमत्र भूभ्रमणकथनमिति
वेद्यं । वक्ष्यतिच मिथ्याज्ञानं[^*]</p>
<lg>
  <l>अनुलोमगतिर्नौस्थः पश्यत्यचलं विलोमगं यद्वत् ।</l>
  <l>अचलानि भानि समपश्चिमगानि लङ्कायां ॥</l>
</lg>
<p>इति~। अहोरात्रेण हि भगोलस्य समस्तभागभ्रमणादूर्ध्वं रवेर्दिनगतितुल्यभागो
------
[^*] गोलपादे</p>
<pb n="25" />
<p>ऽपि भ्रमति । अतो रवेर्युगभगणयुतभूदिवसैस्तुल्या नक्षत्रमण्डलस्य भ्रमणमि-
तिर्भवति । सैवात्रोक्ता स्यात् ॥ शनि ढुङ्विघ्व इति । शनेर्युगभगणाः । ढु
अयुतानाञ्चतुर्दश । ङि पञ्चशतं । वि षट्सहस्रं । घ चत्वारि । व षष्टिः ॥
गुरु ख्रिच्युभ इति । गुरोर्भगणाः । खि इति द्विशतं । रि इति चतुस्सहस्रं ।
चु इत्ययुतषट्कं । यु इति लक्षत्रयं । भ इति चतुर्विंशतिः ॥ कुज भद्लि-
झ्नुखृ इति । कुजस्य भगणाः । भ चतुर्विंशतिः । दि अष्टशताधिकसहस्रं ।
लि पञ्चसहस्रं । झु अयुतनवकं । नु लक्षद्वयं । खृ प्रयुतदयं । अत्र संख्या-
योगे भगणसिद्धिः ॥ भृगुबुध सौराः । भृगुबुधयोर्युगभगणास्सौरा एव । सूर्यभ-
गणाः ख्युघृ एव ॥
एवं प्रथमसूत्रेण रव्यादीनां युगभगणान् प्रदर्श्य द्वितीयसूत्रेण चन्द्रो-
च्चभगणान् बुधभृग्वोश्शीघ्रोच्चभगणांश्च शेषाणां कुजगुरुशनैश्चराणां शीघ्रोच्चञ्च
चन्द्रपातभगणांच भगणारम्भकालञ्चाह ।</p>
<lg>
  <l>चन्द्रोच्च ज्रुष्खिध बुध सुगुशिथृन भृगु जषबिखुछृ शेषार्काः ।</l>
  <l>बुफिनच पातविलोमा बुधाह्न्यजार्कोदयाच्च लङ्कायां ॥ २ ॥</l>
</lg>
<p>चन्द्रोच्चस्य ज्रुष्खिध इति भगणाः । र्जुष्खिध इति वा पाठः । जु अयुताष्टकं ।
रु लक्षचतुष्कं । षि अष्टसहस्रं । खि द्विशतं । ध एकोनविंशतिः ॥  बुधस्य
शीघ्रोच्चभगणाः सुगुशिथृन इति । सु लक्षनवकं । गुं अयुतत्रयं । शि सप्तसहस्रं ।
थृ प्रयुतसप्तदशकं । न विंशतिः ॥ भृगोश्शीघ्रोच्चभगणा जषबिखुछृ इति । ज</p>
<pb n="26" />
<p>अष्टौ । ष अशीतिः । बि शतत्रयाधिकद्विसहस्रं । खु अयुतदयं । छृ प्रयुतसप्तकं ॥
शेषार्काः । शेषाणां कुजगुरुमन्दानां शीघ्रोच्चभगणा आर्काः । अर्कभगणा एव ।
उपरिष्टादेषां मन्दोच्चांशान्वक्ष्यति । अत इहोक्ताश्शीघ्रोच्चभगणा इति सिध्यति ॥
बुफिनच इति पातस्य चन्द्रपातस्य विलोमात्मकभगणाः । बु अयुतानां त्रयो-
विंशतिः । फि शतद्वयाधिकसहस्रद्वयं । न विंशतिः । च षट् ॥ कुजादीनां
पातभगणान्वक्ष्यति । अर्कस्य तु विक्षेपो न विधीयते । अत एते चन्द्रपातस्य
भगणा इति सिध्यति । उच्चपातानां व्योम्नि दर्शनं नास्ति । तथाच ब्रह्मगुप्तः
प्रतिपादनार्थमुच्चाः प्रकल्पिता ग्रहगतेस्तथा पाताः ।
इति ॥ बुधाह्न्यजार्कोदयाच्च लङ्कायां । कृतयुगादौ बुधवारे लङ्कायां सूर्योदयमा-
रभ्य । अजात् मेषादिमारभ्य राशिचक्रे गच्छतां रव्यादीनां भगणा अत्रोक्ता
इत्यर्थः । सूर्योदयो मध्यसूर्योदयः कल्पारम्भस्तु स्फुटसूर्योदयः । तत्र मध्यमस्फुट-
योर्विशेषाभावात् ॥ कल्पकालान्तर्गतमनून् गतकालञ्च तृतीयसूत्रेणाह ।</p>
<lg>
  <l>काहोमनवो ढ मनुयुग श्ख गतास्ते च मनुयुग छ्ना च ।</l>
  <l>कल्पादेर्युगपादा ग च गुरुदिवसाच्च भारतात्पूर्वम् ॥३॥</l>
</lg>
<p>काहोमनवो ढ । क कस्य ब्रह्मणः । अहः अद्भि मनवो ढ चतुर्दश भवन्ति ।
मनुयुग श्ख । एकैकस्य मनोः काले युगानि चतुर्युगाणि श्ख | श सप्ततिः ।
ख द्वयं । द्वासप्ततिरित्यर्थः । गतास्ते च । एतस्माद्वर्तमानात्कलियुगात्पूर्वमती-
तास्ते मनवः । च षट् । मनुयुग छ्ना च । वर्तमानस्य सप्तमस्य मनोः । अतीतानि</p>
<pb n="27" />
<p>चतुर्युगाणि छ्ना । छा सप्त । ना विंशतिः । सप्तविंशतिरित्यर्थः । स्वराणां ह्र-
स्वदीर्घयोर्न विशेषः । अकारसदृश एवाकार ॥ कल्पादेर्युगपादा ग च गुरु-
दिवसाच्च भारतात्पूर्वं । युगपादा ग च । वर्तमानस्याष्टाविंशस्य चतुर्युगस्य ग
पादाश्च । त्रयः पादाश्च । गता भवन्ति । अस्मिन्सूत्रे ऽनाद्यं चकारत्रयं न संख्या-
प्रदर्शकं ॥ कदा एवमित्यत्राह । कल्पादेर्भारताद्गुरुदिवसात्पूर्वमिति । भारता
युधिष्ठिरादयः । तैरुपलक्षितो गुरुदिवसो भारतगुरुदिवसः । राज्यं चरतां युधि-
ष्ठिरादीनामन्त्यो गुरुदिवसो द्वापरावसानगत इत्यर्थः । तस्मिन्दिने युधिष्ठिरादयो
राज्यमुत्सृज्य महाप्रस्थानं गता इति प्रसिद्धिः । तस्मारुदिवसात्पूर्वं कल्पा-
देरारभ्य गता मन्वादय इहोक्ताः । इत्यर्थः । अस्मिन्पक्षे युगानि परस्परसमानि
युगपादश्च चतुर्युगचतुर्थांशः । अन्यथा चेत् बुधवारादिके चतुर्युगे कलियुगार-
म्भश्शुक्रवारे न संभवति। अतः कृतयुगारम्भो बुधवार इति । बुधाह्न्यजार्केदयाच्च
लङ्कायामिति । पठिताश्च प्रकाशिकायां कलियुगादेः प्रागतीताः कल्पदिवसाः
शराश्विषट्खाद्रिशराद्रिवेदकृतेषुयुग्मखरसंमितः स्यात् । इति । अहर्गणो नात्र
विशेष्यः । अनेनापि युगानां समयस्सिध्यति ॥ चतुर्थेन सूत्रेण राश्यादिविभा-
गमाकाशकक्ष्यायोजनप्रमाणं प्राणकलयोः क्षेत्रसाम्यं ग्रहनक्षत्रकक्ष्यायोजनप्र-
माणञ्चाह ।</p>
<lg>
  <l>शशिराशयष्ठ चक्रं तेऽंशकलायोजनानि यवञगुणाः ।</l>
  <l>प्राणेनैति कलां भं खयुगांशे ग्रहजवो भवांशेऽर्कः ॥ ४ ॥</l>
</lg>
<pb n="28" />
<p>शशिनश्चक्रं भगणा द्वादशगुणिता राशयः~। शशिनो युगभगणा द्वादशगुणिता
युगराशयो भवन्ति~। भगणाद् द्वादशांशो राशिरित्युक्तं भवति~। ते राशयो यगु-
भगणास्त्रिंशगुणिता अंशा भवन्ति~। राशेस्त्रिंशांशो भाग इत्युक्तं भवति~। ते ऽं-
शा वगुणाष्षष्टिगुणाः कला भवन्ति~। अंशात् षष्ठ्यंशः कलेत्युक्तं भवति~। ताः
कला ञगुणा योजनानि भवन्ति~। शशिनो युगभवाः कला दशगुणिता आ-
काशकक्ष्यायोजनानि भवन्तीत्यर्थः~। ब्रह्माण्डकटाहावच्छिन्नस्य सूर्यरश्मिव्याप्त-
स्याकाशमण्डलस्य परिधियोजनान्याकाशकक्ष्यायोजनानीत्युच्यन्ते~। खखषष्द्यद्रीषु-
खाश्विस्वराध्यद्य्रब्धिभास्करा इत्याकाशकक्ष्यायोजनानि ॥ प्राणेनैति कलां भं~।
प्राणेनोच्छ्वासतुल्येन कालेन भं ज्योतिश्चक्रं कलामेति कलापरिमितं प्रदेशं
प्रवहवायुवशात्पश्चिमाभिमुखं गच्छति~। खखषड्भूयमतुल्या हि ज्योतिश्चक्रगताः
कलाः~। चक्रभ्रमणकालनिष्पन्नाः प्राणाश्च तत्तुल्या इत्युक्तं भवति~। अतो
घटिकामण्डलगताः प्राणा राशिचक्रगताः कलाश्च क्षेत्रतस्तुल्या इति चोक्तं
भवति ॥ खयुगांशे ग्रहजवः~। खमाकाशकक्ष्या~। युगं ग्रहस्य भगणाः~। आ-
काशकक्ष्यातो ग्रहभगणैराप्तं ग्रहजवः~। एकपरिवृत्तौ ग्रहस्य जवो गतिमानं
योजनात्मकं भवति। ग्रहस्य कक्ष्यामण्डलपरिधियोजनमित्यर्थः~॥ भवांशे ऽर्कः~।
भस्य नक्षत्रमण्डलस्य कक्ष्याया वांशे षष्ठ्यंशे अर्को भ्रमति~। नक्षत्रकक्ष्यातष्ष-
ष्ठ्यंशेन तुलितार्ककक्ष्येत्युक्तं भवति~। अत्र नक्षत्रकक्ष्या विधीयते~। अर्ककक्ष्या
हि पूर्वविधिनैव सिद्धा~। अर्ककक्ष्या षष्टिगुणिता नक्षत्रकक्ष्या भवतीत्युक्तं</p>
<pb n="29" />
<p>भवति॥ पञ्चमेन योजनपरिमितिं भूम्यादेजनप्रमाणञ्च प्रदर्शयति ।</p>
<lg>
  <l>नृषि योजनं ञिला भूव्यासो ऽर्केन्द्वोर्घ्रिञा गिण क मेरोः ।</l>
  <l>भृगुगुरुबुधशनिभीमाश्शशि ङञणनमांशकास्समार्कसमाः ॥५॥</l>
</lg>
<p>नृषि योजनं । नृ नरप्रमाणानां षि अष्टसहस्रं योजनं योजनस्यनृषि योजनं । नृ नरप्रमाणानां षि अष्टसहस्रं योजनं योजनस्य प्रमाणं
भवति ॥ ञिला भूव्यासः । ञि सहस्रं ला पञ्चाशत् । एतानि भूमेर्व्यासप्र.
माणयोजनानि॥ श्रर्केञिा गिण । अर्कमण्डलस्य व्यासप्रमाणयोजनानि
घिञा इति । घि चवारि शतानि । रि चवारि सहस्राणि । ञ दश । इ-
न्दोर्गिण इति । गि त्रिशतं । ण पञ्चदश ॥ क मेरोः । मेरोर्व्यासयोजनप्र.
माणं क। एकमित्यर्थः ॥ भृग्वादीनां बिम्बयोजनानि क्रमाच्छशिनो बिम्बस्य
योजनव्यासात् ङांशञांशणांशनांशमांशतुल्यानि । पञ्चांशदशांशपञ्चदशांशविं-
शांशपञ्चविंशांशतुल्यानीत्यर्थः ॥ शशिकक्ष्यासाधिता ते व्यासाः । अतो विष्क-
म्भार्धहताश्चन्द्रस्य योजनकर्णभक्ता लिप्ता भवन्ति । पुनरपि ता विष्कम्भार्ध-
हतास्स्वस्वमन्दकर्णशीघ्रकर्णयो यौगार्धकृतास्स्फुटा भवन्ति । इत्युपदेशः । तथाच
मयः [^*]
त्रिचतुः कर्णयुत्याप्तास्ते द्विघ्नास्त्रिज्यया हताः ।
इति । अत्र चन्द्रस्य योजनकर्णश्चन्द्रस्य मध्ययोजनकर्णः ॥ समार्कसमाः ।
युगसमा युगार्कभगणसमा इत्यर्थः ॥ ग्रहाणां विषुवत उत्तरेण दक्षिणेन
------
[^*] सूर्यसिद्धान्ते ग्रहयुत्यधिकारे १४</p>
<pb n="30" />
<p>चापयानप्रमाणं पुरुषप्रमाणञ्च षष्ठेन सूत्रेणाह</p>
<lg>
  <l>भाऽपक्रमो ग्रहांशाश्शशिविक्षेपो ऽपमण्डलाज्झार्धं ।</l>
  <l>शनिगुरुकुज खकगार्ध भृगुबुध व स्चाङ्गुलो घस्तो ना ॥६॥</l>
</lg>
<p>भाऽपक्रमो ग्रहांशाः। ग्रहाणां भ अंशाश्चतुर्विंशतिभागा अपक्रमः । परमापक्रम
इत्यर्थः । पूर्वापरस्वस्तिकात्रिराश्यन्तरे घटिकामण्डलापक्रममण्डलयोरन्तरालं
चतुर्विंशतिभागतुल्यमित्यर्घः ॥ अपमण्डलाच्छशिनः परमविक्षेपो झार्धं नवा -
नामर्ध सार्धाश्चत्वारो ऽंशाः ॥ शनिगुरुकुज खकगार्थ । शनेर्विक्षेपः ख द्वावंशौ ।
गुरोः क एकांशः । कुजस्य गार्ध त्रयाणामर्धं सार्धो ऽंशः । भृगुबुध ख । भृ-
गुबुधयोर्विक्षेपः ख द्वावंशौ ॥ स्चाङ्गुल घस्तो ना । पुरुषस्स्चाङ्गुलो घहस्तश्च ।
स नवतिः। च षट्। षण्णवत्यङ्गुलः पुरुषः । घहस्तश्चतुर्हस्तश्च पुरुषः। नृषि
योजनमित्यादौ नरशब्देन षण्णवत्यङ्गुलप्रमाणमुदितमित्युक्तं भवति । तदेव
चतुर्हस्तप्रमाणं भवति। चतुर्विंशत्यङ्गुलैरेको हस्तो भवतीति चोक्तं भवति।
अङ्गुलस्य परिमाणानुपदेशाल्लोकसिद्धमेवाङ्गुलं गृह्यते । उक्तञ्च तत्परिमाणं
तन्त्रान्तरे (लीलावत्यां)</p>
<lg>
  <l>यवोदरैरङ्गुलमष्टसंख्यैर्हस्तो ऽङ्गुलैष्षङ्गुणितैश्चतुर्भिः ।</l>
  <l>हस्तैश्चतुर्भिर्भवतीह दण्डः क्रोशस्सहस्रद्वितयेन तेषां ॥</l>
</lg>
<p>इति ॥ इह विक्षेपकथने शन्यादीनां भृगुबुधवाश्च पृथग्ग्रहणं कृतं । तेन तेषां
तयोश्च विक्षेपानयने प्रकारभेदो ऽस्तीति सूचितं ॥ कुजादीनां पञ्चानां पातभागान्</p>
<pb n="31" />
<p>सूर्ययुतानां तेषां मन्दोच्चांशांश्च सप्तमेन सूत्रेणाह ।</p>
<lg>
  <l>बुधभृगुकुजगुरुशनि नवरषहा गत्वांशकान्प्रथमपाताः ।</l>
  <l>सवितुरमीषाञ्च तथा द्वा ञखि सा ह्दा ह्ल्य खिच्य मन्दोच्चं ॥७॥</l>
</lg>
<p>बुधस्य पातांशाः न विंशतिः । भृगोः व षष्टिः । कुजस्य र चत्वारिंशत् ।
गुरोः ष अशीतिः । शनेः ह शतं । गत्वांशकान्प्रथमपाताः । उक्तानेतानेवांश-
कान्मेषादितो गत्वा व्यवस्थिता बुधादीनां प्रथमपातास्स्युः । प्रथमशब्देन
द्वितीयो ऽपि पातो ऽस्तीति सूचितं । स च प्रथमपाताच्चक्रार्ढन्तरे स्थितस्स्यात् ।
विक्षेपमण्डलापमण्डलयोस्संपातस्थानं पातशब्देनोच्यते । तच्द्युभयत्र भवति । ग-
त्वेतिवचनात्तेषां पातानां गतिरभिप्रेता । गतिश्च विलोमा । पातविलोमा
इत्यनेन पातानां विलोमगत्वमुक्तं । अस्मिन्काले पातानां स्थितिरेवमित्युक्तं
भवति ॥ सवितुर्मन्दोच्चं तथा द्वा। दा अष्टादश । वा षष्टिः । अष्टसप्ततिभागान्
तथा मेषादितो गत्वा स्थितं सवितुर्मन्दोच्चमित्यर्थः । अमीषामुक्तानां बुधादीनां
मन्दोच्चानि ञखिरित्येवमादिभिरुक्तानि । बुधस्य मन्दोच्चं ञखि दशाधिकशत-
द्वयभागाः । भृगोः सा नवतिभागाः । कुजस्य ह्दा । हा शतं दा अष्टादश ।
अष्टादशाधिकशतभागाः। गुरोः ह्ल्य । ह शतं ल पञ्चाशत् व त्रिंशत् ।
अशीत्यधिकशतभागाः। शनेः खिच्य । खि शतद्वयं च षट् य त्रिंशत् । ष-
ट्त्रिंशदुत्तरशतद्वयभागाः। गत्वेतिवचनादेषामपि गतिरभिहिता । गतिश्चानुलोमा
चन्द्रोच्चवत् । अस्मिन्काल एव मन्दोच्चस्थितिरित्युक्तं भवति । पातोच्चानां बहुना</p>
<pb n="32" />
<p>कालेनैवाल्योऽपि गतिविशेषस्संभवतीति मवा तेषां गतिरिहानभिहिता ।
उक्ताश्शास्त्रान्तरे (सूर्यसिद्धान्ते मध्याधिकारे ४१) तेषां कल्पभगणाः</p>
<lg>
  <l>प्राग्गतेस्सूर्यमन्दस्य कल्ये सप्ताष्टवलयः ।</l>
  <l>कौजस्य वेदखयमा बौधस्याष्टर्तुवह्नयः ॥</l>
</lg>
<lg>
  <l>खखरन्ध्राणि जैवस्य शौक्रस्यार्थगुणासवः ।</l>
  <l>गोऽग्रयश्शनिमन्दस्य पातानामथ वामतः ॥</l>
</lg>
<lg>
  <l>मनुदस्रास्तु कौजस्य बौधस्याष्टाष्टसागराः ।</l>
  <l>कृताद्रिचन्द्रा जैवस्य त्रिखाङ्काश्च गुरोस्तथा॥</l>
</lg>
<p>शनिपातस्य भगणाः कल्पे यमरसर्तवः ।
इति । गुरोरिति दैत्यगुरोरुक्तं [^*]। अस्मिन्पक्षे कलेः प्रागतीता ग्रहगतिवि-
षयाः कल्पाब्दा लिख्यन्ते</p>
<lg>
  <l>खखखाभ्राहिनागेषुबाणाङ्कैकाः कलेस्समाः ।</l>
  <l>प्राङ्नर्दिष्टा ग्रहाणान्तु चारारम्भात्ततो ऽध्वगाः ॥</l>
</lg>
<p>इति। अस्मिन्पक्षे कुदिवसा अष्टाक्ष्यहिखरेन्द्रगोऽद्यङ्गतिथयः । भटप्रकाशिका-
यामुच्चपातानां गतिरन्यथा प्रदर्शिता</p>
<lg>
  <l>खाकाशाष्टकृतद्विद्विव्योमेष्वद्रीषुवह्नयः ।</l>
  <l>युगं बुधादिपातानां विद्वद्भिः परिपठ्यते ॥</l>
</lg>
<p>---
[^*] मैवं। भृगोरिति पाठस्य पुस्तकान्तरे दृष्टत्वाद्रुरोरिति पाठः प्रामादिक इत्यनुमेयम् ।</p>
<pb n="33" />
<lg>
  <l>एकद्वित्रिचतुष्पञ्चभगणाः परिकीर्तिताः ।</l>
  <l>सौम्यारशुक्रजीवार्कपातानां क्रमशो युगे ॥</l>
</lg>
<p>एतैस्त्रैराशिकाद्यथोक्तपातसिद्धिः । इति । युगमत्र वर्षात्मकं । एभिस्सिद्धानां पा-
तानामुक्ता अंशा एव भवन्ति नतु कतिचिद्भगणाः । ते ऽंशाः क्रमगता एव
भवन्ति नतु विलोमगाः। तथा सूर्यबुधादीनाञ्च मन्दोच्चयुगं तद्भगणाश्च प्रदर्शिताः</p>
<lg>
  <l>रव्युच्चस्य रसैकाङ्कगिर्यष्टिनवशङ्करा ।</l>
  <l>सहस्रघ्ना युगं प्रोक्तं भगणाश्च त्रयोदश ॥</l>
</lg>
<p>दन्तवस्वश्विरामाग्निवसुरामयमा युगं ।
बुधोच्चस्य शतघ्नास्ते सप्तात्र भगणास्स्मृताः ॥ [^*]
खखाब्धिवेदपञ्चाष्टिवेदनन्दाद्रयो युगं ।
कवेस्सूरेस्तदर्धं स्यादेकस्तस्मिन् गणस्तयोः॥ [^+]
इति । सौरकुजयोस्तु तत्प्रकरणे ग्रन्थे पाठो दृश्यते । तयोरेवं पाठः कार्यः
व्योमाम्बरशून्यकृताब्धिरुद्रशरवसुमतीषुशशितुल्यं ।
असितोच्चयुगं कौजं द्विगुणं भगणा इहेषवस्तु तयोः ॥ [^**]
इति । अत्रापि पठितभागा एव लभ्यन्ते नतु भगणाः । अत एवं प्रतीयते
---
[^*] प्रकाशिकापुस्तके शतघ्न स्यात् इति पाठो दृश्यते॥
[^+] प्रकाशिकापुस्तके एकस्तडगणास्तयोः । इति दृश्यते॥
[^**] प्रकाशिकापुस्तके °रुद्रशरशैलवसुमुनीन्दुसमाः । इति पाठः । <flag>अपरञ्च</flag> । भगणा नवेषवस्तु तयोः । इति लिखितम्</p>
<pb n="34" />
<p>केनचिद्बुद्धिमता स्वबुद्ध्या परिकल्यैवं लिखितमिति । अस्मिन्पक्षे कलेः प्राग-
तीतास्समा लिख्यन्ते
खखखाभ्रार्कषण्नागगोचन्द्राः प्राकूलेस्समाः ।
इति ॥ अष्टमेन सूत्रेण शशिनश्च पूर्वसूत्रोदितसूर्यबुधभृगुकुजगुरुशनीनाञ्च
मन्दवृत्तानि शनिगुरुकुजभृगुबुधानां शीघ्रवृत्तानि चाह।</p>
<lg>
  <l>कार्धानि मन्दवृत्तं शशिनश्छ ग छ घ <फ़्लग्>८</फ़्लग्> छ क यथेाक्तेभ्यः ।</l>
  <l>क <flag>गु</flag> ग्ल कॢ <flag>द्रु</flag> तथा शनिगुरुकुजभृगुबुधोच्चशीघ्रेभ्यः ॥ ८ ॥</l>
</lg>
<p>कस्य नवानामर्धं कार्धानि। अर्धपञ्चमैरपवर्तितानि वृत्तानीहोच्यन्त इत्यर्थः ।
शशिनो मन्दवृत्तं छ सप्त। यथोक्तेभ्यः पूर्वसूत्रपठितेभ्यः सूर्यबुधादिभ्यस्सिद्धानि
वृत्तानि गादीनीत्यर्थः। ग्रहाणाञ्चांशाद्धि वृत्तपरिमितिः कल्प्यते। अतो ग्रहेभ्यो
वृत्तानि भवन्ति । तत्र सूर्यस्य मन्दवृत्तं ग त्रीणि । मन्दवृत्तमेव शशिसूर्ययो-
र्भवतीति । बुधस्य छ सप्त । भृगोः घ चवारि । कुजस्य ६ चतुर्दश। गुरोः छ
सप्त। शनेः क नव ॥ शनिगुरुकुजभृगुबुधोच्चशीघ्रेभ्यः। शीघ्रोच्चेभ्यः। शोघ्रोच्च-
निमित्तशीघ्रगतिवशाज्जातानि वृत्तानि कादीनि । शनेः क नव । गुरोः <flag>गु</flag> । ग
त्रीणि । उ त्रयोदश । षोडशेत्यर्थः । कुजस्य ग्ल । ग त्रीणि । ल पञ्चाशत् ।
त्रिपञ्चाशदित्यर्थः। भृगोः कॢ । क नव । ल पञ्चाशत् । एकोनषष्टिरित्यर्थः ।
बुधस्य <flag>दु</flag> । द अष्टादश। उ त्रयोदश । एकत्रिंशदित्यर्थः । अत्र मन्दशीघ्रवृत्तयोः
क्रमभेदस्स्यात् तेन मन्दस्फुटशीघ्रस्फुटयोर्न्यायभेदस्सूचितः । यथा शीघ्रभुजाफलस्य</p>
<pb n="35" />
<p>कर्णसाध्यत्वं मन्दभुजाफलस्य तदभावश्च । अथवा मन्दकर्णतत्साधनानामविशे-
षकरणं शीघ्रकर्णतत्साधनानां तदभावश्चेति ॥ एवमोजपदे वृत्तानि प्रदर्श्य
युग्मे पदे वृत्तानि भूवायोः कक्ष्याप्रमाणञ्च नवमसूत्रेणाह।</p>
<lg>
  <l>मन्दात् ङ ख द ज डा वक्रिणां द्वितीये पदे चतुर्थे च।</l>
  <l>जा ण ल्क्त छ्ल क्नोच्चाच्छीघ्रात् गियिङ्श कुवायुकक्ष्यान्त्या ॥ <flag>१</flag> ॥</l>
</lg>
<p>वक्रिणां पूर्वसूत्रोदितानां बुधभृगुकुजगुरुशनीनां द्वितीये पदे चतुर्थे पदेच
मन्दात् मन्दगतिवशाज्जातानि मन्दवृत्तानि ङादीनि । बुधस्य ङ पञ्च । भृगोः
ख द्वे। कुजस्य द अष्टादश। गुरोः ज अष्टौ । शनेः डा त्रयोदश॥ पूर्वोक्तानां
शनिगुरुकुजभृगुबुधानां शीघ्रादुच्चाच्छीघ्रोच्चगतिवशाज्जातानि शीघ्रवृत्तानि जादीनि ।
तानि च द्वितीयचतुर्थपादयरुच्यन्ते । शनेः जा अष्टौ । गुरोः ङ पञ्चदश । कुजस्य
ल्क्त । क एकं । ल पञ्चाशत् । एकपञ्चाशत् । शुक्रस्य छ्ल । छ सप्त । ल
पञ्चाशत् । सप्तपञ्चाशत् । बुधस्य क्न । क नव । न विंशतिः । एकोनत्रिंशत् ।
अत्र द्वितीयचतुर्थपदोपदेशात्पूर्वोक्तानि प्रथमतृतीययोरिति चोक्तं भवति ॥ कु-
वायोर्भूसंबन्धिनो वायोरनियतगतेरन्त्या कक्ष्या पर्यन्तभवा कक्ष्या गिविङश
इति । गि शतत्रयं । यि सहस्रत्रयं । ङ पञ्च । श सप्ततिः । अत ऊर्ध्वं प्रवहो
नाम वायुर्नियतगतिस्सदा भवति येन ज्योतिश्चक्रमिदमपराभिमुखं भ्रमति ॥
दशमसूत्रेण कालक्रियागोलोपयोगानि ज्यार्धान्याह।
मखि भखि फखि धखि णखि ञखि ङखि हस्क <flag>स्वकि</flag> किष्ग श्घकि किध्व ।</p>
<pb n="36" />
<p>घ्लकि किग्र हक्य धाहा स्त स्ग श्क ङ्व ल्क प्त फ छ कलार्धज्याः ॥ १० ॥ [^*]
कलार्धज्याः कलात्मिका अर्धज्या इहोक्ता इत्यर्थः । समस्तज्या अर्धज्येति द्वि-
विधा हि जीवा । चापाकारस्य वृत्तपरिधिभागस्यैकाग्रादपराग्रान्तगता रेखा
समस्तज्येत्युच्यते । तदर्धमर्धज्येत्युच्यते । गोलकालक्रिययोरर्धज्यैव हि प्रायेण
व्यवहारः। तस्मादिहार्धज्याप्रदर्शनं क्रियते । चतुर्विंशतिजीवा इह पठिताः ।
अतो गोलपादस्व चतुर्विंशतिभागं चापं प्रकल्प्येह जीवाः कल्पिता इति
प्रदर्शितं भवति । श्राद्यजीवा मखि इति । पञ्चविंशत्यधिकशतद्वयं । भखि
चतुर्विंशत्यधिकशतद्वयं । एवमन्याश्च वेद्याः । अष्टमी <flag>हस्त</flag> इति । नवाङ्कैकाः ।
स्वकि चन्द्राङ्कैकाः । किष्ग त्रिवसुचन्द्राः । श्घकि वेदाद्चेकाः । किघ्व वेदषडेकाः ।
घ्लकि वेदेष्विन्दवः। किग्र त्रिमनवः । हक्य एकाग्निचन्द्राः । धाहा नवरुद्राः ।
स्त षड्दश । स्ग त्र्यङ्काः । श्क नवाद्रयः । ङ्व पञ्चरसा: । ल्क एकेषवः । प्त
सप्ताग्नयः। फ <flag>यश्विनः</flag>। छ सप्त ॥ अत्रैकचापोत्था जीवया रहिता द्वितीयज्या ।
चापत्रयोत्थजीवा चापद्वयोत्थजीवया रहिता तृतीयज्या । एवं परा अपि ज्ञेयाः ।
यद्यप्यर्धज्या एता युक्तितस्साध्यास्तथापि तासां बहुषु साधनवादिहोपदेशः कृत
इति बोद्चव्यं ॥ दशगीतिकासूत्रपरिज्ञानस्य फलमाह ।</p>
<lg>
  <l>दशगीतिकासूत्रमिदं भूग्रहचरितं भपञ्जरे ज्ञात्वा ।</l>
  <l>ग्रहभगणपरिभ्रमणां स याति भित्त्वा परं ब्रह्म ॥ ११ ॥</l>
</lg>
<p>---
[^*] अस्मिन्सूत्रे वृत्तभङ्ग उपलभ्यते । अतः प्रकाशिकापाठो धह इच् स्ग इत्यादिः शोभनपाठः।</p>
<pb n="37" />
<p>भूमेर्ग्रहाणाञ्च चरितं यस्मिन्दशगीतिकासूत्रे तद्दशगीतिकासूत्रं । भपञ्जरे ज्ञात्वा ।
गोले ज्ञात्वा। भपञ्जरमध्ये भूस्तिष्ठति । चन्द्रादिमन्दान्ता ग्रहास्स्वगत्या प्राङ्मुखं
चरन्तो ज्योतिश्चक्रगत्यापराभिमुखं भ्रमन्ति । तत उपरि स्वतोगतिहोनं नक्षत्र-
मण्डलमपराभिमुखं भ्रमति । इत्यादि ज्ञात्वेत्यर्थः । स पुरो गणितविदेवंविधं
ग्रहादिचरितं ज्ञात्वा ग्रहनक्षत्राणां मार्गं भित्वा परं ब्रह्म गच्छति ॥
---
इति पारमेश्वरिकायां भटदीपिकायां गीतिकापादः प्रथमः
---
एवं दशगीतिकात्मकेन प्रबन्धेनातीन्द्रियमर्थजातमुपदिश्येदानीं तन्मूलन्याया-
वसेयमर्थजातं प्रबन्धान्तरेण प्रदर्शयन्निष्टदेवतानमस्कारपूर्वं तदभिधानं प्रतिजानाति ।</p>
<lg>
  <l>ब्रह्मकुशशिबुधभृगुरविकुजगुरुकोणभगणान्नमस्कृत्य ।</l>
  <l>आर्यभटस्त्विह निगदति कुसुमपुरे ऽभ्यर्चितं ज्ञानं ॥१॥</l>
</lg>
<p>ब्रह्मभूमिग्रहनक्षत्रगणान्नमस्कृत्य कुसुमपुरे कुसुमपुराख्ये ऽस्मिन्देशे। अभ्यर्चितं
ज्ञानं कुसुमपुरवासिभिः पूजितं ग्रहगतिज्ञानसाधनभूतं तन्त्रमार्यभटो निगदति ।
[कुसुमपुरे ऽभ्यर्चितमित्यनेन]॥ कालक्रियागोलयोर्गणितगम्यत्वात्प्रथमं गणि-
तपादं प्रतिपादयिष्यन्नादितो दशानां स्थानानां संज्ञास्संख्यालक्षणञ्चाह ।
एकं दश च शतञ्च सहस्रमयुतनियुते तथा प्रयुतं ।
कोट्यर्बुदञ्च वृन्दं स्थानात्स्थानं दशगुणं स्यात् ॥ २ ॥ [^*]
---
[^*] इहार्यापूर्वार्धे वृत्तभङ्ग उपलभ्यते । एकं दशायतु शतं सहस्रमिति पाठः सुद्धप्रायो भवेत्</p>
<pb n="38" />
<p>इति । स्पष्टार्थः । अनुक्ता संख्या शास्त्रान्तरादवगन्तव्येति भावः ॥ समचतु-
रश्रफलयोर्वर्गसंज्ञां वर्गस्व<flag>नू</flag>पञ्चार्यार्धेनाह ।
वर्गस्समचतुरश्रः फलञ्च सदृशद्वयस्य संवर्गः ।
यस्य चतुरश्रस्य क्षेत्रस्य चत्वारो बाहवः परस्परं समास्स्युः कर्णद्वयञ्च परस्परं
समं भवेत् तत्क्षेत्रं समचतुरश्रमित्युच्यते । स क्षेत्रविशेषो वर्गसंज्ञितो भवति ।
फलञ्च । तस्मिन् क्षेत्रे यत्क्षेत्रफलं भवति तदपि वर्गसंज्ञितं भवति । क्षेत्र-
फलसमुदायस्य वर्गसंज्ञा भवति । अभीष्टक्षेत्रस्यान्तर्भागे हस्तमितैश्चतुर्भिर्बाहु-
भिर्निष्पन्नानि यानि समचतुरश्राणि तानि क्षेत्रफलानीत्युच्यन्ते । एवं त्रिको-
णवृत्तादिक्षेत्रेष्वपि हस्तोन्मितचतुरश्रपरिकल्पनया जातानां चतुरश्रखण्डानां
फलसंज्ञा भवतीति वेद्यं । सदृशद्वयस्य संवर्गः । सदृशयोः परस्परतुल्ययोस्सं-
ख्ययोर्यस्संवर्गः परस्परहतिस्स वर्गसंज्ञो भवति । स्वस्य स्वसंख्यया हननं व-</p>
<lg>
  <l>र्गकर्मेत्युक्तं भवति ॥ उत्तरार्धेन घनमाह ।</l>
  <l>सदृशत्रयसंवर्गो घनस्तथा द्वादशाग्रस्स्यात् ॥ ३ ॥</l>
</lg>
<p>तुल्यसंख्यात्रयस्य संवर्गः परस्परहतिर्घनसंज्ञो भवति । स्वस्य स्वसंख्यया गुणि-
तस्य पुनरपि स्वसंख्यया हननं घनकर्मेत्युक्तं भवति । तथा द्वादशाश्रक्षेत्रञ्च
घनसंज्ञं भवति। एतदुक्तं भवति । हस्तोन्मितिदैर्घ्यविस्तृतेस्समचतुरश्रस्य स्त-
म्भादेर्यथा मूले तिर्यगायतानि चत्वार्यश्राणि भवन्ति । तथाग्रे चत्वारि । अधऊ-
र्ध्वगतानि चत्वारि । एवं द्वादशभिरश्रैर्युतं क्षेत्रञ्च घनसंज्ञं भवतीति । अत्र</p>
<pb n="39" />
<pb n="40" />
<pb n="41" />
<pb n="42" />
<pb n="43" />
<pb n="44" />
<pb n="45" />
<pb n="46" />
<pb n="47" />
<pb n="48" />
<pb n="49" />
<pb n="50" />
<pb n="51" />
<pb n="52" />
<pb n="53" />
<pb n="54" />
<pb n="55" />
<pb n="56" />
<pb n="57" />
<pb n="58" />
<pb n="59" />
<pb n="60" />
<pb n="61" />
<pb n="62" />
<pb n="63" />
<pb n="64" />
<pb n="65" />
<pb n="66" />
<pb n="67" />
<pb n="68" />
<pb n="69" />
<pb n="70" />
<pb n="71" />
<pb n="72" />
<pb n="73" />
<pb n="74" />
<pb n="75" />
<pb n="76" />
<pb n="77" />
<pb n="78" />
<pb n="79" />
<pb n="80" />
<pb n="81" />
<pb n="82" />
<pb n="83" />
<pb n="84" />
<pb n="85" />
<pb n="86" />
<pb n="87" />
<pb n="88" />
<pb n="89" />
<pb n="90" />
<pb n="91" />
<pb n="92" />
<pb n="93" />
<pb n="94" />
<pb n="95" />
<pb n="96" />
<pb n="97" />
<pb n="98" />
<pb n="99" />
<pb n="100" />
<pb n="101" />
<pb n="102" />
<pb n="103" />
<pb n="104" />
<pb n="105" />
<pb n="106" />
<pb n="107" />
<pb n="108" />
<pb n="109" />
<pb n="110" />
<pb n="111" />
<pb n="112" />
<pb n="113" />
<pb n="114" />
<pb n="115" />
<pb n="116" />
<pb n="117" />
<pb n="118" />
<pb n="119" />
<pb n="120" />
<p>-</p>
<pb n="121" />
<p>-</p>
<pb n="122" />
<p>-</p>
<pb n="123" />
<p>-</p>
<pb n="124" />
<p>-</p>
<pb n="125" />
<p>-</p>
<pb n="126" />
<p>-</p>
<pb n="127" />
<p>PRINTED BY E. J. BRILL, LEIDEN.</p>
<pb n="128" />
<p>-</p>
<pb n="129" />
<p>Printed by E. J. BRILL, Leiden.</p>
<pb n="130" />
<p>-</p>
<pb n="131" />
<p>-</p>
<pb n="132" />
<p>-</p>
<pb n="133" />
<p>-</p>
</body>
</text>
</TEI>