<?xml version="1.0" encoding="UTF-8"?>
<TEI xmlns="http://www.tei-c.org/ns/1.0">
<text>
<body>
<pb n="1" />
<p>tum
590
काव्यमाला १.
श्रीगोवर्धनाचार्यविरचिता
आर्यासप्तशती ।
या व्यङ्ग्यार्थदीपनाटीकया समेता ।
मूल्यं १॥ रूप्यकः ।
SGLE
Gangeswwi Digital Figuacion</p>
<pb n="2" />
<p>SGDF
Sri Gargeshwari Digital Foundation</p>
<pb n="3" />
<p>SGDF
Sri Gurgeshwori Digital Foundation</p>
<pb n="4" />
<p>SGDF
Su Gurgeshwari Digital Foundatio</p>
<pb n="5" />
<p>KÁVYAMÂLÂ. 1.
THE
ÂRYÂ-SAPTAS'ATÎ
OF
GOVARDHANACHÂRYA.
WITH
The Commentary (Vyangyârtha-dipaná)
OF
ANANTA-PANDIT.
EDITED BY
PANDIT DURGAPRASADA
AND
KAS'INATH PANDURANG PARAB.
Second Revised Edition.
PRINTED AND PUBLISHED
BY
TUKÂRÂM JAVAJÎ,
PROPRIETOR OF JAVAJI DADAJI's "NIRNAYA-SAGARA" PRESS.
BOMBAY.
1895.
Price 1 Rupee.
SGDF
Su Gargeshwan Digital Enendario</p>
<pb n="6" />
<p>103</p>
<p>(Registered according to act XXV of 1867.)
(All rights reserved by the publisher.)</p>
<p>SGDF
Sri Gargeshwari Digital Foundation</p>
<pb n="7" />
<p>काव्यमाला. १.
श्रीगोवर्धनाचार्यविरचिता
आर्यासप्तशती ।
अनन्तपण्डितकृतया व्यङ्गयार्थदीपनाटीकया समेता ।
जयपुरमहाराजाश्रितेन पण्डितव्रजलालसूनुना महामहोपाध्याय-
पण्डितदुर्गाप्रसादेन, मुम्बापुरवासिना परबोपाह-
पाण्डुरङ्गात्मज काशीनाथशर्मणा च
संशोधिता ।
सा च
द्वितीयं संस्करणम् ।
3
—</p>
<p>मुम्बय्यां निर्णयसागराख्ययन्त्रालये तदधिपतिना मुद्राक्षरैरङ्कयित्वा
प्राकाश्यं नीता ।
000
Itise
(अस्य ग्रन्थस्य पुनर्मुद्रणादिविषये सर्वथा निर्णयसागरमुद्रायुवालुर्याधिपते
रेवाधिकारः ।)
F.I.
CON
मूल्यं सार्धो रूप्यकः ।
SCDF</p>
<pb n="8" />
<p>SGDF</p>
<pb n="9" />
<p>काव्यमाला ।
[^१]श्रीगोवर्धनाचार्यविरचिता
आर्यासप्तशती ।
[^२]अनन्तपण्डितकृतया व्यङ्ग्यार्थदीपनाख्यया व्याख्ययानुगता ।
ग्रन्थारम्भव्रज्या ।</p>
<lg>
  <l>सर्वे साधुजनाः सदायतहृदा सत्संप्रदायादलं</l>
  <l>यज्ज्ञानाय कणादगौतममतान्यालोच्य तत्त्वार्थदान् ।</l>
  <l>वेदान्तान्परिशीलयन्ति रहसि खानन्दकन्दाकरं</l>
  <l>वन्दे तं जगदीश्वरं दयितया सानन्दमालिङ्गितम् ॥</l>
</lg>
<lg>
  <l>यत्पादाम्बुजमब्जभूप्रभृतयो देवाः सदैवान्तरे</l>
  <l>ध्यायन्ति ग्लपयन्ति दुःखनिवहं लीलामनुष्याकृतिम् ।</l>
  <l>फुल्लेन्दीवरमित्त्रनेत्रमतसीपुष्पावभासं लस-</l>
  <l>च्छ्रीरामं कलयामि चेतसि चिरं चैतन्यमात्रात्मकम् ॥</l>
</lg>
<lg>
  <l>पञ्चाशद्वर्णभेदैरपरिमिततरैरर्थजातिश्च युक्ता</l>
  <l>नानालंकाररम्या गणितगुणगणा साधुवृत्तैरुपेता ।</l>
  <l>वाक्सृष्टिर्यत्प्रसादात्प्रसरति रसनोपान्तदेशे निमेषा-</l>
  <l>न्नित्यं चित्तेऽनुरक्ते वसतु मम सुखं भारती सा रसाढ्या ॥</l>
</lg>
<lg>
  <l>गोवर्धनोक्तिसुखदाननिदानमेतद्व्यङ्ग्यार्थदीपनमनल्पचमत्कृतीनाम् ।</l>
  <l>भूयादनन्तविबुधेन विधीयमानं प्रीत्यै सदा सकलपण्डितमण्डलीनाम् ॥</l>
</lg>
<p>-----------------------------------------------------------------------------------------
[^१]. गोवर्धनाचार्यसमयस्त्वद्यापि सभ्यङ्न ज्ञायते. परं त्वयं गीतगोविन्दकर्तुर्जयदेवा-
त्प्राचीनस्तत्समकालीनो वेति वक्तुं शक्यते, यतो जयदेवेन गीतगोविन्दप्रारम्भे 'शृङ्गा-
रोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि न विश्रुतः' इत्युक्तमस्ति. जयदेवकविश्च
वङ्गदेशाधिपस्य बल्लालसेनसूनोर्लक्ष्मणसेनस्य सभायामासीदिति श्रीसनातनगोस्वामिनां
मतम्. 'गोवर्धनश्च शरणो जयदेव उमापतिः । कविराजश्च रत्नानि समितौ लक्ष्मणस्य
च ॥' इत्ययं श्लोको लक्ष्मणसेनसभागृहद्वारोपरि शिलायामुत्कीर्ण आसीत्, तस्मा-
गोवर्धनजयदेवादयः सर्वेऽपि लक्ष्मणसेनसभायामासन्निति केचित्, लक्ष्मणसेनश्च ख्रि-
स्तसंवत्सरस्यैकादशशतकसमाप्तिपर्यन्तं वङ्गदेशं पालयामासेति केचिदितिहासविदः.
[^२]. सप्तशतीटीकाकारोऽनन्तपण्डितस्तु टीकासमाप्तौ स्वसमयं लिखितवानेव.</p>
<pb n="10" />
<lg>
  <l>आर्यार्थग्रहणे तावदार्या एवाधिकारिणः ।</l>
  <l>अतोऽत्र दृष्टिस्तैरेव कार्या नान्यैः कदाचन ॥</l>
</lg>
<lg>
  <l>गभीरार्थप्राप्तौ नियतवचसामाशयजुषां</l>
  <l>गुणालंकाराणां भवति घटना सत्वरतरम् ।</l>
  <l>अतो हेतोश्वेतो विपुलमतिना तत्र विषये</l>
  <l>नियोज्यं येनान्तः सततसुखसंबाधवसतिः ॥</l>
</lg>
<lg>
  <l>संत्यज्य दोषं गुण एव दृष्टिर्विधीयतामित्यफलं वचो मे ।</l>
  <l>विहाय नीरं सकलोऽपि हंसः पयः प्रगृह्णात्युपदेशतः किम् ॥</l>
</lg>
<p>विशिष्टशिष्टेष्टकर्तव्यतापत्तिप्राप्तमङ्गलमनुषङ्गतो व्याख्यातृश्रोतृमङ्गलायोपनिबध्नाति--</p>
<lg>
  <l>पाणिग्रहे पुलकितं वपुरैशं भूतिभूषितं जयति ।</l>
  <l>अङ्कुरित इव मनोभूर्यस्मिन्भस्मावशेषोऽपि ॥ १ ॥</l>
</lg>
<p>पाणिग्रह इति । भूतिभूषितं भस्मनालंकृतम् । भस्मनो भूषणत्वं मनोभवीयत्वेन ।
यत्तु 'भूत्यैश्वर्येण' इति व्याख्यानं तदैशमित्यनेन गतार्थत्वात्प्रकृतानुपयुक्तत्वाच्चोपेक्ष्यम् ।
पाणिग्रहे । अर्थादत्यन्तानुरक्तकामिन्याः । पुलकितं जातरोमाञ्चम् । सात्त्विकभावोद-
यादिति भावः । ऐशमीशसंबन्धि । चैत्रादिवदीशपदस्य कर्पूरगौरत्वादिमच्छरीरोपहि-
तात्मनि शक्तौ गौरवात्, लाघवात्तादृशशरीर एव शक्तत्वात्, नित्यज्ञानादिमदात्मनि
लक्षणा । यद्वा 'ईश ऐश्वर्ये' इति धातोरचि निष्पन्नेनेशपदेन शक्त्या जगत्कर्तृत्वाद्यै-
श्वर्यवत्त्वं बोध्यते । तत्संबन्धस्य शरीरान्तरे सत्त्वेऽपि भूतिभूषितविशेषणमहिम्ना
शंकरीयत्वमायाति वपुषि । एवं च मनोभूभस्मसंबन्धि सर्वोत्कर्षशालित्वयोग्यत्वं व्य-
ज्यते । वपुर्जयति । यद्वा भूतिभूषितमित्यनेन भूषणसामान्याभावप्रतिपादनेऽपि सर्वो-
त्कर्षशालत्वे देवीपाणिग्रहणजन्यपुलकवत्ता हेतुः । जयतीत्यनेनेशे सर्वोत्कर्षशालित्वप्रति-
पादनेन सर्वान्तर्गते स्वस्मिन्नपकर्षप्रतिपादनान्नतिरावेद्यते । भस्मावशेषोऽपि । एवं
चाङ्कुरीभावानर्हत्वेऽपि तद्भवनेन देवीपाणौ सुधारूपत्वमावेद्यते । मनोभूः । एवं च
मनसो बीजरूपताप्रतिपादनेन तस्यान्तर्गतत्वाद्वपुष्यङ्कुरवत्तायोग्यत्वं व्यज्यते । विशि-
ष्यानाकलनीयरूपस्यापि भवनयोग्यत्वेन वपुषि विशेषभवनयोग्यत्वं वा । यस्मिन्वपुष्य-
ङ्कुरित इव संजाताङ्कुर इवेति भस्मसंसर्गिरोमाञ्चेऽङ्कुरोत्प्रेक्षा । एवं च यथाङ्कुरसंजातम-
हत्तरतरुकिसलयकुसुमफलादिनान्यजनोपकारस्तथैतदङ्कुरभाविकुमारफलादिना तारक-
वधेन सकलजनोपकारो भवितेति ध्यन्यते । अत्राङ्कुरितत्वेन पाणिस्पर्शस्यामृतरूपत्वं
वस्तुना वस्तु व्यज्यते ॥</p>
<lg>
  <l>मा वम संवृणु विषमिदमिति सातङ्कं पितामहेनोक्तः ।</l>
  <l>प्रातर्जयति सलज्जः कज्जलमलिनाधरः शंभुः ॥ २ ॥</l>
</lg>
<p>मा वमेति । इदमित्यपलापानर्हत्वम् । अथवा जगद्विनाशविदितविभवत्वमिति व्य-</p>
<pb n="11" />
<p>ज्यते । विषं मा वम, किं तु संवृण्विति सातङ्कम् । सातङ्कत्वं च सकलजगद्विनाशे पुनस्त-
द्विधानदुष्करत्वविनिर्णयेन । पितामहेन । एवं च भ्रमयोग्यत्वं हरस्य च लज्जायो-
ग्यत्वं ध्वन्यते । प्रातरुक्तः । प्रातरित्यनेन कज्जले स्फुटयोग्यत्वं ध्वन्यते । अतः स-
लज्जः । न त्वपत्रपावान् । पितामहेन कज्जलत्वेनाज्ञानात् । कज्जलमलिनाधरः ।
नेत्रचुम्बनादिति भावः । शंभुः । एवं च कामिनीप्रीत्यतिशयशालित्वं द्योत्यते । जयति ।
पितामहसंत्रासजनकगरलगिलनेन, ब्रह्मणः प्रार्थनया, सुभगकामिनीरतचिह्नत्वेन वा ॥</p>
<lg>
  <l>जयति प्रियापदान्ते गरलग्रैवेयकः स्मरारातिः ।</l>
  <l>विषमविशिखे विशन्निव शरणं गलबद्धकरवालः ॥ ३ ॥</l>
</lg>
<p>जयतीति । गरलं ग्रैवेयकं कण्ठभूषा यस्य स स्मरारातिः प्रियापदान्ते जयति ।
एवं च कुपितकामिनीप्रसादनकर्तव्यतायाः परमपुरुषार्थत्वं व्यज्यते । गरलग्रैवेयेक इ-
त्यनेन जीवनायोग्यत्वम् । स्मरारातिरित्यनेन स्मरबाधावत्वेन क्वचिदपि सुखावस्थाना-
योग्यत्वं ध्वन्यते । एवं चैतादृशस्यापि सर्वोत्कर्षशालित्वे प्रियापदान्तेऽवस्थितिरेव
हेतुः । अतः प्रियापदान्तावस्थितेर्नान्यदधिकतरं वस्त्विति द्योत्यते । यद्वा गरलग्रैवे-
यक इत्यनेन जीवननिःस्पृहत्वम् । एवं चैतादृशस्यापि कुपितकामिनी प्रसादनलम्पटत्व-
म्, किमुतान्येषामिति ध्वन्यते । गलबद्धखङ्गः । विषमविशिखे । एवं च शरणार्हत्वं
व्यज्यते । शरणं विशन्निव गच्छन्निव । विषमविशिखे विशन्निवेत्युत्प्रेक्षया विषमवि-
शिखस्यापि प्रियापदसांनिध्येनाधिकत्वम्, किं पुनरन्यस्येति द्योत्यते । अत एव स्त्रीणां
चरणे मदन इति कामतन्त्रे । अन्योऽपि शस्त्रं गले बद्ध्वा शरणं गच्छतीति लौकिकम् ॥</p>
<lg>
  <l>जयति ललाटकटाक्षः शशिमौले: पक्ष्मलः प्रियाप्रणतौ ।</l>
  <l>धनुषि स्मरेण निहितः सकण्टकः केतकेषुरिव ॥ ४ ॥</l>
</lg>
<p>जयतीति । शशिमौले: । एवं च सकलङ्कस्याप्येतादृशादरसंपादनेन संतापातिभी-
रुत्वं ध्वन्यते । तेन च कुपितकामिनीप्रसादनेऽवश्यकर्तव्यत्वम् । पक्ष्मलः प्रशस्तपक्ष्मवा-
न् । पक्ष्मलपदं केतकोत्प्रेक्षादार्ढ्याय । ललाटकटाक्षः । एवं च भ्रूमध्यसंबन्धित्वं द्यो-
त्यते । तेन च धनुर्निहितबाणोत्प्रेक्षादार्ढ्यम् । प्रियाप्रणतौ । प्रियाविषयकहरप्रणतौ
सत्यां जयति । चाटुवचनाद्यसाध्य मानापनोदकार्यकारित्वेनेति भावः । स्मरेण सकण्ट-
कः । एवं च निःसरणानर्हत्वं ध्वन्यते । धनुषि निहितः । न तु शीघ्रं परित्यक्तः ।
एवं च मुष्टिबन्धनदार्ढ्येन भेदविशेषकारित्वम् । तेन च मानलक्ष्यभङ्गेऽतिशीघ्रविधेयत्वं
ध्वन्यते । केतकेषुरिव । स्मरस्य पुष्पसायकत्वादिति भावः । एवं च मानापनोदनत्वं
व्यज्यते । केचित्तु प्रियाकर्तृकसेवाप्रणतौ समान्मथविकारललाटकटाक्षो जयतीत्यपि
बदन्ति ।</p>
<lg>
  <l>जयति जटाकिंजल्कं गङ्गामधु मुण्डवलयबीजमयम् ।</l>
  <l>गलगरलपङ्कसंभवमम्भोरुहमाननं शंभोः ॥ ५ ॥</l>
</lg>
<pb n="12" />
<p>जयतीति । जटाः किंजल्कानि यत्रेति रूपकम् । एवमग्रेऽपि ॥</p>
<lg>
  <l>संध्यासलिलाञ्जलिमपि कङ्कणफणिपीयमानमविजानन् ।</l>
  <l>गौरीमुखार्पितमना विजयाहसितः शिवो जयति ॥ ६ ॥</l>
</lg>
<p>संध्येति । कङ्कणरूपफणिपीयमानमपि । कङ्कणपदेन प्रात्यक्षिकत्वं ध्वन्यते । फणि-
पदेन भूषणयोग्यत्वं ध्वन्यते । पीयमानमित्यनेन ज्ञानयोग्यत्वं ध्वन्यते । संध्यासलिला-
ञ्जलिम् । राजदन्तादिवदञ्जलेः सलिलमिति समासः । संध्यापदेन तदेकचित्तावश्यकत्वं
व्यज्यते । अञ्जलिपदेन भूयस्त्वं द्योत्यते । तेन च तत्पानस्य विलम्बसाध्यत्वेनावश्यज्ञेय-
त्वम् । अविजानन् । अत्र हेतुमाह--गौरीमुखार्पितमनाः । गौरीत्यनेन मनःसंलग्नतायो-
ग्यत्वं मुखे ध्वन्यते । अर्पितपदेन ग्रहणायोग्यत्वं ध्वन्यते । एवं चैतादृशविषयज्ञाना-
भावेनात्यन्तासक्तिर्गौर्यो गिरिशस्य व्यज्यते । अत एव । विजया गौरीसखी तया ह-
सितः शिवो जयति । एतादृशपरिहासस्याप्युत्कर्षाधायकत्वादिति भावः ॥</p>
<lg>
  <l>प्रतिबिम्बितगौरीमुखविलोकनोत्कम्पशिथिलकरगलितः ।</l>
  <l>स्वेदभरपूर्यमाणः शंभोः सलिलाञ्जलिर्जयति ॥ ७ ॥</l>
</lg>
<p>प्रतीति । सलिलाञ्जलिर्जयति । एवं चाञ्जलिजलप्रतिबिम्बितगौरीवदनविलोकनसं-
जातकम्परूपसात्त्विकभावविश्लथकरगलितत्वेऽपि स्वेदरूपसात्त्विकभावभराकस्मिकपूर-
णात्सर्वोत्कर्षशालित्वमिति भावः ॥</p>
<lg>
  <l>प्रणयकुपितप्रियापदलाक्षासंध्यानुबन्धमधुरेन्दुः।</l>
  <l>तद्वलयकनकनिकषग्रावग्रीवः शिवो जयति ॥ ८ ॥</l>
</lg>
<p>प्रणयेति । प्रणयेन न वास्तवं कुपिता या प्रिया । एवं च चरणप्रणामयोग्यत्वं ध्व-
न्यते । तस्याश्चरणलाक्षारूपसंध्यासंबन्धसुन्दरश्चन्द्रो यस्य । तस्याः पार्वत्याः कङ्कणक-
नकस्य निकषोपलरूपा ग्रीवा यस्य । एवं च मानापनोदनात्कण्ठपुरःसरमालिङ्गनादि
ध्वन्यते । एतादृशः शिवो जयति । प्रियाप्रसादादिति भावः । स्वकार्योद्देशविहितप्रि-
याप्रणामेन संध्याचन्द्रमसोरपि सङ्गसंपादनादयासेन परोपकारित्वलाभादिति भावः ॥</p>
<lg>
  <l>पूर्णनखेन्दुर्द्विगुणितमञ्जीरा प्रेमशृङ्खला जयति ।</l>
  <l>हरशशिलेखा गौरीचरणाङ्गुलिमध्यगुल्फेषु ॥ ९ ॥</l>
</lg>
<p>पूर्णेति । गौर्यावरणाङ्गलिमध्यगुल्फेषु । अत्र मध्यस्याङ्गत्वाभावान्नैकवद्भावः । मध्य-
मपदलोपी समासो वा । पूर्णो नखेन्दुर्यया । पूर्वं नखस्यार्धचन्द्रत्वादिति भावः । द्वि-
गुणीकृतं मञ्जीरं यया । पूर्वं मञ्जीरस्यैकगुणत्वादिति भावः । प्रेम्णः शृङ्खला यया । पूर्वं
सुवर्णाभरणान्तरवत्त्वेऽपि प्रेमस्थितिसंपादकाभिनवभूषणत्वादिति भावः । एवं च यथा
यथा मानापनोदनं तथा तथा शिरश्चरणसंयोगोऽधिकतरः संवृत्त इति भावः । एवं च</p>
<pb n="13" />
<p>सहसा मानिनीचरणे मस्तकस्थापनेऽपि भीतिरावेद्यते । एतादृशी हरचन्द्रलेखा जयति ।
युगपदनेककार्यसंपादनादिति भावः ॥</p>
<lg>
  <l>श्रीकरपिहितं चक्षुः सुखयतु वः पुण्डरीकनयनस्य ।</l>
  <l>जघनमिवेक्षितुमागतमब्जनिभं नाभिसुषिरेण ॥ १० ॥</l>
</lg>
<p>श्रीकरेति । पुण्डरीकनयनस्य विष्णोः । श्रीकरपिहितम् । रतरीतिवसनविहीनतया
लजावशादिति भावः । श्रियः करेण । न तु श्रिया । आनन्दाविर्भावादिति भावः ।
अत एव करोतीति कर इति करपदमन्वर्थम् । ततो नाभिरन्ध्रेण । सुषिरपदमन्यानव-
लोकनीयत्वं व्यनक्ति । जघनमीक्षितुमागतमिवेत्युत्प्रेक्षा । एवं च लक्ष्मीजघनदर्शन-
लालसत्वं व्यज्यते । पिधानानर्थक्यं च । अब्जसदृशम् । एवं च नाभिकमलभ्रान्त्या पि-
धानायोग्यत्वमावेद्यते । चक्षुर्वो युष्मान्सुखयतु । पिहितेऽपि हि गोलकेऽन्यमार्गेणाग-
त्य जघनविलोकनकारितया सुखलम्पटत्वेन सुखदानस्य सुखप्राप्तिनिदानतयान्यस्य सुख-
जनकत्वं तस्येति भावः । नन्वत्र पुण्डरीकनयनस्येत्यनेन कमलसादृश्यसिद्धावब्जनि-
भमित्यस्य न तथा प्रयोजनमिति चेन्न । पुण्डरीकनयन इत्यत्र रूढिरेव । यद्वाब्जपदस्य
वक्रतात्पर्यान्यथानुपपत्त्या रक्ताब्जे लक्षणा । एवं च लक्ष्म्याः सिताम्भोजत्वेन नेत्र-
ज्ञानेऽपि रक्ताम्भोजत्वेनाज्ञानात् । तद्रूपाङ्गीकारेण निभृतमार्गेणागमनेन जघनदर्शनका-
रित्वेऽपि न श्रीकरपिहितत्वमिति व्यज्यते । अन्योऽप्यत्यन्तलम्पटो रूपान्तरेण निभृत-
मार्गेण च गत्वा स्वकार्ये साधयतीति लौकिकम् । केचित्तु रत्नमित्युक्ते रक्तरत्नमेवा-
ब्जमित्युक्ते रक्ताब्जमेवोपलक्ष्यते कविसंप्रदायादिति वदन्ति ॥</p>
<lg>
  <l>श्यामं श्रीकुचकुङ्कुमपिञ्जरितमुरो मुरद्विषो जयति ।</l>
  <l>दिनमुखनभ इव कौस्तुभविभाकरो यद्विभूषयति ॥ ११ ॥</l>
</lg>
<p>श्याममिति । श्यामम् । विष्णोः श्यामत्वादिति भावः । श्रीकुचकुङ्कुमपिञ्जरितम् ।
एवं च दृढालिङ्गनमभिव्यज्यते । तन्मुरद्विष उरः । एवं च कठिनत्वमुरसि व्यज्यते ।
तेन च श्रीकठिनकुचकुम्भसंघट्टनसहिष्णुत्वम् । जयति । सर्वोत्कर्षे लक्ष्मीदृढालिङ्गनं
हेतुः । दिनमुखनभ इव । प्रातःकालीननभसः स्वतो नीलिमवत्त्वात्संध्यासंवलितत्वाच्च
तथाविधोरसः सादृश्यम् । कौस्तुभ एव विभाकरः । पक्षे कौस्तुभवद्विभाकरः सूर्यः ।
यदुरो विभूषयति । एवं च त्रिभुवनाधिपतेर्निरीहस्यापि कौस्तुभाभरणधारणमुदरवर्त्य-
नेकलोकयुगपत्प्रकाशविश्रान्तिविधाननिदानतां ध्वनयति । एवं च विभाकरादतिशयो
व्यज्यते कौस्तुभे ॥</p>
<lg>
  <l>प्रतिबिम्बितप्रियातनु सकौस्तुभं जयति मधुभिदो वक्षः ।</l>
  <l>पुरुषायितमभ्यस्यति लक्ष्मीर्यद्वीक्ष्य मुकुरमिव ॥ १२ ॥</l>
</lg>
<p>प्रतीति । सकौस्तुभम् । अत एव प्रतिबिम्बिता प्रियायास्तनुर्यत्र । यन्मुकुरमिव
वीक्ष्य लक्ष्मीः पुरुषायितं विपरीतरतमभ्यस्यति । तन्मधुभिदो वक्षः । एवं च दार्ढ्य-</p>
<pb n="14" />
<p>मावेद्यते स्वच्छताविशेषो वा । जयति । लक्ष्म्याः पुरुषायिताभ्यासनिदानतैव सर्वोत्कर्षे
हेतुः । अन्योऽप्यादर्शे प्रतिबिम्बमवलोक्यैवान्यानवलोकनीयचेष्टाविशेषाभ्यासं करो-
तीति लौकिकम् ॥</p>
<lg>
  <l>केलिचलाङ्गुलिलम्भितलक्ष्मीनाभिर्मुरद्विषश्चरणः ।</l>
  <l>स जयति येन कृता श्रीरनुरूपा पद्मनाभस्य ॥ १३ ॥</l>
</lg>
<p>केलीति । क्रीडाचपलाङ्गुल्या लम्भितः स्पृष्टो लक्ष्म्याः । चरणसेवाकारिण्या इति
भावः । नाभिर्येन । अत एव येन श्रीः पद्मानाभस्यानुरूपा । चरणरूपपद्मनाभित्वेनेति
भावः । कृता । स मुरद्विषश्चरणो जयति । ब्रह्मणोऽप्यसाध्यकार्यकरणादिति भावः ॥</p>
<lg>
  <l>रोमावली मुरारे: श्रीवत्सनिषेविताग्रभागा वः ।</l>
  <l>उन्नालनाभिनलिनच्छायेवोत्तापमपहरतु ॥ १४ ॥</l>
</lg>
<p>रोमावलीति । मुरारेः । एवं च सामर्थ्यमभिव्यज्यते । तेन च तद्वत्त्वेऽपि भृगुचरण-
हननसहिष्णुत्वेन क्षमातिक्षयत्वम् । श्रीवत्सेन भृगुचरणचिह्नेन निषेवितः । तत्संबन्ध-
वानित्यर्थः । अग्रभागो यस्याः सा । एतादृशी रोमावली । उदूर्ध्वे नालं यस्यैवंभूतं य-
न्नाभिनलिनं तच्छायेव । एवं च रोमावल्यां नालच्छायोत्प्रेक्षा श्रीवत्से च नलिनच्छा-
योत्प्रेक्षेति भावः । उत्तापं महासंतापमपहरतु । कमलच्छायायाः संतापापनोदकत्वा-
दिति भावः ॥</p>
<lg>
  <l>आदाय सप्ततन्त्रीचितां विपञ्चीमिव त्रयीं गायन् ।</l>
  <l>मधुरं तुरंगवदनोचितं हरिर्जयति हयमूर्धा ॥ १५ ॥</l>
</lg>
<p>आदायेति । सप्तसंख्याकानां तन्त्राणामग्निष्टोमादीनां समाहारः सप्ततन्त्री । तद्व्या-
ताम् । तत्प्रतिपादनपरामिति यावत् । 'तन्त्रं प्रधाने यागे च' इति विश्वः । पक्षे तन्त्री
लोहतन्तुविशेषः । त्रयीं विपञ्चीमिवादाय मधुरं तुरंगवदनानां गन्धर्वाणामुचितं योग्यम् ।
एवं चैतादृशगानकर्तृत्वाभावस्तेषामिति व्यज्यते । गायन् । हयमूर्धा हयग्रीवः । एवं च
तुरंगवदनोचितगानकर्तृत्वम् । हरिर्जयति । एतादृशविलक्षणगानगुणरूपवत्त्वादिति भावः॥</p>
<lg>
  <l>स जयति महावराहो जलनिधिजठरे चिरं निमग्नापि ।</l>
  <l>येनान्त्रैरिव सह फणिगणैर्बलादुद्धृता धरणी ॥ १६ ॥</l>
</lg>
<p>सेति । येन जलनिधिजठरे । डलयोरैक्याज्जडनिधित्वेन धरणीस्थानदानयोग्यत्वम् ।
चिरमित्यनेन झटिति निःसारणायोग्यत्वं व्यज्यते । निमग्नापि । अन्त्रैरिवाहिसमूहैः
सह बलात्कारेण धरण्युद्धृता । स महावराहः । एवं चैतद्दंष्ट्राया अन्ते दृढत्ववक्रत्वा-
भ्यां जठरान्तर्गतत्वेनान्त्ररूपफणिसमूहसहितधरोद्धारसामर्थ्यमुचितमिति व्यज्यते ।
जयति । अनन्यसाध्यकार्यकरणादिति भावः ॥</p>
<pb n="15" />
<lg>
  <l>ब्रह्माण्डकुम्भकारं भुजगाकारं जनार्दनं नौमि ।</l>
  <l>स्फारे यत्फणचक्रे धरा शरावश्रियं वहति ॥ १७ ॥</l>
</lg>
<p>ब्रह्माण्डमिति । ब्रह्माण्डं कुम्भस्तं करोतीति तम् । एवं च यथा कुम्भकारस्य कु-
म्भकरणे न क्लेशस्तथास्य ब्रह्माण्डकरण इति व्यज्यते । भुजगस्याकार इवाकारो यस्य
तम् । एवं च वास्तवैतद्रूपं याथातथ्येन निर्णेतुमशक्यमिति व्यज्यते । जनार्दनम् । एवं
चैतद्भीतिरवश्यं विधेयेति ध्वन्यते । तेन चैतदाज्ञा नोल्लङ्घनीयेति । स्फारे । एवं च ध-
राशरावश्रीसंपादनयोग्यत्वं द्योत्यते । यस्य फणासमूहे धरा । एवं च महत्तरत्वं व्य-
ज्यते । शरावस्य स्वल्पमृद्भाजनविशेषस्य श्रियं वहति । तत्तुल्या दृश्यत इति भावः ।
एवं च परमेश्वरभुजगरूपस्यातिविशालत्वं ध्वन्यते । अन्यस्यापि कुलालस्य चक्रे श-
रावो भवतीति लौकिकम् । अत्र धरा शरावश्रियं वहतीत्येतावतैव फणचक्रे स्फारत्व-
सिद्धावुत्तमकाव्यत्वे स्फारपदोपादानमनुचितमित्याभाति ॥</p>
<lg>
  <l>चण्डीजङ्घाकाण्डः शिरसा चरणस्पृशि प्रिये जयति ।</l>
  <l>शंकरपर्यन्तजितो विजयस्तम्भः स्मरस्येव ॥ १८ ॥</l>
</lg>
<p>चण्डीति । प्रिये शंकरे शिरसा चरणस्पृशि कोपापनोदनाय प्रणतिकारिणि सति शं-
करमभिव्याप्य जयवतः स्मरस्य जयस्तम्भ इव चण्डीजङ्घारूपः काण्डो वंशो जयति ।</p>
<lg>
  <l>स्वतः सुखविशेषजनकतया तुच्छविषयपराङ्मुखस्याप्येतादृश्यवस्थासंपादनादिति भावः ।</l>
  <l>एवं चैहिकामुष्मिकसुखापेक्षया सीमन्तिनीसङ्गसुखेऽधिकतरत्वमावेद्यते ॥</l>
</lg>
<lg>
  <l>उन्नालनाभिपङ्केरुह इव येनावभाति शंभुरपि ।</l>
  <l>जयति पुरुषायितायास्तदाननं शैलकन्यायाः ॥ १९ ॥</l>
</lg>
<p>उन्नालेति । येन शंभुरपि । अपिना विष्णोरनवतारत्वेन नाभिपङ्केरुहवत्त्वायोग्यत्वं
व्यज्यते । ऊर्ध्वनालं यन्नाभिपङ्केरुहं तद्वानिव । यद्वा विष्णुरिवेत्यर्थः । एवं च शरी-
रस्य नालसाम्यदर्शनात्कृशाङ्गीत्वमभिव्यज्यते । अवभाति । पुरुषायितायाः शैलकन्या-
याः । एवं च दार्ढ्यम् । तेन पुरुषायितसंपादनयोग्यत्वं ध्वन्यते । तदाननं जयति । अ-
घटितघटनापटुत्वादिति भावः ॥</p>
<lg>
  <l>अङ्कनिलीनगजाननशङ्काकुलबाहुलेयहृतवसनौ ।</l>
  <l>सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः ॥ २० ॥</l>
</lg>
<p>अङ्केति । अङ्के निलीनो यो गजाननस्तच्छङ्कया । स्तनयोः कुम्भिकुम्भसाम्यादिति
भावः । आकुलः । कथं मां विहायैनमेव संगोप्य बहुकालं स्तन्यं प्रयच्छतीति धियेति
भावः । यद्वा नयनपिधानक्रीडायां गजाननोऽङ्क एव निलीनो न त्वन्यत्र गत इति
मत्वेति भावः । आकुलपदेन शीघ्रमविचारितकार्यकारित्वं व्यज्यते । यो बाहुलेयस्ता-
रकजित्तेन हृतवसनौ । गजानननिर्णयार्थमिति भावः । सस्मितः । कथमतिगुप्तयोरप्या-</p>
<pb n="16" />
<p>कस्मिकप्राकट्यमिति धियेति भावः । यो हरः । एवं च स्वत एव वसनहरणादिना
तत्कार्यकारित्वं ध्वन्यते । तेन करकलितौ । करोतीति कर इति स्वतस्तत्कार्यकारि-
त्वेऽपि हरप्रहितत्वेनाकलने दार्ढ्यं द्योयते । हिमगिरितनयायाः । एवं च शैत्यसहितक-
ठिनत्वं द्योत्यते । तेन चावश्यकरकलनयोग्यत्वम् । अत एव हरोऽतिस्मेर इत्यपि यु-
क्तम् । स्तनौ जयतः । भ्रमवतान्येनाविष्कृतत्वेऽप्यन्यस्य सुखसंपादनादिति भावः ।
यद्वा गजाननशिखिवाहनयोः सकलविघ्ननिवारकत्वकार्यमात्रपुरस्करणीयत्वात्तारकव-
धद्वारकविश्वसंतोषपोषकत्वनिदानस्तन्यवत्त्वादिति भावः । यद्वा स्मरविरोधिनोऽप्या-
नन्दजनकत्वादिति भावः ॥</p>
<lg>
  <l>कण्ठोचितोऽपि हुंकृतिमात्रनिरस्तः पदान्तिके पतितः ।</l>
  <l>यस्याश्चन्द्रशिखः स्मरभल्लनिभो जयति सा चण्डी ॥ २१ ॥</l>
</lg>
<p>कण्ठोचित इति । आलिङ्गनार्होऽपि । पक्षेऽर्धचन्द्राकारतया कण्ठलक्ष्ययोग्यो-
ऽपि । हुंकृतिमात्रेण, न तु करतर्जनादिना । पक्षे बाणादिना । निरस्तः । अत एव
यस्याः पदान्तिके । प्रणामार्थमिति भावः । पक्षे वेगवशादिति भावः । स्मरशरसदृ-
शः । अर्धचन्द्रशेखरत्वादिति भावः । स्मरभल्लनिभ इत्यनेन मानापनोदनसमर्थत्वं द्यो-
त्यते । यद्वा स्मरभल्लस्य निभं छद्म । 'निभं छद्मसदृक्षयोः' इत्यभिधानात् । एवं च
रूपान्तरसंपादनाद्भीत्यतिशयो द्योत्यते । चन्द्रशिखः शंभुः पतितः । चन्द्रशिख इत्यने-
नोद्दीपकचन्द्रस्यापि मानापनोदकत्वान्माने बाहुल्यमभिव्यज्यते । सा चण्डी जयति ।
मदनार्धनाराचादीनामप्यगणनादिति भावः ॥</p>
<lg>
  <l>देवेऽर्पितवरणत्रजि बहुमाये वहति कैटभीरूपम् ।</l>
  <l>जयति सुरासुरहसिता लज्जाजिह्मेक्षणा लक्ष्मीः ॥ २२ ॥</l>
</lg>
<p>देव इति । अर्पितवरणस्रजि । एवं च सङ्गाद्यभावेन तात्त्विकरूपापरिचयो द्योत्यते ।
बहुमाये । एवं च रूपान्तरग्रहणसामर्थ्यमभिव्यज्यते । देवे विष्णौ । देवपदेन क्रीडारसि-
कतयानेकविधदेहधारणनिपुणत्वमावेद्यते । कैटभीरूपम् । दैत्यवञ्चनायेति भावः । व-
हति सति । एवं च प्रात्यक्षिकत्वेनापलापानर्हत्वं व्यज्यते । सुरासुरहसिता । कथं स-
र्वान्सुरान्विहायायमीदृशो वृत इति । अत एव लज्जाकुटिलेक्षणा । किमियं कामिन्येव
पुरुषभ्रमान्मया वृतेति धियेति भावः । लक्ष्मीर्जयति । सर्वोपहासवत्त्वेऽप्यधैर्याकरणा-
दिति भावः ॥</p>
<lg>
  <l>तानसुरानपि हरिमपि तं वन्दे कपटकैटभीरूपम् ।</l>
  <l>यैर्यद्बिम्बाघरमधुलुब्धैः पीयूषमपि मुमुचे ॥ २३ ॥</l>
</lg>
<p>तानिति । तान्सकपटत्वेन प्रसिद्धानसुरानपि । सुष्ठु रान्ति ते सुरास्तद्भिन्नान्सर्वदा-
समीचीनग्राहकानपि वन्दे । पीयूषादप्यधिकमेतस्या अधरामृतमिति तात्त्विकज्ञानेन</p>
<pb n="17" />
<p>समीचीनवस्तुग्राहकत्वादिति भावः । तं कपटशून्यत्वेन प्रसिद्धं कपटकैटभीरूपं हरिमपि
वन्दे । कपटाज्ञानेsपि कपटाकरदैत्यवञ्चनानिपुणकपटरूपधारणादिति भावः । यैरसु-
रैर्यस्याः कैटभ्या लक्ष्म्या अधरमधुनि लुब्धैः । मधुपदमुन्मादजनकतां व्यनक्ति । पी-
यूषमपि । एवं च परित्यागानर्हत्वेऽपि तत्करणेन कैटभीरूपे विशेषशालित्वं ध्वन्यते ॥</p>
<lg>
  <l>तल्पीकृताहिरगणितगरुडो हाराभिहतविधिर्जयति ।</l>
  <l>फणशतपीतश्वासो रागान्धायाः श्रियः केलिः ॥ २४ ॥</l>
</lg>
<p>तल्पीति । तल्पीकृताहिः । एवं च सर्पबाधाया अप्यगणनेन रागातिशयो व्यज्यते ।
अगणितगरुडः । एवं च सर्वत्र गमनयोग्यत्वेन पक्षित्वेन विवेकशून्यतया वान्यत्रैतत्कथ-
नयोग्यत्वेऽप्येतदगणनयापि स एव द्योत्यते । हाराभिहतविधिः । हारस्य नाभिसंबन्धा-
दिति भावः । आलिङ्गनान्तरभूतस्य त्यागार्हत्वेऽपि तदुपर्येव प्रक्षेपेण केलिज्ञानसंपादनेन
लज्जाशून्यत्वेन स एव द्योत्यते । यद्वा कथमद्यापि नापसरतीति क्रोधान्निकटवर्तिहा-
राभिहननेन हारापायभीतिशून्यत्वेन, अयं च हननक्रोधात्कुत्र कुत्र न वदिष्यतीति
ज्ञानहीनतया स एवावेद्यते । शतसंख्याहिफणपीतश्वासः । एवं च संख्यायाः पाना-
न्वयो न संभवतीति दूषणमपास्तम् । एवं च मरणभीतिशून्यत्वेन स एव ध्वन्यते । एवं-
विधो रागान्धायाः केलिः । एवं चान्याभिरङ्गनाभिर्यद्रागप्रकटनं क्रियते तन्मिथ्येति
भावः । जयति । एतादृशप्रतिबन्धकसमूहेऽपि जायमानत्वादिति भावः । अत्र तल्पी-
कृताहिरित्यादिना व्यञ्जनया रागातिशयप्रतिपादनाद्रागान्धाया इत्यस्य न तथा प्रयोजन-
मित्याभाति ॥</p>
<lg>
  <l>स्मेराननेन हरिणा सस्पृहमाकारवेदिनाकलितम् ।</l>
  <l>जयति पुरुषायितायाः कमलायाः कैटभीध्यानम् ॥ २५ ॥</l>
</lg>
<p>स्मेरेति । स्मेरं किंचिद्धास्यवत् । सुखविशेषाविर्भावादिति भावः । यदाननम् । अ-
र्थाल्लक्ष्म्याः । तेन कृत्वाकारवेदिना स्मेराननरूपज्ञापकज्ञानवता हरिणाकलितमनुमितम् ।
स्मेराननेनेति हरिणेत्यस्यापि विशेषणम् । विपरीतरतकारिण्याः श्रियः सस्पृहम् । एवं
च स्वस्यापि सुन्दरत्वेऽपि तद्विषयस्पृहावत्त्वेनानिर्वचनीयरूपशालित्वं कैटभ्यां व्यज्यते ।
कैटभीध्यानम् । एवं च स्त्रियोऽपि स्त्रीध्यानेनाद्भुतत्वं कैटभीरूपे द्योत्यते । जयति । त्रि-
भुवनाभिरामया रमयापि क्रियमाणत्वादिति भावः ॥</p>
<lg>
  <l>कृतकान्तकेलिकुतुकश्रीशीतश्वाससेकनिद्राणः ।</l>
  <l>घोरितविततालिरुतो नाभिसरोजे विधिर्जयति ॥ २६ ॥</l>
</lg>
<p>कृतेति । कृतं कान्तं मनोज्ञं यत्केलिकुतुकम् । एवं चोत्साहविशेषेण सुरतसंपादना-
च्छ्वासबाहुल्यं व्यज्यते । यत्तु कान्तेन विष्णुना सह यत्केलिकुतुकमिति तन्न । अन्येन
सहाप्रसक्तेः । कान्तकेलिरित्यनेन सुरतक्रीडैवायातीत्यपि न । अक्षकीडादेः संभवात् ।
नाभिसरोज इत्यादिनैव तत्प्रतीतेश्च । यया । एतादृशी या श्रीस्तस्याः शीताः । मदनानल-</p>
<pb n="18" />
<p>संतापनिवृत्तेरिति भावः । ये श्वासास्तेषां सेकेन निद्राणः । सेकस्य द्रवद्रव्यीयत्वेन श्वा
सद्वारा वारिसंबन्धो लक्ष्यते । तेन च सुखनिद्रायोग्यत्वं व्यज्यते । विततालिरुतमेव
घोरितं यस्य । नाभिसरोजे विधिर्जगन्निर्माणकर्ता । एवं च श्रमवत्त्वान्निद्रायोग्यत्वं
ध्वन्यते । जयति । सरोजशयनशीतमन्दसुगन्धसमीरणसुखस्वापवत्त्वादिति भावः ॥</p>
<lg>
  <l>एकरद द्वैमातुर निस्त्रिगुण चतुर्भुजापि पञ्चकर ।</l>
  <l>जय षण्मुखनुत सप्तच्छदगन्धिमदाष्टतनुतनय ॥ २७ ॥</l>
</lg>
<p>एकेति । एकदन्त । द्वैमातुर । पार्वतीगङ्गारूपमातृद्वयवत्त्वात् । नित्रिगुण । एवं
ब्रह्मरूपत्वं द्योत्यते । चतुर्भुजापि पञ्चकर । अपिर्विरोधाभासार्थकः । शुण्डामादाय पश्चक-
रत्वम् । अन्यथा तु तस्यास्ति चतुर्भुजत्वम् । षण्मुखनुत । ज्येष्ठत्वादिति भावः । सप्त-
च्छदगन्धिर्मदो यस्य । अष्टतनुर्महादेवस्तत्तनय । एतादृशस्त्वं जय । संख्याक्रममा-
त्रमत्र ॥</p>
<lg>
  <l>मङ्गलकलशद्वयमयकुम्भमदम्भेन भजत गजवदनम् ।</l>
  <l>यद्दानतोयतरलैस्तिलतुलनालम्बि रोलम्बैः ॥ २८ ॥</l>
</lg>
<p>मङ्गलेति । मङ्गलकलशद्वयरूपौ कुम्भौ यस्य तम् । एवं च विघ्नविनाशनक्षमत्वं
ध्वन्यते । गजवदनम् । अदम्भेन । एवं च दम्भेन भजनमनर्थकमित्यावेद्यते । यदीयदा-
नोदकार्थं चञ्चलैः । सौरभ्यशालित्वाद्दानोदकस्येति भावः । तरलपदेन सकलकुसुमगन्धा-
धिकत्वं दानगन्धे व्यज्यते । रोलम्बैभ्रमरैः । तिलसाम्यम् । श्यामत्वादिति भावः ।
एवं च कुम्भयोर्महत्तरत्वं ध्वन्यते । आलम्बि । गणपतिविषयकोऽत्र भावध्वनिः ॥</p>
<lg>
  <l>याभिरनङ्गः साङ्गीकृतः स्त्रियोऽस्त्रीकृताश्च ता येन ।</l>
  <l>वामाचरणप्रवणौ प्रणमत तौ कामिनीकामौ ॥ २९ ॥</l>
</lg>
<p>याभिरिति । याभिः स्त्रीभिरनङ्गो मदनः साङ्गीकृतः । स्वयं तत्साहाय्यसंपादनादिति
भावः । येन मदनेन ताः स्त्रियोऽस्त्रीकृताः । स्वविजयसाधनत्वेनेति भावः । इति वामस्य
सुन्दरस्य । समीचीनस्येति यावत् । यदाचरणम् । समीचीनाचरणमित्यर्थः । तत्र
प्रवणौ तत्परौ । एवं चाङ्गहीनस्य साङ्गतासंपादनात्, एवमेव स्त्रीत्वेन नायकाधीनानां
स्त्रीणां स्वास्त्ररूपतासंपादनेन नायकस्य तदधीनत्वसंपादनात्, उपकारप्रवणत्वमुभयो-
र्व्यज्यते । अत एवैतादृक्कामिनीकामौ प्रणमत । एवं चैतत्सेवया समीचीनमेव भवि-
ष्यतीति ध्वन्यते । यत्त्वङ्गरहितस्याङ्गवत्तासंपादनात, स्त्रीणां च स्त्रीभिन्नत्वसंपादनात,
विरुद्धाचरणस्वाभाव्यात्, कामिनीकामौ प्रणमत, एवं चैतयोः संगतिः सतां नोचिते-
ति व्यज्यत इति व्याख्यानं तन्मङ्गलप्रकरणविरोधादसमञ्जसमिवाभाति । यद्वा पर-
स्परमप्येतयोरीदृशविपरीताचरणप्रवणत्वे प्रियान्यस्य तत्करणस्यातिसुगमत्वात्तत्सेवैव
समुचितेति ध्वन्यते ॥</p>
<pb n="19" />
<p>अथ कवीन्स्तौति-</p>
<lg>
  <l>विहितघनालंकारं विचित्रवर्णावलीमयस्फुरणम् ।</l>
  <l>शक्रायुधमिव वक्रं वल्मीकभुवं कविं नौमि ॥ ३० ॥</l>
</lg>
<p>विहितेति । शक्रायुधमिव । विहिता घना बहवोऽलंकारा उपमादयो येन तम् । पक्षे
विहितमेघालंकरणम् । विचित्राणां वर्णानामक्षराणां यावली तत्प्रचुरं स्फुरणं स्फूर्ति-
र्यस्य तम् । पक्षे वर्णा नीलपीतादयस्तत्पङ्क्तिर्विकारः स्फुरणमुत्पत्तिर्यस्य तम् । वक्रं
वक्रोक्तिकुशलम् । पक्षे यथाश्रुतम् । वल्मीकभुवं वाल्मीकिम् । शक्रधनुषोऽपि तत
एवोत्पत्तिरिति लौकिकम् । कविं काव्यकर्तारं नौमि । रूपकमत्रालंकारः ॥</p>
<lg>
  <l>व्यासगिरां निर्यासं सारं विश्वस्य भारतं वन्दे ।</l>
  <l>भूषणतयैव संज्ञां यदङ्कितां भारती वहति ॥ ३१ ॥</l>
</lg>
<p>व्यासेति । व्यासवचसां निर्यासम् । एवं च तत्त्वार्थवत्त्वं सरसत्वं च व्यज्यते । वि-
श्वस्य जगतः सारम् । एवं चेत् उत्पन्नपुरुषार्थसाधनत्वं धन्यते । एतादृशं भारतं
वन्दे । यदङ्कितां भारतचिह्नितां संज्ञां भूषणतयैव भारती सरस्वती वहति । एवं च
भारत्या भूषणरूपतन्नामप्रसिद्धनामवत्त्वप्रतिपादनेन सर्वग्रन्थाधिकत्वमावेद्यते भारते ।
एवकारेण स्वाभाविकत्वव्युदासः । अन्योऽप्यप्रसिद्धः प्रसिद्धस्य कस्यचिन्नाम्ना प्रसिद्धो
भवतीति लौकिकम् । भारतकर्तृत्वेन व्यासस्तुतिरित्यवधेयम् ॥
सति काकुत्स्थकुलोन्नतिकारिणि रामायणे किमन्येन ।
रोहति कुल्या गङ्गापूरे किं बहुरसे वहति ॥ ३२
सतीति । काकुत्स्थानां कुलम् । तदुन्नतिकारिणि । कुलपदेन सर्वेषामप्युन्नतिसंपाद-
नेन शतकोटिप्रविस्तरत्वं तेन च बहुतरप्रमेयवत्त्वं च व्यज्यते । बहुरसे प्रभूतशृङ्गारादि-
रसशालिनि । पक्षे बहुजलवति । एवं च तापापनोदकत्वं व्यज्यते । अत एवैतादृश-
रामायणे सत्यन्यकाव्येन किम् । तेन गतार्थत्वादिति भावः । अत्र दृष्टान्तमाह--गङ्गापूरे
वहति सति कुल्याल्पा कृत्रिमा सरिटिंक रोहति । काक्वा नेत्यर्थः । न चित्तपथमवतरतीति
भावः ॥</p>
<lg>
  <l>अतिदीर्घजीविदोषाद्व्यासेन यशोऽपहारितं हन्त ।</l>
  <l>कैर्नोच्येत गुणाढ्यः स एव जन्मान्तरापन्नः ॥ ३३ ॥</l>
</lg>
<p>अतीति । अत्यन्तदीर्घजीवित्वदोषात् । चिरकालजीवित्वरूपदोषादित्यर्थः । अति-
चिरजीवित्वस्यान्यत्र गुणत्वेऽप्यत्र दोषत्वमिति भावः । दोषपदं परिहरणीयत्वं व्यञ्ज-
यति । व्यासेन यशः । हन्त इति खेदे । अपहारितम् । यशःपदमत्यन्तसंरक्षणीयत्वं
व्यञ्जयति । अत एव खेदौचित्यम् । एतदेवाह--स एव व्यास एव जन्मान्तरमापन्नो गु-
णाढ्यो बृहत्कथाकर्ता कैर्नोच्येत । अपि तु सर्वैरित्यर्थः । एवं गुणाढ्यव्यवहारे व्यासस्य</p>
<pb n="20" />
<p>चिरजीवित्वमेव प्रतिबन्धकं संवृत्तमिति भावः । एवं चैतादृग्यशसि स्पृहा न कृता, किं तु
चिरजीवित्व इति महन्मूर्खत्वमावेद्यते व्यासे । तेन च व्यासाधिकत्वं गुणाढ्ये ॥</p>
<lg>
  <l>श्रीरामायणभारतबृहत्कथानां कवीन्नमस्कुर्मः ।</l>
  <l>त्रिस्रोता इव सरसा सरस्वती स्फुरति यैर्भिन्ना ॥ ३४ ॥</l>
</lg>
<p>श्रीति । वाल्मीकिव्यासगुणाढ्यान्नमस्कुर्मः । यैर्वाल्मीक्यादिगुणैभिन्ना । विलक्षणरी-
त्यनुसरणादिति भावः । सरसा शृङ्गारादिमती । पक्षे सजला । वाणी सती नदीव
त्रिस्रोता गङ्गेव । स्वर्गमृत्युपातालेषु प्रवाहवत्त्वाद्गङ्गायाः । एवं च वाल्मीक्यादिवाचां स-
कलकल्मषविनाशकत्वं द्योयते । स्फुरति । एवं च त्रितयवाचां वास्तवैकरूपत्वमेवेति
व्यज्यते । तेन च वाल्मीक्यादित्रितयस्य समानत्वमावेद्यते । यद्वा वाल्मीक्यपेक्षया
किंचिन्न्यूनत्वं व्यासे, ततो गुणाढ्य इति ध्वन्यते । पूर्वत्र श्रीपदं त्रिष्वप्यन्वेति, अत्र
रामायणमात्रे ॥</p>
<lg>
  <l>साकूतमधुरकोमलविलासिनीकण्ठकूजितप्राये ।</l>
  <l>शिक्षासमयेऽपि मुदे रतलीलाकालिदासोक्ती ॥ ३५ ॥</l>
</lg>
<p>साकूतेति । साकूतं साभिप्रायम्, मधुरं रसोत्कर्षांधायकरसनिष्ठगुणवत्, कोमलं श-
ब्दगुणशालि, एतादृशं यद्विलासशालिन्याः कण्ठकूजितं तत्प्राये । प्रायः शब्दः क्रमेण
बाहुल्यसादृश्योपस्थापकः । रतलीलाकालिदासोक्ती शिक्षासमयेऽपि मुदे । एवं चो-
भयोः समत्वमिति भावः । एवं च सर्वजनस्याप्युपदेशसमये बहुधा दुःखदत्वेन रतली-
लाकालिदासोक्त्योः सुखप्रदत्वेन वाग्विलासाधिक्यं ध्वन्यते ॥</p>
<lg>
  <l>भवभूतेः संबन्धाद्भुधरभूरेव भारती भाति ।</l>
  <l>एतत्कृतकारुण्ये किमन्यथा रोदिति ग्रावा ॥ ३६ ॥</l>
</lg>
<p>भवेति। भवभूतेः शिवैश्वर्यस्य संबन्धाद्भारत्येव सरस्वत्येव भूधरभूर्नगेन्द्रकन्या भाति ।
एवं चाणिमाद्यैश्वर्यान्तर्गतेच्छानभिघातरूपप्राकाम्याद्भारत्या नगेन्द्रकन्यारूपत्वम् । तथा
भवभूतेः कवेः । एवं चेशैश्वर्याभेदबोधनेन स्वेच्छानुरूपकार्यकारित्वं व्यज्यते । संब-
न्धाद्भारत्येव भूधरभूः पर्वतभूमिः । एवं च नान्यथा शङ्कनीयत्वमिति भावः । भाति ।
अन्यथैतत्कृतकरुणरसप्रधाने 'अपि ग्रावा रोदित्यपि दलति वज्रस्य हृदयम्' इत्युत्तरच-
रित्रीयपद्ये ग्रावा शैलः । 'ग्रावाणौ शैलपर्वतौ' इत्यमरः । किमिति रोदिति । यद्वा
भवभूतेः संबन्धादित्यस्य भवैश्वर्याविनाभावादित्यर्थः । भूधरभूः शैलतनया भारती
भाति । सरस्वतीरूपेण दृश्यत इत्यर्थः । एवं च यत्रेशैश्वर्ये तत्र शैलसुतयावश्यं स्थेय-
मिति नियमादीशैश्वर्यवति कवौ शैलसुता सरस्वतीरूपेणावस्थितेति भावः । एवं चैत-
त्कवेर्दक्षिणामूर्त्युपासकत्वं व्यज्यते । अत एव भवस्य शंभोर्भूतिरैश्वर्ये यस्मिन्निति नाम्नि
व्युत्पत्तिरपि संगच्छते । अथवा कवौ भवभूत्यभेदबोधनेन पार्वतीसत्त्वमावश्यकम् ।
विपक्षे तर्कमाह--अन्यथा । एतत्कृतकारुण्ये । एवं चान्यैर्बहुभिः करुणरसप्रधानानि</p>
<pb n="21" />
<p>काव्यानि विहितानि, परंतु न तत्र शैलरोदनमिति भावः । ग्रावा किमिति रोदिति ।
एवं चैतत्कृतकारुण्ये जामातृसंबन्धेन शैलस्यापि रोदनमिति भावः । अथवा । भवभूतेः
शिवैश्वर्यस्य संबन्धात् । तत्कृपात इत्यर्थः । भारती भूधरभूरेव । भूधर इति कवि-
नाम । भवभूतिरिति 'गिरिजायाः कुचौ वन्दे भवभूतिसिताननौ' इति पद्यकरणोत्तरं
पदवीनाम । तस्माद्भवत्वे दृश्येव जाता । एवं च सरस्वतीप्रचारस्तत एवेत्यन्यकविव्य-
तिरेको ध्वन्यते । नन्वेतत्कवेर्भूधरत्वे किं प्रमाणमत आह--अन्यथा । एतत्कवेर्भूधर-
त्वाभावे । एतत्कृतकारुण्ये ग्रावा पाषाणः कथं रोदिति । एवं चैतत्कृतकारुण्योत्तर-
कालीनपाषाणरोदनस्यैतत्संबन्धाभावेऽन्यथानुपपत्त्या कवौ भूधरत्वसिद्धिः । एवं च
जन्यजनकभावसंबन्धाद्रोदने युक्ततैव । एवकार इवार्थ इति केचित् ॥</p>
<lg>
  <l>जाता शिखण्डिनी प्राग्यथा शिखण्डी तथावगच्छामि ।</l>
  <l>प्रागल्भ्यमधिकमाप्तुं वाणी बाणो बभूवेति ॥ ३७ ॥</l>
</lg>
<p>जातेति । प्राक्पूर्वं यथा शिखण्डिनी द्रुपदपुत्री शिखण्डी द्रुपदपुत्ररूपा बभूव, तथा
वाणी सरस्वत्यधिकप्रागल्भ्यप्राप्त्यर्थं बाणः कादम्बरीकर्तृरूपा बभूव । पवर्गतृतीयान्त-
स्थबवकारयोरभेदादिति भावः । एवं च सरस्वतीतोऽधिकत्वं बाणे द्योत्यते । वस्तुतस्तु
बवयोरैक्ये दोषाद्भेद एव ॥</p>
<lg>
  <l>यं गणयन्ति गुरोरनु यस्यास्ते धर्मकर्म संकुचितम् ।</l>
  <l>कविमहमुशनसमिव तं तातं नीलाम्बरं वन्दे ॥ ३८ ॥</l>
</lg>
<p>यमिति । यं गुरोः प्रभाकरात् । एवं च तत्र प्रभाकरतन्त्रनिपुणत्वं तातस्यावेद्यते ।
पक्षे बृहस्पतेः । अनु पश्चाद्गणयन्ति । यस्यास्ते नाशे । पक्षे सूर्यमण्डलसांनिध्ये-
नादर्शने । धर्मकर्म संकुचितम् । तातसदृशस्यान्यस्य धर्मकर्मप्रवर्तकस्याभावादिति
भावः । पक्षे मलमास इव शुक्रास्तेऽपि केषांचित्कर्मणां निषेधादिति भावः । यद्वा
यस्य तातस्य धर्मकर्म । एवं चाधर्मकर्मणोऽभावो व्यज्यते । संकुचितं सम्यक् कौ पृ-
थिव्यां चितं व्याप्तम् । आस्ते । एवं च कर्मठत्वेन सर्वत्र तातप्रसिद्धिरिति भावः ।
यद्वा यस्याधर्मकर्मविषये संकुचितं संकोचः । भीतिरिति यावत् । आस्ते । कविं
काव्यकर्तारम् । पक्षे तन्नामानम् । उशनसमिव शुक्रमिव । तं प्रसिद्धं तातं नीलाम्ब-
राभिधं वन्दे ॥</p>
<lg>
  <l>सकलकलाः कल्पयितुं प्रभुः प्रबन्धस्य कुमुदबन्धोश्च ।</l>
  <l>[^१]सेनकुलतिलकभूपतिरेको राकाप्रदोषश्च ॥ ३९ ॥</l>
</lg>
<p>सकलेति । प्रबन्धस्य चतुःषष्टिकलाः । कुमुदबन्धोश्चन्द्रस्य च षोडशकलाः । क-
-----------------------------------------------------------------------------------------
[^१]. सेनकुलं कायस्थकुलं वङ्गदेशप्रसिद्धम्, तत्तिलकायमानो भूपतिर्लक्ष्मणसेनः. य
त्सभायां गोवर्धनाचार्य आसीत्. न तु सेतुबन्धकाव्यकर्ता कश्मीरमहाराजः प्रवरसेनः.
स तु क्षत्रियकुलावतंस आसीदिति राजतरङ्गिण्यां स्फुटमेव.</p>
<pb n="22" />
<p>ल्पयितुं वक्तुं कर्तुं वा । पक्षे दर्शयितुम् । सेनकुलतिलकभूपतिः सेतुकर्ता प्रवरसेन-
नामा राजा । पौर्णमासीप्रदोष एकः प्रभुः समर्थः । नान्य इत्यर्थः ।</p>
<lg>
  <l>काव्यस्याक्षरमैत्रीभाजो न च कर्कशा न च ग्राम्याः ।</l>
  <l>शब्दा अपि पुरुषा अपि साधव एवार्थबोधाय ॥ ४० ॥</l>
</lg>
<p>काव्यस्येति । अक्षराणां वर्णानां मैत्रीमेकवर्गपठितत्वादिरूपाम् । एकस्थानकत्वे
सत्येकप्रयत्नकत्वरूपां वा । भजति तस्य । एवं च बन्धविशेषशालित्वं व्यज्यते । पुरुष-
विशेषणमप्यक्षरमैत्रीभाज इति । काव्यस्य योजनाविशेषवच्छब्दार्थोभयस्य । अर्थबो-
धाय । कर्कशाः श्रुतिकटवः । तेषां रसापकर्षकत्वादिति भावः । पक्षे क्रूरमतयः ।
एवं च परोक्तिखण्डनमात्रनिपुणत्वं च व्यज्यते । न च ग्राम्या अविदग्धप्रयुक्ताः । एवं
च चारुत्वाभावो व्यज्यते । पक्षे ग्राममात्रवासिनः । एवं च काव्यवासनावासितान्तः-
करणत्वाभावो ध्वन्यते । शब्दा अपि पुरुषा अपि । किंतु साधव एव । व्याकरण-
सिद्धा एव असाधुत्वज्ञानस्यार्थबोधप्रतिबन्धकत्वात् । पक्षे निर्मलमतय एव । एवं
चार्थप्रतिबिम्बभवनयोग्यत्वं द्योत्यते । यद्वा काव्यार्थवासनाशालिन इत्यर्थः । एवं चा-
न्येषां काव्यबोधानर्हत्वमिति भावः ॥</p>
<lg>
  <l>वंशे घुण इव न विशति दोषो रसभाविते सतां मनसि ।</l>
  <l>रसमपि तु न प्रतीच्छति बहुदोषः संनिपातीव ॥ ४१ ॥</l>
</lg>
<p>वंश इति । वंशे वेणौ घुण इव कीट इव रसभाविते शृङ्गारादिभावनावति । पक्षे
जलातिशयसंबन्धवति । औषधीद्रवलेपवतीति कश्चित् । सतां मत्सररहितानां सहृदयानां
वा मनसि । मनसीत्येकवचनेन समीचीनमनसामेकव्यसनशालित्वं ध्वन्यते । दोषो न
विशति । एवं च सुतरामवस्थित्यभावो द्योत्यते । बहुदोषो दोषैकदृक् । पक्षे 'क्षणे
दाहः क्षणे शीतमस्थिसंधिशिरोरुजः' इत्यादिबहूपद्रववान् । संनिपातीव युगपत्प्रकुपित-
वातपित्तादिमान् । रसमपि शृङ्गारादिकमपि । एवं चावश्येच्छायोग्यत्वं व्यज्यते । पक्षे
मृगाङ्कादिकमपि । एवं च का वार्ता क्वाथादेरिति भावः । न प्रतीच्छति न गृह्णातीति
किं वक्तव्यमिति भावः ॥</p>
<lg>
  <l>विगुणोऽपि काव्यबन्धः साधूनामाननं गतः स्वदते ।</l>
  <l>फूत्कारोऽपि सुवंशैरनूद्यमानः श्रुतिं हरति ॥ ४२ ॥</l>
</lg>
<p>विगुण इति । विगुणोऽपि ये ये काव्ये गुणास्तदन्यतमशून्योऽपि । काव्यबन्धः । अत्र
बन्धपदमधिकमाभाति । यद्वा बन्धो रचनामात्रम् । साधूनाम् । एवं च गुणवत्तासं-
पादनकर्तृत्वं ध्वन्यते । स्वदते सुखसंपादको भवति । सुवंशैः सरलवेणुभिरनूद्यमानः ।
एवं चानुवादसंपादनेऽपि सुजनदुर्जनयोरन्तरं भवतीति भावः । फूत्कारोऽपि । एवं च
सुखाजनकत्वं ध्वन्यते । श्रुतिं हरति श्रवणसुखसंपादको भवति ॥</p>
<pb n="23" />
<lg>
  <l>स्वयमपि भूरिच्छिद्रश्चापलमपि सर्वतोमुखं तन्वन् ।</l>
  <l>तितउस्तुषस्य पिशुनो दोषस्य विवेचनेऽधिकृतः ॥ ४३ ॥</l>
</lg>
<p>स्वयमिति । स्वयं भूरिच्छिद्रोऽपि बहुवाच्योऽपि । एवं च स्वदोषेषु दर्शनयोग्यत्वे-
ऽपि तद्दर्शनाभावेन भ्रान्तत्वमावेद्यते । पक्षे बहुरन्ध्रोऽपि । सर्वतोमुखं सकलज-
नसमक्षम् । पक्षे सर्वदिग्विषयम् । चापलं मौखर्यम् । एवं च जनभीतिशून्यत्वं ध्वन्यते ।
पक्षे चाञ्चल्यम् । तन्वन्विस्तारयन् । एवं च विरत्यभावो ध्वन्यते । तितउः । 'तित-
उर्ना चालनी स्त्रियाम्' इत्यभिधानम् । पिशुनः परोत्कर्षासहिष्णुः । विवेचने निर्णये ।
पक्षे स्वीकारे । अधिकृतो दत्ताधिकारः । एवं च गुणादिकं विहाय दोषमात्राङ्गीक-
तृत्वं दुष्टानामिति भावः ॥</p>
<lg>
  <l>अन्तर्मूढानर्थानव्यञ्जयतः प्रसादरहितस्य ।</l>
  <l>संदर्भस्य नदस्य च न रसः प्रीत्यै रसज्ञानाम् ॥ ४४ ॥</l>
</lg>
<p>अन्तरिति । अभ्यन्तरं गूढं स्थितान् । पक्षे निलीनान् । अर्थान्प्रतिपाद्य विषयान् ।
पक्षे पदार्थान् । अव्यञ्जयतो व्यञ्जनाविषयानकुर्वतः । पक्षेऽप्रकाशयतः । अत एव
प्रसादेन काव्यगुणेन । पक्षे निर्मलतया । रहितस्य । संदर्भस्य काव्यस्य । नदस्य च ।
पुंस्त्वनिर्देशेन निर्मलत्वस्यावश्यापेक्षणीयत्वमित्यावेद्यते । यद्वा नदत्वेन विरलतया
तत्तुल्यप्रतिपादनात्काव्येऽतिविरलत्वमा
वेद्यते । उक्तं हि [आनन्दवर्धनेन] –'द्वित्रा एव
कवयो द्वित्राण्येव काव्यानि' इति । रसः शृङ्गारादिः । पक्षे जलम् । रसज्ञानाम् । एवं
चान्येषां प्रीत्यजनकत्वेऽपि न काचित्क्षतिरिति भावः । प्रीत्यै न ॥</p>
<lg>
  <l>यदसेवनीयमसताममृतप्रायं सुवर्णविन्यासम् ।</l>
  <l>सुरसार्थमयं काव्यं त्रिविष्टपं वा समं विद्मः ॥ ४५ ॥</l>
</lg>
<p>यदिति । यदसतां सहृदयभिन्नानाम् । पक्षे पापवताम् । असेवनीयम् । अमृत-
तुल्यम् । पक्षेऽमृतबहुलम् । सुवर्णानां शोभनाक्षराणां विन्यासो ग्रथनं यत्र ।
'वर्णं तु चाक्षरे' इत्यमरः । पक्षे सुवर्णस्य हेम्नो विन्यासो रचनादि यत्र । शोभनर-
सार्थोभयप्रचुरम् । पक्षे देवसमूहबहुलम् । काव्यं त्रिविष्टपं स्वर्गं वा समं विद्मः । एवं
चात्र नान्यथाभाव आशङ्कनीय इति भावः । एवं च स्वर्गार्थे यथा सद्भिर्यत्नः क्रियते
तथा काव्यार्थे विधेय इति व्यज्यते ॥</p>
<lg>
  <l>सत्कविरसनाशूर्पीनिस्तुषतरशब्दशालिपाकेन ।</l>
  <l>तृप्तो दयिताधरमपि नाद्रियते का सुधा दासी ॥ ४६ ॥</l>
</lg>
<p>सदिति । सत्कवेः । एवं चासत्कवेर्निरासः । रसनैव शूर्प्यल्पं शूर्पम् । 'प्रस्फोटनं
शूर्पमस्त्री ' इत्यमरः । यथा स्वल्पशूर्पेण निस्तुषता जायते न तथा महाशूर्पेणेति स्त्रीसंप्र-
दाय: । तया निस्तुषतरो निर्दोष: शब्दरूपो यः शालिस्तत्पाकेन । परिणतनिर्दोषकाव्या-</p>
<pb n="24" />
<p>खादेनेत्यर्थः । तृप्तो दयितायाः । एवं चातिस्पृहणीयत्वमधरे ध्वन्यते । अधरमप्यत्युत्कृ-
ष्टतां व्यञ्जयति । नाद्रियते का सुधा दासी । एवं च माध्वीकादेः कुत्र गणनेति भावः ।
एवं च सुधातोऽधरे, ततोऽपि सत्काव्येऽधिकत्वं ध्वन्यते । एवं च स्वर्गार्थे यत्नं वि-
हाय काव्यार्थमेव स विधेय इति ध्वन्यते । अत्र च 'शरीरं तावदिष्टार्थव्यवच्छिन्ना पदा-
वली' इति दण्डिमतेनार्थविशेषविशिष्टशब्दस्यैव काव्यत्वमिति । प्रदीपकृन्मतेन च
शब्दमात्रोपादानम् ॥</p>
<lg>
  <l>अकलितशब्दालंकृतिरनुकूला स्खलितपदनिवेशापि ।</l>
  <l>अभिसारिकेव रमयति सूक्तिः सोत्कर्षशृङ्गारा ॥ ४७ ॥</l>
</lg>
<p>अकलितेति। न कलिता शब्दस्यालंकृतिर्यया । अनुप्रासादिशब्दालंकृतिशून्येत्यर्थः ।
एवं चार्थालंकारादिमत्त्वं व्यज्यते । पक्षेऽकलितः शब्दो ययैतादृश्यलंकृतिर्भूषणं यस्याः ।
सशब्दभूषणवत्त्वेऽन्यस्य ज्ञानं भविष्यतीति धियेति भावः । अनुकूला द्रुतं रस-
प्रत्यायिका । पक्षे नायकचित्तानुकूल्यवती । स्खलितः पददार्ढ्यशून्यः । कोमल इति
यावत् । पदानां सुप्तिङ्वतां निवेशो ग्रथनं यस्याः सा । एवं च गौडीरीतियुक्तेति ध्व-
न्यते । पक्षे स्खलितं स्थानादन्यत्र पतनम् । एवं च संकेतगमनं सत्वरमावेद्यते ।
पदनिवेशश्चरणविन्यासः । यद्वानुकूलानि स्फुटमर्थप्रतीतिजनकान्यस्खलितानि व्या-
करणनिष्पन्नानि । एवं च नेयार्थासाधुत्वशून्यत्वं द्योत्यते । यानि पदानि तत्संनि-
वेशवती । पक्षेऽनुकूलानि द्रुतं संकेतप्रापकानि स्खलनहीनानि यानि पदानि तद्वि-
न्यासवती । अपिरनास्थायाम् । एवं च गुणदोषाभावयोः संपादनेनात्यन्तमाग्रह इति
भावः । सोत्कर्षश्शृङ्गारोत्कर्षशालिशृङ्गाररसवती । पक्षेऽहमस्यायं ममेति रतिपरिपोष-
वती अभिसारिकेवाभिसरणाभिसारणान्यतरवतीव । उक्तं च--'या चार्ताभिसरेत्कान्तं
सारयेद्वाभिसारिका' इति । एवं च प्रेमातिशयो व्यज्यते । सूक्तिः काव्यम् । पक्षे शोभ-
नोक्तिमती । रमयति । एवं च काव्ये शब्दालंकृतिदोषाभावसत्त्वसंपादनमप्रयोजकम् ।
अपि तूत्कृष्टशृङ्गारसंपादनमेवोचितमिति व्यज्यते । यद्वा शब्दालंकृतिशून्या सदोषप-
दविन्यासापि सोत्कर्षशृङ्गारा सूक्ती रमयति । शब्दस्य प्राधान्यात्तदलंकारस्यावश्यक-
त्वेऽपि तदभावे दोषराहित्यस्यावश्यकत्वेऽपि केवलोत्कृष्टशृङ्गारवत्त्वेनैव चमत्काराति-
शयजनकत्वं काव्यस्येति भावः । एवं च शृङ्गारादिरसवत्त्वं काव्येऽवश्यमपेक्षितमिति
व्यज्यते । अत एव 'नीरसो हि निबन्धो यः सोऽपशब्दो महाकवेः । स तेनाकविरेव
स्यादन्येनास्मृतलक्षणः ॥' तति ध्वनिकृता रसस्य प्राधान्यमभ्यधायि । एवं च
सर्वरसप्रधानीभूतशृङ्गारवत्त्वमत्यन्तोत्कृष्टमिति तात्पर्यार्थः ॥</p>
<lg>
  <l>अध्वनि पदग्रहपरं मदयति हृदयं न वा न वा श्रवणम् ।</l>
  <l>काव्यमभिज्ञसभायां मञ्जीरं केलिवेलायाम् ॥ ४८ ॥</l>
</lg>
<p>अध्वनीति । अध्वनि व्यङ्गयार्थशून्यम् । यत्तु ध्वनिरुत्तमं काव्यं तद्भिन्नमित्यर्थ इति</p>
<pb n="25" />
<p>तन्न । गुणीभूतव्यङ्ग्यादेरपि हृदयाह्लादजनकत्वात् । पक्षे शिञ्जितशून्यम् । पदग्रहप-
रमनुप्रासमात्रार्थे पदग्रहः परमुत्कृष्टो यत्र । पक्षेऽत्यन्तचरणसंलग्नम् । काव्यमभि-
ज्ञसभायाम् । एवं चानभिज्ञसभायां हृदयाद्यानन्दजनकत्वेऽपि न किंचित्फलमिति भा-
वः । हृदयं वा न मदयति, श्रवणं वा न मदयति । एवं च श्रोतुरुभयान्यतरदप्यानन्देन
विषयान्तरस्फूर्तिशून्यं न करोतीति भावः । अत्र हृदयं श्रवणं वा न मदयतीत्येतावतैव
सिद्धे द्वितीयः 'न वा' इत्यस्य न तथा प्रयोजनमाभाति । श्रवणं श्रोतुर्हदयं वक्तुर्न मदय-
ति । 'आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्' इत्याद्युक्तेरिति व्याख्याने
वाकारद्वयनञ्द्वययोरानर्थक्यमाभाति । मञ्जीरं क्रीडाकाले न मदनाविर्भाववन्तं करो-
तीत्यर्थः । काव्यं हृदयं न मदयति मञ्जीरं श्रवणं न मदयतीति व्याख्यायां वाकारद्वय-
मनर्थकमाभाति । अत्रेदमवधेयम्--व्यङ्ग्यार्थशून्यं काव्यमेव नास्ति । न च 'अव्यङ्ग्यं
त्ववरं स्मृतम्' इत्युक्त्या व्यङ्ग्यात्यन्ताभाववत्यपि काव्यत्वमस्तीति वाच्यम् । तदुदाहरणे
'स्वच्छन्द--' इत्यादि पद्ये मन्दाकिनीविषयकरत्याख्यभावादिव्यङ्ग्यस्य सत्त्वात् । किं
बहुना । 'स कोऽपि विषयो नास्ति यत्र व्यङ्ग्यं न भासते । समयादेर्विशेषस्य ह्यभावे
हेतुता मता ॥' अत एव 'प्रधानगुणभावाभ्यां व्यङ्ग्यस्यैवं व्यवस्थितेः । उभे काव्ये त-</p>
<lg>
  <l>दन्यद्यत्तच्चित्रमभिधीयते ॥' इति ध्वनिकृता [श्रीमदानन्दवर्धनाचार्येण] अभ्यधायि ।</l>
  <l>यद्वा काव्यं काव्यत्वाभिमतम् ॥</l>
</lg>
<lg>
  <l>आस्वादितदयिताधरसुधारसस्यैव सूक्तयो मधुराः ।</l>
  <l>अकलितरसालमुकुलो न कोकिल: कलमुदञ्चयति ॥ ४९ ॥</l>
</lg>
<p>आस्वादितेति । आस्वादितः । न तु पीतः । एवं चाधरपानेऽत्यन्ताधरपाने वा कीदृ-
ङ्माधुर्यमुत्पत्स्यत इति न विद्म इति भावः । दयिताधररूपसुधारसो येन तस्यैव । एवं
च नान्यस्येति भावः । यद्वा मधुरा एवेति योज्यम् । एवं चामधुराणां व्यवच्छेदः ।
यद्वास्वादितो दयिताधरसुधारसो येन तस्यैव । एवं च नृदेहेन दयिताधरपानं वि-
धाय पश्चाद्देवरूपेणामृतं निपीयैतदुभयाधिकतररसवत्काव्येच्छया कविर्भवतीति भावः ।
एवं च दयिताधरास्वादादेर्हेतुत्वप्रतिपादनादवाप्तकार्यस्य कारणेऽनादरवत्काव्यास्वादवतः
सकलविषयास्वादमौलिभूतदयिताधररसास्वादादावप्यनादर इति द्योत्यते । एवं च का-
व्यास्वादे ब्रह्मरसरूपता द्योत्यते । सूक्तयः काव्यानि । मधुराः । एवं च दयिताधरसुधा-
रसयोरधिकतरत्वस्य काव्यसामान्येऽभिधानेन तद्विशेषोत्तमकाव्येऽत्यन्तविशेषस्ततो
ध्वन्यते । अत्र दृष्टान्तमाह--अनास्वादितचूतमुकुलः । मुकुलपदेन रससंभृतत्वं
व्यज्यते । कोकिलः कलं मधुरं न वदति । यद्वा सूक्तय उत्तमकाव्यानि ॥</p>
<lg>
  <l>बालाकटाक्षसूत्रितमसतीनेत्रत्रिभागकृतभाष्यम् ।</l>
  <l>कविमाणवका दूतीव्याख्यातमधीयते भावम् ॥ ५० ॥</l>
</lg>
<p>बालेति । लोकव्यवहारज्ञानस्य काव्यहेतुत्वमित्याह--बालायाः कटाक्षेण सूत्रितम् ।</p>
<pb n="26" />
<p>सूचितमित्यर्थः । एवं च लज्जावत्त्वेन प्राकट्यसंपादनायोग्यत्वम् । अत्र बालापदेना-
ल्पवयस्काभिधीयते । न स्वीयाभेदरूपा । असतीत्याद्यर्थविरोधात् । सख्या असतीत्वे-
ऽपि नायिकायाः स्वीयत्वाक्षतिरित्यपि केचित् । असत्या नेत्रत्रिभागेण बहुलनेत्रव्या-
पारेण कृतभाष्यम् । कृतकिंचित्प्राकट्यम् । दूतीव्याख्यातम् । दूत्या वचनवृत्त्याभिहि-
तम् । भावमभिप्रायम् । कविमाणवकाः कवयो माणवका इव । एवं चाज्ञत्वं द्योयते ।
अधीयते । एवं चातितीक्ष्णमतिभिः सूत्रेण ततोऽल्पमतिभिर्व्याख्यानेन यथावबुद्ध्यते
ग्रन्थादि तथा तीक्ष्णमतिभिः कैश्चित्कविभिः स्वल्पव्यवहारज्ञानेन ततोऽल्पमतिभिरधि-
कतरज्ञानेन काव्यं क्रियत इति व्यवहारज्ञानं न कुत्रापि व्यभिचरतीति ध्वन्यते ।
यद्वान्यप्रमेयहरणशीलान्कवीन्निन्दति । दूतीव्याख्यातमित्यनेनैतस्मात्पदादयमर्थो बोध्य
इति नियमसहायशक्तिविषयमिति व्यज्यते । शक्तेरतिस्थूलमतिविषयत्वात् । अस-
तीनेत्रत्रिभागकृतभाष्यमित्यनेन जघन्यलक्षणावृत्तिविषयमिति द्योयते । लक्षणावृत्तेः
किंचित्स्थूलमतिविषयत्वात् । बालाकटाक्षसूत्रितमित्यनेन व्यञ्जनावृत्तिविषयमिति व्य-
ज्यते । व्यञ्जनावृत्तेरतिसूक्ष्ममतिविषयत्वात् । भावमर्थम् । अर्थादन्यकविनिबद्धम् । ये-
ऽधीयते स्वकाव्यविषयीकुर्वन्ति न ते कवयः । किं तु तेषु ते बालाः । मूर्खा इत्यर्थः ।
एवं च परकाव्यस्पृष्टवाच्यलक्ष्यव्यङ्ग्यार्थास्पर्शित्वं स्वकाव्यस्य ध्वन्यते । यद्वा बाला-
कटाक्षसूचनादिव्यापारप्रकटनार्थस्य कविमाणवककाव्यविषयत्वं कवीनां त्वत्यन्तनिगू-
ढार्थोऽपि काव्यविषय इति स्वग्रन्थेऽपि निगूढार्थविषयत्वं ध्वन्यते । अथवा कवयः
सर्वे बालका इव । एवं च बालाकटाक्षसूत्रितमित्यादिना नायिकया स्वेच्छया प्रकटी-
कृतभावस्याभिज्ञत्वं कवीनाम् । न तु तदन्तर्गताभिप्रायज्ञानवत्त्वमिति नायिकाधिक्य-
वर्णनेन तद्विषयशृङ्गारवर्णनं सर्वरसवर्णनापेक्षया कठिनतरमिति व्यज्यते । तद्वत्त्वेन स्व-
ग्रन्थाधिक्यं च । अत एव 'शृङ्गारोत्तरसत्प्रमेयरचनैराचार्यगोवर्धनस्पर्धी कोऽपि न वि-
श्रुतः' इत्यमाणि जयदेवेन ॥
स्वकीर्त्यनुवृत्तये स्वनाम दर्शन्नेवेतरार्यावैलक्षण्यं स्वार्यास्वाह--</p>
<lg>
  <l>मसृणपदरीतिगतयः सज्जनहृदयाभिसारिकाः सुरसाः ।</l>
  <l>मदनाद्वयोपनिषदो विशदा गोवर्धनस्यार्याः ॥ ५१ ॥</l>
</lg>
<p>मसृणेति । मसृणानां स्निग्धानाम् । कोमलानामिति यावत् । पदानां विभक्त्यन्तानां
रीतिर्वैदर्भ्यादिस्तस्या गतिः प्राप्तिर्यासु ताः । तद्वत्य इत्यर्थः । पक्षे कोमलचरणविन्या-
सशालिगतयः । मन्थरगतय इत्यर्थः । सज्जनहृदयमनुसरन्ति । एवं च सहृदयहृदयस-
मधिगम्यार्था इति भावः । एवं च दुर्हृदयानामत्र नाधिकार इति ध्वन्यते । पक्षे
सज्जनस्य हृदयमभिसारयन्ति । स्वाधीनताभाजनं कुर्वन्ति ताः । सुष्ठु रसः शृङ्गारा-
दिर्यासु ताः । पक्ष आसक्तिविशेषवत्यः । मदनाद्वैतोपनिषदः । उपनिषद इत्यनेन
मदनोद्दीपकतातिशयशालित्वमावेद्यते । पक्षे संनिधिमदनसत्त्वोक्त्या तस्मिन्नाज्ञाकारित्वं</p>
<pb n="27" />
<p>ध्वन्यते । विशदाः । प्रसादरूपगुणवत्यः । पक्ष उज्वलवेषाः । आर्याः । आर्या इति च्छ-
न्दोनाम । पक्षे श्रेष्ठाः । गोवर्धनस्य । गोवर्धन इति कविनाम ॥</p>
<lg>
  <l>[^१]वाणी प्राकृतसमुचितरसा बलेनैव संस्कृतं नीता ।</l>
  <l>निम्नानुरूपनीरा कलिन्दकन्येव गगनतलम् ॥ ५२ ॥</l>
</lg>
<p>वाणीति । वाणी । प्राकृतकाव्ये सम्यगुचितो रसो यस्याः । एतादृश्येव बलेन ब-
लात्कारेण । पक्षे बलरामेण । एवकारोऽत्रैवान्वेति । संस्कृतं नीता । निम्नानुगामिस्व-
भावजला कालिन्दी गगनतलमिव । एवं च प्राकृतकाव्ये सुरसतासंपादनं सुगमतरम्,
संस्कृतकाव्ये तत्कठिनतरमिति द्योत्यते । तेन स्वयं तत्संपादनेन स्वस्मिन्नाधिक्यमावे-
द्यते । यद्वा वाण्याः स्वभाव एवायं यत्प्राकृतकाव्ये सरसतामाप्नोतीति प्राकृतकाव्यक-
रणादर एव समुचितः, तथापि संस्कृतकाव्य एवादरो मया विहितस्तत्र कदाचिद्यदि त-
थाविधसुरसताभावो भविष्यति स च तत्रभवद्भिः क्षन्तव्य इति ध्वन्यते । अथवा
प्राकृतकाव्यसमुचितरसा वाणी प्राकृतसमुचितरसैव । प्राकृतानां साधारणजनानां समु-
चितः । सुखावह इत्यर्थः । रसो यस्याः । अतो बलेन प्राकृतसप्तशत्यादितिरस्कारेण
संस्कृतं नीता । यद्वा प्राकृते साधारणजने सम्यगुचितः । अत्यन्त इत्यर्थः । रसः प्री-
तिर्यस्याः । एतादृश्यपि बलात्कारेण संस्कृतं साधुरूपं प्रापिता । एवं च नीचाभिलाषि-
ण्याः सद्वृत्ततासंपादनं पुरुषार्थ इति भावः । निम्नानुरूपनीरा कलिन्दकन्येव । एवं च
विवेकशून्यत्वं ध्वन्यते । तेन नीचानुगामि रसशालितायोग्यत्वम् । गगनतलमत्युच्चदेशं
नीता । एवं च प्राकृतसंस्कृतयोर्भूतलगगनतलतुल्यताप्रतिपादनेन प्राकृतात्संस्कृतेऽत्य-
न्ताधिक्यमावेद्यते ॥</p>
<lg>
  <l>आर्यासप्तशतीयं प्रगल्भमनसामनादृता येषाम् ।</l>
  <l>दूतीरहिता इव ते न कामिनीमनसि निविशन्ते ॥ ५३ ॥</l>
</lg>
<p>आर्येति । इयमार्याणां सप्तशती येषां प्रगल्भमनसाम् । यैः प्रगल्भमनोभिरित्यर्थः ।
एवं चाप्रगल्भमनोभिरादरेऽनादरे वा कृते न किंचित्फलमिति भावः । दूतीरहिता
इव तेन कामिनीमनसि निविशन्ते । एवं चेतोऽन्यन्न किंचिच्चातुर्यजनकमिति व्यज्यते ॥</p>
<lg>
  <l>रतरीतिवीतवसना प्रियेव शुद्धापि वाङ्मुदे सरसा।</l>
  <l>अरसा सालंकृतिरपि न रोचते शालभञ्जीव ॥ ५४ ॥</l>
</lg>
<p>रतरीतीति । रतरीतौ वीतं वसनं यस्याः सा । रसाविर्भावादिति भावः । एवं चालं-
कारभ्रंशादेः का वार्तेति भावः । प्रियेव शुद्धापि । अनुप्रासोपमाद्यलंकाररहितापि ।
वाणी संतोषाय । अत्र हेतुमाह--सरसा शृङ्गारादिमती । पक्षे शृङ्गाररसवती । रस-
शून्यालंकृतियुतापि । पक्षे कटककुण्डलयुतापि । शालभञ्जीव प्रतिमेव । न रोचते ।
-----------------------------------------------------------------------------------------
[^१]. हालापरनाम्ना सातवाहनकविना प्रणीतां प्राकृतगाथासप्तशतीमालोक्येयं सप्तशती
श्रीगोवर्धनाचार्येण प्रणीतेति वाणीत्याद्यार्यया सूचितम्.</p>
<pb n="28" />
<p>एवं च रसस्य प्राणरूपत्वं ध्वन्यते । एवं च निरलंकारस्यापि काव्यत्वमिति मिश्ररुचि-
नाथमतेन । अत एव ताभ्यां 'मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः । येनैकचुलके
दृष्टौ दिव्यौ तौ मत्स्यकच्छपौ॥' इति निरलंकारोदाहरणमभ्यधायि । वस्तुतस्त्वेतदुभयोदा-
हृतपद्येऽपि सर्वालंकारमौलिमणिरूपातिशयोक्तेर्विद्यमानत्वात् । उक्तिवैचित्र्यरूपालंकार-
विरहे काव्यत्वस्यासंभवात् । 'काव्यं ग्राह्यमलंकारात्' इत्यलंकारस्य काव्यव्यवहारप्र-
योजकत्वाभिधानाच्च । रसवति काव्ये स्फुटालंकारराहित्येऽपि न चमत्कारहानिरिति
रसवत्त्वस्याधिक्यप्रतिपादनमात्रे तात्पर्यम् । 'अकलित--' इत्यादि पद्ये शृङ्गारोत्कर्ष-
मात्रस्य प्राधान्यमित्यर्थः । अत्र तु रसमात्रस्य तदिति भावः ॥
इति श्रीमद्गोदावरीपरिसरालंकृतपुण्य स्तम्भस्थितिविराजमाननीलकण्ठपण्डिततनूज-
बालोपण्डितात्मजतिमाजीपण्डिताङ्गजानन्तपण्डितविरचितगोवर्धनसप्तशती-
व्यङ्ग्यार्थदीपने ग्रन्थारम्भोचितव्रज्याव्याख्या समाप्ता ।
-------------
अकारव्रज्या ।
कश्चिद्यौवनभराक्रान्तां प्रपापालिकामालोक्य तां प्रत्याह--</p>
<lg>
  <l>अवधिदिनावधिजीवाः प्रसीद जीवन्तु पथिकजनजायाः ।</l>
  <l>दुर्लङ्घ्यवर्त्मशैलौ स्तनौ पिधेहि प्रपापालि ॥ १ ॥</l>
</lg>
<p>अवधीति । प्रपा जलदानस्थानं तद्रक्षणकर्त्रि । एवं च धार्मिकत्वं व्यज्यते । तेन च
पथिकजनजाया न हन्तव्येत्युपदेशदानयोग्यत्वम् । जीवनरक्षणकर्त्र्या जीवनविनाशकर्तृ-
त्वमनुचितमिति वा व्यज्यते । प्रसीद । एवं च बलात्कारानर्हत्वं ध्वन्यते । किं प्रसन्न-
तायाः फलमित्यत आह--स्तनौ पिधेहि । मार्गान्तरेणानेनैव वा मार्गेण झटिति कुतो
न गम्यत इत्यत्र हेतुगर्भविशेषणमाह--दुर्लङ्घ्यौ च तौ वर्त्मशैलौ च । एवं च मार्गा-
न्तराभावादुल्लङ्घयितुमशक्यत्वाच्चैतत्पिधानमावश्यकमिति द्योत्यते । किं पिधानफलमत
आह--अवधिदिनावधि जीवो जीवनं यासां ताः पथिकजनजाया जीवन्तु । एवं च
त्वत्कुचकनकमहीधरदर्शनलुब्धैः पथिकैरत्रैव कालातिवाहने कृतेऽवधिदिनातिक्रमे त
त्कामिनीजनस्य मरणमेव भविष्यतीति भावः ॥
कृतपरिणयान्तरं नायकमसूयमानां नायिकां काचिदुपदिशति--</p>
<lg>
  <l>अतिवत्सला सुशीला सेवाचतुरा मनोऽनुकूला च ।</l>
  <l>अजनि विनीता गृहिणी सपदि सपत्नीस्तनोद्भेदे ॥ २ ॥</l>
</lg>
<p>अतीति । गृहिणी प्रथमस्त्री । सपत्नीस्तनप्रादुर्भावे सपदि । एवं च किंचिद्विलम्बे को
वेद किं भविष्यतीति भीतिशालित्वं ध्वन्यते । अतिस्नेहवती । समीचीनस्वभावा । से-
वानिपुणा । नायकमनोगतकारिणी नम्रा च । जाता । एवं च पूर्वं सपत्नीसंपादनदु:-
खवत्तया न्यूनस्नेहम्, सपत्नीतर्जनादिना दुःशीलताम्, इयमेव सेवां करिष्यतीति सेवा-</p>
<pb n="29" />
<p>मौढ्यम्, अत एव मनःप्रातिकूल्यम्, किं करिष्यत्ययमतः परं ममेत्यविनीततामकरोत् ।
सपत्नीतारुण्योद्गमसमय एवायमस्यामत्यन्तासतः स्यादिति भियातिवात्सल्यादीति
भावः । एवं च त्वयाप्येवं विधेयमतोऽधुनासूयादिकरणमनर्थकमिति द्योयते । यद्वा ना-
यिकाक्लेशशालिनं कंचन कश्चिद्विवाहान्तरकरणमुपदिशति । एवं च सपत्न्यां जातायामि-
यमवश्यमत्यन्तानुकूल्यमाचरिष्यतीति ध्वन्यते । काचित्कस्याश्चिद्वृत्तं वक्तीति ऋजवः ॥
कश्चिद्द्रव्योन्मादवतीं निजकुलद्वेषिणीमन्योक्त्या वक्ति--</p>
<lg>
  <l>अयि कूलनिचुलमूलोच्छेदनदुःशीलवीचिवाचाले ।</l>
  <l>बकविघसपङ्कसारा न चिरात्कावेरि भवितासि ॥ ३ ॥</l>
</lg>
<p>अयीति । अयि । कूलनिचुलस्तीरवृक्षः । यद्वा 'निचुलोऽम्बुजः' इत्यमराद्वृक्षविशे-
षः । एवं च तत्प्रतिपालनमुचितमित्यावेद्यते । तस्य यन्मूलोच्छेदनम् । एवं चासत्यत्वं
ध्वन्यते । तत्र दुःशीलास्तत्कारिण्यो लहर्यस्ताभिः कुत्सितबहुभाषिणि । कावेरि । ब-
कस्य । न तु हंसादेः । विघसो भोजनशेषो यः पङ्कः । क्षुद्रमत्स्यादेर्बकभुक्तत्वादिति
भावः । स एव सारो यस्याः । न चिरात् । शीघ्रमेव । भवितासि । एवं च परोपका-
रकारकस्य स्वकुलप्रभवस्योन्मादवशान्मम दुःखं ददासि तत्ते दुष्टभोजनावशेषद्रव्यं शी-
घ्रमेव गमिष्यतीति धन्यते ॥
काचिन्नायिका परपुरुषसंगमाय प्रलोभकारिणीं दूतीं प्रत्याह--</p>
<lg>
  <l>अयि विविधवचनरचने ददासि चन्द्रं करे समानीय ।</l>
  <l>व्यसनदिवसेषु दूति क्व पुनस्त्वं दर्शनीयासि ॥ ४ ॥</l>
</lg>
<p>अयीति । हे दूति । एवं च स्वकार्यमात्रसंपादकत्वम्, न त्वन्यदीयाग्रिमाकार्यवि
चारकारित्वमिति द्योत्यते । नानाप्रकारशालिवचनरचने । एवं च प्रलोभनकारित्वम्,
वञ्चनानिपुणत्वम्, विश्वासानर्हत्वम्, उत्तरप्रत्युत्तरकरणानर्हत्वं च ध्वन्यते । चन्द्रं समानीय
करे ददासि करगोचरं करोषि । असंभाविनमप्यर्थं जातप्रायं कृत्वा प्रदर्शयसीति भावः । व्य-
सनमपकीर्त्यादि । तत्काले त्वं कुत्र दर्शनीयासि । एवं च त्वया घटनामात्रं कर्तुं शक्यम्,
न त्वपकीर्त्यादिनिवारणमिति भावः । यद्वा भाविवियोगभीता नायिका संघटनमात्रका-
रिणीं दूतीं प्रत्याह । विविधवचनरचने इत्यनेन दुष्प्रापोऽपि नायकस्त्वया समानेतुं
शक्य इति द्योयते । चन्द्रमित्यनेनाह्लादजनकतयावश्यस्पृहणीयत्वमावेद्यते । व्यसनम् ।
वियोगदुःखदत्वादिति भावः । त्वं कुत्र दर्शनीयासि । एवं चाग्रे यथा वियोगो न भवि-
ष्यति तथा यदि त्वया कर्तुं शक्यं तर्हि त्वदुदीरितं संपादयामीति द्योत्यते ॥
अपकीर्त्यादिना स्वपरित्यागं संभावयन्तीं नायिकां दूती समाधत्ते--
अस्तु म्लानिर्लोको लाञ्छनमपदिशतु हीयतामोजः
तदपि न मुञ्चति स त्वां वसुधाछायामिव सुधांशुः ॥ ५ ॥</p>
<pb n="30" />
<p>अस्त्विति । म्लानिर्निस्तेजस्कत्वमस्तु । जनो लाञ्छनमपवादम् । पक्षे कलङ्कम् ।
वदतु । ओजः । यद्वशात्सर्वेऽपि बिभ्यति । पक्षे प्रसादविशेषः । हीयताम् । तदपि स
नायकः । सुधांशुर्भूछायामिव । एवं च त्यागानर्हत्वं ध्वन्यते । पक्षे सुधांशुतुल्यः । एवं
च स्पृहणीयत्वमावेद्यते । त्वां न मुञ्चति त्यक्ष्यति । यद्वा पूर्वोत्तरमेतत् ॥
मामियं दुर्वचनैर्दुःखयतीति वादिनं नायकं प्रति नायिकासखी तवैवायमपराधो न
त्वस्या इति वक्ति--</p>
<lg>
  <l>अतिचापलं वितन्वन्नन्तर्निविशन्निकामकाठिन्यः ।</l>
  <l>मुखरयसि स्वयमेतां सद्वृत्तां शङ्कुरिव घण्टाम् ॥ ६ ॥</l>
</lg>
<p>अतीति । अन्तर्निविशन्हृदयमध्ये प्रविशन् । तया स्वान्ते धृतोऽपीत्यर्थः । यद्वा प्रथ-
मतः साधुत्वं प्रदर्श्य हृदयं प्रविश्यैतादृशाचरणं करोषीत्यत्यन्तानुचितकारित्वं तवेत्य-
र्थः । पक्षेऽन्तर्मध्ये । अतिचापलमन्यनायिकासंभोगादिरूपम् । पक्षे निरन्तरसंयोगवि-
भागरूपं विस्तारयन् । एवं चाज्ञानक्षमानर्हत्वं द्योत्यते । निकाममत्यन्तं काठिन्यं क-
ठिनत्वं यस्य सः । एवं च चापल्यसंपादनेऽपि नम्रत्वं न करोषीति दुःखदस्त्वमसीति
द्योत्यते । पक्षे काठिन्यमवयवसंनिवेशविशेषः । यद्वान्तः सदनमध्ये । एवं बहिः स्थितौ
चापल्यं करोषि, सदनमध्ये तु कार्कश्यमित्युभयतोऽपि दुःखदस्त्वमिति द्योत्यते । स्वयं
त्वमेव । सद्वृत्तां सच्चरिताम् । एवं च तवासच्चरितं विलोक्यावश्यमेतस्या दुःखं भव-
तीति भावः । पक्षे समीचीनवर्तुलां लोहकीलो घण्टामिवैनां मुखरयसि । एवं च तवै-
वायमपराधो न तस्या इति भावः ॥
क्वचिद्यूनोः संकेतनिकेतनाभावादेव न संगम इति कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>अङ्गेषु जीर्यति परं खञ्जनयूनोर्मनोभवप्रसरः ।</l>
  <l>न पुनरनन्तर्गर्भितनिधिनि धरामण्डले केलिः ॥ ७॥</l>
</lg>
<p>अङ्गेष्विति । खञ्जनयूनोः परमुत्कृष्टं मनोभवस्य । एवं च सर्वत्र बाधाकारित्वं ध्व-
न्यते । प्रसर आधिक्यमङ्गेषु जीर्यति समाप्तं भवति । यद्वा परं केवलं जीर्यतीति यो-
जना । परं तु नान्तर्गर्भितो निधिर्यत्रैतादृशे धरामण्डले केलिर्न । निधिमत्प्रदेश एव
खञ्जनयोः संभोग इति [^१]प्रसिद्धिः । यद्वा सख्यत्यन्तगुप्तसंकेतं विना नैव कार्यं कार्यमिति
नायिकामुपदिशति । खञ्जनयूनोरित्यादिना तिर्यग्जातिमत्तया विवेकशून्यत्वेऽपि प्रचुरत-
रमन्मथविकारवत्त्वेऽप्यत्यन्तगुप्तस्थलप्राप्तिं विना खञ्जनयोरपि न रतिस्तत्र किमु वाच्यं
भवादृश्याः । समीचीनपरीक्षितसंकेतस्थलं विना रतिर्नोचितेति ध्वन्यते । यद्वा मन्मथ-
विकलतया सद्यः संभोगमपेक्षमाणं नायकं नायिका वक्तीत्यपि प्रतिभाति ॥
[^१]. 'तस्मिन्निधिर्भवति मैथुनमेति यस्मिन्' इति बृहत्संहिता (४५/१२). 'यत्रा-
वनौ खञ्जनको विधत्ते रतं भवेत्तत्र महानिधानम्' इति वसन्तराजः (१०।२५).</p>
<pb n="31" />
<p>कश्चित्कंचिदुपदिशति--</p>
<lg>
  <l>अन्धत्वमन्धसमये बधिरत्वं बधिरकाल आलम्ब्य ।</l>
  <l>श्रीकेशवयोः प्रणयी प्रजापतिर्नाभिवास्तव्यः ॥ ८ ॥</l>
</lg>
<p>अन्धत्वमिति । अन्धसमये क्रीडाकाले । अवलोकनानर्हत्वादिति भावः । अन्ध-
भावम् । बधिरकाले क्रीडाकालीनव्रीडाकरवाक्यकाले । 'द्व्यर्थैः पदैः पिशुनयेच्च रहस्य-
वस्तु' इत्यादिना रतारम्भकालेऽश्लीलपदाभिधानस्य कामशास्त्रेऽभिधानात् । बधिरभा-
वमालम्ब्य । प्रजानां पतिः । एवं च महद्भिरप्येतादृशरीत्या स्थीयते तत्र का वार्तान्य-
स्येति भावः । श्रीकेशवयोः । एवं चैतादृशसंनिधिः स्नेहश्च दुष्प्राप इति ध्वन्यते । प्र-
णयी प्रीतिमान् । नाभिर्मध्यस्तत्र वसतिमान् । केकवनाभिवसतिमत्त्वाच्छ्रीकेशवयोः
सुरतसमयेऽपि ब्रह्मणो मध्यवर्तित्वमिति भावः । यद्वा नाभौ सविधे वास्तव्यं यस्य ।
एवं चातिनैकट्यं ध्वन्यते । अथवा नाभिवसतिमान् । उभयोः प्रणयी जात इत्यर्थः । य-
द्वोभयोर्नित्यसांनिध्यात्प्रजापतावुभयसांनिध्यम् । एतेन नाभिरवयवविशेष इत्यर्थे केशव-
संबन्धवत्त्वेऽपि श्रीसंबन्धाभाव इत्यपास्तम् । एवं च निकटवसतिमात्रं न पुरुषार्थः,
किं तु प्रीतिविशिष्टनिकटवसतिरिति भावः । एवं च प्रभ्वादिसविधे प्रभ्वादिप्रीतिविशि-
ष्टनिकटवसतिकामस्त्वमसि, तर्ह्यनयैव रीत्या तिष्ठेति ध्वन्यते ॥
मूर्खसविधकृतपाण्डित्यमनवाप्ततत्फलतया खिन्नं कश्चिदन्योक्त्या समाधत्ते--</p>
<lg>
  <l>अयि कोषकार कुरुषे वनेचराणां पुरो गुणोद्गारम् ।</l>
  <l>यन्न विदार्य विचारितजठरस्त्वं स खलु ते लाभः ॥ ९ ॥</l>
</lg>
<p>अयीति । कोषकारः कीटविशेषः । वनेचराणाम् । एवं च कार्याकार्यविवेकविधु-
रत्वं ध्वन्यते । पुरः । गुणानां तन्तूनामुद्गिरणं कुरुषे । यद्विदार्य । एवं च पश्चात्प्रती-
कारानर्हत्वं व्यज्यते । विचारितमुदरं यस्य सः । कुत एते गुणा निःसरन्तीति विचार-
णायेति भावः । त्वं नासि खलु स ते लाभः । एवं च मूर्खाणामग्रे गुणप्रकटनं न केवल-
मप्राप्तिकरम्, अपि त्वनर्थकरमिति ध्वन्यते ॥
दूती नायिकाप्रेमातिशयं नायके वक्ति--</p>
<lg>
  <l>अगणितमहिमा लङ्घितगुरुरधनेहः स्तनंधयविरोधी ।</l>
  <l>इष्टाकीर्तिस्तस्यास्त्वयि रागः प्राणनिरपेक्षः ॥ १० ॥</l>
</lg>
<p>अगणितेति । अगणितो महिमा कुलप्रतिष्ठा येन । महिमपदेनावश्यस्पृहणीयत्वं व्य-
ज्यते । लङ्घितो गुरुः श्वशुरादिर्येन । तन्निषेधतिरस्कारादिति भावः । न विद्यते धनेच्छा
यस्य । स्तनंधयोऽत्यन्तबालः । एवं चातिस्नेहार्द्रत्वं ध्वन्यते । तद्विरोधी । प्रसवोत्तरम-
चिरात्संभोगे स्तन्यहानिर्भवतीति लौकिकम् । इष्टेच्छाविषयीभूता कीर्तिर्यस्य । एवं चा-
कीर्तिभीतिशून्यत्वं ध्वन्यते । एतादृक्तस्यास्त्वयि रागः । प्राणनिरपेक्षः प्राणापेक्षा-
शून्यः । एवं चातिशयशालित्वं व्यज्यते ॥</p>
<pb n="32" />
<p>कृतापराधं समाधानायारब्धकपटं नायकं नायिका वक्ति--</p>
<lg>
  <l>अपराधादधिकं मां व्यथयति तव कपटवचनरचनेयम् ।</l>
  <l>शस्त्राघातो न तथा सूचीव्यधवेदना यादृक् ॥ ११ ॥</l>
</lg>
<p>अपराधादिति । अपराधादन्याङ्गनासंगमरूपात् । त्वद्गवेषणार्थमेव तत्र गतमित्यादि-
कपटवचनरचना मामधिकं व्यथयति । एवं च सत्यभाषित्वेऽपराधोऽपि क्षन्तुमर्ह इत्यावे-
द्यते । महतोऽपराधस्य नात्यन्तदुःखदत्वम्, अल्पायाः कपटवचनरचनायाः कथमत्यन्त-
दुःखदत्वमित्यत्र दृष्टान्तमाह--शस्त्राघातः । आघातपदेनासह्यत्वं व्यज्यते । न तथा व्य-
थयति यथा सूच्या व्यधः सीवनं तद्दुःखम् । एवं च सूचीकृतत्वेन नाल्पत्वमाशङ्क्यमिति
भावः । यद्वा साधारण्येनोक्तिरियम् ॥
कयोश्चिद्गच्छतोरसतीकटाक्षितमेकं दृष्ट्वा परेण 'ज्ञातं सर्वमिदं मया' इत्युदीरिते 'न
किंचित्त्वया ज्ञातुं शक्यम्' इत्यपरस्तं प्रत्याह--</p>
<lg>
  <l>असतीलोचनमुकुरे किमपि प्रतिफलति यन्मनोवर्ति ।</l>
  <l>सारस्वतमपि चक्षुः सतिमिरमिव तन्न लक्षयति ॥ १२ ॥</l>
</lg>
<p>असतीति । असत्या लोचयति तल्लोचनम् । एवं चेतस्ततः प्रसरणशीलत्वं ध्वन्यते ।
तद्रूपमुकुरे । मुकुरपदेन मङ्गलत्वेनावश्यदर्शनीयत्वं व्यज्यते । किमप्यनिर्वचनीयम् ।
मनोवर्ति । असत्या एवेति भावः । यद्वा किमपि न लक्षयतीति योजना । मनोवर्तीत्य-
नेनातिसूक्ष्मत्वम् । तेन च बहिः स्फुटीभावानर्हत्वं द्योत्यते । यत्प्रतिफलति तत्सारस्वत-
मपि चक्षुः । सरस्वतीयत्वेनातीतानागतवस्तुग्रहणयोग्यत्वं ध्वन्यते । सतिमिरमिव ति-
मिराख्यदोषदूषितमिव । न लक्षयति । सप्रकारं न वेत्तीति किं वाच्यमिति भावः ।
एवं च सारस्वतचक्षुषोऽप्येतादृशी गतिः, तत्र का वार्ता तवेति भावः । एवं चासतीलो-
चनव्यक्तीकृतमपि न ज्ञातुं शक्यम्, तत्र का वार्ता तच्चित्तगतमिति ध्वन्यते । यद्वा के-
वलं पण्डितं कटाक्षयन्तीमसतीमालोक्य तं प्रति काचिदन्या वक्ति । सारस्वतं ज्ञानरूपं
चक्षुस्तं न लक्षयत्यपि । एवं च याथातथ्येन स्वरूपपरिचितिर्दूरापास्तेति भावः । एवं
च कटाक्षितमपि न त्वया ज्ञायते । इत्यन्तर्जडत्वेन सर्वमपि त्वदीयाध्ययनमसत्कल्प-
मिति ध्वन्यते ॥
नायकदुर्वादकुपितां नायिकां सखी समाधत्ते--</p>
<lg>
  <l>अन्यमुखे दुर्वादो यः प्रियवदने स एव परिहासः ।</l>
  <l>इतरेन्धनजन्मा यो धूमः सोऽगुरुभवो धूपः ॥ १३ ॥</l>
</lg>
<p>अन्येति । अन्यस्याप्रियस्य मुखे यो दुर्वादो दुर्वचनम् । प्रियस्य दयितस्य मुखे स एव
दुर्वाद एव । स एवेत्यनेनान्यूनानतिरिक्तत्वं ध्वन्यते । परिहासः सनिन्दरञ्जकं वाक्यम् ।
अत्र दृष्टान्तमाह--अगुरुभिन्नेन्धनजन्मा यो धूमः स रूपान्तरापन्नोऽगुरुसंभवो धूपः ।</p>
<pb n="33" />
<p>एवं चायं न दौष्ट्येन वदति, किं तु कुतुकेन । नातः कोपो विधेयस्त्वयेति ध्वन्यते ।
यद्वा साधारणोक्तिरियम् । अत्रैव विपरीतयोजनयाप्रियवदनविनिःसृतवचनं समीचीनम-
प्यसमीचीनमेवेति व्यज्यते । एवं च प्रेम्णो मुख्यत्वमावेद्यते । कथमेतदीयैतादृशवचन-
माकर्ण्य तूष्णीं स्थीयते त्वयेति वादिनीं सखीं नायिका समाधत्त इति वार्थः ॥
दुष्टस्वभावं नायकं नायिकासखी वक्ति--</p>
<lg>
  <l>अयि सुभग कुतुकतरला विचरन्ती सौरभानुसारेण ।</l>
  <l>त्वयि मोहाय वराकी पतिता मधुपीव विषकुसुमे ॥ १४ ॥</l>
</lg>
<p>अयीति । सुष्ठु भाग्यं यस्य तत्संबुद्धिः । कथमन्यथैतादृशी नायिका त्वय्यासक्तेति
भावः । कुतुकार्थम् । न तु लोभार्थमिति भावः । तरला । यद्वा सुभगस्य कुतुकेन तरला ।
सौरभं समधिकगुणवानिति कीर्तिः । तदनुसारेण विचरन्ती । एवं च त्वत्स्वभावस्य न
तात्त्विकं ज्ञानं तस्या इति भावः । यद्वा सौरभानुसारेण स्वकीर्तिसंरक्षणपुरःसरं विच-
रन्ती । पक्षे सौगन्ध्यानुसारेण । विषकुसुमे । कुसुमपदेनावश्यफलजनकतायोग्यत्वं
ध्वन्यते । मधुपीव । एवं च ज्ञानशून्यत्वं व्यज्यते । त्वयि वराकी । एवं च सरलत्वं
ध्वन्यते । मोहाय दुःखाय । एवं चान्यफलाभावो द्योत्यते । पक्षे वैचित्त्याय । पतिता ।
एवं च दैववशादेतादृशं कार्यं तया कृतम्, त्वं चैतादृशाचरणशालीति दुःखातिशयो
ध्वन्यते ॥
कस्याश्चित्सविधे कस्यचित्तरुणमहाजनस्य गमनसंभावनयान्यतरुणविरतावप्यतिजर-
द्वयोभिः सा भुज्यत इति कश्चित्कंचित्प्रत्याह--</p>
<lg>
  <l>अयि मुग्धगन्धसिन्धुरशङ्कामात्रेण दन्तिनो दलिताः ।</l>
  <l>उपभुञ्जते करेणूः केवलमिह मत्कुणाः करिणः ॥ १५ ॥</l>
</lg>
<p>अयीति । अयि । मुग्धः सुन्दरो यो गन्धगजः । यद्गन्धमात्रादेव गजाः पलायन्ते
स गन्धगजः । तच्छङ्कामात्रेण । न तु दर्शनादिनेति भावः । दन्तयुक्ता गजा दलिता
भग्नाः । पलायिता इत्यर्थः । मत्कुणा दन्तरहिताः करिणः केवलं करेणूर्हस्तिनी-
रुपभुञ्जते ॥
बहिः कृत्रिमातिशयलजावत्त्वेऽप्यत्यन्तदुष्टयेमिति काचित्कांचित्प्रति वक्ति--</p>
<lg>
  <l>अतिविनयवामनतनुर्विलङ्घते गेहदेहलीं न वधूः ।</l>
  <l>अस्याः पुनरारभटीं कुसुम्भवाटी विजानाति ॥ १६ ॥</l>
</lg>
<p>अतीति । अत्यन्तविनयेन वामनवत्तनुर्यस्याः । एवं च त्रिविक्रमावतारकर्मकरणसा-
मर्थ्यमभिव्यज्यते । वधूर्गेहदेहलीं न लङ्घते । एवं च लज्जातिशयः सूच्यते । अस्याः
पुनरारभटीं प्रौढिविशेषं कुसुम्भवाटी विजानाति । तत्रैतस्या निर्लज्जत्वं द्रष्टव्यमिति
भावः । एवं च सदन एवं विनयं प्रदर्श्य गुर्वादिवञ्चनेन कुसुम्भवाट्यां कं कं न परपुरु-</p>
<pb n="34" />
<p>षमुपभुङ्क्त इति ध्वन्यते । यद्वा न केवलमेतस्या लज्जावत्त्वदर्शनमात्रेण भवद्भिर्विश्वसि-
तव्यमिति ध्वन्यते ॥
पररञ्जकगुणानामेव गुणत्वम्, न त्वरञ्जकानामित्याह--</p>
<lg>
  <l>अन्तर्गतैर्गुणैः किं द्वित्रा अपि यत्र साक्षिणो विरलाः ।</l>
  <l>स गुणो गीतेर्यदसौ वनेचरं हरिणमपि हरति ॥ १७ ॥</l>
</lg>
<p>अन्तरिति । येषु द्वित्रा अपि साक्षिणो विरलाः । एवं च बहुसाक्षित्वेऽत्यन्तप्राश-
स्त्यमिति भावः । तैरन्तर्गतै रञ्जनासमर्थैर्गुणैः किम् । न किंचित्फलमिति भावः । गीतेः
स गुणः । एवं च गुणे गुणानङ्गीकारेऽपि पररञ्जकतया गीतेरपि गुणवत्ताव्यवहार इति
भावः । यदसौ वनेचरम् । एवं च ग्रामसंबन्धाभावेन मधुरशब्दरसानभिज्ञत्वं ध्वन्यते।
हरिणमपि । एवं च मनुष्याणां का वार्तेति भावः । हरति स्वाधीनताभाजनं करोति ।
यद्वा वनेचरमपि । एवं च नागरिकस्य का वार्तेति भावः । अथ च प्रकटीकृतगुणानामेव
सार्थक्यम्, न त्वन्तर्गतानामिति भावः । यद्वा दूती नायकान्तरसंयोजनाय नायिकां
वक्ति । अन्तर्गतानेककामकलाभिः । त्वदीयाभिरिति भावः । यत्र येषु गुणेषु द्वित्रा
अपि । एवं च बहूनां का वार्तेति भावः । साक्षिणो विरलाः । गीतिरिव गीतिस्त्वत्प्र-
तिवेशिनी । तस्याः स गुणो यदसौ वनेचरं हरिणमपि हरति । एवं च तस्या एव क-
लाकलापः सार्थकः । याज्ञमपि रञ्जयति । एवं च त्वया स्वगुणाः परपुरुषसंगतिमन्तरा-
नर्थका न विधेया इति ध्वन्यते ॥
नायिकासखी सपत्नीसखीं प्रति वक्ति--</p>
<lg>
  <l>अलुलितसकलविभूषां प्रातर्बालां विलोक्य मुदितं प्राक् ।</l>
  <l>प्रियशिरसि वीक्ष्य यावकमथ निःश्वसितं सपत्नीभिः ॥ १८ ॥</l>
</lg>
<p>अळुलितेति । यथास्थितसकलभूषणाम् । एवं च संभोगेऽवश्यं कस्यचिद्भूषणस्योप-
मर्दः संजात एव स्यात्, तस्मान्न सुरतं संजातमिति भावः । बालाम् । एवं च यौवन-
शालित्वेन द्वेषयोग्यत्वं प्रियस्य प्रीतियोग्यत्वं च ध्वन्यते । प्रातः । एवं च सुरताभा-
वनिर्णययोग्यत्वं ध्वन्यते । विलोक्य । एवं च सम्यक्तया संभोगराहित्यनिर्णयवत्ता
ध्वन्यते । सपत्नीभिः । एवं च द्वेषशालित्वं व्यज्यते । बहुवचनेन सर्वासामैकमत्ये
नायिकायामुत्कर्षातिशयो ध्वन्यते । प्राङ् मुदितम् । संभोगविरहेण प्रियप्रेमराहित्यनि-
र्णयेनेति भावः । अथानन्तरं प्रियमस्तके यावकमलक्तकं वीक्ष्य निःश्वसितम् । प्रियप्र-
णामादिनापि नानया मानः परित्यक्त इति महत्सौभाग्यमस्या इत्यसूयया दुःखोद्रेका-
दिति भावः ॥
रात्रौ रतिसदने गमनेऽतिलजां नाटयन्तीं नायिकां सखी प्रातर्वक्ति--
अयि लज्जावति निर्भरनिशीथरतनिःसहाङ्गि सुखसुप्ते I
लोचनकोकनदच्छदमुन्मीलय सुप्रभातं ते ॥ १९ ॥</p>
<pb n="35" />
<p>अयीति । अयि लज्जावति । विपरीतलक्षणया लज्जाशून्ये । अत एव निर्भरमति-
शयशालि निशीथे मध्यरात्रे । एवं च प्रातर्निद्राजननयोग्यत्वं द्योत्यते । यद्रतं तेन साल-
साङ्गि सुखसुप्ते । एवं च क्लेशेन निद्रितं मयेति प्रतारणं कर्तुमशक्यमिति ध्वन्यते । लो-
चनकोकनदच्छदम् । जागरशोणत्वात्कोकनदत्वेन निरूपणम् । अत्र च्छदपदमनुचित-
मित्याभाति, विकसनस्योत्पलधर्मत्वात् । वस्तुतस्तु गोलके कोकनदत्वारोपः । पक्ष्मयु-
क्तप्रदेशयोर्दलत्वारोपः । उन्मीलनं च विश्लेष इति न किंचिद्दूषणम् । 'रक्तोत्पलं
कोकनदम्' इत्यमरः । उन्मीलय । ते सुप्रभातं भवतु । एवं च सुरात्रस्य जातत्वादे-
तावन्मात्रमाशास्यमिति भावः । एवं च यया रीत्या रात्रिरतिवाहिता तयैव रीत्या
दिनमप्यतिवाहनीयमिति परिहासो व्यज्यते ॥
कश्चिदसमय एव रतमर्थयमानः कयाचिन्नायिकया रतचिह्नोत्पत्तिभिया तदीयप्रेमह-
ठाभ्यां केवलमालिङ्गितस्तद्वृत्तान्तं स्ववयस्यं प्रत्याह--</p>
<lg>
  <l>अमिलितवदनमपीडितवक्षोरुहमतिविदूरजघनोरु ।</l>
  <l>शपथशतेन भुजाभ्यां केवलमालिङ्गितोऽस्मि तया ॥ २० ॥</l>
</lg>
<p>अमिलितेति । असंयुक्तवदनम् । ताम्बूलरागापगमभीत्येति भावः । अपीडितवक्षो-
रुहम् । चन्दनप्रच्यवभीत्येति भावः । अपीडितमित्यनेन किंचित्कुचसंबन्धो वृत्त इति
व्यज्यते । तेन कुचयोरत्यन्तोन्नतत्वम् । अतिविदूरजघनोरु । काञ्च्यादिविन्यासान्य-
थाभावसंभावनयेति भावः । एतानि क्रियाविशेषणानि । तया केवलं शपथशतेन । एवं
च केवलपदेनालिङ्गनेऽन्यप्रबलहेत्वभावो द्योत्यते । शपथपदेनापरिहार्यत्वम् । शतपदेन
स्वाग्रहबाहुल्यम् । यत्तु केवलमालिङ्गितोऽस्मीति व्याख्यानं तदमिलितवदनमित्यादिनैव
चुम्बनाद्यभावप्रतीतौ केवलपदानतिप्रयोजनत्वसंपादकतया केवलमकिंचित्करमाभाति ।
अत एव केवलं भुजाभ्यामित्यपास्तम् । भुजाभ्यामालिङ्गितोऽस्मि । यद्वा कश्चित्किंचि-
द्भग्नमानवत्या वृत्तं वक्ति । यदि मयापराधः कृतः स्यात्तदायमयं शपथ इति शपथश-
तेन । अथवा विस्रव्धनवोढावृत्तं कश्चिद्वक्ति ॥
कश्चित्कांचिद्वक्ति--</p>
<lg>
  <l>अतिपूजिततारेयं दृष्टिः श्रुतिलङ्घनक्षमा सुतनु ।</l>
  <l>जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥ २१ ॥</l>
</lg>
<p>अतीति । हे सुतनु । अतिपूजिता । श्रेष्ठेति यावत् । तारा नेत्रकनीनिका । पक्षे-
ऽत्यन्तपूजिता ताराख्या देवता यत्र । श्रुतेः कर्णस्योल्लङ्घनसमर्था । अत्यन्तविशालत्वा-
दिति भावः । पक्षे वेदोदीरितार्थाननुष्ठानकारिणीत्यर्थः । सवासनाभिप्रायविशेषशा-
लिनी । कज्जलादिसंस्कारवतीति केचित् । पक्षे तन्मतसिद्धक्षणिकपदार्थैकरूपकुबुद्ध्यु-
त्पादकहेतुमती । जिनसिद्धान्तस्थितिरिव कं न मोहयति । अपि तु सर्वमपीति भावः।
यद्वा सखीवचनमेतत् ॥</p>
<pb n="36" />
<p>कृतरतिलज्जासाध्वसां नवोढां नायिकां प्रलोभयितुं कस्याश्चिद्वार्तां सखी वक्ति--</p>
<lg>
  <l>अलमविषयभयलज्जावञ्चितमात्मानमियमियत्समयम् ।</l>
  <l>नवपरिचितदयितगुणा शोचति नालपति शयनसखीः ॥ २२ ॥</l>
</lg>
<p>अलमिति । नवपरिचितदयितगुणा । नूतनविज्ञातदयितरतिसुखेत्यर्थः । इयं त्वत्प्रति-
वेशिन्येतावत्कालमस्थानलज्जाभयाभ्यां वञ्चितम् । एवं चात्र न लज्जा न वा भीति-
रिति भावः । आत्मानमलमत्यर्थं शोचति । यद्वालमिति वञ्चितमित्यत्रान्वेति । एताव-
त्कालं वृथा स्थितमिति धियेति भावः । शयनसखीर्नालपति । अतिनिकटवर्तिनीभिरे-
ताभिः कथं नाहमीदृशं सुखमस्त्यत्रेति बलादवबोधितेति क्रोधादिति भावः । यद्वाग्रेऽपि
कदाचिदेताभिर्यानविधानं शिक्षणीयमिति धियेति भावः । एवं च तवाप्यग्र एवमेव
भविष्यतीत्यतोऽधुनास्मद्वचनेन लज्जाभयादि परित्यज्य प्रियसंनिधौ गच्छेति ध्वन्यते ॥
नायकं प्रति नायिकाविरहं सखी वक्ति--</p>
<lg>
  <l>अनुरागवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी ।</l>
  <l>त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टैव ॥ २३ ॥</l>
</lg>
<p>अनुरागेति । अनुरागाधीनेन । एवं चानुरागाधिक्ये विरहाधिक्यमिति ध्वन्यते ।
पक्षेऽनुरागेण प्रीत्या वर्तते । एवं च सर्वदा प्रीतिजनककार्यकारित्वं ध्वन्यते । उग्रेण ।
एवं चासह्यत्वं ध्वन्यते । पक्ष उग्रनाम्ना । तव विरहेण गृहीताङ्गी व्याप्ताङ्गी । पक्षे
स्वस्वरूपकृताङ्गी । त्रिपुररिपुणा महादेवेन । पक्षे स्वर्गमृत्युपातालवैरिणा । एवं च तव
विरहे क्वापि न तस्याः सुखमिति व्यज्यते । गौरी पार्वतीव । पक्षे विरहपाण्डुरवर्णवती ।
वरतनुर्नायिका । एवं चावश्यग्राह्यदर्शनयोग्यत्वं व्यज्यते । अर्धावशिष्टैव । विरहक्षीण-
त्वादिति भावः । पक्षेऽर्धनारीश्वरत्वादिति भावः । एवं च त्वत्संगमविलम्बे तस्याः
प्राणविश्लेष एव भविष्यतीति द्योत्यते ॥
काचिन्नायिका स्वात्यन्तासक्तनायकेच्छावदन्यनायिका उपहसति--</p>
<lg>
  <l>अन्यप्रवणे प्रेयसि विपरीते स्रोतसीव विहितास्थाः ।</l>
  <l>तद्गतिमिच्छन्त्यः सखि भवन्ति विफलश्रमा हास्याः ॥ २४ ॥</l>
</lg>
<p>अन्येति । विपरीते निम्नानुगामिनि । स्रोतसीव प्रवाह इव । अन्यप्रवणेऽन्यासक्ते
नायके विहितास्थाः कृतासक्तयः तद्गतिं तदासक्तिम् । स्वस्मिन्निति भावः । पक्षे सा
विपरीता या गतिर्गमनं तामिच्छन्त्यः । विफलश्रमाः । स्वनिष्ठतदासक्तेर्दूरीकर्तुमशक्य-
त्वादिति भावः । पक्षे प्रतिलोमजलागमनाभावादिति भावः । हास्या निन्दायोग्याः ।
पक्ष उपहासयोग्याः । न केवलं निरर्थकम् । अपि तु दुरर्थकत्वमिति भावः । एवं च
निम्नानुरूपगतिस्वभावस्य प्रवाहस्य विपरीतगतिरिवान्यनायिकासक्तनायकस्यान्यत्रास-
क्तिरसंभाविनीति द्योत्यते । नायिका चेयं गर्विता । यद्वा स्वीया परकीयां निन्दति ।
एवं च स्वकान्तासक्तिः स्वाभाविकीति भावः । अथवान्यनायिकासक्तं स्वनायकं कथं न</p>
<pb n="37" />
<p>स्वाधीनताभाजनं करोषीति वादिनीं सखीं काचिद्वक्ति । एवं च यथा नीचानुगामिनः
प्रवाहस्य परावृत्तिरशक्या तद्वत्पराङ्गनालम्पटनायकस्येति ध्वन्यते ॥
नायिकाविरहातिशयं सखी नायकं वक्ति--</p>
<lg>
  <l>अधिकः सर्वेभ्यो यः प्रियः प्रियेभ्यो हृदि स्थितः सततम् ।</l>
  <l>स लुठति विरहे जीवः कण्ठेऽस्यास्त्वमिव संभोगे ॥ २५ ॥</l>
</lg>
<p>अधिक इति । सर्वेभ्य एकादशेन्द्रियेभ्यः पञ्चप्राणेभ्यः पञ्चभूतेभ्यश्च योऽधिकः ।
संघातरूपत्वेनेति भावः । वस्तुतस्त्वेतदतिरिक्त इत्यर्थः । प्रियेभ्यो रूपादिविषयेभ्यः
प्रियः । निरुपाधिकप्रेमास्पदत्वादिति भावः । पक्षे सर्वेभ्यः सुहृद्भ्योऽधिकः । यद्वा स-
र्वेभ्यः प्रियेभ्योऽधिकः प्रिय इति योजना । सततं हृदि स्थितः । हृदयस्थानत्वाज्जीव-
स्येति भावः । पक्षे सर्वदा चिन्तनीयत्वेनेति भावः । संभोगे त्वमिव त्वद्विरहे स जीवः ॥
अस्या इति प्रत्यक्षवन्निर्देशः स्वसंनिधिवर्तित्वेन स्वाधीनत्वं व्यनक्ति । कण्ठे लुठति ।
एवं च त्वद्दर्शनविरहेऽस्याः प्राणप्रयाणमचिरादेव भविष्यतीति द्योत्यते । यद्वा पुनर्द-
र्शने मा विलम्बं कृथा इति नायिकासखी नायकं वक्ति । यथैतत्कालीनसंभोगे त्वमे-
तस्याः कण्ठे लुठसि तथा त्वद्विरहे जाते सति जीवो लुठति । लुठिष्यतीति भावः । एवं
च यथा न त्वद्विरहोऽस्या भविता तथा विधेयमिति प्रार्थना ध्वन्यते ॥
सर्वदा पराङ्गनासक्तमप्येनं मावमानय, यत इतोऽयं गमिष्यतीति वादिनीं सखीं काचिन्नायिका वक्ति--</p>
<lg>
  <l>अनयनपथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे ।</l>
  <l>म्लानैव केवलं निशि तपनशिला वासरे ज्वलति ॥ २६ ॥</l>
</lg>
<p>अनयनेति । प्रिये कान्तेऽनयनपथे । विदेशस्थ इत्यर्थः । तथा न व्यथा यथा दृश्य
एव दुष्प्रापे । एवं चैतद्विदेशगमने न तथा दुःखं यथैतदत्रत्यान्यादृशाचरणेनेति भावः ।
यद्वा काचित्कथमियन्ति विरहदिनान्यतिवाहितानि, अधुनैवागतमेनमवलोक्य विकलैव
जातासीति वादिनीं सखीं वक्ति । प्रिये, न तु पतिमात्रे । न तथा व्यथा । एवं चानय-
नपथेऽपि दुःखमस्तीति भावः । एवं च निकटवर्तिनायकाप्राप्तौ नायकीयविदेशगमना-
दपि दुःखातिशयो ध्वन्यते । अत्र दृष्टान्तमाह--निशि तपनशिला केवलं म्लानैव
वासरे ज्वलति ॥
सखी नायिकां शिक्षयति--</p>
<lg>
  <l>अविभाव्यो मित्त्रेऽपि स्थितिमात्रेणैव नन्दयन्दयितः ।</l>
  <l>रहसि व्यपदेशादयमर्थ इवाराजके भोग्यः ॥ २७ ॥</l>
</lg>
<p>अविभाव्य इति । मित्त्रेऽपि । किमु वाच्यं शत्राविति भावः । यद्वा सूर्ये । विभा-
वनार्होऽपि न । एवं च रात्रावेव द्रष्टव्य इति भावः । स्थितिमात्रेणैव नन्दयन् । एवं</p>
<pb n="38" />
<p>चोपभोगाद्यभावो व्यज्यते । दयितो नायकः । पक्षे प्रीतिविषयः । रहसि । एवं च ज-
नसंचारायोग्यत्वेनात्यन्तनिगूहनीयत्वं द्योत्यते । व्यपदेशाद्व्याजात् । अर्थ इव द्रव्य-
मिव । अराजके । एवं च नायकस्य धनाढ्यत्वं ध्वन्यते । पक्षे लुण्ठनभीतिरावेद्यते ।
भोग्यः । नायिका चेयं परकीया ॥
बह्वपराद्धं त्वयेति नायिका वक्तीति सखीवचनमाकर्ण्य स्वयमेव कश्चिन्नायिकां वक्ति--</p>
<lg>
  <l>अश्रौषीरपराधान्मम तथ्यं कथय मन्मुखं वीक्ष्य ।</l>
  <l>अभिधीयते न किं यदि न मानचौराननः कितवः ॥ २८ ॥</l>
</lg>
<p>अश्रौषीरिति । ममापराधानश्रौषीः । एवं चापराधेषु चाक्षुषविषयत्वाभावो व्यज्यते ।
तेन नियतमपराद्धमनेनेति निश्चयकरणमनुचितमिति । इदं तथ्यमिति सोल्लुण्ठवचनम् ।
मन्मुखं वीक्ष्य कथय । एवं च मुखदर्शनोत्तरमनया न किंचिद्वक्तुं शक्यमिति भावः ।
यद्वा सत्यं कथयेति योजना । एवं च बहवोऽपराधास्त्वया श्रुतास्तन्मध्ये यः सत्यत्वेन
निर्णीतस्तमेव मत्समक्षं वदेत्यर्थः । मदीयापराधास्त्वया श्रुताः, इदं मत्समक्षं तथ्यं
वदेति वार्थः । नायिका वक्ति । यदि कितवो धूर्तस्त्वम् । एवं च चौरसाहचर्ये नियत-
मिति द्योत्यते । मानस्य चौररूपमाननं यस्य स न स्यास्तदा किं नाभिधीयते । एवं च
त्वद्दर्शने न मया किमपि वक्तुं शक्यमिति ध्वन्यते । यद्वाभिधीयते न किमित्यादि
सखीवचनम् ॥
कयोश्चिदनुरागं कश्चिद्वक्ति--</p>
<lg>
  <l>अन्योन्यमनु स्रोतसमन्यथान्यत्तटात्तटं भजतोः ।</l>
  <l>उदितेऽर्केऽपि न माघस्नानं प्रसमाप्यते यूनोः ॥ २९ ॥</l>
</lg>
<p>अन्योन्यमिति । प्रशस्तं स्रोतोऽम्बुसरणं यस्मिंस्तत्स्रोतसम् । अर्शआदित्वात्प्रशं-
सायामच् । एतादृशं तटादन्यतटम्, अथान्यतटमनुलक्ष्यीकृत्य परस्परं भजतोः । एवं
चैतत्तटापेक्षयान्यत्तटं प्रशस्तप्रवाहवदिति व्याजेन परस्परनिभृतसंभाषणादीच्छावतोरिति
भावः । एवं च जनदर्शनशङ्कया नैकत्रावस्थितिरिति ध्वन्यते । यूनोः । एवं चैतादृशा-
वस्थायोग्यत्वं द्योयते । अर्के सूर्य उदितेऽपि माघस्नानं न प्रसमाप्यते । एवं च माघ-
स्नानस्य सूर्योदयकालीनत्वेन तदननुसंधानत्वेनात्यन्तासक्तिरावेद्यते ॥
कश्चिद्यौवनशालिनीं नायिकामन्योक्त्या दुर्जनसंगतिशालिनी त्वमस्माकमनुपयु-
क्तेति वक्ति--</p>
<lg>
  <l>अयि चूतवल्लि फलभरनताङ्गि विष्वग्विकासिसौरभ्ये ।</l>
  <l>श्वपचघटकर्पराङ्का त्वं किल फलितापि विफलैव ॥ ३० ॥</l>
</lg>
<p>अयीति । अयि चूतवल्लि फलभरैर्नमिताङ्गि । पक्षे स्तनभरनताङ्गि । विष्वक्सर्वतो
विसारि सौरभ्यं सौगन्ध्यं यस्याः । पक्षे सौरभ्यं कीर्तिः । एवं च नाहमीदृशीति न</p>
<pb n="39" />
<p>वक्तव्यमिति भावः । श्वपचाश्चाण्डालास्तेषां घटसंबन्धिकर्पराणामङ्कश्चिह्नं यस्याः । सू-
क्ष्मस्यापि रसालस्यैतद्दोहदेनाचिरादेव फलोत्पत्तिर्भवतीति दोहदवित्प्रसिद्धिः । एवं च
चाण्डालसंबन्धादनुपयुक्तत्वमावेद्यते । पक्षे दुर्जनसङ्गशालित्वम् । फलितापि निश्चितं
विफलैव । समीचीनजनोपभोगानर्हत्वादिति भावः ॥
प्रतिष्ठापुरःसरं स्वल्पमपि जीवनं समीचीनमिति कश्चिद्वक्ति--</p>
<lg>
  <l>अञ्जलिरकारि लोकैर्म्लानिमनाप्त्वैव रञ्जिता जगती ।</l>
  <l>संध्याया इव वसतिः स्वल्पापि सखे सुखायैव ॥ ३१ ॥</l>
</lg>
<p>अञ्जलिरिति । लोकैरञ्जलिरकारि । अर्घदानार्थमिति भावः । पक्षेऽञ्जलिकरणेन
लोक आज्ञाकारित्वं ध्वन्यते । म्लानिर्निस्तेजस्कत्वम् । पक्षेऽसामर्थ्यम् । जगती रञ्जिता-
रक्ततां नीता । पक्षेऽनुरागवती कृता । एवं च लोकस्यानुद्वेगदायित्वं ध्वन्यते । संध्याया
इव स्वल्पापि वसतिरवस्थितिः सुखायैव । न दुःखायेत्यर्थः । संध्यासमयस्थितेरचिराव-
स्थायित्वादिति भावः । एवं चैतद्विलक्षणजीवनान्मरणमेव वरमिति द्योलते ॥
नायिका नायकं वक्ति--</p>
<lg>
  <l>अगृहीतानुनयां मामुपेक्ष्य सख्यो गता बतैकाहम् ।</l>
  <l>प्रसभं करोषि मयि चेत्त्वदुपरि वपुरद्य मोक्ष्यामि ॥ ३२ ॥</l>
</lg>
<p>अगृहीतेति । अनङ्गीकृतानुनयां मामुपेक्ष्य । मानस्यासाध्यत्वबुद्ध्येति भावः । एवं च
तासामेतादृक्करणमनुचितमिति व्यज्यते । सख्यः । सुखदुःखनिरूपणार्हा इति भावः ।
गताः । एवं च परावृत्त्यनर्हत्वं व्यज्यते । बत खेदे हर्षे च । अहमेकाकिनी । चेद्यदि
मयि प्रसभं बलात्कारं करोषि तर्ह्यद्याधुनैव । एवं चोत्कण्ठितत्वं ध्वन्यते । त्वदुपरि
शरीरं पातयिष्ये । एवं च सखीकृतानुनयस्य मयोपेक्षितत्वात्त्वयावश्यं बलात्कार:
प्रदर्शनीयः । ततश्च यथेच्छं मयापि विपरीतरतादिना क्रीडितव्यमिति व्यज्यते । अथ च
मत्सख्योऽत्र न सन्तीति मत्वा यदि बलात्कारं करोषि तर्ह्यहं प्राणान्परित्यज इति व्यज्यते ॥
सखी कंचन नायकं स्वनायिकाधीनं कर्तुं तस्या गुणशालित्वं भङ्ग्यन्तरेण वक्ति--</p>
<lg>
  <l>अस्थिररागः कितवो मानी चपलो विदूषकस्त्वमसि ।</l>
  <l>मम सख्याः पतसि करे पश्यामि यथा ऋजुर्भवसि ॥ ३३ ॥</l>
</lg>
<p>अस्थिरेति । यद्वान्यनायिकासु स्वनायिकायाश्चातुरीं प्रकटयन्ती सखी वक्ति । चञ्च-
लानुरागः । धूर्तः । अभिमानी । चाञ्चल्यशाली । विदूषकः । 'विकृताङ्गवचोवेषैर्हास्य-
कारी विदूषकः' । त्वमसि । अस्थिरराग इत्यनेन मैत्त्र्यनर्हत्वम्, कितव इत्यनेन प्रतारणा-
निपुणत्वम्, मानीत्यनेन गर्वशालित्वेन प्रतिक्षणसमाधेयत्वम्, विदूषक इत्यनेनानेकचेष्टा-
शालित्वं ध्वन्यते । मम सख्याः करे पतसि यथर्जुर्भवसि तथा पश्यामि । एवं च मत्सखी-
गुणासक्तेन त्वया सर्वमपीदं परित्याज्यमिति भावः । यद्वैतादृशी मत्सखी यदेतादृशं नायकं
स्वाधीनताभाजनं कर्तुं विजानातीति भवतीभ्यो मत्सखी समधिकतरेति भावः ॥</p>
<pb n="40" />
<p>नायिकासखी क्वचिद्गच्छन्तं नायकं प्रति नायिकासक्तिं वक्ति--</p>
<lg>
  <l>अकरुण कातरमनसो दर्शितनीरा निरन्तरालेयम् ।</l>
  <l>त्वामनु धावति विमुखं गङ्गेव भगीरथं दृष्टिः ॥ ३४ ॥</l>
</lg>
<p>अकरुणेति । यद्वा क्रुधा गच्छन्तं नायकं नायिकासखी वक्ति । अकरुण करुणाशून्य ।
यत ईदृशीमप्येनां परित्यज्य गच्छसीति भावः । कातरं मनो यस्याः । कातरपदेन
कदायमागमिष्यतीति चिन्तातिशयो द्योयते । दर्शितं नीरमश्रु यया । दर्शितमित्यनेन
विघ्नसूचनमिति कश्चित् । प्रकटमित्यर्थो ज्यायान् । पक्षे प्रकटितजला । निरन्तराला
निर्गतावकाशा । सर्वत्र विद्यमानेत्यर्थः । एवं च विशालत्वं द्योत्यते । तेन च शोभातिश-
यो द्योत्यते । यद्वा कश्चिद्द्रक्ष्यतीति भियेतस्ततोऽवलोकनशालित्वम् । यद्वा निर्गतावकाशा ।
अविच्छिन्नेत्यर्थः । एवं च लोकभीतिशून्यत्वेनात्यन्तासक्तिरावेद्यते । पक्षे निर्गताकाशा ।
आकाशाद्भुवि गङ्गागमनादिति भावः । इयं दृष्टिर्भगीरथं गङ्गेव विमुखं पश्चादनवलोकन-
कारिणम् । अज्ञानात्क्रोधाद्वेति भावः । पक्षेऽग्रगमनकारित्वादिति भावः । एवं च ता-
पापनोदिकायास्तापकरणमनुचितं तवेति ध्वन्यते । यद्वा नायकविदेशागमनकालीनना-
यिकासखीवाक्यमेतत् । नायिकेयं परकीया ॥
अप्रकटितमानां नायिकां नायको वक्ति--</p>
<lg>
  <l>अन्तःकलुषस्तम्भितरसया भृङ्गारनालयेव मम ।</l>
  <l>अप्युन्मुखस्य विहिता वरवर्णिनि न त्वया तृप्तिः ॥ ३५ ॥</l>
</lg>
<p>अन्तरिति । अन्तःकलुषेणान्तरक्रोधादिना स्तम्भितोऽप्रकटितो रसः शृङ्गारादि-
र्यया । एवं च बाह्यक्रोधापेक्षयान्तरक्रोधस्यातिदुष्टत्वं द्योयते । पक्ष आभ्यन्तरपङ्का-
दिना स्तम्भितो निर्गमनायोग्यो रसो जलं यस्याः । भृङ्गारनालयेव । 'भृङ्गारः कनका-
लुका' । त्वया वरवर्णिनि । एवं चैतादृक्कार्यकरणमनुचितं तवेति ध्वन्यते । पक्षे शोभ-
नवर्णा । उन्मुखस्यापि । पक्ष ऊर्ध्वमुखस्यापि मम तृप्तिर्न विहिता । एवं च त्वं मम
जीवनदाननिदानरूपेति ध्वन्यते ॥
कथमनेन नायकेन ममास्ति संगतिरिति लोके प्रसिद्धिरिति वादिनीं नायिकामन्यो-
क्त्या सखी वक्ति--</p>
<lg>
  <l>अयि सरले सरलतरोर्मदमुदितद्विपकपोलपालेश्च ।</l>
  <l>अन्योन्यमुग्धगन्धव्यतिहारः कषणमाचष्टे ॥ ३६ ॥</l>
</lg>
<p>अयीति । अयि सरले । एवं चैतादृशसंदेहवत्ता तव युक्तैवेति ध्यन्यते । सरलतरोः ।
सरलपदेन कषणयोग्यत्वं धूर्तताशून्यत्वं च द्योत्यते । मदेन दानेन मन्मथेन च मुदितो
यो द्वाभ्यां पिबतीति द्विपो गजस्तस्य कपोलपालेश्च । मदमुदित इत्यनेन जनभीतिशू-
न्यत्वं ध्वन्यते । अन्योन्यं मुग्धस्य सुन्दरस्य गन्धस्य । पक्षे वासनायाः । अनुरागस्ये-
त्यर्थः । व्यतिहारो विनिमयः । कषणम् । पक्षे योगम् । आचष्टे । एवं च परस्परानु-
राग एव परस्परसंबन्धं वक्तीति भावः ॥</p>
<pb n="41" />
<p>कयाचन विलोकितः कश्चित्तस्या विलोकनसुखं स्वस्य सखायं वक्ति--</p>
<lg>
  <l>अस्याः कररुहखण्डित[^१]काण्डपटप्रकटनिर्गता दृष्टिः ।</l>
  <l>पटविगलितनिष्कलुषा स्वदते पीयूषधारेव ॥ ३७ ॥</l>
</lg>
<p>अस्या इति । अस्या नखसच्छिद्रीकृतकाण्डपटस्पष्टनिर्गता दृष्टिः । वसनविगलितात
एव कालुष्यरहिता पीयूषधारेव । स्वदते । एवं च दृशि न केवलं संतापापनोदकत्वम्,
अपि तु प्राणप्रदत्वमिति ध्वन्यते ॥
पतिगृहगमनार्हां कांचित्काचित्कस्याश्चिद्वार्तापुरःसरं वक्ति--</p>
<lg>
  <l>अस्याः पतिगृहगमने करोति माताश्रुपिच्छिलां पदवीम् ।</l>
  <l>गुणगर्विता पुनरसौ हसति शनैः शुष्करुदितमुखी ॥ ३८ ॥</l>
</lg>
<p>अस्या इति । अस्याः पतिगृहगमने । गमनं प्राथमिकम् । माता । एवं च वात्सल्यं
व्यज्यते । अश्रुभिः पिच्छिलां पदवीं करोति । पिच्छिलामित्यनेनाश्रुबाहुल्यं द्योत्यते ।
गुणगर्विता पुनरसौ शुष्करुदितमुखी । अश्रूणामभावादिति भावः । शनैर्हसति । एवं च
यथेयं गच्छति तथैव त्वया गन्तव्यमिति द्योत्यते । कस्याश्चिद्वार्तां काचिद्वक्तीति वा ॥</p>
<lg>
  <l>अङ्के निवेक्ष्य कूणितदृशः शनैरकरुणेति शंसन्त्याः ।</l>
  <l>मोक्ष्यामि वेणिबन्धं कदा नखैर्गन्धतैलाक्तैः ॥ ३९ ॥</l>
</lg>
<p>अङ्क इति । अङ्के निवेश्य कूणिता संकोचिता दृग्यया । चिरबद्धवेणीबन्धविस्रंसन-
जन्यदुःखवशात्कूणितत्वम् । अत एव अकरुण शनैरिति शंसन्त्याः । यद्वा चिरप्रवासि-
त्वेन अकरुणेति संबुद्धिः । अकरुण इति शनैः शंसन्त्या इति वा । नायके प्रवासिनि न
केशसंस्कार इति सतीसंप्रदायः । गन्धतैलाक्तैर्नखैः कदा वेणीबन्धं मोक्ष्यामि । पथिका-
शंसनमेतत् ॥
कथमकृतभूषणाहमागमिष्यामीति वादिनीं दूती वक्ति--</p>
<lg>
  <l>अलमनलंकृतिसुभगे भूषणमुपहासविषयमितरासाम् ।</l>
  <l>कुरुषे वनस्पतिलता प्रसूनमिव वन्ध्यवल्लीनाम् ॥ ४० ॥</l>
</lg>
<p>अलमिति । यद्वा सर्वासामन्यासां भूषणम्, न मह्यमिति खिन्नां सखी समाधत्ते ।
अलमत्यर्थमलंकाराभावेन सौभाग्यशालिनि । इतरासां भूषणम् । वन्ध्यवल्लीनां पुष्पव-
त्त्वेऽपि फलाजनकानां प्रसूनमिव वनस्पतिलता पुष्पं विना फलजनिका । 'वानस्पत्यः
फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः' । त्वं निन्दाविषयं कुरुषे । एवं च नालंकरणमात्रं
सौभाग्यसंपादकम्, अपि तु दयितवश्यतासंपादनसामर्थ्यम् । तच्च तवैवास्तीति विभू-
षणकरणाय विलम्बो न विधेयः । खेदो वा न मह्यमस्ति विभूषणमिति ध्वन्यते ॥
---------------------------------------------------------------------------------
[^१]. तिरस्करिणी. 'कनात' इति भाषा.</p>
<pb n="42" />
<p>कश्चित्कांश्चिन्निन्दति--</p>
<lg>
  <l>अबुधा अजङ्गमा अपि कयापि गत्या परं पदमवाप्ताः ।</l>
  <l>मन्त्रिण इति कीर्त्यन्ते नयबलगुटिका इव जनेन ॥ ४१ ॥</l>
</lg>
<p>अबुधा इति । अबुधा ज्ञानशून्याः पण्डितभिन्ना वा । अचेतनत्वादिति भावः ।
अजङ्गमा गतिशून्याः । पक्ष इतस्ततः प्रेषणानर्हाः । कयापि गत्या चालनविशेषेण । पक्षे
दैववशादित्यर्थः । परं पदमाद्यपङ्क्तिगृहम् । पक्ष उत्कृष्टस्थानम् । अवाप्ताः । नयबलस्य
बुद्धिबलस्य गुटिका इव जनेन । एवं च वास्तवज्ञानशून्यत्वं ध्वन्यते । मन्त्रिण इति
कीर्त्यन्ते । एवं च यथा पदातिसंज्ञकगुटिका राजपङ्क्तिसदनमासाद्यामात्यव्यवहारभा-
गिनी भवति, तद्वदेतेऽकिंचित्करा अपि पदविशेषावाप्त्यामात्यपदवीभागिन इति
व्यज्यते ॥
अत्यन्ताभिमानशालिनी मत्सखीति वादिनीं सपत्नीसखीं नायिकासखी वक्ति--</p>
<lg>
  <l>अतिशीलशीतलतया लोकेषु सखी मृदुप्रतापा नः ।</l>
  <l>क्षणवाम्यदह्यमानः प्रतापमस्याः प्रियो वेद ॥ ४२ ॥</l>
</lg>
<p>अतीति । लोकेऽत्यन्तशीलस्य स्वभावस्य शीतलतया । सौम्यतयेत्यर्थः । नः सखी
मृदुप्रतापा । एवं च लोके प्रतापदर्शनमनर्थकमिति भावः । यद्वा मृदुप्रतापेति स्वरवि-
शेषरूपकाक्वा न मृदुप्रतापेत्यर्थः । एतदेवाह--अस्या मत्सख्याः क्षणवाम्येन क्षणिककौ-
टिल्येन । एवं च चिरकालीनवाम्यमसंभवतीति ध्वन्यते । यद्वा क्षण उत्सवे यद्वाम्यम् ।
प्रणयकोप इति यावत् । तेन । एवं च वास्तवमहाकोपे को वेद किं भावीति व्यज्यते ।
दह्यमानः प्रियः प्रतापं तेजोविशेषम्, अथ च प्रकृष्टसंतापं जानाति । एवं च यत्र
यद्विधानमुपयुक्तं तत्र तदेवेयं विदधातीति द्योत्यते । यद्वा त्वत्सखी मृदुप्रतापेति
वादिनीं काचिद्वक्ति । एवं च नः सखी लोके मृदुप्रतापा नायकं प्रत्यभिमानशालिनी,
त्वत्सखी तु नायकं प्रत्यकिंचित्करा लोके तु कोपनेति द्योत्यते । तेन स्वसख्यामाधि-
क्यम् । यद्वा पूर्वोत्तरार्धाभ्यामुभयोक्ती ॥
यदीयमुत्कृष्टगुणा तर्ह्येतदीयनायकः कथमन्यानुरक्त इति वादिनीं कांचिन्नायिका-
सखी वक्ति--</p>
<lg>
  <l>अन्यास्वपि गृहिणीति ध्यायन्नभिलषितमाप्नोति ।</l>
  <l>पश्यन्पाषाणमयीः प्रतिमा इव देवतात्वेन ॥ ४३ ॥</l>
</lg>
<p>अन्याखिति । अन्यास्वप्यन्याङ्गनास्वपि स्वगृहिणीति ध्यायन्नेव । स्वनायिकाभावनां
कुर्वन्नेवेत्यर्थः । एवं च स्वीयाङ्गनाभावनानर्हास्वप्यन्याङ्गनासु तद्भावनासंपादनप्रतिपाद-
नान्नायिकायां रूपादिगुणशालित्वमावेद्यते । अभिलषितमानन्दम् । पक्ष इच्छाविषयी-
भूतमर्थम् । आप्नोति । पाषाणमयीः प्रस्तरविकाररूपाः प्रतिमा देवतात्वेन पश्यन्निव ।
एवं च यथा पाषाणप्रतिमासु देवताभावनया जनस्याभिलषितावाप्तिस्तथैवान्यासु नायि-</p>
<pb n="43" />
<p>कासु स्वनायिकाभावनयैवाभिलषितावाप्तिरिति भावः । एवं च पराङ्गनासु जडत्वं ध्व-
न्यते । यद्वा देवतायां देवताध्यानाकरणं जडप्रतिमासु च देवताध्यानकरणमिति यथा
जनस्य स्वभावस्तथा नायकस्याप्यन्याङ्गनास्वासक्तिसंपादनमिति स्वभाव इति ध्वन्यते ।
तेन च नैतस्यां गुणराहित्यमाशङ्कनीयमिति । 'आप्नोमि' इति पाठेऽन्याङ्गनासक्तिस्त-
वानुचितेति वादिनीं नायिकासखीं नायको वक्ति ॥
गर्वशालिनं नायकं नायिकासख्युपदिशति--</p>
<lg>
  <l>अनुपेत्य नीचभावं बालक परितो गभीरमधुरस्य ।</l>
  <l>अस्याः प्रेम्णः पात्रं न भवसि सरितो रसस्येव ॥ ४४ ॥</l>
</lg>
<p>अन्विति । बालक अपरिपक्वबुद्धे । नीचभावं गर्वशून्यत्वमनुपेत्याकृत्वा समन्ताद्ग-
भीरं बहुपरिमाणं मधुरं सुखदम् । पक्षेऽगाधं मधुररसवत् । परित इत्यनेन सर्वत्र गा-
म्भीर्यमाधुर्यशालित्वं तेन चैतादृशस्य प्रेम्णो दुर्लभत्वं द्योत्यते । अस्याः प्रेम्णः पात्रममत्रम् ।
पक्षे तीरयोरन्तरम् । सरितो रसस्येव जलस्येव न भवसि । एवं च गर्वं विहायैवास्याः
प्रेम्णो भाजनं भवान्भवत्विति व्यज्यते । रसस्येवेत्यनेन प्रेम्णि रससंभृतत्वमावेद्यते ॥
सखी नायिकामन्योक्त्या स्तौति--</p>
<lg>
  <l>अधिवासनमाधेयं गुणमार्गमपेक्षते न च ग्रथनाम् ।</l>
  <l>कलयति युवजनमौलिं केतककलिका स्वरूपेण ॥ ४५ ॥</l>
</lg>
<p>अधीति । अधिवासनं संस्कारम् । यथा पुष्पादिभिस्तैलादेः । आधेयमौपाधिकं गु
णमार्गम् । यथा मुक्ताफलादे रन्ध्रादि । प्रथनाम् । यथा मालादेः । न चापेक्षते । पक्षे
स्वतः पद्मिनीत्वेन न सौगन्ध्यादिसंस्कारापेक्षा । स्वाभाविकगुणवत्त्वान्नौपाधिकगुणगवे-
षणापेक्षा । मार्गणं मार्ग इति व्युत्पत्तेः । स्वतो नायकवशीकरणसामर्थ्यान्न दूत्यादि-
घटनापेक्षा । केतककलिका स्वरूपमात्रेण युवजनमौलिं कलयति । मौलिभूषणरूपा
भवतीति भावः । पक्षे सर्वयुवभिः प्रणतिपुरःसरं प्रार्थ्यत इति भावः । एवं चात्र
स्वकीयपरकीयादिनायिकाधिक्यं नायिकायामावेद्यते ॥
नायिका स्वनायकसङ्गविद्वेषकारिणी वृत्तेति प्रतिपादनेन नायकात्यन्तासक्तिं तस्या-
मुत्पादयितुं नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>अपनीतनिखिलतापां सुभग स्वकरेण विनिहितां भवता ।</l>
  <l>पतिशयनवारपालिज्वरौषधं वहति सा मालाम् ॥ ४६ ॥</l>
</lg>
<p>अपनीतेति । दूरीकृतसकलदुःखाम् । पक्षे तापो नानाविधज्वरः । सुभग भवता
स्वकरेण, न तु दूत्यादिद्वारा । विनिहितां मालाम् । पतिः, न तु प्रियः । तच्छयनरूपो
यो वारपालिज्वरश्चातुर्थिकादिस्तदौषधरूपां वहति । केवलं त्वद्दत्तमालयैव तद्दिवसीय-
त्वद्विरहदुःखनिरासस्तस्या इति भावः । एवं चैतादृशनायिकानुरागः सुदुर्लभोऽपि ते
सुलभ इति धन्यस्त्वमसीति द्योत्यते ॥</p>
<pb n="44" />
<p>नायिकासक्तिं नायके नायिकासखी वक्ति--</p>
<lg>
  <l>अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् ।</l>
  <l>भवतानन्यगतिः सा विहितावर्तेन तरणिरिव ॥ ४७ ॥</l>
</lg>
<p>अगणितेति । हे सुन्दर । एवं च कामिनीस्पृहणीयत्वं ध्वन्यते । असंख्यातचातु-
र्यादिगुणेन । एवं च युक्तमेव ते नायिकावशीकरणसामर्थ्यमिति द्योत्यते । पक्षेऽनादृतो
गुणो बन्धनरज्जुर्येन । भवता चरित्रमेव चारित्रं पातिव्रत्यं तदप्युदासीनं कृत्वा तिर-
स्कृत्य । अपिना तिरस्कारानर्हत्वं ध्वन्यते । पक्षे चकारबहिर्भावेनारित्रं केनिपातनम् ।
आवर्तेन तरणिरिव सानन्यगतिः । नास्त्यन्या, त्वदतिरिक्तेत्यर्थः, गतिर्यस्याः । पक्षे-
ऽन्यत्र गमनाभाववती । विहिता । एवं चानुग्राह्या सेति व्यज्यते ॥
पराङ्गनास्थापितोत्तरीयतया वसनान्तरहीनतया सलज्जं कंचन कश्चिद्वक्ति--</p>
<lg>
  <l>अनुरक्तरामया पुनरागतये स्थापितोत्तरीयस्य ।</l>
  <l>अप्येकवाससस्तव सर्वयुवभ्योऽधिका शोभा ॥ ४८ ॥</l>
</lg>
<p>अनुरक्तेति । अनुरक्ताङ्गनया पुनरागमनाय स्थापितोत्तरीयवसनस्यैकवाससोऽपि ।
दारिद्र्यादिति भावः । तव सकलभाग्यशालितरुणेभ्यः शोभाधिका । एवं चैतादृशदयि-
तानुरागे दारिद्र्यदुःखमकिंचित्करम् । तदननुरागे च यौवनसंपत्ती अकिंचित्करे इति
व्यज्यते ॥
कश्चित्स्वस्य सखायं वक्ति--</p>
<lg>
  <l>अर्धः प्राणित्येको मृत इतरो मे विधुंतुदस्येव ।</l>
  <l>सुधयेव प्रियया पथि संगत्यालिङ्गितार्धस्य ॥ ४९ ॥</l>
</lg>
<p>अर्ध इति । पथि मार्गे संगत्या प्राचीनसंबन्धेन । यद्वा मार्गविषयकसंबन्धेन । एवं च
दैववशसंपन्नमेतदिति ध्वन्यते । प्रिययालिङ्गितार्धस्य । प्रियासंबन्धवदर्धस्येत्यर्थः । आलि-
ङ्गनपदेनैकाङ्गसंपर्केऽपि सर्वाङ्गीणानन्दतुल्यानन्दः संवृत्त इति व्यज्यते । मे सुधया वि-
धुंतुदस्येवैकोऽर्धो विषमांश: । 'पुंस्यर्धोऽर्धं समेंऽशके' इत्यमरः । एवं च राहोरसमां-
शमुण्डरूपस्योपमानता संगच्छते । प्राणिति । इतरो मृत एव । एवं च नान्यथा शङ्कनी-
यमिति भावः । एवं च प्राप्ताया अपि सुधाया दुर्दैवान्न संभोगो राहोस्तथा प्रियाया
ममेति ध्वन्यते । तेन च नायिकाङ्गसंबन्धानुभववत एवाङ्गस्य सार्थक्यम्, नापराणाम-
ङ्गानामिति । तेन च न यस्य नायिकाङ्गस्पर्शसुखानुभवस्तज्जीवनमत्यन्तानर्थकमिति ॥
कठिनहृदयापि कोमलहृदया मन्नायिकेति कश्चिद्वक्ति--</p>
<lg>
  <l>अवधीरितोऽपि निद्रामिषेण माहात्म्यमसृणया प्रियया ।</l>
  <l>अवबोधितोऽस्मि चपलो बाष्पस्तिमितेन तल्पेन ॥ ५० ॥</l>
</lg>
<p>अवधीरितोऽपीति । निद्राव्याजेनावज्ञातोऽपि । मानवशादिति भावः । एवं च</p>
<pb n="45" />
<p>ममाप्यवबोधने भीतिरित्यावेद्यते । अत एव माहात्म्येन प्रशस्तान्तःकरणतया स्निग्धया
प्रियया । चपलः । एवं च स्वस्मिन्सापराधत्वमावेद्यते । बाष्पैः स्तिमितेनार्द्रेण तल्पे-
नावबोधितोऽस्मि । मानं ज्ञापितोऽस्मि । एवं च भीत्या मम तूष्णींभावं विज्ञाय मान-
ज्ञापनकरणेन कोमलहृदयत्वमावेद्यते ॥
कस्याश्चित्किंचित्संगतिशालिनं कंचन काचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>अयि शब्दमात्रसाम्यादास्वादितशर्करस्य तव पथिक ।</l>
  <l>स्वल्पो रसनाछेदः पुरतो जनहास्यता महती ॥ ५१ ॥</l>
</lg>
<p>अयीति । अयि पथिक । एवं चात्र चिरानवस्थित्या यथार्थज्ञानशून्यत्वं ध्वन्यते ।
शब्दमात्रसाम्यात् । शर्करेति । पक्षे नायिकेति । शब्दमात्रेत्यनेनार्थदृष्टिविधुरत्वं
व्यज्यते । आस्वादिता, न तूपभुक्ता शर्करा सिकता येन तस्य । एवं चाधुनापि विचार्य
चरितव्यमिति ध्वन्यते । रसनाछेदः स्वल्पः पुरतोऽग्रे । 'इयं च तेऽन्या पुरतो विडम्बना'
इतिवदत्र समाधिः । महती। एवं चासत्यत्वं व्यज्यते । जनस्य । एवं च निवारणानर्हत्वम् ।
हास्यता भवित्री । एवं च तस्याः कठिनतया न संगतिश्चिरावस्थायिनीति नैतावन्मात्रम्,
अपि तु कथमत्यन्तानभिज्ञ इति लोकोपहासो भावीति व्यज्यते । यद्वा स्वनामैक्याद-
न्याङ्गनागृहीतदर्शनं काचिद्वक्ति । शब्दमात्रसाम्यम् । न मन्निष्ठगुणादेरिति भावः । रस-
नाच्छेद आस्वादविच्छेदः । नीरसेति यावत् । भाविगुणशून्यत्वज्ञानेनेति भावः । एताव-
न्मात्रं न, किंतु जनहास्यता । एवं च तस्याः पुंश्चलीत्वेन प्रसिद्धिः, न ममेति व्यज्यते ॥
सपत्नीदुःखसंतप्तां काचित्समाधत्ते--</p>
<lg>
  <l>अभिनवयौवनदुर्जयविपक्षजनहन्यमानमानापि ।</l>
  <l>सूनोः पितृप्रियत्वाद्बिभर्ति सुभगामदं गृहिणी ॥ ५२ ॥</l>
</lg>
<p>अभिनवेति । अभिनवयौवनेन । अभिनवत्वमप्रसूतत्वादिति भावः । दुःखेन जेतुम-
शक्यः । यौवनसंपादनस्य दुष्करत्वादिति भावः । यो विपक्षजनः । विपक्षपदेन दुः-
खजननस्वभाववत्त्वं जनपदेन समुदायवत्तया प्रतीकारानर्हत्वं ध्वन्यते । तेन हन्यमानः ।
एवं च प्रात्यहिकेनासह्यत्वं द्योत्यते । मानो यस्याः । सापि । एवं च यत्र प्रतिष्ठामात्र-
मपि गतं तत्र का वार्ता रतादीनामिति भावः । गृहिणी प्रथमस्त्री पुत्रस्य पितृप्रियत्वा-
त्सौभाग्यशालिनीनां गर्वं बिभर्ति । एवं च सकलसदनाधिपतिप्रायपुत्रवत्तया त्वया न
किंचिदपि सपत्न्यवमाननं गणनीयमिति व्यज्यते ॥
कश्चित्स्नानोद्यतकामिनीकुचकलशमवलोक्य व्यञ्जनया त्वत्संगमकामोऽहमिति वक्ति--</p>
<lg>
  <l>अपमानितमिव संप्रति गुरुणा ग्रीष्मेण दुर्बलं शैत्यम् ।</l>
  <l>स्नानोत्सुकतरुणीस्तनकलशनिबद्धं पयो विशति ॥ ५३ ॥</l>
</lg>
<p>अपमानितमिति । गुरुंणा प्रबलेन ग्रीष्मेणापमानितं तिरस्कृतम् । एवं च जलप्रवे-
शकरणमुचितमिति व्यज्यते । दुर्बलम् । एवं च प्रतीकारासामर्थ्यं ध्वन्यते । स्नानो-</p>
<pb n="46" />
<p>त्सुका या तरुणी तस्याः स्तनरूपकलशसंबन्धवत् । एवं च ग्रीष्मे तरुणीस्तनयोरति-
शीतलत्वमावेद्यते । अत्र निबद्धमित्यनेन प्रबलग्रीष्मक्लेशितशैत्यस्य यथा दुःखनिवारण-
साहाय्यकारकं स्तनमण्डलं तथा मदनानलकदर्थितस्य ममापीदं भवत्विति ध्वन्यते ।
एवं च त्वदालिङ्गनोत्तरं मरणमपि सुखदं ममेति ध्वन्यते । तेन च राजादिभीतिशून्य-
त्वम् । अन्योऽपि केनचित्तिरस्कृतः प्रतीकारासमर्थ: कलशादि बद्ध्वा जले देहं त्यजतीति
लौकिकम् । यद्वा ग्रीष्मनिर्जितस्य शैत्यस्य यथा त्वत्कुचकलश एव शरणं तथा मन्मथ-
निर्जितस्य ममापीति भावः ॥
कथमतिचिरकालेऽपि संवृत्ते शयनागारान्न निर्गच्छसीति वादिनीं सखीं नायिका
वक्ति--</p>
<lg>
  <l>अलसयति गात्रमखिलं क्लेशं मोचयति लोचनं हरति ।</l>
  <l>स्वाप इव प्रेयान्मम मोक्तुं न ददाति शयनीयम् ॥ ५४ ॥</l>
</lg>
<p>अलसयतीति । गात्रं शरीरमलसयत्युत्थानादिव्यापारासमर्थं करोति । नानाविधसु-
रतेनेति भावः । पक्षे जृम्भादिजननेन विषयव्यापारासमर्थं करोति । अखिलं दुःखम् ।
पक्षे गृहव्यापारजन्यं श्रमम् । मोचयति । लोचनं हरति स्वाधीनतां नयति । स्वदर्शन-
मात्रप्रवणं करोतीति भावः । एवं च नायके सौन्दर्योत्कर्षशालित्वं ध्वन्यते । पक्षे प-
दार्थज्ञानशून्यत्वं करोति । स्वाप इव प्रेयान् । एवं च निवारणानर्हत्वं व्यज्यते । पक्षे
दुःखाभावसंपादकत्वेन प्रीतिविषयत्वम् । मम शयनीयं परित्यक्तुं न ददाति । एवं
चैतावत्कालं नायकनैकट्यादेव विलम्बो बहिरागमन इति न ममापराध इति भावः ।
प्रेयानिव स्वाप इति योजना वा । एवं च नायककार्यकारितया प्रेमविषयत्वं स्वापे द्यो-
त्यते । तेन चालस्यादि स्वापकार्यमेवेति संगुप्तरतिकत्वम् ॥
कश्चित्कांचिद्वक्ति--</p>
<lg>
  <l>अंसावलम्बिकरधृतकचमभिषेकार्द्रधवलनखरेखम् ।</l>
  <l>धौताधरनयनं वपुरस्त्रमनङ्गस्य तव निशितम् ॥ ५५ ॥</l>
</lg>
<p>अंसेति । स्कन्धावलम्बितकरेण धृताः। जलविमोचनार्थमिति भावः । कचा यस्मिन् ।
स्नानेनार्द्राः । धवलाः । लौहित्यापगमादिति भावः । नखरेखा नखक्षतानि यस्मिन् ।
धौताधरनयनम् । ताम्बूलरागापगमादिति भावः । कामशास्त्रे नेत्रचुम्बनस्य विधानात् ।
पक्षे निराकृतमालिन्यावयवम् । तव वपुरनङ्गस्य तीक्ष्णं शस्त्रम् । एवं चैकोपभोगजन्य-
जाड्यनिरसनेनान्यसंभोगसामर्थ्यवत्ता जातेति ध्वन्यते । वपुषि निशितानङ्गास्त्रतुल्यता-
प्रतिपादनेन त्वत्सङ्गासंपादनेन मत्प्राणहरणजन्यपापभागित्वं भविष्यति तवेति ध्वन्यते ॥
वेश्यासक्तं कंचन काचिदुपदिशति--
अविनिहितं विनिहितमिव युवसु स्वच्छेषु वारवामदृशः
उपदर्शयन्ति हृदयं दर्पणबिम्बेषु वदनमिव ॥ ५६ ॥</p>
<pb n="47" />
<p>अविनिहितमिति । वारवामदृशो वेश्याः । एवं च नैकत्र स्थिरप्रेमशालित्वमित्यावे-
द्यते । स्वच्छेषु निर्मलान्तःकरणेषु । एवं च प्रतिबिम्बभवनार्हत्वं ध्वन्यते । युवस्वविनि-
हितं हृदयम् । प्रेमेत्यर्थः । विनिहितमिवोपदर्शयन्ति । दर्पणस्वरूपेषु वदनमिव । एवं
चैतासां प्रेमभ्रमेण ये समासक्ता भवन्ति तेऽत्यन्तमूढा इति द्योत्यते । अत्र बिम्बपदं न
तथा सप्रयोजनमित्याभाति ॥
अहमस्मिन्नासक्तेति कथं लोकप्रसिद्धिरिति वादिनीं नायिकां सखी वक्ति--</p>
<lg>
  <l>अतिलज्जया त्वयैव प्रकटः प्रेयानकारि निभृतोऽपि ।</l>
  <l>प्रासादमौलिरुपरि प्रसरन्त्या वैजयन्त्येव ॥ ५७ ॥</l>
</lg>
<p>अतीति । अतिलजया द्रुततरगतेनेति भावः । यत्र यत्र तदीयकटाक्षस्ततोऽपसर-
णादिति मावः । त्वयैव । एवं च नान्यस्यापराध इति भावः । निभृतोऽपि केनचिदन-
धिगतोऽपि प्रेयान्प्रकटः ख्यातोऽयमस्यामासक्त इत्यकारि । यदियमेनं दृष्ट्वातिलज्जां
नाटयति, तर्ह्ययमस्यामासक्त इति लोकैरधिगतम्, अतस्तवैवापराध इति भावः । उपरि
प्रसरन्त्या । एवं च दर्शनयोग्यत्वं द्योयते । पताकयेव । प्रासादस्य देवताद्यायतनस्य
मूर्धा । यद्वा तथाविधभोगाद्यभावेऽपि कथं लोकेऽस्मत्संगतिरभिव्यक्ता जातेति वादिनीं
सखी वक्ति । त्वयातिलजयैव । न तथाविधात्यन्तसंघटनेनेति भावः । उपरि प्रसरन्त्ये-
त्यनेनान्तःप्रविष्टत्वाभावप्रदर्शनेन रताद्यपरिचित्यानन्दराहित्यं नायिकायामावेद्यते । एवं च
बहिस्तथा प्रदर्शनीयं यथा न केनापि नायकीयपरिचितिलेशोऽपि ज्ञातुं शक्य इति भावः ॥
मध्यस्थावलम्बनेन संघटितवाग्भिः खलजयोऽपि सुशक इति कश्चिद्वक्ति--</p>
<lg>
  <l>अन्योन्यग्रथनागुणयोगाद्भावः पदार्पणैर्बहुभिः ।</l>
  <l>खलमपि तुदन्ति मेढीभूतं मध्यस्थमालम्ब्य ॥ ५८ ॥</l>
</lg>
<p>अन्योन्येति । अन्योन्यग्रथनागुणः परस्पराविरोधिघटनारूपो गुणः । पक्षे परस्पर-
बन्धनरज्जुः । तद्योगात् । गावो वाचः । पक्षे वृषभाः । पदार्पणैर्व्यवहारपददर्शनैः ।
पक्षे चरणविन्यासैः । मेढीभूतमाधाररूपत्वान्मध्यस्थम् । पक्षपातविरहेण विवादनिर्णाय-
कम् । पक्षे मध्यभूमिस्थितं मेढीभूतम् । 'पुंसि मेढिः खले दारु न्यस्तं यत्पशुबन्धने'
इत्यमरः । अर्थात्काष्ठमालम्ब्य दुर्जनमपि । अपिना दुर्जयत्वं व्यज्यते । पक्षे धान्यमर्द-
नस्थानम् । व्यथयन्ति ॥
दुर्जनवाक्यमतिदुःसहमिति कश्चिद्वक्ति--</p>
<lg>
  <l>अननुग्रहेण न तथा व्यथयति कटुकूजितैर्यथा पिशुनः ।</l>
  <l>रुधिरादानादधिकं दुनोति कर्णे क्वणन्मशकः ॥ १९ ॥</l>
</lg>
<p>अनन्विति । अननुग्रहेण विरोधेन । एवं च द्रव्याद्यपहारादिद्वारा दुःखदत्वं ध्वन्यते ॥
'अर्थग्रहेण' इत्यपि पाठः । पिशुनः खलः । न तथा व्यथयति । तथाविधदुःखजनको
नेत्यर्थः । यथाकटुकूजितैर्दुष्टवचनैः पीडयति। अत्र दृष्टान्तमाह--मशको रक्तग्रहणादधिकं</p>
<pb n="48" />
<p>कर्णे शब्दं कुर्वन्दुनोति । 'मणितं रतिकूजितम्' इत्युक्त्या कूजितशब्दः शब्दसामान्याभि-
धायकः ॥
प्रथमं संजातलाघवस्योत्तरकालीनगौरववत्त्वेऽपि न तदपगच्छतीति कश्चिद्वक्ति--</p>
<lg>
  <l>अग्रे लघिमा पश्चान्महतापि पिधीयते नहि महिम्ना ।</l>
  <l>वामन इति त्रिविक्रममभिदधति दशावतारविदः ॥ ६० ॥</l>
</lg>
<p>अग्र इति । अग्रे प्रथमतो लघिमा लाघवम् । पक्षे ह्रस्वत्वम् । पश्चादनन्तरं महतापि
महिना गौरवेण । पक्षे दैर्घ्येण । नाच्छाद्यते । एवं च नवीनातिशयितप्रतिष्ठयापि न प्राक्त-
नाप्रतिष्ठा निराकर्तुं शक्येति भावः । अत्र दृष्टान्तमाह--दशावतारविदः । एवं चोत्तरो-
त्तरप्रतिष्ठाज्ञानवत्त्वमावेद्यते । त्रिविक्रमत्वादतिदीर्घत्वमावेद्यते । वामन इति ह्रस्व इत्य-
भिदधति । एवं च परमेश्वरस्याप्येतादृशी गतिस्तत्र का वार्ता मनुजस्येति भावः । एवं
च तथा कर्म कर्तव्यं यथारम्भ एव प्रतिष्ठा भवतीति ध्वन्यते ॥
काचिन्नवीनसपत्नीशङ्कितां समाधत्ते--</p>
<lg>
  <l>अङ्के स्तनंधयस्तव चरणे परिचारिका प्रियः पृष्ठे ।</l>
  <l>अस्ति किमु लभ्यमधिकं गृहिणि यदाशङ्कसे बालाम् ॥ ६१ ॥</l>
</lg>
<p>अङ्क इति । अङ्के स्तनंधयो बालकः, चरणे परिचारिका दासी, पृष्ठे प्रियः । आज्ञाकारी-
त्यर्थः । पक्षपाती वा । अतोऽधिकं किमु लभ्यमस्ति । 'अलब्धम्' इत्यपि पाठः । यद्वा-
धिकं किमाशङ्कस इति योजना । गृहिणि । एवं च सर्वाधिकारवत्त्वं द्योत्यते । बालाम् ।
एवं च तथाविधज्ञानराहित्यं व्यज्यते । आशङ्कसे । एवं च सर्वसुखसत्त्वान्न बालाभीतिः
कर्तव्येति ध्वन्यते ॥
कयोश्चिदासक्तिं कश्चिद्वक्ति--</p>
<lg>
  <l>अधर उदस्तः कूजितमामीलितमक्षि लोलितो मौलिः ।</l>
  <l>आसादितमिव चुम्बनसुखमस्पर्शेऽपि तरुणाभ्याम् ॥ ६२ ॥</l>
</lg>
<p>अधर इति । अधर उदस्त उच्चतां नीतः । चुम्बनार्थमिति भावः । कूजितम् ।
पीडाव्यञ्जकः स्वरः कृत इत्यर्थः । अक्ष्यामीलितम् । सुखाविर्भावादिति भावः । लो-
लितो मौलिः । परित्यजेति ज्ञापनार्थमिति भावः । नायकव्यापारपूर्वकमेते पर्यायेण
व्यापाराः । इति तरुणाभ्याम् । एवं च परस्परानुरागातिशयो व्यज्यते । अस्पर्शेऽपि
स्पर्शाभावेऽपि । रजोदर्शनेऽपीति वा । चुम्बनसुखमासादितमिव । एवं चैतादृशरीत्या
संतोषसंपादनेनासक्तिविशेषो ध्वन्यते । नायिका परकीया ॥
कश्चित्कस्यचिदवस्थां कंचित्प्रति वक्ति--</p>
<lg>
  <l>अतिरभसेन भुजोऽयं वृतिविवरेण प्रवेशितः सदनम् ।</l>
  <l>दयितास्पर्शोल्लसितो नागच्छति वर्त्मना तेन ॥ ६३ ॥</l>
</lg>
<pb n="49" />
<p>अतीति । अत्युत्कण्ठया । एवं च पुरोवर्तित्वेन दर्शनयोग्यत्वं ध्वन्यते । वृतिविवरेण
भित्तिच्छिद्रेण । एवं च सूक्ष्मत्वं व्यज्यते । सदनम् । नायिकाधिष्ठितमिति भावः ।
प्रवेशितो भुजो दयितास्पर्शेनोल्लसितः पुष्टिमापनस्तेन मार्गेण नागच्छति । यद्वातिस-
रलतया गुप्तव्यवहारेण नायिकासदनं प्रापितः । एवं च स्वस्य श्रमबाहुल्यं व्यज्यते ।
तत्सुखोल्लसितः । एवं च तदासक्तिविशेषो ध्वन्यते । तेन मार्गेण नागच्छति । एवं च
महता श्रमेण नायिकां प्रापितोऽयं तदासक्त्या मामगणयित्वैव नायाति । परंतु नैतदुचि-
तमिति व्यज्यते । इति दूती वक्ति । यद्वात्युत्कण्ठया । एवं चाग्रे किं भविष्यतीति
विचारशून्यत्वं ध्वन्यते । वृतिविवरेण चौरादिमार्गेणापि सदनं प्रवेशितः । एवं च स्वत-
स्तथाविधधूर्तताविहीन इति व्यज्यते । दयितास्पर्शोल्लसित इत्यनेन तत्र चिरकालावस्था-
यित्वं द्योत्यते । अयं भुजो हस्तरूपः । एवं च परप्रेरणया कार्यकारित्वमावेद्यते । तेन
मार्गेण नागमिष्यति । एवं चातिविलम्बकरणेन येन मार्गेणायमागतस्तेन मार्गेण गन्तु-
मधुना प्रतिबन्धकवशान्न पार्यते । अतस्त्वमेनं कयापि गत्या निःसारयेति नायिकासखीं
नायकसखी वक्ति ॥
नायको नायिकां प्रति वक्ति--</p>
<lg>
  <l>अम्बरमध्यनिविष्टं तवेदमतिचपलमलघु जघनतटम् ।</l>
  <l>चातक इव नवमभ्रं निरीक्षमाणो न तृप्यामि ॥ ६४ ॥</l>
</lg>
<p>अम्बरेति । अम्बरमाकाशं वसनं वा । 'अंशुके व्योम्नि चाम्बरम्' इत्यमरः । तन्मध्य-
वर्ति । अतिचपलं रतव्यापारविशेषत्वात् । पक्षे स्वभावात् । अलघु महत् । तवेदं जघ-
नतटं नवमभ्रं मेघं चातक इव निरीक्षमाणो न तृप्यामि । एवं च चिरतरपिपासाव्या-
कुलस्य चातकस्य नूतनमेघदर्शनेन तृप्तिस्तथातिविरहखिन्नस्य मम तव जघनदर्शनेन तृप्ति-
रिति व्यज्यते । तेन चात्यन्तस्पृहावानहमस्मीति व्यज्यते ॥</p>
<lg>
  <l>अयमन्धकारसिन्धुरभाराक्रान्तावनीभराक्रान्तः ।</l>
  <l>उन्नतपूर्वाद्रिमुखः कूर्मः संध्यास्त्रमुद्वमति ॥ ६९ ॥</l>
</lg>
<p>अयमिति । अन्धकाररूपा ये सिन्धुरा गजास्तद्भारेणाक्रान्ता या मही तस्या भरेणा-
क्रान्तः । उन्नतं पूर्वाचलरूपं मुखं यस्य सः । पृष्ठे भारातिशयेन मुखौन्नत्यमिति भावः ।
कूर्मः संध्यारूपं रुधिरमुद्वमति । अन्यस्याप्यत्यन्तभारवत्तया मुखाल्लोहितं निःसरतीति
लौकिकम् । एवं च प्रातःकालो वृत्तः, उपपतिर्निःसार्यतामिति सखी नायिकां वक्ति ।
यद्वा कूर्मोऽयं संध्यारूपं रुधिरं वमतीत्युक्त्या संध्योदयापलापो द्योत्यते । नायिका चेयं
रतिप्रीतिमती तस्या एवोक्तिर्नायकं प्रति । प्रातःकालीनरतावसरे नायिका नायकचित्तं
व्याक्षिपतीति ऋजवः ॥
मूर्खेष्वेव मूर्खसमावेशः, न पण्डितेष्विति कश्चिद्वक्ति--</p>
<lg>
  <l>अन्तर्भूतो निवसति जडे जडः शिशिरमहसि हरिण इव ।</l>
  <l>अजडे शशीव तपने स तु प्रविष्टोऽपि निःसरति ॥ ६६ ॥</l>
</lg>
<pb n="50" />
<p>अन्तर्भूत इति । जडे । मूर्खत्वात् । पक्षे जलरूपत्वात् । जडो मूर्खः । पक्षे पशुत्वात् ।
अन्तर्भूतः । परैर्विशिष्याज्ञायमान इत्यर्थः । निवसति । शिशिरमहसि चन्द्रे हरिण इव ।
अजडे पण्डिते । स तु मूर्खस्तु । पक्षेऽजडे तेजोरूपत्वादिति भावः । तपने शशीव
प्रविष्टोऽपि कुहूदिने चन्द्रमण्डलस्य सूर्यान्तर्हितत्वमिति ज्योतिर्वित्प्रसिद्धिः । निःसरति
दूरीभवति । शीघ्रमेवेति भावः ॥
दूती 'नायिका त्वय्यासक्ता' इति वैद्यं वक्ति--</p>
<lg>
  <l>अगणितजनापवादा त्वत्पाणिस्पर्शहर्षतरलेयम् ।</l>
  <l>आयास्यतो वराकी ज्वरस्य तल्पं प्रकल्पयति ॥ ६७ ॥</l>
</lg>
<p>अगणितेति । न गणिता जननिन्दा यया । एवं च वैद्यस्य तथाविधत्वेन प्रसिद्धिरि-
त्यावेद्यते । त्वत्पाणिना स्पर्शः । नाडीप्रदर्शनार्थमिति भावः । तेन यो हर्षस्तदर्थे चञ्चला।
एवं च संभोगसुखार्थे किं करिष्यतीति न विद्म इति ध्वन्यते । आयास्यतो ज्वरस्या-
गामिज्वरस्य चातुर्थिकादेस्तल्पं वराकी । एवं च कृपार्हलं व्यज्यते । प्रकल्पयति ।
एवं चोत्साहविशेषवत्ता द्योत्यते । नाडीविलोकनार्थे त्वदागमननिर्णयेन ज्वरागमनदु:-
खमपि न तया गण्यत इत्यासक्तिविशेषो ध्वन्यते ॥
एकवंशजन्यत्वेऽपि धनवत्तयैव प्रभुतेति कश्चिद्वक्ति । यद्वैकवंशजन्यत्वेऽपि कस्यचि
त्समृद्धिः कस्यचिन्न कश्चित्प्रधानं कश्चिद्गुणीभूत इति विधातुः सृष्टिर्विचित्रेति नात्र
क्लेशादि विधेयमिति कंचन कश्चित्समाधत्ते--</p>
<lg>
  <l>अप्येकवंशजनुषोः पश्यत पूर्णत्वतुच्छताभाजोः ।</l>
  <l>ज्याकार्मुकयोः कश्चिद्गुणभूतः कश्चिदपि भर्ता ॥ ६८ ॥</l>
</lg>
<p>अप्येकेति । एकवंशजयोरपि । वंशो वेणुः । पक्षे कुलम् । 'कुलत्वक्सारौ वंशौ
इत्यभिधानात् । एकपदेन कारणैक्याद्वैलक्षण्यानर्हत्वं ध्वन्यते । पूर्णत्वं स्थूलावयववत्त्वम् ।
पक्षे समृद्धत्वम् । तुच्छत्वं सूक्ष्मत्वम् । पक्षे निर्धनत्वम् । तद्वतोर्ज्याकार्मुकयोः । अत्र
'अल्पाच्तरम्' इत्यनेन ज्याशब्दस्य पूर्वनिपातः । कश्चिज्ज्यारूपो गुणभूतः । कश्चि-
त्कार्मुकरूपो भर्ता । 'ज्याप्रधानौ गुणौ,' 'धातृपोष्टारौ भर्तारौ' इत्यभिधानात् । इदं
पश्यत । एवं चैकवंशजत्वेऽपि यस्मिन्पूर्णत्वं स एव भर्ता, नान्य इति व्यज्यते । यद्वै-
कवंशजन्यत्वेऽपि दैवाधीनतया कस्यचित्समृद्धिप्रभुत्वे कस्यचिदसमृद्धत्वाप्रधानत्वे इति
नात्र खेद उचित इति ध्वन्यते । अथवाचेतनेऽपि गुणप्राधान्येनैव लक्षाप्तिः । अतो भव-
द्भिरप्यनयैव रीत्या स्थेयम् । न तु सर्वप्राधान्येनेति परस्पराहंकारशालिनां समाधान-
मिदम् ॥
नायिकासहचरी नायकं वक्ति--</p>
<lg>
  <l>अभिनवकेलिक्लान्ता कलयति बाला क्रमेण घर्माम्भः ।</l>
  <l>ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्लतेव मधु ॥ ६९ ॥</l>
</lg>
<pb n="51" />
<p>अभिनवेति । अद्भुतसुरतश्रान्ता बाला । एवं च कोमलाङ्गीत्वमावेद्यते । क्रमेण ।
कपोलाद्यङ्गक्रमेणेत्यर्थः । घर्माम्भः कलयति । ज्यां मौर्वीमर्पयितुम् । सज्यां कर्तुमित्यर्थः ।
नमिता कुसुमास्त्रस्य मदनस्य धनुर्लता मकरन्दमिव । एवं च यथा यथा सुरतविशेषा-
रम्भस्तथैतस्याः श्रमातिशयः । अतो मध्ये मध्ये विश्रान्तिर्देयेति ध्वन्यते । तेन च किं-
चित्कालं तूष्णीभवस्थित्या पुनः पूर्ववद्दार्ढ्यं ते भावीति द्योत्यते । यद्वा ज्यामर्पयितुमित्या-
दिदृष्टान्तव्याजेन सुखादिदानप्रवृत्तेन त्वया नैतस्याः श्रमो गणनीय इति व्यज्यते । अथवा
मदनधनुर्लताया यथा नमनकाले मधुबिन्दूद्गिरणं स्वाभाविकं तथैतस्याः सुरतकालीनखे-
दाभ्यः स्वाभाविकम् । अतो न मनसि त्वयैतस्याः श्रमवत्ता संभावनीयेति द्योत्यते ॥
कश्चन विरही वक्ति--</p>
<lg>
  <l>असती कुलजा धीरा प्रौढा प्रतिवेशिनी यदासक्तिम् ।</l>
  <l>कुरुते सरसा च तदा ब्रह्मानन्दं तृणं मन्ये ॥ ७० ॥</l>
</lg>
<p>असतीति । असती । इत्यनेन स्वनिष्ठप्रेमशालित्वमावेद्यते । वंशजा कुलजा । इत्यनेन
स्थिरप्रेमवत्त्वमावेद्यते । धैर्यवती धीरा । इत्यनेन स्थिरस्वभाववत्त्वम् । तेनापि तदेव ।
प्रौढा । इत्यनेन स्वतन्त्रत्वं तेन च संकेतकरणसमर्थत्वम् । प्रतिवेशिनी । इत्यनेन तदेव ।
रसशालिन्यासक्तिं यदा कुरुते तदा ब्रह्मानन्दं तृणं मन्ये । एवं चैतादृशनायिका
ब्रह्मानन्दवदप्राप्येत्यर्थः ॥
चिरविरहखिन्नां नायिकां नायको वक्ति--</p>
<lg>
  <l>अविरलपतिताश्रु वपुः पाण्डु स्निग्धं तवोपनीतमिदम् ।</l>
  <l>शतधौतमाज्यमिव मे स्मरशरदाहव्यथां हरति ॥ ७१ ॥</l>
</lg>
<p>अविरलेति । अविरलपतिताश्रु । चिरकालीनदर्शनादिति भावः । पक्षे जलसंबन्धा-
दिति भावः । पाण्डु । विरहादिति भावः । पक्ष उज्ज्वलरूपम् । स्निग्धं स्नेहशालि ।
पक्षे स्वाभाव्यादिति भावः । उपनीतं समीपदेशे प्रापितं वपुः शतधौताज्यमिव मे स्मर-
शरदाहव्यथां हरति । एवं च यथा जीर्णज्वरादेर्नाशकं शतवारक्षालितं घृतं तथा त्वद्वपु-
र्मम चिरकालीनसंतापापनोदकम् । अतः समालिङ्गय मामिति ध्वन्यते ॥
एतस्याः संभोगस्थानं केदार एवेति कश्चिद्वक्ति--</p>
<lg>
  <l>अन्तर्निपतितगुञ्जागुणरमणीयश्चकास्ति केदारः ।</l>
  <l>निजगोपीविनयव्ययखेदेन विदीर्णहृदय इव ॥ ७२ ॥</l>
</lg>
<p>अन्तरिति । अन्तर्निपतिता गुञ्जाश्च गुणश्च तै रमणीयः सुन्दरः । यद्वा गुञ्जारूपो
यो गुणः । शोभोत्कर्षजनकत्वादिति भावः । संभोगादिना गुञ्जाहारत्रुटनादिति
भावः । केदारश्चकास्ति । निजा या गोपनकर्त्री । एवं च खेदौचित्यं द्योत्यते । तस्या
विनयविनाशेन यद्दुःखं तेन विदीर्णहृदय इव । निपतितगुञ्जानामारक्तत्वादिति भावः ।
यथा स्वपालकस्य मुख्यवस्तुविनाशे सेवकस्य दुःखं भवति, तथा विनयस्यातिमुख्यत्वेन</p>
<pb n="52" />
<p>तन्नाशे केदारस्यातिदुःखमिति भावः । यद्वा नायिकान्यादृशचरणविज्ञानेऽप्यखिन्नां सखी-
मपरसखी वक्ति । अन्तरिति । गोपीपदेन नीचत्वं तेन च विनयव्ययेऽपि न तथा खेदार्ह-
त्वमित्यावेद्यते । केदार इत्यनेनाचेतनस्यापि स्वामिनीविनयव्ययेन दुःखवत्ता । तव तु
सचेतनाया नेति महदनुचितमित्यावेद्यते । अत एव गुणपदम् । सहृदयमित्यर्थः ॥
परपुरुषरतानामनिवार्यं दौष्ट्यमित्याह कश्चित्--</p>
<lg>
  <l>अमुना हतमिदमिदमिति रुदती प्रतिवेशिनेऽङ्गमङ्गमियम् ।</l>
  <l>रोषमिषदलितलज्जा गृहिणी दर्शयति पतिपुरतः ॥ ७३ ॥</l>
</lg>
<p>अमुनेति । रुदती । अत एव कोपकपटेन । न वास्तवमित्यर्थः । दलिता विनाशिता
लज्जा यया । अमुना नायकेनेदमिदमङ्गं हतमित्यङ्गमङ्गम् । वक्षःस्थलादिकमित्यर्थः ।
पतिसमक्षम् । पतिपदं रक्षणकर्तृत्वेनाप्रियत्वं ध्वनयति । प्रतिवेशिने जारभूताय । प्रतिवे-
शिपदं निकटवर्तितया स्वदुःखनिवेदनयोग्यत्वं ध्वनयति । गृहिणी । एवं च गृहकर्मव्या-
पृताया अप्येतादृशी गतिस्तत्रान्यवार्ता क्वेति भावः । दर्शयति । पतिपुरतोऽप्येतादृश-
कर्तव्यतानिपुणाः स्त्रियो भवन्तीति सर्वथा न विश्वासस्तासां विधेय इति ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेताकारव्रज्या ।
------------------------
आकारव्रज्या ।
क्वचिदन्यत्र विहितकेलिं 'कथं न मय्यनुरागं दर्शयसि' इति वादिनं नायकं नायिका
वक्ति--</p>
<lg>
  <l>आन्तरमपि बहिरिव हि व्यञ्जयितुं रसमशेषतः सततम् ।</l>
  <l>असती सत्कविसूक्तिः काचघटीति त्रयं वेद ॥ ७४ ॥</l>
</lg>
<p>आन्तरमिति । आन्तरमपि । इत्यपिना बहिर्व्यञ्जनेऽतिकाठिन्यमावेद्यते । रसं रागम्,
शृङ्गारादिकम्, द्रवद्रव्यं च । 'शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः' इत्यभिधानात् ।
हि इति निश्चयेन । अशेषतो बहिरिव । व्यञ्जयितुं प्रकटीकर्तुम् । असती पुंश्चली, स-
त्कवेः सूक्तिः, काचघटी, इति त्रयं सततं वेद । एवं च नास्माकं बहिरङ्गरागप्रकटनज्ञा-
नमित्यावेद्यते । तेन च यत्रैव बहिरङ्गानुरागज्ञापनसामर्थ्यं तत्रैव गच्छेति । प्रसादरूप -
गुणवत्त्वादेव सत्काव्यत्वमिति वक्तीति कश्चित् ॥
कश्चिन्नायिकां वक्ति--</p>
<lg>
  <l>आलोक एव विमुखी क्वचिदपि दिवसे न दक्षिणा भवसि ।</l>
  <l>छायेव तदपि तापं त्वमेव मे हरसि मानवति ॥ ७५ ॥</l>
</lg>
<p>आलोक एवेति । आलोक एव दर्शन एव । पक्षे प्रकाश एव विमुखी । एवं चालि-
ङ्गनादौ किं करिष्यसीति न विद्म इति भावः । क्वचिदपि कस्मिंश्चिदपि दिवसे दक्षिणा-
नुकूलगामिनी । मानवति मानिनि । पक्षे परिमाणवति । तदपि त्वमेव मे छायेव तापं</p>
<pb n="53" />
<p>संतापम् । पक्ष आतपम् । हरसि । एवं च त्वदतिरिक्ता न मम गतिरित्यवगत्याहमनुग्राह्य
इति व्यज्यते ॥
कश्चित्कंचित्प्रति वक्ति--</p>
<lg>
  <l>आज्ञा काकुर्याच्ञाक्षेपो हसितं च शुष्करुदितं च ।</l>
  <l>इति निधुवनपाण्डित्यं ध्यायंस्तस्या न तृप्यामि ॥ ७६ ॥</l>
</lg>
<p>आज्ञेति । आज्ञैवं कुर्विति, काकुर्दीनवचनम् । येनोद्दीपनादि भवतीति भावः । या-
च्ञामुकं मह्यं देहीति, आक्षेपः कथमिदं कृतमिति, हसितम् । आनन्दाविर्भावादिति
भावः । शुष्करुदितम् । स्वस्मिन्नसामर्थ्यव्यञ्जनायेति भावः । इति तस्या निधुवनं सुरतं
तत्संबन्धि पाण्डित्यं ध्यायन्न तृप्यामि । एवं चैतादृशकेलिकलाप्रावीण्यमन्यत्र नास्तीति
व्यज्यते । तेन चैतादृशनायिकासुरतध्यानं समुचितमिति ॥
कांचिन्मानिनीं सखी समाधत्ते--</p>
<lg>
  <l>आज्ञापयिष्यसि पदं दास्यसि दयितस्य शिरसि किं त्वरसे ।</l>
  <l>असमयमानिनि मुग्धे मा कुरु भग्नाङ्कुरं प्रेम ॥ ७७ ॥</l>
</lg>
<p>आज्ञापयिष्यसीति । आज्ञां करिष्यसि । एवं च नायके स्वाधीनता भवित्रीति ध्वन्यते । न
केवलमाज्ञाकारित्वम्, अपितु प्रणिपातप्रवणता तस्य भविष्यतीत्याह-- दयितशिरसि पदं
दास्यसि किं त्वरसे । एवं चैतत्क्रमेण विधेयमिति भावः । मुग्धे अत एवासमय मानिनि,
प्रेम भग्नाङ्कुरं मा कुरु । एवं च दृढे प्रेम्णि सर्वमेतादृग्विधानं युक्तमिति प्रीत्या स्वाधी-
नतां नीत्वा पश्चात्कोपकरणमुचितमिति व्यज्यते । अथादौ दासभावं विधाय पश्चाच्च-
रणताडनं विधेयमिति लौकिकोक्तिरपि ॥
नायकः स्वस्य सखायं वक्ति--</p>
<lg>
  <l>आसाद्य भङ्गमनया द्यूते विहिताभिरुचितकेलिपणे ।</l>
  <l>निःसारयताक्षानिति कपटरुषोत्सारिताः सख्यः ॥ ७८ ॥</l>
</lg>
<p>आसाद्येति । विहिता अभिरुचिता खेच्छाविषयीभूता या केलिस्तद्रूपः पणो य-
स्मिन् । यस्य पराजयस्तेन जयशालिरुचिविषयीभूतसुरतं देयमेवंरूपपणवतीति भावः ।
द्यूते भङ्गं पराजयं प्राप्यानया नायिकयाक्षान्पाशान्निःसारयतेति कपटरुषा मिथ्या-
कोपेन सख्य उत्सारिता दूरीकृताः । एवं चेदृशकीडनं न कदाप्यस्तु । अपसारयन्तु
पाशानिति मिषेण सख्याद्युत्सार्य प्रतिज्ञातकेलिं कुरुष्वेति मां प्रत्यभिव्यञ्जितमिति व्य-
ज्यते । तेन चैतादृशी नान्या चतुरेति भावः ॥
सखी नायिकामुपदिशति--</p>
<lg>
  <l>आदरणीयगुणा सखि महता निहितासि तेन शिरसि त्वम् ।</l>
  <l>तव, लाघवदोषोऽयं सौधपताकेव यच्चलसि ॥ ७९ ॥</l>
</lg>
<pb n="54" />
<p>आदरणीयेति । आदरणीया गुणाः सौन्दर्यादयो यस्याः । पक्षे गुणास्तन्तवः ।
महता मान्येन । पक्ष उन्नतेन । तेन नायकेन । पक्षे सौधेन । शिरसि । पक्षेऽग्रभागे ।
निहितासि । एवं च नायकस्तवाज्ञां सर्वदा करोतीति न तस्यापराध इति भावः ।
तवायं लाघवदोषः । दोषपदेन लाघवे परित्याज्यत्वं द्योत्यते । सौधपताकेव यच्चलस्यस्थि-
रचित्ता भवसि । पक्षे चलनं कम्पः । एवं चैतादृशनायकं प्रति क्रोधादिना चाञ्चल्यकर-
णमनुचितं तवेति ध्वन्यते ॥
'एतादृशत्वदीयदर्शनेन ममासक्तिस्त्वय्यत्यन्तं समुदेति' इति कश्चित्कांचिद्वक्ति । यद्वा
'त्वया तिरस्कृतस्त्वदर्थमेवाहं तपः करोमि' इति कांचित्कश्चिदाह--</p>
<lg>
  <l>आर्द्रमपि स्तनजघनान्निरस्य सुतनु त्वयैतदुन्मुक्तम् ।</l>
  <l>खस्थमवाप्नुमिव त्वां तपनांशूनंशुकं पिबति ॥ ८० ॥</l>
</lg>
<p>आर्द्रमिति । आर्द्रमपि । सजलवादिति भावः । पक्षे प्रेमवत्त्वादिति भावः । एवं च
त्यागानर्हत्वं ध्वन्यते । स्तनजघनान्निरस्य । पक्ष आलिङ्गनाद्यदत्त्वेत्यर्थः । सुतनु । एवं च
स्पृहणीयत्वमावेद्यते । त्वयोन्मुक्तमेतदंशुकं वस्त्रम् । पक्षेंऽशुकमिव । सूक्ष्मत्वादिति भावः ।
एवं च विरहातिशय आवेद्यते । खस्थमन्तरिक्षस्थम् । पक्षे निरवलम्बनम् । एवं च
त्वमेव ममावलम्बनमिति व्यज्यते । त्वामवाप्नुमिव सूर्यकिरणान्पिबति । एवं चाचेतन-
स्याप्यंशुकस्यैतादृशीं त्वामवलोक्यैतादृशी स्पृहा । किमु वाच्यं मादृशस्येति भावः ।
अथवाचेतनांशुकमपि त्वत्समागमाय तपस्तपति । तत्र का वार्ता सचेतनस्य ममेति
भावः । अन्योऽप्यन्तरालावस्थितस्तपनकरपानमात्रेणैव तपस्तपतीति लौकिकम् ॥
कश्चित्कस्याश्चिचेष्टां वक्ति--</p>
<lg>
  <l>आरोपिता शिलायामश्मेव त्वं स्थिरा भवेति मन्त्रेण ।</l>
  <l>मग्नापि परिणयापदि जारमुखं वीक्ष्य हसितैव ॥ ८१ ॥</l>
</lg>
<p>आरोपितेति । 'अश्मेव त्वं स्थिरा भव' इति मन्त्रेण शिलायामारोपिता स्थापितच-
रणा । परिणयो विवाहस्तद्रूपापत् । दुःखदत्वादिति भावः । आपत्पदं दुःसहत्वमावेदयति ।
तस्या मग्नापि जारमुखं वीक्ष्य हसितैव । एवं चैते मूर्खाः, यत्प्रथमतो मद्विवाहः कृतस्त-
त्रापि स्थिरत्वप्रार्थना क्रियते, नैतावता त्वया भेतव्यमिति ध्वन्यते । यद्वा परमविपत्तौ
पतितापि बहुभिः 'स्थिरा भव' इति प्रार्थितापि जारमुखमवलोक्य हसनेन स्वस्य चि-
न्ताविहीनत्वं प्रदर्शयति । सा त्वं त्वद्याप्यपरिणीता किमर्थ बिभेषीति काचित्कांचिद्वक्ति ॥
अन्याङ्गनागमनखिन्नां नायिकां नायकः समाधत्ते--</p>
<lg>
  <l>आयाति याति खेदं करोति मधु हरति मधुकरीवान्या ।</l>
  <l>अधिदेवता त्वमेव श्रीरिव कमलस्य मम मनसः ॥ ८२ ॥</l>
</lg>
<p>आयातीति । मधुकरीवान्यायात्यागच्छति, याति गच्छति, खेदं करोति । चाञ्च-</p>
<pb n="55" />
<p>ल्यस्वभावादिति भावः । एवं च तदागमने न मम सुखमिति द्योत्यते । मधु मकरन्दं
हरति । उन्मादकत्वसंबन्धेन मधुपदेन द्रव्यं लक्ष्यते । एवं च न वास्तवं प्रेम तस्यामिति
ध्वन्यते । मम मनसोऽधिदेवता त्वमेव । कमलस्य श्रीरिव । एवं च मन्मनसि सर्वदा
त्वमेव वससि । सा तु कादाचित्कागमनवतीति न त्वया मयि विधेयः खेद इति द्योत्यते ॥
सखी नायिकामुपदिशति--</p>
<lg>
  <l>आसाद्य दक्षिणां दिशमविलम्बं त्यजति चोत्तरां तरणिः ।</l>
  <l>पुरुषं हरन्ति कान्ताः प्रायेण हि दक्षिणा एव ॥ ८३ ॥</l>
</lg>
<p>आसाद्येति । दक्षिणां याम्यां दिशमासाद्याविलम्बं शीघ्रं तरणिरुत्तरां दिशं त्यजति ।
प्रकृतं वक्ति । दक्षिणा एव चतुरा एव कान्ताः प्रायेण बाहुल्येन । एवं चैका चतुरापि
न हरति । तथा परक्षान्तिरिति भावः । पुरुषं हरन्ति । एवं च त्वया स्वचातुर्येणैव
नायकः स्वाधीनताभाजनं विधेय इति व्यज्यते । पक्षे । कर्कटादिषड्राशिसंचरणरूपदक्षिणा-
यने तरणे: क्रमेण सप्तपञ्चाशदष्टपञ्चाशदेकोनषष्टिषष्ट्येकषष्टिचतुर्विंशतिविकलासहितैक-
षष्टिकला इत्येवं द्रुतगतिः । मकरादिषड्राशिसंचरणरूपोत्तरायणे क्रमेण चतुर्विंशतिवि-
कलासहितैकषष्टिषष्ट्येकोनषष्ट्यष्टपञ्चाशत्सप्तपञ्चाशत्कला इत्येवं मन्दगतिरिति ज्योतिर्वि-
त्प्रक्रिया ॥
कश्चिदन्योक्त्या नायिकां स्तौति--</p>
<lg>
  <l>आदानपानलेपैः काश्चिद्गरलोपतापहारिण्यः ।</l>
  <l>सदसि स्थितैव सिद्धौषधिवल्ली कापि जीवयति ॥ ८४ ॥</l>
</lg>
<p>आदानेति । काश्चिदौषध्य आदानं मन्त्रपूर्वकं ग्रहणम्, पानं गलाधःकरणम्, लेपः
सर्वाङ्गसंयोगः, एतैर्गरलस्योपतापहरणसामर्थ्याः । काप्यनिर्वचनीया सिद्धौषधिवल्ली
जीवयति । एवं च दूरतोऽपि त्वया दर्शनमवश्यं देयमिति ध्वन्यते । यद्वान्याङ्गनाश्चैला-
ञ्चलाकर्षणाधरपानसर्वाङ्गीणालिङ्गनैः संतापापनोदनसमर्थाः । त्वं केवलमवलोकिता
विरहविगतासोरसुप्रदा भवसीति ध्वन्यते । तेन चान्याङ्गनाभ्योऽधिका त्वमिति स्तुति-
र्व्यज्यते । यद्वा तस्या दर्शनमात्रेणैवाहं जीवामीति नायिकासखीं प्रत्युक्तिर्नायकस्य ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>आन्दोललोलकेशीं चलकाञ्चीकिङ्किणीगणक्चणिताम् ।</l>
  <l>स्मरसि पुरुषायितां तां स्मरचामरचिह्नयष्टिमिव ॥ ८५ ॥</l>
</lg>
<p>आन्दोलेति । आन्दोलनमान्दोलस्तेन चञ्चलालकाम्, चपलमेखलाक्षुद्रघण्टिकासमू-
हस्य क्वणितं शब्दो यस्यास्ताम्, एतादृशीं पुरुषायितां विपरीतरतकारिणीं तां प्रसिद्ध-
गुणां स्मरसीति । काक्वा न स्मरसीत्यर्थः । एवं चैतादृशगुणशालिन्यास्तस्या यदि तवा-
नुसंधानं भवेत्तर्हि कथमन्यत्रासक्तिसंभावनेति भावः । स्मरस्य चामरचिह्नस्य यष्टिमिव ।</p>
<pb n="56" />
<p>एवं च यथा चामरादिराजचिह्नैः सर्वैरयं राजेति ज्ञायते तथानया मदनोऽयमिति । म-
दनप्रसिद्धिसंपादकत्वेनातिसौन्दर्यादिगुणवत्ता नायिकायामावेद्यते ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>आक्षिपसि कर्णमक्ष्णा बलिरपि बद्धस्त्वया त्रिधा मध्ये ।</l>
  <l>इति जितसकलवदान्ये तनुदाने लज्जसे सुतनु ॥ ८६ ॥</l>
</lg>
<p>आक्षिपसीति । हे सुतनु, अक्ष्णा नेत्रेण कर्णे श्रवणम्, राधेयं च । आक्षिपसि स्पृशसि,
तिरस्करोषि च । त्वया बलिरपि त्रिवली । बवयोरैक्यात् । दैत्यश्च । मध्ये त्रिधाबद्धः ।
त्रिधेत्यनेनात्यन्तं निर्जितत्वं द्योत्यते । त्रिवलीवाचकस्य वलिशब्दस्य पुंस्त्वं श्लेषानुरोधा-
न्निरङ्कुशत्वाद्वा । इत्यमुना प्रकारेण जिताः सकला वदान्याः प्रदातारो यया तत्संबुद्धिः ।
तनुदाने शरीरदाने, स्वल्पदाने च । लजसे । एवं चात्यन्तौदार्यशालितया तव तनुदा-
नमपि तनुदानमेवेति ध्वन्यते । तेन चैतद्दाने विलम्बो न विधेय इति भावः ॥
कस्यचिदत्यन्तनायिकासक्ति कश्चिद्वक्ति--</p>
<lg>
  <l>आक्षेपचरणलङ्घनकेशग्रहकेलिकुतुकतरलेन ।</l>
  <l>स्त्रीणां पतिरपि गुरुरिति धर्मं न श्राविता सुतनुः ॥ ८७ ॥</l>
</lg>
<p>आक्षेपेति । आक्षेपस्तिरस्कारः, चरणलङ्घनं चरणाहतिः, केशग्रहः, एतेषां यत्केलि-
कुतुकं तत्र तरलेन समासक्तेन स्त्रीणां पतिर्गुरुरिति धर्मे श्रावितापि न । एवं च साहजि-
कधर्मचर्यायामपि नैतदुदीरितं तत्र नोपदिष्टमिति किमु वाच्यमिति भावः । एवं चैतच्छ्र-
वण आक्षेपादि न विधेयं तयेति भीतिर्ध्वन्यते । तेन चात्यन्तकेलिलम्पटत्वम् । श्वशुरा-
दिसमुच्चायको यथास्थित एवापिशब्द इति ऋजवः ॥
नायिका नायकाकस्मिकसङ्गं सखीं वक्ति--</p>
<lg>
  <l>आगच्छतानवेक्षितपृष्ठेनार्थी वराटकेनेव ।</l>
  <l>मुषितास्मि तेन जघनांशुकमपि वोढुं नशक्तेन ॥ ८८ ॥</l>
</lg>
<p>आगच्छतेति । हे सखि, अनवेक्षितं वीक्षणाभाववद्यत्पृष्ठं तेनागच्छतागमनवता । एवं च
संमुखागमनाभावेन दर्शनाभावो व्यज्यते । पक्षेऽनवेक्षितं पृष्ठं यस्य । आगच्छतेति । हे
सखि, अनवेक्षितं वीक्षणतामप्राप्तेन नायकेन जघनस्य यदंशुकं वासस्तदपि वोढुं मुषितास्म्य-
समर्था प्रतास्मि । एवं चोत्तरीयवसनग्रहणं दूरापास्तमिति भावः । नन्वागमनसमय
एव न कुतो गतं त्वयेत्यत आह - न विद्यते शक्तो यस्मात्तेन । समर्थेनेत्यर्थः । एवं च
ततोऽपसरणमशक्यमिति भावः । यद्वा काक्वा न मुषितास्मि । अपि तु मुषितास्मि ।
पक्षेंऽशुरेवांशुकस्तं किरणमपि वोढुं नशक्तेनासमर्थेन । दृष्टान्तमाह--वराटकेन कपर्दे-
नार्थीव याचक इव । एवं च पश्चाद्भागीयकिरणशून्येन सच्छिद्रेण कपर्देन यथा याचको
मुषितो भवति तथाकस्मिकपश्चादागमनशालिना स्नानावसानसमये जघनांशुकग्रहणेऽपि</p>
<pb n="57" />
<p>हतचित्ता जातेति भावः । गौडदेशे पृष्ठभागच्छिद्रवता कपर्देन व्यवहरन्ति तदभिप्राये-
णेदम् । यद्वानवेक्षितपृष्ठेन स्वपश्चाद्भागानवलोकनेन । एवं च भीतिशून्यत्वेन विह्वलत्वं
व्यज्यते । जघनांशुकमपि वोढुं नशक्तेन । एवं च विरहक्षीणतया वाससि रूपत्वं
ध्वन्यते । एतादृशेन मुषितास्मि । एवं च तथाविधतदीयासक्तिमालोच्याहमपि तन्नि-
मग्नमनस्का जातास्मीति नायिका वक्तीत्यर्थः । अन्योऽपि चोरः पृष्ठतः समागत्य लुण्ठनं
करोति यथा जघनांशुकमपि न भवतीति लौकिकम् । नशक्तेनेति वचनात्तथा मुषितास्मि
यथा जघनांशुकमपि वोढुमसमर्थैवेत्यवधारणार्थक इवशब्दः ॥
प्रणयकोपमवलम्ब्य सुप्तां नायिकां प्रति सखी वक्ति--</p>
<lg>
  <l>आकुञ्चितैकजङ्घं दरावृतोर्ध्वोरु गोपितार्धोरु ।</l>
  <l>सुतनोः श्वसितक्रमनमदुदरस्फुटनाभि शयनमिदम् ॥ ८९ ॥</l>
</lg>
<p>आकुञ्चितेति । आकुञ्चितैका जङ्घा यस्मिन्, दरमीषदावृत्त ऊर्ध्वमूरुर्यत्र, गोपितोऽत्य-
न्तमाच्छादितोऽरुर्यत्र, श्वसितक्रमेण नमद्यदुदरं तेन स्फुटा नाभिर्यत्र । क्रियाविशेष-
णान्येतानि । सुतनोरिदं शयनम् । 'स्यान्निद्रा शयनम्' इत्यमरः । एवं च त्वमेवैनां प्रसा-
दयेति व्यज्यते । यद्वा सुरतश्रान्तशयनजातिवर्णनमेतत् ॥
सखी गायकं प्रति नायिकासक्तिविशेषमाह--</p>
<lg>
  <l>आदाय घनमनल्पं ददानया सुभग तावकं वासः ।</l>
  <l>मुग्धा रजकगृहिण्या कृता दिनैः कतिपयैर्निःस्वा ॥ ९० ॥</l>
</lg>
<p>आदायेति । अकल्पं बहु द्रव्यमादाय गृहीत्वा तावकं वासो वस्त्रं ददानया रजकगृहि-
ण्या । एवं च संसारनिर्वाहकत्वं तस्या इति भावः । मुग्धा सुन्दरी, मूढा च । कतिपयै-
र्दिनैर्निःस्वा विगतद्रव्या कृता । एवं च वसनदर्शनमात्रेण धनव्ययमपि न गणयति, तत्र
का वार्ता त्वदङ्गसङ्ग इति व्यज्यते ॥
कस्यचिद्दुष्टस्याधिकारदापनाय प्रयत्नशालिनं प्रति कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>आस्तां वरमवकेशी मा दोहदमस्य रचय पूगतरोः ।</l>
  <l>एतस्मात्फलितादपि केवलमुद्वेगमधिगच्छ ॥ ९१ ॥</l>
</lg>
<p>आस्तामिति । अस्य पूगतरोर्दोहदम् । फलजननार्थमिति भावः । मा रचय । अव-
केशी निष्फलः । 'वन्ध्योऽफलोऽवकेशी च' इत्यमरः । आस्तामिदं वरम् । अत्र हेतुमाह--एतस्मात्फलितात्केवलम् । एवं चान्यफलाभाव इति भावः । उद्वेगमधैर्यादि फलम् ।
क्रमुक इत्युपक्रम्य 'अस्य तु फलमुद्वेगम्' इत्यमरः । अधिगच्छ जानीहि । एवं चैतस्या-
धिकारे संपादिते तवोद्वेग एव भविष्यतीति ॥
दुष्टावलम्बनपुरःसरारब्धकार्यस्यावश्यमनर्थजनकत्वमिति कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>आरब्धमब्धिमथनं स्वहस्तयित्वा द्विजिह्वममरैर्यत् ।</l>
  <l>उचितस्तत्परिणामो विषमं विषमेव यज्जातम् ॥ ९२ ॥</l>
</lg>
<pb n="58" />
<p>आरब्धमिति । अमरैर्देवैः । एवं चैतादृशोद्योगशालित्वं युक्तमित्यावेद्यते । यद्द्विजिह्वं
सर्पम् । पक्षे तात्कालिकान्यथावादिनम् । स्वहस्तयित्वा स्वकरे विधाय । पक्षे स्वाधीनी-
कृत्य । अब्धिमथनमारब्धं तस्य परिणाम उचित एव यद्विषमम् । दाहकत्वादिति
भावः । विषं जातमुत्पन्नम् । एवं च यथा द्विजिह्वावलम्बनेन समुद्रमथने विषमभवत्तथा
दुष्टावलम्बनेनारब्धकार्यपरिणामेऽसम्यगेव फलं भावीति व्यज्यते । यथास्थितैवकारयो-
जनं त्वन्यफलोत्पत्तिश्रवणादसमञ्जसम् । यद्वामराणामप्येतादृशावलम्बनपुरःसरारब्ध-
कार्य एतादृशमभवत्तत्र का वार्तान्यस्येति व्यज्यते ॥</p>
<lg>
  <l>आवर्जितालकालि श्वासोत्कम्पस्तनार्पितैकभुजम् ।</l>
  <l>शयनं रतिविवशतनोः स्मरामि शिथिलांशुकं तस्याः ॥ ९३ ॥</l>
</lg>
<p>आवर्जितेति । आवर्जिता संयमिता केशपकिर्यत्र, श्वासैरुत्कम्पौ यौ स्तनौ तयोरर्पित
एको भुजो यत्र, शिथिलमंशुकं यत्र, रत्या विवशा स्वानधीना तनुर्यस्यास्तस्याः । एवं
च निःसहाङ्गत्वं ध्वन्यते । शयनं स्मरामि । सुरतश्रान्तनायिकास्वापवर्णनमेतत् ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>आम्राङ्कुरोऽयमरुणश्यामलरुचिरस्थिनिर्गतः सुतनु ।</l>
  <l>नवकमठकर्परपुटान्मूर्धेवोर्ध्वं गतः स्फुरति ॥ ९४ ॥</l>
</lg>
<p>आम्रेति । चूताङ्कुरोऽरुणश्यामला रुचिर्दीप्तिर्यस्य । अस्थि कर्कशोपरिभागः । ततो
निःसृतः । हे सुतनु स्फुरति । नवो नूतनो यः कमठस्तस्य यत्कर्परपुटं पृष्ठास्थि तस्मा-
दूर्ध्वं निःसृतो मूर्धेव । एवं चाम्राङ्कुरोत्पत्तिकथनेन, कमठार्भकस्मारणेन, प्रावृट्कालागम-
नोपन्यासेन, नेदानीं ते मानविधानमुचितमिति व्यज्यते । यद्वाम्राङ्कुरोऽयमित्यादिना प्रा-
वृट्प्रादुर्भावशंसनेनावश्यं पतिस्ते समायास्यतीति सखी चिरविरहखिन्नां नायिकां समा-
धत्त इत्यर्थः । केचितु व्रीडाकरसंस्थानसादृश्यावधारणेन सामान्यवनितामुपहसति कश्चि-
दित्याहुः । यत्तु नायिकाचित्तव्याक्षेपपरमिदमिति तत्केनापि नायिकाचित्तव्याक्षेपासंपाद-
नाद्वात्स्यायनादिभिरकथनाच्चानुचितमित्याभाति । एवं 'दरफुडिअ' इत्यादिप्राकृतगा-
थापि योज्या ॥
कश्चित्कंचित्प्रति वक्ति--</p>
<lg>
  <l>आभङ्गुराग्रबहुगुणदीर्घास्वादप्रदा प्रियादृष्टिः ।</l>
  <l>कर्षति मनो मदीयं ह्रदमीनं बडिशरज्जुरिव ॥ ९५ ॥</l>
</lg>
<p>आभङ्गुरेति । आभङ्गुराग्रा कुटिलकटाक्षा, बहुगुणा वशीकरणतादिशालिनी । यद्वार्जुन-
कृष्णरक्तरूपशालिनी । दीर्घा कर्णान्ते प्रसरणशीला, आस्वादप्रदा सुखदा, प्रियादृष्टिः ।
पक्षे कुटिलाग्रा, बहुतरसूत्रैर्महत्तरा । यद्वा बहुतन्तुमयी । लम्बायमाना, मधुरवस्तुदात्री ।
एवं च मोचनायोग्यत्वम्, दृढत्वम्, दूरतोऽपि कार्यसंपादकत्वम्, अवश्यं जनलोभनी-</p>
<pb n="59" />
<p>यत्वं च क्रमेणोभयत्र ध्वन्यते । मदीयं मनः कर्षति । एवं च न ममापराध इति भावः ।
ह्रदमत्स्यम् । ह्रदपदेन स्वस्मिन्गाम्भीर्यमावेद्यते । बडिशरज्जुरिव । 'बडिशं मत्स्य वेधनम्'
इत्यमरः । एवं च यथा बडिशरज्ज्वाकृष्टमत्स्यस्य ह्रदावस्थितिरसंभाविनी तथा प्रियादृ-
ट्याकृष्टस्य मच्चेतसोऽप्यवस्थितिरिति व्यज्यते । तेन च ज्ञानशून्यत्वं तेनापि त्वदुपदेशा-
पात्रमहमिति ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>आलप यथा यथेच्छसि युक्तं तव कितव किमपवारयसि ।</l>
  <l>स्त्रीजातिलाञ्छनमसौ जीवितरङ्का सखी सुभग ॥ ९६ ॥</l>
</lg>
<p>आलपेति । यथा यथेच्छसि तथालप त्वन्मनसि यदायाति तद्यथेष्टं वद । वाच्यावाच्य-
विचारं मा कृथा इति भावः । इदं युक्तं तव । न ममेति भावः । यद्वा नान्यस्य समीची-
नस्य । कितव धूर्त । एवं चैतादृशवक्तृतायोग्यत्वं तवेति भावः । किमपवारयसि गो-
पयसि । दुष्टो नेति वदसीति भावः । यद्वा यथा समाधातुं शक्यं तथा वचनरचनां कुरु ।
एवं च तत्र नास्माकमास्थेति भावः । एवं च गोपनेन किं सर्वमेवास्माभिस्त्वद्वृत्तं ज्ञायत
इति व्यज्यते । स्त्रीमात्रकलङ्कभूतेयं मत्सखी । एवं चान्याभिर्नैवंविधं सोढुं शक्यमिति
भावः । जीवितार्थं रङ्का दीना । एवं च त्वदनालोकनेन तस्या मरणमेव भावीति भावः ।
सुभग । कथमन्यथेदृशप्रियाप्राप्तिरिति भावः । एवं चेयं जीवितमात्राभिलाषिणी त्वदीय-
मेतादृशदुश्चेष्टितं सहते, नान्ययैवं सह्यमिति स्वसख्यासक्तिर्नायके तस्य चेतरनायका -
धिक्यं व्यज्यते । तेन तथाविधायां तस्यां तवैतादृशाचरणमनुचितमिति ॥
काचिन्नायिका नायकं प्रत्यन्योक्त्या वक्ति--</p>
<lg>
  <l>आस्वादितोऽसि मोहाद्बत विदिता वदनमाधुरी भवतः ।</l>
  <l>मधुलिप्तक्षुर रसनाछेदाय परं विजानासि ॥ ९७ ॥</l>
</lg>
<p>आस्वादितोऽसीति । मधुलिप्तपदेनोपरितना माधुर्यवत्ता व्यज्यते । क्षुरपदेन क्षत-
जननयोग्यत्वं ध्वन्यते । मोहाद्भ्रमादास्वादितोऽसि । भवतो वदनस्य माधुरी । बत खेदे ।
विदिता । एतदेवाह – रसनाछेदाय परं विजानासि । एवं च केवलं वदनमाधुर्यमात्रेण
परकीयं वाक्प्रसरं खण्डयित्वान्तर्दौष्ट्यं करोषीति व्यज्यते । यद्वा प्रीत्यारम्भ एवैतादृशं
त्वया कृतम्, अतोऽग्रे त्वत्संगतिरत्यन्तदुःखदैव भाविनीति नातस्त्वत्संगतिमहं विधास्य
इति व्यज्यते ॥
अनासादितनायकरसां सामान्यवनितां सखी वक्ति--</p>
<lg>
  <l>आकृष्टिभग्नकटकं केन तव प्रकृतिकोमलं सुभगे ।</l>
  <l>धन्येन भुजमृणालं ग्राह्यं मदनस्य राज्यमिव ॥ ९८ ॥</l>
</lg>
<p>आकृष्टिरिति । आकृष्ट्या । अवलम्बनेनेत्यर्थः । पक्षे विमर्देन । भग्नं कटकं वलयम् ।
पक्षे सैन्यम् । यस्याः । एवं चावलम्बनमात्रेण भञ्जनार्हत्वप्रतिपादनेन, वलयेऽतितनी-</p>
<pb n="60" />
<p>यस्त्वद्योतनेन, कामिन्यामतिकोमलाङ्गीत्वं द्योत्यते । प्रकृत्या स्वभावेन । पक्षे प्रजाभिः ।
कोमलं मृदु । पक्षे सौम्यम् । सुभगे सौभाग्यशालिनि तव भुजमृणालम् । स्वभावको-
मलत्वेऽपि मृणालरूपत्वप्रतिपादनेनातिकोमलत्वं ध्वन्यते । यद्वा संतापनोदकत्वमात्रमत्र ।
केन धन्येन ग्राह्यम् । मदनस्य राज्यमिव । एवं च यस्य तव पाणिस्पर्शो भविता स
मदनमहीपतिरेवेति व्यज्यते । तेन च त्वं रतिरूपेति । यद्वा बलादाकृष्टकरां सामान्यव-
नितामवलोक्य तत्सखी वक्ति । भग्नकटकमित्यनेन वलयार्थमेतस्माद्वसु ग्राह्यमिति व्य-
ज्यते। धन्येन धनवतेत्यर्थः । केन सुखेन ग्राह्यम् । एवं चान्येन न ग्रहीतुं शक्यमिति
भाव इत्यर्थः । अविवाहितां कांचित्काचिद्वक्तीत्यपि ॥
कश्चित्कांचिद्वक्ति--</p>
<lg>
  <l>आरुह्य दूरमगणितरौद्रक्लेशा प्रकाशयन्ती स्वम् ।</l>
  <l>वातप्रतीच्छनपटी वहित्रमित्र हरसि मां सुतनु ॥ ९९ ॥</l>
</lg>
<p>आरुह्येति । दूरमारुह्य । प्रासादशिखरमिति भावः । अगणितो रौद्रो दुःसहः । पक्षे
धर्मसंबन्धी क्लेशो यया । स्वमात्मानं प्रकाशयन्ती मां सुतनु हरसि स्वाधीनतां नयसि ।
वातप्रतीच्छनपटी वातानुकूलगमनजनकं वस्त्रं वहित्रमिव नावमिव । वहित्रपदेन सहन-
शीलत्वमावेद्यते । एवं च त्वद्दर्शनेनाहमितः सत्वरमागत एवेत्यवेहीति व्यज्यते ॥
केषांचिदाश्रयेण कंचिदपकर्तुमुद्यतं कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>आयासः परहिंसा वैतंसिकसारमेय तव सारः ।</l>
  <l>त्वामपसार्य विभाज्यः कुरङ्ग एषोऽधुनैवान्यैः ॥ १०० ॥</l>
</lg>
<p>आयास इति । हे वैतंसिकस्य मांसिकस्य । एवं चैतस्य मांसदानमशक्यमिति
व्यज्यते । 'वैतंसिकः कौटिकश्च मांसिकश्च समं त्रयम्' [इत्यमरः] । सारमेय कुक्कुर ।
आयासः श्रमः, परस्य हिंसा प्राणनिर्गमफलको व्यापारः, तव सारः सारभूतम् । ना-
न्यदिति भावः । एतदेवाह - त्वामपसार्य दूरीकृत्य । बलात्कारादिति भावः । एष कु-
रङ्गो हरिणः । एवं च कृपार्हत्वं ध्वन्यते । अधुनैव । एवं च पश्चात्प्रतीकाराभावो व्य-
ज्यते । अन्यैर्मांसिकानुयायिभिर्विभाज्यः । विभज्य ग्राह्य इत्यर्थः । एवं चैतादृशानुचित-
कार्यकरणे तव न किंचित्फलम्, प्रत्युत दुःखादीतीदृशं न विधेयमिति व्यज्यते ॥
कश्चन कस्यचिदग्रे कस्यचिद्दौत्यमन्योक्त्या वक्ति–</p>
<lg>
  <l>आनयति पथिकतरुणं हरिण इह प्रापयन्निवात्मानम् ।</l>
  <l>उपकलमगोपि कोमलकलमावलिकवलनोत्तरलः ॥ १०१ ॥</l>
</lg>
<p>आनयतीति । कोमला ये कलमास्तेषामावलयस्तासां कवलन उत्तरल उत्क-
ण्ठितो हरिण आत्मानं प्रापयन्निव । न वास्तवमित्यर्थः । एवं च धूर्तत्वं व्यज्यते । पथि-
कतरुणम् । पथिकपदेन विरहखिन्नत्वं द्योयते । तरुणपदेन कलमगोपिकास्पृहणीयत्वं
ब्यज्यते । कलमाः शालिविशेषास्तद्रक्षणकर्त्र्याः सविधे आनयति प्रापयति । एवं च क-</p>
<pb n="61" />
<p>लमगोपिकायाः पथिकतरुणासक्तौ स्वयं कलमभक्षणं सुखेन करिष्यामीति धियेति भावः ।
एवं च स्वार्थप्रवणतयानेनैतस्या दौत्यं क्रियत इति व्यज्यते । यद्वा मृगोऽपि स्वार्थमेता-
दृशं कर्म कर्तुं जानाति, तत्र किं वाच्यं मनुष्यरूपायास्तवेति । नाहमिदं कर्म जानामीति
वादिनीं कांचन प्रलोभनपुरःसरं काचिद्वक्ति । यद्वा यस्या एव स्वार्थेच्छा सैव मदीयं
दौत्यं करिष्यतीति काचित्कांचिद्दूतीं वक्ति । अथवैतमेतस्या दर्शयित्वासक्तिमुत्पाद्यै-
तस्या धनमनेन भुज्यत इति कश्चित्कांचिद्वक्ति । यद्वा मृगेणापि गोपिकाकलमभक्षणे-</p>
<lg>
  <l>न तरुणसंगमरूपोपकारस्तस्याः क्रियते, त्वया तु न तथेति काचिद्दूतीमुपालभते ।</l>
  <l>अथवा स्वार्थपुरःसरतयैतादृशं कर्तुं शक्यमिति कांचिदन्योक्त्या वदति ॥</l>
</lg>
<p>किं त्वयैतादृशमकारि येनायमधुनान्यादृशं वक्तीति वादिनीं सखीं नायिका वक्ति--</p>
<lg>
  <l>आसीदेव यदार्द्रः किमपि तदा किमयमाहतोऽप्याह ।</l>
  <l>निष्ठुरभावादधुना कटूनि सखि रटति पटह इव ॥ १०२ ॥</l>
</lg>
<p>आसीदिति । अयं नायको यदार्द्र एव मद्विषयकरसवानेवासीत्तदाहतोऽपि किमपि
किमाहावादीत् । नेत्यर्थः । अयमेवेति योजना वा । एवं च सर्वमेतत्तवैव प्रत्यक्षमिति
व्यज्यते । 'एषः' इत्यपि पाठ: । सखि, अधुना निष्ठुरभावात्प्रेमाभावात् । पक्षे शुष्क-
त्वात् । कटूनि रटति पटह इव । 'आनकः पटहोऽस्त्री' इत्यमरः । एवं च न ममाप-
राधः, किं त्वयमेव निष्ठुरत्वादेतादृशं वक्तीति ध्वन्यते । पटहोऽप्यार्द्रस्ताडितो न शब्दं
जनयति, शुष्कस्तु जनयति तद्वदिति भावः ॥
त्वच्चेष्टितमिदमाकर्ण्य नायिका त्वां किं किं न करिष्यतीति वादिनीं नायिकासखीं
नायको वक्ति--</p>
<lg>
  <l>आज्ञाकरश्च ताडनपरिभवसहनश्च सत्यमहमस्याः ।</l>
  <l>न तु शीलशीतलेयं प्रियेतरद्वक्तुमपि वेद ॥ १०३ ॥</l>
</lg>
<p>आज्ञाकर इति । यद्वा यदि त्वमेतस्याः सर्वदाज्ञाकार्यसि तर्हीयं कथं मुखरा भविष्य-
तीति वादिनीं नायको वक्ति । आज्ञां करोत्येतादृशः । ताडनम्, परिभवस्तिरस्कारः ।
ताडनापेक्षया तिरस्कारे दुःसहत्वं ध्वन्यते । यद्वा ताडनजन्यपराभवः । एवं च वचनज-
न्यपराभवस्याकिंचित्करत्वं व्यज्यते । एतत्सहनः । अस्या नायिकायाः । दूरस्थत्वेऽपि
प्रत्यक्षवन्निर्देशेन सर्वदा तद्गतमनस्कत्वं तेनान्यादृशाचरणाभावो व्यज्यते । अहमस्मि ।
शीलेन स्वभावेन शीतला सौम्या । एवं च स्वभावस्य दूरीकर्तुमशक्यत्वेन मदपराधनि-
वेदकस्य वृथा श्रमवत्तेति व्यज्यते । तेन त्वया तत्र न किमपि वाच्यमिति । इयं प्रिये -
तरदप्रियं वक्तुमपि । एवं च कर्तुं नेति किमु वाच्यमिति भावः । न वेद ॥
एतस्मादिदं भविष्यति न वेत्यविचार्य कार्यकारिणमन्योक्त्या कश्चिद्वक्ति--</p>
<lg>
  <l>आधाय दुग्धकलशे मन्थानं श्रान्तदोर्लता गोपी।</l>
  <l>अप्राप्तपारिजाता दैवे दोषं निवेशयति ॥ १०४ ॥</l>
</lg>
<pb n="62" />
<p>आधायेति । दुग्धस्य कलशे पात्रे मन्थानमाधाय श्रान्ता दोर्लता यस्याः सा गोपी
गोपस्य स्त्री । एवं च विवेकविधुरत्वं ध्वन्यते । एवमपि न प्राप्तः पारिजातवृक्षो यया सा
दैवे दोषं निवेशयति स्थापयति । एवं च यथा देवैः क्षीरसमुद्रमथनेन पारिजातो लब्धः
स च कृष्णेन सत्यभामाया दत्तस्तर्हि मयापि क्षीरं निर्मथ्य तं संप्राप्य सत्यभामाधिकया
भवितव्यमिति कृते भाण्डक्षीरमथने तदप्राप्त्या दैवं निन्दति, न स्वमौर्ख्यमिति भावः ।
एवं च यतो यद्भविष्यतीति निर्णयस्तत्रैव तदर्थं प्रवृत्तिरुचितेति ध्वन्यते । यद्वैतस्मा-
न्मम सुखं भविष्यति न वेत्यनवधार्य कस्मिंश्चिदासक्तिं विधाय तदप्राप्त्या दैवविनिन्दिकां
काचिदन्योक्त्या वक्ति । यत्तु पारिजातं नवनीतमित्याह तत्तथा कोषाद्यश्रवणादसम्यक् ॥
कश्चिन्नायिकासाधुत्वं स्वस्य सखायं वक्ति--</p>
<lg>
  <l>आस्तां मानः कथनं सखीषु वा मयि निवेद्यदुर्विनये ।</l>
  <l>शिथिलितरतिगुणगर्वा ममापि सा लज्जिता सुतनुः ॥ १०५ ॥</l>
</lg>
<p>आस्तामिति । निवेदितुं योग्यो दुर्विनयो यस्यैतादृशेऽपि मयि सति । एवं चावश्यक-
थनीयत्वमपराधे ध्वन्यते । मान आस्ताम् । न कृत इत्यर्थः । न केवलं मानासंपादनम् ।
अपि तु सखीषु । सखीपदं कथनार्हतां द्योतयति । कथनं वा । मदपराधस्येति भावः ।
न कृतमित्यर्थः । शिथिलितो रतिसंबन्धिगुणानां गर्वो यया सा सुतनुर्मम लजिता ।
एवं च यदि मयि गुणाः स्युस्तदानेनान्यत्रासक्तिः कथं कर्तुं शक्येति धिया संजात-
लजा मां प्रत्यभूत, अतो न मानमकरोत्, न वा सखीष्वकथयदिति भावः । अथवा
सापराधत्वेन मम लज्जायोग्यत्वेऽपि सैव स्वस्मिन् गुणाभावशङ्कया सलज्जा न मानादिक-
मकरोदिति भावः । अथवा ममापीति यथास्थित एवापिः । एवं चान्यं प्रति लज्जाकर-
णादीति किमपूर्वमिति भावः । यद्वा निवेदयितुं योग्यो मय्येव मदीयो दुर्विनयः। सो-
ऽपि लज्जया मां प्रत्यपि नोक्तस्तत्र का वार्तान्यकथनादेरिति भावः ॥
काचित्प्रियागमनोत्सवनैमित्तिकं तण्डुलाद्युज्ज्वलपिष्टद्रवलिप्तकरतलादिना चित्रकर-
णमङ्गलगानरूपमातर्पणविधानमन्यजनभीत्या स्नानावसर एवावर्तादिच्छद्मना करोतीति
काचित्कांचिद्वक्ति--</p>
<lg>
  <l>आवर्तैरातर्पणशोभां डिण्डीरपाण्डुरैर्दधती ।</l>
  <l>गायति मुखरितसलिला प्रियसंगममङ्गलं सुरसा ॥ १०६ ॥</l>
</lg>
<p>आवर्तैरिति । डिण्डीरपाण्डुरैः फेनश्वेतैः । 'डिण्डीरोऽब्धिकफः फेनः' इत्यमरः । एवं
च तण्डुलादि द्रवसाजात्यं ध्वन्यते । आवर्तैः । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः । एवं
च करतलकृतचित्रसाजात्यं व्यज्यते । आतर्पणस्य शोभां दधती कुर्वती । मुखरितं
सशब्दं कृतं सलिलं जलं यया । एवं चैतद्ध्वनिना स्वगानकरणतिरोधानमावेद्यते । यद्वा
सलिलध्वनिमेव गानत्वेन संपादयतीत्यत्यन्तजनभीतिमत्त्वमावेद्यते । तच्चात्यन्तचातुरीम् ।</p>
<pb n="63" />
<p>सुरसा । एवं च रसातिशयवत्त्वादेवैतादृशाचरणप्रवणत्वमिति द्योत्यते । प्रियसंगमहेतुकं
मङ्गलं गायति । नायिका चेयं परकीया ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशती व्यङ्ग्यार्थदीपनया समेताकारव्रज्या ।
---------------------------------
इकारव्रज्या ।
रात्रिसुरतश्रमसुप्तां नायिकां सखी शिक्षयितुं वक्ति--</p>
<lg>
  <l>इयमुद्गतिं हरन्ती नेत्रनिकोचं च विदधती पुरतः ।</l>
  <l>न विजानीमः किं तव वदति सपत्नीव दिननिद्रा ॥ १०७ ॥</l>
</lg>
<p>इयमिति । इयं तव दिननिद्रा सपत्नीवोद्गतिं गमनम् । पक्षे उत्कृष्टताम् । हरन्ती ।
नेत्रनिकोचं नयनसंकोचम् । आलस्यादिति भावः । पक्षे नेत्रविकारम् । द्वेषादिति
भावः । विदधती पुरतः । तवेति भावः । एवं च त्वद्भीतिशून्यत्वं द्योत्यते । किं वदतीति
न विजानीमः । एवं च यथा सपत्नी दुश्चरितवत्तामारोपयितुं समर्था तथेयं तव दिननिद्रा,
इत्यतो मुञ्चैनामिति ध्वन्यते । यद्वा नेत्रसंकोचम्, अर्थात्तव, कुर्वती । सपत्न्याः प्रौढि-
वंशाद्भयेनेति भावः।तव दिननिद्रा पुरतोऽग्रे किं वदति वदिष्यति । तन्न विद्म इत्यर्थः ।
एवं चेदानीं यथातथा समाधातुं शक्यमग्रे त्वनिष्टमेवानया भावीति ध्वन्यते । नायिका
चेयं परकीया ॥</p>
<lg>
  <l>इदमुभयभित्तिसंततहारगुणान्तर्गतैककुचमुकुलम् ।</l>
  <l>गुटिकाधनुरिव बालावपुः स्मरः श्रयति कुतुकेन ॥ १०८ ॥</l>
</lg>
<p>इदमिति । इदमुभयभित्तावुभयपार्श्वे संततहारगुणस्तदन्तर्गत एककुचमुकुलो यस्मि-
स्तद्बालाया मुग्धाया वपुर्गुटिकाधनुरिव गुटिकाशस्त्रमिव स्मरः श्रयति कुतुकेन । वैक-
क्षिकमालान्तर्गतकुचमुकुलत्वादिति भावः ॥
व्यवायस्थैर्याय कान्तचित्तं व्याक्षेप्तुं नायिका वक्ति--</p>
<lg>
  <l>इह शिखरिशिखरावलम्बिनि विनोददरतरलवपुषि तरुहरिणे ।</l>
  <l>पश्याभिलपति पतितुं विहगी निजनीडमोहेन ॥ १०९ ॥</l>
</lg>
<p>इहेति । इह शिखरी वृक्षः । 'तरुशैलौ शिखरिणौ' इत्यमरः । तच्छिखरावलम्बिनि ।
क्वचित् 'शिखा' इति पाठः । विनोदेन दरमीषत्तरलं चञ्चलं वपुर्यस्य तस्मिंस्तरुहरिणे
शाखामृगे । अत्रोभयपदयोः परिवृत्तिसहत्वम् । विहगी निजं यन्नीडं स्थानम्। 'कुलायो
नीडमस्त्रियाम्' इत्यमरः । तद्भ्रमेण पतितुमभिलषति । इदं पश्य । एवं च व्यवायस्थैर्या-
यैतादृग्ध्यानं विधेयमिति व्यज्यते । उक्तं च – 'वानरं चपलं ध्यायेद्वृक्षशाखावलम्बिनम्,
इति । अन्यत्रापि – 'शाखामृगमतिचपलं क्षितिरुहनिहितं विचिन्तयेत्प्राज्ञः । अपि मणि-
मुखपर्यन्तप्राप्तं बीजं हि नो गलति ॥' इति ॥</p>
<pb n="64" />
<p>अन्याङ्गनाविलोकनजन्यमानवतीं नायिकां नायको यथासिद्धकुतूहलेन प्रसादयति--</p>
<lg>
  <l>इक्षुर्नदीप्रवाहो द्यूतं मानग्रहश्र हे सुतनु ।</l>
  <l>भ्रूलतिका च तवेयं भङ्गे रसमधिकमावहति ॥ ११० ॥</l>
</lg>
<p>इक्षुरिति । हे सुतनु, इक्षुः, नदीप्रवाहः, द्यूतम्, मानग्रहश्च, तवेयं भ्रूलतिका च, भङ्गे-
ऽधिकं रसमावहति । अत्र भङ्गरसशब्दौ क्रमेण दन्तचर्वणीयत्वातिशयसेत्वादिबन्धनप-
राजयपरित्यागवक्रतामृष्टतातिशयजलाधिक्यक्रीडनाधिकोत्साहकषायितवस्त्रानुरागाति-
शयतुल्यप्रीत्यतिशयचमत्कारविशेषार्थकौ । एवं च त्वदीयकुटिलभ्रुकुटिदर्शनेन ममाधिकं
सुखमुत्पद्यत इति व्यज्यते । यद्वा तव मानग्रहः, भ्रूलतिका च । एवं च मानभङ्गे
मिथ्या भ्रूकुटिलता सुखावहा, न वास्तवकोपेन विहितेति ध्वन्यते । 'हे' इति पदस्थाने
'ते' इति पाठे सुतनु, इक्षुः, नदीप्रवाहः, द्यूतं च, भङ्गेऽधिकं रसमावहति । अत्रामुक-
स्येति विशेषानुपादानात्सर्वस्येत्यर्थो लभ्यते । भङ्गरसशब्दावत्र प्रागुक्तार्थौ । ते मानग्रहो
भ्रूलतिका च भङ्गे । तरङ्गवाचिना भङ्गपदेनाधिक्यं लक्ष्यते । तेन चौद्धयं व्यज्यते । एवं
चाधिक्ये कौटिल्य इत्युभयत्रार्थः । अधिकं रसं शोभोत्कर्षं तवावहति । एवं चैतादृशा-
तिशयितमानकुटिलभ्रुकुटिकरणं च तवोचितं नान्यासामिति व्यज्यत इति सनिन्दं
नायकसखी मानिनीं वक्तीत्यर्थः । ग्रहपदेन चावश्यप्रतीकारकरणयोग्यत्वं ध्वन्यते ॥
काचिन्नायिकां वक्ति--</p>
<lg>
  <l>इन्दोरिवास्य पुरतो यद्विमुखी सापवारणा भ्रमसि ।</l>
  <l>तत्कथय किं नु दुरितं सखि त्वया छाययेव कृतम् ॥ १११ ॥</l>
</lg>
<p>इन्दोरिति । इन्दोरिव । एवं च संतापापनोदकत्वम्, तेन चालिङ्गार्हत्वं ध्वन्यते ।
अस्य नायकस्य पुरतोऽग्रे यद्येन विमुखी परिवर्तितवदना । पक्षे पराङ्मुखी । सापवारणा
कृतावरणा । पक्षेऽन्तर्धिसहिता । चन्द्रान्तर्गतत्वादिति भावः । भ्रमसीतस्ततो गच्छसि ।
पक्षे चन्द्रचलनादिति भावः । त्वया छाययेव किं नु दुरितं कृतं तत्कथय । एवं च
सर्वाङ्गीणसंतापापनोदकसंमुखनायकपुरतो वैमुख्यचलनव्यवधानसंपादनादि प्राक्तनपाप-
जनितमिति भावः । एवं चैतत्सर्वं परित्यज्य विगतभीर्नायकमालिङ्गयेति व्यज्यते ॥
कांचित्कंचिन्निग्रहीतुमुद्यतामालोक्य तं प्रति कश्चिदन्योक्त्या वदति--</p>
<lg>
  <l>इह कपटकुतुकतरलितदृशि विश्वासं कुरङ्ग किं कुरुषे ।</l>
  <l>तव रभसतरलितेयं व्याधवधूर्वालधौ वलते ॥ ११२ ॥</l>
</lg>
<p>इहेति । कपटजन्यकुतुकेन तरलिता चञ्चलतां प्रापिता । अन्यत्र स्थापितेत्यर्थः । एवं
च न कथितपदत्वम् । दृग्ययैतादृश्याम् । इहैतस्याम् । एवं च विश्वासार्हत्वं ध्वन्यते ।
हे कुरङ्ग हरिण । एवं च ज्ञानानर्हत्वं ध्वन्यते । विश्वासम् । इयं कुतुकासक्तदृगिति
धियेति भावः । किं कुरुषे । तव रभसेन सरलतया तरलतां चञ्चलतां प्राप्ता । एवं च
त्वत्सरलतैव तव बाधिकेति भावः । इयं व्याधवधूः । एवं च हिंसकत्वातिशयो द्यो-</p>
<pb n="65" />
<p>त्यते । वालधौ पुच्छे वलते संनिहिता भवति । एवं चेयमधुनैव त्वां निग्रहीष्यतीति
नैतस्यां विश्वासो विधेय इति व्यज्यते ॥
काचिन्महत्तरनायकसङ्गगर्वभाषिणीं कांचिदुद्दिश्यान्योक्त्या कांचित्प्रति वक्ति--</p>
<lg>
  <l>इह वहति बहुमहोदधिविभूषणा मानगर्वमियमुर्वी ।</l>
  <l>देवस्य कमठमूर्तेर्न पृष्ठमपि निखिलमाप्नोति ॥ ११३ ॥</l>
</lg>
<p>इह वहतीति । बह्वत्यन्तं महोदधिरूपं विभूषणं यस्याः सा । पक्षे बहुर्महत्तरो यो मह
उत्सवस्तदुदधिर्विभूषणं यस्याः सा । यद्वा बह्वी महोदधेर्विभूषणरूपा । लक्ष्मीरिति
यावत् । इयमुर्वी पृथ्वी । पक्षे श्रेष्ठा । मानस्य परिमाणस्य । पक्षे सर्वोत्कृष्टताभिमानस्य ।
गर्वम् । इह भवत्समक्षम् । न मत्समक्षमिति भावः । पक्ष इह लोके । वहति । कमठ-
मूर्तेर्देवस्य कच्छपरूपभगवतो निखिलं समग्रं पृष्ठमपि नाप्नोति । एवं च सर्वशरीरव्यापनं
क्वेति भावः । एवं चैतस्यास्तत्पृष्ठावलोकनमपि दुर्लभम्, तत्र किमु वाच्यं तत्संगमादिरिति
व्यज्यते । तेन चेयं भवत्सविधे मिथ्यागर्वमुद्वहतीति ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशती व्यङ्गयार्थदीपनया समेतेकारव्रज्या ।
-----------------------------------
ईकारव्रज्या ।
कश्चित्सखायं वक्ति--</p>
<lg>
  <l>ईर्ष्यारोषज्वलितो निजपतिसङ्गं विचिन्तयंस्तस्याः ।</l>
  <l>च्युतवसनजघनभावनसान्द्रानन्देन निर्वामि ॥ ११४ ॥</l>
</lg>
<p>ईर्ष्येति । तस्या निजपतिसङ्गं विचिन्तयन्नीर्ष्ययाक्षान्त्या यो रोषस्तेन ज्वलितः संतप्त-
श्च्युतवसनं जघनं तच्चिन्तनेन यः सान्द्रानन्दस्तेन निर्वामि संतोषं प्राप्नोमि । एवं च
तदीयतथाविधजघनध्यानादेतादृशानन्दः, तत्र किमु वाच्यस्तत्प्राप्ताविति भावः ॥
काचित् 'महत्परिगृहीतेयम्, अतस्त्वयैतस्यामासक्तिर्न कार्या' इत्यन्योक्त्या कंचिद्वक्ति--</p>
<lg>
  <l>ईश्वरपरिग्रहोचितमोहोऽस्यां मधुप किं मुधा पतसि ।</l>
  <l>कनकाभिधानसारा वीतरसा कितवकलिकेयम् ॥ ११९ ॥</l>
</lg>
<p>ईश्वरेति । महादेवकृताङ्गीकारेणोचितो मोहो भ्रमो यस्यैतादृशस्त्वम् । महादेवस्य ध
त्तूरपुष्पं प्रियमिति पुराणादौ प्रसिद्धम् । पक्ष ईश्वरो महांस्तदङ्गीकारेणोचितो मोह
आसक्तिर्यस्य । एवं च महत्परिग्रहादेवास्यां समीचीनत्वभ्रमेणासक्तिः, न वास्तविकगुण-
वत्त्वेनेति भावः । अस्यां कलिकायाम् । मधुप । एवं च सारग्राहकत्वेन याथातथ्येन
गुणमार्गणमुचितं तवेति द्योत्यते । यद्वा भ्रान्तत्वम् । मुधा किमिति पतसि । यत इयं
कनकाभिधानमेव सारो यस्याः । एवं चार्थशून्यत्वं व्यज्यते । वीतरसाविद्यमानमकरन्दा
कितवस्य कलिका । 'उन्मत्तः कितवो धूर्तो धत्तूरः कनकाङ्क्षयः' इत्यमरः । यद्वा कितव
धूर्त । एवं चैतादृशाचरणमनुचितमित्यावेद्यते । कलिका । एवं च महत्तरस्यानुरागवशा-</p>
<pb n="66" />
<p>देवास्यामुन्मादमात्रजनिकायां नायिकायामासक्तिर्न विधेया, किं तु गुणाद्यालोकनेनेति
व्यज्यते ॥
वापीसविधे कियद्भिः परिवृत्तां कांचन दृष्ट्वा कश्चिद्वक्ति--</p>
<lg>
  <l>ईषदवशिष्टजडिमा शिशिरे गतमात्र एव चिरमङ्गैः ।</l>
  <l>नवयौवनेव तन्वी निषेव्यते निर्भरं वापी ॥ ११६ ॥</l>
</lg>
<p>ईषदिति । ईषदवशिष्टो जडिमा शैत्यम् । पक्षे जडत्वम् । यस्याः । शिशिरर्तौ समाप्तमात्र
एव । वसन्तादावित्यर्थः । अङ्गैरवयवैः । पक्षे गुणभूतैश्चिरं निर्भरमत्यन्तं नवयौवना त-
न्वीव वापी निषेत्र्यते । एवं चैतादृशा गुणभूता अपि समीचीना इति व्यज्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशती व्यङ्ग्यार्थदीपनया समेतेकारव्रज्या ।
----------------------------------
उकारव्रज्या ।
सखी नायिकां स्तौति--</p>
<lg>
  <l>उल्लसितभ्रूधनुषा तव पृथुना लोचनेन रुचिराङ्गि ।</l>
  <l>अचला अपि न महान्तः के चञ्चलभावमानीताः ॥ ११७ ॥</l>
</lg>
<p>उल्लसितेति । उल्लसितं भ्रूरूपं धनुः । पक्षे भ्रूसदृशं धनुर्यस्य । पृथुना । आकर्णान्तेनेत्यर्थः ।
पक्षे पृथुनाम्ना राज्ञा । लोचनेन नेत्रेण । पक्ष आलोचनेन, कथमन्यथा जनावस्थितिरिति
विचारेण । रुचिराङ्गि । महान्तः श्रेष्ठाः । पक्षे महापरिमाणशालिनः । अचला अपि
चापलशून्या अपि । धीरा इत्यर्थः । पक्षे पर्वताः । के न चञ्चलभावमानीताः प्रापिताः ।</p>
<lg>
  <l>एवं च त्वत्कटाक्षविक्षेपमात्रेण के के न धैर्य परित्यज्य विह्वला जाता इति भावः ।</l>
  <l>पक्षे महीधरव्याप्तां महीमालोक्य पृथुराज्ञेतस्ततः पर्वताः कृता इति भावः ॥</l>
</lg>
<p>मत्प्रसादादेवैते धनिनः संवृत्ता इति काचिद्वक्ति-</p>
<lg>
  <l>उपनीय यन्नितम्बे भुजंगमुच्चैरलम्भि विबुधैः श्रीः ।</l>
  <l>एकः स मन्दरगिरिः सखि गरिमाणं समुद्वहतु ॥ ११८ ॥</l>
</lg>
<p>उपनीयेति । यस्य नितम्बे कटके । पक्षे यश्चासौ नितम्बश्च तस्मिन् । भुजंगं
सर्पम् । पक्षे विटम् । उपनीय प्रापय्य विबुधैर्देवैः । पक्षे विशेषज्ञानवद्भिः । उच्चैः श्री-
रलम्भि स मन्दरगिरिः पर्वतः । पक्षे मन्दरगिरिरिव । एकः । एवं चान्ये निरर्थका इति
भावः । गरिमाणं गौरवं समुद्वहतु । एवं च मन्नितम्बप्रसादेनैते श्रीमन्त इति व्यज्यते ।
यद्वा कस्याश्चिन्निदर्शनं प्रदर्श्य कश्चित्कांचिद्वक्ति । एवं च सैव गर्वं करोतु, तव तु
तत्करणमनर्थकमिति व्यज्यते ॥
नैष समयो जारसविधे गन्तुमिति काचित्कांचिद्वति--</p>
<lg>
  <l>उल्लसितलाञ्छनोऽयं ज्योत्स्नावर्षी सुधाकरः स्फुरति ।</l>
  <l>आसक्तकृष्णचरणः शकट इव प्रकटितक्षीरः ॥ ११९ ॥</l>
</lg>
<pb n="67" />
<p>उल्लसितेति । उल्लसितं लाञ्छनं यस्य, ज्योत्स्नां कौमुदीं वर्षति, असौ सुधाकरश्चन्द्रः
स्फुरति । आसक्तः कृष्णचरणो यस्मिन् । कृष्णत्वेन लाञ्छनवत्तासादृश्यम् । प्रकटितं
क्षीरं येन । क्षीरपदेन ज्योत्स्नावत्त्वसादृश्यम् । शकट इवासुरविशेष इव । एवं चैतत्स-
मये गमने लाञ्छनमवश्यं भविष्यतीति व्यज्यते ॥
स्वमनोरथं काचित्कांचिद्वक्ति--</p>
<lg>
  <l>उपचारानुनयास्ते कितवस्योपेक्षिताः सखीवचसा ।</l>
  <l>अधुना निष्ठुरमपि यदि स वदति कलिकैतवाद्यामि ॥ १२० ॥</l>
</lg>
<p>उपचारेति । कितवस्य धूर्तस्य, ते पूर्वप्रसिद्धा, उपचारेण अनुनयाः प्रसादनानि ।
एवं च न वास्तवा इति भावः । यद्वोपचारा अनुनयाश्च सख्याः । एवं च तद्वचनादर-
करणयोग्यत्वं व्यज्यते । वचनेन, एवमेव मानस्त्वया संस्थाप्यः क्षणोत्तरमयमवश्यमेत्य ते
वश्यो भविष्यतीत्येवंरूपेण, उपेक्षिता अगणिताः । एवं च स्वस्यापराधशून्यत्वं ध्वन्यते ।
अधुना स निष्ठुरमपि परुषमपि । एवं च समीचीनभाषणं दूरापास्तमिति भावः । यदि
वदति तर्हि कलिकैतवात्कलहकपटाद्यामि गच्छामि । अर्थात्तं द्रष्टुमिति भावः । एवं
चाधुना तेन तथौदासीन्यमालम्बितं यथा न निष्ठुरमपि वक्ति । येन किमिति तादृशं
वदसीति वक्तुमहं गमिष्यामीति भावः । एवं चाधुना कोऽप्युपायस्तद्दर्शन इति चिन्ता-
तिशयो द्योयते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>उषसि परिवर्तयन्त्या मुक्तादामोपवीततां नीतम् ।</l>
  <l>पुरुषायितवैदग्ध्यं व्रीडावति कैर्न कलितं ते ॥ १२१ ॥</l>
</lg>
<p>उषसीति । व्रीडावति, उपवीततां नीतम् । उपवीतरूपं कृतमित्यर्थः । मुक्तादाम परि-
वर्तयन्त्याः सजीकुर्वन्त्या उषसि पुरुषायितस्य वैदग्ध्यं कैर्न कलितम् । अपि तु सर्वै-
रिति भावः । एवं चेदानीं मत्समक्षं लज्जां नाटयसि, परंतु त्वदीयतत्कालीनलज्जाशू-
न्यत्वं तथाविधमुक्तादामपरिवर्तनमेव सर्वेषां कथयतीति भावः ॥
नायिकां प्रति वक्ति--</p>
<lg>
  <l>उड्डीनानामेषां प्रासादात्तरुणि पक्षिणां पङ्क्तिः ।</l>
  <l>विस्फुरति वैजयन्ती पवनच्छिन्नापविद्धेव ॥ १२२ ॥</l>
</lg>
<p>उड्डीनेति । प्रासादादुड्डीनानामेकगतिविशेषशालिनाम् । हे तरुणि, पक्षिणां पङ्क्तिः पवनेन
च्छिन्ना चासावपविद्धा वैजयन्ती मालेव विशेषेण स्फुरति त्वं पश्य । एवं च नायकः
प्रासादमायातस्त्वमपि प्रयाहीति ध्वन्यते । यद्वा संकेतस्थलमिदमिति व्यज्यते ॥
अतितीक्ष्णमतिभिः संरक्ष्यमाणां कांचित्कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>उज्जागरितभ्रामितदन्तुरदलरुद्धमधुकरप्रकरे ।</l>
  <l>काञ्चनकेतकि मा तव विकसतु सौरभ्यसंभारः ॥ १२३ ॥</l>
</lg>
<pb n="68" />
<p>उज्जागरितेति । काञ्चनकेतकि, उज्जागरितः, भ्रामितः, उच्चावचपत्त्रैर्निरुद्धः, मधु-
कराणां प्रकरो यया तत्संबुद्धिः । तव सौरभ्यसंभारो मा विकसतु । एवं च यद्दर्शनेन येषां
यूनामितस्ततस्त्वद्दर्शनाय भ्रमणरात्रिजागरणादि भवति तेषां दुष्टादिभिर्निवारणे क्रिय-
माणे त्वद्यौवनं निष्फलमिति व्यज्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>उल्लसितभूः किमतिक्रान्तं चिन्तयसि निस्तरङ्गाक्षि ।</l>
  <l>क्षुद्रापचारविरसः पाकः प्रेम्णो गुडस्येव ॥ १२४ ॥</l>
</lg>
<p>उल्लसितभूरिति । निस्तरङ्गे अक्षिणी यस्यास्तत्संबुद्धिः, निश्चलेक्षणे । एवं च चिन्ता-
वत्त्वमभिव्यज्यते । उल्लसितभ्रूः सती त्वमतिक्रान्तं निवृत्तं किं चिन्तयसि । एवं च नि-
वृत्तचिन्तनमनर्थकमिति भावः । यतो गुडस्येव प्रेम्णः पाकः परिपाकः क्षुद्रस्य नीचस्य ।
पक्षे क्षुद्राया मक्षिकाया अपचारः संबन्धस्तेन विरसो भवति । एवं च नीचमाध्यस्थे
प्रेम्णो न निर्वाह इति भावः । एवं च नीचमाध्यस्थं प्रथमतो विधाय पश्चाच्चिन्ताविधान-
मनुचितमिति द्योत्यते । क्षुद्रासक्त्युत्तरं कथमथुना विधेयमिति सचिन्तां सखी वक्ति ।
एवं च क्षुद्रसंबन्धेऽवश्यं प्रेमवैरस्यमिति ध्वन्यते । तेन च तत्परित्याग एवोचित इति
कश्चित् ॥
कस्याश्चिद्रतौत्सुक्यं काचित्कांचिद्वक्ति--</p>
<lg>
  <l>उद्दिश्य निःसरन्तीं सखीमियं कपटकोपकुटिलभूः ।</l>
  <l>एवमवतंसमाक्षिपदाहतदीपो यथा पतति ॥ १२५ ॥</l>
</lg>
<p>उद्दिश्येति । उद्दिश्येदं विधेयमस्तीति निःसरन्तीम् । अर्थात्केलिसदनात् । सखी-
मियं नायिका कपटकोपेन । न वास्तवेनेति भावः । कुटिले भ्रुवौ यस्याः । अवतंसं यथा-
हतो दीपो यस्मिन्कर्मणि पतत्येवमाक्षिपत् । सख्या उपरि त्यजति स्म । एवं च दी-
पनाशनेन रतौत्कण्ठ्यं व्यज्यते ॥
स्वल्पबलेऽपि शान्तिशालिनि प्रबलस्य न तथा तेजोऽधिकं भवतीति कश्चिदन्योक्त्या
कंचन वक्ति--</p>
<lg>
  <l>उदितोऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः ।</l>
  <l>कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥ १२६ ॥</l>
</lg>
<p>उदितोऽपीति । उदितोऽपि । एवं च क्षीणत्वाभावो व्यज्यते । तुहिनस्य हिमस्य ग-
हनं यस्मिन् । अथवा तुहिनेन गहने निबिड आकाशप्रान्ते । तापयतीति तपन: सूर्यो
न दीप्यते नात्यन्तं प्रदीप्तो भवति । कठिनघृतपूरेण पूर्णे शरावस्य मृद्भाजनविशेषस्य
शिरसि प्रदीप इव । एवं च शीलशीतले न कस्यचित्क्रोधाग्नेराधिक्यमिति व्यज्यते ।
तेन शान्तिप्रवणत्वमुचितमिति । यद्वा सौम्यसमुदाये क्रूरेण न किंचित्कर्तुं शक्यमिति
कश्चिदन्योक्त्या वक्ति । दीपसादृश्यार्थं प्रान्तपदम् । अथवा हीनबलसमुदायाक्रान्तप्रब-</p>
<pb n="69" />
<p>लस्य शनैः शनैर्बलं भवत्येवेत्यन्योक्त्या वक्ति । उदितः । 'अपि:' 'तुहिनगहने' इत्य-
त्रान्वेति । नेति काकुः । अथवा बहुतरशान्तिमति हृदयाकाशे न कामक्रोधादेस्तथा
प्रसर इति कश्चित् कञ्चिद्वक्ति ॥
उद्गमनादि व्यापारालसा त्वं किमितीति वादिनीं सखीं नायिका वक्ति--</p>
<lg>
  <l>उद्गमनोपनिवेशनशयनपरावृत्तिवलनचलनेषु ।</l>
  <l>अनिशं स मोहयति मां हृल्लग्नः श्वास इव दयितः ॥ १२७ ॥</l>
</lg>
<p>उद्गमनेति । स दृष्टपूर्वः, अनिशं निरन्तरम्, हृल्लग्नो हृदयमधिष्ठितः । यद्वानिशं मो-
हयतीति योजना । दयितः, उद्गमन उत्थाने, उपनिवेशने स्थितौ, शयनपरावृत्तौ पा-
र्श्वपरिवर्तने, वलने वक्राङ्गकरणे, वचनव्यापारे च मोहयति भ्रान्तिं जनयति । तत्तद्व्या-
पारासमर्थां करोतीति भावः । एवं च तथाविधनायकाप्राप्त्या ममैतादृशं दुःखं भवतीति
व्यज्यते । तेन च तदानयनार्थं यतस्वेति । हृल्लग्नः श्वास इव । हृच्छ्वासरोगेणापि गम-
नोपवेशनादिव्यापारेष्वत्यन्तं दुःखं भवति ॥
कयोश्चित्कटाक्षमात्रेणैव योगः संवृत्त इति काचिद्वक्ति । यद्वा न दूत्यादेरुपयोगः,
किं तु कटाक्षमात्रेणैव कार्यं कर्तुं शक्यमिति काचित् काञ्चिद्वक्ति--</p>
<lg>
  <l>उज्झितसौभाग्यमदस्फुटयाच्ञानङ्गभीतयोर्यूनोः ।</l>
  <l>अकलितमनसोरेका दृष्टिर्दूती निसृष्टार्था ॥ १२८ ॥</l>
</lg>
<p>उज्झितेति । उज्झितस्त्याजितः सौभाग्यस्य मदो ययैतादृशी या प्रकटयाच्ञा, अ-
नङ्गश्च । एतद्भीतयोः । स्फुटप्रार्थनायां सौभाग्यमदभङ्गः, अप्रार्थनायां मदनबाधेत्युभ-
यत्रापि भीतिरिति भावः । 'भङ्ग' इति पाठे सौभाग्यमदभङ्गं सोढ्वापि याच्ञायां कृतायां
तत्फलाभावे भीतिरित्यर्थः । अकलितं मनो याभ्यां तयोः । अविज्ञातपरस्पराभिप्राय-
योरित्यर्थः । यूनोरेका दृष्टि: परस्परावलोकनं निसृष्टार्था दूती । 'उभयोर्भावमुन्नीय
स्वयं वदति चोत्तरम् । सूत्कृष्टं कुरुते कार्यं निसृष्टार्था तु सा स्मृता ॥' एवं च कटाक्ष-
मात्रेणैव संयोगः संवृत्तः कर्तुं शक्य इति ध्वन्यते ॥
यद्यपीयं बहुभिर्भुज्यते तथाप्येकस्मिन्नेव जारेऽत्यन्तमासक्तेति काचित् काञ्चिद्वक्ति--</p>
<lg>
  <l>उत्तमभुजंगसंगमनिस्पन्दनितम्बचापलस्तस्याः ।</l>
  <l>मन्दरगिरिरिव विबुधैरितस्ततः कृष्यते कायः ॥ १२९ ॥</l>
</lg>
<p>उत्तमेति । उत्तमो यो भुजंगः सर्पः । उत्तमपदेन चित्तस्थिरीकरणयोग्यत्वं व्यज्यते ।
पक्षे षिङ्गः । तत्संगमेन बन्धनेन । पक्षे संभोगेनेति भावः । चपलत्वे हेतुः । निस्पन्दस्य
निश्चलस्य । पूर्वमिति भावः । नितम्बस्य कटकस्य । पक्षे कटिप्रदेशस्य । चापलं य-
स्मिन् । यद्वोत्तमभुजंगसंगमेन निश्चलनितम्बो यस्मिन्नेतादृशं चापलं यस्य । एवं च
बाह्यरतवत्तान्येषां नान्तररतवत्तेति भावः । तस्याः कायो देहो मन्दराचल इव विबुधै-</p>
<pb n="70" />
<p>र्ज्ञानवद्भिः । पक्षे देवैः । इतस्ततः कृष्यते । एवं चान्यैर्भुज्यमानापि न मनो निवेशयति
तेषु, किं तु तथाविधजारसंभोगतृप्त्या तस्मिन्नेवासचेति ध्वन्यते ॥
एतस्याः पतिरत्यन्तजडोऽस्ति, अतस्त्वया न भेतव्यमिति काचित् कञ्चिद्वक्ति--</p>
<lg>
  <l>उपनीय कलमकुडवं कथयति समयश्चिकित्सके हलिकः ।</l>
  <l>शोणं सोमार्धनिमं वधूस्तने व्याधिमुपजातम् ॥ १३० ॥</l>
</lg>
<p>उपनीयेति । कलमानां शालिविशेषाणां कुडवं पलालनिर्मितं पात्रमुपनीय समीपे
संस्थाप्य सभयः । कथमियं जीविष्यतीति धियेति भावः । हलिकः । एवं च मूर्खत्वं
व्यज्यते । चिकित्सके वैद्ये, वधूस्तने, शोणमारक्तम्, अर्धचन्द्राकारम्, उप समीपे
जातम्, व्याधिं रोगं कथयति । एवं चैतस्यैतन्नखक्षतज्ञानं नास्तीति व्यज्यते । तेन
त्वया यथेष्टमागन्तव्यं चेति । कुडवशब्दः परिमाणविशेषवाचीति केचित् ॥
कांचिदग्मिं ज्वालयन्तीं जारातिसक्त्या मानसतत्संभोगं कुर्वतीं धूर्तनिजदयितेनालो-
च्यमानां सनिह्नवं सखी निवारयति--</p>
<lg>
  <l>उन्मुकुलिताधरपुटे भूतिकणत्रासमीलितार्धाक्षि ।</l>
  <l>धूमोऽपि नेह विरम भ्रमरोऽयं श्वसितमनुसरति ॥ १३१ ॥</l>
</lg>
<p>उन्मुकुलितेति । उत्कृष्टमुकुलवदाचरितमधरपुटं यया तत्संबुद्धिः । वह्निप्रज्वलनाय
फूत्कारविधानादिति भावः । भूतेर्भस्मनः कणानां त्रासेन नेत्रान्ते भस्मसंबन्धभयेन मी-
लिते अर्धमक्षिणी यया तत्संबुद्धिः । एवं च विशिष्य भ्रमराज्ञानाद्धूमभ्रमवत्त्वौचित्यं
व्यज्यते । धूमोऽपीह न । अपिना व्यक्तिव्यवच्छेदः । विरम । फूत्कारकरणादिति
भावः । ननु धूमलेखा दृश्यते, तत्कथम् 'नेह धूमः' इति वदसीयाह--ते श्वसितं भ्रम-
रोऽयमनुसरति । एवं च त्वद्वदनामोदवशाद्भ्रमरः परिभ्रमति, परंतु न वास्तवो धूमः ।
अतोऽनर्थंकैतद्व्यापाराद्विरमेति भावः । इति निह्नवपुरःसरमधरोन्मुकुलननयनार्धनिमी-
लने फूत्कारभस्मसंबन्धभयेन समाधातुं शक्ये, परन्तु कथमपि श्वसितं न समाहितुं श-
क्यम् । अयं च ते भ्रमर इव भ्रमरः । यद्वा भ्रमं राति । एवं च यथार्थवार्ताग्राहक-
स्यास्य यथार्थवार्ताग्रहणे न कोऽपि विलम्बः । दयितश्च श्वसितमिदमवश्यं ज्ञास्यत्येव
तव त्वधरोन्मुकुलननयनार्धनिमीलनश्वसितानि मानससंभोगजन्यान्येव । अतो न विधे-
यमेतदिति व्यज्यते । यद्वा वह्निप्रज्वालनार्थमादिष्टां तत्समय एव जाराय चुम्बनं प्रय
च्छन्तीं नायिकामवलोक्य तत्सखी तदुत्साहवर्धनाय वक्ति--हे भूतिकणत्रासमीलितार्धा-
क्षि, इति । सोल्लुण्ठनवचनमेतत् । एवं च न भूतिकणत्रासेन तवार्धाक्षिनिमीलनम्, अपि तु
जारचुम्बनसुखोदयेनेति व्यज्यते । उन्मुकुलितम् । चुम्बनार्थमिति भावः । अधरपुटं
येन तस्मिन् । इह जारो न विरमति । चुम्बनदानार्थमिति भावः । दन्तक्षतभीतिं स्वय-
माशङ्क्य परिहरति--अपिरवधारणे । नकारोऽप्यत्रान्वेति । अयं धूमो न, किंतु भ्रमर
एव श्वसितम् । अर्थात्तव । अनुसरति । एवं च न धूमलेखा, अपि तु फूत्कारकालीन-</p>
<pb n="71" />
<p>त्वद्वदनसमीरणसौरभ्यलुभ्यन्मधुकरश्रेणिरत एतद्दंशमिषेणैव दन्तक्षतसमाधेर्विधातुं श-
क्यत्वेन दन्तक्षतभयमपास्यास्य यथेच्छं चुम्बनं देहीति ध्वन्यते । अथवा नायकदूत्यु-
क्तिरियम् । भूतिकणत्रासमीलितार्धाक्षीत्यनेन चुम्बनप्राप्त्यौत्कण्ठ्येनैतदीयाधरोन्मुकुलन-
मपि न मयावधारितमिति व्यज्यते । इतरत्समम् ॥
कान्तसविधे तथाविधबालायातायातमवलोक्य कुपितां गृहिणीं नायकः समाधत्ते--</p>
<lg>
  <l>उपरि परिप्लवते मम बालेयं गृहिणि हंसमालेव ।</l>
  <l>सरस इव नलिननाला त्वमाशयं प्राप्य वससि पुनः ॥ १३२ ॥</l>
</lg>
<p>उपरीति । हे गृहिणि । एवं च गृहभारस्य त्वदधीनत्वेन त्वमेव मुख्येति व्यज्यते ।
यथा सरसः सरोवरस्योपरि हंसमाला भ्रमति, नलिननाला त्वभ्यन्तरे वसति, तथेयं
बाला ममोपरि । नान्तःकरण इत्यर्थः । परिप्लवते भ्रमति । त्वं त्वन्तःकरणं प्राप्य
वससि । एवं चैतस्या मच्चेतसि नाधिष्ठानं तव तु वर्तत इति व्यज्यते । पुनस्त्वर्थे ।
'नाला नालम्' इति पाठान्नालाशब्द आबन्तः ॥
कश्चन कस्याश्चिद्यौवनलुब्धस्तदप्राप्तिखिन्नस्तां प्रति वक्ति--</p>
<lg>
  <l>उत्कम्पघर्मपिच्छिलदोःसाधिकहस्तविच्युतश्चौरः ।</l>
  <l>शिवमाशास्ते सुतनु स्तनयोस्तव चञ्चलाञ्चलयोः ॥ १३३ ॥</l>
</lg>
<p>उत्कम्पेति । हे सुतनु । एवं च कामुकेच्छायोग्यत्वं व्यज्यते । उत्कृष्टः कम्पो यस्य,
घर्मेण पिच्छिलश्च, यो दोःसाधिकस्य यामिकस्य हस्तस्तस्माद्विच्युतः । उत्कम्पपि-
च्छिलपदाभ्यां च्यवनार्हत्वं व्यज्यते । चोरस्तव चञ्चलाञ्चलयोः । एवं च दर्शनयोग्यत्वं
व्यज्यते । स्तनयोः शिवं कल्याणमाशास्ते । एवं च त्वत्कुचकुम्भदर्शन संजातसात्त्विकभा-
वकम्पस्वेदयामिकशिथिलकरबन्धविच्युतचोरस्यैव सुखदत्वेन तदाशास्यशिवभाजनम-
स्मदादीनां त्वत्यन्तदुःखदत्वेन शापभाजनमेव भविष्यति त्वत्कुच इति व्यज्यते । यद्वा
दुष्टवृत्त्युपजीविन एवायं ते स्तनमण्डलः सुखयिता नान्येषां समीचीनानामिति कश्चि-
द्वक्ति । अथवा त्वत्कुचकुम्भदर्शनादेव तथा भ्रान्तिरुदेति यथाग्रे स्वमरणमपि न वि-
ज्ञायत इति वक्ति । यामिकस्य केवलतस्करधारणमेव वृत्तिः । एवं च तद्धस्तात्तस्क-
रापगमनेन भाविप्रभुकोपफलाज्ञानवदेषामपि न तदनुसंधानमिति व्यज्यते । यद्वा त्वया
रात्रावभिसरणं कृतमिति कश्चिद्वक्ति ॥
कयाचन नायिकया कृष्यमाणाञ्चलं नायकं प्रत्यन्योक्त्या तत्सखी वक्ति--</p>
<lg>
  <l>उत्क्षिप्तबाहुदर्शितभुजमूलं चूतमुकुल मम सख्या ।</l>
  <l>आकृष्यमाण राजति भवतः परमुच्चपदलाभः ॥ १३४ ॥</l>
</lg>
<p>उत्क्षिप्तेति । उत्क्षिप्तो यो बाहुस्तेन दर्शितं भुजमूलं यत्र क्रियायाम् । हे चूतमुकुल ।
मुकुलपदं भ्रमराद्यभुक्तप्रतिपादनेनाङ्गनासंगतिशून्यत्वं नायके ध्वनयति । तच्चात्यन्तस्पृह-
णीयत्वम् । मम सख्याकृष्यमाण भवतः परमुत्कृष्टमुच्चतरपदलाभो राजति । एवं च मत्स-</p>
<pb n="72" />
<p>खीकराकर्षणेन तवोत्कृष्टस्थानप्राप्तिर्जातेति व्यज्यते । तेन चैतत्कराकर्षणं स्वर्गसुखरूप
मिति । पल्लवादेराकर्षणोत्तरमोचनादूर्ध्वगमनमिति लौकिकम् ॥
त्वद्धारदर्शनेन सर्वोऽपि त्वद्विहारमाकाङ्क्षतीति सखी नायिकां वक्ति--</p>
<lg>
  <l>उच्चकुचकुम्भनिहितो हृदयं चालयति जघनलग्नाग्रः ।</l>
  <l>अतिनिम्नमध्यसंक्रमदारुनिभस्तरुणि तव हारः ॥ १३५ ॥</l>
</lg>
<p>उच्चेति । उच्चौ यौ कुचकुम्भौ । कुम्भपदमाधारकाठिन्यद्योतनाय । तत्र निहितः ।
जघने कट्याः पुरोभागे । 'क्लीबे तु जघनं पुरः' इत्यमरः । लग्नमग्रं यस्य । अत्यन्तं
निम्नो नीचो यो मध्यस्तत्संक्रमाय यद्दारु तत्तुल्यः । निम्नदेश उल्लङ्घनाय यत्काष्ठं दीयते
तत्संक्रमदारु । तरुणि तव हारो हृदयम् । द्रष्टुरिति यावत् । चालयति चञ्चलं करोति ।
अन्योऽपि संक्रमदारुमार्गेण गच्छंश्चञ्चलताभाजनं भवतीति लौकिकम् ॥
रतश्रान्तेयमिति सखी नायकं वक्ति--</p>
<lg>
  <l>उल्लसितशीतदीधितिकलोपकण्ठे स्फुरन्ति तारौघाः ।</l>
  <l>कुसुमायुधविधृतधनुर्निर्गतमकरन्दबिन्दुनिभाः ॥ १३६ ॥</l>
</lg>
<p>उल्लसितेति । उल्लसितः । सुरतसुखादिति भावः । शीतदीधितिर्मुखचन्द्रस्तस्य मनो-
ज्ञोपकण्ठे कुसुमायुधेन विधृतं यद्धनुस्खन्निर्गता ये मकरन्दबिन्दवस्तत्सदृशास्तारौघाः
प्रस्वेदबिन्दवः स्फुरन्ति । एवं च कुसुमसमसुकुमारताशालिनीयं रतश्रान्तेति व्यज्यते ।
यद्वा जातोऽयमभिसारसमय इति सखी नायिकां वक्ति । उल्लसितः प्रादुर्भूतः शीतदी-
धितिश्चन्द्रस्तत्समीपदेशे तारौघा नक्षत्रौघा मदनधनुर्मकरन्दतुल्याः स्फुरन्ति । अर्धच-
न्द्रत्वेन धनुस्तुल्यता । एवं चैतादृशसुधाकरसाहाय्यसंपन्नः कुसुमधन्वा सज्जः संवृत्तः ।
अतो द्रुततरमभिसरस्वेति ध्वन्यते ॥
काचिन्नायिका नायकीयविलम्बागमनजन्यं मानमासाद्य स्वल्पावशिष्टयामिन्यां नाय-
केन दूरीकृताभिमाना रात्रिः स्वल्पावशिष्टेति विज्ञायानुशोचति--</p>
<lg>
  <l>उपनीय प्रियमसमयविदं च मे दग्धमानमपनीय ।</l>
  <l>नर्मोपक्रम एव क्षणदे दूतीव चलितासि ॥ १३७ ॥</l>
</lg>
<p>उपनीयेति । हे क्षणदे रात्रि । 'त्रियामा क्षणदा क्षपा' इत्यमरः । अथ चोत्सवदे।
एवं चोत्सवदायास्तदभावसंपादनमनुचितमिति व्यज्यते । असमयविदं समयज्ञानशून्यम् ।
एवं च पूर्वरात्रावागमनमुचितमिति व्यज्यते । प्रियम् । एवं च दुर्लभत्वं द्योत्यते ।
उपनीय प्रापय्य । असमय विदं रात्रेरल्पावशिष्टत्वेन करणानर्हम् । अत एव दग्धं मे मानं
च । किमर्थं विलम्बितमिति हेतोः संजातमित्यर्थः । दूरीकृत्य क्रीडोपक्रम एव दूतीव।
दूतीपदं संगतिसंपादनमात्रकर्तृत्वं द्योतयति । चलितासि । दूत्यपि नायकमानीय मान-
मपनीय क्रीडारम्भ एव निर्गच्छतीति लौकिकम् । नायिका चेयं परकीया ॥</p>
<pb n="73" />
<p>त्वत्करस्पर्शनादेवास्मत्सखी विगतधैर्या सती त्वामनुसरतीति नायिकासक्तिं सखी
वक्ति--</p>
<lg>
  <l>उत्तमवनितैकगतिः करीव सरसीपयः सखीधैर्यम् ।</l>
  <l>आस्कन्दितोरुणा त्वं हस्तेनैव स्पृशन्हरसि ॥ १३८ ॥</l>
</lg>
<p>उत्तमेति । उत्तमवनितानामेकगतिरूपः । एवं च स्वानुरूपान्यनायकाभावेन नायि-
कासक्तिस्त्वयि युक्ततरेति व्यज्यते । पक्ष उत्तमवनितावदेका मुख्या गतिर्यस्य । आस्क-
न्दितावूरू जङ्घे येन तेन । पक्षे संस्पृष्टस्वजङ्घेन । हस्तेनैव । पक्षे शुण्डादण्डेनैव । स्पृ-
शन्करी सरसीपय इव सख्या धैर्यं हरसि । एवकारेणालिङ्गनादौ किं किं हरिष्यसीति
न विद्म इति व्यज्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेतोकारव्रज्या ।
--------------------------------------
ऊकारव्रज्या ।
काञ्चिज्जरठविवाहितां तदीयप्रेमराहित्यखिन्नां सख्यन्योक्त्या वक्ति--</p>
<lg>
  <l>ऊढामुनातिवाहय पृष्ठे लग्नापि कालमचलापि ।</l>
  <l>सर्वंसहे कठोरत्वचः किमङ्केन कमठस्य ॥ १३९ ॥</l>
</lg>
<p>ऊढेति । हे सर्वंसहे वसुमति । एवं चैतदीयापराधसहने तव न किंचित्कठिनमिति
व्यज्यते । अमुना कमठेनोढा सती पृष्ठे लग्नापि । अपिरवधारणे । लग्नैवेत्यर्थः । अच-
लापि । एवं च स्वतो निश्चलायाश्चाञ्चाल्याभावोपदेश: पिष्टपेषणतुल्य इति व्यज्यते ।
कालमतिवाहय । 'असि' इति पाठे यतो निश्चलासि, अत एव कालमतिवाहयेति यो-
जना । कठोरत्वचः । एवं च जरठत्वं ध्वन्यते । कमठस्याङ्केन किम् । एवं चैतज्जरठ-
पाणिग्रहणशालिन्या चाञ्चलशून्यया त्वया कर्कशतदङ्केच्छामपहाय सर्वमेतत्तदीयापराध-
जातमपि सोड्वावस्थेयमिति ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गथार्थदीपनया समेतोकारव्रज्या ।
----------------------------
ऋकारव्रज्या ।
नेदं स्वकटाक्षविक्षेपादिचातुर्यप्रदर्शनस्थलम् । अतोऽतिसरलतयैवात्रावस्थितिरुचि-
तेति काचित् काञ्चिच्छिक्षयति--</p>
<lg>
  <l>ऋजुना निधेहि चरणौ परिहर सखि निखिलनागराचारम् ।</l>
  <l>इह डाकिनीति पल्लीपतिः कटाक्षेऽपि दण्डयति ॥ १४० ॥</l>
</lg>
<p>ऋजुनेति । ऋजुना सरलेन, अर्थान्मार्गेण चरणौ निधेहि स्थापय । समग्रां नागर-
रीतिं त्यज । इह स्थले पल्लीपतिर्घोषाधिपः । एवं चानभिज्ञत्वं ध्वन्यते । कटाक्षसंपा-
दनेऽप्येवं चान्यकर्तव्यता दूरापास्तेति भावः । डाकिनीति बुद्ध्या दण्डयति ॥</p>
<pb n="74" />
<p>शास्त्रचर्चांत्र भवतीति विज्ञायागतस्तत्र ग्रामीणचर्चामालोक्य कश्चिद्वक्ति--</p>
<lg>
  <l>ऋषभोऽत्र गीयत इति श्रुत्वा स्वरपारगा वयं प्राप्ताः ।</l>
  <l>को वेद गोष्ठमेतद्गोशान्तौ विहितबहुमानम् ॥ १४१ ॥</l>
</lg>
<p>ऋषभ इति । ऋषभः स्वरविशेषः, वृषभश्च । 'ऋषभो वृषभो वृषः' इत्यमरः । अत्र
गीयत इति ज्ञात्वा स्वरज्ञानवन्तो वयं समागताः । एतत्स्थलं गोशान्तौ विहितो बहुमानो
यत्रेति गोष्ठं गोस्थानकमिति को वेद । दीपोत्सवादावाभीरा गवामलंकरणं विधाय गानं
कुर्वन्तीति देशाचारः। एवं च नाममात्रादेवास्माकं गानसमानत्वबुद्धिरुदभवदिति भावः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता ऋकारव्रज्या ।
----------------------------
एकारव्रज्या ।
नायकोऽधरं स्तौति--</p>
<lg>
  <l>एको हरः प्रियाधरगुणवेदी दिविषदोऽपरे मूढाः ।</l>
  <l>विषममृतं वा सममिति यः पश्यन् गरलमेव पपौ ॥ १४२ ॥</l>
</lg>
<p>एक इति । प्रियाधरगुणान् वेत्ति । एवं च विशिष्य वक्तुमशक्यत्वं गुणेषु व्यज्यते ।
एको हरः । एवं च विरक्तवेषवत्तया नान्यथाभाव आशङ्कनीय इति भावः । अन्ये देवा
मूढाः । उभयत्र हेतुमाह--यो हरो विषममृतं वा सममिति विचारयन् गरलमेव पपौ ।
एवं च प्रियाधरं विनामृतमपि विषतुल्यमिति व्यज्यते । दिविषदस्तु कमलाधरार्थं यत्न-
मकुर्वाणा अमृतार्थं च कुर्वाणास्ततस्तदधिकमिति मन्वाना मूढा इति भावः । यद्वा
एको हरः प्रियाधरगुणज्ञानवान्, नान्ये देवाः । किं पुनर्मानुषा इति भावः । यतो यो
विषमप्यमृततुल्यं विज्ञाय तदेव पपौ । एवं च प्रियाधरपानसंबन्धिनिवेदने विषमप्यमृतं
भवतीति भावः । एवं च प्रियाधरेऽधिकत्वं सुधातो द्योत्यते । अत्रोभयत्र विषगरलप-
दान्यतरस्यैवोपादानमुचितमित्याभाति ॥
काचिद्दुष्टा प्रियगमनावसरेऽपुनरावृत्त्यर्थममङ्गलं कुर्वाणा तदमङ्गलभीयावस्थितं ना-
यकमवलोक्यान्यथाचिन्तितस्यान्यथाभवनं दैवाधीनमिति सखीं वक्ति--</p>
<lg>
  <l>एष्यति मा पुनरयमिति गमने यदमङ्गलं मयाकारि ।</l>
  <l>अधुना तदेव कारणमवस्थितौ दग्धगेहपतेः ॥ १४३ ॥</l>
</lg>
<p>एष्यतीति । अयं पुनर्मा एतु, एतदर्थं यदमङ्गलं गमनकालेऽकारि तेनैव कारणेन
ज्वलितगृहपतेरवस्थितिः संवृत्तेत्यर्थः ॥
त्वय्येवासक्तास्ति सेति सखी नायकं वक्ति--</p>
<lg>
  <l>एकैकशो युवजनं विलङ्घमानाक्षनिकरमिव तरला ।</l>
  <l>विश्राम्यति सुभग त्वामङ्गुलिरासाद्य मेरुमिव ॥ १४४ ॥</l>
</lg>
<pb n="75" />
<p>एकैकश इति । प्रत्येकमित्यर्थः । 'एकैकशो दत्त्वा, एकैकशो ददाति' इति भाष्यका-
रप्रयोगद्वयवच्छस् । 'इहेदानीमेकैकशो वैधर्म्यमुच्यते, एकैकशस्ताववलोक्य येऽन्यत्रैकै-
कशो दुर्लभाः' इति प्रशस्तपादभाष्य-स्वयंवरप्रस्तावीयवासवदत्ता-समाप्तकल्पदशकुमा-
रप्रयोगाश्चेत्यलमत्र विचारेण । युवजनम् । युवपदेन स्पृहणीयत्वं व्यज्यते । अक्षाणां
मालामणीनां समुदायमिव विलङ्घमानावगणयन्ती । पक्ष उल्लङ्घयन्ती । अङ्गुलिरिव तरला
मेरुमिव मालाप्रान्तमणिमिव त्वां प्राप्य सुभग । एवं चैतादृशनायिकासक्तिर्न भाग्यं
विनेति व्यज्यते । विश्राम्यति । मेरोरुल्लङ्घनं न कार्यमिति जापकसंप्रदायः ॥
कश्चिद्याच्या खेदखिन्नो वक्ति--</p>
<lg>
  <l>एकः स एव जीवति स्वहृदयशून्योऽपि सहृदयो राहुः ।</l>
  <l>यः सकललघिमकारणमुदरं न बिभर्ति दुष्पूरम् ॥ १४५ ॥</l>
</lg>
<p>एक इति । सकललघुताकारणम्, दुःखेन पूरयितुमशक्यम् । दुष्पूरत्वं लघुताकारणे
हेतुः । उदरं यो न बिभर्ति स स्वहृदयविहीनोऽपि । स्वपदमनर्थकमिवाभाति । सहृदयो
हृदयेन सहितो राहुरेवैको जीवति । एवं च ये स्वोदरदरीपूरणाय याच्ञां कुर्वन्ति त
एव मृता इति व्यज्यते ॥
कश्चिद्विदेशस्थो मनोरथं करोति--</p>
<lg>
  <l>एकेन चूर्णकुन्तलमपरेण करेण चिबुकमुन्नमयन् ।</l>
  <l>पश्यामि बाष्पधौतश्रुति नगरद्वारि तद्वदनम् ॥ १४६ ॥</l>
</lg>
<p>एकेनेति । एकेन करेण चूर्णकुन्तलम् । 'अलकाश्चूर्णकुन्तलाः' इत्यमरः । अपरेण
चिबुकमुन्नमयन्नगरद्वारदेशे । प्रेमातिशयेन तावद्दूरागमनमिति भावः । बाष्पैः । चिरका-
लदर्शनादिति भावः । धौता श्रुतिर्यत्र । तिर्यक्चिबुकोन्नमनादिति भावः । तस्या वदनं
पश्यामि, इति काक्का एवं जगदीश कदा करिष्यसीति व्यज्यते । 'विगलद्वारि' इति पाठे
कुन्तलविशेषणम् ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>एकं जीवनमूलं चञ्चलमपि तापयन्तमपि सततम् ।</l>
  <l>अन्तर्वहति वराकी सा त्वां नासेव निःश्वासम् ॥ १४७ ॥</l>
</lg>
<p>एकमिति । एकम् । नान्यदित्यर्थः । जीवनकारणम् । एवं च त्यागानर्हत्वं ध्वन्यते ।
चञ्चलस्वभावमपि । एवं चान्यत्र त्वदीयानुबन्धादिश्रवणेऽपि तस्यास्त्वय्यनुराग इति
दुर्लभतरेयमेतादृशी नायिकेति व्यज्यते । तेन च त्वया न चाञ्चल्यं विधेयमिति । निरन्तरं
तापयन्तम् । चञ्चलस्वाभाव्यादिति भावः । नासेव सा वराकी । एवं च दीनत्वं
व्यज्यते । निःश्वासतुल्यं त्वामन्तर्वहति । एवं च बहिस्तथाविधकृत्रिमचाटुवचनविज्ञान-
शून्यत्वेऽप्यन्तःप्रेमशालित्वमिति व्यज्यते ॥</p>
<pb n="76" />
<p>नायकप्रेषितदूतीं नायिका वक्ति--</p>
<lg>
  <l>एकं वदति मनो मम यामि न यामीति हृदयमपरं मे ।</l>
  <l>हृदयद्वयमुचितं तव सुन्दरि हृतकान्तचित्तायाः ॥ १४८ ॥</l>
</lg>
<p>एकमिति । हे दूति, एकं मम मनो यामीति वदति, न यामीत्यपरं हृदयं वदति ।
एवं च गन्तव्यं वा न गन्तव्यमिति संशयशालिन्यहमिति व्यज्यते । नायिका गमने
संशयं श्रुत्वा सखी वक्ति- हे सुन्दरि । एवं च नायिकासक्तिस्त्वय्युचितैवेति ध्वन्यते ।
हृतं स्वाधीनीकृतं कान्तव्य चित्तं यया तस्यास्तव हृदयद्वयमुचितम् । एवं च नायक-
चित्तस्य त्वयि निमग्नत्वेन तवैतादृशमौदासीन्यं तच्च तस्यान्यत्रानुरागित्वेऽवश्यं त्वया
द्रुततरं तत्रागन्तव्यमिति व्यज्यते । अत्र सर्वत्र चित्तार्थकयत्किञ्चिदेकपदस्यैवादानमु-
चितमित्याभाति ॥
कश्चिद्धलिकवधूसङ्गं स्तौति--</p>
<lg>
  <l>एरण्डपत्त्रशयना जनयन्ती स्वेदमलघुजघनतटा ।</l>
  <l>धूलिपुटीव मिलन्ती स्मरज्वरं हरति हलिकवधूः ॥ १४९ ॥</l>
</lg>
<p>एरण्डेति । एरण्डपत्त्राणां शयनं यस्याः । स्वेदम् । अर्थान्नायकस्य । सुरतातिशयेने-
त्यर्थः । जनयन्ती । महज्जनघनतटा, मिलन्ती, हलिकस्य वधूर्धूल्याः पुटीव स्मरसं-
बन्धिज्वरं हरति । एरण्डपत्त्रान्तरिता, स्वेदमुत्पादयन्ती, स्थूलपुरोभागा, अङ्गसङ्गशा-
लिनी, धूलिपोटली मदनज्वरशान्तिजनिकेति वैद्यकप्रसिद्धिः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेतैकारव्रज्या ।
--------------------------
ककारव्रज्या ।
इयं प्रतिवेश्यासक्तेति कश्चिद्वक्ति--</p>
<lg>
  <l>केलिनिलयं सखीमिव नयति नवोढां स्वयं न मां भजते ।</l>
  <l>इत्थं गृहिणीमर्ये स्तुवति प्रतिवेशिना हसितम् ॥ १५० ॥</l>
</lg>
<p>केलीति । केलिसदनं नवोढाम् । एवं चेयमवश्यमनेन भोक्तव्येति ज्ञानवत्त्वं ध्व-
न्यते । सखीमिव । एवं च द्वेषशून्यत्वं व्यज्यते । प्रापयति स्वयं मां न भजते । इत्थं
च गृहिणीमर्ये वैश्ये । 'अर्यः स्वामिवैश्ययोः' इत्यमरः । स्तुवति सति प्रतिवेशिना
हसितम् । इयं च मदासक्त्या सपत्नीमेतस्मिन् संयोज्यात्रायातीति नानेन मूर्खेण ज्ञायत
इति धियेति भावः ॥
किंचित्कालोत्तरमियं प्राप्तयौवनास्माकमुपयुक्ता भविष्यतीत्याशंसाकारिणं कश्चिद
न्योक्त्या वक्ति--</p>
<lg>
  <l>कालक्रमकमनीयक्रोडेयं केतकीति काशंसा ।</l>
  <l>वृद्धिर्यथा यथास्यास्तथा तथा कण्टकोत्कर्षः ॥ १११ ॥</l>
</lg>
<pb n="77" />
<p>कालेति । कालक्रमेण कमनीयः क्रोडः समीपदेशः । पक्षे भुजाभ्यन्तरम् । इयं
केतकीति काशंसा । न कापीत्यर्थः । अत्रोपष्टम्भकमाह--यथा यथास्या वृद्धिस्तथा
तथा कण्टकोत्कर्षो भविता । एवं चैतस्या यौवनेऽनेकदुष्टप्रचारो भवितेति व्यज्यते ।
तेन च न तवोपयोग इति । कण्टकोत्कर्षभवनरूपक्रियान्वयस्यैकदा तत्पदार्थे भवितुम-
र्हत्वात् 'संचारिणी--' इत्यादिपद्यवदत्र तच्छब्दे वीप्सा समुचितेत्याभाति ॥
बहुतरसमाधानसमाहितामपि समाधानमप्राप्तां मानिनीमवलोक्य निर्विण्णहृदयतया
सुप्तं नायकम् 'सुप्तोऽयम् । अतः परं किं विधेयम्' इति विह्वला नायिका वक्ति–-</p>
<lg>
  <l>कृतकस्वाप मदीयश्वासध्वनिदत्तकर्ण किं तीव्रैः ।</l>
  <l>विध्यसि मां निःश्वासैः स्मरः शरैः शब्दवेधीव ॥ १५२ ॥</l>
</lg>
<p>कृतकेति । कृत्रिमस्खाप । एवं च 'न शयानं बोधयेत्' इति निषेधोल्लङ्घनदोषानर्हत्वं
ध्वन्यते । मदीयश्वासध्वनिषु दत्तः कर्णो येन । एवं च त्वदीयावगणनाकारिण्या मम
सम्यगिदं संतापजश्वासजातं जातमिति भावः । मां तीव्रैर्दीर्घैः । एवं च स्वापे कृतकत्व-
मावेद्यते । पक्षे तीक्ष्णैः । निःश्वासैः शब्दवेधी स्मर इव शरैः किं किमिति विध्यसि ।
एवं च मद्विहितावगणनासंजातसंतापजत्वदीयश्वासैः कथमयमवगणित इति मम दुःखमु-
त्पद्यते । श्वासेषु स्मरशरसमताप्रतिपादनेन समुत्पन्नमन्मथतीव्रवेदना विगलिताभिमानाहं
संवृत्तास्मीति च व्यज्यते । यद्वा सपत्नीसविधे गन्तुकामं नायकं विज्ञाय नायिका
वक्ति--मिथ्यासुप्त । मदीयश्वासध्वनिदत्तकर्ण । यदैवेयं स्वापं करिष्यति तदैव मया तत्र
गन्तव्यमिति धियेति भावः । निःश्वासैरित्यनेन मदीयनिद्रां विज्ञाय न मया सुप्तव्यमिति
धीमत्त्वं ध्वन्यते । किमिति विध्यसि । एवं च छलेन किमर्थं गन्तुमुद्यतोऽसि, एवमेव
गच्छ, न मया निवार्यस इति स्वदुःखं व्यञ्जयति । निःश्वासेषु स्मरशरसमताप्रतिपादनेन
बहिः क्षतजनकत्वाभावेऽत्यन्तःक्षतविशेषजनकत्वमित्यावेद्यते । अथवा सपत्नीमुपभुज्या-
गतं मिथ्यासुप्तं नायकं नायिका वक्ति--हे मिथ्यास्वाप । मदीयश्वासध्वनिदत्तकर्ण ।
किमियं जागर्ति न वेति ज्ञातुमिति भावः । निःश्वासैः । संभोगजन्यैरिति भावः । मां
किमिति विध्यसि । दुःखं ददासीत्यर्थः । श्वासेषु स्मरशरसमताप्रतिपादनेन केवलस्वसा-
क्षिकवेदनाजनकत्वं ध्वन्यते ॥
कश्चित् षिङ्गविशेषसंचारनिरुद्धान्यसंचारां तद्गमनोत्तरं सामान्यवनितामन्योक्त्या वक्ति--</p>
<lg>
  <l>क्व स निर्मोकदुकूलः क्वालंकरणाय फणिमणिश्रेणी ।</l>
  <l>कालियभुजंगगमनाद्यमुने विश्वस्य गम्यासि ॥ १५३ ॥</l>
</lg>
<p>क्वेति । स प्रसिद्धो निर्मोक एव सर्पकञ्चुक एव दुकूलः क्व । अलंकरणाय फणिमणि-
श्रेणी क्व । कालियनामा यो भुजंगः सर्पः । पक्षे तत्तुल्यो विटः । तद्गमनाद्विश्वस्य यमुने
नदि । पक्षे यमुनेति नाम । गम्यासि । एवं च तथाविधदुष्टविटसंपर्कसंजातान्योपभुक्त-
वसनादि सर्वं विहाय तदभावात् सकलजनसंसर्गादधुनान्यादृशमेव सर्वं संवृत्तमिति व्यज्यते ।</p>
<pb n="78" />
<p>यद्वा केनचिन्महत्तरविटेन पूर्वं पालितां तदपगमोत्तरं सर्वसुलभां सामान्यवनितामन्यो-
क्त्या तत्प्रशंसनपुरःसरं वक्ति । एवं च तद्विटगमनोत्तरं तथाविधोज्ज्वलदुकूलबहुमू-
ल्यमणिमयभूषणाद्यभावेऽपि सकलजनोल्लङ्घनीयत्वं तव वृत्तमिति व्यज्यते ॥
कश्चिन्नायिकाप्रसादनवृत्तान्तं वयस्यं प्रति वक्ति--</p>
<lg>
  <l>किंचिन्न बालयोक्तं न सप्रसादा निवेशिता दृष्टिः ।</l>
  <l>मयि पदपतिते केवलमकारि शुकपञ्जरो विमुखः ॥ १५४ ॥</l>
</lg>
<p>किंचिदिति । मयि पदपतिते कृतप्रणामे । मानापनोदनार्थमिति भावः । बालया
किंचिन्नोक्तम् । सम्यगसम्यग्वेति भावः । न केवलं वचनाभावमात्रम्, अपि तु प्रसादस-
हिता दृष्टिर्न निवेशिता । किं तु केवलं शुकपञ्जरोऽन्यदिङ्मुखोऽकारि । एवं च शुकपञ्ज-
रवैमुख्यसंपादनरूपरहःसंपादनेन रत्यनुमतिरेव दत्तेति व्यज्यते ॥
साधारणवनिताचेष्टां कश्चिद्वक्ति--</p>
<lg>
  <l>कृतहसितहस्ततालं मन्मथतरलैर्विलोकितां युवभिः ।</l>
  <l>क्षिप्तः क्षिप्तो निपतन्नङ्गे नर्तयति भृङ्गस्ताम् ॥ १५५ ॥</l>
</lg>
<p>कृतेति। कृतो हसितेन हस्ततालो यत्र । परस्परमिति भावः । मन्मथचञ्चलैः । एवं
च लजाविरहो व्यज्यते । युवभिर्विलोकितां नायिकां क्षिप्तः क्षिप्तः । वारं वारं दूरीकृत
इति भावः । अङ्गेषु शरीरावयवेषु निपतन् भृङ्ग इव भृङ्गः । एवं च रसलम्पटत्वं व्य-
ज्यते । नर्तयति । भृङ्गोऽपि चपलकिसलयचाञ्चल्यदूरीकृतोऽपि पुनस्तामेव लतामाल-
म्बत इति भृङ्गपदेन नायिकायां लतात्वारोपणेनावयवेषु पल्लवत्वारोपणेन कोमलत्वमावे-
द्यते । एवं चेयं विटेन वारं वारं तत्करनिवारणमवगणय्य लोकदृष्टिं लज्जां च कुचादौ
स्पृश्यत इति कौतुकं त्वं पश्येति व्यज्यते । अन्ये तु यथाश्रुतमेवाहुः ॥
निरोधदुःखितां नायिकां काचिच्छिक्षयति--</p>
<lg>
  <l>कमलमुखि सर्वतोमुखनिवारणं विदधदेव भूषयति ।</l>
  <l>रोधोऽरुद्धस्वरसास्तरङ्गिणीस्तरलनयनाश्च ॥ १५६ ॥</l>
</lg>
<p>कमलेति । हे कमलमुखि, सर्वतोमुखस्य जलस्य निवारणं बन्धनेन प्रवाहविच्छेदनं
सर्वस्मान्मुखस्याप्रदर्शनं च । लज्जयेति भावः । विदधदेव तीरं रोधनं च । अरुद्धः
स्वस्य रसो जलम्, इच्छा च याभिस्ता नदीः, नायिकाश्च भूषयति । एवं चावश्यस्पृह-
णीयत्वं रोधने द्योत्यते । तरङ्गिणीतरलनयनपदाभ्यां चाञ्चल्यमभिव्यज्यते । एवं चावश्यं
निरोधवत्त्वेन भवितव्यमिति ध्वन्यते ॥
किमर्थं न सा समायातीति वादिनं नायकं दूती वक्ति--</p>
<lg>
  <l>कितव प्रपञ्चिता सा भवता मन्दाक्षमन्दसंचारा ।</l>
  <l>बहुदायैरपि संप्रति पाशकसारीव नायाति ॥ १५७ ॥</l>
</lg>
<pb n="79" />
<p>कितवेति । हे कितव । एवं चागमनभीतिरावेद्यते । भवता प्रपञ्चिता प्राकट्यं नीता
चालिता च । मन्दाक्षेण लज्जया । पक्षे मन्दपाशकैः । स्वल्पसंख्यावद्भिरित्यर्थः । मन्दः
स्वल्पः संचारो गृहागृहान्तरगमनं यस्याः । बहुद्रव्यैरपि । पक्षे बहुदायैरित्यर्थः । वारं-
वारपातनैरिति यावत् । अपिनोपायान्तरशून्यत्वं ध्वन्यते । संप्रति । कालान्तरे को वेद
किं भविष्यतीति न जान इति व्यज्यते । पाशकसारीव पाशक्रीडनगुटिकेव नायाति ।
एवं च तवैवापराधो न तस्या इति द्योयते ॥
साधारणवनिताप्रतिवेशी कञ्चित् प्रति वक्ति--</p>
<lg>
  <l>कः श्लाघनीयजन्मा माघनिशीथेऽपि यस्य सौभाग्यम् ।</l>
  <l>प्रालेयानिलदीर्घः कथयति काञ्चीनिनादोऽयम् ॥ १५८ ॥</l>
</lg>
<p>क इति । यस्य माघार्धरात्रेऽपि सौभाग्यं प्रालेयानिलेन दीर्घः । प्रालेयानिलस्य श्रमा-
पनोदकतया सुरतातिशयसंपादनेन काञ्चीनिनाददैर्घ्यसंपादकत्वमिति भावः । काञ्चीनि-
नादः कथयति । अत एव श्लाघार्हं जन्म यस्य । धनिकत्वादिति भावः । अयं कः । एवं
चैतादृशशीतातिशयशालिसमयेऽपि नायिकेयमत्यन्तोल्लासेन विपरीतरतं विदधाति तस्मा-
दयमर्थविशेषशालीति ज्ञातम्, परं तु का वास्याभिधेति न ज्ञायत इति भावः । यद्वा कः
श्लाघनीयजन्मेति प्रश्न उत्तरं वक्ति - प्रालेयानिलदीर्घः । एवं च संतापापनोदकत्वं ध्व-
न्यते । अयमित्यत्यन्तानुसंधीयमानत्वेन प्रत्यक्षवन्निर्देशः । काञ्चीनिनादो माघनिशीथे-
ऽपि । अपिनेतरकालसमुच्चयः । एवं च माघरात्रेरतिदीर्घत्वं तत्राप्यतिचिरकालीनं रत-
मितोऽन्यकाले किमु वाच्यमिति व्यज्यते । यस्य सौभाग्यं कथयति । एवं च यस्यैवा-
तिसुप्रेमसुरतनिपुणतरुणीसंततसङ्गवत्ता स एव श्लाघनीयजन्मेति भाव इत्यर्थः ॥</p>
<lg>
  <l>किमशकनीयं प्रेम्णः फणिनः कथयापि या बिभेति स्म ।</l>
  <l>सा गिरिशभुजभुजंगमफणोपधानाद्य निद्राति ॥ १५९ ॥</l>
</lg>
<p>किमिति । प्रेम्णः किमपि नाशक्यं यतो या सर्पवार्तयापि बिभेति स्म सा हरभुज-
सर्पफणारूपमुपधानं यस्या एतादृशी । अद्य । विवाहोत्तरदिन इत्यर्थः । निद्राति । एवं
च प्रेम्णा किं किं न संभवतीति व्यज्यते । पार्वतीसखीवाक्यमेतत् । यद्वा प्रेमवत्त्वेऽपि
तत्रागमने मम भीतिरुत्पद्यत इति वादिनीं नायिकां नायकदूती दृष्टान्तेन वक्ति--अद्य ।
अधुनेत्यर्थः । एवं च यदि ते प्रेम तर्हि ते नास्त्येव भीतिः, अन्यथा न प्रेम इत्युभयतो-
ऽपि काठिन्यम्, अतः प्रयाहीति ध्वन्यते । यद्वा तद्रसास्वादोत्तरं न ते स्थास्यति भीति-
रिति ध्वन्यते ॥
सामान्यवनितासंगतिरनुचितेति कश्चित् कञ्चिच्छिक्षयति--</p>
<lg>
  <l>कृत्रिमकनकेनेव प्रेम्णा मुषितस्य वारवनिताभिः ।</l>
  <l>लघुरिव वित्तविनाशक्लेशो जनहास्यता महती ॥ १६० ॥</l>
</lg>
<p>कृत्रिमेति । कृत्रिमं धातुवादादिभिर्मिथ्या विधीयमानं यत्कनकं तेनेव प्रेम्णा वारव-</p>
<pb n="80" />
<p>निताभिर्मुषितस्य वित्तविनाशक्लेशो लघुः । परं तु जनहास्यता महती । एवं च सामा-
न्यवनितासंगमो न विधेय इति व्यज्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>किं पर्वदिवसमार्जितदन्तोष्ठि निजं वपुर्न मण्डयसि ।</l>
  <l>स त्वां त्यजति न पर्वस्वपि मधुरामिक्षुयष्टिमिव ॥ १६१ ॥</l>
</lg>
<p>किमिति । पर्वदिवसे मार्जितौ दन्तोष्ठौ यया तत्संबुद्धिः । ब्रह्मचर्यस्थितिधियेति
भावः । निजं वपुः किमिति न मण्डयसि । स त्वां मधुराम् । एवं च निषेधवचनका-
रिणी न त्वमिति व्यज्यते । इक्षुयष्टिमिव पर्वस्वपि पर्वकालेऽपि । पक्षे ग्रन्थिष्वपि ।
'ग्रन्थिर्ना पर्वपरुषी' इत्यमरः । न त्यजति । एवं च मिथ्यैतत्त्वं दर्शयसि, तेन तु त्वं
यथेच्छमुपभोग्येति ध्वन्यते ॥
केनचिन्नायकेन सह संयोजयितुं नायिकां दूती वक्ति--</p>
<lg>
  <l>कष्टं साहसकारिणि तव नयनार्धेन सोऽध्वनि स्पृष्टः ।</l>
  <l>उपवीतादपि विदितो न द्विजदेहस्तपस्वी ते ॥ १६२ ॥</l>
</lg>
<p>कष्टमिति । हे साहसकारिणि । अनुचितकारिणीत्यर्थः । एवं च मया तवोचितमे-
वोपदिश्यत इति व्यज्यते । तव । एवं च साक्षादनपराधत्वेऽपि स्वीयत्वेन तदपराधस्य
त्वय्येवागमनमिति व्यज्यते । तेन च तत्परिहारकर्तव्यता तवैवेति । नयनार्धेन स नायको-
ऽध्वनि स्पृष्टः । वत्कटाक्षविषयीभूत इत्यर्थः । इदं कष्टम् । महदनुचितमित्यर्थः । एवं
च त्वत्कटाक्षविशिखहतस्य तस्य त्वद्दर्शनं विना प्राणवियोग एव भवितेति व्यज्यते ।
किमेतावता इत्यत आह--तपस्वी । एवं च करुणार्हत्वं व्यज्यते । ब्राह्मणदेह उपवीता-
दपि । एवं च प्रत्यक्षपरिदृश्यमानत्वेन न स ब्राह्मण इति वक्तुमशक्यमिति भावः । तेन
च विदितः । एवं चान्यजातीयस्य यथातथास्ताम्, अयं तु ब्राह्मणोऽवश्यं त्वया गत्वा
जीवनीय इति द्योत्यते ॥
श्रमातिशयप्राप्तयानया ते किं सुखमिति वादिनं कश्चिद्वक्ति--</p>
<lg>
  <l>क्लेशेऽपि तन्यमाने मिलितेयं मां प्रमोदयत्येव ।</l>
  <l>रौद्रेऽनभ्रेऽपि नभःसुरापगावारिवृष्टिरिव ॥ १६३ ॥</l>
</lg>
<p>क्लेशेऽपीति । क्लेशेऽपि विस्तार्यमाणे मिलितेयं मां प्रमोदयत्येव । एवं चान्यस्यैता-
दृशी मोदयति न वेति को वेदेति भावः । अभ्राभावेऽपि घर्मे नभसः सुरापगाया वारिवृ-
ष्टिरिव । एवं चाभ्राभावे घर्मे खिन्नस्य यथा वृष्टिरत्यन्तसुखदा तथैतस्याः संगतिरिति
व्यज्यते । मेघाभावेऽप्यातपे ये जलबिन्दवः पतन्ति ते सुरापगाया इति लोकप्रथा ॥
गुणाभिज्ञभीरुकुलजनायिकानामेवान्यानवलोकनीयतासंपादकपटावगुण्ठनमुचितम्,
न त्वन्यासामपीति कश्चिद्वक्ति--</p>
<lg>
  <l>कूपप्रभवाणां परमुचितमपां पट्टबन्धनं मन्ये ।</l>
  <l>याः शक्यन्ते लब्धुं न पार्थिवेनापि विगुणेन ॥ १६४ ॥</l>
</lg>
<pb n="81" />
<p>कूपेति । या विगुणेन रज्जुशून्येन । पक्षे गुणरहितेन । पार्थिवेनापि पृथिवीविकार-
कलशादिनापि । पक्षे राज्ञापि । एवं च धनादिलोभशून्यत्वं नायिकासु व्यज्यते । प्राप्तुं
न शक्यन्ते तासां कूपप्रभवाणाम् । एवं च गम्भीरत्वं तेन च दुष्प्रापत्वं ध्वन्यते । अपां
जलानाम्, पट्टस्य सारिण्या बन्धनम् । पक्षे सर्वाङ्गीणाच्छादकवस्त्ररचनं परमुचितं
मन्ये । यद्वात्यन्तलज्जावत्तयाच्छादनादिकारिणीं कश्चिद्वक्ति--एवं चेतस्ततो द्रव्यादि-
लोभेन गमनादिशालिन्याः किं तव गोपनमिति व्यज्यते ॥
खण्डिता नायिका नायकं वक्ति--</p>
<lg>
  <l>कररुहशिखानिखात भ्रान्त्वा विश्रान्त रजनिदुरवाप ।</l>
  <l>रविरिव यन्त्रोल्लिखितः कृशोऽपि लोकस्य हरसि दृशम् ॥ १६५ ॥</l>
</lg>
<p>करेति । नखाग्रनिखात बहुतरनखक्षतशालिन्, भ्रान्त्वा । इतस्ततो गत्वेत्यर्थः ।
पक्षे मेरुं प्रदक्षिणीकृत्य । विश्रान्त । क्षणमात्रमिति भावः । रजन्यां दुरवाप । अन्यत्रा-
सक्तत्वादिति भावः । पक्षे मेरोरुत्तरगमनात् । यन्त्रोल्लिखितो रविरिव कृशोऽपि ।
अपिना निस्तेजस्कत्वसमुच्चयः । लोकस्य । न ममेति भावः । लोकपदमनभिज्ञत्वं
ध्वनयति । दृशं हरसि । एवं चैतादृशस्वरूपस्त्वमन्याभ्य एव रोचसे न मह्यमिति
व्यज्यते । सूर्योऽपि तेजोबाहुल्येन वीक्षितुमशक्यस्त्वष्ट्रा यन्त्रोल्लिखितोऽल्पतेजस्कतया
लोकदृग्विषय इति भावः ॥
किमिति स्वस्वामिनं न सुखयसीति वादिनीं काञ्चित् काचिद्वक्ति--</p>
<lg>
  <l>किं करवाणि दिवानिशमपि लग्ना सहजशीतलप्रकृतिः ।</l>
  <l>हन्त सुखयामि न प्रियमात्मानमिवात्मनश्छाया ॥ १६६ ॥</l>
</lg>
<p>किमिति । सह बाल्यतः । पक्ष उत्पत्तित इत्यर्थः । जाता, शीतला शान्ता । पक्षे
यथाश्रुतम् । प्रकृतिः स्वभावो यस्याः सा । एवं च सर्वदा मधुरवचनशालित्वं व्यज्यते ।
दिवानिशमपि लग्ना । सेवार्थमिति भावः । अहमात्मनः स्वस्य छायात्मानमिव प्रियं
हन्त खेदे न सुखयामि । किं करवाणि । एवं च यथा सर्वदा निकटवर्तिनी शीतलापि
स्वच्छाया न सुखजनिका तथाहं संवृत्तेत्यत्र न मद्दोषः, अपि तु ईश्वरेच्छैवात्र नियामि-
केति व्यज्यते । यद्वा सततसेवाकारित्वसौम्यत्वस्वीयत्वादिदोषवत्त्वादहं न सुखजनि-
केति द्योत्यते । तेन चैतदभाववत्येवैतत्तोषजनिकेति ॥
नायकसंगमे श्रमो भवतीति वादिनीं सखी वक्ति--</p>
<lg>
  <l>केशैः शिरसो गरिमा मरणं पीयूषकुण्डपातेन ।</l>
  <l>दयितवहनेन वक्षसि यदि भारस्तदिदमचिकित्स्यम् ॥ १६७ ॥</l>
</lg>
<p>केशैरिति । स्फुटार्थमेतत् ॥</p>
<pb n="82" />
<p>नायको मानिनीं वक्ति--</p>
<lg>
  <l>किंचित्कर्कशतामनु रसं प्रदास्यन्निसर्गमधुरं मे ।</l>
  <l>इक्षोरिव ते सुन्दरि मानस्य ग्रन्थिरपि काम्यः ॥ १६८ ॥</l>
</lg>
<p>किंचिदिति । हे सुन्दरि, किंचित्कार्कश्योत्तरम् । एवं चातिकार्कश्याभावो व्यज्यते ।
स्वभावमृष्टं रसं रतिम् । पक्षे द्रवम् । प्रदास्यन् । ते मानस्य, इक्षोरिव ग्रन्थिरपि । दु-
रपनेयाग्रह इति यावत् । किमु वाच्यं मृद्वभिमान इत्यपिना द्योयते । काम्यः । एवं च
मानग्रन्थावपि सुखम्, किमुत तदपगम इति व्यज्यते । तेन चैतादृशावगणनमनुचितमिति
द्योयते । 'मधुरः' इति पाठे ग्रन्थिविशेषणम् ॥
कश्चिदतिरतिप्रवीणो वक्ति--</p>
<lg>
  <l>केन गिरिशस्य दत्ता बुद्धिर्भुजगं जटावनेऽर्पयितुम् ।</l>
  <l>येन रतिरभसकान्ताकरचिकुराकर्षणं मुषितम् ॥ १६९ ॥</l>
</lg>
<p>केनेति । गिरौ शेते तस्य । एवं च नागरिकव्यवहारशून्यत्वं व्यज्यते । तेन यस्य-
कस्यचिद्वचनविश्वासकारित्वम् । भुजगं जटावने । एवं च स्वतो भीषणत्वेऽपि भुजगा-
र्पणेनातिभीषणत्वं ध्वन्यते । अर्पयितुम् । अर्पितपदेन संस्थापनाभावप्रतिपादनेनेतस्ततो
जटासंचारित्वं भुजगे व्यज्यते । तेन चैकदेशस्यापि करस्पर्शायोग्यत्वम् । केन बुद्धिर्दत्ता ।
यद्वा जटानामवनं रक्षणं तत्र । तन्निमित्तमित्यर्थः । एवं च संरक्षणेऽन्ये बहवोऽभ्यु-
पायाः सन्ति, एवं सत्येतादृशायुक्तविचारकथनमप्रामाणिककृत्यमिति व्यज्यते । यद्वा गि-
रिशपदेन भुजगसंस्थापनार्हकं दरादिज्ञानवत्त्वं द्योयते । जटाभिरवने । अवननिमित्तमि-
त्यर्थः । अर्थाद्भुजगस्य । एवं च भुजगे भूषणत्वं ध्वन्यते । एवं च वनपदस्य विपिनार्थ-
कत्वे सर्पस्यावनयोग्यत्वे न तत्करणेनानौचित्यमायातीति दूषणमपास्तम् । येन यया
बुद्ध्या रतिवेगेन यत्कान्तया करेण चिकुराकर्षणं मुषितम् । भुजगभयादिति भावः । एवं
च रतिकालीननायिकाविधीयमानकेशाकर्षणमत्यन्तसुखदमिति व्यज्यते । 'चिकुराकर्ष-
रसमुषितः' इति पाठे येन रसमुषितो हरो जात इत्यर्थः ॥
को वा नायिकाप्रणयशालीति वादिनं कश्चिद्वक्ति--</p>
<lg>
  <l>करचरणकाञ्चिहार प्रहारमविचिन्त्य बलगृहीतकचः ।</l>
  <l>प्रणयी चुम्बति दयितावदनं स्फुरदधरमरुणाक्षम् ॥ १७० ॥</l>
</lg>
<p>करेति । करादि प्रहारमविचिन्त्य । नायिकाकृतमित्यर्थः । बलेन । एवं च पीडा
भविष्यतीति ज्ञानविधुरत्वं तेन चात्यन्तरतिनिर्भरत्वं व्यज्यते । गृहीतकचः स्फुरदध-
रम् । निष्ठुरं वक्तुमिति भावः । अरुणाक्षम् । कोपोद्रेकादिति भावः । दयितावदनं
यश्चुम्बति । एवं च भीतिशून्यत्वं व्यज्यते । स प्रणयी नायिकानिरूपितप्रेमवान् ।
अन्यथा कोपाद्यवगणय्य बलाच्चुम्बनकरणमसंभावीति भावः । 'नायिकाविषयकप्रेम-
वान् । एवं च प्रहारदुःखमवगणय्य यस्तथा करोति स एव तथेति भावः' इति ऋजवः ।</p>
<pb n="83" />
<p>वस्तुतस्तु रागोद्रेकशालीत्यर्थः । यद्वैतादृशो यस्तथाविधं नायिकावदनं चुम्बति स
एव धन्य इत्यर्थः । यद्वा मया कोपः प्रदर्शनीयः, त्वया तु प्रियो मयि बलात्काराय प्रे-
रणीय इति शिक्षिता सखी नायकं वक्ति । एवं च कोपवत्यामपि नायिकायां प्रीतिशा-
लिना नायकेन तत्कृतकरतर्जनाद्यवगणय्य बलात्कारः क्रियत एव, अतस्त्वया भीति-
मुत्सृज्य स्वेच्छाचारो विधेय इति ध्वन्यत इत्यर्थः ॥
नायकचाञ्चल्यखिन्नां नायिकां सखी समाधत्ते--</p>
<lg>
  <l>कुरुतां चापलमधुना कलयतु सुरसासि यादृशी तदपि ।</l>
  <l>सुन्दरि हरीतकीमनु परिपीता वारिधारेव ॥ १७१ ॥</l>
</lg>
<p>कुरुतामिति । हे सुन्दरि, अधुना नायकश्चापलमितस्ततो विलोकनादि कुरुताम् । न
निवारणीय इति भावः । यतो यत्प्रकारिका त्वं सुरसासि तदपि जानातु । केव । हरी-
तकीमनु परिपीता जलधारेव । एवं च यथा तिक्तकटुकादिरसशालिहरीतकीस्वादो-
त्तरं जलधारा मृष्टतमा भवति, तथा त्वमन्यगुणहीन नायिकारसास्वादोत्तरमत्यन्तसु-
खदा भविष्यसीति व्यज्यते । अत एवासम्यग्वस्तुदर्शनोत्तरं सम्यग्वस्तुदर्शनेन सुखम्,
न तेन विना तथेति लोकप्रसिद्धिः ॥
शृङ्गाररचनार्थं कृताभ्यङ्गां साधारणवनितां सखी वक्ति--</p>
<lg>
  <l>कज्जलतिलककलङ्कितमुखचन्द्रे गलितसलिलकणकेशि ।</l>
  <l>नवविरहदहनतूलो जीवयितव्यस्त्वया कतमः ॥ १७२ ॥</l>
</lg>
<p>कज्जलेति । हे कज्जलतिलकेन । दृग्दोषनिवारणार्थं कृतेनेति भावः । कलङ्कितो
मुखचन्द्रो यस्यास्तत्संबुद्धिः । गलितसलिलकणाः केशा यस्यास्तत्संबुद्धिः । नूतनो यो
विरहवह्निस्तस्य तूलरूपस्त्वया कतमो जीवयितव्यः । 'दूनः' इत्यपि पाठः । एवं चै-
तादृशत्वदीयदर्शनेन सर्वेऽपि तात्कालिकविरहवह्निवृतदह्यमाना भविष्यन्ति, तेषु क-
स्त्वयानुग्राह्य इति सुभगत्वं ध्वन्यते ॥
स्वस्य दारिद्र्येऽपि महान्तो न दानं परित्यजन्तीति कश्चिद्वति–</p>
<lg>
  <l>कृच्छ्रानुवृत्तयोऽपि हि परोपकारं त्यजन्ति न महान्तः ।</l>
  <l>तृणमात्रजीवना अपि करिणो दानद्रवार्द्रकराः ॥ १७३ ॥</l>
</lg>
<p>कृच्छ्रेति । कृच्छ्रानुवृत्तयोऽपि कष्टजीवना अपि महान्तः । एवं च नीचानामन्या-
दृशी गतिरिति भावः । परोपकारम् । दानरूपमित्यर्थः । न त्यजन्ति । तृणमात्रेण जी-
वनं येषां तेऽपि करिणो गजाः, दानं मदः, दानोदकं च तेनार्द्रः करः शुण्डादण्डश्च येषाम् ॥
काञ्चन गोपिकामालिङ्ग्य तिष्ठन्तं कृष्णमवलोक्य विस्मयेन समागतान् बालकान् गो-
पीसखी वक्ति--</p>
<lg>
  <l>किं हसथ किं प्रधावथ किं जनमाह्वयथ बालका विफलम् ।</l>
  <l>तदयं दर्शयति यथा रिष्टः कण्ठेऽमुना जगृहे ॥ १७४ ॥</l>
</lg>
<pb n="84" />
<p>किमिति । रिष्टो दैत्यः । एवं च भूतार्थाभिनयोऽयं न त्वन्यदपूर्वं किञ्चिदिति व्यज्यते ॥</p>
<lg>
  <l>कातरताकेकरितस्मरलज्जारोषमसृणमधुराक्षी ।</l>
  <l>मोक्तुं न मोक्तुमथवा वलतेऽसावर्थलव्धरतिः ॥ १७५ ॥</l>
</lg>
<p>कातरतेति । कातरता भीतिस्तया केकरिते वक्रीकृते स्मरलज्जारोषैर्मसृणमधुरे
स्निग्धसुन्दरे अक्षिणी यस्याः । मोक्तुमथवा न मोक्तुम् । नायकमिति भावः । अर्धं
लब्धा रती रतं ययासौ वलत उद्युक्ता भवति । जातिवर्णनमेतत् ॥
केचिद्दूरादागताः, परं तु नात्र तेषां तत्फलमिति कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>केतकगर्भे गन्धादरेण दूरादमी द्रुतमुपेताः ।</l>
  <l>मदनस्यन्दनवाजिन इव मधुपा धूलिमाददते ॥ १७६ ॥</l>
</lg>
<p>केतकेति । केतकपुष्पस्य मध्ये गन्धस्यादरेण लोभेन द्रुतं दूरात् । एवं च श्रमा-
तिशयो व्यज्यते । उपेताः । गन्धस्यादरो यस्य तेन । वायुनेत्यर्थः । द्रुतं दूरादुपेता
मदनरथाश्वा इव । एवं च भारवहनसमर्थत्वं व्यज्यते । तेन चोपमेयेऽतिश्रेष्ठत्वम् । म-
धुपाः। एवं च तदेकजीवनोपायशालित्वं ध्वन्यते । धूलिमाददते । एवं चैतादृशानां की-
र्तिश्रवणादागतानामत्रैतादृशी गतिरित्यनुचितमिति व्यज्यते । पक्षे रथोद्धतरजःसंब-
न्धाद्धूलिमत्तेति भावः । यद्वा सामान्यवनितां सखी वक्ति--हे केतकगर्भे । अतिगौरा-
ङ्गीत्यर्थः । कीर्त्यादरेण दूराच्छीघ्रमागताः । एवं चात्रत्यानां कालान्तरेऽपि समाधातुं श-
क्यत्वमावेद्यते । मदनरथाश्वा इव । एवं च मदनोऽपि सौन्दर्याद्यनेकगुणवतामेतेषामेव
बलेन जगज्जयं करोतीति व्यज्यते । तेन चैतादृशदुर्लभा इति । मधुपा मद्यपाः । एवं
चोन्मादवत्तया द्रव्यव्ययक्लेशशून्यत्वं ध्वन्यते । धूलिम् । अर्थात्त्वच्चरणसंबन्धिनीम् ।
आददते । एवं चैतेन नायका अवश्यमनुग्राह्या इति ध्वन्यते ॥
मूर्खनिबद्धान्तःकरणत्वान्नैताश्चातुर्यादिगुणभाजनमिति कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>को वक्रिमा गुणाः के का कान्तिः शिशिरकिरणलेखानाम् ।</l>
  <l>अन्तः प्रविश्य यासामाक्रान्तं पशुविशेषेण ॥ १७७ ॥</l>
</lg>
<p>क इति । वक्रिमा वक्रत्वं कः, गुणाः के, कान्तिः का, चन्द्रलेखानाम् । शिशिर-
किरणपदेन तदधिपमान्द्यमावेद्यते । प्रविश्य यासामन्तरभ्यन्तरं पशुविशेषेण । अति-
जडेनेति भावः । आक्रान्तम् । एवं चैतासां चातुर्यादि सर्वं मिथ्यैवेति व्यज्यते ॥
बलादियं कन्या मया परिणेयेति वादिनं कश्चिद्दृष्टान्तव्याजेन वारयति--</p>
<lg>
  <l>कृतविविधमथनयत्नः पराभवाय प्रभुः सुरासुरयोः ।</l>
  <l>इच्छति सौभाग्यमदात् स्वयंवरेण श्रियं विष्णुः ॥ १७८ ॥</l>
</lg>
<p>कृतेति । कृतो विविधमथने यत्नो येन सः । मथनमर्थात्समुद्रस्य । विविधपदेन
बुद्धिविशेषशालित्वं व्यज्यते । देवदानवयोः पराजयाय प्रभुः समर्थो विष्णुः सौभाग्यस्य</p>
<pb n="85" />
<p>मदादभिमानात् स्वयंवरेण श्रियम् । एवं चात्यन्तस्पृहणीयत्वं व्यज्यते । इच्छति । एवं
च शारीरबुद्धिबलसत्त्वेऽपि विष्णुना लक्ष्मीपाणिग्रहणाय न बलात्कारः कृतः । अतस्त्वया
नैतादृक्कर्म कर्तव्यमिति ध्वन्यते । यद्वा त्वयि सुभगत्वेऽवश्यं सा त्वामेव वरिष्यति, अन्यथा
बलाद्धृतेति न तत्प्रीतिरिति ध्वन्यते ॥
एतेषु वैदेशिकेषु स्थायिभ्रमेण विहिता त्वया संगतिः, तव सा न सुखदेति काचित् काञ्चित् प्रति वक्ति--</p>
<lg>
  <l>किं पुत्रि गण्डशैलभ्रमेण नवनीरदेषु निद्रासि ।</l>
  <l>अनुभव चपलाविलसितगर्जितदेशान्तरभ्रान्तीः ॥ १७९ ॥</l>
</lg>
<p>किमिति । हे पुत्रि । एवं चोपदेशार्हत्वं ध्वन्यते । गण्डशैलानां भ्रमेण । 'गण्डरौ-
लास्तु च्युताः स्थूलोपला गिरेः' इत्यमरः । नूतनमेघेषु । नीरदपदेनेदं देयमिदं देयमिति
संकल्पमात्रकारित्वं व्यज्यते । तेन च न ततोऽर्थप्राप्तिरपीति । निद्रासि । एवं चातिवि-
श्वस्तत्वं व्यज्यते । चपलायास्तडितो विलसितानि, गर्जितानि च, देशान्तरभ्रमणानि
चानुभव । एवं चैतत्संगत्या सपत्नीवैभवतर्जनदिगन्तगमनादिदुःखमवश्यं भावीति
व्यज्यते ॥
नायिकासखी नायकसखीं वक्ति--</p>
<lg>
  <l>कान्तः पदेन हत इति सरलामपराध्य किं प्रसादयथ ।</l>
  <l>सोऽप्येवमेव सुलभः पदप्रहारः प्रसादः किम् ॥ १८० ॥</l>
</lg>
<p>कान्त इति । कान्तश्चरणेन हत इति सरलाम् । एवं च भवच्छाठ्यानभिज्ञेयत्व-
मिति ध्वन्यते । अपराध्य । सापराधां विधायेत्यर्थः । किं प्रसादयथ । सोऽपि प्रहार-
रूपः प्रसादः, एवमेव किं सुलभः । एवं च मानिन्यानया क्रोधात् पादाहते नायके भवती-
भीरियमनुचितकार्यकारिणी त्वमिति त्रासयित्वा प्रसादना क्रियते । परं त्वेतत्पदप्रहारो-
ऽप्येतस्यातिदुर्लभ इति नायिकाधिक्यं द्योत्यते ॥
किमिति नायको नानीयते भवतीभिरिति दूतीषु वादिनीं नायिकां सखी द्वाभ्यां वक्ति--</p>
<lg>
  <l>कर्णगतेयममोघा दृष्टिस्तव शक्तिरिन्द्रदत्ता च ।</l>
  <l>सा नासादितविजया क्वचिदपि नापार्थपतितेयम् ॥ १८१ ॥</l>
</lg>
<p>कर्णगतेयमिति । या कर्णविशाला, कर्णहस्तगता च । सफला । पक्षेऽमोघेति
शक्तिनाम । इन्द्रेण परमेश्वरेण । पक्षे पुरंदरेण । दत्ता । आसादितो विशिष्टानां जयो
यया । न विद्यत आसादितविजयो यस्याः सकाशात् । एवं चेयमेव विशिष्टजयकर्त्री-
त्यर्थः । पक्षेऽप्राप्तार्जुना । यद्वासादितो विजयो यस्याः । एतज्जयकारिणी ना-
न्येति भावः । इयं तव दृष्टिः शक्तिश्च क्वचिदप्यपगतोऽर्थो यस्याः । षण्ढेत्यर्थः ।
पतिता नेति न इति काकुः । पक्षेऽर्जुनभिन्ने घटोत्कचे पतिता नेति न । एवं च
यस्त्वत्कटाक्षमात्रेण न वश्यः स पुरुष एव नेति द्योत्यते ॥</p>
<pb n="86" />
<lg>
  <l>क्लेशयसि किमिति दूतीर्यदशक्यं सुमुखि तव कटाक्षेण ।</l>
  <l>कामोऽपि तत्र सायकमकीर्तिशङ्की न संधत्ते ॥ १८२ ॥</l>
</lg>
<p>क्लेशयसीति । दूतीरिति बहुवचनेन न कापि तत्र युक्तिश्चलतीति व्यज्यते । अकी-
र्तिशङ्की । षण्ढत्वादिति भावः । एवं च कामबाणापेक्षया कटाक्षेऽतिशयो व्यज्यते ॥
कश्चिदधरं स्तौति –</p>
<lg>
  <l>को वेद मूल्यमक्षद्यूते प्रभुणा पणीकृतस्य विधोः ।</l>
  <l>प्रतिविजये यत्प्रतिपणमधरं धरनन्दिनी विदधे ॥ १८३ ॥</l>
</lg>
<p>को वेदेति । प्रभुणेश्वरेण । एवं चानर्घवस्तुसत्त्वं द्योयते । अक्षद्यूते पणीकृतस्य च-
न्द्रस्य मूल्यं को वेद । यस्माद्धरति महीमिति धरः । 'धरपर्वताः' इत्यमरः । तत्त-
नया । एवं च चातुर्यविशेषवत्त्वं ध्वन्यते । प्रतिविजये प्रतिपणमधरं विदधे । एवं चाध-
रसमताप्रदर्शनेन चन्द्रेऽधिकत्वं न वास्तवमित्यधरामृतेऽधिकत्वं ध्वन्यते ॥
'मुञ्च मामू, नो चेत्ताडयामि चरणेन' इति वादिनीं कुपितनायिकां नायको वक्ति--</p>
<lg>
  <l>कुपितां चरणप्रहरणभयेन मुञ्चामि न खलु चण्डि त्वाम् ।</l>
  <l>अलिरनिलचपलकिसलयताडनसहनो लतां भजते ॥ १८४ ॥</l>
</lg>
<p>कुपितामिति । हे निरर्थककोपने, चरणप्रहरणभयेण कुपितां त्वां न मुञ्चामि। यतो वायु-
चपलपल्लवताडनसहोऽलिर्लतां भजते । अलिरिति स्वस्मिन्नलितुल्यत्वप्रतिपादनेनानन्य-
गतिकत्वं द्योत्यते । कोपेऽनिलतुल्यत्वप्रतिपादनेन चञ्चलत्वमावेद्यते । चरणे किस-
लयतुल्यत्वप्रतिपादनेन कोमलत्वं तेन च दुःखाजनकत्वं ध्वन्यते । यद्वा मन्मथशस्त्ररू-
पत्वं तेन च तत्संबन्धेनोन्मत्ततया वेदनानभिज्ञत्वं स्वस्मिन् व्यज्यते ॥
कथमनेन विलम्बितमिति कुपितां नायकेन च स्वापराधक्षमापनाय विहितप्रसादां ना-
यिकां सखी वक्ति--</p>
<lg>
  <l>कोपाकृष्टभ्रूस्मरशरासने संवृणु प्रिये पततः ।</l>
  <l>छिन्नज्यामधुपानिव कज्जलमलिनाश्रुजलबिन्दून् ॥ १८५ ॥</l>
</lg>
<p>कोपेति । प्रिये नायकविषये कोपेनाकृष्टम् । एवं च ज्याभङ्गो युक्त इति व्यज्यते ।
भ्रूरूपं स्मरशरासनं यया तत्संबुद्धिः । छिन्ना या ज्या तन्मधुपानिव । स्मरधनुर्ज्या
भ्रमररूपेति प्रसिद्धिः । पततः कज्जलमलिनाश्रुजलबिन्दून् संवृणु । एवं च नायकप्रण-
त्युत्तरकालं कोपविधानमनुचितमिति व्यज्यते । यद्वा संवृण्वित्यनेन कोपप्रदर्शनाव्यवहितमेव
तत्परित्यागोऽनुचित इत्यावेद्यते । यद्वा छिन्नज्यात्वनिरूपणेन यद्यधुनापि कोपं करिष्यसि
तर्हि कुपितो नायकः केनापि समाहितुमशक्य इति भीतिरावेद्यते । अत्र जलपदमा-
धिक्यं द्योतयति ॥</p>
<pb n="87" />
<p>बालवनिताचित्तं स्वकरे कर्तुं कृतयत्नवैकल्यखिन्नः कश्चिद्वक्ति--</p>
<lg>
  <l>कामेनापि न भेत्तुं किमु हृदयमपारि बालवनितानाम् ।</l>
  <l>मूढ विशिखप्रहारोच्छूनमिवाभाति यद्वक्षः ॥ १८६ ॥</l>
</lg>
<p>कामेनेति । बालवनितानां हृदयं कामेनापि । एवं चान्यस्य का वार्तेति भावः । भे-
त्तुम् । किमु वितर्के । नापारि । मूढस्य यद्वा मूढो मन्दो यो बाणप्रहारस्तेनोच्छूनमिव
वक्ष आभाति । अन्यस्यापि धन्विनो मन्दशरप्रहारे लक्ष्यशरीर उच्छूनतामात्रमेव भ-
वति । एवं च मदीययत्नेनैतासां हृदयं न भिद्यत इति न चित्रमित्यावेद्यते ॥
कश्चिन्नायिकां वक्ति--</p>
<lg>
  <l>किं परजीवैर्दीव्यसि विस्मयमधुराक्षि गच्छ सखि दूरम् ।</l>
  <l>अहिमधिचत्वरमुरगग्राही खेलयतु निर्विघ्नः ॥ १८७ ॥</l>
</lg>
<p>किमिति । हे सखि, विस्मयेन । सर्पदर्शनकौतुकजन्येनेत्यर्थः । सुन्दराक्षि । विस्फा-
रितत्वादिति भावः । परस्यान्यस्य प्राणैः किमिति क्रीडसि । दूरं गच्छ । चत्वरमधिकृ-
त्याहितुण्डिको विघ्नहीनोऽहिं खेलयतु । एवं च निखिलजनेषु त्वद्वदनविलोकनासक्तेष्वा-
हितुण्डिकश्रमो निरर्थक एव भवितेति व्यज्यते । यद्वा चत्वरपदेन सर्वजन समाज-
योग्यत्वं ध्वन्यते । दूरं बहुकालं खेलयतु । परस्य संकेतितनायकस्य प्राणैः किमिति की-
डसि । अतो गच्छ । एवं चान्यस्य निर्विघ्नतासंपादने स्वस्यापि तद्भवतीति नियमेनात्र
सकलदुष्टासक्त्या निर्विघ्नतया संकेतितनायकसविधे गन्तव्यम् । विलम्बे तु मदनानल-
संतप्तस्य तस्य प्राणा एव गमिष्यन्तीति दूती नायिकां वक्ति ॥
कुपितनायिकाचरणप्रहारखिन्नं नायकं नायिकासखी समाधत्ते--</p>
<lg>
  <l>करचरणेन प्रहरति यथा यथाङ्गेषु कोपतरलाक्षी ।</l>
  <l>रोषयति परुषवचनैस्तथा तथा प्रेयसीं रसिकः ॥ १८८ ॥</l>
</lg>
<p>करेति । कोपचञ्चलाक्षी करौ च चरणौ च करचरणं तेनाङ्गेषु यथा यथा प्रहरति
तथा तथा क्रोधजनकवाक्यैः प्रेयसीं यः कोपयति स एव रसिकः । एवं च यदि त्वं
रसिकस्तर्ह्येतादृशेऽर्थे कोपविधानमनुचितं तवेति व्यज्यते । अत्र द्वितीयतच्छब्दः 'संचा-
रिणी दीपशिखा-' इत्यादिपद्यवदुचितः ॥
निन्दसि त्वं नायिकामिति वादिनीं नायिकासखीं नायको वक्ति--</p>
<lg>
  <l>कस्तां निन्दति लुम्पति कः स्मरफलकस्य वर्णकं मुग्धः ।</l>
  <l>को भवति रत्नकण्टकममृते कस्यारुचिरुदेति ॥ १८९ ॥</l>
</lg>
<p>कस्तामिति । तां को निन्दति न कोऽपि । मदनपटस्य चित्ररूपाम् । 'वर्णकः' इति
पाठे मदनपटचित्रमित्यर्थः । को मूर्खो लुम्पति । रत्नकण्टको रत्ननिन्दकः । 'कण्टका-
नीकसरकमोदकचषकमस्तकपुस्तकतडाकहाटकनिष्कशुष्कवर्चस्कपिनाकभाण्डककटकद-</p>
<pb n="88" />
<p>ण्डकपिटकतालकफलककल्कपुलाकानि नपुंसके च' इति पाणिनिलिङ्गानुशासनात् कण्ट-
कशब्दो नपुंसकः । को भवति । सुधायामरुचिः कस्योदेति । न कस्यापीत्यर्थः । एवं
चैतादृश्याः कथं मया निन्दा विधेयेति व्यज्यते ॥
संकेते गत्वा तत्र नायिकामप्राप्य गतं मया तत्रेति ज्ञापनाय चूताङ्कुरमादाय नायि-
कादृग्विषयं नायकं प्रति नायिकासखी वक्ति--</p>
<lg>
  <l>कोपवति पाणिलीलाचञ्चलचूताङ्कुरे त्वयि भ्रमति ।</l>
  <l>करकम्पितकरवाले स्मर इव सा मूर्छिता सुतनुः ॥ १९० ॥</l>
</lg>
<p>कोपवतीति । कोपवति । कथं न समागतेयमिति धियेति भावः । स्मरविशेषणमप्ये-
तत् । पापौ लीलया विलासेन । एवं च लोकान्यथाबुद्धिनिरासकत्वं ध्वन्यते । चञ्चल
आम्राङ्कुरो यस्मिन् । करे कम्पितः । मारणोद्यमादिति भावः । खड्गो येन तस्मिन् स्मर
इव वयि भ्रमति सति। ज्ञापनार्थमिति भावः । सा सुतनुः । एवं चोपेक्षानर्हत्वं ध्वन्यते।
मूर्छिता । एवं चैतस्या अतिदुःखं जातमिति व्यज्यते । तेन चायमपराधः क्षन्तव्य इति ॥
कुलवत्याः सुरते गोत्रस्खलनमनुचितं तवेति वादिनीं सखीं नायको वक्ति–</p>
<lg>
  <l>कौलीन्यादलमेनां भजामि न कुलं स्मरः प्रमाणयति ।</l>
  <l>तद्भावनेन भजतो मम गोत्रस्खलनमनिवार्यम् ॥ १९१ ॥</l>
</lg>
<p>कौलीन्यादिति । अलमत्यर्थं कौलीन्यात् कुलीनत्वात् । 'कौलीनात्' इति पाठे तु कौ-
लीनाल्लोकवादात् । 'स्यात् कौलीनं लोकवादे' इत्यमरः । एनां भजामि । एतस्याः परि-
त्यागेऽत्यन्तलोकनिन्दाभीतिरिति भावः । स्मरः कुलं न प्रमाणयति । एवं च सगुणत्व-
मपेक्षितमिति भावः । तस्या भावनया सेयमिति बुद्ध्या भजतः । एनामिति भावः । मम
नामस्खलनम् । 'गोत्रं नाम्नि कुलेऽपि च' इति विश्वः । निवारयितुमशक्यम् ॥
कस्याश्चिन्नायिकायाः पतिमवलोक्य भीतं कञ्चन नायकं दूती वक्ति--</p>
<lg>
  <l>कुत इह कुरङ्गशावक केदारे कलममञ्जरीं त्यजसि ।</l>
  <l>तृणबाणस्तृणधन्वा तृणघटितः कपटपुरुषोऽयम् ॥ १९२ ॥</l>
</lg>
<p>कुत इति । हे कुरङ्गशावक । शावकपदेनाज्ञत्वं व्यज्यते । तेन च भीतियोग्यत्वम् ।
इह केदारे शालिमञ्जरीं कुतस्त्यजसि । नन्वत्रास्ति रक्षक इत्यत्राह--तृणरूपो बाणो यस्य,
तृणरूपधनुष्मान्, तृणविहितो मिथ्यापुरुषः । एवं चाक्षमादस्माद्भीतिमपहाय यथेच्छं
त्वमत्रागच्छेति द्योयते । यद्वा नायं पुरुषः किं तु तद्वेषधारीति भयमपास्य त्वमत्रा-
गच्छेति ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता ककारव्रज्या ।
---------------------------</p>
<pb n="89" />
<p>खकारव्रज्या ।
सन्मैत्रीं स्तौति--</p>
<lg>
  <l>खलसख्यं प्राङ्मधुरं वयोऽन्तराले निदाघदिनमन्ते ।</l>
  <l>एकादिमध्यपरिणतिरमणीया साधुजनमैत्री ॥ १९३ ॥</l>
</lg>
<p>खलसख्यमिति । प्राक्प्रथमतः । अन्तराले मध्ये वयः । तारुण्यमित्यर्थः । अन्ते
सायं ग्रीष्मदिनम् । मधुरं मनोहारि । एका । न्यान्यदेतत्सममिति भावः । एवं च सत्सं-
गतिरेव विधेयेति ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता खकारव्रज्या ।
--------------------------
गकारव्रज्या ।
केनचिद्गुणवता दरिद्रेण संयोजयितुं काचित् काञ्चिद्वक्ति--</p>
<lg>
  <l>गुणमधिगतमपि धनवान्न चिरान्नाशयति रक्षति दरिद्रः ।</l>
  <l>मज्जयति रज्जुमम्भसि पूर्णः कुम्भः सखि न तुच्छः ॥ १९४ ॥</l>
</lg>
<p>गुणमिति । हे सखि, प्राप्तमपि । एवं चाधिकार्जनं दूरापास्तमिति भावः । दरिद्रो
रक्षत्यपि । एवं च नवीनमर्जयतीति भावः । तुच्छोऽपरिपूर्णः । एवं च दारिद्र्येऽपि
गुणवत्त्वादेतत्संगतिरेवोचितेति व्यज्यते । यद्वा साधारणोक्तिरियम् ॥
महदङ्गीकारेणैव महत्सविधे गमनमुचितम्, अन्यथा नेति कश्चित् कञ्चिचिदुपदिशति--</p>
<lg>
  <l>गुरुरपि लघूपनीतो न निमज्जति नियतमाशये महतः ।</l>
  <l>वानरकरोपनीतः शैलो मकरालयस्येव ॥ १९५ ॥</l>
</lg>
<p>गुरुरिति । आशयेऽन्तःकरणे, मध्ये च । मकरालयपदेन स्वल्पस्याप्यन्तर्वसतियो-
ग्यत्वमिति व्यज्यते । एवं चैतादृशेऽप्यत्यन्तमहतो लघ्वङ्गीकरणान्नात्यन्त परिचितिरिति
व्यज्यते ॥
कदापि कस्याप्यवाच्यं न वाच्यमिति कश्चित् कञ्चिदुपदिशति--</p>
<lg>
  <l>गौरीपतेर्गरीयो गरलं गत्वा गले जीर्णम् ।</l>
  <l>जीर्यति कर्णे महतां दुर्वादो नाल्पमपि विशति ॥ १९६ ॥</l>
</lg>
<p>गौरीपतेरिति । महत्तरं गरलं गत्वा । एवं च तद्ग्रहणे नोद्यमो गौरीपतेरिति भावः ।
एवं च महद्भिः परदोषश्रवणे नोद्यमः क्रियत इति किं वक्तव्यम् । तज्जातं तदैव नश्य-
तीति व्यज्यते । जगदीश्वरस्य कण्ठे जीर्णम् । एवं च बहिर्निःसरणानर्हत्वं व्यज्यते । म-
हतां कर्णे दुर्वादो जीर्यति । अल्पमपि न प्रविशति । एवं च श्रवणसमसमयमेव दुर्वादो
नश्यति, न सतां स्वल्पमपि हृदयमवतरतीति भावः । अल्पं नीचपुरुषं विशत्यपि, न
जीर्यतीति किमु वाच्यमिति भावः । एवं च महन्मुखान्न कस्यचिद्दूषणं निःसरति, क्षु-</p>
<pb n="90" />
<p>द्रस्य मुखाद्बहिरेव निःसरतीति व्यज्यत इति वार्थः । एवं च यदि ते महत्त्वापेक्षा, तर्हि
न कदापि कस्यापि निन्दा विधेयेति द्योत्यते । दुर्वादे गरलसमताप्रतिपादनेन दाहकत्वा-
तिशयो द्योत्यते ॥
कस्याश्चिद्वार्तां काचिद्वक्ति--</p>
<lg>
  <l>गृहपतिपुरतो जारं कपटकथाकथितमन्मथावस्थम् ।</l>
  <l>प्रीणयति पीडयति च बाला निःश्वस्य निःश्वस्य ॥ १९७ ॥</l>
</lg>
<p>गृहपतीति । गृहपतिपदेन गृहव्यासङ्गप्रवणत्वेन प्रतारणार्हत्वं ध्वन्यते । तत्पुरतः । 'ध-
नविशेषाप्राप्त्या मनसिजसंतापकदर्थितोऽहं भवद्विधद्विजराजदर्शनमपि गृहीतुं नोत्सहे,
केवलं गरलगिलनमेवाश्रित्येदानीं संसारविरतिं विधास्ये' इत्यादिकपटवार्ताभिः कथित-
स्वमन्मथावस्थं जारम् । बाला षोडशवार्षिकी । एवं चोन्मादवत्त्वं ध्वन्यते । पतिपुरत
इदमप्यत्रान्वेति । निःश्वस्य । तथाविधदारिद्र्यश्रवणानुकम्पयेति भावः । अथ च 'तावत्प
र्यन्तं सुरतरङ्गं विधास्ये, यावत्ते श्रमातिशयाच्छ्वासोच्छ्वासातिशयो भावी' इति कथनेन,
अथवा 'श्वासपरित्यागेन विरहेण तव प्राणापगमे ममापि प्राणा गमिष्यन्ति' इति प्रेमाति-
शयप्रदर्शनेन प्रीणयति । तथाविधचेष्टासञ्जितरतातिशयानुस्मारणेन पीडयति च । एवं
च स्त्रीधूर्तत्वं केनापि विज्ञातुमशक्यमिति ध्वन्यते ॥
रतप्रावीण्यविहीनं पुंस्त्वाभिमानशालिनं काचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>गतिगञ्जितवरयुवतिः करी कपोलौ करोतु मदमलिनौ ।</l>
  <l>मुखबन्धमात्रसिन्धुर लम्बोदर किं मदं वहसि ॥ १९८ ॥</l>
</lg>
<p>गतीति । गत्या गमनविशेषेण गञ्जिता तिरस्कृता । पक्षे ज्ञानेन । रतिनैपुण्येनेत्यर्थः ।
गञ्जिता रतिविजयेन स्वाधीनीकृता । वरा गतिविशेषशालितया । पक्षे कामकेलिकोविदा-
त्वेन । युवतिर्येन । मुखबन्धमात्रेण । एवं च करिकार्यसत्त्वाभावो व्यज्यते । सिन्धुर
गज । लम्बोदर । एवं च गतिविशेषशून्यत्वं व्यज्यते । पक्षे लम्बोदरपदेनोत्थानासाम-
र्थ्यमभिव्यज्यते । किं मदं वहसि । एवं च पुरुषचिह्नसत्त्वमात्रेण न गर्वस्त्वया विधेय
इति द्योत्यते । यद्वान्यकामुकसमताकारिणं कंचन काचिदन्योक्त्या वक्ति । एवं च त-
त्तुल्यं त्वयि न सामर्थ्यमिति व्यज्यते ॥
काचित् कस्याश्चिद्वार्तां वक्ति--</p>
<lg>
  <l>गेहिन्याः शृण्वन्ती गोत्रस्खलितापराधतो मानम् ।</l>
  <l>स्निग्धां प्रिये सगर्वां सखीषु बाला दृशं दिशति ॥ १९९ ॥</l>
</lg>
<p>गेहिन्या इति । श्रेष्ठपत्न्या नामस्खलनरूपापराधजन्यं मानं शृण्वन्ती । अत्र नुमाग -
मश्चिन्त्यः । बाला । प्रिये स्निग्धाम् । स्वासक्तिज्ञानजनितप्रेमवत्तयेति भावः । सखीषु
सगर्वाम् । ईदृश्यहं गुणशालिनीति धियेति भावः । यद्वैतासां प्रिया नैतास्वेतादृशास-
क्तिमन्त इति धियेति भावः ॥</p>
<pb n="91" />
<p>केलिवने गन्तव्यमिति कश्चित् काञ्चिद्वक्ति--</p>
<lg>
  <l>ग्रीष्ममये समयेऽस्मिन् विनिर्मितं कलय केलिवनमूले ।</l>
  <l>अलमालवालवलयच्छलेन कुण्डलितमिव शैत्यम् ॥ २० ॥</l>
</lg>
<p>ग्रीष्मेति । संतापप्रचुरेऽस्मिन्समये विनिर्मितम् । वृक्षसंजीवनार्थमिति भावः ।
क्रीडावृक्षसमूहमूले । वनपदेन सर्वत्र तत्र शैत्यमित्यावेद्यते । अत्यर्थं शैत्यमालवालवल-
यमिषेण । वलयपदं कुण्डलितत्वदार्ढ्याय । कुण्डलितमिव निर्बन्धवत्तां प्रापितमित त्वं
कलय । एवं चैतत्समये क्रीडा तत्रैवोचितेति भावः । यद्वा ग्रीष्मस्वरूपे समये क्रीडा-
वृक्षसमूहमूले विशेषेण निर्मितम् । कलशसेचनादिनेति भावः । अस्मिन् समये । वर्षा-
काल इत्यर्थः । आलवालवलयमिषेणालमत्यर्थं कुण्डलितमिव निरर्थकीकृतमिव कलय ।
मेघोदकेन तन्निर्वाहादिति भावः । अन्यदपि निरर्थकं कुण्डलितं कृतमिति लौकिकम् ।
एवं च वर्षासमयः संवृत्तः, अतस्ते प्रियः समायास्यतीति सखी नायिकां समाश्वासयती-
त्यर्थः । अथवा नायको नायिकां वक्ति – अत्र संबुद्धिपदानुपादानं मदनबाधातिशयं
व्यनक्ति । ग्रीष्मस्वरूपे समये केलिवनमूले विनिर्मितं शैत्यमस्मिन् । पुरोवर्तिनि त्वत्कु-
चमण्डले सतीत्यर्थः । आलवालवलयमिषेणेवात्यन्तं कुण्डलितम् । एवं चैतादृशग्रीष्म-
समये त्वत्कुचमण्डलसमं नान्यदस्ति शीतलतरमिति ध्वन्यते । तेन चातिमनोजानलसं-
तप्तस्य ममेदमेव शरणमिति ॥
मदीयगुणनिबद्धोऽयमिति बुद्ध्या नायं नायकस्त्वया विश्वसनीय इत्यन्योक्त्या काचित्
काञ्चिदुपदिशति--</p>
<lg>
  <l>गुणवद्धचरण इति मा लीलाविहगं विमुञ्च सखि मुग्धे ।</l>
  <l>अस्मिन् वलयितशाखे क्षणेन गुणयन्त्रणं त्रुटति ॥ २०१ ॥</l>
</lg>
<p>गुणबद्धेति । हे सखि । एवं चोपदेशार्हत्वं व्यज्यते । मुग्धे । इत्यनेनाज्ञत्वं द्योत्यते ।
गुणैः सूत्रैः । पक्षे चातुर्यादिभिः । बद्धचरणः । पक्षे बद्धाचरणः । बद्धव्यवहार इति
यावत् । इति हेतोर्लीलाविहगं मा विमुञ्च । निबद्धचरणत्वात् क्वानेन गन्तव्यमिति धियेति
भावः । यतोऽस्मिन् वलयितशाखे वृक्षे गुणैर्यन्त्रणं बन्धनम् । पक्षे स्वाधीनतासंपाद-
नम् । क्षणेन त्रुटति । एवं चात्यन्तसावधानतया स्थेयमित्यावेद्यते । लीलाविहगमित्य-
नेन सर्वस्पृहणीयत्वं ध्वन्यते । तेन चातिसंरक्षणीयत्वम् । विहगपदेनेतस्ततो गमनस्वा-
भाव्यं द्योयते । वलहितशाख इत्यनेन गुणत्रुटनयोग्यत्वम् । पक्षे नायिकासमूहशालि-
त्वं व्यज्यते ॥
मदनवेदनासह्येति काचिद्वक्ति--·</p>
<lg>
  <l>गुरुगर्जिसान्द्रविद्युद्भयमुद्रितकर्णचक्षुषां पुरतः ।</l>
  <l>बाला चुम्बति जारं वज्रादधिको हि मदनेषुः ॥ २०२ ॥</l>
</lg>
<p>गुर्विति। गुरुगजिंश्च निबिडविद्युच्चानयोर्यद्भयं तेनाच्छादित श्रोत्रनेत्राणां पुरतो बाला ।</p>
<pb n="92" />
<p>एवं च भीतियोग्यत्वम् । जारं चुम्बति । हि यस्मान्मदनबाणो वज्रादधिकः । एवं च
मेघगर्जितविद्युद्भयस्य क्षणिकत्वेनातिशीघ्रनेत्रोन्मीलने द्रष्टव्यमेतैरिति विवेकविधुरत्वं
ध्वन्यते । यद्वा बहूनामपि भयजनके गर्जितादौ स्वयमेका न भीतेति साहसवत्त्वमावेद्यते ॥
मानसंपादनप्रधानशीलां नायिकां सखी वक्ति--</p>
<lg>
  <l>गृहिणीगुणेषु गणिता विनयः सेवा विधेयतेति गुणाः ।</l>
  <l>मानः प्रभुता वाम्यं विभूषणं वामनयनानाम् ॥ २०३ ॥</l>
</lg>
<p>गृहिणीति । गृहिणी गृहाधिपत्यशालिनी । तद्गुणेषु विनयादित्रितयं गुणः । वामन-
यनानां दुःशीलानां मानादि विभूषणम् । एवं च यदि गृहाधिपत्यप्रतिष्ठादिकामा त्वमसि
तर्हि मानाद्यपहाय विनयाद्येव कुर्विति ध्वन्यते । यद्वा तव नायिकात्यन्तं प्रभुताकारि-
णीति वादिनं कश्चिद्वक्ति--वामनयनानाम् । त्रिविधानामिति भावः । मध्ये गृहिणीगुणेषु
स्वीयागुणेषु नम्रता, सेवा, आज्ञाकारित्वमिति गुणाः प्रधानभूता गणिताः । एवं चैतद्गु-
णवतीनामेव स्वीयात्वमिति व्यज्यते । तेन चैतद्वत्त्वं सर्वस्वीयास्विति तद्वत्त्वेन न कापि श्ला-
घ्यतेति । वामनयनानां मध्ये गृहिणीष्वेते गुणा गणिता इत्येव वक्तव्ये गुणेष्विति पदोपादा-
नम्, अन्येऽपि गुणाः सन्ति परं तु तेऽप्रधानभूता इति द्योतयितुम् । मानः, प्रभुता, वा-
म्यमिदं विभूषणम् । एवं चैतत्त्रितयं कस्यचिदेव भाग्यवतोऽङ्गनायां भवतीति व्यज्यते ।
एवं च विनयादेः सर्वगृहिणीगुणत्वेन विद्यमानत्वेऽपि मानादिविभूषणसत्त्वेन स्वाङ्गना-
यामाधिक्यं व्यज्यते । यद्वा गृहिण्या गृहकर्मव्यापृतायाः । किंचिद्गतयौवनाया इति
भावः । विनयादयो गुणा मुख्यत्वेन गणिताः । एवं चैतेषामेव तद्भूषणत्वं व्यज्यते । वाम-
नयनानाम् । यौवनातिशयशालिनीनामिति भावः । मानादयो विभूषणमित्यर्थः । अथवा
सर्वदा नायकस्य विनयसेवादिकमेव करोषि न कदापि किमिति प्रभुतां नाटयसीति वादि-
नीं काचिद्वक्ति--गृहिण्या विनयादयो विभूषणम्, कुटिलनयनानां तु मानादयो विभूषण-
म् । एवं च स्वस्मिन्नत्यन्तसाधुत्वमावेद्यत इत्यर्थः । यद्वा स्वीयागुणेषु विनयादयो मुख्या
गणिता वामनयनानां परकीयादीनां वाम्यादि विभूषणम् । एवं च स्वीयाया एवैतत्करण-
मनुचितमिति भावः । विभूषणपदेन वाम्यादौ गुणव्यवहाराभावो द्योत्यते । अथवा स्त्रीषु
मध्ये गृहिणीनां विनयादयो गुणाः । गुणपदेन नैसर्गित्वं व्यज्यते । भूषणपदेन वाम्यादा-
वचिरावस्थायित्वं ध्वन्यते । एवं च न मया वाम्यादि बहुकालं स्थाप्यम्, अपि तु विन-
यादि विधेयमिति 'बहुकालं मानः कर्तव्यः' इति वादिनीं काचिद्वक्ति ॥
भर्तृकृतातिशयलालनेऽपि कथं त्वं दुःखितैवासीति वादिनीं काचिद्वक्ति--</p>
<lg>
  <l>गुणमान्तरमगुणं वा लक्ष्मीर्गङ्गा च वेद हरिहरयोः ।</l>
  <l>एका पदेऽपि रमते न वसति निहिता शिरस्यपरा ॥ २०४ ॥</l>
</lg>
<p>गुणमिति । हरिहरयोरान्तरम् । एवं च बहिर्दर्शनायोग्यत्वं ध्वन्यते । गुणं दोषं वा
लक्ष्मीर्गङ्गा च वेद। यत एका लक्ष्मीः पदेऽपि । एवं च बाह्यादराभावो द्योत्यते । रमते ।</p>
<pb n="93" />
<p>अपरा गङ्गा शिरसि निहितापि । एवं च बाह्यादरो द्योत्यते । न तिष्ठति । एवं च या
यत्संगतिशालिनी सैव तद्गुणदोषं विजानाति, नान्या कापीति ध्वन्यते ॥
चिरप्रत्यागतं पुनर्विदेशं गन्तुकामं नायकं काचिद्वक्ति--</p>
<lg>
  <l>गत्वा जीवितसंशयमभ्यस्तः सोढुमतिचिराद्विरहः ।</l>
  <l>अकरुण पुनरपि दित्ससि सुरतदुरभ्यासमस्माकम् ॥ २०५ ॥</l>
</lg>
<p>गत्वेति । जीवितसंदेहं प्राप्यातिचिरकालेन विरहः सोढुमभ्यस्तः । हे अकरुण
करुणाशून्य । एवं च पूर्वमपि करुणाभावो द्योत्यते । अस्माकं सुरतस्य दुरभ्यासं पुन-
रपि दित्ससि दातुमिच्छसि । एवं चातः परं त्वद्विदेशगमनेऽस्माकं प्राणपरित्याग एव भवि-
घ्यतीति व्यज्यते ॥
कश्चित् कस्यांश्चिद्वार्तां वक्ति--</p>
<lg>
  <l>गोत्रस्खलितप्रश्नेऽप्युत्तरमतिशीलशीतलं दत्त्वा ।</l>
  <l>निःस्वस्य मोघरूपे स्ववपुषि निहितं तया चक्षुः ॥ २०६ ॥</l>
</lg>
<p>गोत्रेति । गोत्रस्खलितेन प्रश्नस्तस्मिन्नपि । एवं चावश्यक्रोधजननयोग्यत्वं द्योयते ।
अत्यन्तस्वभावशीतलमुत्तरं दत्त्वा । निष्फलं रूपं यस्य तस्मिन् । कान्तचित्तवश्यतासं-
पादनसामर्थ्याभावादिति भावः । स्वीयदेहे निःश्वस्य । दुःखोद्रेकादिति भावः । तया
नेत्रं निहितम् । विद्यमानमपीदं रूपादि किमिति न नायकवश्यतासंपादकमिति धियेति
भावः ॥
काचित् काञ्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>गन्धग्राहिणि शालोन्मीलितनिर्यासनिहितनिखिलाङ्गि ।</l>
  <l>उपभुक्तमुक्तभूरुहशतेऽधुना भ्रमरि न भ्रमसि ॥ २०७ ॥</l>
</lg>
<p>गन्धेति । आमोदग्राहिणि । एवं च लोलुपत्वचाञ्चल्ये व्यज्येते । शालस्य वृक्षविशे-
षस्योन्मीलन्यो निर्यासस्तत्र निहितसर्वाङ्गि । उन्मीलत्पदेन नवीनदर्शननायकदर्शिता-
तिशयितप्रेमशालिनी त्वमिति द्योत्यते । उपभुक्तमुक्तं वृक्षशतं यया तत्संबुद्धिः । एवं
चैकस्यापि न संगतिस्त्वया निर्वाहितेति ध्वन्यते । भूरुहपदेनाल्पवयस्कसंगतिशालित्वम्,
तेन चातिनीचगुणवत्त्वं ध्वन्यते । भ्रमरि, अधुना न भ्रमसि । एवं च त्वमेतादृशीति
विज्ञाय सर्वैरुपेक्षितेति व्यज्यते ॥
केनचिदूनसमतामापादितः कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।</l>
  <l>उचितज्ञासि तुले कि तुलयसि गुञ्जाफलैः कनकम् ॥ २०८ ॥</l>
</lg>
<p>गुरुष्विति । गुरुताशालिषु । पक्षे श्रेष्ठेषु । मिलितेषु संयुक्तेषु । पक्षे समागतेषु ।
शिरसाग्रभागेन । पक्षे मस्तकेन । प्रकर्षेण नमस्यवनता भवसि । पक्षे नमस्करोषि
लघुषु न्यूनपरिमाणशालिषु । पक्षे नीचेषु । उन्नतोच्चा । पक्षे साभिमाना । समेषु</p>
<pb n="94" />
<p>समा । अत एव तुले उचितज्ञासि । कनकं गुञ्जाफलैस्तुलयसीदं किम् । एवं चात्रैव
तवोचितज्ञता कुत्र गतेति व्यज्यते ॥
कश्चिद्गेहिनीसखीं वक्ति--</p>
<lg>
  <l>गेहिन्या ह्रियमाणं निरुध्यमानं नवोढया पुरतः ।</l>
  <l>मम नौकाद्वितयार्पितगुण इव हृदयं द्विधा भवति ॥ २०९ ॥</l>
</lg>
<p>गेहिन्येति । गेहिन्या प्रौढया ह्रियमाणम् । न तु हृतमिति भावः । नवोढया पुरतो
निरुध्यमानम् । न तु निरुद्धम् । मम नौकाद्वितयं विपरीतगामि तत्संबन्धिगुण इव
हृदयं द्विःप्रकारं भवति । नौकासमताप्रतिपादनेनोभयत्र रससंबन्धित्वं ध्वन्यते । एवं
चोभयत्र समप्रीतिरहमस्मीति व्यज्यते । 'पद इव' इति क्वचित् पाठः ॥
एकत्रैव गुणे दृढा परिचितिरुचिता, न तु सर्वत्र यथाकथंचिदिति कश्चिद्वक्ति--</p>
<lg>
  <l>गुण आकर्षणयोग्यो धनुष इवैकोऽपि लक्षलाभाय ।</l>
  <l>ऌतातन्तुभिरिव किं गुणैर्विमर्दासहैर्बहुभिः ॥ २१० ॥</l>
</lg>
<p>गुण इति । आकर्षणाय योग्यः । विचारक्षम इत्यर्थः । पक्षे यथाश्रुतम् । एवं च
दृढत्वं ध्वन्यते । गुणो धनुष इवैकोऽपि लक्षसंख्याकधनलाभाय । पक्षे वेध्यलाभाय ।
विमर्दासहैविचारासहैः । पक्ष आकर्षणासहैः । लूता कीटविशेषस्तत्तन्तुभिरिव बहुभिर्गुणैः
किम् । न किंचित्फलमित्यर्थः ॥
नायिकासक्तिं नायके दूती वक्ति--</p>
<lg>
  <l>गायति गीते शंसति वंशे वादयति सा विपञ्चीषु ।</l>
  <l>पाठयति पञ्जरशुकांस्तव संवादाक्षरं बाला ॥ २११ ॥</l>
</lg>
<p>गायतीति । विपञ्चीषु, पञ्जरशुकानिति च बहुवचनम् । वादितस्य पुनर्वादनेन पाठि-
तस्य पुनः पाठनेन संवादाक्षरे प्रेमातिशयो द्योत्यते । एवं च त्वत्संवादैकाक्षरमपि तस्याः
प्राणप्रियमित्यासक्तिविशेषो व्यज्यते ॥
अत्र क्षुद्रस्यापि प्राप्तिः सौम्यतया, न गर्वेण महत इति कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>गणयति न मधुव्ययमयमविरतमापिबतु मधुकरः कुमुदम् ।</l>
  <l>सौभाग्यमानवान् परमसूयति मणये चन्द्रः ॥ २१२ ॥</l>
</lg>
<p>गणयतीति । मधुकरः कुमुदमापिबतु । सौभाग्यमानवानयं चन्द्रो मधुव्ययं न गण-
यति । परं द्युमणये सूर्यायासूयति । एवं च महतः सूर्यस्य न कुमुदोपभोगस्तत्र चन्द्रस्य
न कार्पण्यं हेतुर्यतो मधुकरस्योपभोगः । किं तु सूर्यगर्व एव यथा तथात्र न गर्वेण प्रा-
प्तिरिति ध्यन्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>गुणविधृता सखि तिष्ठसि तथैव देहेन किं तु हृदयं ते ।</l>
  <l>हृतममुना मालायाः समीरणेनेव सौरभ्यम् ॥ २१३ ॥</l>
</lg>
<pb n="95" />
<p>गुणेति । सखि, गुणैर्लोकवादभीत्यादिभिर्विधृता । पक्षे दोरकैः । देहेन तथैव यथा-
पूर्वैव तिष्ठसि । किं तु समीरणेन मालायाः सौरभ्यमिवामुना नायकेन ते हृदयं हृतम् ।
एवं च न तवापराध इति भावः । एवं च नास्मल्लज्जा कार्येति द्योत्यते । एवं च यद्यपि
त्वं यथास्थिता दृश्यसे तथापि त्वच्चित्तं मान्मथावस्थादुस्थं वृत्तमित्यावेद्यते । तेन चा-
स्माकं प्रति गोपनमनर्थकमिति । यद्वा बलाद्देहेन कृतापि धृतिरनर्थकैव, अतो यतस्व
तन्मिलनायेति व्यज्यते ॥
कश्चित् सखायं वक्ति--</p>
<lg>
  <l>गुरुसदने नेदीयसि चरणगते मयि च मूकयापि तया ।</l>
  <l>नूपुरमपास्य पदयोः किं न प्रियमीरितं प्रियया ॥ २१४ ॥</l>
</lg>
<p>गुर्विति । नेदीयसि निकटे सति । मयि चरणगते प्रणमति सति । एवं च नायिका-
यां मानवत्त्वं द्योत्यते। मूकयापि । गुरुभीत्येति भावः । तया चरणयोः । नूपुरमित्येक-
त्वमविवक्षितम् । अपास्य प्रियया । एवं चैतादृशविधानमुचितमेवेति ध्वन्यते । किं न प्रिय-
मीरितम् । अपि तु सर्वमीरितम् । एवं च शब्दजनकनूपुरत्यागेन रत्यनुमतिर्दत्तेति द्यो-
त्यते । यद्वा निःशब्दपदसंचारेण त्वयात्र रात्रावागन्तव्यमिति ध्वन्यते । अथवा निष्ठुर-
वचनमूलभूतो मानः परित्यक्तो मयेति व्यज्यते । प्रस्थितैवाहं त्वमग्रे गच्छेति वा ॥
किमिति दरिद्रेऽनुरक्तासीति वादिनीं काचिद्वति--</p>
<lg>
  <l>ग्रन्थिलतया किमिक्षोः किमपभ्रंशेन भवति गीतस्य ।</l>
  <l>किमनार्जवेन शशिनः किं दारिद्र्येण दयितस्य ॥ २१५ ॥</l>
</lg>
<p>ग्रन्थिलतयेति । अनार्जवेन कौटिल्येन । एवं च रसनाश्रवणनयनाद्येकैकसुखप्रदातृ-
तयेक्ष्वादीनां ग्रन्थिलत्वादयो दोषा न गण्यन्ते । किं पुनः सर्वाङ्गीणानन्दप्रदस्य दयितस्य
दारिद्र्यैकदोषो न गण्यत इति । तद्गणनाकारिण्योऽतिभ्रान्ता इति ध्वन्यते । यद्वा ग्रन्थ्या-
दिसत्त्वेऽपीक्ष्वादे रसप्रदत्वं नापैति यथा तथा दारिद्र्द्येऽपि न सुखप्रदत्वमपैतीति व्यज्यते ॥
कश्चित् सखायं वक्ति--</p>
<lg>
  <l>गेहिन्या चिकुरग्रहसमयससीत्कारमीलितदृशापि ।</l>
  <l>बालाकपोलपुलकं विलोक्य निहतोऽस्मि शिरसि पदा ॥ २१६ ॥</l>
</lg>
<p>गेहिन्येति । केशग्रहस्य । चुम्बनार्थमिति भावः । समये ससीत्कारं मीलितदृशापि
गेहिन्या बालायाः कपोलसंबन्धि पुलकम् । चुम्बनजन्यमिति भावः । विलोक्य शिरसि
चरणेन निहतोऽस्मि । कथमीदृशावसरेऽप्येतादृशमकारि त्वयेति दोषख्यापनेनेति भावः ॥
नायकान्तरातिशयितरतातिवाहितयामिनीं प्रातस्तद्दत्तनखक्षतावलोकनकृतक्रोधां ना-
यिकां सखी वक्ति--</p>
<lg>
  <l>गुरुपक्ष्म जागरारुणघूर्णत्तारं कथंचिदपि वलते ।</l>
  <l>नयनमिदं स्फुटनखपदनिवेशकृतकोपकुटिलभ्रु ॥ २१७ ॥</l>
</lg>
<pb n="96" />
<p>गुर्विति । स्फुटनखपदनिवेशनेन । नायकदत्तेनेति भावः । कृतो यः कोपः । लोक-
ज्ञानभिया । तेन कुटिलभ्रुकुटि । गुरुपक्ष्म । सालसत्वादिति भावः । जागरणेन रक्तं
तेनैव घूर्णत्तारमिदं तव नेत्रं महता क्लेशेनापि वलते परिवर्तते । नखपदनिवेश इति भावः।
एवं चैकनखक्षतविलोकनेन क्रुध्यसि, परमन्यानि नखक्षतानि नावलोकयसि । रात्रिजा-
गरबाहुल्यालसनेत्रतयेति भावः । एवं च तदानीं न कापि भीतिः कृता, इदानीं तत्कर-
णमनर्थकमिति व्यज्यते । यद्वा प्रकटनखक्षतदर्शनेन कोपः क्रियते । अप्रकटानि च
बहूनि सन्ति । तद्दर्शनं च ते सालसनेत्रतया न भावीति द्योत्यते । 'निवेशने' इति पाठे
स्फुटनखपदस्य निवेशने दाने कोपेन कुटिलभ्रु । स्फुटपदेन दृढत्वमावेद्यते । क्वचित्
'दृढ' इत्येव पाठः । गुरुपक्ष्म । सालसत्वादिति भावः । जागरारुणघूर्णत्तारमिदं नयनम् ।
'तव' इति पदानुपादानं नयने नायिकाविधेयत्वं ध्वन्यते । कथंचिद्वलते । एवं च गम-
नकालीननखक्षतदानेऽपि केवलं भ्रुकुटिकौटिल्यमेव करोषि, परं तु रात्र्यतिशयितरत-
निःसहतया नेत्रव्यापारमपि कर्तुं न शक्नोषि । तत्र का वार्तोत्थाय करग्रहादेरिति भाव
इति नायिकासखीवाक्यमिदम् । केचित् 'स्वनायकेन सह क्रीडातिवाहितरजनीं स्फुट-
तरनखक्षतदर्शनजातलजावशादुत्पन्नक्रोधां नायिकां सखी वक्ति' इत्याहुः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता गकारव्रज्या ।
--------------------------------
घकारव्रज्या ।
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>घटितजघनं निपीडितपीनोरु न्यस्तनिखिलकुचभारम् ।</l>
  <l>आलिङ्गन्त्यपि बाला वदत्यसौ मुञ्च मुञ्चेति ॥ २१८ ॥</l>
</lg>
<p>घटितेति । घटितजघनमित्यादिना रतेच्छावत्त्वमावेद्यते । आलिङ्गनकारिण्यप्यसौ बाला
तरुणी मुञ्च मुञ्चेति वक्ति । एवं चैतस्या मुञ्च मुञ्चेति वचनं मिथ्येति विज्ञाय वर्तितव्यं
त्वयेति द्योत्यते । 'आलिङ्गति' इति पाठ आलिङ्गति वदत्यपीति योजनायां वचनसमय
आलिङ्गनसत्वेन विरुद्धकार्यकारितया रतिनिर्भरत्वं ध्वन्यत इत्यर्थः । नायकवचनं वा
वयस्यं प्रति ॥
अदृष्टवशादेव लक्ष्मीः स्थिरा भवति, न यत्नेनेति कश्चिद्वक्ति--</p>
<lg>
  <l>घटितपलाशकपाटं निशि निशि सुखिनो हि शेरते पद्माः ।</l>
  <l>उज्जागरेण कैरव कति शक्या रक्षितुं लक्ष्मीः ॥ २१९ ॥</l>
</lg>
<p>घटितेति । घटितं पत्त्ररूपं कपाटं यत्र । 'पत्त्रं पलाशं छदनम्' इत्यमरः । निशि
निशि । एवं च सर्वदोद्यमशून्यत्वम् । सुखवन्तः पद्माः । 'वा पुंसि पद्मम्' इत्यमरः
स्वपन्ति । पद्मानां सूर्यविकासित्वाद्रात्रौ संकोच इति भावः । हे कैरव, उत्कृष्टजागरेण
लक्ष्मीः कियद्रक्षितुं शक्या । चन्द्रविकासित्वात् कैरवाणामिति भावः । एवं च निरुद्यमा-</p>
<pb n="97" />
<p>नामपि लक्ष्मीर्जायते, सोद्यमानामपि नश्यतीति दैवमेव संपद्रक्षणे क्षममिति ध्वन्यते ।
यद्वा या ह्यङ्गनान्यत्र गन्तुकामा सा न केनापि रक्षितुं शक्येति कश्चिद्वक्ति । पलाशव-
त्कपाटम् । एवं च दूरीकरणार्हत्वं व्यज्यते । पद्मा इव पद्माः । उज्जागरेण । उत्कृष्टरक्ष-
णेनेति यावत् । लक्ष्मीपदेन चञ्चलस्वाभाव्यमभिव्यज्यत इत्यर्थः ॥
कश्चित् प्रातःकालं वर्णयति--</p>
<lg>
  <l>घूर्णन्ति विप्रलब्धाः स्नेहापायात् प्रदीपकलिकाश्च ।</l>
  <l>प्रातः प्रस्थितपान्थस्त्रीहृदयं स्फुटति कमलं च ॥ २२० ॥</l>
</lg>
<p>घूर्णन्तीति । विप्रलब्धा वियोगिन्यः । यद्वा संकेतनिकेतने प्रियतमाप्राप्तिसमाकुलह-
दया विप्रलब्धाः । प्रदीपकलिकाश्च । स्नेहस्य प्रीतेस्तैलस्य च नाशाद्घूर्णन्ति । मनोरथादि-
भिरधुना समायास्यतीति धिया च संपूर्णयामिनीजागरादिति भावः । विनश्वरा भवन्ति
च । प्रस्थितो न तु गतो यो पान्थस्तत्कान्ताहृदयं कमलं च प्रातः स्फुटति द्वेधा भवति ।
दुःखोद्रेकादिति भावः । विकसति च । यद्वा जातोऽयं प्रातःकालः, अत इतोऽपसरणं
सम्यगिति सखी नायकं वक्तीत्यर्थः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता घकारव्रज्या ।
---------------------------------
चकारव्रज्या ।
काचित्कांचिद्वक्ति--</p>
<lg>
  <l>चपलस्य पलितलाञ्छितचिकुरं दयितस्य मौलिमवलोक्य ।</l>
  <l>खेदोचितेऽपि समये संमदमेवाददे गृहिणी ॥ २२१ ॥</l>
</lg>
<p>चपलस्येति । चपलस्य । एवं च पराङ्गनालम्पटत्वं व्यज्यते । दयितस्य । एवं च
प्रीतियोग्यत्वं ध्वन्यते । मौलिं जराचिह्नितकेशमवलोक्य खेदार्हेऽपि । स्वस्याप्यसमीची-
नत्वादिति भावः । समय आनन्दमेव गृह्णाति । स्वस्याप्यकार्यसंतोषेण नायके सामा-
न्याङ्गनालम्पटत्वेन द्वेषातिशयो व्यज्यते ॥
नायिकां नायको वक्ति--</p>
<lg>
  <l>चण्डि प्रसारितेन स्पृशन्भुजेनापि कोपनां भवतीम् ।</l>
  <l>तृप्यामि पङ्किलामिव पिबन्नदीं नलिननालेन ॥ २२२ ॥</l>
</lg>
<p>चण्डीति । हे चण्डि, प्रसारितेन । एवं च निकटवर्तित्वाभावो व्यज्यते । भुजेनापि ।
नीरसेनेति भावः । कोपनां भवतीं स्पृशन् । यद्वा अपिरत्रान्वेति । एवं च तृप्त्यजन-
कत्वं ध्वन्यते । तृप्तिं प्राप्नोमि । पङ्किलां नदीं नलिननालेन पिबन्निव । नलिननालेन पाने
स्वच्छजलागमनात्तृप्तिः । एवं च मम दुःखाजनकत्वेन त्वन्मानधारणमनर्थकम्, अतस्त्यज
मानमिति द्योत्यते । भुजे नालसमताप्रतिपादनेन कोमलत्वपाण्डुरत्वसूक्ष्मत्वशीतलत्वानि
व्यज्यन्ते । तैश्चाज्ञेयस्पर्शत्वविरहक्षीणत्वसंतप्तत्वसुखदत्वानि ॥</p>
<pb n="98" />
<p>खण्डिता नायकं प्रातस्तनसमीरणाभेदेन वक्ति--</p>
<lg>
  <l>चपलभुजंगीभुक्तोज्झित शीतलगन्धवह निशि भ्रान्त ।</l>
  <l>अपराशां पूरयितुं प्रत्यूषसदागते गच्छ ॥ २२३ ॥</l>
</lg>
<p>चपलेति । प्रातःकालीन वायो । अथवा प्रातःकाले सदा निरन्तरमागतिरागमनं यस्य
एतादृश । एवं च कियन्मया सोढव्यमिति व्यज्यते । चपला या भुजंग्यः सर्पिण्यस्ताभि-
र्भुक्त्वोज्झित । एवं च सविषत्वेन स्पर्शानर्हत्वं व्यज्यते । अथ च चपलाः । एवं च सर्व-
जनवेद्यचाञ्चल्यानां तव तदज्ञानेन मूर्खस्त्वमसीति व्यज्यते । भुजंग्यो वेश्यास्ताभिर्भुक्तो-
ज्झित । एवं चोच्छिष्टरूपत्वेनास्पृश्यत्वं ध्वन्यते । शीतलसमीरण । अथ च शीतलं ग
न्धम् । भोगार्थं परिगृहीतमिति भावः । वहतीति । निशि रात्रौ भ्रमणशील । अथ च
रात्रिभ्रान्तिमन् । एवं च रात्रौ तव पैशाच्यमेव जायत इति व्यज्यते । अपरदिशम् ।
अथ चान्यस्या आशाम् । इच्छामित्यर्थः । पूरयितुं पूर्णां कर्तुम् । अथ च सफलां कर्तुम् ।
गच्छ । एवं चैतादृशस्य तव न ममाशेति व्यज्यते ॥
काचित् कस्याश्चिदवस्थां वक्ति--</p>
<lg>
  <l>चिरपथिकद्राघिममिलदलकलताशैवलावलिग्रथिता ।</l>
  <l>करतोयेव मृगाक्ष्या दृष्टिरिदानीं सदानीरा ॥ २२४ ॥</l>
</lg>
<p>चिरपथिकेति। चिरकालीनो यः पथिकस्तस्य दैर्घ्येण । अतिविलम्बेनेति यावत् । मि-
लन्त्यः । संस्काराभावादिति भावः । याः केशरूपलतास्तद्रूपा या शैवलपङ्क्तिस्तया । प-
क्षेऽलकलतावदित्यर्थः । ग्रथिता । युक्तेति यावत् । अत्र लतापदं परस्परसंलग्नतामावे-
दयति । करतोयेव नदीविशेष इव मृगाक्ष्या दृष्टिरिदानीम् । एवं च पूर्वसमयापेक्षया दुः-
खवत्त्वातिशयो ध्वन्यते । सदानीरा निरन्तराश्रुपूर्णा । पक्षे सदानीरेति करतोयानाम ।
'करतोया सदानीरा' इत्यमरः । यद्वा नायिकासखी नायकं वक्ति । चिरपथिकेति सं-
बुद्धिः । द्राघिम्णा दैर्घ्येण मिलन्त्यः संबन्धवत्यः । अलकलता इत्यादि प्राग्वत् ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>चण्डि दरचपलचेलव्यक्तोरुविलोकनैकरसिकेन ।</l>
  <l>धूलिभयादपि न मया चरणहतौ कुञ्चितं चक्षुः ॥ २२५ ॥</l>
</lg>
<p>चण्डीति । हे चण्डि । एवं च स्वस्यानपराधित्वं ध्वन्यते । ईषच्चञ्चलचेलेन प्रकटो-
र्वोर्विलोकनं तदेकरसिकेन मया त्वत्कृतचरणहनने रेणुत्रासादपि । एवं च न ताडन-
त्रास इति भावः । चक्षुर्न संकोचितम् । एवं चाहं त्वय्यत्यन्तासक्तः, अतो मानं परि-
त्यज्य सुखयितव्योऽहमिति ध्वन्यते ॥
कश्चित्कंचिद्वक्ति---</p>
<lg>
  <l>चलकुण्डलचलदलकस्खलदुरसिजवसनसज्जदूरुयुगम् ।</l>
  <l>जघनभरक्लमकूणितनयनमिदं हरति गतमस्याः ॥ २२६ ॥</l>
</lg>
<pb n="99" />
<p>चलेति । चलकुण्डलम्, चलदलकम्, किञ्चिद्दूरीभूतस्तनवसनम्, संघट्टवदूरुयुग्मम्,
जघनभारश्रमसंकुचितनेत्रमस्या इदं गतं गमनं हरति । मन्मन इति भावः । जातिवर्ण-
नमेतत् । 'जातिरप्राणिनाम्' इत्यनेन चलकुण्डलेत्यादावेकवद्भावः । अस्या इदम् । सर्व-
मित्यर्थः । गतं गमनम् । ममेति भावः । हरति । इत्यपि योजना ॥
भाग्यवत्संनिहितानुपकारिजनसेवाकारिणं कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>चरणैः परागसैकतमफलमिदं लिखसि मधुप केतक्याः ।</l>
  <l>इह वसति कान्तिसारे नान्तःसलिलापि मधुसिन्धुः ॥ २२७ ॥</l>
</lg>
<p>चरणैरिति । हे मधुप । एवं च विवेकविधुरत्वं व्यज्यते । पदैः । बहुवचनेनोद्योग-
शालित्वं ध्वन्यते । केतक्या इदं परागरूपसैकतम् । सैकतपदेन सलिलाशायोग्यत्वं
व्यज्यते । व्यर्थं लिखसि । व्यर्थत्वमेवाह--कान्तिरेव सारो यत्र । इह परागसैकते
नान्तःसलिलापि । अपिना बहि:सलिलव्यवच्छेदः । मकरन्दनदी तिष्ठति । एवं च
स्वरूपमात्रशालिष्वेतेषु न दयालेशः, अतोऽत्र नाशा त्वया विधेयेति ध्वन्यते । यद्वा
कस्याश्चिन्नायिकायाः संगमाशया तत्संनिहितप्रदेशे यातायातकारिणं काचिदन्योक्त्या
वक्ति । एवं चैतस्याः स्वान्तरेऽपि न मद इति व्यज्यते । तेन चेयं सतीति । तेनात्र
तवानर्थकः श्रम इति ॥
नायिकाङ्गीननखक्षतकिणदर्शनसंजातसंशयं नायकं नायिकासखी वक्ति--</p>
<lg>
  <l>चिरकालपथिक शङ्कातरङ्गिताक्षः किमीक्षसे मुग्ध ।</l>
  <l>त्वन्निस्त्रिंशाश्लेषव्रणकिणराजीयमेतस्याः ॥ २२८ ॥</l>
</lg>
<p>चिरेति । हे चिरकालीनपथिक । एवं च विरहातिशयादुन्मादान्निस्त्रिंशालिङ्गनकारि-
त्वौचित्यं ध्वन्यते । मुग्ध सुन्दर । अथ च मूढ । संशयेन । व्रणाः किंजन्या एवंरूपेण ।
तरङ्गितं कृतं दूरव्यापारवत्कृतमक्षि येन सः । किमीक्षसे । एतस्यास्त्वदीयो यस्त्रिंशद-
ङ्गुल्यधिकः खड्गस्तदालिङ्गनव्रणकिणपङ्क्तिरियम् । एवं च क्षतादिवेदनामविचार्याप्यनया
त्वदीयत्वेन प्रीतिपात्रत्वत्खड्गालिङ्गनेन समतिवाहितोऽतितरां समयः । अतो नैतस्याम-
न्यथा संभावनीयं बहुतरदिवसपरदेशावस्थितिरूपापराधशालिना त्वयेति ध्वन्यते । एवं
चैतस्या यथा त्वयि प्रेमातिशयस्तथा न कस्याश्चित् कस्मिंश्चिदिति व्यज्यते ॥
स्वाविवेकाच्चाञ्चल्यदोषशालिनीं निजनायिकां ताडयन्तं कंचन तत्प्रतिवेशी तदङ्गना-
लम्पटतया तं प्रति कलहं कर्तुमुद्यतोऽपि निरुद्ध इति काचिदन्योक्त्या वक्ति--
चपलां यथा मदान्धश्छायामयमात्मनः करी हन्ति ।
आस्फालयति करं प्रतिगजस्तथायं पुरो रुद्धः ॥ २२९ ॥ E
चपलामिति । मदान्धः । एवं चानुचितकारित्वं व्यज्यते । अयं करी । आत्मनश्चपलां</p>
<pb n="100" />
<p>छायां यथा हन्ति, तथा रुद्धः प्रतिगजः करमास्फालयति । एवं च जनलज्जयैव न किं-
चिद्वक्तीति व्यज्यते ॥
कश्चित् सखायं वक्ति--</p>
<lg>
  <l>चुम्बनलोलुपमदधरहृतकाश्मीरं स्मरन्न तृप्यामि ।</l>
  <l>हृदयद्विरदालानस्तम्भं तस्यास्तदूरुयुगम् ॥ २३० ॥</l>
</lg>
<p>चुम्बनेति । चुम्बनसतृष्णस्य ममाधरेण हृतं केसरं यस्याः । कामशास्त्रे तत्रापि
चुम्बनविधानात् । चुम्बनलोलुपो यो मदधारीति गजपक्षेऽपि योज्यम् । हृदयरूपगज-
बन्धनस्तम्भम् । एवं च चित्तं ततोऽन्यत्र न गच्छतीति भावः । तस्यास्तदूरुयुगं
स्मरन्न तृप्यामि ॥
काचित् काञ्चिद्वक्ति--</p>
<lg>
  <l>चिकुरविसारणतिर्यङ्नतकण्ठी विमुखवृत्तिरपि बाला ।</l>
  <l>त्वामियमङ्गुलिकल्पितकचावकाशा विलोकयति ॥ २३१ ॥</l>
</lg>
<p>चिकुरेति । चिकुराणां विसारणं परिष्करणं तेन तिर्यङ्नतः कण्ठो यस्याः । विमुख-
वृत्तिरपीयं बालाङ्गुलीभिः कृतः केशावकाशो यया त्वां विलोकयति । एवं च त्वयापीयं
विलोकनादिनानुग्राह्येति द्योत्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>चुम्बनहृताञ्जनार्धं स्फुटजागररागमीक्षणं क्षिपसि ।</l>
  <l>किमुषसि वियोगकातरमसमेषुरिवार्धनाराचम् ॥ २३२ ॥</l>
</lg>
<p>चुम्बनेति । चुम्बनेन हृतमञ्जनार्धं यस्याः । कामशास्त्रे नेत्रप्रान्तचुम्बनविधानादिति
भावः । प्रकटो जागरेण रागो यस्य तत् । वियोगाय । भाविन इति भावः । भीतमी-
क्षणं प्रातः किमिति क्षिपसि । एवं च भीरुतातिशयो व्यज्यते । मदनोऽर्धनाराचमिव ।
एवं च निःसारणानर्हत्वेन नायके गमनसामर्थ्याभावो द्योत्यते । एवं च नायके नायिका-
सक्तिविशेषो ध्वन्यते ॥
इत्यनन्तपण्डितकृत गोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता चकारव्रज्या ।
-------------------------------
छकारव्रज्या ।
सखी कुपितनायिकां वक्ति--</p>
<lg>
  <l>छायाग्राही चन्द्रः कूटत्वं सततमम्बुज व्रजति ।</l>
  <l>हित्वोभयं सभायां स्तौति तवैवाननं लोकः ॥ २३३ ॥</l>
</lg>
<p>छायाग्राहीति । चन्द्रस्य सकलङ्कतया कमलस्य नित्यसंकोचितयोभयपरित्यागेन</p>
<pb n="101" />
<p>नित्यनिरतिशयोल्लासवत्कलङ्कहीनतया लोके त्वदाननस्तुतिरिति भावः । एवं च निरुपमानं
त्वदाननमिति व्यज्यते । तेन च कोपादिमालिन्यं न विधेयमिति । अत्र कूटत्वमवसादः ।
संकोच इति यावत् । अथवा प्रमोदाभाव एव कूटत्वम् । 'कूट अप्रमोदावसादनयोः'
इति चुरादिः । 'कूटं कुप्रदाप्रमुदोः' इति कल्पद्रुमः । यद्वा कूटत्वं परितापभावम् ।
संकोचमिति यावत् । 'कूट परितापे' ।
नायिका सखीं वक्ति--</p>
<lg>
  <l>छायामात्रं पश्यन्नधोमुखोऽप्युद्गतेन धैर्येण ।</l>
  <l>तुदति मम हृदयमिषुणा राधाचक्रं किरीटीव ॥ २३४ ॥</l>
</lg>
<p>छायामात्रमिति । छायामात्रं पश्यन् । एवं च लोकभीतिरावेद्यते । अधोमुखोऽपि ।
एवं च तरलवाभावो व्यज्यते । उद्गतेन धैर्येण मम हृदयं तुदति । अर्जुनो बाणेन राधा-
चक्रमिव । पाञ्चालीस्वयंवरेऽर्जुनेनाधस्तनध्वजाग्रस्थितचपलमीनच्छायामात्रमालोकयता
मीननयनं बाणेन हृतमिति पुराणप्रसिद्धिः । एवं च गुरुसमक्षं छायामात्रमालोकयन्मल्ल-
ज्जारक्षणमकरोदित्यासक्तिविशेषो ध्वन्यते । अथवा यद्यप्ययं न साक्षादवलोकयति
तथापि मन्मनोपहृतमनेनेति व्यज्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता छकारव्रज्या ।
-------------------------------
जकारव्रज्या ।
प्रस्थानावसरे नायको नायिकां वक्ति---</p>
<lg>
  <l>जलबिन्दवः कतिपये नयनाद्गमनोद्यमे तव स्खलिताः ।</l>
  <l>कान्ते मम गन्तव्या भूरेतैरेव पिच्छिलिता ॥ २३५ ॥</l>
</lg>
<p>जलेति । गमनोद्यमे । ममेति भावः । तव नयनात् किञ्चित्संख्याका जलबिन्दवः स्ख-
लिताः, न तु निर्गताः । मङ्गलाभावशङ्कयेति भावः । एवं च निबिडपक्ष्मशालित्वं नेत्रे
द्योत्यते । कान्ते मनोज्ञे ममैतैरेवाश्रुबिन्दुभिरेव पिच्छिला । एवं च चरणावस्थित्य-
नर्हत्वं द्योत्यते । भूर्गन्तव्या । गन्तव्येत्यनेनावश्यकत्वं ध्वन्यते । एवं च त्वदपेक्षया
ममातिशयितदुःखमित्यावेद्यते ॥
नायको वयस्यं वक्ति--</p>
<lg>
  <l>जृम्भोत्तम्भितदोर्युगयन्त्रितताटङ्कपीडितकपोलम् ।</l>
  <l>तस्याः स्मरामि जलकणलुलिताञ्जनमलसदृष्टि मुखम् ॥ २३६ ॥</l>
</lg>
<p>जृम्भेति । जृम्भयोर्ध्वीकृतहस्तद्वयसंघट्टितताटङ्कपीडितकपोलम् । जलकणैः । नेत्र-
संबन्धिभिरिति भावः । लुलितं विस्तृतमञ्जनं यस्य । अलसा दृष्टिर्यस्य तस्या मुखं
स्मरामि । जातिवर्णनमेतत् ॥</p>
<pb n="102" />
<p>काचित् काञ्चिद्वक्ति--</p>
<lg>
  <l>जागरयित्वा पुरुषं परं वने सर्वतो मुखं हरसि ।</l>
  <l>अयि शरदनुरूपं तव शीलमिदं जातिशालिन्याः ॥ २३७ ॥</l>
</lg>
<p>जागरेति । वने कानने । पक्षे जले। शयितमिति भावः । परमन्यम् । पक्ष उत्कृष्टम् ।
पुरुषं जागरयित्वा सर्वतो मुखं वदनं हरसि । कमपि लज्जया न संमुखमवलोकयसी-
त्यर्थः । पक्षे जलं हरसि । वर्षासमयस्य समाप्तत्वादिति भावः । अयि शरत्तुल्यं शीलं
जातिशालिन्या इति साकूतोक्ति: । पक्षे मालतीशालिन्याः । तवेदं शीलम् । एवं च
किमर्थमत्र मिथ्या लज्जां नाटयसीति व्यज्यते । यद्वान्योक्त्या काचिद्वक्ति । अयि शर-
जातिशालिन्या इदं शीलं तवानुरूपं नान्यस्या इति भावः । तदेवाह--जागरयित्वेत्यादि ॥
कश्चित् सखायं वक्ति--</p>
<lg>
  <l>जीवामि लङ्घितावधिदिनेति लज्जावशेन गेहिन्या ।</l>
  <l>मयि निह्नुतोऽपि बाष्पैरसंवरैर्व्यञ्जितो मानः ॥ २३८ ॥</l>
</lg>
<p>जीवामीति । लङ्घितमवधिदिनं यया जीवामीति लज्जावशेन । वशपदेन स्वात-
न्त्र्याभावो व्यज्यते । गेहिन्या गोपितोऽपि मानः संवर्तुमशक्यैर्बाष्पैर्ज्ञापितः । एवं च
मानसंगोपनमसंभवीति व्यज्यते ॥
काचित् कञ्चिदन्योक्त्या वक्ति –</p>
<lg>
  <l>जाल्मो गुरुः सुधृष्टो वामेतरचरणभेद उपदेशः ।</l>
  <l>ख्यातिर्गुणधवल इति भ्रमसि सुखं वृषभ रथ्यासु ॥ २३९ ॥</l>
</lg>
<p>जाल्म इति । सुधृष्टो जाल्मः । 'सुघृष्टः' इति पाठ उपदेश विशेषणमेतत् । असमी-
क्ष्यकारी गुरुरुपदेष्टा । एवं च तवोपदेशकोऽपि न समीचीन इति व्यज्यते । वामं स-
व्यम् । 'वामं शरीरं सव्यं स्यात्' इत्यमरः । इतरो दक्षिणस्तयोर्भेदः, अयं वामोऽयं द-
क्षिण इति स एवोपदेशो ज्ञानम् । नान्यदिति भावः । यद्वा दक्षिणेन ताडनं तदेव त-
वोपदेशकमित्यर्थः । वृषभ रथ्यासु सुखं भ्रमसि । एवं च यथा शिक्षितवृषभो रथ्यासु भ्र-
मति तथा त्वमिति व्यज्यते । तेन च नास्मद्गृहागमनयोग्यस्त्वमसीति द्योत्यते ॥
वैद्यासक्ता काचिद्वक्ति--</p>
<lg>
  <l>ज्वर वीतौषधबाघस्तिष्ठ सुखं दत्तमङ्गमखिलं ते ।</l>
  <l>असुलभलोकाकर्षणपाषाण सखे न मोक्ष्यसि माम् ॥ २४० ॥</l>
</lg>
<p>ज्वरेति । हे ज्वर, वीतापगतौषधिबाधा यस्यैतादृशस्त्वं सुखं तिष्ठ । समग्रमङ्गं तव
दत्तम् । सर्वाङ्गमभिव्याप्य तिष्ठेति भावः । दुर्लभो यो वैद्यरूपो लोकस्तस्याकर्षणपाषाण ।
'चुम्बकः' इति लोके प्रसिद्धिः । एवं च नायके स्वत आगमनशून्यत्वमावेद्यते । सखे, मां
न मोक्ष्यसि । मा मुञ्चेत्यर्थः । एवं च त्वयि विद्यमाने तदागमनं नान्यथेति द्योत्यते ॥</p>
<pb n="103" />
<p>एतत्संगत्या स्वनिर्वाहो मया विधेय इति बुद्ध्या कृतनायकसङ्गां नायिकामप्रतिष्ठा-
दिभीत्या परित्यक्तुमुद्यतं नायकं सखा समुपदिशति--</p>
<lg>
  <l>जीवनहेतोर्मिलिता मुञ्चति करकर्षणेन न खलु त्वाम् ।</l>
  <l>नौरिव निम्नं सुन्दर मुग्धा तद्विरसतां मा गाः ॥ २४१ ॥</l>
</lg>
<p>जीवनहेतोरिति । जीविकार्ये मिलिता करकर्षणेन परित्यागेन खलु त्वां न मुञ्चति ।
निम्नं नौरिव तद्विरसतां मा गाः । एवं च त्वयैतत्त्यागे क्रियमाणेऽपि नेयं त्वां त्यक्ष्यति
परं त्वेतत्करणे लौकिकमात्रं भावीति व्यज्यते । यद्वा नायिकासखी नायकं वक्ति--
जीवनेति । जीवनाद्धेतोर्मिलिता जीवनार्थमागता । पक्षे जलहेतुना समागता । मुग्धा
सुन्दरी । एवं च स्पृहणीयत्वं व्यज्यते । करस्य हस्तस्याकर्षणेन । पक्षे करेण कर्षणं तेन ।
त्वां न खलु मुञ्चति । नौरिव निम्नम् । पक्षे नीचम् । अत एव मूढार्थकं मुग्धेति पद-
मर्थवत् । हे सुन्दर तद्वैरस्यम् । पक्षे जलाभाववत्त्वं मा गाः । एवं च नीचमपि त्वा-
मियं विरहभीता न त्यजतीति ध्वन्यते ॥
काचित् कञ्चिद्वक्ति--</p>
<lg>
  <l>जघनेन चापलं तव वितन्वतेयं तनूकृतापि तनुः ।</l>
  <l>शाणेनेव क्षीणा स्मरासिपुत्री मनो विशति ॥ २४२ ॥</l>
</lg>
<p>जघनेनेति । चाञ्चल्यं विस्तारयता जघनेन । अर्थादन्याङ्गनानाम् । क्षीणीकृतापि तव
तनुः । शाणेन क्षीणा । एवं च तीक्ष्णत्वं ध्वन्यते । स्मरस्य च्छुरिकेव मनो विशति ।
एवं च विपरीतसुरतातिशयक्षीणमपि तव शरीरं मन्मनोमोहजनकमिति व्यज्यते । एवं
चैतादृशं दृष्ट्वापि न मया मानः क्रियत इति स्वस्मिन् साधुत्वमावेदयति ॥
कश्चित् काञ्चिद्वक्ति--</p>
<lg>
  <l>ज्योत्स्नाभिसारसमुचितवेषे व्याकोशमल्लिकोत्तंसे ।</l>
  <l>विशसि मनो निशितेव स्मरस्य कुमुदत्सरुच्छुरिका ॥ २४३ ॥</l>
</lg>
<p>ज्योत्स्नेति । ज्योत्स्नाभिसारे समुचितो वेषो यस्यास्तत्संबुद्धिः । अत एव विकसित-
मल्लिकोत्तंसे । निशिता स्मरस्य कुमुदरूपा त्सरुर्मुष्टिर्यस्याः । 'त्सरुः खड्गादिमुष्टौ स्यात्'
इत्यमरः । एतादृशी छुरिकेव मनो विशसि । एवं चैतादृशवेषशालिनी त्वं मन्मनोमोह-
जनिकेति द्योत्यते ॥
कश्चित् कञ्चिदुपदिशति--</p>
<lg>
  <l>जड सुखयसि परतरुणीं गृहिणीं कारयसि केवलं सेवाम् ।</l>
  <l>आलिङ्गति दिशमिन्दुः स्वां तु शिलां वारि वाहयति ॥ २४४ ॥</l>
</lg>
<p>जडेति । जड । एवं च कार्याकार्यविवेकवैधुर्यं ध्वन्यते । पक्षे जलमयत्वाज्जडत्वम् ॥
परयुवतिम् । तरुणीपदेन साहजिकरूपशालिवाभावो व्यज्यते । सुखयसि । स्वाङ्गनां</p>
<pb n="104" />
<p>केवलं सेवां कारयसि । अत्र दृष्टान्तमाह--चन्द्रो दिशम् । अन्यस्वामिकामिति भावः ।
आलिङ्गति । स्वशिलां जलं वाहयति । चन्द्रोदये चन्द्रोपलानां स्रवणं भवतीति लोकप्र-
सिद्धिः । एवं चैतादृशकार्यकरणेन कलङ्कादिभूषणमेव भावीति द्योत्यते । तेन नैतादृक्क-
र्तव्यमिति । यद्वा सिद्धानुवादोत्तरमुत्तरार्धम् । अत्र 'वह प्रापणे' इत्यस्य गत्यर्थकत्वेन
प्राप्तद्विकर्मकत्वस्य 'नीवह्योर्न' इति निषेधाच्छिलयेत्यपेक्षितम् ॥
कश्चित् काञ्चित् संकेतं वक्ति--</p>
<lg>
  <l>ज्योत्स्नागर्मितसैकतमध्यगतः स्फुरति यामुनः पूरः ।</l>
  <l>दुग्धनिधौ नागाधिपतल्पतले सुप्त इव कृष्णः ॥ २४५ ॥</l>
</lg>
<p>ज्योस्नेति । चन्द्रिकायां गर्भितम् । चन्द्रिकागर्भमध्ये स्थितमिति भावः । क्वचित् 'ग-
र्वित' इति पाठः । यत्सैकतं तन्मध्यगतः । एवं च शरत्कालीनवं व्यज्यते । तेन च
निश्चलत्वम् । यमुनासंबन्धी पूरः स्फुरति । अत्र दृष्टान्तमाह--दुग्धसमुद्रे शेषरूपतल्पे ।
तल्पपदेन समत्वमावेद्यते । सुप्तः कृष्ण इव । सर्वतो विद्यमानतयोज्ज्वलतया चन्द्रि-
कायां दुग्धोदधेः, लम्बतया श्वैत्याच्च सैकते शेषस्य, श्यामतया निश्चलतया च पूरे
सुप्तकृष्णस्योपमानता । एवं च यमुनासैकततुल्यं नान्यस्थलमिति व्यज्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता जकारव्रज्या ।
----------------------------------
झकारव्रज्या ।
नायको नायिकां वक्ति--</p>
<lg>
  <l>झंकृतकङ्कणपाणिक्षेपैः स्तम्भावलम्बनैर्मौनैः ।</l>
  <l>शोभयसि शुष्करुदितैरपि सुन्दरि मन्दिरद्वारम् ॥ २४६ ॥</l>
</lg>
<p>झंकृतेति । एवं चैतादृश्यवस्थितिरपि नवोढाया नायकसुखदेति व्यज्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता झकारव्रज्या ।
-------------------------------
ढकारव्रज्या ।
नायकीयोन्माददौःशील्यमाकलय्य स्वयमपि दौःशील्यं विधातुकामां नायिकां सखी वक्ति--</p>
<lg>
  <l>ढक्कामाहत्य मदं वितन्वते करिण इव चिरं पुरुषाः ।</l>
  <l>स्त्रीणां करिणीनामिव मदः पुनः स्वकुलनाशाय ॥ २४७ ॥</l>
</lg>
<p>ढक्कामिति । ढक्कां यशःपटहम् । 'स्याद्यशःपटहो ढक्का' इत्यमरः । आहत्य वादयित्वा
करिण इव पुरुषा बहुकालं मदं वितन्वते । करिणीनामिव स्त्रीणां मदः स्वकुलनाशाय ।
एवं च पुरुषाणां मदो यशसे, स्त्रीणां तु कुलकलङ्कायेति व्यज्यते । तेन च त्वयैतादृङ्मनसि
न विधेयमिति ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता ढकारव्रज्या ।
--------------------------------</p>
<pb n="105" />
<p>तकारव्रज्या ।
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>तां तापयन्ति मन्मथबाणास्त्वां प्रीणयन्ति बत सुभग ।</l>
  <l>तपनकरास्तपनशिलां ज्वलयन्ति विधुं मधुरयन्ति ॥ २४८ ॥</l>
</lg>
<p>तामिति । मदनबाणास्तां नायिकां तापयन्ति । त एव बाणा हे सुभग । दुःखदबा-
णानामपि सुखदत्वादिति भावः । त्वां तोषयन्ति । एवं च कथमन्यथैतादृशविलम्बकरण-
मिति व्यज्यते । नन्विदमसंभवीत्यत्र दृष्टान्तमाह--तपनकिरणास्तपनशिलां ज्वलय-
न्ति । तपनशिलासाम्येन स्वीयात्वप्रतिपादनेन तत्तुल्यत्वं नायिकायामावेद्यते । विधुं च-
न्द्रम् । एवं च चन्द्रसाम्येन संतापापनोदकत्वेन नायिकास्पृहणीयत्वं नायके द्योत्यते ।
यद्वा मदनतुल्यरूपशालित्वेन मदनविरोधित्वं नायके द्योत्यते । तेन च पीडाकरणौचि-
त्येऽपि तदकरणेनाज्ञत्वं मदने व्यज्यते । मधुरयन्ति । पुष्टिदत्वादिति भावः । यद्वा त-
पनखिन्नानामेव चन्द्रमसः सुखदत्वादिति भावः ॥
कश्चित् काञ्चिद्वक्ति--</p>
<lg>
  <l>तव सुतनु सानुमत्या बहुधातुजनितनितम्बरागायाः ।</l>
  <l>गिरिवरभुव इव लाभेनाप्नोमि द्व्यङ्गुलेन दिवम् ॥ २४९ ॥</l>
</lg>
<p>तवेति । हे सुतनु । एवं च स्पृहणीयत्वं ध्वन्यते । यद्वदसि तद्विधेयं मयेत्यनुमतिस-
हितायाः । पक्षे शिखरवत्याः । तु इति निश्चयेन बहुप्रकारमुत्पादितो नितम्बे रागः
प्रीतिर्यया तस्याः । पक्षे बहुप्रकारगैरिकादिधातुभिर्जनितो नितम्बे कटके । 'कटकोऽस्त्री
नितम्बोऽद्रेः' इत्यमरः । रागो लौहित्यादिर्यस्याः । हिमालयवसुधाया इव तव लाभेन
द्व्यङ्गुलेन स्वर्गं प्राप्नोमि । लाभे इति छेदे नञि काकुः । 'आप्नोति' इति पाठे मल्लक्षण
इति शेषः । एवं च तव प्राप्तिहर्षोत्कर्षेणाहं स्वर्गमपि द्व्यङ्गुलान्तरितं मन्य इति भावः ।
एवं च त्वत्प्राप्त्या स्वर्गसुखमपि ममात्यन्तनिकटमिति व्यज्यते ॥
काचिन्नायिका सखीं वक्ति--</p>
<lg>
  <l>त्यक्तो मुञ्चति जीवनमुज्झति नानुग्रहेऽपि लोलत्वम् ।</l>
  <l>किं प्रावृषेव पद्माकरस्य करणीयमस्य मया ॥ २५० ॥</l>
</lg>
<p>व्यक्त इति। त्यक्तो जीवनं प्राणनम् । पक्षे जलम् । त्यजति । अनुग्रहेऽपि लोलत्वं
चाञ्चल्यम् । पक्ष उच्छलद्वीचिकत्वम् । नोज्झति । प्रावृषा पद्माकरस्येव तडागस्येव म
यास्य किं करणीयम् । एवं चोभयतोऽपि काठिन्यं ममेति ध्वन्यते ॥
नायिकात्यन्तं त्वद्विरहक्षीणेति सखी नायकं वक्ति--</p>
<lg>
  <l>त्वद्विरहापदि पाण्डुस्तन्वङ्गी छाययैव केवलया ।</l>
  <l>हंसीव ज्योत्स्नायां सा सुभग प्रत्यभिज्ञेया ॥ २५१ ॥</l>
</lg>
<pb n="106" />
<p>त्वद्विरहेति । सा तन्वङ्गी त्वद्विरहापदि पाण्डुः केवलया छाययैव कान्त्यैव । पक्षे
यथाश्रुतम् । ज्योत्स्नायां हंसीव । सुभग । यत एतादृश्यपि नायिका वद्विरहेण खिद्यत
इति भावः । प्रत्यभिज्ञेया ज्ञातुं शक्या । एवं चातिक्षीणत्वमावेद्यते । अत्र केवलपदैव-
कारान्यतरदनर्थकमाभाति ॥
कथमितो गतेयमिति वादिनं नायकं नायिकासखी वक्ति--</p>
<lg>
  <l>त्वयि विनिवेशितचित्ता सुभग गता केवलेन कायेन ।</l>
  <l>घनजालरुद्धमीना नदीव सा नीरमात्रेण ॥ २५२ ॥</l>
</lg>
<p>त्वयीति । हे सुभग । नायिकासक्तिमत्त्वादिति भावः । त्वयि विनिवेशितम् । बुद्धि-
पुरःसरं स्थापितमिति भावः । चित्तं यया । केवलशरीरेण गता । अत्र दृष्टान्तमाह--
निबिडं यज्जालं तद्रुद्धमत्स्या जलमात्रेण गता नदीव । चेतसश्चाञ्चल्यान्मत्स्यसाम्यम् ।
एवं च पुनरधुनैवायास्यतीति व्यज्यते ॥
त्वय्यासक्तिवशादत्यन्तदुःखभागिनी कामिनी संजातेति सखी नायकं वक्ति--</p>
<lg>
  <l>त्वयि संसक्तं तस्याः कठोरतर हृदयमसमशरतरलम् ।</l>
  <l>मारुतचलमञ्चलमिव कण्टकसंपर्कतः स्फुटितम् ॥ २५३ ॥</l>
</lg>
<p>त्वयीति । हे कठोरतर । कथमन्यथैतादृशमौदासीन्यं कृतवानिति भावः । त्वयि
संसक्तम् । आसक्तिमदिति भावः । 'सं'पदेन निःसारणानर्हत्वं व्यज्यते । मदनचपलं
तस्या हृदयं वायुचञ्चलं कण्टकसंलग्नमञ्चलमिव विदीर्णम् । मारुतचलकण्टकसंपर्कार्था-
न्वययोग्यतावशादञ्चलपदेन चेलाञ्चल एव प्रतीयते । अत्र कण्टकसाम्येन नायिकाचि-
त्तवेधक्षमत्वं नायके द्योत्यते । अञ्चलसाम्येन नायिकाचित्ते सूक्ष्मत्वं ध्वन्यते । मारुत-
साम्येन सर्वगततया निवारणानर्हत्वं ध्वन्यते ॥
यद्यपि त्वया भूयसी लज्जा क्रियते तथापि बहवस्त्वय्यासक्ता इति सखी नायिका-
मन्योक्त्या वक्ति--</p>
<lg>
  <l>त्वमसूर्यंपश्या सखि पदमपि न विनापवारणं भ्रमसि ।</l>
  <l>छाये किमिह विधेयं मुञ्चन्ति न मूर्तिमन्तस्त्वाम् ॥ २५४ ॥</l>
</lg>
<p>त्वमिति । हे छायारूपे सखि, त्वं सूर्यदर्शनं न करोषि । छायाया अधोमुखत्वान्न
सूर्यदर्शनम् । अपवारणमन्तर्धिं विना पदमपि न भ्रमसि छायाप्यन्तर्धिं विना न
भवति । मूर्तिमन्तः । सर्वेऽपीत्यर्थः । पक्ष इयत्तावच्छिन्नपरिमाणशालिनः । त्वां न
मुञ्चन्ति । इह किं विधेयम् । एवं चात्र न ममापि प्रतीकारस्फुरणमिति भावः । एवं
चैतादृशलजाकरणमनर्थकमिति द्योयते ॥
नायिकाविरहदुःखातिशयं सखी नायकं वक्ति--</p>
<lg>
  <l>तव विरहे विस्तारितरजनौ जनितेन्दुचन्दनद्वेषे ।</l>
  <l>बिसिनीव माघमासे विना हुताशेन सा दुग्धा ॥ २५५ ॥</l>
</lg>
<pb n="107" />
<p>तवेति । विस्तारिता रात्रिर्येन तस्मिन् । निद्राविरहादिति भावः । पक्षे रात्रिमान-
स्याधिक्यादिति भावः । जनितश्चन्द्रचन्दनद्वेषो येन तस्मिन् । उद्दीपकत्वादिति भावः ।
पक्षे शीतलत्वादिति भावः । तव विरहे माघमासे बिसिनीव सा हुताशेनाग्निं विना
दग्धा । हिमेन बिसिनीविनाशनमिति लोकप्रसिद्धिः । एवं चैतादृशैतत्कालीननायिकाव-
स्थास्ति, अतोऽवश्यं भवतानुग्राह्या सेति व्यज्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>तरुणि त्वच्चरणाहतिकुसुमितकङ्केल्लिकोरकप्रकरम् ।</l>
  <l>कुटिलचरिता सपत्नी न पिबति बत शोकविकलापि ॥ २५६ ॥</l>
</lg>
<p>तरुणीति । हे तरुणि । एवं च नायकासक्तियोग्यत्वं ध्वन्यते । त्वच्चरणहननजात-
कुसुमाशोककलिकासमूहम् । 'कलिका कोरकः पुमान्' इत्यमरः । कुटिलाचरणा स-
पत्नी शोकविकलापि न पिबति । अशोककलिकारसपानेन शोकहानिर्भवतीति लौकि-
कम् । एवं च शोककालेऽप्येतादृशद्वेषवत्त्वेन समीचीनकाले किं किं तया न विधेयम्,
अतस्त्वया सर्वप्रकारेण मानाद्यपहाय नायकोऽनुरञ्जनीय इति व्यज्यते ॥
कश्चिन्नायिकां स्तौति--</p>
<lg>
  <l>तल्पे प्रभुरिव गुरुरिव मनसिजतन्त्रे श्रमे भुजिष्येव ।</l>
  <l>गेहे श्रीरिव गुरुजनपुरतो मूर्तेव सा व्रीडा ॥ २५७ ॥</l>
</lg>
<p>तल्प इति । प्रभुरिव । प्रौढिमत्त्वादिति भावः । तन्त्रं शास्त्रम् । गुरुरिव । मन्मथ-
कलाकलापोपदेशकत्वादिति भावः । भुजिष्या दासी । एवं चैतादृशी नायिका नान्येति
ध्वन्यते । तेन च तद्वत्तया स्वाधिक्यम् ॥
नायकः पुष्पितां नायिकां वक्ति--</p>
<lg>
  <l>त्वमलभ्या मम तावन्मोक्तुमशक्तस्य संमुखं व्रजतः ।</l>
  <l>छायेवापसरन्ती भित्त्या न निवार्यसे यावत् ॥ २५८ ॥</l>
</lg>
<p>त्वमिति । संमुखं व्रजतः । चुम्बनार्थमिति भावः । मोक्तुमशक्तस्य । आसक्तिविशे-
षादिति भावः । ममापसरन्ती । स्पर्शानर्हत्वादिति भावः । भित्त्या कुड्यादिना यावन्न
निवार्यसेऽपसरणप्रतिबन्धवती न क्रियसे तावत्त्वं छायेवालभ्या । एवं च भित्तिप्रतिब-
द्धापसरणां त्वां विना चुम्बनदानं न विमोचयामीति व्यज्यते ॥
वसन्ते मदनवेदनासह्येति कश्चिद्वक्ति--</p>
<lg>
  <l>तपसा क्लेशित एष प्रौढबलो न खलु फाल्गुनेऽप्यासीत् ।</l>
  <l>मधुना प्रमत्तमधुना को मदनं मिहिरमिव सहते ॥ २५९ ॥</l>
</lg>
<p>तपसेति । तपसा तपश्चर्यया । पक्षे माघमासेन । क्लेशिते । कार्श्यं गमित इत्यर्थः ।
पक्षे क्लेशिते । निस्तेजस्कत्वादिति भावः । फाल्गुनेऽर्जुने । पक्षे मासि । एष मदनो मि.
हिरश्च । खलु निश्चयेन प्रौढबलोऽपि । अपिना प्रौढबलफलजनकत्वाभावो द्योत्यते ।</p>
<pb n="108" />
<p>नासीत् । तपस्याविभेदायेन्द्रप्रहितोर्वश्याद्यप्सरोऽवगणनादिति भावः । पक्ष उत्तरायणा-
रम्भात् प्रौढतेजसोऽभावादिति भावः । अधुना मधुना वसन्तेन । पक्षे चैत्रेण । मधुप-
दमुन्मादजनकतां व्यञ्जयति । उत्कृष्टोन्मादशालिनं मदनं सूर्यमिव कः सहते । न कोऽपी-
त्यर्थः । एवं च वसन्तकालीनमदनवेदनात्यन्तमसह्येति ध्वन्यते ॥
सखी नायिकाविरहं नायकं प्रति वक्ति--</p>
<lg>
  <l>त्वद्गमन दिवसगणनावलक्षरेखाभिरङ्किता सुभग ।</l>
  <l>गण्डस्थलीव तस्याः पाण्डुरिता भवनभित्तिरपि ॥ २६० ॥</l>
</lg>
<p>त्वद्गमनेति । हे सुभग । एतादृशनायिकाप्रेमसत्त्वादिति भावः । त्वद्गमनदिवसानां
गणना तया वलक्षा अर्जुनाः । 'वलक्षो धवलोऽर्जुनः' इत्यमरः । या रेखास्ताभिश्चि-
ह्निता । इयन्ति दिनानि जातानीति ज्ञानार्थमिति भावः । तस्या गेहभित्तिरपि । एवं च
तद्गेहभुवः का वार्तेति व्यज्यते । गण्डस्थलीव पाण्डुरिता । एवं चातःपरं विलम्बो न
विधेय इति ध्वन्यते ॥
कथमन्यत्रानुरागं बध्नासीति वादिनीं सखीं प्रति नायिका वक्ति--</p>
<lg>
  <l>तस्याग्राम्यस्याहं सखि वक्रस्निग्धमधुरया दृष्ट्या ।</l>
  <l>विद्धा तदेकनेया पोत्रिण इव दंष्ट्रया धरणी ॥ २६१ ॥</l>
</lg>
<p>तस्येति । हे सखि । एवं च रहस्यकथनार्हत्वं ध्वन्यते । तस्याग्राम्यस्य । नागरिक-
स्येत्यर्थः । एवं चासक्तियोग्यत्वं ध्वन्यते । पक्षे वन्यस्य । वक्रप्रेमार्द्रसु-
न्दरया । 'तीव्र' इति पाठे वेधजननयोग्यत्वं ध्वन्यते । दृष्ट्या विद्धा । विद्धापदमन्यत्र-
गमनानर्हत्वं ध्वनयति । पोत्रिणो वराहस्य दंष्ट्रया धरणीवाहं तदेकनेया । एवं चान्यत्र
न ममानुराग इति द्योत्यते ॥
बहुतरवसुसत्त्वेऽपि कुग्रामे वसतौ केवलं तव चण्डालानुग्रहादेवाभयं नान्यत इति
कश्चित् कञ्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>त्वयि कुग्रामवद्रुम वैश्रवणो वसतु वसतु वा लक्ष्मीः ।</l>
  <l>पामरकुठारपातात् कासरशिरसैव ते रक्षा ॥ २६२ ॥</l>
</lg>
<p>त्वयीति । हे कुग्रामवद्रुम । कुग्रामपदेन निवासानर्हत्वं द्योत्यते । वैश्रवणः कुबेरः ।
'किंनरेशो वैश्रवणः' इत्यमरः । वसतु । अथवा लक्ष्मीर्वसतु । पामरस्य मूर्खस्य । एवं
च कुबेरादिवसत्या छेदानर्हत्वज्ञानविधुरत्वमिति व्यज्यते । कुठारपातात्ते रक्षणं कास-
रस्य महिषस्य मस्तकेनैव । चण्डालसदनस्थत्वादिति भावः ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>तव मुखर वदनदोषं सहमाना मोक्तुमक्षमा सुतनुः ।</l>
  <l>सा वहति विट भवन्तं घुणमन्तः शालभञ्जीव ॥ २६३ ॥</l>
</lg>
<p>तवेति । हे मुखर, तव वदनदोषम् । असमीचीनभाषणमिति भावः । यद्वा मुखरं</p>
<pb n="109" />
<p>यद्वदनं तद्दोषम् । सहमाना मोक्तुम् । त्वामिति भावः । असमर्था । प्रेमवशादिति भावः।
यद्वा कुलीनत्वादिति भावः । सा सुतनुः । विट । न केवलं मौखर्यम्, अपि तु वेश्यासक्ति-
रिति भावः । एवं चोपदेशानर्हत्वं ध्वन्यते । भवन्तं शालभञ्जी काष्ठपुत्तलिका की-
टमिवान्तः स्वान्तेऽभ्यन्तरे च वहति । एवं चैतादृशान्तर्दुःखशुष्काया अपि तस्यास्त-
वासक्तिरिति व्यज्यते ॥
निरपराधिनं कमपि कैश्चित्पीड्यमानं कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>तृणमुखमपि न खलु त्वां त्यजन्त्यमी हरिण वैरिणः शबराः ।</l>
  <l>यशसैव जीवितमिदं त्यज योजितशृङ्गसङ्ग्रामः ॥ २६४ ॥</l>
</lg>
<p>तृणेति । हे हरिण । तृणमुखमपि । एवं च निरपराधित्वं ध्वन्यते । शरणागतत्वं
वा । त्वाममी वैरिणः शबरा भिल्लाः खलु न त्यजन्ति । योजितविषाणयुद्धः कीर्त्यैवेदं
जीवितं त्यज । एवं च प्रबलदुष्टशत्रुसंबन्धे युद्धेन मरणमेव वरम्, न पुनः पलायनं न
वा शरणगमनमिति व्यज्यते ॥
कश्चिन्मानिनीचरणकृतमस्तकं तया च केशाकर्षणेन दूरीकृतमात्मानं विज्ञाय
तां वक्ति--</p>
<lg>
  <l>त्रिपुररिपोरिव गङ्गा मम मानिनि जनितमदनदाहस्य ।</l>
  <l>जीवनमर्पितशिरसो ददासि चिकुरग्रहेणैव ॥ २६५ ॥</l>
</lg>
<p>त्रिपुरेति । हे मानिनि । जनितो मदनेन दाहो यस्य । पक्षे जनितो मदनस्य दाहो
येन । तस्य । अर्पितमस्तकस्य । चरणयोः प्रणामार्थम् । पक्षे गङ्गाप्रवाहग्रहणार्थमिति
भावः । मम त्वं महादेवस्य गङ्गेव चिकुरग्रहेणैव जीवनं जीवितम् । पक्षे जलम् । द-
दासि । एवं च त्वत्कोपेन जीवननिरपेक्षस्यापि मम क्रोधादपि त्वत्करस्पर्शेन संताप-
निवृत्त्या जीवनं किमु प्रसन्नया त्वया कृतकरस्पर्शेन जीवनमिति ध्वन्यते । गौतमप्रा-
र्थितगङ्गाप्रवाहसहनाय शिवेन शिरोऽग्रे कृतमिति पुराणप्रसिद्धिः ॥
सर्वसखीगोपनपुरःसरं केनचित् सह संयोगं विधाय स्थितां नायिकां काचित् सखी
'त्वया तेन सह रतं कृतम्' इति वक्ति--</p>
<lg>
  <l>त्वत्संकथासु मुखरः सनिन्दसानन्दसावहित्थ इव ।</l>
  <l>स खलु सखीनां निभृतं त्वया कृतार्थीकृतः सुभगः ॥ २६६ ॥</l>
</lg>
<p>त्वदिति । स सुभगो नायकः । सुभगत्वं च सकलसखीगोपनपुरःसरं नायिकया कृ-
तार्थीकरणात् । खलु निश्चयेन सखीनां निभृतं यथा स्यात्तथा । सखीनामिति बहुवच-
नेन सर्वप्रतारणकरणसमर्थायास्तव मत्प्रतारणमतिसुकरमित्यावेद्यते । त्वया कृतार्थी कृतः ।
यतस्त्वदीयसद्वार्तासु । क्वचिज्जायमानास्विति भावः । सनिन्द इव । कथमधन्यैरस्म-
त्सदृशैः सा द्रष्टुं शक्येति लोकगोपनार्थमिति भावः । सानन्द इव । तदानीं त्वत्सांनि-
ध्याभावेऽपि त्वत्संनिधानजनितानन्द इव । सावहित्थ इव । केनाप्यानन्दचिह्नं न वि-</p>
<pb n="110" />
<p>ज्ञेयमिति धियाकारगोपनवानिव । एवं चाकारगोपनस्याशक्यत्वं द्योत्यते । मुखरः । वारं-
वारं त्वत्कथासूत्तरप्रत्युत्तरकारी । एवं च यदि न तव तेन सह संगतिस्तर्हीदृग्व्यवहारस्त-
स्मिन् कथं भवेत् । अतस्त्वयास्मान् प्रतार्य तेन सह संगतिः कृतेति ध्वन्यते । 'पुरतः'
इति पाठे सखीनामस्मद्विधानां पुरतस्त्वद्वदनविनिःसृतमद्गोष्ठीषु सनिन्दसानन्दसावहित्थ
इव मुखरो वक्तुं प्रौढः । अतः खलु त्वया कृतार्थीकृतः । एवं च त्वया सहैतत्संगति-
रस्ति । कथमन्यथा त्वद्वदनविनिःसृतविचित्रवार्ताविज्ञोऽयमिति ध्वन्यते । यद्वा सखीनां
पुरतः सनिन्दसानन्दसावहित्य इव त्वद्विषयकवार्तासु मुखरः । सुभगः । एवं च संग-
तियोग्यत्वं ध्वन्यते । कृतार्थीकृत इति काक्वा प्रश्नः । एवं चैतादृशोऽहर्निशमस्मत्समक्षं
त्वदेकवार्ताविधानप्रवणः सुभगः कथमद्यापि नानुगृह्यते । अपि तु झटित्यनुप्राह्य इति
द्योत्यते ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>त्वयि सर्पति पथि दृष्टिः सुन्दर वृतिविवरनिर्गता तस्याः ।</l>
  <l>दरतरलभिन्नशैवलजाला शफरीव विस्फुरति ॥ २६७ ॥</l>
</lg>
<p>त्वयीति । हे सुन्दर । एवं च स्पृहणीयत्वं ध्वन्यते । त्वयि मार्गे चलति सति वृति-
रावरणं तद्रन्ध्रनिर्गता तस्या दृष्टिः शैवालप्राबल्यादीषच्चञ्चला चासौ भिन्नशैवलजाला
च शफरीव विस्फुरति । एवं च त्वय्यासक्ता सेति व्यज्यते ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>ते सुतनु शून्यहृदया ये शङ्खं शून्यहृदयमभिदधति ।</l>
  <l>अङ्गीकृतकरपत्त्रो यस्तव हस्तग्रहं कुरुते ॥ २६८ ॥</l>
</lg>
<p>त इति । हे सुतनु, ये शङ्खं हृदयविहीनम् । यद्वा शून्यं बिन्दुरूपमवकाशरूपं वा हृ-
दयं यस्य । एवं च प्राणशून्यत्वं व्यज्यते । वदन्ति ते हृदयशून्याः । मूर्खा इत्यर्थः । यः
शङ्खोऽङ्गीकृतक्रकचस्तव करग्रहं कुरुते । एवं च यद्ययं हृदयशून्यः स्यात्तर्हि त्वत्करग्र-
हाय करपत्त्रविदारणं कथं कुर्यादिति भावः । एवं च प्रयागे करपत्त्रकर्तनादिना येन श-
रीरं त्यज्यते तेनैव त्वं प्राप्येति व्यज्यते ॥
कञ्चन महान्तं गुणिनं सीदन्तं कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>ते श्रेष्ठिनः क्व संप्रति शक्रध्वज यैः कृतस्तवोच्छ्रायः ।</l>
  <l>ईषां वा मेढिं वाधुनातनास्त्वां विधित्सन्ति ॥ २६९ ॥</l>
</lg>
<p>ते श्रेष्ठिन इति । हे शक्रध्वज, यैस्तवोच्छ्रायः कृतस्ते श्रेष्ठिनो वणिजः संप्रति क्व ।
न सन्तीति भावः । अधुनातनास्त्वामीषां लाङ्गलपद्धति मेढिं स्तम्भं वा करिष्यन्ति ।
एवं चाधुनातनेषु मूर्खत्वं व्यज्यते । एवं च प्राक्तनगुणज्ञसद्वृत्तलोकाभावात्तवैतादृशाः
"क्लेशा इति व्यज्यते । यद्वा प्राक्तनलोकाभावान तव तथाविधप्रतिष्ठादीति कश्चित् कञ्चिद-
न्योक्त्या वक्ति ॥</p>
<pb n="111" />
<p>प्रेम्णो भङ्गे पुनः संधानं न तथेति काचित्कांचिद्वक्ति--</p>
<lg>
  <l>तानवमेत्य च्छिन्नः परोपहितरागमदनसंघटितः ।</l>
  <l>कर्ण इव कामिनीनां न शोभते निर्भरः प्रेमा ॥ २७० ॥</l>
</lg>
<p>तानवमिति । तानवं स्वल्पत्वम् । पक्षे कार्यम् । प्राप्य च्छिन्नः । परेणान्येनोप-
हितः कृतो रागोऽनुरागो यस्य स चासौ मन्मथसंघटितश्च । कस्यचिद्वचनेन मन्मथ-
विकारेण च पुनः कृत इति भावः । पक्षे परेणान्येन द्रव्येणोपहितो रागो रञ्जनं यस्यै-
तादृङ्मदनेन मधूच्छिष्टेन संधानं नीतः कामिनीनां प्रेमा कर्ण इव निर्भर आधिक्यशून्यः ।
पक्षे भरासहः । न शोभते । 'विराजते' इति पाठे काकुः । एवं च त्वया तथा न वि-
धेयं यथा प्रेमभङ्गो भवेदिति ध्वन्यते ॥
'तथाविधगुणाभाववति महन्नामकरणं विडम्बनमात्रफलकम्' इति कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>तस्मिन् गतार्द्रभावे वीतरसे शुण्ठिशकल इव पुरुषे ।</l>
  <l>अपि भूतिभाजि मलिने नागरशब्दो विडम्बाय ॥ २७१ ॥</l>
</lg>
<p>तस्मिन्निति । तस्मिन् गत आर्द्रभावः करुणा । पक्षे आर्द्रत्वम् । तस्मिन्नपि । अपि-
रग्रेऽप्यन्वेति । वीतो रसः शृङ्गारादिः । पक्षे पुराणत्वाद्गततिक्तादिरसे । 'गतार्द्रभावे
इत्यस्य विवरणं वीतरसे' इति ऋजवः । भूतिरैश्वर्यम् । पक्षे भस्मादि । तद्वति । मलिने
पापवति । पक्ष उज्ज्वलत्वाभाववति । पुरुषे शुण्ठिशकल इव । शकलपदेनानुपयुक्तत्वं
ध्वन्यते । नागरशब्दो विडम्बनाय। नगरे भवो नागरः । पक्षे 'अथ शुण्ठी महाषैधम् ।
स्त्रीनपुंसकयोर्विश्वं नागरं विश्वभेषजम् ॥' इत्यमरः ॥
कश्चिद्विपत्तौ कंचिदुद्दिश्य गतः, तेन च संभाषणादिविषयतामप्यनीतः कंचिद-
न्योक्त्या वक्ति--</p>
<lg>
  <l>तमसि घने विषमे पथि जम्बुकमुल्कामुखं प्रपन्नाः स्मः ।</l>
  <l>किं कुर्मः सोऽपि सखे स्थितो मुखं मुद्रयित्वैव ॥ २७२ ॥</l>
</lg>
<p>तमसीति । निबिडेऽन्धकारे, कठिनतरे पथि, उल्का मुखे यस्य तं जम्बुकं प्रपन्नाः
स्मः । एतन्मुखप्रकाशेनायं मार्गो विलङ्घनीय इति धियेति भावः । हे सखे । एवं च
दुःखकथनार्हत्वं द्योत्यते । सोऽपि मुखं मुद्रयित्वैव स्थितः । किमत्र कुर्मः । एवं चा-
स्माकं दुर्दैववशानीचावलम्बनमपि कर्तुमुद्यतानां न तत्र शब्दमात्रावलम्बनं किमुतान्य-
दिति ध्वन्यते ॥
कश्चित्कांचिदङ्गनां प्रति वक्ति--</p>
<lg>
  <l>त्वामभिलषतो मानिनि मम गरिमगुणोऽपि दोषतां यातः ।</l>
  <l>पङ्किलकूलां तटिनीं पिपासतः सिन्धुरस्येव ॥ २७३ ॥</l>
</lg>
<p>त्वामिति । हे मानिनि । मानः प्रतिष्ठा । त्वदभिलाषवतो मम पङ्किलतीरां नदीं ग-</p>
<pb n="112" />
<p>न्तुमिच्छतो गजस्येव गौरवगुणोऽपि दोषत्वं प्राप्तः । एवं च त्वत्सदने ममागमनस्यौ-
चित्येऽपि दुष्टप्रतिवेशिभयात्प्रतिष्ठावतोऽन्यत्स्वल्पजनवदागमनमसंभवीति स्वमहत्त्वं मह-
द्दोषत्वेन गणयामि, अतस्त्वयैव मत्सदने समागन्तव्यमिति प्रार्थयामीति ध्वन्यते । यद्वा
पराङ्गनां मानिनीं प्रति कश्चित्संदेशं प्रेषयति । एवं च मम वारंवारागमने दुष्टत्वत्प्रतिवे-
शिजनैरवश्यं ज्ञातव्यम् । अतो मानं त्यत्क्वा त्वयागन्तव्यमिति व्यज्यते ॥
परपुरुषसंयोगाभिलाषिणी काचिद्वक्ति--</p>
<lg>
  <l>तिमिरेऽपि दूरदृश्या कठिनाश्लेषे च रहसि मुखरा च ।</l>
  <l>शङ्खमयवलयराजी गृहपतिशिरसा सह स्फुटतु ॥ २७४ ॥</l>
</lg>
<p>तिमिर इति । अन्धकारेऽपि दूरतो दृश्या । श्वैत्यादिति भावः । आलिङ्गने क-
ठिना । एकान्ते मुखरा । शङ्खविकारकङ्कणपङ्क्तिः । गृहपतेर्न तु प्रियस्य । मस्तकेन
सह स्फुटतु । एवं च पतिमरणोत्तरं सुखेन मया स्वेच्छाविहारो विधेय इति व्यज्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>तव वृत्तेन गुणेन च समुचितसंपन्नकण्ठलुठनायाः ।</l>
  <l>हारस्रज इव सुन्दरि कृतः पुनर्नायकस्तरलः ॥ २७५ ॥</l>
</lg>
<p>तवेति । हे सुन्दरि । एवं चासक्तियोग्यत्वं व्यज्यते । समुचितप्राप्तालिङ्गनायाः ।
पक्षे समुचितं धनिनः कण्ठलुठनं यस्याः । हारस्रज इव मुक्तामालाया इव तव वृत्तेन
शीलेन । पक्षे वर्तुलेन । चातुर्यादिगुणेन । पक्षे सूत्रेण । नायकः कान्तः । पक्षे मु-
ख्यमणि: । तरलश्चञ्चलः । पक्षे हारमध्यगः । पुनर्वारंवारं कृतः । एवं च त्वच्छील-
गुणेष्वासक्त्या स्वधैर्यं परित्यज्य नायकस्त्वामेवानुचिन्तयन्नास्त इति व्यज्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता तकारव्रज्या ।
----------------------------
दकारव्रज्या ।
नायकोऽधुना गृहिणीमानापनोदनाय प्रणामादि करिष्यतीति दुःखितां सपत्नीं त-
त्सखी वक्ति--</p>
<lg>
  <l>दर्शनविनीतमाना गृहिणी हर्षोल्लसत्कपोलतलम् ।</l>
  <l>चुम्बननिषेधमिषतो वदनं पिदधाति पाणिभ्याम् ॥ २७६ ॥</l>
</lg>
<p>दर्शनेति । दर्शनविनीतमाना । एवं च गुणोत्कर्षशून्यत्वं ध्वन्यते । गृहिणी । हर्षे-
णोल्लसत्कपोलतलं मुखम् । स्वस्येति भावः । चुम्बननिषेधव्याजाद्धस्ताभ्यामाच्छादयति ।
एवं च त्वां विहायागतं नायकमवलोक्य चिरकालीनबह्वपेक्षितदर्शनसंजात हर्षसमुदित-
पुलकगोपनेन स्वस्य सौभाग्याविष्करणायैवमकरोन्न वास्तवमानदार्ढ्यं तस्यामिति द्यो-
त्यते । तेन च नायकप्रणामादीति ॥</p>
<pb n="113" />
<p>सखी नायिकां वक्ति--</p>
<lg>
  <l>देहस्तम्भः स्खलनं शैथिल्यं वेपथुः प्रियध्यानम् ।</l>
  <l>पथि पथि गगनाश्लेषः कामिनि कस्तेऽभिसारगुणः ॥ २७७ ॥</l>
</lg>
<p>देहेति । हे कामिनि, गति निरोधस्खलनशैथिल्यकम्पप्रियतमचिन्तनाकाशालिङ्गनानि
मार्गे मार्गे, अतस्तेऽभिसारगुणः कः । एवं चाभिसारे सर्वमेतद्विघ्नरूपम्, अतस्त्वयैतन्न वि-
धेयमिति ध्वन्यते । तेन चात्यन्तासक्तिर्नायके तवास्तीति ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>द्राघयता दिवसानि त्वदीयविरहेण तीव्रतापेन ।</l>
  <l>ग्रीष्मेणेव नलिन्या जीवनमल्पीकृतं तस्याः ॥ २७८ ॥</l>
</lg>
<p>द्वाघयतेति । दिवसानि । 'वा तु क्लीबे दिवसवासरौ' इत्यमरः । महत्कुर्वता । दुःखो-
द्रेकात् । तद्दिनमानमाहात्म्यादलसत्वादिति भावः । तीव्रस्तापः संतापो यस्य तेन ।
पक्षे तापो घर्मः । तस्यास्त्वदीयविरहेण नलिन्या ग्रीष्मेणेव जीवनमायुः । पक्षे ज-
लम् । अल्पीकृतम्, न तु नाशितम् । एवं च यथातथैतत्समयोऽतिवाहितस्तया परं तु
वर्षासु प्राणाः परित्याज्या इत्यवगत्य त्वयानुग्राह्या सेति व्यज्यते ॥
दुष्टसंसर्गादपि सांधोः साधुत्वं नापैतीति कश्चिद्वक्ति--</p>
<lg>
  <l>दुर्जनसहवासादपि शीलोत्कर्षं न सज्जनस्त्यजति ।</l>
  <l>प्रतिपर्वतपनवासी निःसृतमात्रः शशी शीतः ॥ २७९ ॥</l>
</lg>
<p>दुर्जनेति । पर्वामावस्या । अमायां चन्द्रस्य सूर्यान्तर्गतत्वमिति ज्योतिर्वित्प्रवादः ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>दयितप्रहितां दूतीमालम्ब्य करेण तमसि गच्छन्ती ।</l>
  <l>स्वेदच्युतमृगनाभिर्दूराद्गौराङ्गि दृश्यासि ॥ २८० ॥</l>
</lg>
<p>दयितेति । प्रियप्रेषितां दूतीं करेणालम्ब्यान्धकारे गच्छन्ती स्वेदगलितकस्तूरिका त्वं
गौराङ्गि दूराद्दृश्यासि । दयितदूतीत्वेनातिप्रियतया तत्करस्पर्शमात्रादेव संजातसात्त्विक-
भावस्वेदपूरदूरीभूतान्धकाराभिसरणानुकूलमृगमदवत्तया गौरशरीरतया दूरादपि दृश्या-
सीति भावः । एवं च नायकविषयासक्तिविशेषो ध्वन्यते ॥
काचित्कंचिद्वक्ति--</p>
<lg>
  <l>दयितागुणः प्रकाशं नीतः स्वस्यैव वदनदोषेण ।</l>
  <l>प्रतिदिनविदलितवाटीवृतिघटनैः खिद्यसे किमिति ॥ २८१ ॥</l>
</lg>
<p>दयितागुण इति । स्वस्यैव मुखदोषेण नायिकागुणः प्रकटीकृतः । प्रतिदिनं विघटित-
गृहावरणसंपादनैः किमिति खेदं प्राप्नोषि । एवं च त्वदुक्तनायिकागुणश्रवणेनासक्त्या</p>
<pb n="114" />
<p>लोकेनैव रात्रौ वृतिघटनं विधीयत इति व्यज्यते । तेन च त्वदीय एवायमपराध इति ।
तेन च न कदापि नायिकागुणवर्णनं विधेयमिति ॥
चातुर्यवशात्साधुतामवलम्बमानं मैनमवगणयन्त्वित्यन्योक्त्या कश्चिदुपदिशति--</p>
<lg>
  <l>दाक्षिण्यान्म्रदिमानं दधतं मा भानुमेनमवमंस्थाः ।</l>
  <l>रौद्रीमुपागतेऽस्मिन्कः क्षमते दृष्टिमपि दातुम् ॥ २८२ ॥</l>
</lg>
<p>दाक्षिण्यादिति । दाक्षिण्याद्दक्षिणदिक्संबन्धादित्यर्थः । पक्षे चातुर्यात् । मृदुत्वमसं-
तापकत्वम् । पक्षे साधुत्वम् । भजन्तमेनं भानुम् । पक्षे सूर्यतुल्यतेजस्विनमित्यर्थः ।
मावगणयेथाः । अस्मिन्रौद्रीमीशानीं दिशम् । पक्षे रोषमित्यर्थः । प्राप्ते दृष्टिमपि दातुं कः
क्षमते । न कोऽपीत्यर्थः । एवं चातिसंतापकत्वं द्योत्यते । यद्वा रौद्री मध्याह्नवेला ॥
कश्चित्पथिकः पथि व्याधबाणाहतिगच्छत्प्राणां हरिणीमालोक्य सखायं वक्ति--</p>
<lg>
  <l>दृष्ट्यैव विरहकातरतारकया प्रियमुखे समर्पितया ।</l>
  <l>यान्ति मृगवल्लभायाः पुलिन्दबाणार्दिताः प्राणाः ॥ २८३ ॥</l>
</lg>
<p>दृष्ट्यैवेति । भिल्लशरपीडिताया हरिण्या वियोगभीतनेत्रकनीनिकया । एवं च मरण-
भीत्यभावो द्योत्यते । अत एव प्रियवदनस्थापितया दृष्ट्यैव न मुखादिद्वारा प्राणाः प्र-
यान्ति । एवं च पश्वङ्गनाया अपि मरणकारणबाणव्यथातोऽपि विरहव्यथा दुःसहा ।
किमु मनुष्याङ्गनाया इति व्यज्यते । तेन च यो हि नायिकां विहाय परदेशे गच्छति
स मृगतुल्यः पशुरिति । यद्वा नायकादपि नायिकाया विरहभीतिरिति व्यज्यते ॥
खलसंगतिर्न विधेयेति कश्चिदुपदिशति--</p>
<lg>
  <l>दूरस्थापितहृदयो गूढरहस्यो निकाममाशङ्कः ।</l>
  <l>आश्लेषो बालानां भवति खलानां च संभेदः ॥ २८४ ॥</l>
</lg>
<p>दूरेति । दूरे स्थापितं हृदयं वक्षःस्थलम् । पक्षेऽन्तःकरणम् । येन सः । गूढं रह-
स्यमन्तःकरणविषयीभूतम् । पक्षे मन्त्रादि । यस्य सः । निकाममत्यन्तमाशङ्का भीतिः ।
पक्षे विश्वासाभावः । यस्य सः । क्वचित् 'गूढरहस्यं निकामसाशङ्कः' इति पाठः । गूढ-
रहस्यमत्यन्तरहस्यम् । बालानां मुग्धाङ्गनानामाश्लेष आलिङ्गनं खलानां च संभेदः सङ्गो
भवति । एवं चोभयोः साम्यं व्यज्यते ॥
असमयरताभिलाषिणं नायकं नायिका वक्ति--</p>
<lg>
  <l>द्वारे गुरवः कोणे शुकः सकाशे शिशुर्गृहे सख्यः ।</l>
  <l>कालासह क्षमस्व प्रिय प्रसीद प्रयातमहः ॥ २८५ ॥</l>
</lg>
<p>द्वार इति । द्वारे गुरवः । एवं च बहिर्गमनानर्हत्वं दर्शनानर्हत्वं च व्यज्यते । कोणे
शुकः। एवं च वचनरचनाशीलशुकाधिष्ठानेन कोणदेशेऽपि रतानर्हत्वं ध्वन्यते । सकाशे
शिशुः । एवं च बालकापसारण एतत्कोलाहलादिना निकटवर्तिगुरुजनागमनसंभावनया</p>
<pb n="115" />
<p>नैतदपि स्थलं रतयोग्यमिति द्योत्यते । गेहे सख्यः । एवं च तासामपि तव लज्जाक-
रणौचित्येन गृहमपि रतानईमिति व्यज्यते । कालासह । सुरतोत्सुकेत्यर्थः । प्रिय । एवं
च त्वदाज्ञालङ्घनानर्हाहमित्यावेद्यते । प्रसीद । तत्फलमाह--क्षमख । समयाभावादिति
भावः । ननु कदा समयो भावीत्यत्राह--अहः प्रयातं गतमेव । एवं चागतप्राया नि-
शैव सुरतयोग्येति ध्वन्यते ॥
सखी नायिकामुपदिशति--</p>
<lg>
  <l>दधिकणमुक्ताभरणश्वासोत्तुङ्गस्तनार्पणमनोज्ञम् ।</l>
  <l>प्रियमालिङ्गति गोपी मन्थश्रममन्थरैरङ्गैः ॥ २८६ ॥</l>
</lg>
<p>दधीति । दधिकणरूपमुक्ताफलानामलंकरणं ययोः । श्वासेन । श्रमजन्येनेति भावः।
उच्चौ यौ स्तनौ तत्समर्पणाभिरामं यथा स्यात्तथा गोपी दधिमथनश्रमनिश्चलाङ्गैः प्रिय-
मालिङ्गति । एवं च शृङ्गारादिरचनां विनापि श्रममगणयित्वैव तथाविधज्ञानविधुरापि
गोपाङ्गना स्वयं प्रियमालिङ्गति, त्वं त्वत्यन्तचतुरापि प्रियालिङ्गने विलम्बमावहसीति
भ्रान्ता त्वमिति व्यज्यते । तेन च नैवं विधेयमिति । यद्वा यथैककार्यनियुक्तापि गोपी
तत्समयेऽपि प्रियालिङ्गनं करोति तथा त्वयापि विधेयमिति व्यज्यते ॥
नायिका सखीं वक्ति--</p>
<lg>
  <l>दलितोद्वेगेन सखि प्रियेण लग्नेन रागमावहता ।</l>
  <l>मोहयता- शयनीयं ताम्बूलेनेव नीतास्मि ॥ २८७ ॥</l>
</lg>
<p>दलितेति । हे सखि, भञ्जितक्लेशेन । पक्षे चूर्णीकृतपूगवता । कण्ठलग्नेन रागं प्रीतिम्।
पक्षे लौहित्यम् । आवहता। मोहयता विषयान्तरज्ञानाभावं कुर्वता । पक्षे भ्रान्तिं ज
नयता । प्रियेण ताम्बूलेनेव शयनं नीतास्मि । एवं च प्रियसङ्गे मम न किमप्यन्यविषयकं
ज्ञानमिति व्यज्यते ॥
कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>दृष्टमदृष्टप्रायं दयितं कृत्वा प्रकाशितस्तनया ।</l>
  <l>हृदयं करेण ताडितमथ मिथ्या व्यञ्जितत्रपया ॥ २८८ ॥</l>
</lg>
<p>दृष्टमिति । अथेत्यनन्तरं हृदयं करेण ताडितम् । अनुचितं मया कृतमिति प्रदर्श-
नार्थमिति भावः । जातिवर्णनमेतत् ॥
सखी नायिकां वक्ति--
दर्शितयमुनोच्छ्र।ये भ्रूविभ्रमभाजि वलति तव नयने ।
क्षिप्तहले हलधर इव सर्वं पुरमर्जितं सुतनु ॥ २८९ ॥
दर्शितेति । हे सुतनु, दर्शितो यमुनात उच्छ्राय आधिक्यं यस्य तस्मिन् । श्यामत्वा-
दिति भावः । पक्षे दर्शितयमुनाधिक्ये । मथुरामण्डले रामहलेन प्रवाहस्य विपरीतकर-</p>
<pb n="116" />
<p>णेन जलाधिक्यादिति भावः । कटाक्षशालिनि । पक्षे कोपवशात्कुटिलभ्रुकुटिमति ।
तव नयने क्षिप्तहले हलधर इव बलदेव इव वलति सति समग्रं नगरमर्जितं स्वाधीनी-
कृतम् । पक्षे युधिष्ठिरं प्रति कोपाद्धस्तिनापुरस्य हलेन विपरीतकरणोद्यमादिति भावः ।
एवं च तव कटाक्षमात्राधीनाः सर्वेऽपि युवान इति नायिकाधिक्यकथनेनान्यनायिका-
निन्दा द्योत्यते ॥
विरहिणी सखीं वक्ति--</p>
<lg>
  <l>दयितप्रार्थितदुर्लभमुखमदिरासारसेकसुकुमारः ।</l>
  <l>व्यथयति विरहे बकुलः क्व परिचयः प्रकृतिकठिनानाम् ॥ २९० ॥</l>
</lg>
<p>दयितेति । दयितेन प्रार्थितोऽपि दुर्लभो मुखासवकणसेकस्तेन सुकुमारः संजातप-
ल्लवादिः । 'शोकं जहाति बकुलो मुखसीधुसिक्तः' इति प्रसिद्धिः । प्रकृतिकठिनानाम् ।
काष्ठत्वादिति भावः । यद्वा 'नायकप्रार्थनावगणनापुरःसरमदिरागण्डूषसंपादितपल्लवादिरयं
बकुलो विरहे मां कथं व्यथयति' इति नायकाप्रश्ने क्वेत्याद्युत्तरं सख्याः ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>द्वित्रैरेष्यामि दिनैरिति किं तद्वचसि सखि तवाश्वासः ।</l>
  <l>कथयति चिरपथिकं तं दूरनिखातो नखाङ्कस्ते ॥ २९१ ॥</l>
</lg>
<p>द्वित्रैरिति । द्वित्रिसंख्याकैर्दिवसैरहमागमिष्यामीति तस्य नायकस्य वचसि । तस्ये-
त्यनेन नायकेऽन्यथाभाषित्वं द्योत्यते । कस्तव समाश्वासः । दूरनिखातो नखाङ्कः । दूर-
प्रवासे गम्भीरनखक्षतस्य कामशास्त्रे विहितत्वादिति भावः । तं नायकं चिरप्रवासिनं
कथयति । एवं च सत्वरमयमायास्यतीति ज्ञानेनान्यनायकसंगतिमकुर्वाणा भ्रान्तासि
त्वमिति व्यज्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>दयितस्पर्शोन्मीलितघर्मजलस्खलितचरणनखलाक्षे ।</l>
  <l>गर्वभरमुखरिते सखि तच्चिकुरान्किमपराधयसि ॥ २९२ ॥</l>
</lg>
<p>दयितेति । प्रियस्पर्शप्रसृतस्वेदजलविचलितचरणनखलाक्षे गर्वभरेण मुखरीकृते सखि
नायकशिरोरुहान्किमित्यपराधयसि । त्वत्सात्त्विकभावरूपस्वेदेनैव चरणनखलाक्षापगमे
प्रियप्रणतिसंलग्नशिरोरुहैर्लाक्षापगतेति मिथ्या तमपराधयसीति भावः । एवं च तवै-
वायमपराध इति व्यज्यते ॥
कश्चिद्दुष्टपुत्रदुःखितो गेहिनीं वक्ति--</p>
<lg>
  <l>दुष्टग्रहेण गेहिनि तेन कुपुत्रेण किं प्रजातेन ।</l>
  <l>भौमेनेव निजं कुलमङ्गारकवत्कृतं येन ॥ २९३ ॥</l>
</lg>
<p>दुष्टेति । हे गेहिनि, तेन । दुष्टो ग्रह आग्रहो यस्य तेन । पक्षे दुष्टश्चासौ ग्रहश्च</p>
<pb n="117" />
<p>तेन । प्रजातेनोत्पन्नेन । अत्रोपसर्गस्तथा नोपयोगीत्याभाति । कुत्सितपुत्रेण । पक्षे कुः
पृथ्वी । किम् । न किंचित्फलमित्यर्थः । येन मङ्गलेनेव स्वीयं कुलमङ्गारकवत्कृतम् ।
प्रज्वालितमिति भावः । पक्षे 'अङ्गारकः कुजो भौमः' इत्यमरः । एवं च दुष्टपुत्रवत्त्वा-
पेक्षयापुत्रतैव सम्यगिति व्यज्यते ॥
आपद्यपि शूराणां न नीचकार्यकारित्वमिति कश्चिद्वक्ति--</p>
<lg>
  <l>दर्शितचापोच्छ्रायैस्तेजोवद्भिः सुगोत्रसंजातैः ।</l>
  <l>हीरैरप्स्वपि वीरैरापत्स्वपि गम्यते नाधः ॥ २९४ ॥</l>
</lg>
<p>दर्शितेति । प्रकटीकृत इन्द्रधनुर्वदुच्छ्रायः कान्त्याधिक्यं धनुष औन्नत्यं च । 'ताप'
इति पाठे कान्तिः प्रतापश्च । तेजः प्रकाशकत्वं सामर्थ्यं च । गोत्रः पर्वतोऽन्वयश्च ।
हीरैर्वज्रैः । अप्स्वपि । 'अप्स्विव' इति क्वचित्पाठः । वीरैरापत्स्वपि नाधो गम्यते । ज-
लसाम्यदर्शनेनापदि मान्द्यसंपादकत्वमावेद्यते । हीरसमताप्रदर्शनेन वीरेष्वतिकाठिन्यं
द्योत्यते । तेन चान्यजन्यभङ्गानर्हत्वम् । जले हीरका न मज्जन्तीति [^१]हीरैकपरीक्षा ॥
अतिसलज्जतया छन्नतनुवैभवादन्यदालोकयन्तीं तन्मध्य एव किंचित्कटाक्षविक्षेपेण
नायकमप्यवलोकयन्तीं नायको वक्ति--</p>
<lg>
  <l>दरनिद्राणस्यापि स्मरस्य शिल्पेन निर्गतासून्मे ।</l>
  <l>मुग्धे तव दृष्टिरसावर्जुनयन्त्रेषुरिव हन्ति ॥ २९९ ॥</l>
</lg>
<p>दरेति । हे मुग्धे, दरेण भयेन । मुग्धास्वभावसुलभेनेति भावः । निद्राणस्यापि । नि-
लीनस्यापीत्यर्थः । निद्राणपदं निलीनत्वं लक्षयदसमर्थत्वं पराज्ञेयत्वं निभृतकार्यकारित्वं च
व्यनक्ति । स्मरस्य कलाकौशलेन निर्गतासौ तव दृष्टिरर्जुनयन्त्रबाण इव मे प्राणान्हन्ति ।
अपिनैतादृशमदनकौशलनिर्गतदृष्टेरेतादृशकार्यकारित्वं तत्र किमु वाच्यमनिद्रमदनकौशल-
निर्गतदृष्टेः कार्यकारित्वमित्यावेद्यते । यद्वा 'अपिः' निर्गतेत्यत्रान्वेति । एवं च निर्गतमात्रया
दृष्ट्या प्राणापहरणं क्रियते तत्र का वार्ता प्राप्तया क्रियमाणस्येति व्यज्यते । अथवासून-
पीति योजनया देहादिसमुच्चयः । पक्षे 'पत्त्री रोप इषुर्द्वयोः' इत्यभिधानादिषुशब्दस्य
स्त्रीलिङ्गतया कौशलेन निर्गतेतीषुविशेषणम् । एवं चैतादृशत्वदीयावलोकनेनाहमतिवि--
कलः, अतो मामालिङ्गनादिना जीवयेति ध्वन्यते । अर्जुनोऽप्यन्यत्र विलोकयन्नन्यल्लक्ष्य-
माजघानेति पुराणप्रसिद्धिः । 'शून्यम्' इति पाठे शून्यमभिसंधिरहितं निर्गता । पक्षे
आकाशम् ॥
दारिद्र्यमतिदुःखदमिति कश्चिद्वक्ति--</p>
<lg>
  <l>दुर्गतगृहिणी तनये करुणार्द्रा प्रियतमे च रागमयी ।</l>
  <l>मुग्धा रताभियोगं न मन्यते न प्रतिक्षिपति ॥ २९६ ॥</l>
</lg>
<p>-----------------------------------------------------------------------------------------
[^१]. 'सर्वद्रव्याभेद्यं लघ्वम्भसि तरति रश्मिवत्स्निग्धम् । तडिदनलशक्रचापोपमं च
वज्रं हितायोक्तम् ॥' इति बृहत्संहिता (८०।१४).</p>
<pb n="118" />
<p>दुर्गतेति । दरिद्रकामिनी । दुर्गतपदेन धात्र्यादिकरणसामर्थ्याभावो व्यज्यते । तनये ।
एवं चातिवात्सल्यमावेद्यते । करुणाशालिनी । नायकसङ्गे स्तन्यहान्या तनयस्य दुःखं
भविष्यतीति धियेति भावः । मुग्धा किं विधेयमिति निश्चयशून्या ॥
त्वं गेह एव जारोपभोगं सुखेन करोषि नास्माकं स इत्यन्योक्त्या काचित्कांचिद्वक्ति--</p>
<lg>
  <l>दुर्गतगेहिनि जर्जरमन्दिरसुप्तैव वन्दसे चन्द्रम् ।</l>
  <l>वयमिन्दुवञ्चितदृशो निचुलितदोलाविहारिण्यः ॥ २९७ ॥</l>
</lg>
<p>दुर्गतगेहिनीति । दरिद्रकामिनि । दुर्गतपदेनोदरदरीभरणायेतस्ततः सर्वदा संचरणशी-
लत्वं व्यज्यते । तेन च जारानयनसौकर्यम् । जर्जरम् । एवं च कामुकागमनयोग्यत्वं
व्यज्यते । यन्मन्दिरं तत्र निद्रितैव । एवं चायासाभावो व्यज्यते । चन्द्रम् । एवं च
संतापोपशामकत्वं ध्वन्यते । तेन चावश्यदर्शनीयत्वम् । वञ्चितपदेनातिपश्चात्तापत्त्वमा-
वेद्यते । निचुलिताच्छादिता या दोला तया यो विहारस्तच्छालिन्यः । विहारिण्य इत्य-
नेन बहिर्गमनेऽप्यस्माकं निर्बन्ध इति ध्यन्यते । एवं चैतादृशास्मदीयभाग्यात्तव तादृ-
शदारिद्र्यमेव सम्यगिति । तेन चास्माकमेतद्भाग्यं न सुखदमिति व्यज्यते ॥
त्वं न तथा चतुरेति वादिनीं काचित्कांचिद्वक्ति-</p>
<lg>
  <l>दीपदशा कुलयुवतिर्वैदग्ध्येनैव मलिनतामेति ।</l>
  <l>दोषा अपि भूषायै गणिकायाः शशिकलायाश्च ॥ २९८ ॥</l>
</lg>
<p>दीपेति । दीपदशा वर्तिः कुलाङ्गना च । विशेषदग्धभावेन चातुर्येण च । मलिनतां
कज्जलादिमत्त्वं पापवत्त्वं च । दोषा अनुचितकारित्वादयः, दोषा रात्रिः ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>दीर्घगवाक्षमुखान्तर्निपातिनस्तरणिरश्मयः शोणाः ।</l>
  <l>नृहरिनखा इव दानववक्षः प्रविशन्ति सौधतलम् ॥ २९९ ॥</l>
</lg>
<p>दीर्घेति । दीर्घपदेन प्रकाशसंपादकत्वं ध्वन्यते । गवाक्षो वातायनं तन्मुखनिःसृताः
शोणाः । प्रातःकालीनत्वादिति भावः । सूर्यकिरणा नृसिंहनखा हिरण्यकशिपुवक्षःस्थ-
लमिव सौधतलं प्रविशन्ति । नृहरिनखतुल्यताप्रतिपादनेन प्राणापहारसमदुःखदत्वं ध्व-
न्यते । एवं च सूर्योदयः संवृत्तः, अत इतो निःसारणीयः प्रिय इति व्यज्यते । अत्र
नृहरिपदसांनिध्याद्दानवपदं हिरण्यकशिपुं प्रतिपादयति ॥
सखी नायिकां स्तौति--</p>
<lg>
  <l>दरतरलेऽक्षणि वक्षसि दरोन्नते तव मुखे च दरहसिते ।</l>
  <l>आस्तां कुसुमं वीरः स्मरोऽधुना चित्रधनुषापि ॥ ३०० ॥</l>
</lg>
<p>दरेति । अक्षणि नेत्रे ईषच्चञ्चले सति, तवेषदुन्नमिते वक्षसि, मुखे च किंचिद्धसितवति
सति । एवं चाङ्कुरितयौवनात्वेन मुग्धात्वं द्योत्यते । कुसुमं पुष्पमास्ताम् । न किंचिदि-
त्यर्थः । किं तु स्मरो वीरश्चित्रधनुषापि । अपिना शरसंग्रह आस्ताम् । एवं च कुसु-</p>
<pb n="119" />
<p>मादेरनर्थकत्वेऽपि त्वदीयदरतरलनेत्रादिभिरेव चित्रधनुष्मानस्तु स्मर इति व्यज्यते ।
'दरतरलेक्षिणि' इति पाठे संबुद्धिः । अथवा हे चञ्चलेक्षिणि, तव वक्षसीषदुन्नमिते, व-
दने चेषद्धसितशालिनि सति पुष्पमास्तां चित्रधनुषाप्यालेख्यगतधनुषापि स्मरोऽधुना
तवैतादृशयौवनकाले वीरः । एवं च कुसुमस्य कार्याक्षमत्वेन तद्रूपधनुषा स्मरस्य वी-
रत्वे न किंचिद्दार्ढ्यमधुना त्वालेख्यगतधनुषापि स्मरस्य जगज्जयः सुकर इति भाव
इत्यर्थः । यद्वा वीरोऽपि स्मरश्चित्ररूपधनुषाप्यास्ताम् । एवं चैतादृशरूपवत्या भवत्यैव
मदनेन विजयः कर्तुं शक्यः । अतो मदनप्राक्तनधनुर्बाणाश्चित्रन्यस्ता इवानर्थकाः
सन्त्विति ध्वन्यते । अथवा कुसुमं रजः । 'अपिः' अवधारणार्थकोऽधुने त्यत्रान्वेति ।
एवं च त्वदीयैतादृशयौवनप्रादुर्भाव एव विजयातिशयसाधनभूतया त्वया मदनधनुर-
नर्थकं जातम्, किमु वाच्यं पुष्पोद्गमोत्तरमिति द्योत्यते ॥
नायकसखी नायकं वक्ति--</p>
<lg>
  <l>दुष्टसखीसहितेयं पूर्णेन्दुमुखी सुखाय नेदानीम् ।</l>
  <l>राकेव विष्टियुक्ता भवतोऽभिमताय निशि भवतु ॥ ३०१ ॥</l>
</lg>
<p>दुष्टसखीति । पूर्णेन्दुवन्मुखं यस्याः । पक्षे पूर्णेन्दुरेव वदनं यस्याः । दुष्टसखीसहि-
तेयं नायिका भद्रायुतपौर्णवासीवाधुना । दिन इत्यर्थः । तवाभिप्रायविषयीभूताय सुखाय
निशि भवतु । यथा दिन एव भद्राया अतिक्रान्तत्वात्पूर्णिमा निशि कार्यार्हा तथा सख्या अ-
न्यत्र रात्रावासक्ततयैतत्सांनिध्याभावेनावश्यं रात्रौ त्वदुपयोगायेयं भविष्यतीति द्योत्यते ॥
काचित्कांचिद्वक्ति--</p>
<lg>
  <l>दलिते पलालपुञ्जे वृषभं परिभवति गृहपतौ कुपिते ।</l>
  <l>निभृतनिभालितवदनौ हलिकवधूदेवरौ हसतः ॥ ३०२ ॥</l>
</lg>
<p>दलित इति । दलित इतस्ततः कृते सति कोपवति गृहपतौ हलिके वृषभं ताडयति
सति । अनेनैव पलालं नाशितमिति धियेति भावः । गुप्तपरस्परकृतावलोकनौ । निभृत-
पदमन्यज्ञानभीतिमावेदयति । हलिकाङ्गनादेवरौ । देवरो भर्तुः कनिष्ठभ्राता । देवरश-
ब्दस्य ससंबन्धिकतया तदीयत्वं लभ्यते । एवं चैतादृक्कार्यकरणानर्हत्वं ध्वन्यते । ह-
सतः । अस्मत्सुरतविमर्दवशात्पलालपुञ्जस्यैतादृश्यवस्थामविज्ञाय निरपराधिनं वृषभमयं
ताडयतीति धियेति भावः । 'पथिकवधू-' इति पाठे देवरेण तन्मातृगृहानयनावसर
इदं कृतमिति काचित्कंचिद्वक्ति । एवं चैतादृशाह्वानमनुचितमिति व्यज्यते ॥
महद्भिरेव स्वप्रतापः प्रदर्शनीयः, न लघुभिरिति कश्चिद्वक्ति--</p>
<lg>
  <l>दीप्यन्तां ये दीप्त्यै घटिता मणयश्च वीरपुरुषाश्च ।</l>
  <l>तेजः स्वविनाशाय तु नृणां तृणानामिव लघुनाम ॥ ३०३ ॥</l>
</lg>
<p>दीप्यन्तामिति । घटिता विधातृनिष्पादिताः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता दकारव्रज्या ।
---------------------------------------</p>
<pb n="120" />
<p>धकारव्रज्या ।
कस्याश्चित्सखी कंचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>धूमैरश्रु निपातय दह शिखया दहन मलिनयाङ्गारैः ।</l>
  <l>जागरयिष्यति दुर्गतगृहिणी त्वां तदपि शिशिरनिशि ॥ ३०४ ॥</l>
</lg>
<p>धूमैरिति । हे दहन । अनागमनादिना संतापकत्वात्सामर्थ्यविशेषवत्त्वाद्वेति भावः ।
दुर्गतगृहिणीत्यनेन सुरतसौख्याभावो द्योत्यते । शिशिरनिशीत्यनेन यथेच्छसुरतयोग्यत्वं
निशि ध्वन्यते । एवं च त्वदीयदुष्टव्यवहारेणाश्रुसंतापमालिन्यजननेऽपि त्वां सा न
त्यक्ष्यतीति ध्वन्यते ॥
सखी नायिकामुपदिशति--</p>
<lg>
  <l>धैर्यं निधेहि गच्छतु रजनी सोऽप्यस्तु सुमुखि सोत्कण्ठः ।</l>
  <l>प्रविश हृदि तस्य दूरं क्षणधृतमुक्ता स्मरेषुरिव ॥ ३०५ ॥</l>
</lg>
<p>धैर्यमिति । निधेहि कुरु । तस्य हृदि दूरं प्रविश । एवंप्रकारेण सोऽप्यत्यन्तासक्तो
भावीति ध्वन्यते । क्षणधृतमुक्तात्वेनातिभेदकत्वं द्योत्यते । 'इषुर्द्वयोः' इत्यमरः ॥</p>
<lg>
  <l>धवलनखलक्ष्म दुर्बलमकलितनेपथ्यमलकपिहिताक्ष्याः ।</l>
  <l>द्रक्ष्यामि मदवलोकद्विगुणाश्रु वपुः पुरद्वारि ॥ ३०६ ॥</l>
</lg>
<p>धवलेति । श्वेतनखचिह्नम् । पुराणत्वादिति भावः । दुर्बलम् । विरहक्षीणत्वादिति
भावः । अकलितभूषणम् । असामर्थ्यादिति भावः चूर्णकुन्तलाच्छादितनयनायाः
संस्काराभावादिति भावः । वपुर्मद्विलोकनेन द्विगुणाश्रु । प्रेमभरादिति भावः । पुर-
द्वारि । अत्यन्तविरहेण धैर्याभावादिति भावः । द्रक्ष्यामीति काकुः । वैदेशिकाशंसनमेतत् ॥
असतां धर्मारम्भोऽप्यनर्थहेतुरिति कश्चिद्वक्ति–</p>
<lg>
  <l>धर्मारम्भेऽप्यसतां परहिंसैव प्रयोजिका भवति ।</l>
  <l>काकानामभिषेकेऽकारणतां वृष्टिरनुभवति ॥ ३०७ ॥</l>
</lg>
<p>धर्मेति । असाधूनां धर्मारम्भेऽपि । अपिनाधर्मारम्भकालीनवार्ता किं वक्तव्येति
व्यज्यते । परहिंसैव प्रयोजिका भवति । परहिंसामुद्दिश्यैवासतां धर्मारम्भ इति भावः ।
अत्र दृष्टान्तमाह — काकानां स्नाने वृष्टिरकारणतां कारणाभावत्वं प्राप्नोति । काकैः
स्नाने कृते वृष्टिर्न भवतीति वृद्धव्यवहारः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता धकारव्रज्या ।
--------------------------------
नकारव्रज्या ।
कश्चित्कांचित्संकेतं वक्ति--</p>
<lg>
  <l>नीरावतरणदन्तुरसैकतसंभेदमेदुरैः शिशिरे।</l>
  <l>राजन्ति तूलराशिस्थूलपटैरिव तटैः सरितः ॥ ३०८ ॥</l>
</lg>
<pb n="121" />
<p>नीरेति । नद्यो जलन्यूनतयोच्चावचं यत्सैकतं तत्संघट्टनमांसलैः । तूलस्य कार्पासस्य
पङ्क्तयो येषु तादृशस्थूलपटैरिव तीरैः शिशिरे राजन्ति । एवं च शिशिरे शीतबाहुल्ये-
नान्यजनागमनशङ्काभावेनोच्चावचसैकतवत्तयान्यानवलोकनीयत्वेन वायुनिवारकतया
स्वस्य शीतबाधाजनकत्वेन च तूलयुतस्थूलपटोत्प्रेक्षया मृदुलस्पर्शवत्ता प्रतिपादनेन
स्वतः सिद्धशय्यासत्त्वेन च सरित्तीरमेव संकेतस्थलमिति व्यज्यते ॥
कश्चित्कांचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>निजकायच्छायायां विश्रम्य निदाघविपदमपनेतुम् ।</l>
  <l>बत विविधास्तनुभङ्गीर्मुग्धकुरङ्गीयमाचरति ॥ ३०९ ॥</l>
</lg>
<p>निजेति । स्वशरीरच्छायायां विश्रान्तिमासाद्य घर्मविपत्तिं दूरीकर्तुम् । बतेति खेदे ।
इयं मुग्धकुरङ्गी विविधशरीरचेष्टाः करोति । परं तु न तापोपशमनं भावीति भावः ।
एवं च स्वदेहच्छायारूपस्वाधीननायकमात्रावलम्बनेन मदनसंतापनिवारणाय विविधचे-
ष्टाकरणेऽपि मूढनायिकायास्तव न तन्निवारणम्, अतोऽन्यन्नायकावलम्बनमेव मदनसं-
तापनिवारकमिति द्योत्यते । यद्वा सख्युपदेशोऽयम् । जातिवर्णनमेतदित्यृजवः ॥
कार्येणैव कारणप्रतिष्ठेति काचित्कांचिद्वति--</p>
<lg>
  <l>न हसन्ति जरठ इति यद्बल्लववनिता नमन्ति नन्दमपि ।</l>
  <l>सखि स यशोदातनयो नित्यं कन्दलितकंदर्पः ॥ ३१० ॥</l>
</lg>
<p>न हसन्तीति । यद्यस्मात्कारणात्स प्रसिद्धो यशोदातनयः कृष्णो नित्यमभिवर्धमानम-
दनः, अतो हे सखि, बल्लववनिता नन्दं जठर इति न हसन्ति । न केवलं हास्याभावः, अपि
तु प्रणमन्ति । एवं च कृष्णस्य कंदर्पशालित्वावगमेन नन्देऽपि जरठाभावनिर्णयो मूढस्त्री •
•णामपि तत्र किमु वाच्यं चतुराङ्गनानां कार्येण कारणस्वरूपज्ञानमिति व्यज्यते । यद्वा स्व-
कार्यमेव साधनीयमिति कांचित्काचिदुपदिशति । एवं च हास्यार्हेऽपि हास्याकरणेन प्रत्युत-
प्रणामादिना नन्दं परितोष्य मदनातिशयशालिश्रीकृष्णाद्यनुसरणं बल्लववनिता अपि कु-
र्वन्ति । त्वं त्वत्यन्तचतुरात एवमेव स्वकार्यं साधयेति व्यज्यते । अथवा नायकार्थं
श्वशुरादिसमाधानं त्वया विधेयमिति सखी श्वशुरादिदुःखवतीं नायिकामन्यनिदर्शनव्या-
जेनोपदिशति । एवं च परपुरुषीयरतिकलाप्रावीण्यमालक्ष्यैवमाचरन्त्यन्यास्तत्र स्वीय-
नायकपरितोषाय किं किं न विधेयमिति व्यज्यते ॥
सर्वात्मना स्त्रियः संरक्षणीया इति कश्चिद्वक्ति--</p>
<lg>
  <l>नीता स्वभावमर्पितवपुरपि वाम्यं न कामिनी त्यजति ।</l>
  <l>हरदेहार्धग्रथिता निदर्शनं पार्वती तत्र ॥ ३११ ॥</l>
</lg>
<p>नीतेति । स्वसदृशीकृतापि दत्तस्वशरीरापि । एवं चालंकरणादिदानमेतदग्रेऽकिंचि-
त्करमिति भावः । कामिनी वाम्यं कौटिल्यं वामशरीरभागित्वं च न त्यजति । अत्र</p>
<pb n="122" />
<p>दृष्टान्तमाह--हरेत्यादि । ग्रथितपदेन निःसारणानर्हत्वं ध्वन्यते । एवमन्यासां का वा-
र्तेति ध्वन्यते ॥
काचित्कंचिद्वक्ति--</p>
<lg>
  <l>नागरभोगानुमितस्ववधूसौन्दर्यगर्वतरलस्य ।</l>
  <l>निपतति पदं न भूमौ ज्ञातिपुरस्तन्तुवायस्य ॥ ३१२ ॥</l>
</lg>
<p>नागरेति । नगरसंबन्धी । एवं च चातुर्यवत्त्वं ध्वन्यते । तेन च सुरूपाङ्गनासङ्गका-
रित्वम् । तरलस्य चञ्चलस्य कुविन्दस्य स्वकीयज्ञात्यग्रे भूमौ पदं न निपतति । गर्ववशा-
दिति भावः । एवं चातिमूर्खत्वं व्यज्यते । एवं चैतादृशजातीयानां चतुरपुरुषेण स्वाङ्गना-
भोगे क्रियमाणे नेर्ष्या संजायते, अतस्त्वया सुखेनात्रागन्तव्यमिति ध्वन्यते ॥
एतादृशेन सह संगतिर्न कार्येति सखी वक्ति--</p>
<lg>
  <l>निपतति चरणे कोणे प्रविश्य निशि यन्निरीक्षते कस्तत् ।</l>
  <l>सखि स खलु लोकपुरतः खलः स्वगरिमाणमुद्गिरति ॥ ३१३ ॥</l>
</lg>
<p>निपततीति । कोणे प्रविश्य । एवं चागणनीयत्वं व्यज्यते । रात्रौ चरणे प्रणमति
तत्को निरीक्षते । न कोऽपीति भावः । स्वगरिमाणमहमेतादृशो गुणवान् यदियमत्यन्ता-
सक्ता मयीत्यादि । यद्वा नायिकोक्तिरियम् ॥
समीचीनस्य कोपो न भवति । भवति चेत्तदानर्थावह एव स इति कश्चिद्वक्ति -</p>
<lg>
  <l>न विमोचयितुं शक्यः क्षमां महान्मोचितो यदि कथंचित् ।</l>
  <l>मन्दरगिरिरिव गरलं निवर्तते ननु समुत्थाप्य ॥ ३१४ ॥</l>
</lg>
<p>नेति । महाञ्श्रेष्ठः । पक्षे महापरिमाणशाली । क्षमां शान्ति भूमिं च । ननु नि-
श्चितम् । 'न तु' इति पाठे नञि काकुः । एवं च महतः कोपो नोत्पादनीय इति
व्यज्यते ॥
किंचित्समीचीनावलम्बने दुष्प्रभुसेवा न विधेयेति कश्चिदुपदिशति--</p>
<lg>
  <l>नियतैः पदैनिषेव्यं स्खलितेऽनर्थावहं समाश्रयति ।</l>
  <l>संभवदन्यगतिः कः संक्रमकाष्ठं दुरीशं च ॥ ३१५ ॥</l>
</lg>
<p>नियतैरिति । नियतैः पदैर्व्यवहारमार्गैश्चरणविन्यासैश्च । स्खलिते भ्रमे चरणच्युतौ
वा । गतिराश्रयो गमनं च । संक्रमकाष्ठं नद्यादौ पारगमनायोभयतीरोपर्येकदारु स्था-
प्यते तत् ॥
समीचीनजनं विना कवीनां न शोभा भवतीति कश्चिद्वक्ति--</p>
<lg>
  <l>निजपदगतिगुणरञ्जितजगतां करिणां च सत्कवीनां च ।</l>
  <l>वहतामपि महिमानं शोभायै सज्जना एव ॥ ३१६ ॥</l>
</lg>
<p>निजपदेति । चरणगतिः सुप्तिङन्तज्ञानं च । तद्रूपो यो गुणः । महिमानं महत्परि-</p>
<pb n="123" />
<p>माणं प्रतिष्ठां च । सज्जना भूषणसंपादनाः । 'कल्पनासज्जने समे' इत्यमरः । पक्षे
समीचीनजनाः ॥
काचित् कस्यचित् प्रेमाणं स्तौति--</p>
<lg>
  <l>नोत्तपते न स्नेहं हरति न निर्वाति न मलिनो भवति ।</l>
  <l>तस्योज्ज्वलो निशि निशि प्रेमा रत्नप्रदीप इव ॥ ३१७ ॥</l>
</lg>
<p>नोत्तपत इति । नोत्तपते नाधिकः । सम एवेत्यर्थः । पक्षे न दाहकः । न प्रीतिना-
शकः । पक्षे न तैलनाशकश्च । न नश्यति । न मलिनम् । दुःखसंपादकमित्यर्थः । पक्षे
न कज्जलं वमति । उज्ज्वलो मालिन्यशून्यः । अत्र मालिन्यजनकत्वाभावप्रतिपाद-
नेनैव वैमल्यार्थसिद्धावेतत्कथनं न तथोचितमित्याभाति । निशीत्येतावता दिवा स्नेहा-
प्रदर्शनेन लोकगोपनादिचातुर्यवत्तया चिरकालीनसंगतिनिर्वाहकत्वं व्यज्यते ॥
काचित् कस्मिंश्चित् स्वासक्तिं कांचिद्वक्ति--</p>
<lg>
  <l>निहितान्निहितानुज्झति नियतं मम पार्थिवानपि प्रेम ।</l>
  <l>भ्रामं भ्रामं तिष्ठति तत्रैव कुलालचक्रमिव ॥ ३१८ ॥</l>
</lg>
<p>निहितानिति । निहितान् सख्यादिप्ररोचनया प्रेमारूढान् पार्थिवानपि भूपतीनपि । एवं
चासक्त्यर्हत्वं व्यज्यते । पक्षे पृथ्वी विकारान् घटादीन् । मम प्रेम नियतम् । एवं च
नान्यथाभाव आशङ्कनीय इति भावः । त्यजति । भ्रान्त्वा कुलालचक्रमिव तस्मिन्नेव
तिष्ठति ॥
कश्चिन्नायिकासखीं वक्ति--</p>
<lg>
  <l>निर्भरमपि संभुक्तं दृष्ट्या प्रातः पिबन्न तृप्यामि ।</l>
  <l>जघनमनंशुकमस्याः कोक इवाशिशिरकरबिम्बम् ॥ ३१९ ॥</l>
</lg>
<p>निर्भरमिति । अत्यन्तं संभुक्तमपि विगतवसनमस्या जघनं सूर्यबिम्बं कोक इव
दृष्ट्या प्रातः । एवं च तथाविधरतविरतावप्येवं गतिस्तत्र दिनक्षणवृद्धौ का वाच्येति
व्यज्यते । सादरावलोकनं कुर्वन्न तृप्यामि ॥
कश्चिद्वयस्यं वक्ति--</p>
<lg>
  <l>निबिडघटितोरुयुगलां श्वासोत्तब्धस्तनार्पितव्यजनाम् ।</l>
  <l>तां स्निग्धकुपितदृष्टिं स्मरामि रतनिःसहां सुतनुम् ॥ ३२० ॥</l>
</lg>
<p>निबिडेति । अत्यन्तसंघटितोरुद्वयाम् । सुरतक्लेशादिति भावः । निःश्वासस्तब्धस्तन-
दत्तव्यजनाम् । खेदापनोदार्थं गृहीतव्यजनस्य चालनासामर्थ्यादिति भावः । स्निग्धत्वं च
सौख्यात् कुपितत्वं च क्लेशवशादिति भावः । यद्वा रतनि:सहाङ्गत्वाद्वसनाग्रहादूरुघटनं
प्रथमगृहीतव्यजनेन स्तनपिधानमिति भावः ॥</p>
<pb n="124" />
<p>गुणेष्वत्यन्तं यत्नो विधेय इति कश्चित् कञ्चिदुपदिशति--</p>
<lg>
  <l>निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ विद्धि ।</l>
  <l>पश्य धनुर्गुणशून्यं निर्जीवं तदिह शंसन्ति ॥ ३२१ ॥</l>
</lg>
<p>निर्गुण इति । गुणाश्चातुर्यादयः । एकार्थप्रतिपादकौ । अमुमेवार्थमर्थान्तरन्यासेन
दृढयति–गुणश्शून्यम् । 'मौर्वी ज्या शिञ्जिनी गुणः' । निर्जीवं निर्गता जीवा यस्मात्तम् ।
'जीवा ज्या शिञ्जिनीत्यपि' इत्यभिधानात् । यस्माद्वदन्ति । एवं च निर्गुणजीवनापे-
क्षया मरणमेव सम्यगिति द्योत्यते ॥
नायिका नायकचित्तं व्याक्षिपति--</p>
<lg>
  <l>निजसूक्ष्मसूत्रलम्बी विलोचनं तरुण ते क्षणं हरतु ।</l>
  <l>अयमुद्गृहीतबडिशः कर्कट इव मर्कटः पुरतः ॥ ३२२ ॥</l>
</lg>
<p>निजेति । तरुणेत्यनेन स्वतो दृढत्वेऽप्येतादृशचित्तव्याक्षेपेणातिदार्ढ्यं भावीति व्य-
ज्यते । 'बडिशं मत्स्यवेधनम्' इत्यमरः । कर्कटः । 'स्यात्कुलीर: कर्कटकः' इत्यमरः ।
मर्कटो लूता। 'लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः' इत्यमरः । यद्वात्रागतं स्थितं
मयेति वादिनं नायकं नायिका वक्ति । एवं च सूक्ष्मत्वेन त्रुटनार्हत्वेऽपि तदभावान्न त्व-
त्संचरणमिति व्यज्यते। अथवा केनाप्यत्र नागम्यत इति संकेतस्थलमिदमिति ध्वन्यते ॥
ग्रामीणवसतिशालितयेयं न तथा गुणशालिनीति विभावयन्तं कंचन नायिका-
सखी वक्ति--</p>
<lg>
  <l>नागर गीतिरिवासौ ग्रामस्थित्यापि भूषिता सुतनुः ।</l>
  <l>कस्तूरी न मृगोदरवासवशाद्विस्रतामेति ॥ ३२३ ॥</l>
</lg>
<p>नागरेति । हे नागर, असौ सुतनुर्गीतिरिव । ग्रामो नगरादिभिन्नः । पक्षे 'ग्रामः स्वर-
समूहः स्यान्मूर्छनादेः समाश्रयः' इति लक्षणलक्षितः । तत्र स्थित्यापि । विस्रतां दौर्ग-
न्ध्यम् । एवं चेयमत्यन्तलक्षणशालिनी, अतस्त्वमस्यामासक्तिं कुर्विति व्यज्यते ॥
कुरबककुसुमशय्यायां सुरतं विधायागतां नायिकां सखी वक्ति--</p>
<lg>
  <l>नखलिखितस्तनि कुरबकमयपृष्ठे भूमिलुलितविरसाङ्गि ।</l>
  <l>हृदयविदारणनिःसृतकुसुमास्त्रशरेव हरसि मनः ॥ ३२४ ॥</l>
</lg>
<p>नखेति । कुरबकप्रचुरपृष्ठे । भूमौ लुलितानि विरसान्यङ्गानि यस्यास्तत्संबुद्धिः ।
निःसृताः । पृष्ठमार्गेणेति भावः । नैतानि पृष्ठलग्नानि कुरबककुसुमानि, किं तु हृदय-
लग्नाः पृष्ठविनिर्गता मन्मथबाणा इति भावः । एवं च मां प्रत्येतद्गोपनमनुचितमिति
द्योत्यते ॥</p>
<pb n="125" />
<p>सर्वभार्यासु समतया वर्तितव्यमिति कश्चित् कञ्चिदुपदिशति--</p>
<lg>
  <l>नीता लघिमानमियं तस्यां गरिमाणमधिकमर्पयसि ।</l>
  <l>भार इव विषमभार्यः सुदुर्वहो भवति गृहवासः ॥ ३२५ ॥</l>
</lg>
<p>नीतेति । इयं लघुतां प्रापिता तस्यामधिकं गौरवं करोषि । विषमस्त्रीको विषमे
परस्परविरुद्धे स्त्रियौ यत्र । विषमधृतश्च भार इव । गृहवासः सुदुर्वहः सुतरां दुर्वहः ।
'अर्पयति' इति पाठे लाघवं नीतेयं तस्यामतिगौरवं करोति । एवं च सा लघिमानं
नीतैतस्यां गरिमाणमर्पयति । एवमेका गरिमाणं नीतान्यस्यां लाघवमापादयतीति भार
इव सुदुर्वहो विषमभार्यो गृहवास इति कश्चित्सखायं वक्ति । एवं च समतासंपादन-
मशक्यमिति भावः ॥
अकस्मादेवानेनागत्य कथमिदमकारीति वादिनीं नायिकां सखी वक्ति--</p>
<lg>
  <l>न च दूती न च याच्ञा न चाञ्जलिर्न च कटाक्षविक्षेपः ।</l>
  <l>सौभाग्यमानिनां सखि कचग्रहः प्रथममभियोगः ॥ ३२६ ॥</l>
</lg>
<p>न चेति । सुभगाभिमानशालिनायकानां नायिकास्वाधीनतायां न दूतीप्रेषणाद्यपेक्षितम्,
किं तु केशग्रह एव प्रथमं वश्यतासंपादनोपाय इति भावः ॥
मन्मथावस्थायां न किञ्चित् परिस्फुरतीति कश्चिद्वक्ति--</p>
<lg>
  <l>निशि विषमकुसुमविशिखप्रेरितयोर्मौनलब्धरतिरसयोः ।</l>
  <l>मानस्तथैव विलसति दम्पत्योरशिथिलग्रन्थिः ॥ ३२७ ॥</l>
</lg>
<p>निशीति । विषमत्वेन दुःसहत्वं ध्वन्यते ॥
वारवनितासंगतिरनुचितेति कश्चित् कञ्चिदुपदिशति---</p>
<lg>
  <l>निजगात्रनिर्विशेषस्थापितमपि सारमखिलमादाय ।</l>
  <l>निर्मोकं च भुजंगी मुञ्चति पुरुषं च वारवधूः ॥ ३२८ ॥</l>
</lg>
<p>निजेति । स्वशरीरसमतया स्थापितम् । एवं चातिप्रियत्वमावेद्यते । समग्रं सारभूतं
वस्तु गृहीत्वा कञ्चुकं सर्पिणी पुरुषं वाराङ्गना त्यजति । कञ्चुकवन्निःसारतां विधाय त्य-
जति वेश्या, अतो न तत्संगतिरुचितेति व्यज्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>नृत्यश्रमघर्मार्द्रं मुञ्चसि कृच्छ्रेण कञ्चुकं सुतनु ।</l>
  <l>मकरन्दोदकजुष्टं मदनधनुर्वल्लिरिव चोलम् ॥ ३२९ ॥</l>
</lg>
<p>नृत्येति । नर्तनश्रमेण यः स्वेदस्तेनार्द्रं कञ्चुकं क्लेशेन त्यजसि । पुष्परसप्रादुर्भा-
चाक्रान्तं चोलं मदनधनुर्वल्लिरिव । एवं च सुरतश्रमे किं त्वया विधेयमिति परिहासो
व्यज्यते ॥</p>
<pb n="126" />
<p>नायिकादुश्चरितं विज्ञाय सखी वक्ति--</p>
<lg>
  <l>नाहं वदामि सुतनु त्वमशीला वा प्रचण्डचरिता वा ।</l>
  <l>प्रेमस्वभावसुलभं भयमुदयति मम तु हृदयस्य ॥ ३३० ॥</l>
</lg>
<p>नाहमिति । हे सुतनु, त्वं शीलशून्या प्रचण्डचरिता वेति नाहं वदामि । तु पुनर्मम
हृदयस्य प्रीतिस्वभावसुलभं भयमुदेति । एवं च कदाचित् केनचिदितीदं ज्ञातं चेत्तदा कथं
भविष्यतीति त्वद्विषयकप्रीतिमत्तया मम तु भयमुत्पद्यत इति भावः । एवं च प्रीत्यभा-
वेऽन्यस्य जाताप्यसमीचीनता न दुःखदेति ध्वन्यते । तेन चैवं न विधेयमिति ॥
दूती कयाचन संगमयितुं कंचन नायकं वक्ति--</p>
<lg>
  <l>न निरूपितोऽसि सख्या नियतं नेत्रत्रिभागमात्रेण ।</l>
  <l>हारयति येन कुसुमं विमुखे त्वयि कण्ठ इव देवे ॥ ३३१ ॥</l>
</lg>
<p>नेति । सख्या नायिकया नेत्रत्रिभागमात्रेण कटाक्षमात्रेण न निरूपितोऽसि न विलो-
कितोऽसि । एवं चान्तःकरणेन सा त्वय्यत्यन्तमनुरागभागिनी संवृत्तेति ध्वन्यते । तेन
च दैवादवलोकितोऽहं तयेति त्वया सर्वात्मना न मन्तव्यमिति तदनुरागमेव विवृणोति ।
येन कारणेन देव इव त्वयि विमुखे कृतपरावृत्तौ सहोपमेयम् । एवं च त्वद्वैमुख्ये देव-
वैमुख्यं जातमिति भावः । एवं च त्वद्वैमुख्यसंपादनद्वारैव देवप्रातिकूल्यमिति देवाधि-
कस्त्वं तस्या इति ध्वन्यते । कण्ठे । स्थितमिति भावः । कुसुमं हारयति दूरीकारयति ।
एवं च त्वत्पराङ्मुखताविचारसमयसंजातविरहवशात् परित्यक्तहारस्य दैवादवस्थितैककुसु-
मस्य न स्वतो दूरीकरणमसामर्थ्यात्, अतोऽतिविरहक्षीणतातिशयवत्तयातिदूयमाना नोपे-
क्षणीयेयं त्वयेति ध्वन्यते । एवं च मुखपरावृत्तिमात्रादेवमवस्था तस्याः का वाच्या
दिवसपरिकलनायामिति कुसुमं कण्ठे हारत्वेन करोति । एवं च त्वत्परावृत्तिसमयमेवं
कार्श्यं तस्याः संवृत्तमित्यावेद्यत इत्यप्याहुः ॥
कथमनया त्वं ताडित इति वादिनं कश्चित् समाधत्ते--</p>
<lg>
  <l>नखदशनमुष्टिपातैरदयैरालिङ्गनैश्च सुभगस्य ।</l>
  <l>अपराधं शंसन्त्यः शान्तिं रचयन्ति रागिण्यः ॥ ३३२ ॥</l>
</lg>
<p>नखेति । अत्र पातशब्देन संयोगो लक्ष्यते । एवं च दन्तनखक्षताभिपातैरित्यर्थः ।
अदयैः । गाढैरित्यर्थः । आलिङ्गनैः । सुभगस्य, न त्वभाग्यस्य । अपराधम् । एवं चै-
कापराध एतादृशम्, किं पुनर्बह्वपराध इति भावः । शंसन्त्यः । एवं च न वास्तवापराध-
स्थापनमिति भावः । अनुरागवत्यः । एवं चान्यासामन्यादृशी रीतिरिति भावः ।
शान्तिं क्रोधोपशमं रचयन्ति । एवं च नायककर्तृककोपपरिहारापेक्षापि नेति भावः ।
एवं च यस्यैवात्यन्तमासक्ता नायिका तस्यैवैतादृशी रीतिः, नान्यस्येति व्यज्यते ॥</p>
<pb n="127" />
<p>कस्यचिदासक्त्या गर्वितां कांचित्काचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>न गुणे न लक्षणेऽपि च वयसि च रूपे च नादरो विहितः ।</l>
  <l>त्वयि सौरभेयि घण्टा कपिलापुत्रीति बद्धेयम् ॥ ३३३ ॥</l>
</lg>
<p>नेति । गुणे बहुदोग्धृत्वादौ कलाकौशले च । लक्षणे सामुद्रिकोक्तादौ । तारुण्ये ।
रूपे शुक्लादौ सौन्दर्ये च । आदरो न विहितः । सौरभेयि, त्वयि कपिलायाः पुत्रीति
हेतोरियं घण्टा निबद्धा । एवं च त्वन्मातुर्गुणवत्त्वादिना प्रसिद्ध्या तज्जन्यत्वमात्रेणैवं वृत्त-
मिति किं गर्वमावहसीति व्यज्यते ॥
निष्कारणमेव कलहादिकं भवति भवद्गेहे किमिदमिति वादिनं कश्चिद्वक्ति--</p>
<lg>
  <l>निष्कारणापराधं निष्कारणकलहरोषपरितोषम् ।</l>
  <l>सामान्यमरणजीवनसुखदुःखं जयति दाम्पत्यम् ॥ ३३४ ॥</l>
</lg>
<p>निरिति । कारणं विनैवापराधो यस्य । कारणं विनैव कलहक्रोधसंतोषा यस्य ।
साधारणं मरणं जीवनं सुखं दुःखं यस्य । जायापतिभावो दाम्पत्यं सर्वोत्कर्षेण वर्तते ।
एवं चैतादृग्यन्न भवति दांपत्यं तदपकृष्टमिति व्यज्यते । तेन च खस्मिन्नाधिक्यम् ।
एवं चातिशयितप्रेमवत्तया क्षणक्षण एवापराधसंभावना तद्विलयश्चेति ध्वन्यते । सा-
मान्यमित्यादिनैकात्म्यमभिव्यज्यते ॥
कश्चिदेकदा प्राप्तसङ्गां तदुत्तरं च किंचिन्निमित्तविच्युतसङ्गां कांचिद्वक्ति--</p>
<lg>
  <l>न प्राप्यसे कराभ्यां हृदयान्नापैषि वितनुषे बाधाम् ।</l>
  <l>त्वं मम भग्नावस्थितकुसुमायुधविशिखफलिकेव ॥ ३३५ ॥</l>
</lg>
<p>नेति । भग्ना सत्यवस्थिता या मदनशराग्रलोहशलाका तद्वत्त्वं हस्तगता न भवसि ।
हृदयान्न निःसरसि । पीडां च विस्तारयसि । भग्नावस्थितेत्यनेन करग्रहोद्यमे भीतिरा-
वेद्यते । कुसुमायुधपदेन कोमलाङ्गीत्वं तेन चासक्तियोग्यत्वं ध्वन्यते । विशिखफलि-
केत्यनेन तीक्ष्णप्रतापशालित्वं व्यज्यते । एवं च त्वदप्राप्त्याहमतिदुःखित इति ध्वन्यते ॥
ममाज्ञाकारी मन्नायक इति वादिनीं कांचित्काचिद्वक्ति--</p>
<lg>
  <l>नाथेति परुषमुचितं प्रियेति दासेत्यनुग्रहो यत्र ।</l>
  <l>तद्दांपत्यमितोऽन्यन्नारी रज्जुः पशुः पुरुषः ॥ ३३६ ॥</l>
</lg>
<p>नाथेति । यत्र नाथेति संबोधनमतिनिष्ठुरम् । प्रियेत्युचितम् । यथा कस्यचिदागतस्य
किंचिदुचितं क्रियते तथा प्रियेति संबोधनमुचितमित्यर्थः । दासेत्यनुग्रहः । आत्मत्वे-
नाङ्गीकार इत्यर्थः । एवं चाभिन्नप्रायतया नोपचारादिर्यत्रेति भावः । तद्दांपत्यं जायापति-
भावः । इतोऽन्यन्नारी रज्जुः । एवं चाकर्षणयोग्यत्वं ध्वन्यते । पुरुषः पशुः । एवं च
रसानभिज्ञत्वं ध्वन्यते । यद्वा नायकस्येयमुक्तिः ॥</p>
<pb n="128" />
<p>पूर्वनायिकासखीं प्रति नायको वक्ति--</p>
<lg>
  <l>निहितायामस्यामपि सैवैका मनसि मे स्फुरति ।</l>
  <l>रेखान्तरोपधानात् पत्त्राक्षरराजिरिव दयिता ॥ ३३७ ॥</l>
</lg>
<p>निहितायामिति । अस्यां पुरोवर्तिन्यां मनसि निहितायामपि सैव त्वन्नायिकैवैका
दयिता मे मनसि स्फुरति । एवं च तस्यामेव ममासक्तिरिति व्यज्यते । रेखान्तरविधा-
नात् पत्त्ररूपाक्षरपङ्क्तिरिव । एवं च स्थिरत्वं ध्वन्यते ॥
कयाचन किञ्चिदवलोकितः कश्चित्तां सपरिहासं वक्ति--</p>
<lg>
  <l>निधिनिक्षेपस्थानस्योपरि चिह्नार्थमिव लता निहिता ।</l>
  <l>लोभयति तव तनूदरि जघनतटादुपरि रोमाली ॥ ३३८ ॥</l>
</lg>
<p>निधीति । निधेः । 'निधिर्ना शेवधिर्भेदाः' इत्यमरः । निक्षेपस्थानं तदुपरि चिह्ना-
र्थम् । विस्मरणाभावायेति भावः । निहिता लतेव । हे तनूदरि । एवं च निधिनिक्षेप-
योग्यत्वं ध्वन्यते । तव जघनस्य तटात्प्रान्तात् । तटपदेन लतारोपणयोग्यत्वं ध्वन्यते ।
रोमराजिर्लोभयति। निधिस्थानस्थिताया लोभजनकत्वौचित्यमिति भावः । एवं च जघनाधो
निधिनिक्षेपस्थानमस्तीति परिहासो व्यज्यते । यद्वा सगर्भासीति । यत्र हि निधिः
स्थाप्यते तच्चिह्नार्थं लतादि क्रियत इति लौकिकम् ॥
तस्याः सखी तं वक्ति--</p>
<lg>
  <l>निहितार्धलोचनायास्त्वं तस्या हरसि हृदयपर्यन्तम् ।</l>
  <l>न सुभग समुचितमीदृशमङ्गुलिदाने भुजं गिलसि ॥ ३३९ ॥</l>
</lg>
<p>निहितेति । निहितार्धलोचनायास्त्वयि किंचित्कटाक्षं कुर्वाणायास्तस्यास्त्वं हृदयपर्य-
न्तं हरसि । कथमन्यथैतादृशं वचनमिति भावः । सुभग । एवं चान्यादृशवचनानौचित्यं
व्यज्यते । इँदृशं समुचितं न । यदङ्गुलिदाने भुजं गिलसि ॥
बहवस्तरुणा ममापेक्षां कुर्वन्तीति गर्वशालिनीं कांचित्काचिद्वक्ति--</p>
<lg>
  <l>नीत्वागारं रजनीजागरमेकं च सादरं दत्त्वा ।</l>
  <l>अचिरेण कैर्न तरुणैर्दुर्गापत्त्रीव मुक्तासि ॥ ३४० ॥</l>
</lg>
<p>नीत्वेति । आगारं गृहं नीला । एवं चान्यगृहगमनेन लघुत्वमावेद्यते । आदरसहि-
तमेकं न बहुरात्रिजागरम् । दत्वा तरुणैर्दुर्गापत्त्रीव शीघ्रं कैर्न मुक्तासि । एवं चैकदि-
नोत्तरमेव सर्वेषां न तवासक्तिरिति व्यज्यते । तेन च त्वं गुणरहितैव । एवं चैकमात्रास-
क्तिमत्येव समीचीनेति ध्वन्यते । नवरात्रे बिल्वशाखामष्टम्यामानीय रात्रौ संपूज्य जा-
गरादि विधाय नवम्यां परित्यज्यत इति देशविशेषरीतिः ॥</p>
<pb n="129" />
<p>यत्र यत्र यद्यत्सामर्थ्यं तत्र तत्र तवैवेत्यन्योक्त्या कश्चित् कञ्चिद्वक्ति--</p>
<lg>
  <l>नक्षत्रेऽग्नाविन्दावुदरे कनके मणौ दृशि समुद्रे ।</l>
  <l>यत्खलु तेजस्तदखिलमोजायितमब्जमित्त्रस्य ॥ ३४१ ॥</l>
</lg>
<p>नक्षत्र इति । अग्नावग्न्याश्रये । उदरे । अन्नादिपाकतेजसः सत्त्वादिति भावः । क-
नके । तैजसत्वादिति भावः । मणौ । प्रकाशकत्वादिति भावः । समुद्रे । वडवानलस्य
सत्त्वादिति भावः । यत्तेजस्तदखिलमब्जमित्त्रस्य । एवं च येन सह विरोधस्तेनैव सह
तत्करणमुचितं न त्वन्येनापि सह तत्करणमुचितमिति ज्ञानविशेषशालित्वं ध्वन्यते ।
ओजायितम् । सामर्थ्यमित्यर्थः ॥
नायिकादूती नायकं वक्ति--</p>
<lg>
  <l>न सवर्णो न च रूपं न संस्क्रिया कापि नैव सा प्रकृतिः ।</l>
  <l>बाला त्वद्विरहापदि जातापभ्रंशभाषेव ॥ ३४२ ॥</l>
</lg>
<p>न सवर्ण इति । स पूर्वानुभूतो वर्णः कान्तिः । पक्षे सवर्णकार्यम् । न । न केवलं पू-
र्वकान्तिहानिः, अपि तु न तत्स्वरूपमपीत्याह--न च रूपम् । पक्षे प्रकृतिप्रत्ययनिष्पा-
द्यशब्दस्वरूपम् । ननूद्वर्तनादिसंस्कारेण कान्तिर्भविष्यतीत्यत्राह--संस्क्रिया न । पक्षे
साधुत्वम् । ननु संस्क्रिया कार्येत्युपदिश्यते न कुतो भवत्येत्यत आह--सा पूर्वानुभूता
कापि स्वल्पापि प्रकृतिः स्वभावो नैव । एवं चोपदेशकरणे भीतिरावेद्यते । पक्षे प्रा-
तिपदिकम् । बाला । एवं चाज्ञत्वं तेन च नायके शठत्वं द्योत्यते । त्वत्संबन्धिवियोग-
विपत्तौ । एवं च विपन्नस्य पूर्वकान्त्याद्यपगच्छतीति भावः । अपभ्रंशभाषासाधुवा-
क्यम् । यद्वा इवशब्दोऽवधारणार्थकः । अपगतो भ्रंशोऽसमीचीनत्वं यस्या एतादृशी
भाषा यस्यास्तादृश्येव संवृत्ता । एवं च त्वद्विरहजनितदुःखेन पूर्वकान्त्याद्यपगमेऽपि त्व-
द्विषये न कदाप्यसम्यग्वदतीति न तादृशी काप्यन्या सहनशीलेति व्यज्यते । तेन चैता-
दृश्यामौदासीन्यमत्यन्तानुचितमिति ॥
अलंकारादिकरणेन विलम्बकारिणीं नायिकां संकेतं प्रति सत्वरनिर्गमनाय सखी
वक्ति--</p>
<lg>
  <l>न विभूषणे तवास्था वपुर्गुणेनैव जयसि सखि यूनः ।</l>
  <l>अवधीरितास्त्रशस्त्रा कुसुमेषोर्मल्लविद्येव ॥ ३४३ ॥</l>
</lg>
<p>नेति । हे सखि । एवं च यथार्हवादार्हत्वं ध्वन्यते । तव । एवं चान्यादृशी गतिर-
न्यासामिति भावः । एवं चान्याभिर्यद्विधीयते तत्स्वयमपि विधेयमिति मनसि न विधे-
यमिति व्यज्यते । विशिष्टभूषणे । एवं च सामान्यतो भूषणानि सन्त्येवेति भावः । 'न
च' इति तु युक्तः पाठः । आस्थासक्तिः । न । उचितेति शेषः । तत्कार्यस्य नायकवश-
त्वसंपादनादेः साहजिकवपुर्गुणेनैव संपादनादिति भावः । इदमेव द्रढयति--वपुः कान्त्यैव</p>
<pb n="130" />
<p>तरुणान्स्वाधीनीकरोषि । अत्र दृष्टान्तमाह--मदनस्य तिरस्कृतास्त्रशस्त्रा मल्लविद्येव ।
सापि शारीरकर्तव्यतैव जयकर्त्रीति भावः । एवं च मा विलम्बं कुर्विति व्यज्यते ॥
काचिन्नायिका सखीं प्रत्याह--</p>
<lg>
  <l>नेत्राकृष्टो भ्रामं भ्रामं प्रेयान्यथा यथास्ति तथा ।</l>
  <l>सखि मन्थयति मनो मम दुधिभाण्डं मन्थदण्ड इव ॥ ३४४ ॥</l>
</lg>
<p>नेत्रेति । नेत्रेण चक्षुषाकृष्टः । पक्षे गुणेन । 'नेत्रमक्ष्णि गुणेऽपि च' इत्यभिधा-
नात् । भ्रान्त्वा भ्रान्त्वा प्रेयान् । एवं च मनः संलग्नतायोग्यत्वं व्यज्यते । यथा य-
थास्ति तथा मन्थदण्डो दधिपात्रमिव मम मनो मन्थयति । एवं च मया कटाक्षित
इतस्ततो मत्सविधभ्रममाणस्त्वया सत्वरं संगमनीयो येन मनोदुःखं दूरीभविष्यतीति
व्यज्यते ॥
दूती नायकं प्रत्याह--</p>
<lg>
  <l>नानावर्णकरूपं प्रकल्पयन्ती मनोहरं तन्वी ।</l>
  <l>चित्रकरतूलिकेव त्वां सा प्रतिभित्ति भावयति ॥ ३४५ ॥</l>
</lg>
<p>नानेति । चित्रलेखकहस्तगतलेखनीवत् सा तन्वी कृशाङ्गी सूक्ष्मा च भित्तौ भित्तौ
मनोज्ञं नानाप्रतिमारूपम् । पक्षे नानावर्णा एव नानावर्णकानि तैः कृत्वा रूपं यस्यैतादृशं
चित्रं प्रकल्पयन्ती भावयन्ती । एवं च चित्रविलोकनव्याजेन त्वामेव भावयतीति भावः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता नकारव्रज्या ।
----------------------------------
पकारव्रज्या ।
कस्याविद्वचनमात्रादेव भीतान्प्रति कचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>पथिकासक्ता किंचिन्न वेद घनकलमगोपिता गोपी ।</l>
  <l>केलिकलाहुंकारैः कीरावलि मोघमपसरसि ॥ ३४६ ॥</l>
</lg>
<p>पथिकेति । पथिके आसक्ता । घनाः कलमाः श्वेतशालयस्तैर्गोपिता । घनपदेन
किंचिद्भक्षणेऽपि ज्ञानायोग्यत्वं व्यज्यते । गीपीत्यनेन स्वतो मौर्ख्यं द्योत्यते । अतः
केलिकलासंबन्धिहुंकारैः । एवं च न भवन्निवारणार्थमेते शब्दा इति भावः । कीराव-
लीत्यनेन वचनपटुत्वं व्यज्यते । वृथापसरसि । एवं च भवद्भिः कलमभक्षणं विधेय-
मिति भावः । एवं चैतस्याः प्रचुरधनवत्याः सापराधत्वाच्च वचनमात्रभीतिमुत्सृज्य किं-
चिदेतस्याः सकाशाद्बाह्यमिति व्यज्यते ॥
नायिकासखी दूर्ती प्रत्याह--</p>
<lg>
  <l>प्रणमति पश्यति चुम्बति संश्लिष्यति पुलकमुकुलितैरङ्गैः ।</l>
  <l>प्रियसङ्गाय स्फुरितां वियोगिनी वामबाहुलताम् ॥ ३४७ ॥</l>
</lg>
<p>प्रणमतीति । प्रियसंगमसूचकस्फुरणशालिनीं वामबाहुलतां वियोगिनी प्रणमती-</p>
<pb n="131" />
<p>त्यादि योजना । एवं च यत्र प्रियसंगमसूचकस्फुरणवदचेतनवामबाहुलतायाः किं किं
न क्रियते विरहवत्या तत्र किमु वाच्यं सद्यः प्रियसमागमकारिण्या दूत्या इति भावः । अत
एव प्रणामानर्हत्वव्यञ्जकं वामपदमर्थवत् ॥
काचन कञ्चित् प्रति वक्ति--</p>
<lg>
  <l>प्रविशसि न च निर्गन्तुं जानासि व्याकुलत्वमातनुषे ।</l>
  <l>बालक चेतसि तस्याश्चक्रव्यूहेऽभिमन्युरिव ॥ ३४८ ॥</l>
</lg>
<p>प्रविशसीति । हे बालक । एवं च ज्ञानशून्यत्वं व्यज्यते । चक्रव्यूहेऽभिमन्युरिव
तस्याश्चेतसि त्वं प्रविशसि । व्याकुलत्वं पीडामातनुषे । निर्गन्तुं न च जानासि । एवं
च सा त्वय्यत्यन्तमासक्ता त्वमेवाज्ञत्वमाचरसीति व्यज्यते । यद्वा त्वं व्याकुलतां कुरुषे ।
एवं चैतस्या हस्तात्तव न निर्गम इत्यावेद्यते ॥
समीचीनानां समीचीनोऽसमीचीनानामसमीचीन एवाश्रय इति कश्चिदन्योक्त्या
वक्ति--</p>
<lg>
  <l>पश्यानुरूपमिन्दिन्दिरेण माकन्दशेखरो मुखरः ।</l>
  <l>अपि च पिचुमन्दमुकुले मौकुलिकुलमाकुलं मिलति ॥ ३४९ ॥</l>
</lg>
<p>पश्येति । हे सखि, इन्दिन्दिरेण भ्रमरेण । एकत्वमविवक्षितम् । माकन्दस्य । 'मा-
कन्दः सहकारोऽस्त्री' इत्यनुशासनाच्चूतस्य मस्तको मुखरः । अन्यच्च पिचुमन्दस्य ।
'पिचुमन्दश्च निम्बः" इत्यमरः । तन्मुकुले मौकुलीनाम् । 'एकदृष्टिश्चिरंजीवी मौकुलि-
र्द्विक इत्यपि' इति क्षीरस्वामी । काकानां समूहः । आकुलमिति क्रियाविशेषणम् ।
मिलति । इदमनुरूपं त्वं पश्य । एवं च यथायोग्य एवाश्रयो भवतीति भावः । यद्वा
समीचीनानामन्यादृशरीत्यार्जनमसमीचीनानामन्यादृशरीत्या भवतीति कश्चिदन्योक्त्या
वक्ति । माकन्दत्वेन परिमलबहुलत्वं तेन च गमनयोग्यत्वं ध्वन्यते । शेखरो मुखर
इत्यनेन संनिधिसंस्थित्या पाण्डित्यप्रदर्शनद्वारार्जनकारित्वमावेयते । यद्वा शिखरस्थि-
तिप्रतिपादनेन प्रतिष्ठावत्त्वं द्योत्यते । मुकुल इत्येकवचनेनातिस्वल्पत्वमाकुल इत्यनेना-
धैर्यवत्त्वप्रतिपादनेन प्रतिष्ठा वैधुर्यवत्त्वं ध्वन्यते । एवं च यथा भ्रमरकाकयोरर्जने भेदस्तथा
समीचीनासमीचीनयोरिति ध्वन्यते । अथवा समुदायसंपादनपुरःसरातिलौल्येऽपि न
किंचित्फलं नीचानामेकस्य समीचीनस्यापि फलं भवतीत्यन्योक्त्या कश्चिद्वति ॥
सखी नायकसमक्षं नायिकां कयाचन भङ्ग्या स्तौति--</p>
<lg>
  <l>प्रतिबिम्बसंभृताननमादर्शं सुमुख मम सखीहस्तात् ।</l>
  <l>आदातुमिच्छसि मुधा किं लीलाकमलमोहेन ॥ ३५० ॥</l>
</lg>
<p>प्रतीति । हे सुमुख, प्रतिबिम्बेन संभृतं व्याप्तमाननं यस्मिंस्तमादर्शम् । एवं च
प्रतिबिम्बभवनयोग्यत्वं ध्वन्यते । लीलाकमलभ्रान्त्या मम सखीकराद्वृथा । लीलाकम-
लाभावादिति भावः । ग्रहीतुं किमितीच्छसि । सुमुखेत्यनेन बुद्धिशालित्वमावेद्यते ।</p>
<pb n="132" />
<p>एवं च बुद्धिविशेषवतोऽपि तव यत्र मत्सखीकरतलाकलितललितप्रतिबिम्बितवदनारवि-
न्दादर्शे लीलाकमलभ्रमः, तत्रास्मद्विधानामीदृशभ्रमवत्तायां किमपूर्वमिति व्यज्यते । तेन
च नायिकासौन्दर्यम् । अत्र च नायिकावदनप्रतिबिम्बभरितत्वादादर्श एव लीलाकमल-
भ्रमः । 'सुमुखि' इति पाठे नायको नायिकां वक्ति । सुमुखीत्यनेन कमलभ्रान्तिज-
नकत्वमावेद्यते ॥
सखी मानवतीं नायिकां वक्ति--</p>
<lg>
  <l>प्राचीनाचलमौलेर्यथा शशी गगनमध्यमधिवसति ।</l>
  <l>त्वां सखि पश्यामि तथा छायामिव संकुचन्मानाम् ॥ ३५१ ॥</l>
</lg>
<p>प्राचीनेति । हे सखि, प्राक्प्राच्यां भवो योऽचलः । पूर्वाचल इत्यर्थः । तन्मस्तका-
द्यथा चन्द्रो गगनमध्यमधिवसति तथा छायामिव त्वाम् । संकुचन्मानः प्रियापराधजन्य-
चेष्टारूप: । पक्षे परिमाणं यस्या एतादृशीम् । पश्यामि । अत्रोभयत्र वीप्सा युक्तेत्या-
भाति । एवं च यथा यथा चन्द्रप्रकाशातिशयस्तथा तथोद्दीपनातिशयेन मानक्षीणता
भवतीत्यत इदानीं तव समयो गतः पुनर्नायास्यतीत्यत इदानीमेव त्वं तं परित्यज्य यथेच्छं
नायकेन सह रमस्वेति व्यज्यते । यथा यथा शशी गगनमध्यमधिवसतिं करोति तथा
तथा छायापि संकुचिता भवति ॥
कथमागतेन तेन सह संगतिः स्थलाभावान्न वृत्तेति वादिनीं सखीं नायिका वक्ति--</p>
<lg>
  <l>प्राङ्गणकोणेऽपि निशापतिः स तापं सुधामयो हरति ।</l>
  <l>यदि मां रजनिज्वर इव सखि स न निरुणद्धि गेहपतिः ॥३५२॥</l>
</lg>
<p>प्राङ्गणेति । हे सखि, प्रकृष्टमङ्गणं तत्कोणेऽपि । एवं च स्थलसत्त्वमावेद्यते । स
तद्वारकसंकेतशाली । सुधामृतं तत्प्रचुरः । संतापापनोदकत्वादिति भावः । निशापति-
श्चन्द्रः । अथ च निशायां पतिः । उपपतिरित्यर्थः । तापं हरति । यदि मां रात्रिज्वर
इव स दुष्टत्वेन प्रसिद्धो गेहपतिः, न तु प्रियः । न निरुणद्धि । एवं च यदि न तेन रात्रौ
निरोधः कृतः स्यात्तदा क्वचिदङ्गणकोणेऽपि मया तेन सह रतं कृतं स्यादित्यावेद्यते ।
एवं च न ममापराध इति । तेन चैतत्क्षन्तव्यमिति प्रार्थना । ज्वर इवेत्युपमया नायकं
प्रति स्वस्यासामर्थ्यं व्यज्यते । ज्वरवतो बहिर्निःसरणं निशि निषिद्धमिति वैद्यकम् ।
यद्वा गेहपतिरित्यनेन गेहस्थितवस्तुसंरक्षणकर्तृत्वं न मद्रक्षणकर्तृत्वम् । अतो दैवादद्य
गृहवस्तुसंरक्षणप्रवृत्तेन द्रुतमेव गृहकपाटादिदानेन ममापि रक्षणं जातम् । अतः श्वस्तथा य-
तिष्ये यथावश्यं तेन सह संगमो भविष्यतीति ध्वन्यते । 'साधु चन्द्रमसि पुष्करैः कृतं मीलि-
तं यदभिरामताधिके' इतिवदुत्तरवाक्यान्तर्गतस्य यच्छब्दस्य तच्छब्दापेक्षेति बोध्यमत्र ॥
सखी नायकं प्रति नायिकाप्रेमाधिक्यं वक्ति--</p>
<lg>
  <l>पतिपुलकदूनगात्री स्वच्छायावीक्षणेऽपि या सभया ।</l>
  <l>अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि ॥ ३५३ ॥</l>
</lg>
<pb n="133" />
<p>पतीति । पतिः, न तु प्रियः । तत्पुलकैः प्रेमजन्यसात्त्विकभावरूपैः खिन्नानि
गात्राणि यस्याः सा । एवं चातिकोमलाङ्गीत्वं व्यज्यते । खस्य छायाया वीक्षणे सभ-
यापि या । अपिः प्रागप्यन्वेति । सा कण्टकं दलयन्ती । कंण्टकमित्येकत्वमविवक्षितम् ।
अन्धकारे त्वामभिसरति । हे सुभग । एतादृशनायिकाया एतादृशाभिसरणवत्त्वादिति
भावः । खच्छायेत्यनेन परसंसर्गराहित्येनातिप्रामाणिकत्वं द्योत्यते । तेन चैतादृश्यपि
त्वय्यासक्तेत्यतस्त्वया न कदापीयं परित्याज्येति ॥
अक्षक्रीडनं विधेयमधुनेति वादिनीं नायिकां नायको वक्ति--</p>
<lg>
  <l>प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसंकथा गुरुषु ।</l>
  <l>पुरुषायितं पणस्तद्बाले परिभाव्यतां दायः ॥ ३५४ ॥</l>
</lg>
<p>प्रतिभूरिति । शुकः । एवं चान्यथाकरणशीलाभावो व्यज्यते । प्रतिभूर्लग्नकः । गुरुषु
शृङ्गारस्य कथनमेव विपक्षे उक्ताकरणेऽयमेव दण्डः । पुरुषायितं विपरीतरतं पणः परा-
जये देयं वस्तु । तत्तर्हि बाले दायः पाशपातनं परिभाव्यतां क्रियताम् । एवं चाक्षक्री-
डने यदि तवास्ति रतिस्तर्ह्यनया रीत्याक्षक्रीडनं विधेयमिति भावः । एवं च रत्युत्कण्ठा
ध्वन्यते । अत्र बालापदेन मुग्धा न विवक्षिता । तस्यास्त्वेवंविधप्रागल्भ्याभावात् ॥
कयाचन विलोकितः कश्चित्तां प्रत्याह--</p>
<lg>
  <l>परमोहनाय मुक्तो निष्करुणे तरुणि तव कटाक्षोऽयम् ।</l>
  <l>विशिख इव कलितकर्णः प्रविशति हृदयं न निःसरति ॥ ३१९ ॥</l>
</lg>
<p>परेति । उत्कृष्टसुरताय । 'मोहनं नारभेत्तावत्' इत्यादि कामतन्त्रे मोहनशब्दस्य
सुरतार्थकत्वेन कथनात् । यद्वोत्कृष्टभ्रान्त्यै । अथवान्यस्य वश्यतासंपादनाय । पक्षे शत्रु-
मूर्छायै मरणायेति वा । मुक्तः । कलितः कर्णो येन । आकर्णविशाल इत्यर्थः । पक्षे
कर्णान्ताकृष्ट इत्यर्थः । तव कटाक्षो बाण इव हृदयं प्रविशति । न निःसरति । हे
तरुणि । एवं च बलवत्प्रेरितत्वेन दुःसहत्वं ध्वन्यते । अत एव निर्गतकरुणे । कलितकर्ण
इत्यनेन संपूर्णाकर्षणेन भेदविशेषकर्तृत्वं द्योत्यते । एवं चाहं त्वदायत्त इति व्यज्यते ॥
सखी नायकं प्रति वक्ति--</p>
<lg>
  <l>प्रपदालम्बितभूमिश्चुम्बन्ती प्रीतिभीतिमधुराक्षी ।</l>
  <l>प्राचीराग्रनिवेशितचिबुकतया न पतिता सुतनुः ॥ ३५६ ॥</l>
</lg>
<p>प्रपदेति । पदाग्रावलम्बितभूमिः। प्रीतिभयाभ्यां मनोज्ञनयना। त्वां चुम्बन्ती सुतनुः।
एवं च सङ्गयोग्यत्वं ध्वन्यते । वृत्यप्रस्थापितचिबुकभावेन न पतिता । एवं च साहस-
कारित्वमावेद्यते ॥
नायिका सखीं वक्ति--
प्रातरुपागत्य मृषा वदतः सखि नास्य विद्यते व्रीडा
मुखलग्नयापि योऽयं न लज्जते दग्धकालिकया ॥ ३५७ ॥</p>
<pb n="134" />
<p>प्रातरिति । प्रातः समीपमागत्य मृषाभाषिणः । नाहमन्यत्र गत इति । अस्य । प्रि-
यस्येत्यनुपादानादत्यन्तदुःखवत्त्वं ध्वन्यते । लज्जा न विद्यते । ननु वास्तवं न गत एव
भविष्यतीत्यत आह — योऽयं वदनलग्नया दग्धकालिकया । नयनचुम्बनजन्ययेति भावः ।
दग्धपदेन तस्या द्वेषविशेषवत्तावेद्यते । न लज्जते । एवं च प्रात्यक्षिकरतचिह्नवत्वान्मि-
थ्याभाषित्वं दृढीक्रियते । अथ च श्याममुखत्वेऽपि परिहारकारकतया निर्लज्जत्वं
द्योत्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>पश्योत्तरस्तनूदरि फाल्गुनमासाद्य निर्जितविपक्षः ।</l>
  <l>वैराटिरिव पतङ्गः प्रत्यानयनं करोति गवाम् ॥ ३५८ ॥</l>
</lg>
<p>पश्येति । हे कृशोदरि, उत्तरा दिगस्त्यस्य । अर्शआदित्वादच् । उत्तरदिक्संबन्धी ।
पक्ष उत्तर इति तन्नाम । निर्जितहिमादिविपक्षः । पक्षे विपक्षः सुयोधनादिः । पतङ्गः
सूर्यः । फाल्गुनं मासम् । पक्षेऽर्जुनम् । प्राप्य विराटापत्यमिव गवां किरणानाम् । पक्षे
धेनूनाम् । परावृत्तिं करोति । हेमन्तापगमात्तेजोविशेषशालितया किरणप्रत्यायनोक्तिः ।
एवं च हेमन्ते गतेऽपि वसन्तादाववश्यं मदनमहत्तरशरसंत्रस्तस्तव प्रियः समायास्यतीति
व्यज्यते । यद्वा यथा फाल्गुनसाहाय्येन वैराटिना गावः परावृत्त्यानीताः पतङ्गेन किरणाः,
तथा त्वमपीदानींतनैतादृशसमयसाहाय्येन नायकचित्तस्याङ्गनातः परावृत्तिं विधेहीति
ध्वन्यते । श्लेषमात्रमत्रेति ऋजवः । केनचित्कस्यचित्साहाय्येन स्वकीयं गतं वस्त्वानीयत
इत्यन्योक्तिरपि ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>प्रमदवनं तव च स्तनशैलं मूलं गभीरसरसां च ।</l>
  <l>जगति निदाघनिरस्तं शैत्यं दुर्गत्रयं श्रयति ॥ ३५९ ॥</l>
</lg>
<p>प्रमदेति । अन्तःपुरसमीपवनं प्रकृष्टमदकारि वनं वा । त्वदीयस्तनशैलम्, गभीरस-
रसां मूलमिति दुर्गत्रयं निदाघेन ग्रीष्मेण जगति निरस्तं शैत्यं श्रयति । एवं च नितरां
दाघो यस्मादिति व्युत्पत्त्या मदनसंतापसंतप्तस्य मम त्वत्कुचावेव शरणाविति व्यज्यते।
तेन च त्वं मदङ्गीकारं कुर्विति । अन्योऽपि केनचित्पराभूतो वनशैलजलदुर्गाश्रयेण जी-
वतीति लौकिकम् । अत्र किं किं दुर्गमिति विशेषकर्माकाङ्क्षायां प्रमदेत्यादि । एवं च
निदाघकाले शैत्यं स्थलत्रयेऽधिवसतीति भावः ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>प्रोञ्छति तवापराधं मानं मर्दयति निर्वृतिं हरति ।</l>
  <l>स्वकृतान्निहन्ति शपथाञ्जागरदीर्घा निशा सुभग ॥ ३६० ॥</l>
</lg>
<p>प्रोञ्छतीति । त्वत्कृतापराधम् । एकत्वमविवक्षितम् । प्रोञ्छति । एवं च निः-</p>
<pb n="135" />
<p>शेषतो दूरीकरोति । मानम् । नायिकया कृतमिति भावः । मर्दयति । निर्वृतिं हरति ।
दुःखं जनयतीत्यर्थः । नायिकाया एवेति भावः । नायिकाकृताञ्शपथान् । यद्यहमधुना-
नेन सह संभाषणमपि करिष्ये तर्हि विरचितातनुचरणपरिचरणं विफलीकरिष्य इत्ये-
वमादीन् । निहन्ति । उपसर्गेण स्वकृतशपथस्मृतिबीजसंस्काराभावो व्यज्यते । जाग-
रेण दीर्घा रात्रिः । हे सुभग । अचेतनयापि निशयानुकूल्यसंपादनादिति भावः । जाग-
रेण दीर्घा निशा यस्या इति वा ॥
सखी नायिकावृत्तमपरसखीं वक्ति--</p>
<lg>
  <l>प्रिय आयाते दूरादभूत इव संगमोऽभवत्पूर्वः ।</l>
  <l>मानरुदितप्रसादाः पुनरासन्नपरसुरतादौ ॥ ३६१ ॥</l>
</lg>
<p>प्रिय इति । प्रिये, न तु पत्यौ । दूरादायाते । एवं च विरहवत्त्वमावेद्यते । प्रथमः
सङ्गोऽसंजातप्राय इवाभवत् । द्वितीयसुरतारम्भे मानरुदितप्रसादाः । पुनस्त्वर्थे । अभ-
वत् । एवं च संगमस्याप्यज्ञानादत्यन्तमन्मथविकारशालित्वमावेद्यते । स्वभाववर्णनमेतत् ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>पूर्वमहीधरशिखरे तमः समासन्नमिहिरकरकलितम् ।</l>
  <l>शूलप्रोतं सरुधिरमिदमन्धकवपुरिवाभाति ॥ ३६२ ॥</l>
</lg>
<p>पूर्वेति । उदयाचलमस्तके निकटवर्त्यरुणकिरणकवलितमिदं तमः शूलाग्रप्रोतसरु-
धिरान्धकनामकदैत्यशरीरमिव शोभते । एवं च प्रातःकालः संवृत्तः, अत उपपतिर्नि:-
सार्यतामिति द्योत्यते । नायकसहचरवचनमिदं वा । एवं चाधुना निर्गन्तव्यमिति भी-
तिप्रदर्शनपुरःसरं व्यज्यते । अथवा नायिकायाः पद्मिनीत्वात् सूर्योदयोत्तरं सुरतविधा-
नस्यौचित्येन सूर्योदयः सत्वरमेव भविष्यतीति ज्ञापकमिदं नायिकासहचरीवाक्यम् । यद्वा
नायको नायिकां वक्ति । अक्षरच्युतकालंकारवदक्षरपूर्वकस्यापि युक्तितौल्यादलंकार-
तया पूर्वमहीधरशिखर इत्यस्याभिनवस्तनाग्र इत्यर्थः । संलग्नकाश्मीरदीप्तिकलितमिदं
केशजातं शूलाग्रप्रोतरुधिराक्तान्धकासुरवपुरिव । तस्य श्यामत्वादिति भावः । आ-
भाति । एवं च विपरीतरतसमग्रसंजातमुक्तिमुख चुम्बननमनकुचशिखरनिपतितकेशक-
लापवत्तयातिशयितशोभास्ति, अत एवमेव केशकलापावस्थितिरास्तामिति व्यज्यते ।
तेन च विपरीतरतान्न विरतिर्विधेयेति । ननु शृङ्गारबीभत्सयोर्विरोधात् कथमत्रोभयनिब-
न्धनमिति चेत् 'स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः । अङ्गिन्यङ्गत्वमाप्तौ यौ
तौ न दुष्टौ परस्परम् ॥' इत्युक्त्या यथा तथाविधान्धकवपुश्चमत्करोति तथैवंविधकेश-
कलाप इति साम्यप्रतिपादनेन दोषाभावात् ॥
सखी नायिकां शिक्षयति--</p>
<lg>
  <l>परिवृत्तनाभि लुप्तत्रिवलि श्यामस्तनाग्रमलसाक्षि ।</l>
  <l>बहुधवलजघनरेखं वपुर्न पुरुषायितं सहते ॥ ३६३ ॥</l>
</lg>
<pb n="136" />
<p>परीति। हे अलसाक्षि । गर्भभरालसत्वादिति भावः । परिवृत्तनाभि । लुप्तत्रि-
वलि । श्यामचूचुकम् । बह्व्यो धवला जघने नखरेखा यस्मिंस्तत् । गर्भे जघने कण्डू-
तेर्जायमानत्वादिति भावः । सर्वमेतत्परिपक्वगर्भचिह्नम् । ते एवंविधं शरीरं पुरुषायितं
विपरीतरतम् । तत्करणसमर्थं न । एवं चाधुना प्राग्वद्विपरीतरतं न विधेयमिति
व्यज्यते ॥
सखी नायकोत्साहवर्धनाय नायिकां वक्ति--</p>
<lg>
  <l>प्रारब्धनिधुवनैव स्वेदजलं कोमलाङ्गि किं वहसि ।</l>
  <l>ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्हतेव मधु ॥ ३६४ ॥</l>
</lg>
<p>प्रारब्धेति । आरब्धसुरतैव । अत्रोपसर्गोऽनुचितः । हे कोमलाङ्गि, स्वेदजलम् ।
जलपदमाधिक्यं द्योतयति । वहसि । इदं तत्किम् । नोचितमित्यर्थः । सज्जीकर्तुं न-
मिता कुसुमास्त्रस्य मदनस्य धनुर्लतेव मधु । एवं च सुरतारम्भ एवैतादृशश्रमः, तत्राग्रे
कथं भविष्यतीति नायिकायां सौकुमार्यमावेद्यते । तेन चैतादृशी नायिका दुर्लभतरेति ।
मदनधनुर्लंतासमताप्रतिपादनेनानयैव मदनस्य जगज्जय इति प्रतिपादनेनेतरनायिकाव्य-
तिरेको ध्वन्यते । यद्वारब्धनिधुवनैवेत्यनेनैतस्या अयं स्वभावो यत्सुरतादावेव श्रमो नो-
त्तरकालमिति ज्ञापनेन यथेच्छं भीतिमपहाय सुरतसंगरो विधेय इति नायकं प्रति व्य
ज्यते । नायकोक्तिरियं वा ॥
जायाजितोऽयमित्यपकीर्तिभाषिसर्वलोकावगणनां विधायापि मया त्वदधीनतयैव
स्थीयत इति ज्ञापयितुं भङ्ग्यन्तरेण नायको नायिकां वक्ति--</p>
<lg>
  <l>पुंसां दर्शय सुन्दरि मुखेन्दुमीषत्त्रपामपाकृत्य ।</l>
  <l>जायाजित इति रूढा जनश्रुतिर्मे यशो भवतु ॥ ३६५ ॥</l>
</lg>
<p>पुंसामिति । हे सुन्दरि, लज्जां दूरीकृत्य स्वमुखचन्द्रमितरनायकानामीषद्दर्शय ।
एवं च लज्जापरित्यागस्यैतत्फलं यदीषन्मुखदर्शनमित्यत्यन्तलज्जावत्त्वमावेद्यते । ईषत्त्र-
पामपाकृत्येत्यपि योजना । चन्द्रपदेन दर्शनीयत्वमावेद्यते । तत्फलमाह--जायया जित
इति ख्यातो जनवादो मे यशो भवतु । एवं च त्वदीयैतादृशसौन्दर्योत्कर्षं दृष्ट्वैतादृशना-
यिकाजितत्वमत्यन्तपुण्योद्रेकलभ्यमिति यशसे भवत्विति भावः । एवं च त्वमेतादृशसौ-
न्दर्यशालिनीति ध्वन्यते । एवं चैतादृशे मयि कोपकरणमनुचितमित्यावेद्यते ॥
यद्यपि घटनाविधाननिपुणा दूती, संतापापनोदको नायकश्च वर्वर्ति, तथापि निर्ब-
न्धशालितयास्माकं न किंचिदपि फलमिति काचिद्वक्ति--</p>
<lg>
  <l>प्रसरतु शरस्त्रियामा जगन्ति धवलयतु धाम तुहिनांशोः ।</l>
  <l>पञ्जरचकोरिकाणां कणिकाकल्पोऽपि न विशेषः ॥ ३६६ ॥</l>
</lg>
<p>प्रसरत्विति । शरत्कालीना रात्रिः प्रसरतु । तुहिनांशोधम जगन्ति धवलयतु ।</p>
<pb n="137" />
<p>संतापजन्यमालिन्यनिवारकतयेति भावः । पञ्जरस्थचकोरिकाणाम् । चकोरीपदेन तदे-
काधीनजीवनवत्त्वमावेद्यते । कणिकातो न्यूनोऽपि न विशेषः ॥
कथमनयातिविलम्बितमिति वादिनं नायकं नायिकासखी समाधत्ते--</p>
<lg>
  <l>प्रथमागत सोत्कण्ठा चिरचलितेयं विलम्बदोषे तु ।</l>
  <l>वक्ष्यन्ति साङ्गरागाः पथि तरवस्तव समाधानम् ॥ ३६७ ॥</l>
</lg>
<p>प्रथमेति । हे प्रथमागत । एवं च कोपौचित्यमिति व्यज्यते । उत्कण्ठासहितेयम् ।
अत एव चिरकालं चलिता । स्वसदनादिति भावः । ननु विलम्बः किमित्यत आह--
विलम्बदोषे तु । दोषपदेन करणानर्हत्वं ध्वन्यते । समाधानं सहाङ्गरागेण वर्तन्त एता-
दृशा मार्गस्थतरवो वक्ष्यन्ति । एवं च किमर्थमन्त्रास्माभिः समाधानं विधेयमिति भावः ।
पथिपदमवश्यंभाविदर्शनवत्तामावेदयति। एवं च त्वद्विरहाद्भ्रान्तिवशात्त्वद्भ्रमेण प्रतिपदपद्ध-
तिपादपालिङ्गनेन विलम्बः संवृत्त इति व्यज्यते । तेन च क्षणमपि त्वद्विरहमसहमाने-
यमिति । 'विलम्बदोषेण' इति पाठे संकेते बहुकालं नायकं प्रतीक्ष्य स्वगृहं प्रति गतायां
नायिकायां समागतनायकं प्रति नायिकासखी वक्ति । प्रथममागता । यतः सोत्कण्ठेयं
नायिका । विलम्बदोषेण । तवेति भावः । पथि । स्वगृहस्येति भावः । अचिरम् ।
अधुनेत्यर्थः । चलिता । ननु मिथ्यैव त्वं वदसीत्यत्राह--तव समाधानं साङ्गरागाः ।
स्वगमनज्ञानाय चिह्नवन्तः कृता इत्यर्थः । तरवो वक्ष्यन्ति । एवं च न तस्या अपराध
इति भावः । नकारपाठे पदच्छेदेन काक्वा व्याख्येयमाद्यव्याख्यावत् ॥</p>
<lg>
  <l>[^१]पंतितेंऽशुके स्तनार्पितहस्तां तां निबिडजघनपिहितोरुम् ।</l>
  <l>रदपदविकलितफूत्कृतिशतधुतदीपां मनः स्मरति ॥ ३६८ ॥</l>
</lg>
<p>पतितेति । अंशुके पतिते सति स्तनस्थापितहस्ताम् । अत्यन्तं जघनाच्छादितोरुम् ।
ओष्ठयोर्विकलतामाप्ता या फूत्कृतिः । अत एव तच्छतेन कम्पितः, न तु निर्वापितः, दीपो
यया ताम् । लज्जाभयवशादिति भावः । तां पूर्वानुभूतां नायिकां मनः स्मरति । एव-
मेव किमिति स्थितोऽसीति वादिनं कंचित्प्रति कस्यचिदुक्तिरियम् ॥
संकेतितक्रीडाचलमौलिकुञ्जे नायकः समधिवसतीत्यतस्त्वरया तत्र गन्तव्यमिति
ज्ञापयितुमन्येषां च गमने भीतिमुपदर्शयन्ती दूती नायिकां वक्ति--</p>
<lg>
  <l>परितः स्फुरितमहौषधिमणिनिकरे केलितल्प इव शैले ।</l>
  <l>काञ्चीगुण इव पतितः स्थितैकरत्नः फणी स्फुरति ॥ ३६९ ॥</l>
</lg>
<p>परित इति । हे सखि, केलिशयनीय इव समन्तात् सप्रकाशौषधिमणिसमूहवति
शैले। पक्षे महौषधितुल्यमणिसमूहवतीत्यर्थः । काञ्चीसूत्रमिव पतितश्चासौ स्थितैकर-
त्नश्च फणी स्फुरति । एवं च दीपादिस्थानाभिषिक्तौषधिसप्रकाशे विविधपल्लवादिमृदु-
शय्याशालिनि क्रीडाशैले निरन्तरजघनसङ्गयोग्यश्चिरागमनतया त्वदनागमनेन सालस
-----------------------------------------------------------------------------------------
[^१]. पतितेत्याद्यार्या केषुचित्पुस्तकेषु नास्ति.</p>
<pb n="138" />
<p>इव सकलनायकशिरोरत्नरूपः प्रबलतरतयान्यजननिर्भयः खड्गविद्याविशारदो नायकः
समधिवसतीत्यतस्त्वरस्व गमनायेति ध्वन्यते । महत्तरसर्पाक्रान्ततया शैलस्य गमनानई-
त्वमन्येषामावेद्यते । केलितल्पसादृश्येन नायिकायाः सुखगमनयोग्यत्वं ध्वन्यते । काञ्ची-
गुणसादृश्येन निरन्तरजघनसंगतिशालित्वप्रतिपादनेनातिमदनशालित्वं व्यज्यते । पतित
इत्यनेन दैववशाल्लब्ध इति ध्वन्यते । यद्वा सखी नायिकां वक्ति--समन्तान्महौषधिम-
णिसमुदायवति । पक्षे प्रकाशातिशयशालिमणिनिकरवति । निर्भरतातिशयविधाना-
न्मणिमुक्तादिग्रीवाद्याभरणभ्रंशादिति भावः । शैल इव केलितल्पे । शैलसमताप्रतिपा-
दनेनातिदृढत्वं तल्प आवेद्यते । तेन चैतादृशरतविमर्दसहनयोग्यत्वम् । पतितः । प्रसुप्त इति
यावत् । स्थितमेकरत्नं यस्मिन् सः । फणायामिति भावः । पक्षे पतितः । त्रुटितत्वादिति
भावः । स्थितं मुख्यं रत्नं यस्मिन्स फणीव काञ्चीगुणः स्फुरति । तवेति भावः । फणि-
पदेन स्पर्शायोग्यत्वं ध्वन्यते । एवं च तथाशयितरतसंविधानजन्यालसतया निकटस्थ-
काञ्चीगुणोऽपि स्प्रष्टुं न शक्यते त्वयेत्यतो मामाज्ञापयसि तदानयनार्थमित्यावेद्यते ॥
अन्याङ्गनासक्त्येतस्ततः परिभ्रमन्तं नायकं नायिकान्योक्त्या वक्ति--</p>
<lg>
  <l>प्रावृषि शैलश्रेणीनितम्बमुज्झन्दिगन्तरे भ्रमसि ।</l>
  <l>चपलान्तर घन किं तव वचनीयं पवनवश्योऽसि ॥ ३७० ॥</l>
</lg>
<p>प्रावृषीति । वर्षासमये । एवं च बहिर्गमनानर्हत्वं व्यज्यते । पर्वतश्रेणीनितम्बम् ।
'नितम्बः कटकोऽस्त्रियाम् । अथ च स्खनितम्बिनीस्तननितम्बम् । उज्झंस्त्यजन् ।
दिगन्तरे । इतस्तत इत्यर्थः । भ्रमसि । चपला विद्युत्सान्तरे मध्ये यस्य । अथ च चप-
लेतस्ततो गमनस्वभावा पराङ्गनान्तरे चित्ते यस्य । यद्वा चञ्चलस्वभाव चलचित्त ।
घन तव किं वचनीयम् । वाच्यमित्यर्थः । यतः पवनवश्योऽसि वाय्वधीनोऽसि । अथ च
वातूलोऽसि । पिशाच इति यावत् । एवं च यतो यतो वायुना नीयसे तत्र तत्र गच्छ-
सीति न तवापराध इति व्यज्यते । एवं च सुन्दरीं नवयौवनलालसां मादृशीं विहाये-
तस्ततो व्यभिचरणशीलामन्तःकरणे विधाय पिशाचवदितस्ततो भ्रमसि तत्र न तवाप-
राधः किं तु मौढ्यस्येति व्यज्यते ॥
सर्वदा मानवत्तयैव त्वया स्थीयत इदमनुचितमिति भङ्ग्यन्तरेण सखी नायिकां
वक्ति--</p>
<lg>
  <l>प्रतिदिवसक्षीणदशस्तवैष वसनाञ्चलोऽतिकरकृष्टः ।</l>
  <l>निजनायकमतिकृपणं कथयति कुग्राम इव विरलः ॥ ३७१ ॥</l>
</lg>
<p>प्रतीति । प्रतिदिनं क्षीणा दशा प्रान्तभागो यस्य । पक्षे क्षीणावस्थः । अत्यन्तं करेण
हस्तेनाकृष्टः। पक्षेऽत्यन्तराजदण्डपीडितः । विरलः शिथिलतन्तुसंयोगवान् । पक्षे
स्वल्पजनवसतिः । तव एष वसनाञ्चलो निजस्वामिनं कुग्राम इव कृपणम् । वसनान्तर-
ग्रहणासामर्थ्यादिति भावः । पक्षे द्रव्यलोभकरणेनेति भावः । कथयति । एवं चैतादृश-</p>
<pb n="139" />
<p>मानसंपादनेन नायकस्य वारं वारं प्रार्थनादिसंपादनावगणनेन नायं नायिकासुखप्रदो यतः
सर्वदेयं क्लेशवत्येव लक्ष्यत इत्ययशस्तदीयं भवति । तदियं स्वस्यैवानौचितीमाविष्करोति,
अतो नैतादृशं विधेयमित्यावेद्यते ॥
काचित्पथिकं वक्ति--</p>
<lg>
  <l>पथिक कथं चपलोज्ज्वलमम्बुजलबिन्दुनिवहमविषह्यम् ।</l>
  <l>मयपुरकनकद्रवमिव शिवशरशिखिभावितं सहसे ॥ ३७२ ॥</l>
</lg>
<p>पथिकेति । हे पथिक । एवं च वसत्यभाववत्त्वमावेद्यते । चपलाभिर्विद्युद्भिरुज्ज्व-
लम् । पक्षे चपलावदुज्ज्वलम् । अविषह्यम् । उद्दीपकत्वादिति भावः । पक्ष उष्णत्वा-
दिति भावः । मेघजलसमुदायबिन्दुसमुदायम् । न तु कतिपयजलबिन्दवः । शंकरबाणा-
नलसंतापितम् । अत्र शिवपदं प्रकृताननुगुणम् । मयनामकदैत्यनगरकनकद्रवमिव कथं
सहसे । एवं च कथं वृष्टिमध्य एव स्थीयते कुतो नागम्यते वृष्टिबाधोपशमनस्थल इति
भावः । एवं चैतादृशोद्दीपनविभाववति समये कथमेकाकितया स्थातुं शक्यम्, अतो मत्स-
विधमागत्यैनं समयमतिवाहयेति व्यज्यते ॥
काचित् काञ्चिद्वदति--</p>
<lg>
  <l>पथिकं श्रमेण सुप्तं दरतरला तरुणि सुमधुरच्छाया ।</l>
  <l>व्यालम्बमानवेणिः सुखयसि शाखेव सारोहा ॥ ३७३ ॥</l>
</lg>
<p>पथिकमिति । हे तरुणि । ईषच्चञ्चला । सुष्टु मधुरा छाया यस्याः । व्यालम्बमाना
वेणिर्यस्याः । विपरीतरतसंविधानादिति भावः । सारोहा सशिफा । 'शाखा शिफावरोह:
स्यात्' इत्यमरः । पक्ष आरोहणमारोहः । शाखेव सुखयसि । मदनानलतापनिवारकत्वा-
दिति भावः । श्रमेण सुप्तं पथिकम् । पथिकपदेन सुखसंपादनयोग्यत्वं ध्वन्यते । शा-
खापि किंचिच्चञ्चला शीतलच्छाया लम्बमानजटा श्रमसुप्तपथिकसुखहेतुर्भवति । एवं
चानेन सह त्वया विपरीतरतं विहितमिति ध्वन्यते । यद्वा पथिकं सुखयसीति सुखयि-
घ्यसीति प्रश्नः । पथिकमित्यनेनातिकामुकत्वं तत्सुखदानेन पुण्यवत्त्वमन्यापरिचेयत्वं च
व्यज्यते ॥
निगूढमन्याङ्गनासक्तचित्तं नायकं नायिकासखी वक्ति--</p>
<lg>
  <l>प्रददाति नापरासां प्रवेशमपि पीनतुङ्गजघनोरूः ।</l>
  <l>या लुप्तकीलभावं याता हृदि बहिरदृश्यापि ॥ ३७४ ॥</l>
</lg>
<p>प्रददातीति । या तव हृदि बहिरदृश्यापि लुप्तकीलधर्मं याता सा तुङ्गपीनजघनोरू-
रपरासां प्रवेशमपि न प्रददाति । लुप्तकीलभावे बहिरदृश्यत्वं हेतुः । अन्यासां प्रवे-
शाप्रदाने तुङ्गपीनजघनोरुत्वं हेतुः । अपिनावस्थितिव्यवच्छेदः । एवं च काचित्तवान्तः-
करणेऽस्ति ययान्यत्र चित्तं न ददासीति व्यज्यते । भूमावन्तर एकस्मिन्कीले सत्यन्य-
कीलस्य न तत्र प्रवेश इति लौकिकम् । यद्वा कथमन्याङ्गनालम्पटस्त्वमसीति वादिनीं</p>
<pb n="140" />
<p>नायिकासखीं नायको वक्ति । तुङ्गेत्यादिनान्याङ्गव्यतिरेको ध्वन्यते । एवं च यद्यपि न
मया मुखतस्तथा चाटुवचनादि विधीयते परं तु मम हृदयमियमेवाधिवसति न काचि-
दन्या हृदयविषयापीति व्यज्यते । अथवा नायिकोक्तिरियम् ॥
कथमस्मासु श्वश्रूर्न स्निह्यतीति वादिनमनभिज्ञनायकं नायिकासखी वक्ति--</p>
<lg>
  <l>प्रातर्निद्राति यथा यथात्मजा लुलितनिःसहैरङ्गैः ।</l>
  <l>जामातरि मुदितमनास्तथा तथा सादरा श्वश्रूः ॥ ३७५ ॥</l>
</lg>
<p>प्रातरिति । यथा यथा । लुलितानि ग्लानान्यत एव निःसहानि । सालस्यानीत्यर्थः ।
एवंविधैरङ्गैः प्रातरात्मजा निद्राति, मुदितमनाः श्वश्रूर्जामातरि तथा तथा सादरा भ-
वति । लुलितनिःसह्रैरित्यनेन रतातिशयशालित्वमावेद्यते । आत्मजेत्यनेन तत्सुखवत्त्वेन
तस्याः सुखवत्त्वमिति ध्वन्यते । एवं च त्वयाद्य रात्रौ तथा रतातिशयो विधेयो यथेयं
मत्सखी प्रातरत्यन्तनिःसहाङ्गतया स्वापं करिष्यतीति व्यज्यते ॥
नायिका सखीं वक्ति---</p>
<lg>
  <l>प्रणयचलितोऽपि सकपटकोपकटाक्षैर्मयाहितस्तम्भः ।</l>
  <l>त्रासतरलो गृहीतः सहासरभसं प्रियः कण्ठे ॥ ३७६ ॥</l>
</lg>
<p>प्रणयेति । हे सखि, प्रणयात्प्रीतेश्चलितोऽपि, प्रणयेन वा चलितः । सकपटा ये को-
पकटाक्षास्तैराहितस्तम्भः संपादितस्थैर्यः । त्रासेन तरलः । मत्कृतकोपकटाक्षादिति
भावः । प्रियो मया सहासरभसं कण्ठे कृतः । एवं च नायकेऽतिसरलत्वमावेद्यते ॥
काचिन्नायका कस्मिंश्चिदासक्ता तदीयान्याङ्गनासक्तिं विज्ञायात्यन्तदुःखिता स्वहृदयं
प्रति वक्ति--</p>
<lg>
  <l>प्रियदुर्नयेन हृदय स्फुटसि यदि स्फुटनमपि तव श्लाघ्यम् ।</l>
  <l>तत्केलिसमरतल्पीकृतस्य वसनाञ्चलस्येव ॥ ३७७ ॥</l>
</lg>
<p>प्रियेति । हे हृदय । एवं चोपदेशयोग्यत्वं ध्वन्यते । प्रियस्य दुर्नयेन । एवं चातिदुः-
खवत्त्वमावेद्यते । यदि स्फुटसि विदीर्णतामाप्नोषि तर्हि तव स्फुटनमपि श्लाघ्यम् । तस्य
केलिरूपसङ्ग्रामे तल्पीकृतवस्त्रप्रान्तस्येव । समरपदेनातिदुःसहत्वं रत आवेद्यते । एवं च
शय्यादिविरहवत्यपि देशेऽत्यन्तसाहसेन चिरतरसुरतसुखसंपादनेन यः प्रियत्वात्परितोषि-
तस्तदीयैतादृशदुश्चेष्टितस्यातिदुःसहतया 'विरमति कथनं विना न खेदः' इत्यादिवचना-
त्कस्यचित्कथनानर्हत्वेऽपि स्वस्यैवैतादृशाविचारितकार्यकारितयातिमौर्ख्यावहतया कथनी-
यत्वेन तद्भराद्विदीर्णतापि समुचिता न पुनरन्यत्र तत्कथनमिति ध्वन्यते । तेन चैतादृ-
शप्रियानुचिताचरणस्य कथने स्वस्यैव लज्जाजनकत्वमिति । यद्वा येनैतादृशसंभोगसुखमु-
स्पादितं तदीयैतादृशौदासीन्ये मरणमेव वरं न पुनर्दूत्यादिप्रेषणं मानादिधारणं वेति
ब्यज्यते । अपिरवधारणार्थः । 'प्रियदुर्नयेनात्यन्तं दुःखं भवतीति भावः' इति ऋजवः ॥</p>
<pb n="141" />
<p>कश्चिदन्योक्त्या कस्यचित्कर्तव्यतामालोक्य स्वयमपि तथाकर्तुमुद्यतं कंचन वक्ति--</p>
<lg>
  <l>पवनोपनीतसौरभदूरोदकपूरपद्मिनीलुब्धः ।</l>
  <l>अपरीक्षितस्वपक्षो गन्ता हन्तापदं मधुपः ॥ ३७८ ॥</l>
</lg>
<p>पवनेति । समीरणाहृतसौरभा, उदकपूरवर्तिनी या पद्मिनी तस्यामासक्तोऽविचा-
रितस्वपक्षबलो मधुपः । हन्त इति खेदे । आपदं गन्ता । पवनपदेन चञ्चलस्वभावेन
केनचिदेतस्याः कीर्तिः कृतेति व्यज्यते । दूरोदकपूरेत्यनेन प्राप्तावपि काठिन्यमावेद्यते ।
अपरीक्षितेत्यनेन यथाकथंचित्स्वसहायवचनमात्रादेव नोद्योगः कर्तव्य इति ध्वन्यते ।
आपदमित्येकत्वमविवक्षितम् । मधुप इत्यनेनाविवेकित्वं ध्वन्यते । एवं यथाकथंचित्क.
स्यचिन्मुखान्नायिकागुणश्रवणमात्रेण दुष्प्रापायां तस्यामासक्तिर्यद्यनेन क्रियते तर्ह्यनेनाव-
श्यं क्लेशाः प्राप्या एवेति भावः । एवं च त्वयैतादृगनुचितं नाचरणीयमिति व्यज्यते ॥
प्रेमवशानायके लघुतामङ्गीकुर्वत्यपि स्वयं नावगणना विधेयेति सखी नायिकां भ
ङ्ग्यन्तरेण शिक्षयति--</p>
<lg>
  <l>प्रेमलघूकृतकेशववक्षोभरविपुलपुलककुचकलशा ।</l>
  <l>गोवर्धनगिरिगुरुतां मुग्धवधूर्ध्निभृतमुपहसति ॥ ३७९ ॥</l>
</lg>
<p>प्रेमलघूकृतेति । प्रेम्णा । नायिकाविषयकेणेत्यर्थः । लघुकृतः । वास्तवतया तस्य
चतुर्दशभुवनाधारतयातिगुरुत्वादिति भावः । एवं च प्रियाप्रणयात्किं किं न क्रियत
इति ध्वन्यते । यः केशवस्तस्य वक्षसि धारणे विपुलपुलकौ कुचकलशौ यस्या एतादृशी
मुग्धा सुन्दरी । अथ च मूढा । वधूः । यद्वा मुग्धस्य वधूः । एवं च प्रियस्य चातुर्य-
वत्त्वे नायिकाया अपि तद्वत्त्वं भवतीति ध्वन्यते । गोवर्धननामधेयमहीधरस्य गुरुतां
गुप्तं हसति । येन गोवर्धनोद्धारणं कृतं सोऽपि मया लघुतया वक्षसि धृत इति न किं-
चिद्गौरवमिति धियेति भावः । एवं च केशवस्याप्युपहासो व्यज्यते । एवं चैतादृश-
मौर्ख्यं न कदापि विधेयं त्वयेति ध्वन्यते ॥
प्रियप्रीतौ सत्यां न केनापि किमपि कर्तुं शक्यमिति काचित्कांचिद्वक्ति--</p>
<lg>
  <l>प्रियविरहनिःसहायाः सहजविपक्षाभिरपि सपत्नीभिः ।</l>
  <l>रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृहभङ्गभीताभिः ॥ ३८० ॥</l>
</lg>
<p>प्रियेति । दयितविरहक्षीणायाः । एवं च प्रकारान्तरमरणे समाधेः सत्त्वादिति भावः ।
सहजशत्रुभूताभिरपि । एवं चावश्यापकारकरणयोग्यत्वं द्योत्यते । अपिनान्येषां का
वार्तेति व्यज्यते । गृहभङ्गभीताभिः । एतस्या मरणे प्रियमरणस्यावश्यं भावित्वादिति
भावः । एवं च प्रियानुरागातिशयवत्त्वमावेद्यते । मृगाक्ष्याः प्राणा रक्ष्यन्ते । एवं च
यथा नायकः स्निह्यति तथावश्यं विधेयं त्वयेति ध्वन्यते ॥
नायिका दूर्ती वक्ति--</p>
<lg>
  <l>प्रकटयति रागमधिकं लपनमिदं वक्रिमाणमावहति ।</l>
  <l>प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥ ३८१ ॥</l>
</lg>
<pb n="142" />
<p>प्रकटयतीति । हे दूति । एवं च तद्योगसंपादनं त्वदधीनमित्यावेद्यते । शुक्रस्येव
दयितस्य लपनं संभाषणम् । पक्षे वदनम् । अधिकं रागं प्रीतिम् । पक्षे लौहित्यम् ।
प्रकटयति । वक्रिमाणं वक्रोक्तिमत्त्वम् । पक्षे वक्रत्वम् । आवहति । आङा नैकमपि
वक्रोक्तिरहितं पदं तत्रेत्यावेद्यते । तेन च नायके चातुर्यातिशयशालित्वम् । प्रतिपदं
प्रतिशब्दम् । पक्षे प्रतिक्षणम् । प्रीणयति च । यच्चाधिकरागशालि न तद्वक्रतामाव-
हति । यच्च वक्रतामावहति न तत्प्रीतिजनकम् । इदं चैकमेतत्त्रितयजनकमित्याश्चर्य -
मिति भावः । केचित्तूभयत्रापि लपनं मुखमेवेत्याहुः । एवं चैतादृशनायकं सपदि सं-
योजय मया सहेति ध्वन्यते ॥
स्वकटाक्षविक्षेपादिना नायकः स्वाधीनताभाजनं विधेय इति काचित्कांचिच्छि-
क्षयति--</p>
<lg>
  <l>प्रविशन्त्याः प्रियहृदयं बालायाः प्रबलयौवतव्याप्तम् ।</l>
  <l>नवनिशितदरतरङ्गितनयनमयेनासिना पन्थाः ॥ ३८२ ॥</l>
</lg>
<p>प्रविशन्त्या इति । प्रबला रूपादिसंपत्तिशालिन्यः । प्रबलपदमन्यस्याजेयत्वमावे-
दयति । या युवत्यस्तत्समुदायव्याप्तम् । एवं च स्वस्थित्यर्थमवकाशाभावो व्यज्यते ।
प्रियहृदयम् । एवं चावश्यप्रवेशसंपादनौचित्यं ध्वन्यते । प्रविशन्त्या बालायाः । नूत-
नस्तीक्ष्णः । दरमीषत् । किंचिल्लज्जावत्त्वादिति भावः । तरङ्गितमुत्तरोत्तराधिक्यं त-
च्छाली यः कटाक्षस्तद्रूपेणासिना खड्गेन पन्था मार्गः । एवं च त्वयैतादृशकटाक्षेण वि.
लोकितेऽवश्यं नायकस्ता अपहल त्वय्यासक्तो भविष्यतीति ध्वन्यते । अन्योऽपि प्र-
बलव्याप्तस्थलादौ केवलं खड्गसहायेन प्रवेशं करोतीति लौकिकम् ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>प्रणयापराधरोषप्रसादविश्वासकेलिपाण्डित्यैः ।</l>
  <l>रूढप्रेमा ह्रियते किं बालाकुतुकमात्रेण ॥ ३८३ ॥</l>
</lg>
<p>प्रणयेति । प्रणयापराधेन रोषः, प्रसादः, विश्वासः, क्रीडाविषयकपाण्डित्यमेतै रूढं
प्रेम यस्या एतादृशी नायिका । यद्वा प्रवृद्धप्रेमा । अर्थान्नायिकायाः । एवं च भाविसु-
खसंभावनया स्वतःसिद्धसुखपरिहारकर्तव्यता नोचितेति ध्वन्यते । तेन च भवतामीदृ-
शकर्तव्यतया नायिका खिन्ना भवतीत्यावेद्यते । यद्वा नायको नायिकासखीं वक्ति। रूढ-
प्रेमा। अर्थान्नायिकया सह बालायाः कुतुकमात्रेण किं ह्रियते । काक्का न ह्रियत इत्यर्थः ।
एवं च बालायाः कौतूहलमात्रमेतत् । वास्तवानुरागो मम तस्यामेवेति ध्वन्यते ॥
काचिदन्योक्त्या पूर्वं स्वस्मिन्सक्तं वार्धक्यात्सुरतादावुपेक्षितमन्यविटद्वेषिणं कंचन
वक्ति--</p>
<lg>
  <l>पूर्वैरेव चरित्रैश्चरितैर्जरतोऽपि पूज्यता भवतः ।</l>
  <l>मुञ्च मदमस्य गन्धायुवभिर्गज गञ्जनीयोऽसि ॥ ३८४ ॥</l>
</lg>
<pb n="143" />
<p>पूर्वैरिति । हे गज, मदं मुञ्च । नन्वेतत्त्यागे किमित्यत आह--प्राक्तनै रेवाद्भुतैरा-
चरितैर्जरतोऽपि वृद्धस्यापि । 'जीनो जीर्णो जरन्' इत्यमरः । भवतः पूज्यता । एवं
च मदाभावेऽपि पूज्यतायाः सत्त्वान्मदकरणमनर्थकमिति भावः । न केवलं मदकरण-
मनर्थकम्, अपि तु दुरर्थकमित्याह--अस्य मदस्य गन्धाद्युवभिर्गञ्जनीयोऽसि । एवं च
पूर्ववत्सामर्थ्याभावादस्मत्कृत मानवत्त्वेऽपि विधीयमाने मदो युवभिर्न सोढव्य इति ध्व-
न्यते । तेन च भीतिः ॥
यावत्पर्यन्तं नायकाङ्गसुखं नानुभूतं तावदेव गमने नकारः क्रियते, तदुत्तरं तु स्वयम-
त्यन्तासक्ता नायके भविष्यसीयत इदानीं मद्वाक्यं न तिरस्कुर्विति काचित्कांचिद्वक्ति--</p>
<lg>
  <l>प्रथमं प्रवेशिता या वासागारं कथंचन सखीभिः ।</l>
  <l>न शृणोतीव प्रातः सा निर्गमनस्य संकेतम् ॥ ३८५ ॥</l>
</lg>
<p>प्रथममिति । प्रथमतः सखीभिः । न तु सख्या । महता क्लेशेन शयनसदनं या प्र-
वेशिता सा प्रातः । एवं च चिरपरिचयाभावो व्यज्यते । निर्गमसंकेतं न शृणोतीव ।
एवं च न निर्गच्छतीति किमु वाच्यमिति भावः । एवं च तथैव त्वमपि करिष्यसीति
व्यज्यते । 'प्रसभम्' इत्यपि क्वचित्पाठः ॥
मन्त्रवत्त्वमावश्यकमिति कश्चिद्वति--</p>
<lg>
  <l>पूजा विना प्रतिष्ठां नास्ति न मन्त्रं विना प्रतिष्ठा च ।</l>
  <l>तदुभयविप्रतिपन्नः पश्यतु गीर्वाणपाषाणम् ॥ ३८६ ॥</l>
</lg>
<p>पूजेति । प्रतिष्ठां विना पूजा नास्ति । मन्त्रं विना प्रतिष्ठा नास्ति । तदुभयविप्रति-
पन्नः । मन्त्रं विनापि प्रतिष्ठा, प्रतिष्ठां विना पूजेति वादीत्यर्थः । देवतायाः पाषाणं प्र-
तिमां पश्यतु । एवं च देवताप्रतिमायामेवैतन्निर्णय इति भावः । यद्वा केनचित्कस्यचि-
त्पूजायां क्रियमाणायामीर्ष्यावशात् 'किमस्य ज्ञानं का वास्य प्रतिष्ठा येनेदृशी पूजेयमस्य
विधीयते' इति वादिनं कश्चिद्भङ्ग्यन्तरेण वक्ति--प्रतिष्ठां देवतासंनिधिरूपां विना
पूजा नास्ति । 'प्रतिष्ठितं पूजयेत्' इति वचनात् । पक्षे प्रतिष्ठा विख्यातिः । मन्त्र उ-
त्तमपुरुषामन्त्रणास्यजत्वं तत्त्वम् (?) । मन्त्रप्रसिद्ध्यन्यतमवन्तम् । पक्षे विचारं विना
प्रतिष्ठा च नास्ति । मन्त्रसाध्यत्वात्प्रतिष्ठायाः । प्रतिष्ठामन्त्रोभयाप्रामाण्यवादी । पक्षे प्र-
तिष्ठामन्त्रोभयाभाववादी । देवतापाषाणं पश्यतु । एवं च वेदाप्रामाण्यवादिना नास्ति-
ककक्षाधिरूढेन केनचिद्विष्ण्वादिप्रतिमादौ [विष्ण्वादि] प्रस्तरबुद्धौ कृतायां न किंचि-
त्समीचीनस्य दुःखमिति भावः । एवं च नास्तिककल्पेन भवता मात्सर्यात्पाण्डित्यप्रति-
ष्ठादिकमेतेषां नास्तीत्युक्तं चेत्तावता न काचित्क्षतिरिति ध्वन्यते ॥
नायिकासखी नायिकायां मानाद्युपचारप्रदर्शकं नायकं वक्ति--</p>
<lg>
  <l>पूर्वाधिको गृहिण्यां बहुमानः प्रेमनर्मविश्वासः।</l>
  <l>भीरधिकेयं कथयति रागं बालाविभक्तमिव ॥ ३८७ ॥</l>
</lg>
<pb n="144" />
<p>पूर्वाधिक इति । गृहिण्यां पूर्वापेक्षयाधिकः । बह्वनेकप्रकारः । इदं च लिङ्गविपरिणा-
मादग्रेऽप्यन्वेति । मानः । प्रेम । नर्म क्रीडा । विश्वासः । इयमधिका भीः । एवं च
भीतेः पूर्वमभावो ध्वन्यते । रागं बालाविभक्तमिव कथयति । एवं च यावत्पर्यन्तं तस्या-
मेवानुरागः स्थितस्तावत्पर्यन्तं नैतादृशमानादिकं न भीतिः । तद्धेत्वभावात् । इदानीं तु
मानादिनैतत्समाधानेनेयं मां न पीडयिष्यतीति धियैतादृशाचरणं तवेति भावः । एवं
च यत्रासाधारणं प्रेम न तत्र किमपि मानादि बाह्योपचारकरणमपेक्षितमिति ध्वन्यते ॥
स्वपीडाभयेन स्वप्रभोरप्यनिष्टं चिन्त्यत एवेति कश्चित् 'कथं स्वप्रभोरनुचिताशंसनं
करोषि' इति वादिनं वक्ति--</p>
<lg>
  <l>पुलकित कठोरपीवर कुचकलशाश्लेषवेदनाभिज्ञः ।</l>
  <l>शंभोरुपवीतफणी वाञ्छति मानग्रहं देव्याः ॥ ३८८ ॥</l>
</lg>
<p>पुलकितेति । संजातपुलकौ । नायकस्पर्शजसुखाविर्भावादिति भावः । यौ कठोरपी-
वरकुचकलशौ तदाश्लेषपीडाभिज्ञः शंभोरुपवीतरूपफणी पार्वत्या मानग्रहं वाञ्छति ।
एवं चालिङ्गनाद्यभावेन स्वपीडानुत्पत्तिर्भविष्यतीति धियेति भावः । कठोरेत्यनेन वेद-
नायामाधिक्यं ध्वन्यते । एवं च शंभोरित्यनेन सुखजनकत्वप्रतिपादनादुपवीतपदेनाति-
निकटतयातिप्रेमवत्त्वव्यञ्जनात्फणीत्यनेन भारसहनसामर्थ्यद्योतनादीदृशस्यापि क्लेशविशे-
षासहिष्णुत्वं किमुतान्यस्येति द्योत्यते । यद्वा यो हि स्वयं दुःखाभिज्ञः स एव परस्य
दुःखनिवृत्तिं वाञ्छतीति कश्चित्कंचिद्वक्ति । एवं च फणेर्वेदनाभिज्ञत्वेन शंभोः कठोर-
कुचवेदना मा भवत्विति बुद्धिरुदेतीति ध्वन्यते । अथवात्यन्तमानवती सा नायातीति
दुष्टदूतीवचनाच्छिथिलयत्नं नायकं नायिकासखी वक्ति । फणीत्यनेन दुष्टत्वं द्योत्यते ।
यद्वा नायकं प्रति स्वयातायातभयान्नायिकादुःस्वभावेति कथयन्तीं नायकसखीं ज्ञात्वा
नायिकासखी नायकं प्रति वक्ति । एवं चेयं त्वदीयदुष्टसखी स्वयातायातादिपीडाभयेन
तस्या एतादृशस्वभावशालित्वं त्वय्यावेदयति, न वास्तवं सा तथेति ध्वन्यते । तेन च
त्वरस्व तद्दर्शनयत्न इति ॥
काचित् काञ्चित् कस्याश्चिद्वार्त्तां वक्ति--</p>
<lg>
  <l>प्रिय आयातो दूरादिति या प्रीतिर्बभूव गेहिन्याः ।</l>
  <l>पथिकेभ्यः पूर्वागत इति गर्वात्सापि शतशिखरा ॥ ३८९ ॥</l>
</lg>
<p>प्रिय इति । दूरादायात इति हेतोर्गेहिन्या या प्रीतिर्बभूव सा पथिकेभ्योऽपि पूर्वमागत
इति गर्वादत्यधिका जाता। अन्येषां न तथा स्वप्रियासु प्रीतिर्यथा मत्प्रियस्येति धियेति
भावः । प्रियपदमागमनेन प्रीतिजनकत्वमावेदयति । दूरादित्यनेन चिरविरहशालित्वं
द्योत्यते । गेहिनीपदेन गृहव्यासङ्गप्रवणाया अप्येतादृशावस्थावत्त्वं तत्रेतरस्याः किं वक्त-
व्यमिति ध्वन्यते । पथिकपदं प्रियात्पूर्वं प्रचलितत्वं व्यञ्जयति । बहुवचनेन सर्वेषामपि
पश्चात्परित्यागेनोत्कण्ठातिशयशालित्वं नायके व्यज्यते । एवं चान्येषां त्वरयानागमनेन</p>
<pb n="145" />
<p>स्वप्रियस्यागमनेन नायिकायां गुणातिशयो द्योत्यते । तेन चेतरनायिकाव्यतिरेको ध्वन्यते ।
शिखरस्य पर्वतसंबन्धित्वात्प्रीतौ चात्युत्कटत्वं लक्ष्यते । प्रयोजनं चेतरगर्वव्यतिरेकः ॥
नायिकासखी नायकमन्योक्त्या नायिकाप्रेम वक्ति--</p>
<lg>
  <l>पृष्ठं प्रयच्छ मा स्पृश दूरादपसर्प विहितवैमुख्य ।</l>
  <l>त्वामनुधावति तरणिस्तदपि गुणाकर्षतरलेयम् ॥ ३९० ॥</l>
</lg>
<p>पृष्ठमिति । हे विहितवैमुख्य । पक्षे कृतौदासीन्य । वैमुख्यकार्यमाह--पृष्ठं प्रयच्छ ।
तीरस्थिततरणेः पृष्ठेनैव गभीरजलनिरसनमिति कैवर्तकसंप्रदायः । यद्वा गुणाकर्षकस्य
नौकासांमुख्याभावादिति भावः । अत एव मा स्पृश । करणेति भावः । पक्षे विलोकना-
भावं कुरु, आलिङ्गनं च मा कुरु । दूरादपसर्प । पक्षे निकटवर्तित्वाभावं कुरु । तथापि
गुणैस्तृणरचितैः । पक्षे चातुर्यादिभिः । आकर्षणं तेन चञ्चलेयं तरणिस्त्वामनुधावति ।
एवं च यद्यपि त्वमुदासीनस्तथापि त्वदीयचातुर्यादिगुणलुब्धा त्वामेवानुसरतीति ध्वन्यते।
तेन च नैतादृगाचरणमुचितं तवेति । नौरपि पृष्ठप्रदानादिकारिणमनुलक्षीकृत्य निषादक-
र्तृकगुणकरणकाकर्षणेनागच्छतीति भावः ॥
नायकः सखायं वक्ति--</p>
<lg>
  <l>प्रियया कुङ्कुमपिञ्जरपाणिद्वययोजनाङ्कितं वासः ।</l>
  <l>प्रहितं मां याच्ञाञ्जलिसहस्रकरणाय शिक्षयति ॥ ३९१ ॥</l>
</lg>
<p>प्रिययेति।प्रियया, न तु नायिकया। कुङ्कुमेन पिञ्जरं यत्करयुगलं तद्विधानचिह्नितं प्रे-
षितं वासोऽनेकप्रार्थनाञ्जलिसंपादनाय मां शिक्षयति । कुङ्कुमपिञ्जरत्वेनारक्तत्वम्, तेन च
कोपवत्त्वं द्योत्यते । पाणिद्वययोजनाङ्कितमित्यनेन मत्प्रणतिरावेद्यते । एवं च प्रणामोऽयं
भवतामास्तामत्रागमनं भवतामिति द्योत्यते । तेन कुपितत्वे ज्ञातेऽनेकप्रार्थनाञ्जलिकरणं
मम प्राप्तमिति ध्वन्यते । यद्वा प्रियैकप्रणामग्रहणजन्यौद्धत्य निवारणकारणानेकप्रणामकरणं
मम प्राप्तमिति ध्वन्यते । तेन च नायिकायामाधिक्यम् । यद्वा यथा मया त्वत्प्रात्यर्थम-
ञ्जलिः क्रियते तथा त्वया मदर्थं मदीयगुरुष्वञ्जलयो विधेया इति शिक्षा । माङ्गलिकत्वेन
कुङ्कुमसंबन्धः। अथवाहं रजःशालिनीत्यतः क्षन्तव्यो मदनागमनापराध इति ज्ञापनायै-
काञ्जलिकरणे मयाञ्जलिसहस्रकरणेनेदानीमेव रतमभ्यर्थनीयमिति भावः ॥
दूती कस्याश्चित् साहसकथनेन नायिकायाः साहसकर्तृत्वमुपदिशति--</p>
<lg>
  <l>प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति ।</l>
  <l>प्राग्गिरिपिहिता रात्रिः संध्यारागं दिनस्येव ॥ ३९२ ॥</l>
</lg>
<p>प्राचीरेति । इयं तव प्रतिवेशिनी प्राचीरेण व्यवहिता । 'प्राचीरं प्रान्ततो वृतिः' इत्य-
मरः । प्रियस्य वदनेऽधरं समर्पयति । प्राचीनाचलाच्छादिता रात्रिः संध्यारागं दिवसस्येव
वदने । प्राग्गिरिसमताप्रतिपादनेन प्राचीरेऽतितुङ्गत्वं ध्वन्यते । तेन चोल्लङ्घनानर्हत्वम् ।
रात्रिसमताप्रतिपादनेन तमःप्रधानतयान्यजनावलोकनभीतिशून्यत्वं नायिकायामावेद्यते ।</p>
<pb n="146" />
<p>तेन चात्यन्तानुरागवत्त्वम्। संध्यारागमित्यनेनात्यन्तलौहित्यवत्त्वमधरे व्यज्यते । दिन-
स्येत्यनेन बहिवर्तितया नायके लोकदृश्यत्वं ध्वन्यते । समर्पयतीत्यनेन स्वयं चुम्बनविरा-
मासंपादनेन रागोद्धुरत्वं नायिकायां द्योत्यते । एवं च त्वयापि भीतिमुत्सृज्यैवंविधाचर-
णमाचरणीयमिति ध्वन्यते ॥
नायिका नायकं वक्ति--</p>
<lg>
  <l>परपतिनिर्दयकुलटाशोषित शठ नेर्ष्यया न कोपेन ।</l>
  <l>दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥ ३९३ ॥</l>
</lg>
<p>परेति। परस्याः पत्यौ निर्दया या अनेकगामिन्यस्ताभिर्हृतशरीरसार । सर्वस्वपरत्वेन
कादाचित्कलाभवत्त्वम्, तेन चायन्तसुरतसंपादनार्हत्वं ध्वन्यते । शठ । एवं च विश्वासा-
भाववत्त्वमन्यवचनप्रामाण्यानभ्युपगन्तृत्वं च व्यज्यते । नेर्ष्यया । तासामिति भावः । न
कोपेन । किमिति तत्र गम्यत इति हेतोरिति भावः । दग्धममतोपतप्ताहं तव कार्श्यं
वीक्ष्य रोदिमि। दग्धपदेन ममताया निवारणानर्हतयात्यन्त दुःखदत्वं ध्वन्यते । एवं चै-
तादृशेऽपि त्वयि मम ममतेति स्वस्मिन्नाधिक्यमावेद्यते । अन्योऽपि संतप्तो रोदितीति
लौकिकम् ॥</p>
<lg>
  <l>प्राङ्गण एव कदा मां श्लिष्यन्ती मन्युकम्पिकुचकलशा ।</l>
  <l>अंसनिषण्णमुखी सा स्नपयति बाप्पेण मम पृष्ठम् ॥ ३९४ ॥</l>
</lg>
<p>प्राङ्गण इति । प्राङ्गण एव । एवं च प्रेमाधिक्यमावेद्यते । मां श्लिष्यन्ती । कोपेन
कथमियन्ति दिनान्यतिवाहितानि विदेश इति धियेति भावः । कम्पितस्तनकलशा ।
स्कन्धस्थितवदना सा पूर्वानुभूता बाष्पेण मम पृष्ठं कदा स्नपयति । स्नपयिष्यतीत्यर्थः ।
पथिकाशंसनमेतत् ॥
कथमीदृशभयानकावसरे प्रियसविधे समभिसरणमिति वादिनीं नायिकां दूती कस्या-
श्चिद्वृत्तकथनव्याजेन सति प्रेम्णि न कस्यापि भीतिरिति वक्ति--</p>
<lg>
  <l>प्रेतैः प्रशस्तसत्त्वा साश्रु वृकैर्वीक्षिता स्खलद्भासैः ।</l>
  <l>चुम्बति मृतस्य वदनं भूतमुखोल्केक्षितं बाला ॥ ३९५ ॥</l>
</lg>
<p>प्रेतैरिति । प्रेतैः स्तुतसामर्थ्या । स्खलद्भासैः । विस्मयादिति भावः । साश्रु । क्रिया-
विशेषणमेतत् । कथमीदृश्या अपि प्रियः प्रपेदे पञ्चत्वमिति शोकोद्रेकादिति भावः । वी-
क्षिता बाला । एवं च भीतियोग्यत्वं ध्वन्यते । भूतमुखसंबन्धिनी योल्का तयेक्षितम् ।
एवं चान्धकारबाहुल्यं ध्वन्यते । मृतस्य । अर्थात्स्वप्रियस्य । वदनं चुम्बति । एवं चैता-
दृशसमयेऽपि भीत्यनुदयेन जुगुप्साद्यभावेन च प्रेम्णि दृढत्वमावेद्यते । अत्र प्रेतैः प्रशस्त-
सत्त्वेत्यादिकथनं भयानकाङ्गमपि शृङ्गारपरिपोषकत्वादथवा बाध्यत्वेनोक्तत्वाद्वा 'स्मर्य-
माणो विरुद्धोऽपि' इत्युक्तदिशा 'अयं स रशनोत्कर्षी' इत्यादाविव 'संचार्यादेर्विरुद्धस्य</p>
<pb n="147" />
<p>बाध्यस्योक्तिर्गुणावहा' इत्युक्तदिशा 'क्वाकार्यम्' इत्यादाविव भयानकशृङ्गारयोरविरोधा-
न्नासमञ्जसम् ॥
कश्चित् कञ्चिदुपदिशति--</p>
<lg>
  <l>पिशुनः खलु सुजनानां खलमेव पुरो विधाय जेतव्यः ।</l>
  <l>कृत्वा ज्वरमात्मीयं जिंगाय बाणं रणे विष्णुः ॥ ३९६ ॥</l>
</lg>
<p>पिशुन इति । सुजनानां यदि पिशुनो जेतव्यः । एवं च सतां पिशुनजयेन न कापि
श्लाघ्यतेति भावः । तदा निश्चयेन खलमेव पुरो विधाय । एवकारेण स्वातिरिक्तसुज-
नस्य निरासः । अमुमेवार्थं द्रढयितुमितिहासमाह--विष्णुः । एवं च स्वतः सामर्थ्य-
सत्त्वमावेद्यते । ज्वरं स्वीयत्वेन संपाद्य । एवं च दुष्टे यद्यपि स्वीयत्वसंपादनमनुचितं त-
थापि स्वकार्यकाल एव तत्र तद्विधेयमिति ध्वन्यते । सङ्ग्रामे बाणासुरं जितवान् । एवं
च स्वस्य सामर्थ्येऽपि न दुष्टनिबर्हणं स्वयं विधेयमिति ध्वन्यते । तेन च क्लेशेऽपि दुष्टसं-
भाषणमनुचितमिति ॥
नायिकेयमत्यन्तमप्रगल्भेत्यतः शनैरेव किंचिदुपभोग्येति सखी नायकमन्योक्त्या
वक्ति-</p>
<lg>
  <l>पिब मधुप बकुलकलिकां दूरे रसनाग्रमात्रमाधाय ।</l>
  <l>अधरविलेपसमाप्ये मधुनि मुधा वदनमर्पयसि ॥ ३९७ ॥</l>
</lg>
<p>पिबेति । हे मधुप । एवं च रसलम्पटत्वमावेद्यते । तेन च तूष्णीमवस्थित्यनर्हत्वम् ।
दूरे जिह्वाग्रमात्रं संस्थाप्य बकुलकलिकां पिब । अधरस्य विलेपेन समाप्तियोग्ये । अत्र
लेपनेत्येव युक्तम् । मकरन्दे वृथा वदनमर्पयसि । एवं च बकुलकलिकाया अतिसूक्ष्म-
त्वात्तन्मधुनोऽतिस्वल्पतया वदनसंपर्के समाप्तिरेव भविष्यतीत्यतो रसनाग्रेणैव तद्ग्राह्य-
मिति भावः । एवं च नेयमत्यन्तसुरतविमर्दसहेति ध्वन्यते ॥
कश्चित् कञ्चिद्वक्ति--</p>
<lg>
  <l>प्रायेणैव हि मलिना मलिनानामाश्रयत्वमुपयान्ति ।</l>
  <l>कालिन्दीपुटभेदः कालियपुटभेदनं भवति ॥ ३९८ ॥</l>
</lg>
<p>प्रायेणेति । बाहुल्येन मलिनानामाश्रयत्वं प्राप्नुवन्ति । अर्थान्तरन्यासेनामुमेवार्थं द्रढ-
यति--यमुनायाः पुटभेदश्चक्राणि । 'चक्राणि पुटभेदाः स्युः' इत्यमरः । कालियनाम-
सर्पस्य पुटभेदनं पत्तनम् । 'पत्तनं पुटभेदनम्' इत्यमरः । भवति । एवं चामलिनाभिर्ग-
ङ्गादिभिर्न कालियस्याश्रयो दत्तः, किं तु कलिन्दतनययैवेति भावः । एवं च सद्भिरसता-
माश्रयो न देय इति ध्वन्यते ॥
प्रियप्रीतिनिमित्तं सपत्नीसंमाननमपि विधेयमिति काचित् काञ्चिच्छिक्षयति--</p>
<lg>
  <l>पश्य प्रियतनुविघटनभयेन शशिमौलिदेहसंलग्ना ।</l>
  <l>सुभगैकदैवतमुमा शिरसा भागीरथीं वहति ॥ ३९९ ॥</l>
</lg>
<pb n="148" />
<p>पश्येति । चन्द्रशेखरशरीरसंलग्ना उमा पार्वती । उमापदेन 'उमेति मात्रा तपसे नि-
'षिद्धा' इत्यादि कालिदासोक्तरीत्या प्रियप्रीतिस्तपोरूपक्लेशविशेषलभ्येति ध्वन्यते । प्रिय-
शरीर विश्लेषभीत्या भागीरथीम् । भगीरथक्षत्रियसंबन्धोत्कीर्तनेन तीक्ष्णप्रतापतयातिदुःस-
हत्वं व्यज्यते । शिरसा वहति । इदं त्वं पश्य । एवं च त्वयाप्यनयैव रीत्या स्थेयमिति
भावृः । एवं च यत्र भगवत्या पार्वत्याप्येवंरीत्यावस्थीयते तत्र का वार्तान्यासामिति
भावः ॥
काचिद्वक्ति--</p>
<lg>
  <l>पथिकवधूजनलोचननीरनदीमातृकप्रदेशेषु ।</l>
  <l>घनमण्डलमाखण्डलधनुषा कुण्डलितमिव विधिना ॥ ४०० ॥</l>
</lg>
<p>पथिकेति । पथिकाङ्गनानयनबाष्पैर्नदीमातृका नद्यम्बुपालिताः प्रदेशास्तेषु वेधसा
कर्तृभूतेनेन्द्रधनुषा करणभूतेन मेघमण्डलं कुण्डलितमिव । पथिकाङ्गनाश्रुभिरेव सस्यो-
त्पत्तेर्मेघमण्डलस्यानर्थक्यादिति भावः । एवं च पथिकाङ्गनानयननीराधिक्यप्रतिपादनेन
तासामत्यन्तदुःखमावेद्यते ॥
काचित् कस्याश्चिद्वृत्तं वक्ति--</p>
<lg>
  <l>प्रतिवेशिमित्त्रबन्धुषु दूरात्कृच्छ्रागतोऽपि गेहिन्या ।</l>
  <l>अतिकेलिलम्पटतया दिनमेकमगोपि गेहपतिः ॥ ४०१ ॥</l>
</lg>
<p>प्रतिवेशीति । गेहिन्या । एवं च सर्वसामर्थ्यमावेद्यते । क्लेशागतोऽपि । एवं च
झटिति सर्वग्राह्यदर्शनयोग्यत्वं ध्वन्यते । गेहपतिः । एवं च बहुतरदिनोत्तरागमनतया
सर्वकार्यस्य स्वमात्रकर्तृकतया सर्वदर्शनयोग्यत्वं व्यज्यते । अत्यन्तं या क्रीडासक्तिस्तया
प्रतिवेशिमित्त्रबन्धुषु । एवं च गोपनानर्हत्वमावेद्यते । एकं दिनमगोपि । यद्वा गेहिन्या
अप्येतादृशी गतिस्तत्र का वार्तान्यस्या इति काचित् 'कथमीदृशक्रीडालम्पटा त्वम्'
इति वादिनीं प्रति वक्ति ॥
नायिका नायकं प्रति वक्ति--</p>
<lg>
  <l>परपट इव रजकीभिर्मलिनो भुक्त्वापि निर्दयं ताभिः ।</l>
  <l>अर्थग्रहणेन विना जघन्य मुक्तोऽसि कुलटाभिः ॥ ४०२ ॥</l>
</lg>
<p>परेति । हे निन्द्य । निन्द्यकार्यकारित्वादिति भावः । रजकीभिः परपट इव ताभिः
प्रसिद्धाभिः कुलटाभिः मलिनस्त्वं निर्दयं भुक्त्वा । परकीयत्वादिति भावः । द्रव्यग्र-
हणेन विना परित्यक्तोऽसि । एवं च कुलटात्वेन बहुनायकविषयरतिमत्तया तद्रतेराभास-
तया 'अर्थादौषधवत्कामः' इत्युक्तदिशा च तत्र न रस इति ध्वन्यते । अत्रान्यद्विचार-
जातमस्मत्कृतरसमञ्जरीटिप्पणे द्रष्टव्यम् ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता पकारव्रज्या ।
---------------------------------</p>
<pb n="149" />
<p>बकारव्रज्या ।
काचित् कस्याश्चिद्वृत्तं वक्ति--</p>
<lg>
  <l>बहुयोषिति लाक्षारुणशिरसि वयस्येन दयित उपहसिते ।</l>
  <l>तत्कालकलितलज्जा पिशुनयति सखीषु सौभाग्यम् ॥ ४०३ ॥</l>
</lg>
<p>बह्विति । बहुतरनायिकाशालिनि लाक्षयारुणमस्तके प्रियतमे वयस्येनोपहसिते ।
कथं स्त्रीप्रणाममकरोदिति । तत्कालकृतलज्जा नायिका सखीषु सौभाग्यं सूचयति ।
बहुतराङ्गनाजातमपहाय मय्येवासक्त्या मच्चरणप्रणतिजन्यैवेयमरुणतैतच्छिरसीति द्योत-
नेनेति भावः । यद्वा यद्यपि नायको न तथा प्रेमादि विदधाति तथापि सख्यादिषु तु
मय्येव प्रेमवानिति प्रदर्शनेन स्वगौरवं रक्षणीयमिति तत्प्रदर्शनप्रकारं काचित्कांचिदुपदि-
शति । बहुयोषितीत्यनेनानेकनायिकाचिन्तया किमीयश्चरणालक्तक इति संदेहयोग्यत्वं
ध्वन्यते । तत्कालं वयस्योपहासैककालम् । अङ्गीकृतलज्जैव सखीषु सौभाग्यं सूचयति ।
एवं चैतादृशसमयेऽनया रीत्या स्वभौभाग्यप्रदर्शनं विधेयमित्यावेद्यते । तेन चैतादृशेऽपि
समये न मनसि खेदो विधेयः, किं तु हर्ष एवाविष्करणीय इति ॥
कश्चिन्नायिकाकेशकलापं स्तौति--</p>
<lg>
  <l>बन्धनभाजोऽमुष्याश्चिकुरकलापस्य मुक्तमानस्य ।</l>
  <l>सिन्दूरित सीमन्तच्छलेन हृदयं विदीर्णमिव ॥ ४०४ ॥</l>
</lg>
<p>बन्धनेति । बन्धनवतः । गतपरिमाणस्य । अतिदीर्घस्येत्यर्थः । पक्षे गताभिमानस्य ।
अस्याः केशकलापस्य सिन्दूरयुक्तो यः सीमन्तस्तन्मिषेण हृदयं विदीर्णमिव । बन्धनवतो
गताभिमानस्यापि विदीर्णहृदयता भवतीति लौकिकम् ॥
काचित्कंचिद्वक्ति--</p>
<lg>
  <l>बलमपि वसति मयीति श्रेष्ठिनि गुरुगर्वगद्गदं वदति ।</l>
  <l>तज्जायया जनानां मुखमीक्षितमावृतस्मितया ॥ ४०५ ॥</l>
</lg>
<p>बलमिति । सामर्थ्यमपि । अपिना गुणादिसमुच्चयः । मयि वसति । वसतीत्यनेन यो
हि यदधिकं स्थलं जानाति तत्रैव वसतीत्यतोऽन्यनायकव्यतिरेकः स्वस्मिन्नावेद्यते ।
इत्यतिगर्वगद्गदं यथा स्यात्तथा वदति सति संकुचितस्मितया । एवं च किंचित्सलज्जत्व-
मावेद्यते । तदङ्गनया लोकानाम् । तद्वार्तादत्तावधानानामिति भावः । वदनमीक्षितम् ।
मत्समाधानलेशमपि कर्तुं न शक्नोति वदति त्वेतादृशमपीति विस्मयेनेति भावः । एवं च
वणिजः पुंस्त्वहीनतया तदङ्गनायाश्च समृद्धमन्मथत्वेन तत्र त्वद्गमनेन तस्या आसक्ति-
स्त्वयि भविष्यतीति ध्वन्यते ॥
कस्याश्चिद्गुणादिकं कस्यचिद्वदनादाकर्ण्य कश्चित्तस्यामासक्त इति मधुपनलिनीवृत्ता-
न्तव्याजेन काचिद्वक्ति--
बलवदनिलोपनीतस्फुटितनवाम्भोजसौरभो मधुपः ॥
आकृष्यते नलिन्या नासानिःक्षिप्तबडिशरज्जुरिव ॥ ४०६ ॥</p>
<pb n="150" />
<p>बलवदिति । बलवान्यो वायुस्तेन समीपानीतं विकसितनवकमलसौगन्ध्यं यस्य स
मधुपो भ्रमरः कमलिन्या नासायां निःक्षिप्ता बडिशस्य मत्स्यवेधनस्य । 'बडिशं मत्स्य-
वेधनम्' इत्यमरः । रज्जुर्यस्यैतादृश इवाकृष्यते । क्वचिद्बडिशपदरहितः पाठः ॥
गुणमात्रग्राहकत्वं सुजनवम्, दोषमात्रग्राहकत्वं पिशुनत्वमिति कश्चित् कञ्चिचिद्वक्ति--</p>
<lg>
  <l>बाणं हरिरिव कुरुते सुजनो बहुदोषमप्यदोषमिव ।</l>
  <l>यावद्दोषं जाग्रति मलिम्लुचा इव पुनः पिशुनाः ॥ ४०७ ॥</l>
</lg>
<p>बाणमिति । हरिर्विष्णुर्बाणासुरमिव सुजनो बहुदोषमपि । गुणभिन्नो दोषः । पक्षे
बहुतरबाहुशालिनम् । दोषशून्यमिव । पक्षे बाहुरहितम् । कुरुते । मलिम्लुचा इव
तस्करा इव पिशुनाः । पुनःशब्दोऽन्यदित्यर्थे । यावद्दोषम् । समग्रदोषमित्यर्थः । पक्षे
यावद्रात्रिम् । जाग्रति । तद्विषयकगवेषणावन्तो भवन्तीत्यर्थः । पक्षे निद्राभाववन्त
इत्यर्थः । परस्वापहरणार्थमिति भावः । एवं च सुजनान्न भीतिः किं तु दुर्जनादेवेत्य-
तस्त्वं ततः सावधानतया तिष्ठेति ध्वन्यते ॥
नायिकादूती नायकं वक्ति--</p>
<lg>
  <l>बौद्धस्येव क्षणिको यद्यपि बहुवल्लभस्य तव भावः ।</l>
  <l>भग्ना भग्ना भ्रूरिव न तु तस्या विघटते मैत्त्री ॥ ४०८ ॥</l>
</lg>
<p>बौद्धस्येति । बौद्धस्येव बह्व्यो वल्लभा नायिका यस्य । पक्षे बहूनां वल्लभस्य भक्ति-
विषयस्य । तव यद्यपि भावश्चित्ताभिप्रायः, प्रेम वा । पक्षे पदार्थः । क्षणिकोऽस्थिरः ।
बौद्धमते तु पदार्थस्य क्षणिकत्वादस्थिरत्वम् । तथापि भग्ना भग्ना भ्रूरिव तस्या मैत्त्री न
तु विघटते । एवं च भग्नभ्रुवोर्यथा चमत्काराधायकत्वं तथा तदीयकलहस्य प्रीतिजन्यतया
तत्त्वमित्यवेहीति ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता बकारव्रज्या ।
---------------------------------
भकारव्रज्या ।
कश्चन दैन्यकारिणं महाकायमन्योक्त्या निन्दति--</p>
<lg>
  <l>भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणमपि श्रयसि ।</l>
  <l>धिङ्मानं तव कुञ्जर जीवं न जुहोषि जठराग्नौ ॥ ४०९ ॥</l>
</lg>
<p>भ्रमसीति । हे कुञ्जर, भ्रमसि । दन्तं प्रकटयसि । रदमित्येकत्वमविवक्षितम् ।
करं शुण्डां हस्तं च प्रसारयसि । तृणमपि । अपिनानाश्रयणीयत्वमावेद्यते । आश्रयसि ।
अतस्तव मानं महापरिमाणं धिक् । उदरानले जीवं न जुहोषि । एवं चोदरपूर्त्यर्थमे-
तादृक्करणमत्यन्तानुचितमिति व्यज्यते । अन्योऽप्युदरपूरणार्थं नीचत्वमुपगत इतस्ततो
भ्रमणादि करोतीति लौकिकम् ॥</p>
<pb n="151" />
<p>लघोर्झटित्यपकारः कर्तुं शक्योऽनेन न गौरववत इति कश्चित् कञ्चिद्वक्ति--</p>
<lg>
  <l>भूतिमयं कुरुतेऽग्निस्तृणमपि संलग्नमेनमपि भजतः ।</l>
  <l>सैव सुवर्ण दशा ते शङ्के गरिमोपरोधेन ॥ ४१० ॥</l>
</lg>
<p>भूतीति । संलग्नमपि । एवं च न चिरकालस्तद्विनाश इति भावः । तृणमग्निर्भस्मरूपं
कुरुते । विनाशयतीत्यर्थः । हे सुवर्ण, एनं भजतोऽपि चिरसंबन्धवतोऽपि ते सैव दशा
गुरुत्वानुरोधेनेति तर्कयामि । एवं चायमपकारकारक एव परं तु त्वं स्वगौरवबलादेव
यथावस्थितोऽवतिष्ठस्यतो नैनं सेवेयेति ध्वन्यते । यद्वौद्धत्यविहीनैतत्सेवाकरणेऽत्यन्तम-
र्थावाप्तिरिति कश्चिदन्योक्त्या वक्ति । तृणमित्यनेन दीनमित्यावेद्यते । अत्र समित्युपसर्गो
नोचितः । ऐश्वर्यप्रचुरं कुरुते । सुवर्ण, एनं भजतस्ते गुरुत्ववत्त्वात्सैव दशा । एवं च
त्वयौद्धत्येन नैतस्मात् कञ्चिदवाप्तमित्यावेद्यते ॥
कश्चित् काञ्चित् प्रति संकेतं वक्ति--</p>
<lg>
  <l>भवति निदाघे दीर्घे यथेह यमुनेव यामिनी तन्वी ।</l>
  <l>द्वीपा इव दिवसा अपि तथा क्रमेण प्रथीयांसः ॥ ४११ ॥</l>
</lg>
<p>भवतीति । इहैतस्मिन्निदाघे महत्तरे सति । 'दीर्घा' इति पाठे पूर्वकालाभिप्रायेण
यामिनीविशेषणम् । यमुनेव रात्रिः स्वल्पा भवति । तथा क्रमेण द्वीपा इव । 'द्वीपो-
ऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्' इत्यमरः । दिवसा महत्तरा भवन्ति । यमुनाया-
स्तन्वीत्वकथनेन चरणसंचरणयोग्यत्वं व्यज्यते । द्वीपानां प्रथीयस्त्वकथनेनानेककुञ्ज-
वत्त्वम्, तेन च तत्र क्रीडाविशेषसंपादनयोग्यत्वं ध्वन्यते । एवं च रात्रेरतितनीयस्तया
रतविशेषानर्हत्वेन, दिवसानामतिदीर्घतया दिवैव यमुनाद्वीप एव संकेतयोग्यस्तन्निश्चय
एव विधेय इति द्योत्यते ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>भवता महति स्नेहानलेऽर्पिता पथिक हेमगुटिकेव ।</l>
  <l>तन्वी हस्तेनापि स्प्रष्टुमशुद्धैर्न सा शक्या ॥ ४१२ ॥</l>
</lg>
<p>भवतेति । भवता महति प्रीतिरूपवह्नौ । एवं च त्वत्प्रीतेर्दुःखदत्वं ध्वन्यते । पक्षे
तैलसंबन्धिवह्नौ यार्पिता सुवर्णगुटिकेव । एवं च नायिकायां गौराङ्गीत्वमवेद्यते । सा
तन्वी हे पथिक प्रवासशालिन् । एवं चान्यथाबुद्धियोग्यत्वं द्योत्यते । अशुद्धैर्हस्तेन स्प्र-
ष्टुमपि । एवं च हस्ते स्थापयितुं न शक्येति किं वक्तव्यमिति भावः । न शक्या । एवं
चेयं त्वदासक्त्या नान्यं कमपि चित्तपथे करोतीति ध्वन्यते । तप्ततैले प्रक्षिप्ता सुवर्णा-
दिगुटिका सदोषैर्न स्प्रष्टुं शक्येति दिव्यादिव्यवहारः ॥
कश्चित् सखायं वक्ति--</p>
<lg>
  <l>भूमिलुलितैककुण्डलमुत्तंसितकाण्डपटमियं मुग्धा ।</l>
  <l>पश्यन्ती निःश्वासैः क्षिपति मनोरेणुपूरमपि ॥ ४१३ ॥</l>
</lg>
<pb n="152" />
<p>भूमीति । भूमौ लुलितं संलग्नमेकं कुण्डलं यत्र । उत्तंसीकृतः काण्डपटो यत्र ।
पश्यन्तीयं मुग्धा निःश्वासैः । क्लेशजन्यैरिति भावः । मनोरेणुसमूहमपि क्षिपति । एवं
चैतस्या एतादृशावलोकनेन मम मनोऽवतिष्ठते मयीति ध्वन्यते ॥
मूर्खाङ्गनाभिलाषिणं कंचन काचिदन्योक्त्या वदति---</p>
<lg>
  <l>भवतालिङ्गि भुजंगी जातः किल भोगिचक्रवर्ती त्वम् ।</l>
  <l>कञ्चुक वनेचरीस्तनमभिलषतः स्फुरति लघिमा ते ॥ ४१४ ॥</l>
</lg>
<p>भवतेति । हे कञ्जुक, येन भवता भुजंगी उरगी । पक्षे वेश्या । आलिङ्गिता, यस्त्वं
निश्चयेन भोगिनामुरगाणाम् । पक्षे भोगोपचारशालिनाम् । समूहवर्ती, यद्वा तेषु राजा
जातः । तस्य ते वनेचरी भिल्लकान्ता । पक्षे वनेचरीत्वेन मूर्खताशालित्वं ध्वन्यते ।
स्तनमित्येकत्वमविवक्षितम् । इच्छतो लाघवं स्फुरति । एवं च चतुरायाः संगतिं परि-
त्यज्याचतुरासंगतीच्छा लाघवकारिणीति ध्वन्यते ॥
केनचित् कस्याश्चित् संकेतः कृत इति कश्चित् कञ्चिद्वक्ति--</p>
<lg>
  <l>भैक्षभुजा पल्लीपतिरिति स्तुतस्तद्वधूसुदृष्टेन ।</l>
  <l>रक्षक जयसि यदेकः शून्ये सुरसदसि सुखमस्मि ॥ ४१५ ॥</l>
</lg>
<p>भैक्षेति । तस्य पल्लीपतेर्वध्वा सुदृष्टेन । सकामदृष्ट्यावलोकितेनेत्यर्थः । भिक्षासंब-
न्ध्यन्नभोजनवता । एवं च प्रयासशून्यत्वेन पुष्टत्वाद्यभिव्यज्यते । पल्लीपतिः । एवं च
चातुर्यविशेषाशालित्वं ध्वन्यते । इति स्तुतः स्तुतिविषयीकृतः । तामेवाह - रक्षक, सर्वो-
त्कर्षेण तिष्ठसि । यस्मादेक इतरशून्यः शून्ये मदतिरिक्तजनरहिते देवालये सुखमस्मि ।
एवं च त्वद्रक्षणसामर्थ्यान्न क्वापि कस्यापि भीतिरिति भावः । एवं च देवालये मयै-
काकिना स्थीयते तत्र त्वयागन्तव्यमिति ध्वन्यते ॥
वृद्धेन स्त्रीसंग्रहो वसुसंग्रहो वा न विधेय इति कश्चित् कञ्चिद्वक्ति--</p>
<lg>
  <l>भोगाक्षमस्य रक्षां दृङ्मात्रेणैव कुर्वतोऽनभिमुखस्य ।</l>
  <l>वृद्धस्य प्रमदापि श्रीरपि भृत्यस्य भोगाय ॥ ४१६ ॥</l>
</lg>
<p>भोगेति। भोगो रतम्, स्रक्चन्दनादिकं च । तत्रासमर्थस्य । दृष्टिमात्रेण रक्षणं कुर्वतः।
मात्रपदेन शरीरसामर्थ्याभावो ध्वन्यते । 'वाङ्मात्रेण' इत्यपि पाठः । अनभिमुखस्य,
असामर्थ्यात्तत्कटाक्षनिरीक्षणासमर्थस्य, अर्थिपराङ्मुखस्य च । वृद्धस्य प्रकृष्टमदशालिनी
नायिकापि लक्ष्मीरपि सेवकस्य भोगाय । एवं चैतदुभयसंग्रहोऽनर्थक एव तस्येति
द्योत्यते ॥</p>
<lg>
  <l>भवितासि रजनि यस्यामध्वश्रमशान्तये पदं दधतीम् ।</l>
  <l>स बलाद्वलयितजङ्घाबद्धां मामुरसि पातयति ॥ ४१७ ॥</l>
</lg>
<p>भवितेति । हे रजनि, यस्यां त्वयि श्रमापनोदाय पदं दधतीम् । वलयिता या जङ्घा</p>
<pb n="153" />
<p>तया बद्धां मामुरसि पातयिष्यति, एतादृशी त्वं भवितासि । श्रमापनोदनाय श्रान्तस्य
चरणाद्युपरि चरणदानादि विधीयत इति लौकिकम् । पथिकाङ्गनाशंसनमेतत् ॥
किमित्यस्य गौरवादि न विधीयते त्वयेति वादिनीं सखीं नायिका वक्ति--</p>
<lg>
  <l>भूषणतां भजतः सखि कषणविशुद्धस्य जातरूपस्य ।</l>
  <l>पुरुषस्य च कनकस्य च युक्तो गरिमा सरागस्य ॥ ४१८ ॥</l>
</lg>
<p>भूषणतामिति । हे सखि, भूषणतां सर्वोत्कृष्टतां कटकादिरूपतां च भजतः । कषणेन
चिरकालीनसंगत्या निकषोपलेन च विशुद्धस्य विज्ञातसकलस्वभावस्य विज्ञातशुद्धेश्च ।
जातरूपस्य सुरूपस्य । यद्वा यतो रूपादिकमित्यर्थः । पक्षे सुवर्णस्य । 'चामीकरं जात-
'रूपम्' इत्यमरः । सरागस्य प्रीतिमतः । पक्षे रागो लौहित्यम् । पुरुषस्य च, कनकस्य
च, गरिमा गौरवम् । पक्षे परिमाणम् । युक्तम् । एवं चैतादृशस्यैव गौरवमुचितम्, अन्या-
दृशस्य नेति भावः ॥
स्वगुणैः प्रियवश्यताविधानदक्षाम् 'कार्मणेनानया पतिः स्वाधीनतामानीतः' इति सप-
त्नीभिः प्रोच्यमानां नायिकां काचिदन्योक्त्या वक्ति-</p>
<lg>
  <l>भस्मपरुषेऽपि गिरिशे स्नेहमयी त्वमुचितेन सुभगासि ।</l>
  <l>मोघस्त्वयि जनवादो यदोषधिप्रस्थदुहितेति ॥ ४१९ ॥</l>
</lg>
<p>भस्मेति । भस्ममलिनेऽपि गिरिशे । एवमपि काठिन्यमाविद्यतेऽज्ञत्वं वा । तेन
दुराराध्यत्वम् । स्नेहः प्रीतिस्तत्स्वरूपा, न तु प्रीतिकर्त्री । प्रीतिप्रचुरेति कश्चित् । इत्यु-
चितेन सुभगासि । परं तु यत्, ओषधीनां प्रस्थानि सानूनि यस्मिंस्तस्य दुहितेति ।
'स्नुः प्रस्थः सानुरस्त्रियाम्' इत्यमरः । एवं चानया कार्मणबलेन पतिर्वश्यतामानीत इति
जनवादः । जनपदमनिवारणीयतां ध्वनयति । मोघोऽलीकः । एवं च त्वया नायकः
स्वगुणैरेव स्वाधीनतां नीतः, न तु कार्मणबलेनेति व्यज्यते । तेन च लोकस्य भ्रान्त-
त्वम् । तेन च तद्वचनस्याप्रामाण्यम् ॥
निकटस्थाया अपि नवोढाया उपभोगो दुःसाध्य इति कश्चिद्वक्ति--</p>
<lg>
  <l>भयपिहितं बालायाः पीवरमूरुद्वयं स्मरोन्निद्रः ।</l>
  <l>निद्रायां प्रेमाद्रः पश्यति निःश्वस्य निःश्वस्य ॥ ४२० ॥</l>
</lg>
<p>भयेति । बालाया भयेन । नवोढास्वभावसुलभेनेति भावः । आच्छादितं पीवरं
जङ्घाद्वयं प्रेमार्दः । प्रेमयुक्त इति यावत् । मदनोद्गतनिद्रो नायको निद्रायाम् । नायिकाया
इति भावः । निःश्वस्य निःश्वस्य । संभोगाभावादिति भावः । पश्यति । यद्वा यस्य यत्र
मनस्तदेव तेन निद्रायामपि दृश्यत इति कश्चित् कञ्चिद्वक्ति । निद्रायां स्वस्येति भावः ।
एवं च जाग्रद्दशायां यादृग्दृष्टं बालाया ऊरुद्वयं तादृगेव निद्रायां पश्यतीति भावः ॥</p>
<pb n="154" />
<p>नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>भ्रमरीव कोषगर्भे गन्धहृता कुसुममनुसरन्ती त्वाम् ।</l>
  <l>अव्यक्तं कूजन्ती संकेतं तमसि सा भ्रमति ॥ ४२१ ॥</l>
</lg>
<p>भ्रमरीति । गन्धेन परिमलेन स्वाधीनीकृतचित्ता कुसुममनुसरन्ती कोषगर्भे भ्रमरीव
त्वामनुसरन्ती । अव्यक्तम् । लोकभयादिति भावः । पक्षे कोषैराच्छादितत्वात् । कू-
जन्ती सा तमसि संकेतं भ्रमति । नायिकाया भ्रमरीसाम्येन नायके च कुसुमसाम्येन
यथा कुसुमानुसरणं विना न गतिर्भमर्यास्तथा त्वदनुसरणं विना न गतिर्नायिकाया इति
द्योत्यते ॥
एतस्या मय्यनुरागश्चिरं स्थास्यति न वेति संशयानं नायकं नायिकासखी वक्ति--</p>
<lg>
  <l>भ्रामं भ्रामं स्थितया स्नेहे तव पयसि तत्र तत्रैव ।</l>
  <l>आवर्तपतितनौकायितमनया विनयमपनीय ॥ ४२२ ॥</l>
</lg>
<p>भ्राममिति । तत्र तत्र तद्विधानशालिनि । लोकोत्तर इति यावत् । तव स्नेहरूपे
पयसि । पयःपदेन माधुर्याद्यभिव्यज्यते । पक्षे स्नेहयुक्ते जले । भ्रान्त्वा भ्रान्त्वा स्थि-
तयानया विनयं नम्रतां विशिष्टनीतिं वा । पक्षे विशिष्टनयनम् । अपनीय । आवर्ते-
Sम्भसां भ्रमे पतिता या नौका तद्वदाचरितमेव । एवं च नान्यथा शङ्कनीयमिति भावः ।
एवं च यथा जले स्थिता नौकावर्तपतिता ततोऽन्यत्र न गच्छति, तथेयं तव स्नेहे
स्थिता नान्यत्र चित्तं करिष्यतीति व्यज्यते । तेन च सर्वथैवेयमनुग्राह्येति ॥
काचित् काञ्चिद्वक्ति--</p>
<lg>
  <l>[^१]भ्रमयसि गुणमयि कण्ठग्रहयोग्यानात्ममन्दिरोपान्ते ।</l>
  <l>हालिकनन्दिनि तरुणान्ककुझिनो मेढिरज्जुरिव ॥ ४२३ ॥</l>
</lg>
<p>भ्रमयसीति । हे हालिकनन्दिनि । हालिकपदेन जातिशून्यत्वम्, तेन च कामुकागम-
नसौकर्यम्, विवाहयोग्येयं जातेति ज्ञानवैधुर्येण कंचित्कालं यथेच्छपरपुरुषभोगसंपादनयो-
ग्यत्वं ध्वन्यते । गुणाः सौन्दर्यादयः । पक्षे तन्तवः । स्वसदननिकटे कण्ठग्रहयोग्याना-
लिङ्गनयोग्यान् । पक्षे कण्ठबन्धनयोग्यान् । तरुणान् । मेढिरज्जुः । 'पुंसि मेढिः खले
दारु न्यस्तं यत्पशुबन्धने' इत्यमरः । वृषभानिव भ्रमयसि । एवं चैते गृहमध्य एव
कुतो नानीयन्ते भीतेरभावादिति भावः । 'गुणमय-' इति पाठे गुणप्रचुराश्च ते कण्ठग्र-
हयोग्याश्च तानित्यर्थः ॥
-----------------------------------------------------------------------------------------
[^१]. अस्या आर्यायाः पुस्तकान्तरे तु व्याख्याभेदो यथा – 'काचिदन्योक्त्या हलिक-
वधूं प्रत्याह–भ्रमयसीति । सौन्दर्यशालिनि । पक्षे तन्तुप्रचुरे । कण्ठग्रहयोग्यानालिङ्गन-
योग्यान् । पक्षे ताडनयोग्यान् । स्वगृहसमीपे नूतनान् । पक्षे यूनः । उच्चांसान् । पक्षे
बलीवर्दान् । मेढिरज्जुरिवेतस्ततः संचारयसि । सुरतस्थलाप्राप्त्येति भावः । 'गुणमय--'
इति पाठे गुणप्रचुराश्च ते कण्ठग्रहयोग्याश्च तानित्यर्थः ॥'</p>
<pb n="155" />
<p>कश्चित् कञ्चित् प्रत्यन्योक्त्या वक्ति--</p>
<lg>
  <l>[^१]भालनयनेऽग्निरिन्दुर्गौलौ गात्रे भुजंगमणिदीपाः ।</l>
  <l>तदपि तमोमय एव त्वमीश कः प्रकृतिमतिशेते ॥ ४२४ ॥</l>
</lg>
<p>भालेति । हे ईश । एवं चोक्तदोषदानानर्हत्वं ध्वन्यते । यद्यपि तव ललाटनेत्रे वह्निः,
मस्तके चन्द्रः, शरीरे सर्पमणिरूपा दीपास्तथापि त्वं तमोमय एव । एनमर्थमर्थान्तरो-
पन्यासेन द्रढयति । स्वभावं कोऽतिक्रमते । न कोऽपीत्यर्थः । प्रकाशकवस्तुबाहुल्येऽप्य-
न्धकारप्रचुरत्वमिति विरोधः । तदभावस्तु तमः पदस्य गुणविशेषवाचित्वात् । एवं च
यद्यपि समीचीनसात्त्विकसंगतिस्तवास्ति, तथापि त्वदीयं स्वाभाविकं तमोगुणप्रकृतित्वं
नापगच्छतीति व्यज्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता भकारव्रज्या ।
----------------------------------
मकारव्रज्या ।
आसक्तचित्तेनाङ्गनौद्धत्यमपि न गण्यत इति काचित् कञ्चिद्वक्ति--</p>
<lg>
  <l>मधुमदवीतव्रीडा यथा यथा लपति संमुखं बाला ।</l>
  <l>तन्मुखमजाततृप्तिस्तथा तथा वल्लभः पिबति ॥ ४२५ ॥</l>
</lg>
<p>मध्विति । मद्यमदा । अत एव गतलज्जेति विग्रहः । मधुमदेन वीतव्रीडेति करणे
मदपदमधिकमिवाभाति । बाला । एवं च लज्जौचित्यमावेद्यते । यथा यथा संमुखम् ।
अर्थान्नायकस्य । वक्ति । वल्लभोऽजाततृप्तिः सन् बालामुखं तथा तथा सादरमवलोकयति ।
एवं च रसिकानां नायिकौद्धत्यकृतवचनरचनादिकं न दुःखदम्, अतस्त्वयैतादृशैतद्वचना-
दिना कोपो न विधेय इति ध्वन्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>मित्त्रैरालोच्य समं गुरु कृत्वा कदनमपि समारब्धः ।</l>
  <l>अर्थः सतामिव हतो मुखवैलक्ष्येण मानोऽयम् ॥ ४२६ ॥</l>
</lg>
<p>मित्त्रैरिति । मित्त्रै: समं विचार्य, महत्तरं कलहमपि कृत्वा, सम्यक् । आटोपपुरःसर-
मिति भावः । प्रारब्धः । अर्थ इव सतां सभ्यानां मुखवैलक्ष्येण । असम्यगिदमिति धि-
येति भावः । अयं मानस्तव मुखवैलक्ष्येण । प्रसादजन्येनेति भावः । हतः । एवं च यथा
मित्त्रैः समं विचार्य महत्तरकलहं विधायारब्धोऽर्थः सतां मुखवैलक्ष्यमात्रकरणेन विनष्टो
-----------------------------------------------------------------------------------------
[^१]. अत्रापि पुस्तकान्तरे व्याख्याभेदो यथा--'कश्चन भक्तः शिवं प्रति वक्ति--
भालेति । एतादृशप्रकाशकसामग्रीसत्त्वेऽपि तमोरूपगुणमय एव । अमुमेवार्थं द्रढयति--
कः स्वभावमतिशेते । त्यजतीत्यर्थः । एवं चाज्ञेयोऽसीति व्यज्यते । अथवा नायकीयपरा-
ङ्गनासङ्गज्ञानोत्तरं विमनस्कां नायिकां सखी दृष्टान्तद्वारा समाधत्ते--तथा च यत्रेश्वर-
स्याप्येतादृश्यवस्था तत्र का वार्ता वाच्या त्वदीयनायकस्येति भावः ॥'</p>
<pb n="156" />
<p>भवति, तथा ते मानः प्रसादजन्यमुखवैलक्षण्यतया विनष्टः । एवं च प्रसादचिह्नं कंचि-
त्कालं गोपयेति ध्वन्यते । यद्वा यथा विचार्य कलहादिकं च विधायारब्धः समीचीनाना-
मर्थो मुखवैलक्ष्येण । स्वतः कृत्रिमत्वेन ज्ञानादिति भावः । अत एव सतामिति पदमुप-
योगि । हतो भवति । लोकैर्मुखवैलक्ष्येणान्यथानिर्णयादिति भावः । तथा ते मानः 'कथं
समाधेयो दयितः' इत्यादिचिन्ताजन्यमुखमालिन्येन हत इत्यर्थः । अथवा मित्रैः समं मि-
त्त्रतुल्यतया विचार्य । उपकारकत्वादिति भावः । मुखवैलक्ष्येणादैन्यादिवशादिति भावः ।
गुरु महत्तरं कदनं क्लेशादि कृत्वा सम्यगर्जितोऽप्यर्थो द्रव्यं सतां विवेकिनां दुःखदत्वाद-
नादरणीयो भवति । तथा मित्त्रत्वेन विभाव्यैवं चास्माकमनादरकरणं न तवोचितमिति
व्यज्यते । मुखवैलक्षण्येन महत्तरं कलहं कृत्वा । एवं चान्यासां दुर्वचनादिरूपः कलहः,
तव तु मुखवैलक्षण्यकरणमात्ररूप इत्यन्यनायिकाव्यतिरेकः सूच्यते । कृतोऽपि तवायं
मानो हतो भवति दुःखदत्वादनादरणीयो भवति । एवं चैतादृशमानविधानं तवानुचित-
मिति द्योयते ॥
कश्चिल्लज्जावशात् स्वकटाक्षविक्षेपसमयेऽन्यप्रदेशाभिमुखीं कांचिद्वक्ति--</p>
<lg>
  <l>मम रागिणो मनस्विनि करमर्पयतो ददासि पृष्ठमपि ।</l>
  <l>यदि तदपि कमलबन्धोरिव मन्ये स्वस्य सौभाग्यम् ॥ ४२७ ॥</l>
</lg>
<p>ममेति । हे मनस्विनि प्रशस्तान्तःकरणे । एवं च कौटिल्याभावो व्यज्यते । अनुरा-
गवतः । पक्षे लौहित्यवतः । करं हस्तम् । पक्षे किरणम् । समर्पयतो मम पृष्ठमपि यदि
ददासि । लज्जावशान्मुखपरावर्तनादिति भावः । पक्षे 'पृष्ठतः सेवयेदर्कम्' इत्युक्तत्वादिति
भावः । तदपि कमलबन्धोरिव स्वस्याहं सौभाग्यं मन्ये । एवं चैतावताप्यहमात्मानं कृ-
तार्थं मन्ये, किमु संमुखावलोकन इति भावः । एवं यथाकथंचित् कुचस्पर्शार्थं करमर्पयतो
मम पृष्ठदाने कूर्पासग्रन्थिमोचनानुमितिदानेनात्यन्तानुकूल्यं विहितं त्वयेति व्यज्यते ॥
पुष्पवतीवृत्तं कश्चित् सखायं वक्ति--</p>
<lg>
  <l>मा स्पृश मामिति सकुपितमिव भणितं व्यञ्जिता न च व्रीडा ।</l>
  <l>आलिङ्गितया सस्मितमुक्तमनाचार किं कुरुषे ॥ ४२८ ॥</l>
</lg>
<p>मेति । मा मां स्पृशेति सकुपितमिव । न वास्तवमिति भावः । भणितम् । लज्जा न
च व्यञ्जिता । पुष्पवत्त्वे ज्ञाते स्पर्शमयं न करिष्यतीति भावः । आलिङ्गितया । औत्क-
ण्ठ्यादिति भावः । आचारहीन, किं कुरुषे इति सस्मितम् । सुखोद्रेकादिति भावः । उ-
क्तम् । एवं च कामिनीनां सुरते सर्वदा सौख्यमिति ध्वन्यते ॥
कश्चित् काञ्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>मूलानि च निचुलानां हृदयानि च कूलवसतिकुलटानाम् ।</l>
  <l>मुदिरमदिरा प्रमत्ता गोदावरि किं विदारयसि ॥ ४२९ ॥</l>
</lg>
<p>मूलेति । हे गोदावरि, मेघरूपा या मदिरा तयोत्कृष्टमदवती । एवं च कर्तव्याकर्त-</p>
<pb n="157" />
<p>व्यविवेकविधुरत्वं ध्वन्यते । वृक्षाणाम् । निकटस्थानामिति भावः । मूलानि च, तीरव-
सतिशालिकुलटानां हृदयानि च विदारयसि । वीचीभिः शिथिलकरणेन संकेतिततरून्मू-
लनेनेति भावः । कूलवसतिपदेन कुलटानामनन्यगतिकत्वं तद्धृदयविदारकत्वानौचित्यं
च ध्वन्यते । इदं किं नूचितमिति भावः । एवं चास्थिरद्रव्याद्युन्मादवशात् परोपकारप्रव-
णानां निकटवसतिमात्रशालिनामितस्ततः समानीतान्नोपजीविनां दुःखदानमनुचितं त-
वेति ध्वन्यते ॥
पाण्डित्या दिगुणशालित्वेऽपि जडाचाराभिरतं कश्चिदुपदिशति--</p>
<lg>
  <l>मलयद्रुमसाराणामिव धीराणां गुणप्रकर्षोऽपि ।</l>
  <l>जडसमयनिपतितानामनादरायैव न गुणाय ॥ ४३० ॥</l>
</lg>
<p>मलयेति । मूर्खाचारपतितानाम् । 'समयाः शपथाचार--' इत्यमरः । पक्षे शीतका-
लप्राप्तानाम् । चन्दनसाराणामिव धीराणां गुणानां पाण्डित्यादीनाम् । पक्षे सौगन्ध्या-
दीनाम् । आधिक्यमपि । अपिरनादरानर्हत्वं गमयति । अनादरायैव न गुणाय । एवं च
समीचीनस्याप्यसमीचीनाचारप्रविष्टस्य गुणाद्यपि निन्दाकरमेवेत्यतस्त्वया नैवमाचरित-
व्यमिति व्यज्यते ॥
कस्याश्चिन्नायिकायाः साम्यं स्वस्मिन् कुर्वाणां काञ्चित् काचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>मधुमथनमौलिमाले सखि तुलयसि तुलसि किं मुधा राधाम् ।</l>
  <l>यत्तव पदमदसीयं सुरभयितुं सौरभोद्भेदः ॥ ४३१ ॥</l>
</lg>
<p>मध्विति । मधुमथनस्य श्रीकृष्णस्य मौलिसंबन्धशालिनि माले सखि । एवं च यथा-
र्थवादार्हत्वं ध्वन्यते । राधां वृथा किमिति तुलयसि स्वसमानां मन्यसे । यद्यस्मात्तव प-
रिमलोद्रेकोऽदसीयं पदं राधासंबन्धिचरणं सुरभीकर्तुम् । श्रीकृष्णेन सर्वदा राधाचरण-
प्रणामकरणादिति भावः । एवं यथा तस्यां गौरवम्, न तथा त्वयीति ध्वन्यते । सौरभोद्भेद
इत्यस्य प्राक्तवेति पदमुचितम् ॥
कश्चित् सखायं वक्ति--</p>
<lg>
  <l>मयि यास्यति कृत्वावधिदिनसंख्यं चुम्बनं तथाश्लेषम् ।</l>
  <l>प्रिययानुशोचिता सा तावत्सुरताक्षमा रजनी ॥ ४३२ ॥</l>
</lg>
<p>मयीति । गन्तुकामे मय्यवधिदिनसमसंख्यं चुम्बनं तथालिङ्गनं कृत्वा प्रियया ता-
वत्संख्याकसुरतसंपादनासमर्था रात्रिरनुशोचिता । एवं च स्त्रीणां रतेऽत्यत्तं प्रीतिरिति
भावः ॥
कश्चिद्वेश्यां स्तौति--</p>
<lg>
  <l>मृगमदनिदानमटवी कुङ्कुममपि कृषकवाटिका वहति ।</l>
  <l>हट्टविलासिनि भवती परमेका पौरसर्वस्वम् ॥ ४३३ ॥</l>
</lg>
<pb n="158" />
<p>मृगेति । अटवी कस्तूरिकोत्पत्तिस्थानम् । कुङ्कुममपि कृषकवाटिका वहति । एवं च
मृगमदकेसरयोर्वनवासशालितया न नागरिकजनसुखदत्वमिति भावः । हे वाराङ्गने, एका
भवती उत्कृष्टं पुरसंबन्धिलोकसर्वस्वम् । सुखविशेषप्रदत्वादिति भावः । यद्वा कस्तूरीकु
ङ्कुमयोरन्यत्रापि सत्त्वेन साधारणतया, वारविलासिन्यास्तु नगरमात्रवसतिशालितयासा-
धारण्येन नागरिकात्यन्तस्पृहणीयत्वमिति भावः ॥
वसन्तसमयेषूद्दीपनोद्रेकात्तूष्णीमवस्थातुं न शक्यत इति काचित् काञ्चिद्वक्ति--</p>
<lg>
  <l>मधुदिवसेषु भ्राम्यन् यथा यथा विशति मानसं भ्रमरः ।</l>
  <l>सखि लोहकण्टकनिभस्तथा तथा मदनविशिखोऽपि ॥ ४३४ ॥</l>
</lg>
<p>मध्विति । हे सखि, वसन्तसमयेषु भ्राम्यन्सन् । मधुपदेन दुष्परिहरत्वं ध्वन्यते ।
यथा यथा चित्तं लोहकण्टकसदृशो भ्रमरो विशति तथा तथा मदनबाणोऽपि । एवं च
केनचित्सह मां योजयेति ध्वन्यते । यद्वेतस्ततो मदर्थमेव परिभ्रमन्भ्रमर इव भ्रमरः । सा-
रग्राहकत्वेनातिचतुरत्वादिति भावः । नायको यथा यथा मनसि समायाति तथा तथा
लोहकण्टकसदृशः । एवं च व्यथकत्वम् । मदनबाणोऽपि हृदयं प्रविशति । एवं चैतद्द-
र्शनेनाहं मदनशरविद्धा तद्योगं विनावस्थातुं न शक्नोमीति तेन सह मां योजयेति ध्वन्यते ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>मयि चलिते तव मुक्ता दृशः स्वभावात्प्रिये सपानीयाः ।</l>
  <l>सत्यममूल्याः सद्यः प्रयान्ति मम हृदयहारत्वम् ॥ ४३५ ॥</l>
</lg>
<p>मयीति । हे प्रिये, मयि प्रस्थिते मुक्ताः परित्यक्ताः । पक्षे मुक्ताफलानि । स्वभावात् स्त्री-
स्वभावात् । पक्षे साहसिकतया । सपानीया अश्रुजलवत्यः । पक्षे तेजोविशेषशालिन्यः ।
अमूल्या उत्कृष्टाः । पक्षे बहुतरद्रव्यलभ्याः । दृष्टयो मम हृदयस्य चेतसः । पक्षे वक्षसः ।
हारत्वमपहारकत्वम् । पक्षे हारभावं प्रयान्ति । इदं सत्यम् । एवं चैतादृशत्वद्विलो-
कनेनाहं गमनपराङ्मुखः संवृत्तोऽस्मीति व्यज्यते ॥
अहमत्यन्तमदनबाधाकान्तः संवृत्त इति कश्चित् काञ्चिदाह--</p>
<lg>
  <l>मुग्धे मम मनसि शराः स्मरस्य पञ्चापि संततं लग्नाः ।</l>
  <l>शङ्के स्तनगुटिकाद्वयमर्पितमेतेन तव हृदये ॥ ४३६ ॥</l>
</lg>
<p>मुग्ध इति । हे मुग्धे, स्मरस्य पञ्चापि बाणाः । अपिनान्यसत्त्वाभावो व्यज्यते ।
मम मनसि निरन्तरम् । एवं च सर्वमपि मनो विद्धमिति भावः। लग्नाः, न तु निर्गताः।
अत एतेन मदनेन तव हृदये स्तनरूपगुटिकाद्वयमर्पितमित्यहं संभावयामि । शराभावा-
दिति भावः । एवं च गुटिकावेदनायाः स्वल्पतया धैर्यम्, मयि नेति ध्वन्यते ॥
कश्चित् काञ्चिद्वक्ति--</p>
<lg>
  <l>मधुमथनवदनविनिहितवंशीसुषिरानुसारिणो रागाः ।</l>
  <l>हन्त हरन्ति मनो मम नलिकाविशिखाः स्मरस्येव ॥ ४३७ ॥</l>
</lg>
<pb n="159" />
<p>मध्विति । श्रीकृष्णवदनविनिहिता या वंशी तद्रन्ध्रानुसारिणः शब्दा मदनस्य न-
लिकाबाणा इव मम मनः । हन्त खेदे । हरन्ति । एवं च वेणुध्वनिं श्रुत्वावस्थातुं न
शक्यते, अतो द्रुतं प्रयाहीति ध्वन्यते ॥
कयोश्चिन्मित्त्रयोरन्यतरं संगमयितुं दूती नायिकां वक्ति–-</p>
<lg>
  <l>महतोः सुवृत्तयोः सखि हृदयग्रहयोग्ययोः समुच्छ्रितयोः ।</l>
  <l>सज्जनयोः स्तनयोरिव निरन्तरं संगतं भवति ॥ ४३८ ॥</l>
</lg>
<p>महतोरिति । श्रेष्ठयोः । एवं च परच्छिद्रप्रेक्षणानर्हत्वं ध्वन्यते । पक्षे महापरिमा-
णशालिनोः । समीचीनाचरणयोः । एवं च लौकिकदुष्टशङ्काशून्यत्वमावेद्यते । पक्षे समी-
चीनवर्तुलयोः । हे सखि, हृदयग्रहयोग्ययोः । चित्ते स्थापयितुं योग्ययोः । एवं चाति-
प्रियत्वमावेद्यते । यद्वालिङ्गनयोग्ययोरित्यर्थः । पक्षे वक्षःस्थितिशालिनोः । समुच्छ्रितयोः ।
एवं च नवीनयौवनभाग्योदयादिशालित्वं द्योत्यते । पक्ष नवीनोदयवत्त्वम् । सज्जनयोः
स्तनयोरिव संगतं निरन्तरं भवति । एवं चोभयोरपि समानगुणशीलतया न्यूनाधिकभा-
वविरहेणोभयोर्मध्ये यं प्रत्यनुरागः स एवानुगृह्यतामिति ध्वन्यते । यद्वा कयोश्चित्सहचर-
योर्मध्येऽन्यतरभीत्यान्यतरावलोकनमसम्यगिति मन्वानां नायिकां दूती वक्ति--एतयो-
रतितरां धीमत्त्वेन परस्परानन्दसंवर्धकतया नान्यतराशङ्का त्वया विधेयेत्यावेद्यते । स्तन-
योरिवेत्यनेनैतत्संगतिविघटनमसंभवीति ध्वन्यते । कथमेतयोरतितरां संगतिरिति वादिनीं
काञ्चित् काचिद्वक्ति । समानगुणशीलत्वादिति भाव इति वा । अथवा समानगुणशीला-
दिशालिनोः साहजिकी संगतिरिति कांचित्काचिद्वक्ति ॥
कश्चित् 'एतादृशं नाचरणीयम्' इत्युपदेशकर्तारं सखायं वक्ति--</p>
<lg>
  <l>मम वारितस्य बहुभिर्भूयो भूयः स्वयं च भावयतः ।</l>
  <l>जातो दिशीव तस्यां सखे न विनिवर्तते मोहः ॥ ४३९ ॥</l>
</lg>
<p>ममेति । बहुभिः । विवेकिभिरिति भावः । सुहृद्भिरिति वा । निवारितस्य । नैवं
विधेयमिति भावः । स्वयं च मुहुर्मुहुविचारयतो मम दिशीव तस्यां जातो मोहः प्रीतिर्भ्र-
मश्च हे सखे, नापगच्छति । एवं च यथा संजातदिग्भ्रमस्य न केनापि निवृत्तिः कर्तुं
शक्या, तथैतस्यां ममोत्पन्नानुरागस्य । अतस्त्वदुपदेशोऽनर्थकः । अत एतत्करणाद्विरमेति
ध्वन्यते ॥
पराङ्गनातिलम्पटतयापकीर्त्या स्वजनपरित्यक्तं कंचन कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>मग्नोऽसि नर्मदाया रसे हृतो वीचिलोचनक्षेपैः ।</l>
  <l>यद्यच्यसे तरुवर भ्रष्टो भ्रंशोऽपि ते श्लाध्यः ॥ ४४० ॥</l>
</lg>
<p>मग्नोऽसीति । हे तरुश्रेष्ठ । एवं च नीचस्यैतादृशाचरणे न किंचिदसम्यगिति
ध्वन्यते । नर्मदाया नद्याः । नर्म ददातीति व्युत्पत्त्या कलाकलापवत्त्वमावेद्यते नायिका-
याम् । तरङ्गरूपकटाक्षैः, अथ च वीचीतुल्या ये लोचनक्षेपास्तैर्हतो रसे जले शृङ्गारादौ</p>
<pb n="160" />
<p>च मग्नोऽसि । एवं चानन्दनिमग्नमानसतया लोकनिन्दाज्ञानवैधुर्यमावेद्यते । भ्रष्ट इति
यद्युच्यसे । लोकैरित्यर्थः । अत्र कर्त्रनुपादानेन सर्वेऽपि त्वां निन्दन्तीति व्यञ्जनेन न
न्यूनपदत्वमाशङ्कनीयम् । तर्हि ते भ्रंशोऽपि श्लाघार्हः । नायिकाया लोकोत्तरसौन्दर्या-
दिगुणशालितयेति भावः । एवं चैतादृशं निन्द्यकर्मापि चेत्कर्तव्यं तर्ह्येतादृशनायिकया
सहेति ध्वन्यते ॥
पाणिग्रहणसमयसंजातसात्त्विकभावोदयं कंचन कश्चिद्वक्ति--</p>
<lg>
  <l>मेनामुल्लासयति स्मेरयति हरिं गिरिं च विमुखयति ।</l>
  <l>कृतकरबन्धविलम्बः परिणयने गिरिशकरकम्पः ॥ ४४१ ॥</l>
</lg>
<p>मेनामिति । विवाहकाले संपादितपाणिग्रहणविलम्बो गिरिशस्य हस्तकम्पो मेनां
पार्वतीमातरमुल्लासयति स्मेत्यर्थः । एवमुत्तरत्र । कामोद्रिक्तजामातृलाभादिति भावः ।
विष्णुं स्मेरयति । अत्यन्तप्रकटितवैराग्यस्याप्यस्यैतादृश्यवस्थेति कुतुकादिति भावः ।
हिमालयं च विमुखयति । लज्जावशादिति । एवं चैतादृश्यवस्थावश्यं महतामपि भव-
तीति न त्वया कापि लज्जा विधेयेति ध्वन्यते ॥</p>
<lg>
  <l>मधुगन्धि घर्मतिम्यत्तिलकं स्खलदुक्ति घूर्णदरुणाक्षम् ।</l>
  <l>तस्याः कदाधरामृतमाननमवधूय पास्यामि ॥ ४४२ ॥</l>
</lg>
<p>मध्विति । मद्यगन्धवत्, प्रस्वेदार्द्रतिलकम्, स्खलदुक्ति । सोन्मादत्वादिति भावः ।
घूर्णदरुणनयनम् तस्या बुद्धिस्थनायिकाया मुखमवधूय तिरस्कृत्य । अचुम्बयित्वेति
भावः । अधरामृतम् । उत्तरोष्ठपान निषेधादिति भावः । पास्यामि । एवं चैतादृशवदन-
चुम्बनादप्यधरपानमधिकमिति व्यज्यते । यद्वा मधुगन्धादिगुणयुक्तमाननमवधूय कम्प-
यित्वा । स्थिताया इति शेषः । तस्या अधरामृतं पास्यामीति योजना । पथिकाशंसनमेतत् ॥
काचित् काञ्चिद्वक्ति-</p>
<lg>
  <l>मेदिन्यां तव निपतति न पदं बहुवल्लभेति गर्वेण ।</l>
  <l>आश्लिष्य कैर्न तरुणैस्तुरीव वसनैर्विमुक्कासि ॥ ४४३ ॥</l>
</lg>
<p>मेदिन्यामिति । अहं बहूनां वल्लभेति गर्वेण तव पदं भूमौ न निपतति । कैस्तरुणैरा-
लिङ्ग्य वस्त्रैस्तुरीव न विमुक्तासि । उपसर्गेण पुनः कदापि न संबन्ध इत्यावेद्यते ।
उत्तरोत्तरनायकवल्लभात्वे पूर्वपूर्वनायकवल्लभात्वाभावस्य हेतुतया तस्य च गुणशून्यत्व-
ज्ञानाधीनतया न तवानेकवल्लभात्वेन गर्वकरणमुचितम्, अपि तु यस्यामेव कलाकला-
पाकृष्टो नायको निमग्नमानसस्तस्या एव गर्वकरणमुचितमिति ध्वन्यते ॥
परपुरुषेष्वभिरतिमुत्पादयितुं दूती नायिकां वक्ति--</p>
<lg>
  <l>मूले निसर्गमधुरं समर्पयन्तो रसं पुरो विरसाः ।</l>
  <l>इक्षव इव परपुरुषा विविधेषु रसेषु विनिधेयाः ॥ ४४४ ॥</l>
</lg>
<pb n="161" />
<p>मूल इति । मूले । आनन्दनिदाने रहसीति यावत् । पक्षे यथाश्रुतम् । स्वभावमधु-
रम् । एवं चौपाधिकमधुररसदातारोऽन्य इति भावः । रसं रत्यादिकम् । पक्ष इक्षुवि-
कारम् । सम्यगपर्यन्तः । एवं चान्यत्र समर्पणेऽपि न सामीचीन्यमिति भावः ।
एवं च परपुरुषातिरिक्तपुरुषाणां रतं न स्वतो मधुरम्, न वा ते तत्कलासु
कुशला इत्यावेद्यते । पुरो जनसमक्षम् । पक्षेऽग्रभागे । विरसाः । लोकभीतेरिति
भावः । एवं च लोकवञ्चनानिपुणत्वेनातिविज्ञत्वमावेद्यते । परपुरुषा इक्षव इवानेकरसेषु
विविधरतादौ । पक्षेऽनेकविधमधुरप्रकारादौ । विशेषेण स्थाप्याः । एवं च परपुरुषेष्व-
भिरुचिरतितरामुचितेति ध्वन्यते । यद्वा काचित्परपुरुषाभिरतिं निन्दति । विविधरसेषु
स्थापयितुं योग्याः परपुरुषा इक्षव इव मूले प्रथमतः स्वभावेन मधुरं रसं प्रीत्यादि
समर्पयन्तोऽग्रे विरसा भवन्ति । एवं च 'प्राज्ञास्तत्कर्म कुर्वन्ति येनान्ते सुखमेधते' इत्यु-
क्तत्वात्प्रान्ते परपुरुषसंगतेरनिवार्यदुःखदत्वेन तत्करणमनुचितमिति द्योत्यते । यद्वा
प्रथमतः सरसाः पश्चान्नीरसाः परपुरुषा विविधरसेषु विनिधेया इति काक्का नेत्यर्थः ॥
काचित् 'नायकं किमर्थमवगणयसि' इति वादिनीं सखीं वक्ति--</p>
<lg>
  <l>महति स्नेहे निहितः कुसुमं बहु दत्तमर्चितो बहुशः ।</l>
  <l>वक्रस्तदपि शनैश्चर इव सखि दुष्टग्रहो दयितः ॥ ४४५ ॥</l>
</lg>
<p>महतीति । यद्यपि महति बहुतरे स्नेहे प्रेम्णि । पक्षे तैले । निहितः । तस्मिन्प्रेम
बहुतरं संपादितमिति भावः । पक्षे लोहमयी शनैश्चरप्रतिमा बहुतरतैले स्थाप्यत इति
भावः । कुसुमम् । एकत्वमविवक्षितम् । बहुवारं दत्तम् । यद्वा बहु कुसुममित्यन्वयः ।
बहुप्रकारं पूजितस्तदपि दुष्टो ग्रह आग्रहो यस्य । पक्षे दुष्टश्चासौ ग्रहश्चेति विग्रहः ।
वक्रः ऋजुर्न । पक्षे वक्रोऽन्यराशिस्थितोऽन्यराशिसंचरणवान् । शनैश्चर इव । एवं चै-
तादृशशनेः पूजादिनापि नानुकूल्यं यथा तथास्य नायकस्य । अतो न ममापराध इति
ध्वन्यते ॥
कांचिन्नीचजनसेवितां यौवनगर्वितां काचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>मा शबरतरुणि पीवरवक्षोरुहयोर्भरेण भज गर्वम् ।</l>
  <l>निर्मोकैरपि शोभा ययोर्भुजंगीभिरुन्मुक्तैः ॥ ४४६ ॥</l>
</lg>
<p>मा शबरेति । शबरस्य तरुणि । एवं च स्वतो गुणाभावेऽपि नायकस्यापि निर्गुण-
तया तत्संगतिलभ्यगुणवत्ताभावो व्यज्यते । मांसलस्तनयोर्भरेण गर्वं मा भज । भुजंगी-
भिरुरगीभिरथ च वेश्याभिः परित्यक्तैरपि । एवं चानादरो द्योत्यते । निर्मोकैर्ययोः
शोभा । एवं च कदर्यजनसेवितत्वेन न त्वया गर्वः कार्य इति व्यज्यते ॥
'कथं त्वया मानः परित्यक्तः' इति वादिनीं सखीं नायिका वक्ति--</p>
<lg>
  <l>मम कुपितायाश्छायां भूमावालिङ्ग्य सखि मिलत्पुलकः ।</l>
  <l>स्नेहमयत्वमनुज्झन्करोति किं नैष मामरुषम् ॥ ४४७ ॥</l>
</lg>
<pb n="162" />
<p>ममेति । हे सखि, कोपवत्या मम च्छायां भूमावालिङ्ग्य संजातरोमाञ्चः प्रीतिप्रचुर-
त्वमपरित्यजन्नेष मां क्रोधरहितां किं न करोति । अपि तु करोति । एवं चैतादृशैतद्वृ-
त्तमवलोक्य मानः परित्यक्तो मयेति व्यज्यते । यद्वा शिथिलितकोपा नायिका सखीं
चक्ति—कुपिताया मम च्छायां भूमावालिङ्ग्य संजातरोमाञ्चः प्रीतिप्रचुरत्वमपरित्यज-
न्मामपगतरोषां हे सखि, किं न करोति, किं न करिष्यतीति प्रश्नः । 'वर्तमानसामीप्ये
वर्तमानवद्वा' इति भविष्यत्यपि लट् । एवं च हे सखि, त्वं तथा कुरु यथायं मम
च्छायायाः प्रणिपातादिना मामनुयातीति ध्वन्यते । क्वचित् 'मापरुषम्' इति पाठः ।
नायिका चेयं परकीया ॥
कश्चित् सखायं वक्ति--</p>
<lg>
  <l>मुषित इव क्षणविरहे रिपुरिव कुसुमेषुकेलिसङ्ग्रामे ।</l>
  <l>दास इव श्रमसमये भजन्नताङ्गीं न तृप्यामि ॥ ४४८ ॥</l>
</lg>
<p>मुषित इति । क्षणमात्रसंजातविरहे मुषित इवाविद्यमान इव । मन्मथकलायुद्धे
शत्रुरिव । श्रमकाले सेवक इव नताङ्गीं भजन्न तृप्यामि । विरहासहिष्णुत्वप्रचण्डरत-
कलाशालित्वतदाज्ञानुवर्तित्वानि क्रमेण मुषित इवेत्यादित्रयेण व्यज्यन्ते । एवं चैतादृशी
नायिका नान्येति ध्वन्यते ॥
अनुनयानेकप्रकारकरणेऽप्यधिककोपशालिनीं नायिकामवलोक्यानुनयनिर्विण्णहृदयं
नायकं सखी समुपदिशति--</p>
<lg>
  <l>मुञ्चसि किं मानवतीं व्यवसायाद्द्विगुणमन्युवेगेति ।</l>
  <l>स्नेहभवः पयसाग्निः सान्त्वेन च रोष उन्मिषति ॥ ४४९ ॥</l>
</lg>
<p>मुञ्चसीति । व्यवसायात्सान्त्वनप्रकाराद्द्विगुणकोपवेगेति हेतोर्मानवतीं मुञ्चसि, इदं
किम् । नोचितमिति भावः । अत्रोपष्टम्भकमाह--स्नेहभवः प्रीतिजन्यः । पक्षे तैल-
जन्यः । कोपोऽनुनयेन, अग्निर्जलेनोन्मिषति । अधिको भवतीत्यर्थः । एवं चैतस्याः
कोपः प्रीतिपूर्वक एव, अतो न त्वमेतस्याः समाधानाद्विरमेति ध्वन्यते ॥
इतरसंतापात्कामसंताप एवाधिक इति कश्चित्कंचिद्वक्ति---</p>
<lg>
  <l>मलयजमपसार्य घनं वीजनविघ्नं विधाय बाहुभ्याम् ।</l>
  <l>स्मरसंतापादगणितनिदाघमालिङ्गते मिथुनम् ॥ ४५० ॥</l>
</lg>
<p>मलयजमिति । भुजाभ्यां चन्दनं दूरीकृत्य, घनमत्यन्तं वीजनस्य विघ्नं विधाय,
मदनसंतापवशादनादृतघर्मकालीननिदाघम्, स्त्रीपुंसद्वन्द्वमालिङ्गते । 'विहाय' इति पाठे
वीजनाभिन्नं विघ्नमित्यर्थः । निदाघकालीनसंतापदुःखमगणयित्वा सद्यः प्रयाहि दयि-
तासविधे इति द्योत्यते ॥
कश्चित्कंचिच्छरणागतस्तेन चारक्षितस्तं वक्ति--</p>
<lg>
  <l>महतोऽपि हि विश्वासान्महाशया दधति नाल्पमपि लघवः ।</l>
  <l>संवृणुतेऽद्रीनुदधिर्निदाघनद्यो न भेकमपि ॥ ४५१ ॥</l>
</lg>
<pb n="163" />
<p>महत इति । महाशयाः श्रेष्ठाः । पक्षे गभीराः । विश्वासाद्विनिश्चितं महतोऽपि श्रे-
ष्ठानपि । एवं चैतद्रक्षणे क्लेशवत्त्वेऽपि न तं महान्तः परिगणयन्तीति द्योत्यते । पक्षे
महापरिमाणान् । एवं च गोपने क्लेशवत्ता ध्वन्यते । दधति स्थापयन्ति । लघवो नीचाः ।
पक्षे स्वल्पपरिमाणशालिनः । अल्पमपि । एवं च संरक्षणे सुकरत्वमावेद्यते । न दधति ।
अर्थान्तरन्यासेनामुमेवार्थं द्रढयति--समुद्रोऽद्रीन्गोपयति । अद्रीनित्यनेन स्वदुःखदम-
न्दरसजातीयतया द्वेषवत्त्वेऽपि, इन्द्ररूपशत्रुसत्त्वेन भीतिकरणौचित्येऽपि च तदगणनेन
महत्तरत्वमावेद्यते । निदाघकालीननद्यो मण्डूकमपि न गोपयन्ति । भेकपदेन स्वजीव-
नाधीनजीवनतया तथाविधशत्रुशून्यतया च रक्षणौचित्यमावेद्यते । एवं च महान्त
एव महत्तरशत्रुमवधूयापि शरणागतं पालयन्ति न क्षुद्रा इति ध्वन्यते ॥
आरब्धमानां नायिकां नायको वक्ति--</p>
<lg>
  <l>मधुधारेव न मुञ्चसि मानिनि रूक्षापि माधुरीं सहजाम् ।</l>
  <l>कृतमुखभङ्गापि रसं ददासि मम सरिदिवाम्भोधेः ॥ ४५२ ॥</l>
</lg>
<p>मध्विति । हे मानिनि । एवं च रूक्षत्वादिकरणौचित्यमावेद्यते । माक्षिकधारेव
रूक्षापि स्नेहाभाववत्यपि स्वाभाविकीं माधुरीं न त्यजसि । सहजामित्यनेन तत्परित्यागस्य
कर्तुमशक्यत्वमावेद्यते । वक्रीकृतवदनापि त्वं जलधेर्नदीव मम रसं प्रीतिम् । पक्षे
जलम् । प्रयच्छसि । मानश्चायं लघुः ॥
वीणावादनकारिणीं नायिकां सुरतोत्कण्ठितो नायकस्तन्निरसनाय वक्ति--</p>
<lg>
  <l>मदनाकृष्टधनुर्ज्याघातैरिव गृहिणि पथिकतरुणानाम् ।</l>
  <l>वीणातन्त्रीक्वाणैः केषां न विकम्पते चेतः ॥ ४५३ ॥</l>
</lg>
<p>मदनेति । हे गृहिणि । एवं च दयावत्त्वौचित्यमावेद्यते । मन्मथाकृष्टचापज्याघातैरिव
वीणातन्त्रीशब्दैः केषां पथिकतरुणानां चेतो न विकम्पते । अपि तु सर्वेषाम् । एवं चै-
तादृशत्वदीयवीणावादनश्रवणेन पथिकप्राणाः प्रयास्यन्ति, अतो विरम वीणावादनादिति
द्योत्यते । 'न विकल्पते' इति पाठे जीवनं भविष्यति न वेति संदेहवद्भवतीत्यर्थः ॥
नायकः सखायं वक्ति--</p>
<lg>
  <l>मम भयमस्याः कोपो निर्वेदोऽस्या ममापि मन्दाक्षम् ।</l>
  <l>जातं क्व चान्तरिक्षे स्मितसंवृतिनमितकंधरयोः ॥ ४५४ ॥</l>
</lg>
<p>ममेति । क्व चान्तरिक्षे क्वचिन्मार्गमध्ये स्मितगोपनार्थं नमितग्रीवयोः । रात्र्यनुभूत-
विलासस्मरणजन्यदर्शनसमसमयस्मितस्य परकीयाविषयकत्वेन गोपनमावश्यकमिति
भावः । आवयोर्मध्ये मम भयम् । किमिति मया जनस्य प्रेमावेदकमिदं स्मितं कृतमिति
घियेति भावः । अस्या इति परोक्षायामपि नायिकायामपरोक्षवन्निर्देशोऽत्यन्ततदेकतापन्न-
त्वमावेदयति । नायके कोपः । किमित्यहितं विहितं स्मितमादावनेनेति घियेति भावः ।
अस्या निर्वेदः स्वावमानना । किमेतादृशेऽतिस्निग्धे विदग्धे कोपमकरवमिति धियेति भावः।</p>
<pb n="164" />
<p>अपिश्चार्थः । मम च मन्दाक्षं लज्जा । कथमविदग्धः कोपमीदृश्या अप्यकरवमिति धि-
येति भावः । जातमिति सर्वान्वयि । एवं चैतादृशगुणविशेषशालि पराङ्गनासंगतं भ-
वतीति व्यज्यते ॥
नायकः 'अत्यन्तासक्तायां तस्यां न तवासक्तिः, एतस्यां सात्यन्तं किमिदम्' इति
वादिनं सखायं वक्ति--</p>
<lg>
  <l>मुक्ताम्बरैव धावतु निपततु सहसा त्रिमार्गगा वास्तु ।</l>
  <l>इयमेव नर्मदा मम वंशप्रभवानुरूपरसा ॥ ४५५ ॥</l>
</lg>
<p>मुक्तेति । हे सखे, सा मुक्तमम्बरं वासो यया । पक्षेऽम्बरमाकाशम् । धावतु । पततु ।
चरण इति भावः । पक्षे भूमाविति भावः । त्रिमार्गगा वास्तु । यत्किंचित्तस्या भवत्विति
भावः । पक्षे स्वर्गमृत्युपातालगा। मम समीचीनवंशजन्या चासावनुकूलरतिमती । पक्षे वंशो
वेणुः । नर्मंदायास्तत उत्पत्तेः । रसो जलम् । इयमेव नर्मदा सुखदात्री । पक्षे नदी-
नाम । एवं चेयमेव मह्यं रोचते, न सेति ध्वन्यते । यद्वा यद्यप्यासक्तिं प्रदर्शयति त-
थाप्यनेकमार्गगामिन्यतोऽस्तु । तिष्ठत्वित्यर्थः । सद्वंशप्रभवत्वेनेयमनेकमार्गगामित्वाभा-
वान्मम सुखदा । एवं च तस्या अनेकगामितया प्रेमप्रदर्शनं कृत्रिममिति भावः ॥
दूती नायिकां वक्ति--</p>
<lg>
  <l>मृगमदलेपनमेनं नीलनिचोलैव निशि निषेव त्वम् ।</l>
  <l>कालिन्द्यामिन्दीवरमिन्दिन्दिरसुन्दरीव सखि ॥ ४५६ ॥</l>
</lg>
<p>मृगेति । हे सखि, कस्तूरीलेपवन्तमेनं नायकं नीलवस्त्रैव रात्रौ सेवय । एवं च कृ-
ष्णाभिसारिकात्वमेव तवोचितमिति भावः । कालिन्द्यां नीलकमलं भ्रमरसुन्दरीव । एवं
च त्रयाणामप्येकरूपत्वान्न केनापि किमपि ज्ञातुं शक्यमिति ध्वन्यते ॥
सखी कंचन नायकं स्वनायिकाचातुरीं वक्ति--</p>
<lg>
  <l>मम सख्या नयनपथे मिलितः शक्तो न कश्चिदपि चलितुम् ।</l>
  <l>पतितोऽसि पथिक विषमे घट्टकुटीयं कुसुमकेतोः ॥ ४५७ ॥</l>
</lg>
<p>ममेति । हे पथिक । एवं चान्यमार्गानभिज्ञत्वेन चिरविरहशालितया च तूष्णीमत्रा-
वस्थितिरुचितेति ध्वन्यते । मम सख्याः कटाक्षविषयीभूतः कश्चिदपि । एवं च तव का
वार्तेति भावः । गन्तुं न शक्तः । एवं चैतत्सौन्दर्याद्यालोकनेन के नासक्ता जाता इति
भावः । अतस्त्वं विषमे पतितोऽसि । यतः 'कस्य ब्रह्मणोऽपि दुर्गमे पथि' इति पदच्छेदेन
योज्यम्। इयं विषमशरस्य मदनराजस्य घट्टकुटी । एवं च त्वयात्रावस्थेयमित्यावेद्यते ॥
सखी नायकं वक्ति--</p>
<lg>
  <l>महता प्रियेण निर्मितमप्रियमपि सुभग सह्यतां याति ।</l>
  <l>सुतसंभवेन यौवनविनाशनं न खलु खेदाय ॥ ४५८ ॥</l>
</lg>
<pb n="165" />
<p>महतेति । अत्यन्तप्रेमवता कृतमप्रियमपि सुभग सह्यतां याति । न दुःखदमित्यर्थः ।
अपिना सह्यत्वमावेद्यते । अर्थान्तरन्यासमाह--पुत्रोत्पत्त्या तारुण्यनाशनं दुःखाय नेति
निश्चितम् । एवं च नान्यथा शङ्कनीयमिति भावः । एवं च प्रियानिर्मिताप्रियेण खेदकर-
णमनुचितमिति ध्वन्यते । यद्वा स्वापराधजन्यातिभीत्या नायिकादर्शनोदासीनं नायकं
नायिकासखी वक्ति--सुभग । एवं च तवापराधेऽपि सा त्वामपेक्षते, अतस्त्वमत्यन्तं ध-
न्योऽसीति द्योत्यते । एवं चात्यन्तप्रेमवती सा त्वयि, अतस्त्वत्कृतापराधान्न गणयति,
अतस्त्वं भीतिमुत्सृज्य तस्याः सविधे प्रयाहीति ध्वन्यते ॥
नायको नायिकासखीं वक्ति--</p>
<lg>
  <l>मानग्रहगुरुकोपादनु दयितात्येव रोचते मह्यम् ।</l>
  <l>काञ्चनमयी विभूषा दाहाञ्चितशुद्धभावेव ॥ ४५९ ॥</l>
</lg>
<p>मानेति । मानाङ्गीकारेण महान्यः क्रोधस्तदनन्तरं दयिता मह्यमत्येव रोचते । दाहेन
प्रकटितशुद्धरूपा सुवर्णविकारविशिष्टभूषेव । एवं च यथा दाहादिना सुवर्णभूषणस्य नै-
र्मल्यं तथा मानापगमोत्तरं नायिकाया नैर्मल्यम् । अतो न त्वत्कृतमानातिशयेन मम
दुःखम् । अपि तु सुखमेवेति ध्वन्यते । तेन च मानस्यास्थिरत्वम् ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता मकारव्रज्या ।
----------------------------------
यकारव्रज्या ।
दूती नायके नायिकासक्त्यतिशयं वक्ति--</p>
<lg>
  <l>यूनः कण्टकविटपानिवाञ्चलग्राहिणस्त्यजन्ती सा ।</l>
  <l>वन इव पुरेऽपि विचरति पुरुषं त्वामेव जानन्ती ॥ ४६० ॥</l>
</lg>
<p>यून इति । सा नायिका कण्टकवृक्षानिव चेलाञ्चलग्राहकांस्तरुणांस्त्यजन्ती त्वामेव
पुरुषं जानाना वन इव नगरेऽपि विचरति । यून इत्यनेन स्पृहणीयत्वम्, कण्टकविटपानि-
वेत्यनेन स्वाभाविकबलात्कारित्वेऽपि तदगणनेनातिसतीत्वमावेद्यते । वन इवेत्यनेन यूनां
बाहुल्यम्, सभीतिसंचरणशालित्वं च नायिकायामावेद्यते । पुर इत्यनेनावश्यसंचरणानर्हत्वं
द्योयते । अपिनान्यसंग्रहः । पुरुषमित्यनेन मन्मथकलाकलापकुशलत्वम्, अथवान्ये स्त्री-
तुल्या इत्यत्यन्तानादरोऽन्ययुवस्विति व्यज्यते । एवं च सर्वत्र सर्वेऽपि तस्यामत्यन्तासक्ताः,
सा तु त्वय्येवेति ध्वन्यते ॥
कश्चिद्गुणी दरिद्रः कस्मिंश्चित्समुदाये गतस्तत्र वसतिमलभमानस्तान् वक्ति--</p>
<lg>
  <l>युष्मासूपगताः स्मो विबुधा वाङ्मात्रपाटवेन वयम् ।</l>
  <l>अन्तर्भवति भवत्स्वपि नाभक्तस्तन्न विज्ञातम् ॥ ४६१ ॥</l>
</lg>
<p>युष्मास्विति । भोः पण्डिताः, वाङ्मात्रपाटवेन पाण्डित्यमात्रबलेन वयं भवत्सविधे
समागताः स्मः । 'विद्वानेव विजानाति विद्वज्जनपरिश्रमम्' इति धियेति भावः । भव-
न्मध्येऽभक्तोऽन्नरहितः । दरिद्र इति यावत् । नान्तर्भवतीति विज्ञातमपि न । अपिनानु-</p>
<pb n="166" />
<p>भूतमिति किं वक्तव्यमिति व्यज्यते । अत्रोपसर्गस्य न तथा प्रयोजनम् । यद्वा यथास्थित
एवापिः । एवं चान्तर्भवनयोग्यत्वमावेद्यते । एवं च न पाण्डित्यग्राहिणो भवन्तः, किंतु द्र-
व्यलुब्धा इति द्योत्यते । एवं च द्रव्येणैव सर्वत्र प्रतिष्ठा, न पाण्डित्यमात्रेणेति । यद्वा
भक्तिरहित इत्यर्थः । एवं च यो भवदीयसेवां करोति स एव भवत्सु समावेशमाप्नोति, न
`तु पाण्डित्यमात्रशालीति भावः ॥
नायको वक्ति--</p>
<lg>
  <l>यत्र न दूती यत्र स्निग्धा न दृशोऽपि निपुणया निहिताः ।</l>
  <l>न गिरोऽद्यापि व्यक्तीकृतः स भावोऽनुरागेण ॥ ४६२ ॥</l>
</lg>
<p>यत्रेति । यत्र न दूती प्रेषितेति भावः । प्रेमार्द्राः कटाक्षा अपि न कृताः । गिरो-
ऽपि न । स भावोऽभिप्रायो निपुणया । सकलजनवञ्चकत्वादिति भावः । अनुरागेण
व्यक्तीकृतः । एवं चातिनिगूढनिजकार्यसाधकतयानया सदृशी न काप्यन्येति ध्वन्यते ।
यत्र भावे दूती न प्रकटनसमर्थेति भावः । यत्र निहिताः प्रेरिताः प्रेमार्द्रा दृशोऽपि न ।
स्निग्धा वाचोऽपि न प्राकट्यसंपादिका इति भावः । स भावो रसानुकूलविकारो निपु-
णया । समयज्ञत्वादिति भावः । प्रीत्या प्रकटीकृतः । एवं च योऽनुभावो मत्प्रेषितदूती-
प्रेषणादिव्यापारैर्न प्रकटीकृतः, स भावोऽद्य स्वयं समयविशेषमासाद्य व्यक्तीकृत इति
लोकोत्तरचातुर्यशालित्वमावेद्यत इति वार्थः । 'स भावोऽनुगमनेन' इति पाठे तन्मरणो-
त्तरं तत्प्राणपरित्यागेनेयमस्मिन्नासक्तेति ज्ञातमित्यर्थः । क्वचित् 'स जारोऽनुमरणेन'
इति पाठः ॥
सपत्न्यधीनत्वादिकमसम्यगिति काचित्कांचिद्वक्ति--</p>
<lg>
  <l>या नीयते सपत्न्या प्रविश्य यावर्जिता भुजंगेन ।</l>
  <l>यमुनाया इव तस्याः सखि मलिनं जीवनं मन्ये ॥ ४६३ ॥</l>
</lg>
<p>या नीयत इति । सपत्न्या पतिप्रियान्तरया । पक्षे गङ्गया । नीयते । पतिसविध
इति भावः । पक्षे समुद्रसविधे । भुजंगेन । पक्षे सर्पेण । प्रविश्य यावर्जिता स्वाधीनी-
कृता । यमुनाया इव तस्या जीवनं जीवितम् । पक्षे जलम् । सखि, मलिनं निन्द्यम् ।
पक्षे श्यामम् । मन्ये । एवं चैतादृशतया स्थेयं नायिकया येनोपायेन गृहे सर्वाधिकतया-
वस्थानं भवतीति ध्वन्यते । यमुनाजलं श्याममिति कविसंप्रदायः ॥
दूती नायिकां केनचिन्नायकेन सह संगमयितुं वक्ति--</p>
<lg>
  <l>यस्मिन्नयशोऽपि यशो ह्रीर्विघ्नो मान एव दौःशील्यम् ।</l>
  <l>लघुता गुणज्ञता किं नवो युवा सखि न ते दुष्टः ॥ ४६४ ॥</l>
</lg>
<p>यस्मिन्निति । यस्मिन्यद्विषये तेऽकीर्तिरपि कीर्तिः । लज्जा विघ्नः । मानकरणमेव
दुःशीलता । एवकारेण तत्कार्यविरुद्धवचनादेः का वार्तेति भावः । लाघवं गुणप्रवणता ।
एतादृशो नूतनः । एवं चावश्यकग्राह्यदर्शनयोग्यत्वं व्यज्यते । तरुणः । एवं च स्पृहणी-</p>
<pb n="167" />
<p>यत्वमावेद्यते । हे सखि । एवं च हितकथनार्हत्वं द्योत्यते । किं न दृष्टः । त्वयेति शेषः ।
एवं चैतादृशो गुणरूपयौवनादिसंपन्नो नान्योऽस्ति नायकः । अत एतद्दर्शनाय त्वरस्वेति
ध्वन्यते । अथवा त्वत्संबन्धी युवास्माभिः किं न दृष्टः । अपि तु दृष्टः । एवं च सम्य-
क्त्वया संपादितं यदेतादृश आसक्तिः संपादितेति ध्वन्यते । इति सखीवाक्यम् ॥
खलानां माहात्म्यदर्शनेनापि न विश्वासो विधेय इति कश्चिद्वक्ति--</p>
<lg>
  <l>यद्वीक्ष्यते खलानां माहात्म्यं क्वापि दैवयोगेन ।</l>
  <l>काकानामिव शौक्ल्यं तदपि हि न चिरादनर्थाय ॥ ४६५ ॥</l>
</lg>
<p>यदिति । अदृष्टवशात्क्वचिद्दुष्टानां यन्महत्त्वं दृश्यते तदपि काकानां शौक्ल्यमिव न
चिराच्छीघ्रमनर्थाय। एवं च दुष्टस्वभावानामदुष्टस्वभावप्रदर्शनमकार्योद्देशेनैवेति व्यज्यते ॥
खला एव प्रेमविघटितार इति काचित्कांचिद्वक्ति--</p>
<lg>
  <l>यत्खलु खलमुखहुतवहविनिहितमपि शुद्धिमेव परमेति ।</l>
  <l>तदनलशौचमिवांशुकमिह लोके दुर्लभं प्रेम ॥ ४६६ ॥</l>
</lg>
<p>यदिति । यत्खलवदनरूपो यो वह्निस्तत्र क्षिप्तमपि शुद्धिमेव । एवकारेण विनाश-
व्यवच्छेदः । एति प्राप्नोति । तत्परमुत्कृष्टं प्रेम । अनले शौचं शुद्धिर्यस्यैतादृशवसनमिव
खलु निश्चितमिह लोके दुर्लभम् । एवं च को वेद स्वर्गादौ भविष्यति न वेति ध्वन्यते।
एवं च यथा वसनस्यानलप्रक्षेपणे विनाश एव, तथा खलविज्ञातप्रेम्णोऽवश्यं विनाश
एवेति ध्वन्यते । तेन च यथा खलैर्न विज्ञेयमेतत्प्रेम तथा कुर्विति । अथवा यत्खलै-
रपि विघटयितुमशक्यं तदेव प्रेम सम्यगिति काचिद्वक्ति । वह्नेरनलशौचं वस्त्रद्वय-
मस्तीति पुराणप्रसिद्धिः । अथवा यत्खलैरपि सम्यगिदमुभयोः प्रेमेत्युच्यते तदेव नि-
श्चयेन परमुत्कृष्टम् । अत एव दुर्लभम् । एवं च तथाविधेनैव सह प्रीतिर्विधेया या
खलैरपि स्तूयते, न तु साधारणेन सहेति ध्वन्यते । इति काचित्कांचित्प्रति वक्तीत्यर्थः ।
अत्र खल्विति दुर्लभमित्यस्य संनिधावुचितम् । 'शुद्धमेव' इति पाठ एति निर्गच्छती-
त्यर्थः ॥
नायकः सखायं वक्ति--</p>
<lg>
  <l>यन्नावधिमर्थयते पाथेयार्थं ददाति सर्वस्वम् ।</l>
  <l>तेनानयातिदारुणशङ्कामारोपितं चेतः ॥ ४६७ ॥</l>
</lg>
<p>यदिति । येनेयमवधिं कदा समागन्तव्यमिति नार्थयते । न वदतीत्यर्थः । मार्गव्ययार्थं
सर्वस्वं यच्छति । तेनानया महत्तराशङ्कां चित्तं प्रापितम् । एवं चावधेरप्रार्थनेन व्ययाय
सर्वस्वदानेन चेयं मद्गमनोत्तरमवश्यं प्राणांस्त्यक्ष्यतीति भावः । एवं च न मया प्रस्थी-
यत इति ध्वन्यते । यद्वा कश्चित्कंचिद्वक्ति--अवधिप्रार्थनाभावेन पाथेयार्थं सर्वस्वदा-
नेन चानया चेतो नायकस्य दारुणशङ्कामन्यथासंभावनां प्रापितमिति भावः ॥</p>
<pb n="168" />
<p>नायको नायिकां वक्ति--</p>
<lg>
  <l>यूनामीर्ष्यावैरं वितन्वता तरुणि चक्ररुचिरेण ।</l>
  <l>तव जघनेनाकुलिता निखिला पल्ली खलेनेव ॥ ४६८ ॥</l>
</lg>
<p>यूनामिति । हे तरुणि, तरुणानामीर्ष्यावैरम् । एकामिषत्वादित्युभयत्र भावः । वि-
स्तारयता । चक्रवत्सुन्दरेण । वर्तुलवादिति भावः । खलेनेव धान्यमर्दनस्थानेनेव तव
जघनेन समग्रा पल्ली व्याकुलीकृता । एवं च सर्वेऽपि त्वय्यासक्ताः संजाता इति भावः ।
खलेनेव दुष्टेनेवेति व्याख्याकरणे चक्रं समुदायस्तेन रुचिर इत्यर्थः ॥
कयोश्चिदत्यन्तमैत्रीं दृष्ट्वा कश्चिद्वक्ति--</p>
<lg>
  <l>यावज्जीवनभावी तुल्याशययोर्नितान्तनिर्भेदः ।</l>
  <l>नदयोरिवैष युवयोः सङ्गो रसमधिकमावहतु ॥ ४६९ ॥</l>
</lg>
<p>यावदिति । यावदायुःस्थितिशाली । पक्षे यावदुदकस्थितिर्भावी । अत्यन्तनिर्गत-
भेदः । तुल्यान्तःकरणयोः । पक्षे समानगम्भीरताशालिनोः । तरुणयोर्नदयोरिव सङ्गः
संगतिः । मैत्रीति यावत् । पक्षे संबन्धः । अधिकं रसं प्रीतिम् । पक्षे जलम् । आव-
हतु । एवं चैतादृश्येवेयमेतयोर्मैत्री उत्तरोत्तरवृद्धिशालिन्यस्त्विति ध्वन्यते ॥
नायकः सखायं वक्ति--</p>
<lg>
  <l>यन्निहितां शेखरयसि मालां सा यातु शठ भवन्तमिति ।</l>
  <l>प्रहरन्तीं शिरसि पदा स्मरामि तां गर्वगुरुकोपाम् ॥ ४७० ॥</l>
</lg>
<p>यदिति । यया निहितां दत्तां मालां शेखरयसि शिरोभूषणत्वेन कुरुषे सा हे शठ,
भवन्तं यात्विति । उक्त्वेति शेषः । मस्तके चरणेन प्रहरन्तीम् । अभिमानबहुतरं को-
पवतीम् । स्मरामि । एवं च तत्कालकृतताडनेन कोपपरिमार्जनेन सुरतानन्ददायितया
न तत्तुल्यान्येति तस्यामेव ममासक्तिरिति ध्वन्यते ॥
कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>यौवनगुप्तिं पत्यौ बन्धुषु मुग्धत्वमार्जवं गुरुषु ।</l>
  <l>कुर्वाणा हलिकवधूः प्रशस्यते व्याजतो युवभिः ॥ १७१ ॥</l>
</lg>
<p>यौवनेति । पत्यौ नायके तारुण्यगोपनं कुर्वाणा । इदमग्रेऽप्यन्वेति । रक्षणकर्तृतया
यौवनज्ञानोत्तरं न बहिर्गन्तुं दास्यतीति धियेति भावः । बन्धुषु मुग्धत्वमज्ञत्वम् । मुग्धत्व-
ज्ञानेनैतैर्यथेच्छविहारः कर्तुं देयः । अथवा पतिसविधे न प्रेषणीयेयमिति धियेति भावः ।
श्वश्र्वादिष्वार्जवमृजुत्वम् । सरलत्वे ज्ञाते नैतैः कौटिल्यं ज्ञेयमिति धियेति भावः । हलि-
कस्त्री । एवं चाज्ञस्त्रीत्वेन मौर्ख्यवत्त्वौचित्येऽपि चातुर्यशालितया स्तुतिकरणयोग्यत्वमि-
त्यावेद्यते । तरुणैर्मिषात् । लोकगोपनार्थमिति भावः । प्रशस्यते स्तूयते ॥</p>
<pb n="169" />
<p>काचित्कांचिद्वक्ति--</p>
<lg>
  <l>यो न गुरुभिर्न मित्रैर्न विवेकेनापि नैव रिपुहसितैः ।</l>
  <l>नियमितपूर्व: सुन्दरि स विनीतत्वं त्वया नीतः ॥ ४७२ ॥</l>
</lg>
<p>य इति । यो गुरुभिर्मित्रैर्विवेकेन शत्रुहसितैः पूर्वं न नियन्त्रितः सः हे सुन्दरि, त्वया
विनीतत्वं प्रापितः । एवं च गुरुवचनस्यानुल्लङ्घनीयत्वेऽपि मित्रोपदेशस्यातिप्रियत्वेऽपि
विवेकस्य दुर्व्यसनादिपरित्यागसंपादनस्वाभाव्येऽपि वैरिहसितानामतिदुःखदत्वेऽपि तद-
गणनेनातिदुष्टस्यातिविनीतत्वसंपादनेन गुणगणशालित्वं नायिकायामावेद्यते ॥
कस्यचिदाश्रयेण संपत्तिशालिनं कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>यन्मूलमार्द्रमुदकैः कुसुमं प्रतिपर्व फलभरः परितः ।</l>
  <l>द्रुम तन्माद्यसि वीचीपरिचयपरिणाममविचिन्त्य ॥ ४७३ ॥</l>
</lg>
<p>यन्मूलमिति। यद्यस्माज्जलैर्मूलमार्द्रम् । प्रतिकाण्डं कुसुमानि । समन्तात् फलातिशयः ।
तत्तस्मात् हे वृक्ष, उन्मादं प्राप्नोषि । तरङ्गसंपर्कपरिपाकमविचार्य । एवं च यद्यपीदानीं
संपत्तिसंभारादुन्मत्तस्त्वमसि, तथाप्यग्रे कतिपयैर्दिवसैनिर्मूल एव भविष्यसीति द्योत्यते ।
यद्वा कासांचित्संगत्यावाप्तवसुतोन्मादशालिनं कश्चिद्वक्ति । एवं चैतासां संगत्या तवानि-
ष्टमवश्यंभावीति ध्वन्यते ॥
काचित्कंचित्प्रत्याह--</p>
<lg>
  <l>यस्याङ्के स्मरसंगरविश्रान्तिप्राञ्जला सखी स्वपिति ।</l>
  <l>स वहतु गुणाभिमानं मदनधनुर्वल्लिचोल इव ॥ ४७४ ॥</l>
</lg>
<p>यस्याङ्क इति । मदनयुद्धविरामे प्रसन्ना । पक्षे सरला । नायिका यस्य नायकस्याङ्के
निद्राति स गुणानां कामकलाभिज्ञतादीनाम् । पक्षे तन्तूनाम् । अभितः परिमाणं मद-
नधनुर्लताच्छादनपट इवाङ्गीकरोतु । एवं च यः सुरतेनानन्दसंवर्धको नायिकायाः स एव
धन्यो गुणवान्नान्य इति ध्वन्यते । तेन चैतादृशगुणे यतस्वेति ॥
कश्चित्कामकलाभिज्ञताभिमानी कांचिद्वक्ति--</p>
<lg>
  <l>यदि दानगन्धमात्राद्वसन्ति सप्तच्छदेऽपि दन्तिन्यः ।</l>
  <l>किमिति मदपङ्कमलिनां करी कपोलस्थलीं वहति ॥ ४७५ ॥</l>
</lg>
<p>यदीति । यदि मदोदकपरिमलसजातीयपरिमलमात्रात् । मात्रपदादितरगुणव्यवच्छेदः ।
सप्तच्छदेऽपि । अपिना साधारणत्वमावेद्यते । करिण्यो वसन्ति तदा गजो मदपङ्केन म-
लिनाम् । मालिन्यस्योपमासाधकस्य सत्त्वान्नात्र रूपकम् । कपोलस्थलीं किमिति वहति ।
एवं च पुरुषार्थोऽवश्यमपेक्षित इति ध्वन्यते ॥
कस्याश्चिद्वृत्तं कश्चिद्वक्ति--</p>
<lg>
  <l>यदवधि विवृद्धमात्रा विकसितकुसुमोत्करा शणश्रेणी ।</l>
  <l>पीतांशुकप्रियेयं तदवधि पल्लीपतेः पुत्री ॥ ४७६ ॥</l>
</lg>
<pb n="170" />
<p>यदवधीति । यत्प्रभृति शणपङ्क्तिविकसितकुसुमसमूहा संजातमात्रा तत्प्रभृति पल्लीप-
तेस्तनया पीतं यद्वस्त्रं तत्प्रियं यस्या एतादृशी संजाता । एवं च शणश्रेणिपीतकुसुमसमूहे
पीतवसनतयान्यैरज्ञेयतया यथेच्छं विहर्तुकामेयं संवृत्तेति ध्वन्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>यमुनातरङ्गतरलं न कुवलयं कुसुमलावि तव सुलभम् ।</l>
  <l>यदि सौरभानुसारी झंकारी भ्रमति न भ्रमरः ॥ ४७७ ॥</l>
</lg>
<p>यमुनेति । हे कुसुमावचयकारिणि, यमुनायास्तरङ्गैश्चञ्चलं कुवलयं तव न सुलभम् ।
यदि सौगन्ध्यानुसारी झंकारकारी भ्रमरो न भ्रमति । एवं च चपलतरत्वदीयनयनप्रति-
बिम्बबाहुल्याद्विशिष्य कुवलयज्ञानाभावे न तद्ब्रहणं तव वृत्तमिति भावः । एवं च नायि-
कायां सौन्दयतिशयो द्योत्यते ॥
एषामत्यन्तलालनं स्वयं क्रियते, परं तु ये न स्वसुखदुःखज्ञातारस्तेऽत्यन्तं जडा इति
कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>ये शिरसि विनिहिता अपि भवन्ति न सखे समानसुखदुःखाः ।</l>
  <l>चिकुरा इव ते बाला एव जडाः पाण्डुभावेऽपि ॥ ४७८ ॥</l>
</lg>
<p>ये शिरसीति । हे सखे, मस्तके निहिता अपि ये समानसुखदुःखा न भवन्ति, ते पु-
रुषाः केशा इव जडाः पाण्डुरभावेऽपि वार्द्धकेऽपि बालका एव । एवं च येऽत्यन्तं ला-
लितास्ते यदि न स्वसुखदुःखाभिज्ञास्तदा तेऽत्यन्तं मूढा एव । अतो न तदसत्कर्तव्यतया
दुःखं मन्तव्यमिति व्यज्यते ॥
एतत्कार्यायोग्यस्याप्यस्य प्रभुणैतत्कार्यं दत्तमिति कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>यन्नियतनिर्गुणं यन्न वंशजं यच्च नित्यनिर्वाणम् ।</l>
  <l>किं कुर्मस्तन्निहितं धनुःपदे देवराजेन ॥ ४७९ ॥</l>
</lg>
<p>यन्नियतेति । यन्नियतं गुणेन मौर्व्या । पक्षे चातुर्यादिना । शून्यम् । यन्न वंशजम् ।
वंशो वेणुः । पक्षेऽन्वयः । यच्चेत्यपरं नित्यविनाशि । पक्षे नित्यं निर्वाणं विनाशो यस्मात् ।
तद्देवराजेनेन्द्रेण । देवराजपदेनानिवारणीयत्वमावेद्यते । कोदण्डस्थाने स्थापितम् । तत्र
वयं किं कुर्मः । एवं चैतादृशस्याधिकारदानानौचित्येऽपि प्रभुणा स्वमत्या कृतत्वान्ना-
स्माकमपराध इति ध्वन्यते ॥
एकस्यामासक्तमन्यस्यामनासक्तं नायकं काचिद्वक्ति--</p>
<lg>
  <l>या दक्षिणा त्वमस्यामदक्षिणो दक्षिणस्त्वमितरस्याम् ।</l>
  <l>जलधिरिव मध्यसंस्थो न वेलयोः सदृशमाचरसि ॥ ४८० ॥</l>
</lg>
<p>या दक्षिणेति । या दक्षिणानुकूला । त्वयीति भावः । अस्यां त्वमदक्षिणोऽननुकूलः ।
पक्षे दक्षिणदिक्संस्थायां दक्षिणदिक्संस्थो नेत्यर्थः । तदितरस्यां दक्षिणोऽनुकूलः । पक्ष</p>
<pb n="171" />
<p>उत्तरदिक्संस्थायामित्यर्थः । किमेतावतेत्यत आह--मध्यसंस्थः सन्नुभयत्र समानपक्ष-
पाती । पक्षे मध्यदेशस्थः । वेलयोर्जलधिरिव सदृशं नाचरसि । डलयोरैक्याज्जडधिरि-
वेत्यनेन तादृशविषमाचरणमज्ञस्योचितं न तव विज्ञस्येति ध्वन्यते । 'योऽविकल्पमिद-
मर्थमण्डलं पश्यतीश निखिलं भवद्वपुः । आत्मपक्षपरिपूरिते जगत्यस्य नित्यसुखिनः
कुतो भयम् ॥' इत्यत्रेवात्रेदम्शब्दस्य तच्छब्दार्थकता ॥
नायं नायकस्त्वामुपभोगं विना त्यक्ष्यतीति काचित्कांचिद्वक्ति--</p>
<lg>
  <l>युगपज्जघनोरःस्तनपिधानमधुरे त्रपास्मितार्द्रमुखि ।</l>
  <l>लोलाक्षि नैष पवनो विरमति तव वसनपरिवर्ती ॥ ४८१ ॥</l>
</lg>
<p>युगपदिति । एककालं जघनोरः स्तनस्य यदाच्छादनं तेन मधुरे सुन्दरे । लज्जास्मि-
ताभ्यां स्निग्धवदने । आर्द्रपदेन स्मिते सुधारूपत्वमावेद्यते । लोलाक्षि, तव वस्त्रपरि-
वर्तनकारी एष पवनो न विरमति । एवं च जघनाद्याच्छादनाद्यनर्थकम् । अतस्तत्त्यक्त्वा
यथेच्छमनेन सह रमस्वेति ध्वन्यते । 'विधुरे' इति पाठे रहिते इत्यर्थः । यथाश्रुतमेवेद-
मिति ऋजवः ॥
अपकारकाणामपि सति समये शरणमयमेवेति कश्चित्कंचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>यद्यपि बद्धः शैलैर्यद्यपि गिरिमथनमुषितसर्वस्वः ।</l>
  <l>तदपि परभीतभूधररक्षायां दीक्षितो जलधिः ॥ ४८२ ॥</l>
</lg>
<p>यद्यपीति । यद्यपि पर्वतैर्बद्धः । यद्यपि पर्वतकरणकमन्थनेनापहृतसर्वस्वः । तथापि
पर इन्द्रस्ततो भीता ये पर्वतास्तद्रक्षणे जलधिर्दीक्षितः । कृतनियम इत्यर्थः । जलधि-
रित्यनेन निकटवर्तिसमीचीनाभावेऽपि स्वत एवैतादृशाचरणकारितयातिमहत्तरत्वमावे-
द्यते । अत्रानवीकरणमनुचितमित्याभाति ॥
यत्र यादृशेन तेन त्वं दृष्टासि तत्र तादृशेनैव तेनाद्यापि स्थीयत इति दूती नायिकां
वक्ति--</p>
<lg>
  <l>यस्यां दिशि यस्य तरोर्यामेत्य शिखां यथोन्नतग्रीवम् ।</l>
  <l>दृष्टा सुधांशुलेखा निशां चकोरस्तथा नयति ॥ ४८३ ॥</l>
</lg>
<p>यस्यामिति । यस्यां दिशि यस्य वृक्षस्य यां शिखामागत्योन्नतग्रीवं यथा चन्द्रलेखा
दृष्टा तथा तेनैव प्रकारेण चकोरो निशामतिवाहयति । सुधांशुलेखेत्यनेनाह्लादकत्वमावे-
द्यते । चकोर इत्यनेन तदेकाधीनजीवनवत्त्वं द्योत्यते । एवं चैतादृशस्यास्योपेक्षाकरण-
मनुचितं तवेति ध्वन्यते ॥
सरलतया न स्थेयमिति कश्चित्कंचिद्वक्ति--
यत्रार्जवेन लघुता गरिमाणं यत्र वक्रता तनुते ॥
छन्दःशास्त्र इवास्मिंल्लोके सरलः सखे किमसि ॥ ४८४ ॥</p>
<pb n="172" />
<p>यत्रेति । यत्र यस्मिन्नार्जवेन सरलतया लघिमा लाघवं तन्यते । यत्र वक्रता गुरुत्वं
तनुते । छन्दःशास्त्र इवास्मिल्लोके हे सखे, सरलः किमसि । छन्दःशास्त्रे लघुर्लेखाकारो
गुरुर्वक्राकारो लिख्यत इति संप्रदायः ॥
कश्चित्कस्यचिदधिकारपदं निन्दति--</p>
<lg>
  <l>यन्नोपकारकं यन्न भूषणं यत्प्रकोपमातनुते ।</l>
  <l>गुरुणापि तेन कार्यं पदेन किं श्लीपदेनेव ॥ ४८५ ॥</l>
</lg>
<p>यन्नेति । यदुपकारकारकं न । यद्भूषणं न । यत्प्रकृष्टकोपं विस्तारयति । गुरुणापि
पदेनाधिकारेण श्लीपदेनेव रोगविशेषवच्चरणेनेव किं कार्यम् । न किंचित्फलमिति
भावः । एवं च तदेवाधिकारपदं यदुपकारादिसंपादकमिति भावः ॥
कश्चित्कंचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>यूथपते तव कश्चिन्न हि मानस्यानुरूप इह विटपी ।</l>
  <l>प्रेरय दिनं निदाघद्राघीयः क खलु ते छाया ॥ ४८६ ॥</l>
</lg>
<p>यूथेति । हे यूथपते । एवं चान्येषां पालकस्त्वमसीति द्योत्यते । तव हि निश्चितं
मानस्य परिमाणविशेषस्य । पक्षे प्रतिष्ठायाः । अनुरूपो योग्यः । कचिद्विटपी वृक्षो न ।
निदाघेनातिदीर्घ दिनं गमय । निश्चयेन तव छाया क्व । एवं च कुटुम्बपोषकस्य
भवतो न क्वचिदाश्रयः । समयोऽयं कठिनतरः । सोऽयं यथातथातिवाहनीय इति
द्योत्यते ॥
दैवात्संपद्विहीनोऽप्ययमन्येषामुपकारक इति कश्चित्कंचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>यद्यपि चन्दनविटपी फलपुष्पविवर्जितः कृतो विधिना ।</l>
  <l>निजवपुषैव तथापि हि स हरति संतापमपरेषाम् ॥ ४८७ ॥</l>
</lg>
<p>यद्यपीति । यद्यपि चन्दनशाखी दैवेन ब्रह्मणा वा फलपुष्परहितः कृतस्तथापि स्व-
शरीरमात्रेणान्येषां संतापं दूरं करोति । एवं चैतादृशो न कश्चिदन्य इति ध्वन्यते ।
अत्र पूर्वत्र च यद्यपिरपीति पदातिरिक्तपददानमुचितमित्याभाति ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता यकारव्रज्या ।
-----------------------------------
रक्रारव्रज्या ।
नायकगुणोत्कर्षेण नायिकाया अत्यन्तमुत्कर्ष इति काचित्कांचिद्वक्ति--</p>
<lg>
  <l>राज्याभिषेकसलिलक्षालितमौलेः कथासु कृष्णस्य ।</l>
  <l>गर्वभरमन्थराक्षी पश्यति पदपङ्कजं राधा ॥ ४८८ ॥</l>
</lg>
<p>राज्येति। राज्याभिषेकजलक्षालितमस्तकस्य कृष्णस्य वार्तासु सकलोत्कृष्टगुणवानि-
त्यादिकासु । सतीष्विति शेषः । गर्वाधिकतानिश्चलनेत्रा राधा चरणकमलम् । स्वीयमिति
भावः । पश्यति । एतादृशोऽप्ययं सर्वदा मत्प्रणतिप्रवण एवास्त इति धियेति भावः ॥</p>
<pb n="173" />
<p>नायिकां विनावस्थितिर्न सुखदेति कश्चिद्वक्ति--</p>
<lg>
  <l>रतिकलहकुपितकान्ताकरचिकुराकर्षमुदितगृहनाथम् ।</l>
  <l>भवति भवनं तदन्यत्प्राग्वंशः पर्णशाला वा ॥ ४८९ ॥</l>
</lg>
<p>रतीति । रतिकलहे कुपिता कान्ता तया कराभ्यां यत्केशाकर्षणं तेन संतुष्टो गृहनाथो
यत्र । यद्वा कान्ताहस्तात्केशाकर्षणं यत्र । तद्वनादिकमपि भवनम् । तद्भिन्नम् । महत्त-
रप्रासादादिकमित्यर्थः । प्राग्वंशः पत्नीशाला । 'प्राग्वंशः प्राग्घविर्गेहात्' इत्यमरः ।
पर्णशाला वा । 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः ॥
नायिका वैद्यं वक्ति--</p>
<lg>
  <l>रोगी राजायत इति जनवादं सत्यमद्य कलयामि ।</l>
  <l>आरोग्यपूर्वकं त्वयि तल्पप्रान्तागते सुभग ॥ ४९० ॥</l>
</lg>
<p>रोगीति । हे सुभग, त्वयि शयनीयसविधागमनवति सति रोगवान् राजवदाचरतीति
राजायत इति लोकप्रवादमारोग्यपूर्वकं सत्यं मिथ्यात्वशून्यमद्य कलयामि । एवं चा•
तिमहत्तरभाग्यशालिन्यहं त्वद्दर्शनेनाद्य संवृत्तेति भावः । एवं च मन्मथदुःखरूपरोगं
दूरीकृत्यानन्दविशेषभागिन्यहं त्वया विधेयेति द्योत्यते ॥
नायिकां प्रति कश्चिद्वक्ति--</p>
<lg>
  <l>रुद्धस्वरसप्रसरस्यालिभिरग्रे नतं प्रियं प्रति मे ।</l>
  <l>स्रोतस इव निम्नं प्रति रागस्य द्विगुण आवेगः ॥ ४९१ ॥</l>
</lg>
<p>रुद्धेति । सखीभिः प्रतिषिद्धः स्वरसस्य स्वाच्छन्द्यस्य प्रसरो यस्य । पक्षे रसो जलम् ।
मम प्रीतेः । अग्रे नतम् । प्रणिपातार्थमिति भावः । प्रियं प्रति निम्नं प्रति नीचदेशं प्रति
स्रोतस इव । 'स्रोतोऽम्बुसरणं स्वतः' इत्यमरः । द्विगुण आवेग आधिक्यम् । पक्षे आ
समन्ताद्वेगः । एवं च निरुद्धस्य जलस्य यथाधिकं प्रवाहः प्रचलति तथा सखीभिर्नि-
षिद्धाया मम प्रियं प्रति प्रेमाधिक्यं जायत इति भावः । एवं च प्रियं प्रति प्रेमनिरोधो
मम दुर्घट इति ध्वन्यते । तेन च सख्युपदेशोल्लङ्घने न ममापराध इति ॥
काचित्कांचिद्वक्ति--</p>
<lg>
  <l>रूपमिदं कान्तिरसावयमुत्कर्षः सुवर्णरचनेयम् ।</l>
  <l>दुर्गतमिलिता ललिते भ्रमसि प्रतिमन्दिरद्वारम् ॥ ४९२ ॥</l>
</lg>
<p>रूपमिति । हे ललिते सुन्दरि, इदं रूपम् । असौ कान्तिः । अयमुत्कर्षः । इयं सुष्ठु
वर्णरचना । एवं सति दरिद्रसहचारिणी । अतः प्रतिगृहद्वारं भ्रमसि । एवं चैतादृशरूप-
शालित्वे दरिद्रसंगतिसंपादनमनुचितम् । उचितं भाग्यवत्संगतिसंपादनमिति ध्वन्यते ।
यद्वा भिक्षुहस्तगतप्रतिमोद्देशव्याजेन काचित्कांचिद्वक्ति ॥</p>
<pb n="174" />
<p>कश्चित्कंचिद्वक्ति–</p>
<lg>
  <l>रचिते निकुञ्जपत्रैर्भिक्षुकपात्रे ददाति सावज्ञम् ।</l>
  <l>पर्युषितमपि सुतीक्ष्णश्वासकदुष्णं वधूरन्नम् ॥ ४९३ ॥</l>
</lg>
<p>रचित इति । निकुञ्जसंबन्धिपत्रैः संपादिते भिक्षुकस्य पात्रेऽवज्ञासहितं यथा स्या-
त्तथा वधूः- पर्युषितमप्यन्नमत्यन्ततीक्ष्णा ये श्वासास्तैरीषदुष्णं ददाति । संकेतनिकेत-
निकुञ्जपत्त्रच्छेदनेन संकेतस्थानविघटकतया द्वेषवत्वादवज्ञा । भिक्षुकत्वादन्नदानम् । स्था-
नविघटनदुःखवशाच्छ्वासेषूष्णता । यद्वा संकेते मया गला परावृत्तमिति ज्ञापनायानी-
तनिकुञ्जपत्त्रपात्रमवलोक्य दुःखवशाच्छ्वासेषूष्णता । लोकगोपनाय चावज्ञाकरणं पर्यु-
षितान्नदानं च ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>रक्षति न खलु निजस्थितिमलघुः स्थापयति नायकः स यथा ।</l>
  <l>तिष्ठति तथैव तद्गुणविद्धेयं हारयष्टिरिव ॥ ४९४ ॥</l>
</lg>
<p>रक्षतीति । हे सखि, योऽलघुः श्रेष्ठः । पक्षे महान् । निजस्थितिं न रक्षति । चा-
ञ्चल्यं न त्यजतीत्यर्थः । स नायकः कान्तः । पक्षे हारमध्यमणिः । यथा स्थापयति तथैव
तस्या गुणैश्चातुर्यादिभिः । पक्षे गुणः सूत्रम् । तैर्विद्धा तत्कृतासक्तिमती । पक्षे यथाश्रु-
तम् । इयं त्वत्प्रतिवेशिनीहारयष्टिरिव तिष्ठति । एवं च स न स्वकीयचाञ्चल्यादिदुःशीलं
परित्यजति । इयं तु तच्चातुर्याद्यासक्ता तन्मनस्कतयैव कालमतिवाहयतीति भावः
एवं चैतादृशावस्थितिस्तव नोचितेति नायिकां प्रत्यावेद्यते । यद्वा यथा हारमध्यमणे-
श्चाञ्चल्येऽपि तद्गुणविद्धेयं हारलता न चाञ्चल्यं विधत्ते तथा त्वया तद्गुणमात्रावलोकना-
दिना तच्चाञ्चल्यमगणयित्वा निश्चलतया स्थेयमिति व्यज्यत इत्यर्थः । यद्वा सखी सखीं
चक्ति – हे सखि, अलघुः श्रेष्ठेयं नायिका निजस्थितिं न रक्षति स्वमर्यादां न विचारयति ।
यथा नायकः स्थापयति तथैव तच्चातुर्यागुणविद्धा हारयष्टिरिव तिष्ठति । एवं च स्वो-
चितव्यवहारमियं परित्यज्य केवलं तदधीना जातेति भावः ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>राजसि कृशाङ्गि मङ्गलकलशी सहकारपल्लवेनेव ।</l>
  <l>तेनैव चुम्बितमुखी प्रथमाविर्भूतरागेण ॥ ४९५ ॥</l>
</lg>
<p>राजसीति । हे कृशाङ्गि, प्रथमं कौमारप्रभृति संजातप्रीतिमता । पक्षे रागो लौहि-
त्यम् । तेनैव । नायकेनेति भावः । चुम्बितवदना रसालपल्लवेन मङ्गलकलशीव राजसि ।
एवं च नान्यत्र मनो बन्धनीयमिति ध्वन्यते । यद्वा तेनैव । निकटस्थितेनैवानेनेति भावः ।
राजसि राजिष्यसि । चिरकालीनैतत्संगतिर्नोचिता । किं तु नवीनानुरागवत्संगतिरत्य-
न्तोचितेति व्यज्यत इति वा दूती नायिकां वक्ति ॥</p>
<pb n="175" />
<p>गुणवत्संगतिकरणमेवोचितमिति सखी नायिकां वक्ति--</p>
<lg>
  <l>रूपगुणहीनहार्या भवति लघुर्धूलिरनिलचपलेव ।</l>
  <l>प्रथयति पृथुगुणनेया तरुणी तरणिरिव गरिमाणम् ॥ ४९६ ॥</l>
</lg>
<p>रूपेति । रूपंच गुणाश्च तैर्हीनेन हार्या तत्संगतिमती । पक्षे रूपरूपो यो गुणस्तदभाव-
वता हर्तुं योग्या । तरुणी । वायुचञ्चला धूलिरिव लघुर्भवति । पृथवो गुणा यस्य तेन
नेया । पक्षे महत्तरगुणैः । नौकेव गौरवं प्रथयति । एवं चाचेतनेऽप्येवं गतिस्तत्र का
वाच्या सचेतन इति भावः ॥
सखी नायकं वक्ति---</p>
<lg>
  <l>रागे नवे विजृम्भति विरहक्रममन्दमन्दमन्दाक्षे ।</l>
  <l>सस्मितसलज्जमीक्षितमिदमिष्टं सिद्धमाचष्टे ॥ ४९७ ॥</l>
</lg>
<p>रागेति । विरहक्रमेण मन्दमन्दं मन्दाक्षं ह्रीर्यत्र । एतादृशे नवे रागे । 'विजृम्भित--'
इति पाठे विरहविशेषणम् । इदं स्मितहसितलज्जासहितं विलोकनमिष्टं सिद्धं कथयति ।
एवं चाचिरमेवानया सह सङ्गस्तव भावीति ध्वन्यते ॥
कुपितनायिकां दूती वक्ति--</p>
<lg>
  <l>रोषोऽपि रसवतीनां न कर्कशो वा चिरानुबन्धी वा ।</l>
  <l>वर्षाणामुपलोऽपि हि सुस्निग्धः क्षणिककल्पश्च ॥ ४९८ ॥</l>
</lg>
<p>रोषोऽपीति । रसः शृङ्गारादिः । पक्षे जलम् । तद्वतीनाम् । एवं चान्यासामन्या-
दृशी गतिरिति भावः । रोषोऽपि । अपिना कर्कशत्वायौचित्यमावेद्यते । कठिनो वा न ।
चिरकालावस्थायी वा न । अर्थान्तरन्यासमाह--वर्षाणां पाषाणोऽपि । करकेति यावत् ।
अत्यन्तकोमलः स्वल्पकालावस्थायी च । एवं चैतादृशातिशयितकोपकरणे रसवत्ताहा-
निरेव भवितीति ध्वन्यते । तेन चैनं परिहृत्य प्रसन्नां भवेति ॥
'येनैतादृशक्लेशादिकं भवति तदपेक्षाकरणमनुचितम्' इति वादिनीं सखीं नायिकां
वक्ति--</p>
<lg>
  <l>रोदनमेतद्धन्यं सखि किं बहु मृत्युरपि ममानर्घः ।</l>
  <l>स्वप्नेनेव हि विहितो नयनमनोहारिणा तेन ॥ ४९९ ॥</l>
</lg>
<p>रोदनमिति । हे सखि, एतद्रोदनं सम्यक् । किं बहु । वक्तव्यमित्यर्थः । मरणमपि
मम समीचीनम् । नयनमनःस्वाधीनतासंपादकेन । पक्षे नयनमनोव्यापाराभावसंपाद-
केन । स्वप्नेनेव तेन नायकेन विहितः । लिङ्गविपरिणामेन रोदनेऽप्येतदन्वेति । रोदना-
दिकं स्वप्ने सम्यगिति स्वप्नविवेचकाः । स्वप्ने केवलमनोव्यापारस्य सत्त्वेऽपि नयनव्यापार-
विशिष्टस्य तस्याभावान्नात्र दोषः ॥</p>
<pb n="176" />
<p>नायिका सखीं वक्ति--</p>
<lg>
  <l>रोषेणैव मया सखि वक्रोऽपि ग्रन्थिलोऽपि कठिनोऽपि ।</l>
  <l>ऋजुतामनीयतायं सद्यः स्वेदेन वंश इव ॥ ५०० ॥</l>
</lg>
<p>रोषेणेति । हे सखि, वक्रोऽपि ग्रन्थिलोऽपि कठिनोऽप्ययं नायको मया क्रोधेनैव सद्यः
ऋजुतां स्वेदेन वेणुरिव प्रापितः । स्वेदेन वेणोर्वक्रताद्यपगच्छतीति काष्ठर्जुतासंपादनविदः॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>रजनीमियमुपनेतुं पितृप्रसूः प्रथममुपतस्थे ।</l>
  <l>रञ्जयति स्वयमिन्दुं कुनायकं दुष्टदूतीव ॥ ५०१ ॥</l>
</lg>
<p>रजनीमिति । इयं पितृप्रसूः सायंसंध्या रात्रिमुपनेतुं चन्द्रसमीपं नेतुमादावुपतस्थे ।
स्वयं चन्द्रं दुष्टदूती दुष्टनायकमिव रञ्जयति । रक्तरूपवन्तम् । पक्षेऽनुरागवन्तम् ।
करोति । एवं च संध्यात्वेन जगद्वन्द्यत्वेऽप्येतादृशानुचितकार्यकारित्वम्, तत्र का वार्ता-
न्यासाम् । अतः स्वयमेव नायकानुनयो विधेय इति ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता रकारव्रज्या ।
------------------------------------
लकारव्रज्या ।
अत्यन्तपराङ्गनालम्पटास्थिरमतिनायकासक्तां नायिकां काचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>लग्नासि कृष्णवर्त्मनि सुस्निग्धे वर्ति हन्त दग्धासि ।</l>
  <l>अयमखिलनयनसुभगो न भुक्तमुक्तां पुनः स्पृशति ॥ ५०२ ॥</l>
</lg>
<p>लग्नासीति । हे सुस्निग्धे । स्नेहवशादिति भाव उभयत्र । वर्ति, कृष्णवर्त्मनि वह्नौ
अथ च दुष्टमार्गशालिनि नायके लग्नासि । तत्संबन्धभागिनी संवृत्तासि । हन्त खेदे ।
दग्धासि । एवं च न विलम्ब इति भावः । अथ च दुःखभागिनी संवृत्तासि । यतोऽयं
सकलनयनस्पृहणीयः । प्रकाशवत्वात् । अथ च सौन्दर्यादिगुणशालित्वात् । एवं च ना-
यिकासौलभ्यमस्येति ध्वन्यते । भोगोत्तरपरित्यक्तां पुनर्न स्पृशति । एवं चैतत्संगतिरनु-
चितेति ध्वन्यते ॥
संपत्त्या गुणवत्ता दारिद्र्यात्तदभाववत्तेति कश्चिद्वक्ति--</p>
<lg>
  <l>लक्ष्मीः शिक्षयति गुणानमून्पुनर्दुर्गतिर्विधूनयति ।</l>
  <l>पूर्णो भवति सुवृत्तस्तुषाररुचिरपचये वक्रः ॥ ५०३ ॥</l>
</lg>
<p>लक्ष्मीरिति । श्रीर्गुणानुपदिशति । अमून् पुनर्दौर्भाग्यं दूरीकरोति । अत्रार्थान्तरन्यास-
माह--पूर्णमण्डलश्चन्द्रः सुवृत्तः समीचीनवर्तुलः । अथ च समीचीनाचरणवान् । अप-
चये कलाविनाशे कुटिलः । एवं च संपत्त्यर्जनमत्यन्तावश्यकम् । तदविरोधेन गुणार्जनं
विधेयमिति द्योत्यते ॥</p>
<pb n="177" />
<p>नायिका सखीं वक्ति-</p>
<lg>
  <l>लूतातन्तुनिरुद्धद्वारः शून्यालयः पतत्पतगः ।</l>
  <l>पथिके तस्मिन्नञ्चलपिहितमुखो रोदितीव सखि ॥ ५०४ ॥</l>
</lg>
<p>लूतेति । हे सखि, ऊर्णनाभतन्तुपिहितद्वारः । पतन्तः पक्षिणो यत्र । शून्यालयः ।
तस्मिन्नायके पथिके देशान्तरस्थे सति वस्त्रपिहितवदनो रोदितीव । एवं चैतादृशैतद्रोदन-
निवारणं पुण्यजनकतयावश्यं विधेयं त्वयेति द्योत्यते । तेन च तद्गमनोत्तरकालमारभ्य न
केनाप्यत्र सङ्गः संवृत्तः । अत इदानीमन्यनायकमानयेति ध्वन्यते ॥
नायकः सखायं वक्ति--</p>
<lg>
  <l>लग्नं जघने तस्याः सुविशाले कलितकरिकरक्रीडे ।</l>
  <l>वप्रे सक्तं द्विपमिव शृङ्गारस्त्वां विभूषयति ॥ ५०५ ॥</l>
</lg>
<p>लग्नमिति । समीचीनविस्तीर्णे कलिताङ्गीकृता 'तर्जन्यनामिके युक्ते मध्यमा स्याद्ब-
हिष्कृता । करिहस्तः समुद्दिष्टः कामशास्त्रविशारदैः ॥' इत्येतल्लक्षणलक्षितस्य करिकरस्य
केलिर्येन तस्मिन् । पक्षेऽङ्गीकृतगजशुण्डाकेलौ । तस्या जघने लग्नं त्वां शृङ्गारो वप्रे
सक्तं गजमिव विशेषेण भूषयति । एवं चैतादृशमेव सर्वदा कुर्विति ध्यन्यते । 'द्व्यर्थैः पदैः
पिशुनयेच्च रहस्यवस्तु' इति कामशास्त्रादत्र सुरतारम्भगोष्ठीवत्कलितकरिकरक्रीड इ-
त्यर्थस्य यद्व्रीडादायित्वेनाश्लीलत्वं तन्न दूषणम् ॥
यथा न कस्यापि विज्ञानं भवति तथानेनेयं भुक्तेति काचित्कांचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>लिप्तं न मुखं नाङ्गं न पक्षती न चरणाः परागेण ।</l>
  <l>अस्पृशतेव नलिन्या विदग्धमधुपेन मधु पीतम् ॥ ५०६ ॥</l>
</lg>
<p>लिप्तमिति । परागेण वदनं न लिप्तम् । इदमग्रेऽप्यन्वेति लिङ्गवचनविपरिणामेन ।
अङ्गं न। पक्षती न । चरणा न । स्पर्शमकुर्वतेव चतुरमधुपेन । मधुपदेनोन्मादशालित्वमा-
वेद्यते । नलिन्या मधु पीतम् । नलिन्या इत्यनेन नायिकायां पद्मिनीत्वमावेद्यते । तेन च
दुर्लभत्वम् । एवं चैतस्याः सङ्गोऽपि गुप्ततयैव लब्धुं शक्य इति व्यज्यते ॥
नायको दूत वक्ति--</p>
<lg>
  <l>लग्नं जघने तस्याः शुष्यति नखलक्ष्म मानसं च मम ।</l>
  <l>भुक्तमविशदमवेदनमिदमधिकसरागसाबाधम् ॥ ५०७ ॥</l>
</lg>
<p>लग्नमिति । तस्या जघने लग्नं नखचिह्नं मम मानसं च शुष्यति । मानसपदेन शु-
ष्कीभावानर्हत्वेऽपि तद्भवनेन विरहे वडवानलतुल्यत्वमावेद्यते । तेन च दुःसहत्वम् ।
शुष्कीभावेषूभयोर्वैलक्षण्यमाह--भुक्तं वृद्धिशून्यम् । अविशदमप्रकटम् । यद्वा न विद्यते
विशदं यस्मात् । चिरकालीनतया लौहित्यापगमेन श्वेतमित्यर्थः । अवेदनं वेदनारहितम् ।
इदम् । मम मानसमित्यर्थः । अधिकं वृद्धिमत् । जघनेऽत्यन्तासक्तमिति भावः । सरागं</p>
<pb n="178" />
<p>प्रीतिमत् । साबाधं पीडासहितम् । एवं च यथा सत्वरं सङ्गो भवेत्तथा यतस्वेति
ध्वन्यते ॥
बह्वङ्गनालम्पटनायिकामेवं त्वया नायको वाच्य इति सखी समुपदिशति--</p>
<lg>
  <l>लज्जयितुमखिलगोपीनिपीतमनसं मधुद्विषं राधा ।</l>
  <l>अज्ञेव पृच्छति कथां शंभोर्दयितार्धतुष्टस्य ॥ ५०८ ॥</l>
</lg>
<p>लज्जयितुमिति । समग्रगोपीनां नितरां पीतं स्वाधीनीकृतं मनो येन तम् । नितरा-
मित्यनेन गोपीमनसोऽन्यविषयसंबन्धाभावो व्यज्यते । मधुद्विषम् । एवं चोन्मादश-
न्यत्वं ध्वन्यते । लजयितुं लज्जां प्रापयितुम् । राधा अज्ञेव दयितार्धेन तुष्टस्य शंभोः
सुखजनकस्य कथां पृच्छति । एवं च सर्वदा कामबाधाशालिनः कामिनीसुखसंपाद -
कस्य महादेवस्य नायिकार्धेन तुष्टिः, तव तु न तथेति निर्लज्जस्त्वमसीति द्योत्यते । एवं
च यथा राधयान्यवार्तया श्रीकृष्णं प्रत्यनुचितं त्वया विधीयत इत्युक्तं तथा त्वया स्वना-
यकं प्रति वाच्यमिति ध्वन्यते । यद्वा लज्जयितुम् । अर्थाद्गोपीसमूहम् । निखिलगोपी-
भिर्मिलिताभिर्निपीतं स्वीकृतं मनो यस्य तं मधुद्विषं दयितार्धतुष्टस्य शंभोः कथां
पृच्छति । एवं च यत्र दयितार्धमेव नायिकस्य सुखसंपादकतया तन्मनोवशीकरणसमर्थम्,
तत्र किमु वाच्यं नायिकाजातमिति भावः । अथवा निपीतं मनो यासाम् । न तु ताभि-
रित्यर्थः । एवं च गुणविशेषशालितया हरनिरूपितप्रेमवत्तया शिवया स्वस्यार्धेनापि
नायकः संतोष्य स्वाधीनतां नीतः, भवतीभिश्च सर्वाभिर्न मधुद्विट् स्वाधीनीकृत इति
भवत्यो गुणविहीनतया न तत्र निरूपितप्रेमवत्य इति व्यज्यते । एवं च गोपीपदमपि
चातुर्याभावप्रतिपादनेनार्थंवत् ॥
सपत्नीत्वमत्यन्तासह्यमिति काचित्कांचिद्वक्ति--</p>
<lg>
  <l>लक्ष्मीनिःश्वासानलपिण्डीकृतदुग्धजलधिसारभुजः ।</l>
  <l>क्षीरनिधितीरसुदृशो यशांसि गायन्ति राधायाः ॥ ५०९ ॥</l>
</lg>
<p>लक्ष्मीति । लक्ष्म्या निःश्वासानलैः । परमेश्वरस्य राधातिसक्त्येर्ष्ययोष्णैरिति भावः ।
गाढीकृतदुग्धजलधिसारभोजनवत्यः क्षीरनिधितीरवसतिशालिन्यो नायिका राधाया
यशांसि गायन्ति । यत्प्रसादादेवमस्माभिर्भुज्यत इति धियेति भावः । एवं च यत्र
लक्ष्म्या अप्येवं सपत्नीदुःखम्, तत्र किमु वाच्यमन्यासामिति व्यज्यते ॥
कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>लीलागारस्य बहिः सखीषु चरणातिथौ मयि प्रियया ।</l>
  <l>प्रकटीकृतः प्रसादो दत्त्वा वातायने व्यजनम् ॥ ५१० ॥</l>
</lg>
<p>लीलेति । केलिसदनस्य बहिः सखीषु सतीषु । मयि चरणातिथौ प्रणतिकारिणि ।
चरणातिथावित्यनेन प्रसादपात्रत्वं ध्वन्यते । प्रियया गवाक्षे व्यजनं दत्त्वा प्रसादः प्रक-</p>
<pb n="179" />
<p>टीकृतः । व्यजनपरित्यागेन संतापनिवृत्तिप्रदर्शनेन प्रसादः प्रकटीकृत इति भावः । यद्वा
गवाक्षे व्यजनस्थापनेनान्यानवलोकनीयत्वप्रदर्शनेन यथेच्छं सुरतविघ्नाभावद्योतनात्प्रसा-
दप्रकटनमिति भावः । यद्वा केलिसदनस्य बहिः सखीविषये प्रणतिकारिणि मयि प्रियया
वातायने व्यजनं दत्त्वा प्रसादः प्रकटीकृतः । कुपितेयं कदाचिद्गवाक्षद्वारा तर्जयिष्यतीति
भीत: सखीप्रसादनां विहाय यदि गतस्तदा ताभिर्मत्प्रार्थनाया अकरणे मानापरित्यागेन
नायकक्लेशो भवितेति यथेष्टमयं सखीप्रसादनां करोतु, ताश्च मदीयप्रसादनामिति प्रसादा-
विष्करणमिति भावः । अथवा गवाक्षे व्यजनसंस्थापनेन समीरणजनकस्यापि समीरणनि-
वारकत्वं यथा तथा दुःखजनकस्यापि तव दुःखनिवारकत्वमिति प्रदर्शनेन प्रसादाविष्कार
इति भावः । एवं चैतस्या यथा चातुर्यं न तथान्यासामिति ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता लकारव्रज्या ।
-----------------------------
वकारव्रज्या ।
सर्वगोपनपुरःसरमनेनेयं भुक्तेति व्यङ्गं काचित् काञ्चित् प्रकारान्तरेण वक्ति--</p>
<lg>
  <l>वर्णहृतिर्न ललाटे न लुलितमङ्गं न चाधरे दंशः ।</l>
  <l>उत्पलमहारि वारि च न स्पृष्टमुपायचतुरेण ॥ ५११ ॥</l>
</lg>
<p>वर्णेति । ललाटे वर्णस्य मकरिकादेर्हृतिर्न । अङ्गमपि न म्लानम् । अधरे दंशोऽपि
न । अर्थान्नायिकायाः । उपायनिपुणेनोत्पलं हृतं जलं च न स्पृष्टम् । एवं च सहचरी -
भिरपि न ज्ञातमिति भावः । नायिकाया परकीयात्वात् संभोगचिह्नानुत्पादनपुरःसरं भुक्ते-
यमनेनेति भावः । एवं यद्येतादृशचातुर्यं तव तर्हि परकीयाभिरतिर्विधेयेति ध्वन्यते ॥
दूती पान्थं प्रति वक्ति--</p>
<lg>
  <l>व्यालम्बि चूर्णकुन्तलचुम्बितनयनाञ्चले मुखे तस्याः ।</l>
  <l>बाष्पजलबिन्दवोऽलकमुक्ता इव पान्थ निपतन्ति ॥ ५१२ ॥</l>
</lg>
<p>व्यालम्बीति । हे पान्थ, तस्या वदने विशेषेणालम्बिनो ये चूर्णकुन्तलास्तैश्चुम्बित-
नयनप्रान्ते सति, अलकसंबन्धिमुक्ताफलानीव बाष्पोदकबिन्दवः । जलपदेनाधिक्यं
व्यज्यते । निपतन्ति । एवं च त्वरया त्वया समागन्तव्यमिति ध्वन्यते ॥
सखी नायकं वक्ति--</p>
<lg>
  <l>विनयविनता दिनेऽसौ निशि मदनकलाविलासलसदङ्गी ।</l>
  <l>निर्वाणज्वलितौषधिरिव निपुण प्रत्यभिज्ञेया ॥ ५१३ ॥</l>
</lg>
<p>बिनयेति । हे निपुण । एवं च यथाकथंचिद्दर्शनेन कलाविहीनत्वमेव तस्यां त्वया
नाशङ्कनीयमिति व्यज्यते । असौ नायिका दिवसे विनयनम्रा, रात्रौ मदनकलाविलासै -
र्लसदङ्गी निर्वाणज्वलितौषधिरिव प्रत्यभिज्ञेया । एवं च यथा काचिदोषधी दिवा सौम्या
रात्रौ प्रज्वलति तथेयं दिवसेऽतिसौम्या रात्रौ तु मदनकलाकुशला, अतो नैतत्कालीनै-</p>
<pb n="180" />
<p>तस्याः सौम्यत्वमाशङ्क्य विरतिर्विधेयेति ध्वन्यते । यद्वेयमत्यन्तविनयशालिनीति न
परपुरुषाभिलाषिणीति मन्यमानं वयस्यो वक्ति--निपुणैः प्रत्यभिज्ञेया । एवं च मूर्खा-
णामियं सौम्येति ज्ञानम्, न निपुणानामिति भावः ॥
सखी नायकं वक्ति--</p>
<lg>
  <l>विहितबहुमानमौना सखीप्रबोधैर्यदस्रमातनुते ।</l>
  <l>रागार्तिकाकुयाच्ञालघुरीक्षा रहसि पुनरेषा ॥ ५१४ ॥</l>
</lg>
<p>विहितेति । विहितं बहुमानेन मौनं यया । सखीनां प्रबोधनैर्यदलमश्रु आतनुते ।
एषा पुनरेकान्ते रागे यार्तिर्दीनवचनं प्रार्थना एतैर्लघुवीक्षा । एवं चाधुनेयमेतादृश-
मानशालिनी दृश्यते परंतु रहसि रागजनितपीडादिभिः स्वयमेव स्वहस्तगतावश्यं भ-
विष्यतीति ध्वन्यते । 'लघुरीक्ष्या' इति पाठे रागार्त्यादिभिर्लघुरेषेक्ष्येति योजना ॥
स्वनायिकायामनासक्तं काचिद्वक्ति--</p>
<lg>
  <l>विषमशरविशिखभिन्ना पल्ली शरणं यमेकमभिलपति ।</l>
  <l>तस्य तव च्छायेव स्वीया जायापि भयभूमिः ॥ ५१५ ॥</l>
</lg>
<p>विषमेति । मदनबाणभिन्ना पल्ली यमेकं शरणं रक्षणकर्तारं वाञ्छति तस्य तव
च्छायेव स्वगतापि भयस्थानम् । विषमशरेत्यनेन दुःसहत्वं ध्वन्यते । पल्ली यमेकमित्य-
नेन मदनातिशयशालित्वमावेद्यते । छायेवेत्यनेन सर्वदा सेवाप्रवणत्वं नायिकायामावे-
द्यते । एवं चैतादृशाचरणमनुचितमिति व्यज्यते । यद्वा दूती स्वनायिकासंकोचशा-
लिनं नायकं वक्ति--विषमेति । एवं च स्वाधीनायाः स्वनायिकायास्तव का भीतिः,
अतश्चल संकेतं प्रतीति व्यज्यते ॥
पराक्रमशालिनि नायके नायिकात्यन्तमासक्ता भवतीति काचित् कञ्चिद्वक्ति--</p>
<lg>
  <l>विविधायुधव्रणार्बुदविषमे वक्षःस्थले प्रियतमस्य ।</l>
  <l>श्रीरपि वीरवधूरपि गर्वोत्पुलका सुखं स्वपिति ॥ ५१६ ॥</l>
</lg>
<p>विविधेति । नानाप्रकारकायुधानां ये व्रणास्तेषामर्बुदैर्मांसकीलैः । 'अर्बुदो मांसकीले
स्यात्संख्याभेदे च कीर्तितः' । कठिने नायकस्य वक्षःस्थले गर्वोत्कृष्टपुलका लक्ष्मीर्वी-
रस्त्री च सुखं निद्राति ॥
कृतनायकान्तरोपभोगं निभृतं पृष्ठतः सुप्तं नायकं नायिका वक्ति--</p>
<lg>
  <l>वैमुख्येऽपि विमुक्ताः शरा इवान्याययोधिनो वितनोः ।</l>
  <l>भिन्दन्ति पृष्ठपतिताः प्रिय हृदयं मम तव श्वासाः ॥ ५१७ ॥</l>
</lg>
<p>वैमुख्येऽपीति । हे प्रिय । एवं चैतादृशकर्तव्यतयातिदुःखदत्वमित्यावेद्यते । अन्या-
ययुद्धकारिणो मदनस्य वैमुख्येऽपि परावृत्तावपि विशेषेण मुक्ताः । उपसर्गेणातिभेद-
कत्वं ध्वन्यते । बाणा इव पृष्ठसंलग्नास्तव श्वासा मम हृदयं भिन्दन्ति। वितनोरित्यनेन</p>
<pb n="181" />
<p>सुरतातिशयेन क्षीणशक्तिकत्वं नायके ध्वन्यते । एवं कृतापराधस्य तवात्र स्वापो मम
न सुखद इति ध्वन्यते । यद्वा कृतकनिद्रया नायिकां वञ्चयित्वान्यत्र गन्तुकामं नायकं
नायिका वक्ति--वैमुख्येऽपि । त्वदीयदौःशील्यज्ञानादिति भावः । एवं च श्वासैर्मत्स्वा-
पज्ञानोत्तरमियं स्वप्स्यति ततो मयान्यत्र गन्तव्यमिति किमर्थं कापट्यं रचयसि, य-
थेच्छं गच्छेति ध्वन्यते ॥
कश्चित् काञ्चिद्वक्ति--</p>
<lg>
  <l>व्यक्तमधुना समेतः खण्डो मदिराक्षि दशनवसने ते ।</l>
  <l>यन्नवसुधैकसारं लोभिनि तत्किमपि नाद्राक्षम् ॥ ५१८ ॥</l>
</lg>
<p>व्यक्तमिति । हे मदिराक्षि । एवं च कटाक्षविक्षेपमात्रेणोन्मादजनकत्वं व्यज्यते ।
तव दशनवसन ओष्ठे समेतो लग्नः खण्ड इत्यधुना व्यक्तं प्रकटीभूतम् । एवं च पूर्वं
किमपि नोक्तवती, अधुना तु मधुरवचनमभिधत्स इति भावः । यद्वा व्यक्तं स्वच्छम् ।
'व्यक्तं स्फुटे च स्वच्छे च' । यन्मधु माक्षिकं तत्समेतः खण्डः । अस्तीत्यध्याहारः ।
एवं चातिमाधुर्यमधरेऽस्तीति व्यज्यते । हे लोभिनि । एवं च सर्वसंग्रहकारित्वं ध्व-
न्यते । नूतनसुधैकसारं यत्तत्किमपि नाद्राक्षं न दृष्टवान् । अथ च द्राक्षाशून्यं न ।
एवं च केवलं मधुरं वदसि, कटाक्षयसि च, न पुनश्चुम्बनादिना मां जीवयसीति ध्व-
न्यते । यद्वा हे मदिराक्षि, तवाधरे समेतो लग्नः खण्ड इदमधुना व्यक्तम् । निश्चित-
मित्यर्थः । यद्वसुधैकसारं न । अपि तु त्रिभुवनसारमित्यर्थः । तत्किमपि लोभिनि ना-
पश्यम् । एवं चेदानींतनाधरचुम्बनेनाधरमाधुर्यं विज्ञातं परं तु त्रिभुवनसारभूतसुरतेन
किं मां न सुखयसीति व्यज्यते । अथ च त्वत्सुधैकसारं किमपि तन्न नाद्राक्षम् । अपि
तु सर्वं दृष्टवानस्मीत्यर्थः । एवं च मदिरामाक्षिकशर्करासुधाद्राक्षामधुरवस्तूनां त्वयि
सत्त्वेऽपि लोभवशात् किञ्चिद्ददासि किञ्चिन्न ददासीत्यनुचितमित्यावेद्यते ॥
नायकः सखायं वक्ति--</p>
<lg>
  <l>बालाविलासबन्धानप्रभवन्मनसि चिन्तयन्पूर्वम् ।</l>
  <l>संमानवर्जितां तां गृहिणीमेवानुशोचामि ॥ ५१९ ॥</l>
</lg>
<p>बालेति । हे वयस्य, अप्रभवन्नसमर्थः । प्राथमिककान्ताधीनत्वादिति भावः । बा-
लाया विलासबन्धान्पूर्वं चिन्तयन् स्थितः । प्राथमिककान्ताधीनेन मया कथमियं विला-
सविशेषशालिनी भोक्तव्येति चिन्तावान्संजात इति भावः । अधुना तु संमानरहि-
ताम् । द्वितीयकामिन्याः प्राबल्यादिति भावः । गृहिणीमेवानुशोचामि । गृहिणीमित्य-
नेन मानार्हत्वेऽपि तदकरणेनानौचिती द्योत्यते । एवं च यस्या भयेन पूर्वं किमपि क-
र्तुमशक्तस्तस्या इदानीमेतादृशी गतिः संवृत्तेति धियेति भावः । एवं च पूर्वमिदानीमपि
न मां चिन्ता परित्यजतीति ध्वन्यते । यद्वा बालाया अप्रगल्भे मनसि विलासबन्धांश्चि-
न्तयन्नहं पूर्वे प्रतिष्ठावर्जितां गृहिणीमेवानुशोचामि । एवं चाप्रगल्भवयस्यनयैतादृशवि-</p>
<pb n="182" />
<p>लासैर्हृतचित्तः संवृत्तः, किं पुनरग्रेऽनया विधेयमिति भावः । पूर्वं गृहिणीमेवानुशोचा-
मीत्यनेन बालाविलासासक्तचिन्तनया स्वात्मनः परतन्त्रतया शोच्यत्वेऽपि मदीयैता-
दृशावस्थामालोक्य गृहिण्याः समधिकदुःखोद्रेको भवितेति तद्विषय एवानुशोचनं म-
ह्यमापतितमिति व्यज्यते ॥
मन्मथव्यथातोऽन्यद्व्यथाजातं नातिदुःखदमिति कश्चिद्वक्ति--</p>
<lg>
  <l>वीजयतोरन्योन्यं यूनोर्वियुतानि सकलगात्राणि ।</l>
  <l>सन्मैत्त्रीव श्रोणी परं निदाघेऽपि न विघटिता ॥ ५२० ॥</l>
</lg>
<p>वीजयतोरिति । परस्परं वीजयतोर्यूनोः समग्रावयवा विभागवन्तः संवृत्ताः । परं
केवलं श्रोणी सन्मैत्त्रीव निदाघकालेऽपि । अपिनावश्यविघटनार्हवं द्योत्यते । न वि-
युक्ता । निदाघदुःखागणनादिति भावः ॥
उपपतिरपसार्यतामिति दूती कांचिद्भङ्ग्यन्तरेण वक्ति--</p>
<lg>
  <l>व्यारोषं मानिन्यास्तमो दिवः कासरं कलमभूमेः ।</l>
  <l>बद्धमलिं च नलिन्याः प्रभातसंध्यापसारयति ॥ ५२१ ॥</l>
</lg>
<p>व्यारोषमिति । मानवत्या विशिष्टकोपम्, दिवोऽन्धकारम्, कलमभूमेः कासरं म-
हिषम्, नलिन्या निरुद्धं भ्रमरं च प्रातःकालीनसंध्यापसारयति । एवं च प्रातःकालः
संवृत्तः, अतो यया रीत्यानीतोऽयं तथैव रीत्या नेय इति ध्वन्यते । संध्यापदेन यथा
योगसंपादनसामर्थ्यं तथापसारणसामर्थ्यमप्यपेक्षितमिति ध्वन्यते ॥
नायिकासखी नायकं वक्ति -</p>
<lg>
  <l>वक्षसि विजृम्भमाणे स्तनभिन्नं त्रुटति कञ्चुकं तस्याः ।</l>
  <l>पूर्वदयितानुरागस्तव हृदि न मनागपि त्रुटति ॥ ५२२ ॥</l>
</lg>
<p>वक्षसीति । वक्षसि विजृम्भमाणे स्तनौन्नत्यशालिनि स्तनभिन्नं कूर्पासकं तस्यास्त्रुटति।
तव हृदि प्रथमप्रियाप्रीतिरीषदपि न त्रुटतीति । एवं चैतस्यास्तारुण्योद्रेकेऽपि तव ना-
सक्तिः, अतस्त्वत्सदृशो न कोऽपि जड इति ध्वन्यते ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>व्यक्तिमवेक्ष्य तदन्यां तस्यामेवेति विदितमधुना तु ।</l>
  <l>हर्म्यहरिमुखमिव त्वामुभयोः साधारणं वेद्मि ॥ ५२३ ॥</l>
</lg>
<p>व्यक्तिमिति । तदन्यां नायिकाभिन्नां व्यक्तिमवेक्ष्य । तस्यामेव त्वमासक्त इति शेषः ।
इति ज्ञातम् । एवं च पूर्वं सापीयमपि मया दृष्टैव तदानीं तवैतस्यामनादरादिना तस्या-
मेव प्रीतिरभूदिति विज्ञातमिति भावः । अधुना तु गृहद्वारसंबन्धि सिंहमुखमिव त्वामु-
भयोः साधारणं जानामि। एवं चेदानीं त्वमुभयत्र समबुद्धिरित्यस्थिरप्रकृतिकत्वं नायके
ध्वन्यते । 'अवीक्ष्य' इति पाठे तदन्यां प्रथमाभिन्नां नायिकामवीक्ष्य । तस्यामेवासक्त</p>
<pb n="183" />
<p>इति शेषः । विदितम् । अधुना तु हर्म्यहरिमुखमिवोभयोः साधारणं वेद्मि । एवं याव-
त्पर्यन्तमुभयोर्न दर्शनं संवृत्तं तावदन्यादृशी बुद्धिः स्थितेति भावः ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>व्यजनस्येव समीपे गतागतैस्तापहारिणो भवतः ।</l>
  <l>अञ्चलमिव चञ्चलतां मम सख्याः प्रापितं चेतः ॥ ५२४ ॥</l>
</lg>
<p>व्यजनस्येति । व्यजनस्येव संतापापनोदकस्य भवतः समीपे । अर्थान्नायिकायाः ।
गमनागमनैर्वस्त्रप्रान्तमिव मम सख्याश्चित्तं चाञ्चल्यं प्रापितम् । एवं च त्वयैव प्रथमासक्ति-
मुत्पाद्येदानीमुदासीनवच्छैथिल्यं क्रियत इत्ययुक्तं तवेत्यतस्त्वरस्व तद्दर्शनायेति ध्वन्यते ।
यद्वा व्यजनस्येव तापहारिणः समीपे । नायिकाया इति भावः । भवतो गतागतैः । एवं
च लोकभीत्या कटाक्षवीक्षणाभावो व्यज्यते । सख्या अञ्चलमिव मम चेतश्चञ्चलतां
प्रापितम् । एवं च मान्मथव्यथापनोदकभवदीयसविधगतागतसंजातानुरागजनितहेलाव-
शात्कम्परूपसात्त्विकभावोदयवशाद्वा यथा सख्याश्चेलाञ्चले चञ्चलता तथा मन्मनसि
कया रीत्या कुत्र वानयोः संगम: संपादनीय इति चाञ्चल्यमुज्जृम्भत इति भावः ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>वितरन्ती रसमन्तर्ममार्द्रभावं तनोषि तनुगात्रि ।</l>
  <l>अन्तः सलिला सरिदिव यन्निवससि बहिरदृश्यापि ॥ ५२५ ॥</l>
</lg>
<p>वितरन्तीति । हे कृशाङ्गि, अन्तः रसं प्रीतिं वितरन्ती ममार्द्रभावं तनोषि । यद्य-
स्मादन्तर्जला नदीव बहिरदृश्यापि निवससि । मम हृदीति भावः । एवं च बहिस्त्वद्वि-
षयकप्रेमाभावेऽप्यान्तरं प्रेम ममातितरामस्ति त्वद्विषयकमित्यावेद्यते ॥
चिरतरकृतचाटुवचनादिरचनेऽप्यवधीरणात् कृतकस्वापं नायकमनुतापवशादानेतुं प्रे-
षिता दूती नायिकां वक्ति--</p>
<lg>
  <l>विहितविविधानुबन्धो मानोन्नतयावधीरितो मानी ।</l>
  <l>लभते कुतः प्रबोधं स जागरित्वैव निद्राणः ॥ ५२६ ॥</l>
</lg>
<p>विहितेति । कृतानेकसान्त्वनोऽपि मानोद्धतया त्वयावगणितोऽभिमानशाली । एवं
च प्रसादनासंपादनाविरामौचित्यमावेद्यते । जाग्रदेव निद्रावान्प्रबोधं कुतो लभते । न
कुतोऽपीत्यर्थः । एवं चैतादृशनायकावधीरणकरणमनुचितमिति ध्वन्यते ॥
काचित्कांचिद्वक्ति--</p>
<lg>
  <l>व्रीडाविमुखीं वीतस्नेहामाशङ्क्य काकुवाङ्मधुरे ।</l>
  <l>प्रेमार्द्रसापराधां दिशति दृशं वल्लभे बाला ॥ ५२७ ॥</l>
</lg>
<p>व्रीडेति । लज्जाया परावृत्तवदनाम् । अर्थान्नायिकाम् । गतस्नेहामाशङ्क्य चाटुवच-
नमधुरे नायके बाला । एवं चाज्ञत्वं व्यज्यते । प्रेम्णार्द्रामपराधेन सहितां दृष्टिं करोति ।
एवं स्त्रीणामेतादृशी गतिरिति भावः ॥</p>
<pb n="184" />
<p>कश्चित् कञ्चिद्वक्ति--</p>
<lg>
  <l>[^१]बाष्पाकुलं प्रलपतोर्गृहिणि निवर्तस्व कान्त गच्छेति ।</l>
  <l>यातं दंपत्योर्दिनमनुगमनावधिसरस्तीरे ॥ ५२८ ॥</l>
</lg>
<p>बाष्पेति । बाष्पव्याकुलं यथा भवति तथा 'गेहिनि, निवर्तस्व', 'कान्त, गच्छ' इति
प्रकृष्टालापवतोः । यद्वा परावृत्त्याद्यकरणेनानर्थकतया वृथा वदतोरित्यर्थः । 'प्रलापो-
ऽनर्थकं वचः' इत्यभिधानात् । दंपत्योरनुगमनस्यावधिभूतसरस्तीरे दिनं यातं व्यती-
तम् । एवं च प्रेम्णि सति न किंचिदपरं स्फुरतीति ध्वन्यते ॥
प्रतिज्ञापुरःसरविपरीतरतकारिणीं नायिकां नायको वक्ति--</p>
<lg>
  <l>वक्षःप्रणयिनि सान्द्रश्वासे वाङ्मात्रसुभटि घनघर्मे ।</l>
  <l>सुतनु ललाटनिवेशितललाटिके तिष्ठ विजितासि ॥ ५२९ ॥</l>
</lg>
<p>वक्ष इति । वक्षसि । अर्थात्स्वस्य । प्रणयः प्रीतिर्यस्याः । स्वापार्थमिति भावः । दी-
र्घश्वासशालिनि । श्रमवशादिति भावः । वचनमात्रशूरे । मात्रपदेन सामर्थ्याभावोऽभि-
व्यज्यते । बहुतरप्रस्वेदवति, शोभनगात्रि, ललाटे । अर्थान्मम । संस्थापितललाटिके,
तिष्ठ तूष्णीं भव । यतो विजितासि । सर्वैः संबोधनपदैर्निःसहत्वप्रतिपादनाद्विजयस्य
व्यङ्ग्यत्वेऽपि विजितासीति पदोपादानं न चमत्कारकारीत्याभाति ॥
राधा कृष्णेऽत्यन्तमासक्ता जातेति काचित्कांचिद्वक्ति--</p>
<lg>
  <l>विचरति परितः कृष्णे राधायां रागचपलनयनायाम् ।</l>
  <l>दशदिग्वेधविशुद्धं विशिखं विदधाति विषमेषुः ॥ ५३० ॥</l>
</lg>
<p>विचरतीति । कृष्णे समन्ताद्विचरति सति, अनुरागचञ्चलनेत्रायां राधायां दशदिक्षु
यो वेधस्तत्र विशुद्धम् । दशदिक्ष्वपि लक्ष्यवेधकारिणमित्यर्थः । बाणं मदनो विदधाति ।
एवं च सर्वत्र राधाकटाक्षविषयः श्रीकृष्णोऽभूदिति ध्वन्यते ॥
काचित्कांचिद्वक्ति--</p>
<lg>
  <l>वीक्ष्यैव वेत्ति पथिकः पीवरबहुवायसं निजावासम् ।</l>
  <l>सौन्दर्यैकनिधेरपि दयितायाश्चरितमविचलितम् ॥ ५३१ ॥</l>
</lg>
<p>वीक्ष्यैवेति । पथिकः पुष्टबहुकाकम् । नायकागमनशकुनदर्शनार्थं दत्तदध्योदनादिनेति
भावः । स्वसदनं दृष्ट्वैव । न वचनादिनेत्यर्थः । सौन्दर्यैकस्थानभूतायाः । एवं चावश्यच-
रितव्यसनयोग्यत्वमावेद्यते । प्रियाया अविचलितमाचरणं जानाति । यदीयमन्यत्रासक्ता
स्यात्तदा किमिति मदर्थमेतादृशशकुनाद्यवेक्षणं कुर्यादिति भावः । यद्वानया रीत्या ना-
यकः प्रतारयितुं शक्यः, अतो यथेच्छं परपुरुषे विचरेति दूती 'त्वद्वचनकरणे नायको
मत्पातिव्रत्यभङ्गं विज्ञास्यति तेन चानुचितमिदम्' इति वादिनीं नायिकां वक्ति ॥
-----------------------------------------------------------------------------------------
[^१]. पवर्गीयबकारव्रज्योचितेयमार्या प्रमादेन दन्त्योष्ठ्यवकारव्रज्यायामादर्शपुस्तकेषु
लिखितेति भाति.</p>
<pb n="185" />
<p>विपन्निमग्नस्योद्धारः केनचिदेव कर्तुं शक्यो न सर्वैरिति कश्चिदन्योक्त्या कंचन
वक्ति--</p>
<lg>
  <l>विमुखे चतुर्मुखेऽपि श्रितिवति चानीशभावमीशेऽपि ।</l>
  <l>मग्नमहीनिस्तारे हरिः परं स्तब्धरोमाभूत् ॥ ५३२ ॥</l>
</lg>
<p>विमुख इति । चतुर्मुखे विधातर्यपि विमुखे उद्योगशून्ये । यद्वानङ्गीकारकारिणि ।
ईशेऽप्यनी शभावमसमर्थभावं श्रितवति सति । मग्नधरोद्धारे परं केवलं हरिर्विष्णुः स्त-
ब्धरोमा वराहः । अथ च रोमाञ्चितः । धरोद्धारोत्साहवशादिति भावः । अभूत् । च-
तुर्मुखेशपदाभ्यामनयोः सांनिध्यात् सामर्थ्यशालित्वं ध्वन्यते । तेन च तत्करणोत्साहा-
भावेन धरोद्धारकरणेऽतिकाठिन्यमावेद्यते । एवं च विष्णुतुल्येनैवापदुद्धारः कर्तुं शक्यो
नान्येनेति व्यज्यते ॥
कश्चित् कञ्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>वापीकच्छे वासः कण्टकवृतयः सजागरा भ्रमराः ।</l>
  <l>केतकविटप किमेतैर्ननु वारय मञ्जरीगन्धम् ॥ ५३३ ॥</l>
</lg>
<p>वापीति । हे केतकवृक्ष, वापीजलप्रायदेशे वसतिः । कण्टकावरणानि । निद्राशून्या
भ्रमराः । एतैः किम् । न किंचिदित्यर्थः । ननु निश्चितं मञ्जरीगन्धं वारय । एवं चैता-
दृशी नायिका यावत्तव समीपेऽस्ति, तावद्यत्र यत्र येन येन प्रकारेणावतिष्ठसि तत्राव-
श्यमन्यनायकोपसर्गो नापगमिष्यतीत्येतत्करणमनुचितमिति द्योत्यते ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>विचलसि मुग्धे विधृता यथा तथा विशसि हृदयमदये मे ।</l>
  <l>शक्तिः प्रसूनधनुषः प्रकम्पलक्ष्यं स्पृशन्तीव ॥ ५३४ ॥</l>
</lg>
<p>विचलसीति । हे मुग्धे सुन्दरि दयाशून्ये । एवं च गमनौचित्यमावेद्यते । विधृता ।
अञ्चलादाविति भावः । यथा विचलसि गच्छसि तथा मे हृदयं विशसि । प्रकम्पलक्ष्यं
स्पृशन्ती मदनस्य शक्तिरिव । एवं च त्वद्गमने मत्प्राणा एव गमिष्यन्तीति व्यज्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>वीहितासमशरसमरो जितगाङ्गेयच्छविः कृताटोपः ।</l>
  <l>पुरुषायिते विराजति देहस्तव सखि शिखण्डीव ॥ ५३५ ॥</l>
</lg>
<p>विहितेति । हे सखि, विहितः कृतः । विशेषेण हित इति वा । असमशरसमरो मद-
नयुद्धम् । सुरतमिति यावत् । येन । यस्येति वा । अत एव विपरीतरतोद्योगः । पक्षे
कृतोऽनुपमबाणैः सङ्ग्रामो येन सः । जिता गाङ्गेयस्य सुवर्णस्य । पक्षे भीष्मस्य । दीप्ति-
र्येन सः । संपादिताडम्बरः । तव देहो विपरीतरते शिखण्डीव विराजति । एवं च त्वया
बहुधा विपरीतरतमेव विधेयमिति ध्वन्यते ॥</p>
<pb n="186" />
<p>चौर्यरतादि न सम्यगिति वादिनं कश्चिद्वक्ति--</p>
<lg>
  <l>वृतिविवरनिर्गतस्य प्रमदाबिम्बाधरस्य मधु पिबते ।</l>
  <l>अवधीरितपीयूषः स्पृहयति देवाधिराजोऽपि ॥ १३६ ॥</l>
</lg>
<p>वृतीति । आवरणच्छिद्रनिर्गतस्य प्रकृष्टमदशालिन्या बिम्बतुल्याधरस्य मधु पिबते ।
'क्रुधद्रुह--' इत्यादिना चतुर्थी । अवगणितामृत इन्द्रोऽपि स्पृहयति । मद्रूपतावाप्त्यर्थ-
मित्यर्थः । एवं चेन्द्रपदसुखाद्यपेक्षयापि चौर्यरतसुखमधिकमित्यावेद्यते ॥
पुरुषविशेषे समासक्तायाः संगतिमपेक्षमाणं कंचन दूती वक्ति--</p>
<lg>
  <l>वासितमधुनि वधूनामवतंसे मौलिमण्डने यूनाम् ।</l>
  <l>विलसति सा पुरकुसुमे मधुपीव वनप्रसूनेषु ॥ ५३७ ॥</l>
</lg>
<p>वासितेति। वासितमुत्कृष्टताशालिकृतं मधु येन । एवं चैतत्समवधाने मद्यस्य मादकत्व-
मित्यावेद्यते । पक्षे मधुनः सौगन्ध्यार्थं पुष्पादिकं प्रक्षिप्यत इति भावः । नायिकानाम-
वतंसे श्रुतिभूषणरूपे । एवं च सर्वा अपि कामिन्यस्तदीयगुणश्रवणं सर्वदादरातिशयेन
कुर्वन्तीति भावः । तरुणानां मस्तकभूषणरूपे । वन्दनीय इत्यर्थः । नगरस्य कुसुमे ।
सर्वजगत्स्पृहणीयत्वादिति भावः । नायके । विशेषणमहिम्ना विशेष्यलाभः । सा विलसति
शोभते । एवं च त्वं न तस्याः शोभाधायक इति भावः । वनकुसुमे मधुपीव । एवं
चैतादृशनायकविशेषे समासक्ता न कथमपि त्वयि संयोजयितुं शक्येति भावः ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>व्रीडाप्रसरः प्रथमं तदनु च रसभावपुष्टचेष्टेयम् ।</l>
  <l>जवनीविनिर्गमादनु नटीव दयिता मनो हरति ॥ ५३८ ॥</l>
</lg>
<p>व्रीडेति । आदौ लजाप्रसरः । तदनन्तरं रसः शृङ्गारादिः, भावश्चित्ताभिप्रायः,
आभ्यां पुष्टा चेष्टा । जवनी विनिर्गमादनु नर्तकीवेयं दयिता मनो हरति । एवं च यथा
जवनिकाविनिर्गमानन्तरं नटी प्रथमतो लज्जातिशयं प्रदर्श्य ततो रसाभिनयपुष्टचेष्टां
प्रदर्शयति, ततो रसाविर्भावात् सामाजिकमनांसि हरति, तथेयं दयिता यथा जवन्यपस-
रति तथा प्रथमं लज्जाविशेषं विधाय ततः सरसाभिप्रायविलासं प्रदर्श्य ततो निर्भरर-
तानन्दवत्तया नायकीयमनसोऽनन्यप्रवणतामापादयतीति भावः । इयमित्यनेनान्यासां
प्रथमतो निर्लज्जतया किंचिन्मनोहारकत्वेऽपि न तासु नायकीयचित्तहारकत्वमिति
वस्त्वावेद्यते । तेन च व्यतिरेकालंकारः ॥
दूती नायकं वक्ति--</p>
<lg>
  <l>वाससि हरिद्रयेव त्वयि गौराङ्ग्या निवेशितो रागः ।</l>
  <l>पिशुनेन सोऽपनीतः सहसा पतता जलेनेव ॥ ५३९ ॥</l>
</lg>
<p>वाससीति । वस्त्रे हरिद्रयेव गौराङ्ग्या नायिकया त्वयि रागोऽनुरागः । पक्षे पीतिमा ।</p>
<pb n="187" />
<p>संपादितः । गौराङ्ग्येति हरिद्राविशेषणमपि । स रागः सहसा । अप्रतर्क्यमिति यावत् ।
पतता प्रविष्टेन । पक्षे संबन्धवता । जलेनेव पिशुनेन सूचकेन दूरीकृतः । एवं च न
तस्या अपराध इति भावः ॥
एतादृशनायिकासाहचर्ये तव सर्वत्र कामुककृतपीडा स्यादिति कश्चित्कंचिदन्योक्त्या
वक्ति--</p>
<lg>
  <l>विष्वग्विकासिसौरभरागान्धव्याधबाधनीयस्य ।</l>
  <l>क्वचिदपि कुरङ्ग भवतो नाभीमादाय न स्थानम् ॥ ५४० ॥</l>
</lg>
<p>विष्वगिति । हे कुरङ्ग, सर्वतो विसारिसौगन्ध्येन योऽभिलाषस्तेनान्धा ये व्याधास्तैः
पीडनीयस्य । विश्वगित्यादिना गोपनमशक्यमित्यावेद्यते । रागान्धपदेन कर्तव्याकर्त-
व्यविवेकवैधुर्यमावेद्यते । व्याधपदेन हिंस्रत्वं द्योत्यते । भवतो नाभीमादाय क्वापि स्थलं
नास्ति । एवं चैतस्याः समस्तगुणैर्विख्यातायास्तव गोपनाशक्यतया सर्वतः पीडा स्यात्,
अत एतत्सङ्गस्त्याज्य इति ध्वन्यते ॥
एकजातसजातीयगुणवत्त्वेऽपि क्वचित्कश्चिदस्ति विशेष इति कंचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>वटकुटजशालशाल्मलिरसालबहुवारसिन्धुवाराणाम् ।</l>
  <l>अस्ति भिदा मलयाचलसंभवसौरभ्यसाम्येऽपि ॥ ५४१ ॥</l>
</lg>
<p>वटेति । वटादिसिन्धुवारान्तवृक्षाणां मलयाद्रिजन्यसौगन्ध्यसाजात्येऽपि भेदोऽस्ति ।
एवं च चतुरैरेव तद्वैजात्यं ज्ञातुं शक्यं नान्यैरिति भावः ॥
सामान्यवनितां काचिदन्योक्त्या समुपहसति--</p>
<lg>
  <l>विनिहितकपर्दकोटिं चापलदोषेण शंकरं त्यक्त्वा ।</l>
  <l>वटमेकमनुसरन्ती जाह्नवि लुठसि प्रयागतटे ॥ ५४२ ॥</l>
</lg>
<p>विनिहितेति । विनिहिता समर्पिता कपर्दस्य जटाजूटस्य कोटि: प्रान्तभागो येन
तम् । पक्षे कोटिसंख्याककपर्ददातारम् । शंकरं शिवम् । पक्षे सुखसंपादकम् । चाञ्च-
ल्यदोषेण त्यक्त्वा । दोषपदमनौचितीं व्यनक्ति । हे जाह्नवि जह्नुतनये । एवं चैतादृ-
शाचरणमनुचितं तवेति ध्वन्यते । एकं वटवृक्षम् । पक्षे वराटकम् । अपेक्षमाणा प्रया-
गतटे । पक्षे मध्यमपदलोपिसमासात् प्रलुप्तयागस्य पापीयसः समीप इत्यर्थः । लुठसि ।
एवं च चाञ्चल्यकरणमनुचितं तवेति भावः ॥
'किमिति विरहदुःखं त्वया मत्सख्या दत्तम्' इति वादिनीं नायिकासखीं नायको
वक्ति--</p>
<lg>
  <l>वेद चतुर्णां क्षणदा प्रहराणां संगमं वियोगं च ।</l>
  <l>चरणानामिव कूर्मी संकोचमपि प्रसारमपि ॥ ५४३ ॥</l>
</lg>
<p>वेदेति । चतुःप्रहरसंबन्धिसंयोगं चतुःप्रहरसंबन्धिवियोगं च क्षणदा । क्षणदेव क्ष-</p>
<pb n="188" />
<p>णदा । नायिकेत्यर्थः । वेद । कर्तुमिति भावः । एवं च यदि प्रसन्ना नायिका तदा सैव
प्रहरचतुष्टयसंबन्धि रतसुखं करोति, सैव चाप्रसन्ना प्रहरचतुष्टयसंबन्धि विरहदुःखं करो-
तीति भावः । अत एव क्षणमुत्सवं ददाति द्यति चेति व्युत्पत्तिरपि संगच्छते । अथ च
प्रहरचतुष्टयसंबन्धि सङ्गसुखस्य तथाविधविरहं रात्रिरेव वेद । रात्रीयप्रहरचतुष्टयसंब-
न्धिविरहवेदनायाश्च कर्त्री सैवेत्यर्थः । दिवसीयविरहस्यापि रात्रावेवातिदुःखदत्वादिति
भावः । चरणानां संकोचं प्रसारमपि यथा कूर्मी विजानाति, एवं च यथा चरणसंको-
चप्रसरणसंपादनं कूर्म्यधीनं तथा संगमविरहसंपादनं नायिकाधीनमिति भावः । एवं च
न ममापराध इति ध्वन्यते । यद्वा विरहिणी सखीं वक्ति- हे सखि, चतुर्णां प्रहराणां
संगमं वियोगं च क्षणदा रात्रिर्वेद । चन्द्राद्युद्दीपनादिप्राबल्याद्युन्मादाद्यवस्थया नायकस-
मागमासमागमाभ्यां मत्सुखदुःखसाक्षिणी रात्रिरेवेति भावः । एवं च तादृश्यापि सख्या
मत्सुखदुःखविचारणा न क्रियत इति सख्युपालम्भो व्यज्यते । अथवा चतुर्णां प्रहराणां
क्षणदा । समग्रा रात्रिरिति यावत् । सुखदुःखे वेद । मदीये इति भावः । एवं च क्षण-
मपि न रात्रौ विश्रान्तिर्वृत्तेति भावः । यद्वा सामान्यवनितां तदीयधात्री वक्ति--कूर्मीव
क्षणदा चतुर्णां प्रहराणां सङ्गं वियोगं च वेद । त्वं किमिति न वेत्सि । एवं च त्वयापि
केऽप्यानेयाः केऽपि विनिःसारणीया इति भावः । अथवा सखी नायिकामुपदिशति--या
ह्युत्सवदा कामिनी सा स्वदर्शनादिदानेन दिवसीयप्रहरचतुष्टयविरहसंपादनेनोत्कण्ठितं
नायकं विधाय रात्रौ प्रहरचतुष्टयमपि रमयतीति भावः ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>वृतिविवरेण विशन्ती सुभग त्वामीक्षितुं सखी दृष्टिः ।</l>
  <l>हरति युवहृदयपञ्जरमध्यस्था मन्मथेषुरिव ॥ ५४४ ॥</l>
</lg>
<p>वृतीति । हे सुभग । एतादृशनायिकानुरागशालित्वादिति भावः । भित्तिसुषिरेण
त्वामवलोकयितुं विशन्ती यूनां हृदयरूपो यः पञ्जरो वंशकरण्डिका तन्मध्यस्था । एवं च
धारानुपघातो ध्वन्यते । मन्मथेषुरिव सख्याः । ममेति भावः । दृष्टिर्हरति । अर्थात् त्वा-
मेव । एवं च पूर्वं त्वद्गुणश्रवणादिना त्वय्यासक्ता, इदानींतनत्वद्विषयकविलोकनेन मन्म-
थवशान्न किंचिदपि मम सखी जानातीति त्वय्यत्यन्तमासक्तेयमिति ध्वन्यते । यद्वा युवहृ-
दयपञ्जरमध्यस्थेति दृष्टिविशेषणम् । पञ्जरपदेन निःसारणानर्हत्वं ध्वन्यते । एवं च त्वा-
मवलोकयितुं प्रवृत्ताया मत्सख्या उदासीनवस्तुतुल्यतया नयनविषयीभूता अन्ये युवा-
नस्तस्याः कटाक्षैकतानतापन्नास्तामेव भावयन्तीति भावः । एवं च सर्वयुवस्पृहणीया
या त्वामेव स्पृहयतीति सा त्वयावश्यमनुग्राह्येति ध्वन्यते ॥
याथातथ्यज्ञानवानयमेवेति कश्चित्कंचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>विपणितुलासामान्ये मा गणयैनं निरूपणे निपुण ।</l>
  <l>धर्मधटोऽसावधरीकरोति लघुमुपरि नयति गुरुम् ॥ ५४५ ॥</l>
</lg>
<pb n="189" />
<p>विपणीति । हे निरूपणे निपुण । एवं चैतस्यान्यैः समताकरणे तवैवानुचितमिति
व्यज्यते । रथ्यातुलासामान्ये एनं मा गणय । असौ धर्मधटो लघुमधरीकरोति गुरुमु-
परि नयति । क्वचित् 'एनां दिव्यतुला सा' इति पाठः । तत्र नायिकापक्षे योज्यम् ॥
सतां मनसः सकाशान्न किंचिन्महत्तरमिति कश्चिद्वक्ति--</p>
<lg>
  <l>वासरगम्यमनूरोरम्बरमवनी च वामनैकपदम् ।</l>
  <l>जलधिरपि पोतलङ्घ्यः सतां मनः केन तुलयामः ॥ ५४६ ॥</l>
</lg>
<p>वासरेति । ऊरुरहितस्य । अरुणस्येत्यर्थः । अम्बरं दिवसोल्लङ्घ्यम् । वसुधा च वा-
मनस्यैकपदम् । एकपदेनोल्लङ्घ्येत्यर्थः । समुद्रोऽपि पोतेन लङ्घ्यः । सतां मनः केन तुल-
यामः । एवं च महत्तरतयाभिमतस्याकाशस्याल्पसमयेन चरणहीनोल्लङ्घनीयतया, तथा
वसुधाया अपि ह्रस्वपदलङ्घनीयतया, तथा जलधेरपि पोत इव पोत इत्युपमितेन स्वल्पेना-
प्युल्लङ्घनीयतया, एतत्त्रयातिरिक्तवस्तुनोऽभावात् सतां मनो निरुपममित्यर्थः ॥
दूती नायिकां वक्ति--</p>
<lg>
  <l>वितततमोमषिलेखालक्ष्मोत्सङ्गस्फुटाः कुरङ्गाक्षि ।</l>
  <l>पत्त्राक्षरनिकरा इव तारा नभसि प्रकाशन्ते ॥ ५४७ ॥</l>
</lg>
<p>विततेति । हे कुरङ्गनेत्रे, विततं यत्तमस्तद्रूपा या मषी तस्या या रेखास्तद्रूपचिह्नव-
दुत्सङ्गो यस्य तादृशा ये तारा: पत्त्ररूपाक्षरसमूहा इव प्रकाशन्ते । एवं च त्वद्विरहखि-
नस्य नायकस्य त्वद्विज्ञापनापत्त्रमिवेदमाकाशमालोक्य त्वया त्वरया प्रस्थेयमिति व्यज्यते ।
यद्वा मदनदेवस्येदं चन्द्रमुद्रामुद्रितं शासनपत्त्रं यन्मानवतीनां निःशङ्कं भवद्भिर्दुःखं देय-
मिति शारदादिनिजजनस्येत्यवगत्य मानमपहाय नायकमनुरञ्जयेति सखीवाक्यमेतत् ॥</p>
<lg>
  <l>विविधाङ्गभङ्गिषु गुरुर्नूतनशिष्यां मनोभवाचार्यः ।</l>
  <l>वेत्रलतयेव बालां तल्पे नर्तयति रतरीत्या ॥ ५४८ ॥</l>
</lg>
<p>विविधेति। अनेकाङ्गभङ्गिषु गुरुर्मनोभवरूपाचार्यो नवीनान्तेवासिरूपां बालां वेत्रल-
तयेव रतरीत्या तल्पे नर्तयति । एवं चेयमग्रेऽत्यन्तरतकलाप्रवीणा भविष्यतीति भावः ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>विपरीतमपि रतं ते स्रोतो नद्या इवानुकूलमिदम् ।</l>
  <l>तटतरुमिव मम हृदयं समूलमपि वेगतो हरति ॥ ५४९ ॥</l>
</lg>
<p>विपरीतमिति । हे सुतनु, अनुकूलमिच्छाविषयीभूतम् । पक्षे कूलं रोधः । इदं ते
विपरीतमपि रतम् । अपिना विपरीतरतेतररतसंग्रहः । यद्वापिरवधारणार्थकः । नद्या
इव स्रोतो मम हृदयं तटतरुमिव वेगतः । वेगविशेषादित्यर्थः । आमूलं हरति । एवं च
रतसामान्यस्याधिक्येऽपि विपरीतरतस्याधिक्यमित्यावेद्यते ॥</p>
<pb n="190" />
<p>कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>वैभवभाजां दूषणमपि भूषणपक्ष एव निःक्षिप्तम् ।</l>
  <l>गुणमात्मनामधर्मं द्वेषं च गृणन्ति काणादाः ॥ ५५० ॥</l>
</lg>
<p>वैभवेति । दूषणमपि । अपिना हेयत्वमावेद्यते । भाग्यशालिनाम् । पक्षे वैभवं व्या-
पकत्वम् । भूषणपक्ष एव । एवकारेण दूषणपक्षव्यवच्छेदः । निःक्षिप्तम् । स्थापितमि-
त्यर्थः । उक्तमर्थमर्थान्तरन्यासेन द्रढयति--काणादा वैशेषिकशास्त्रप्रवर्तका अधर्मं द्वेषं
चात्मनां गुणं गृणन्ति । चतुर्विंशतिगुणेष्वेतयोर्गणनादिति भावः । एवं चाधर्मद्वेषयो-
र्दूषणपक्षनिःक्षेपयोग्यत्वेऽप्यात्मनि विद्यमानतया गुणत्वं मुनिभिरभिहितं तत्र का वा-
र्तान्येषामिति भावः । एवं च दरिद्रस्यैव दोषं दोषत्वेन गणयन्ति सर्व इति दारिद्र्यम-
सम्यगिति व्यज्यते ॥</p>
<lg>
  <l>वक्राः कपटस्निग्धा मलिनाः कर्णान्तिके प्रसज्जन्तः ।</l>
  <l>कं वञ्चयन्ति न सखे खलाश्च गणिकाकटाक्षाश्च ॥ ५५१ ॥</l>
</lg>
<p>वक्रेति । वक्राः कुटिलाः । कापट्येन स्नेहवन्तः । मलिनाः । पापकारित्वात्साहजि-
कश्यामताशालिवादित्युभयत्रेति भावः । कर्णान्तिके प्रसज्जन्तः । परापकारार्थं विशा-
लत्वादित्युभयत्र भावः । हे सखे, खला वेश्याकटाक्षाश्च कं न वञ्चयन्ति । अपि तु
सर्वमेव । एवं चोभयसंसर्गस्तव नोचित इति व्यज्यते ॥
पाकोद्यमशालिनीं नायिकां रतार्थी नायको वक्ति--</p>
<lg>
  <l>विद्युज्ज्वालावलयितजलधरपिठरोदराद्विनिर्यान्ति ।</l>
  <l>विशदौदनद्युतिमुषः प्रेयसि पयसा समं करकाः ॥ ५५२ ॥</l>
</lg>
<p>विद्युदिति । हे प्रेयसि, विद्युज्ज्वालाभिर्व्याप्तं यन्मेघरूपपात्रम्, अथ च जलाधरभूतं
यत्पिठरं तन्मध्यात्स्वच्छौदनकान्तिहारकाः करकाः पयसा जलेन । पक्षे दुग्धेन । सह
विनिर्यान्ति । एवं चैतादृशकाले क्षुत्क्षामस्य दुग्धौदनभोजनदानवन्मम सुरतदानं जीव-
ननिदानमित्यवगत्येतरव्यासङ्गं परिहाय मत्सविध एहीति ध्वन्यते । यद्वा वर्षोपलसहितै-
तादृशत्रुष्टौ कथं मया संकेते समागन्तव्यमिति वादिनीं काचिद्वक्ति--विद्युदिति । एवं
चैतादृशकालीनसुरतं दुग्धौदनभोजनादपि मधुरमित्यवगत्य संकेतं प्रयाहीति ध्वन्यते ॥
अत्यन्तरतोत्कण्ठाशाली नायको नायिकां वक्ति--</p>
<lg>
  <l>व्यजनादिभिरुपचारैः किं मरुपथिकस्य गृहिणि विहितैर्मे।</l>
  <l>तापस्त्वदूरुकदलीद्वयमध्ये शान्तिमयमेति ॥ ५५३ ॥</l>
</lg>
<p>व्यजनेति । हे गृहिणि। एवं च सेवासंपादनौचित्यमावेद्यते । मरुपथिकस्य मे संपादि-
तैर्व्यजनप्रभृतिभिरुपचारैः किम् । न किमपीत्यर्थः । एवं च मरुदेशादागतस्य भूयसी सं-
तापवत्तेति भावः । किं तर्हि विधेयमियत आह--त्वदूरुरूपकदलीद्वयान्तरालेऽयं मदे-
कवेद्यस्तापः शान्तिमेति । एवं चान्यव्यासङ्गं विहाय रहसि सत्वरं प्रचलेति ध्वन्यते ॥</p>
<pb n="191" />
<p>क्षुद्रेण यत्कर्म कर्तव्यं तद्विगुणं न विधेयमिति कश्चित्कमप्युपदिशति--</p>
<lg>
  <l>वैगुण्येsपि हि महता विनिर्मितं भवति कर्म शोभायै ।</l>
  <l>दुर्वहनितम्बमन्थरमपि हरति नितम्बिनीनृत्यम् ॥ १४ ॥</l>
</lg>
<p>वैगुण्येऽपीति । महता श्रेष्ठेन संपादितं कर्म विगुणत्वेऽपि शोभायै भवति । अर्था-
न्तरन्यासमाह--दुर्वहः । महत्त्वादिति भावः । यो नितम्बस्तेन निश्चलमपि नितम्बि-
नीनृत्यं हरति । चित्तमिति भावः ॥
काचिदत्यन्तं सा पतिव्रतेति वादिनीं कांचिद्वक्ति--</p>
<lg>
  <l>वीक्ष्य सतीनां गणने रेखामेकां तया स्वनामाङ्काम् ।</l>
  <l>सन्तु युवानो हसितुं स्वयमेवापारि नावरितुम् ॥ ५५५ ॥</l>
</lg>
<p>वीक्ष्येति । साध्वीनां गणने स्वनामचिह्नरूपामेकां रेखां दृष्ट्वा युवानः । तदुपभोक्तार
इति भावः । हसितुं सन्तु । स्वयमेवावरितुं निरोद्धुम् । हास्यमिति भावः । नापारि ।
एवं च तदीयसतीगणनारेखां दृष्ट्वा युवभिर्हसितमिति किं वक्तव्यम्, तयैव कथमयं
लोको भ्रान्त इति हास्यं कृतमिति भावः । एवं चैतादृश्याः क्व सतीत्वमित्यावेद्यते ॥
इतः किमिति नापसरसीति वादिनीं कांचित्कश्चिद्वक्ति--</p>
<lg>
  <l>विन्ध्याचल इव देहस्तव विविधावर्तनर्मदनितम्बः ।</l>
  <l>स्थगयति गतिं मुनेरपि संभावितरविरथस्तम्भः ॥ ५५६ ॥</l>
</lg>
<p>विन्ध्येति । अत्र संबुद्धिपदानुपादानं लोकभीतिमावेदयति । विविधोऽनेकप्रकारक
आवर्त आवर्तनं चालनविशेषो यस्य स चासौ क्रीडाप्रदो नितम्बो यस्य । पक्षे विविधा
आवर्ता अम्भोभ्रमणानि यस्यां तादृशी नर्मदा नदी यस्मिंस्तादृशकटकवान् । अत एव
संभावितः सूर्यरथस्य स्तम्भो येन । स्वैकदेशनितम्बेन तच्चक्रविनिर्जयादिति भावः । यद्वा
संभावितो रविरथस्य लक्षणया तच्चक्रस्य स्तम्भो येन । ततोऽप्यधिकपरिमाणशालिनि-
तम्बवत्त्वादिति भावः । पक्षे रविरथस्य स्तम्भो गतिविच्छेदः । अत्युच्चत्वादिति भावः ।
तव देहो विन्ध्याद्रिरिव मुनेरपि मननशीलस्यापि । पक्षेऽगस्त्यस्य । गतिं श्लथयति ।
एवं च मननशीलस्यापि तवैतादृशदेहमवलोक्य गतिनिरोधो जायते, किं पुनर्मादृशस्य
रसलम्पटस्येति भावः । यद्वा विपरीतरतनिर्जितो नायको नायिकां वक्ति--विविधा-
वर्तोऽनेकप्रकारकभवनम् । चलनविशेषादिति भावः । तेन क्रीडाप्रदो नितम्बो यस्य ।
संभावितो रविरथस्य स्तम्भः । पराभव इत्यर्थः । ततोऽप्यधिकतरगतिमन्नितम्बवत्त्वा-
दिति भावः । पक्षे प्राग्वत् । मुनेरपि 'वानरं चपलं ध्यायेत्' इत्यादिकामतन्त्रोक्तचि-
न्तनवतोऽपि गतिं सामर्थ्यं स्थगयति । एवं च त्वदासक्तचित्तस्य मम पराजयस्तव
सुकर इति ध्वन्यते ॥</p>
<pb n="192" />
<p>काचित्कंचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>वृतिभञ्जन गञ्जनसह निकाममुद्दाम दुर्नयाराम ।</l>
  <l>परवाटीशतलम्पट दुष्टवृष स्मरसि गेहमपि ॥ ५५७ ॥</l>
</lg>
<p>वृतीति । आवरणभञ्जक, तिरस्कारसह, अत्यर्थं परमदुर्नयस्याराम । एवं च दुर्नयस्य
त्वमेव स्थानमिति भावः । परकीयोपवनशतलम्पट, दुष्टवृष, गेहमपि स्मरसि । अपिना
निजजनसंग्रहः । एवं च स्वनायिकाविस्मरणं तव नोचितमिति व्यज्यते ॥
महावंशजन्यत्वेऽप्यनेकगुणवत्त्वेऽपि खलस्य विश्वासो न विधेय इति कश्चित्कं-
चिद्वक्ति--</p>
<lg>
  <l>वंशावलम्बनं यद्यो विस्तारो गुणस्य यावनतिः ।</l>
  <l>तज्जालस्य खलस्य च निजाङ्कसुप्तप्रणाशाय ॥ ५५८ ॥</l>
</lg>
<p>वंशेति । यद्वंशस्यान्वयस्य, अथ च वेणोरवलम्बनं जन्यत्वमाश्रितत्वं च । गुणस्य
पाण्डित्य शौर्या देस्तन्तोश्च यो विस्तार आधिक्यं दैर्घ्यं च । या च नम्रता तत्खलस्य
जालस्य च निजाङ्कसुप्तनाशाय । विश्वस्तनाशायेत्यर्थः ॥
वर्षासमये प्रस्थातुमुद्यतं नायकं नायिकासखी वारयति--</p>
<lg>
  <l>विन्ध्यमहीधरशिखरे मुदिरश्रेणीकृपाणमयमनिलः ।</l>
  <l>उद्यद्विद्युज्ज्योतिः पथिकवधायैव शातयति ॥ ५५९ ॥</l>
</lg>
<p>विन्ध्येति । विन्ध्याचलसानौ मेघपङ्क्तिरूपकरवालं स्फुरच्चपलारूपस्फुलिङ्गोद्द्योतशाली
असौ समीरण: पान्थविघातायैव तीक्ष्णीकरोति । विन्ध्यमहीधरशिखर इत्यनेन स्फुट-
दर्शनयोग्यत्वम्, तेन च मद्वचसि न मिथ्यात्वमाशङ्क्यमिति द्योत्यते । मुदिरश्रेणीकृ
पाणमित्यनेनानिवारणीयत्वम्, तेन च स्वसदनावस्थानमेव शरणमित्यावेद्यते । अनिल
इत्यनेन सर्वत्र संचरणयोग्यत्वम्, तेन च प्रतीकारानर्हत्वं व्यज्यते । पथिकवधायैवेत्य-
नेन कार्यान्तराभावः, तेन च कथंचिदपि त्वया न गन्तव्यमित्यावेद्यते ॥
कश्चित्सखायं वक्ति--</p>
<lg>
  <l>व्यालम्बमानवेणीधुतधूलि प्रथममश्रुभिर्धौतम् ।</l>
  <l>आयातस्य पदं मम गेहिन्या तदनु सलिलेन ॥ ५६० ॥</l>
</lg>
<p>व्यालम्बेति । विशेषेणालम्बमाना या वेणी तया दूरीकृतधूलि । आयातस्य । परदे-
शादिति भावः । मम पदं गेहिन्या प्रथमतोऽश्रुभिः क्षालितं पश्चाज्जलेन । एवं च चि-
रप्रवासकरणान्मयि कोपमियं करिष्यतीति भीतिवतोऽपि ममानया चरणप्रणामादिना
साध्वसमपाकृतम् । एतादृशी सरलतरा मम प्रियतमेति ध्वन्यते ॥
विपरीतरतान्तविश्रान्तां नितान्तश्रान्तां कान्तां नायको वक्ति--</p>
<lg>
  <l>वक्षःस्थलसुप्ते मम मुखमुपधातुं न मौलिमालभसे ।</l>
  <l>पीनोत्तुङ्गस्तनभरदूरीभूतं रतश्रान्तौ ॥ ५६१ ॥</l>
</lg>
<pb n="193" />
<p>वक्षःस्थलेति । रतिविरतौ रतिश्रमे वा वक्षःस्थलपरिचयकारिणि मम वदनमुपधातुमु-
पधानीकर्तुं नालभसे, न नम्रीकरोषि, न धारयसीति वा । तत्र हेतुमाह--पीनोच्चकुच-
भरदूरीभूतम् । एवं च त्वन्मौलौ वदनोपधानभवनाभावे न मन्मुखस्यापराधः, किं तु
पीनोच्चत्वत्कुचयोरेवेति भावः । यद्वा मम मुखमुपधानीकर्तुं मस्तकम् । ममेति भावः ।
नालभसे न स्पृशसि । स्प्रष्टुं न शक्नोषीत्यर्थः । न प्राप्नोषीति वा । तत्र हेतुः पीनोत्तुङ्गे-
त्यादि । अथवा मुखं स्वस्येति भावः । स्थापयितुं मम मौलिं न स्पृशसि । किंतु स्पृशेति
भावः । यतस्त्वदीयपीनोच्चकुचान्तरितम् । एवं च कराभ्यां मम मौलिमुन्नमय्य स्ववदनं
स्थापयेति भावः । एवं च चुम्बनौत्कण्ठ्यं स्वस्य च पीनोच्चकुचभारतया मौलेरुन्नमना-
सामर्थ्यं द्योत्यते ॥
कश्चिद्दूतीं वक्ति–-</p>
<lg>
  <l>वदनव्यापारान्तर्भावादनुरक्तमानयन्ती त्वम् ।</l>
  <l>दूति सतीनाशार्थं तस्य भुजंगस्य दंष्ट्रासि ॥ ५६२ ॥</l>
</lg>
<p>वदनेति । हे दूति, वदनव्यापारेण वचनरचनया योऽन्तर्भावः परहृदयप्रवेशस्त-
स्मात्, अनुरक्तमनुरागवन्तम् । पक्षे मुखसंबन्धेन यदन्तःप्रवेशनं तस्मात्, अनु पश्चा-
द्रक्तं रुधिरम् । सतीसमुदायमानयन्ती त्वं तस्य खिड्गस्य सर्पस्य च दंष्ट्रासि । एवं च
वचनरचनया तया तथा हृदयं प्रविश्य पातिव्रत्यभङ्गं विधाय तेन खिड्गेन सह कामिनीस-
मूहं योजयसीति भावः। वदनव्यापारपदेन द्रव्यव्ययाद्यभावो द्योत्यते । सार्थपदेन साम-
र्थ्यातिशयो व्यज्यते । दंष्ट्रापदेन त्वां विना सोऽकिंचित्कर इति ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता वकारव्रज्या ।
---------------------------------
शकारव्रज्या ।
कस्यचिन्नायकस्येतरनायकसाधारण्यमसहमाना काचित्कांचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>श्रीरपि भुजंगभोगे मोहनविज्ञेन शीलिता येन ।</l>
  <l>सोऽपि हरिः पुरुषो यदि पुरुषा इतरेऽपि किं कुर्मः ॥ ५६३ ॥</l>
</lg>
<p>श्रीरपीति । येन सुरतविज्ञेन श्रीरपि । अपिना यदर्थं जगदखिलं यत्नमाचरतीति
ध्वन्यते । सर्पशरीरे शीलिता भुक्ता । भुजंगपदेन भयजनकत्वेऽपि तदभवनेनासक्त्यति-
शयो द्योत्यते । यदि स हरिरपि पुरुषः, इतरेऽपि पुरुषास्तदा किं कुर्मः । एवं चैतादृश-
स्यान्यैः सामान्यैः सह साम्यकरणमनुचितमिति व्यज्यते । यद्वान्योक्त्या कश्चित्कंचन
निन्दति । श्रीरपि लक्ष्मीस्वरूपापि येन खिङ्गेन संभोगविषये । मोहनविज्ञेनेति विपरीत-
लक्षणया सुरतानभिज्ञेन शीलिता कृता । इतरेऽपि यदि पुरुषाः सोऽपि हरिरिव हरिः प-
शुतुल्यः पुरुषस्तदा किं कुर्मः । एवं चैतादृशस्य पुरुषेषु गणना न युक्तेति भावः ॥</p>
<pb n="194" />
<p>मानवतीं सामान्यवनितां सखी वक्ति--</p>
<lg>
  <l>शङ्के या स्थैर्यमयी श्लथयति बाहू मनोभवस्यापि ।</l>
  <l>दर्पशिलामिव भवतीं कतरस्तरुणो विचालयति ॥ ५६४ ॥</l>
</lg>
<p>शङ्क इति । संबुद्धिपदानुपादानं क्रोधमावेदयति । या स्थैर्यप्रचुरा बाहू अपि । अ-
पिना चाटुवचनादिसमुच्चयः । श्लथयति । चालयितुमशक्यत्वादिति भावः । एवं च
करकर्षणादिनापि नेतश्चलतीति क्रोधातिशयवत्तां द्योतयति । मनोभवस्य दर्पशिलामिव ।
मनोभवपदेनाकुण्ठितत्वं ध्वन्यते । भवतीं कतरस्तरुणो विचालयति । न कोऽपीत्यर्थः ।
इति शङ्के । एवं चैतादृशकोपकरणे कस्त्वामनुरञ्जयिष्यतीति ध्वन्यते । यद्वा मनोभव-
स्येति बाहू इत्यत्रान्वेति ॥
नायिकासखी नायकमन्योक्त्या वक्ति--</p>
<lg>
  <l>शार्दूलनखरभङ्गुर कठोरतरजातरूपरचनोऽपि ।</l>
  <l>बालानामपि बाला सा यस्यास्त्वमपि हृदि वससि ॥ ५६५ ॥</l>
</lg>
<p>शार्दूलेति । हे व्याघ्रनखकुटिल, अथ च शार्दूलनखवत्कुटिल । तथाविधाचरणव-
त्त्वादिति भावः । कठिनतरजातरूपस्य सुवर्णस्य रचना यस्मिन् । अथ च जाता रूपस्य
रचना यस्य । सौन्दर्यशालिन्यपि । त्वमपि । अपेरितरभूषणसमुच्चयो निन्द्यत्वं चार्थः ।
यस्या हृदि वससि । भूषणरूपतयेति भावः । अथ च तस्यास्त्वदासक्तत्वादिति भावः ।
सा बालानामपि मध्ये बाला । अतिबालिका । अत्यन्तमुग्धेति भावः । सुवर्णयुतव्याघ्र-
नखं बालहृदि भूषणं भवतीति भावः । एवं चैतादृशे कौटिल्यादिशालिनि सौन्दर्यवत्त्वे-
ऽप्यासक्तिसंपादने कथमिव मौर्ख्यं न भवतीति भावः । यद्वा जाता रूपस्य रचना
यस्याः । एतादृश्यपि तारुण्यशालिन्यपि सात्यन्तबालिकैवेत्यर्थः । इतरत्पूर्ववत् ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>श्रुत एव श्रुतिहारिणि रागोत्कर्षेण कण्ठमधिवसति ।</l>
  <l>गीत इव त्वयि मधुरे करोति नार्थग्रहं सुतनुः ॥ ५६६ ॥</l>
</lg>
<p>श्रुत एवेति । श्रवणसमय एव कर्णसुखजनके । पक्षे श्रुतिभिर्मनोहारिणीति वा । प्री-
त्युत्कर्षेण । पक्षे श्रीरागाद्युत्कर्षेण । कण्ठमधिवसति । त्वन्नाम्नैव सर्वत्र सख्यादिष्वपि
सा व्यवहरतीति भावः । पक्षे व्यक्तीभवतीत्यर्थः । मधुरे सुन्दरे । पक्षे माधुर्यशालिनि ।
गीत इव । द्रव्यग्रहम् । पक्षेऽभिप्रायगृहम् । सुतनुः । एवं च स्पृहणीयत्वमावेद्यते । न
करोति । एवं च नायिका न द्रव्यादिना त्वय्यनुरक्ता, किंतु त्वदीयसौन्दर्यादिगुणोत्कर्षे-
णेति भावः ॥
समीचीनसमताङ्गीकारे सम्यगेव फलं भवतीति कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>श्रीः श्रीफलेन राज्यं तृणराजेनाल्पसाम्यतो लब्धम् ।</l>
  <l>कुचयोः सम्यक्साम्याद्गतो घटचक्रवर्तित्वम् ॥ ५६७ ॥</l>
</lg>
<pb n="195" />
<p>श्रीरिति । कुचयोरल्पसाम्याच्छ्रीफलेन बिल्वफलेन श्रीर्लब्धा । तृणराजेन तालेन
राज्यं लब्धम् । सम्यक्साम्याद्धटश्चक्रवर्तित्वं चक्रसंबन्धित्वं सार्वभौमत्वं च गतः प्राप्तः ।
एवं च नीचानुकरणमनुचितमिति ध्वन्यते ॥
काचित्सखीं वक्ति--</p>
<lg>
  <l>श्रोणी भूमावङ्के प्रियो भयं मनसि पतिभुजे मौलिः ।</l>
  <l>गूढश्वासो वदने सुरतमिदं चेत्तृणं त्रिदिवम् ॥ ५६८ ॥</l>
</lg>
<p>श्रोणीति । भूतले नितम्बः । चलनज्ञानाभावार्थमिति भावः । चित्ते भीतिः। कदा-
चित्पतिना ज्ञेयमिति धियेति भावः । उत्सङ्गे प्रियः । जार इत्यर्थः । पतिभुजे मौलिः ।
पातीति व्युत्पत्त्या रक्षणमात्रकारित्व स्वभावेनान्धकारेऽपि करादिव्यापारेण ज्ञास्यतीति
धियेति भावः । मुखे गुप्तः श्वासः । पतिश्रवणभियेति भावः । इदम् । एतादृशमित्यर्थः ।
चेद्यदि सुरतम् । लभ्यत इति भावः । सुशब्देनान्यादृशरतेऽसमीचीनत्वमावेद्यते । तदा
त्रिदिवं स्वर्गस्तृणतुल्यः । अगणनीय इत्यर्थः । एवं चैतादृशसुरतवत्यो यास्ताः पुण्याति-
शयशालितया धन्याः, तदभावादहमधन्येति ध्वन्यते । तेन चैतादृशरतार्थं यतस्वेति ॥
नायकः सखायं वक्ति--</p>
<lg>
  <l>श्लिष्यन्निव चुम्बन्निव पश्यन्निव चोल्लिखन्निवातृप्तः ।</l>
  <l>दधदिव हृदयस्यान्तः स्मरामि तस्या मुहुर्जघनम् ॥ ५६९ ॥</l>
</lg>
<p>श्लिष्यन्निति । आलिङ्गन्निवेत्यादयः स्मृतिप्रकाराः । अतृप्तत्वं स्मृतौ हेतुः ॥
कुपितां नायिकां नायकसखी वक्ति--</p>
<lg>
  <l>शिरसि चरणप्रहारं प्रदाय निःसार्यतां स ते तदपि ।</l>
  <l>चक्राङ्कितो भुजंगः कालिय इत्र सुमुखि कालिन्द्याः ॥ ५७० ॥</l>
</lg>
<p>शिरसीति । हे सुमुखि । एवं च परुषभावित्वाभावो व्यज्यते । मस्तके पादप्रहारं
दत्त्वा त्वया दूरीक्रियताम् । कालिन्द्याः कालिय इव । तथापि चक्रेण त्वच्चरणसंबन्धि-
नेत्यर्थः । चिह्नितः । पक्षे सुदर्शनचक्रेणाङ्कितः । यमुनातो निःसार्य सागरावस्थितौ गरु-
डभयनिवारणार्थं कालियस्य चक्रचिह्नं कृतमिति पौराणिकाः । स भुजंगः खिङ्गः । पक्षे
सर्पः । ते। तवैवेत्यर्थः । एवं च त्वया कोपे कृतेऽपि स न कुपितो भवतीति व्यज्यते ।
यद्वा सखी नायिकामुपदिशति । हे सुमुखि । एवं चोपदेशार्हत्वमावेद्यते । यद्यपि चक्रेण
जनसंरक्षणेन चिह्नितः। 'जनावने समूहे च दम्भे भेदरथाङ्गयोः । शस्त्रभेदे च सेनायां चक्रं
चापि विहंगके ॥' इत्यभिधानात् । खिड्गस्तथापि त्वया शिरसि पादप्रहारं दत्त्वा सते सदर्थं
निःसार्यताम् । एवं च यद्यप्यनेन बहु दीयते तथाप्यपकीर्तिर्भूयसी भवतीत्यतस्त्वं सामी-
चीन्यार्थमेनं सनिकारं दूरीकुरुष्वेति भावः ॥</p>
<pb n="196" />
<p>नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>शोच्यैव सा कृशाङ्गी भूतिमयी भवतु गुणमयी वापि ।</l>
  <l>स्नेहैकवश्य भवता त्यक्ता दीपेन वर्तिरिव ॥ ५७१ ॥</l>
</lg>
<p>शोच्यैवेति । हे स्नेहेन प्रीत्या न तु गुणैर्मुख्यवश्य । एवं च बहुतरतदीयगुणेषु दृष्टि-
मदत्त्वा स्नेहमात्रमपेक्षस इत्यनुचितं तवेति ध्वन्यते । पक्षे तैलेन । दीपेन वर्तिरिव त्वया
परित्यक्ता सा कृशाङ्गी । एवं च सौन्दर्यवत्त्वमावेद्यते । कृशाङ्गीति वर्तिविशेषणमपि ।
भूतिरैश्वर्यम् । पक्षे भस्म । तत्प्रचुरा । गुणाः सौन्दर्यादयः । पक्षे तन्तवः । तत्प्रचुरा
वा भवतु । परं तु शोच्यैव । एवं च त्वया तस्यां परित्यक्तायामैश्वर्यं गुणादिकं च
तस्याः सर्वमकिंचित्करमेवेति व्यज्यते । तेन च तदीयगुणादिमात्रमवेक्ष्य त्वया तदीया-
नुरञ्जनं विधेयमिति।यद्वैश्वर्यगुणाद्युत्कर्षवशानायकं प्रत्यप्रीतिकारिणीं नायिकामालोक्य
नायकसखी नायकं वक्ति – हे स्नेहैकवश्य । एवं च तव नान्यापेक्षेति व्यज्यते । भवता
परित्यक्ता सा ऐश्वर्यसौन्दर्ययुक्तापि शोच्यैव । एवं च तस्याः संपत्तिसौन्दर्यादिमत्तया
मत्परित्यागेऽपि न किंचिद्दुःखं भविष्यतीति मनसि न विधेयं त्वयेति ध्वन्यते । तेन च
किंचित्कालं त्वया परित्यक्ता सा स्वयमेव त्वामनुनेष्यतीति ॥
कश्चित्सखायं वक्ति--</p>
<lg>
  <l>शुक इव दारुशलाकापञ्जरमनुदिवसवर्धमानो मे ।</l>
  <l>कृन्तति दयिताहृदयं शोकः स्मरविशिखतीक्ष्णमुखः ॥ ५७२ ॥</l>
</lg>
<p>शुक इति । प्रतिदिवसं वृद्धिमान्, कंदर्पबाणैर्निशितः । दुःखद इति यावत् । मुख-
मारम्भो यस्य सः । पक्षे मदनविशिखीभूतकिंशुकवत्तीक्ष्णवदनः । मे शोकः प्रियतमाहृ-
दयं काष्ठशलाकापञ्जरं शुक इव । दारुपदेन च्छेदनार्हत्वं द्योत्यते । छेदयति। एवं च
न मया परदेशे स्थेयमिति ध्वन्यते ॥
काचित्क्रांचिद्वक्ति--</p>
<lg>
  <l>श्रुत्वाकस्मिकमरणं शुकसूनोः सकलकौतुकैकनिधेः ।</l>
  <l>ज्ञातो गृहिणीविनयव्यय आगत्यैव पथिकेन ॥ ५७३ ॥</l>
</lg>
<p>श्रुत्वेति । पथिकेन निखिलकौतुकस्थानस्य शुकरूपो यः सूनुस्तस्य । एवं चातिस्ने-
हृपात्रत्वं द्योत्यते । तेन च मारणानर्हत्वम् । तत्वेऽपि तत्करणेऽत्यन्तानुचितकार्यकर्तृत्वं
नायिकायामभिव्यज्यते । आकस्मिकं यन्मरणम् । एवं च रोगाद्यनुत्पत्त्यानया मारित
इति ध्वन्यते । श्रुत्वा । गृहिण्याः । एवं चान्यानिवारणीयत्वारक्षणीयत्वादि व्यज्यते ।
विनयनाशः । अकार्यकरणमित्यर्थः । आगमनोत्तरमेव । एवकारेण दास्याद्यकथितत्वं
विनयव्यये व्यज्यते । ज्ञातः । एवं च किमकार्यं प्रमदानामिति ध्वन्यते । केचित्तु शुक-
सूनुरित्यस्य शुकबालक इत्यर्थमाहुः ॥</p>
<pb n="197" />
<p>दूती नायिकां वक्ति--</p>
<lg>
  <l>शीलितभुजंगभोगा क्रोडेनाभ्युद्धृतापि कृष्णेन ।</l>
  <l>अचलैव कीर्त्यते भूः किमशक्यं नाम वसुमत्याः ॥ ५७४ ॥</l>
</lg>
<p>शीलितेति । अङ्गीकृतसर्पशरीरा । आधारतयेति भावः । अथ च कृतखिङ्गसंभोगा ।
कृष्णेन परमेश्वरेण क्रोडेन वराहरूपेण निष्कासितापि । अथ च दुष्टेन भुजाभ्यन्तरेणा-
लिङ्गितापि । भूः पृथ्वी । अथ च भवन्त्यपराधा बहवो यस्याः सकाशात्सा । अचलैव ।
अथ च चाञ्चल्याभाववत्येव । कीर्त्यते । अत्र हेतुमाह--नामेति निश्चयेन वसुमत्याः ।
अथ च संपत्तिशालिन्याः । किमशक्यम् । न किमपीत्यर्थः । एवं च धनवत्यास्तव न
किमप्ययशः संभवीत्यतो मदुक्तनायकेन संगतिं कुरुष्वेति ध्वन्यते ॥
पूर्वनायिकासखी नायकं वक्ति--</p>
<lg>
  <l>श्यामा विलोचनहरी बालेयं मनसि हन्त सज्जन्ती ।</l>
  <l>लुम्पति पूर्वकलत्रं धूमलता भित्तिचित्रमिव ॥ ५७५ ॥</l>
</lg>
<p>श्यामेति । श्यामा षोडशवार्षिकी । पक्षे श्यामरूपा । विलोचनहरी लोचनयोः स्व-
स्मिन्नासक्तिसंपादिका । तारुण्यवत्त्वादिति भावः । एवं चैतस्यास्तारुण्यवशादेव सौन्दर्यं
न स्वाभाविकमिति व्यज्यते । पक्षेऽश्रुसंपादकतया नेत्रहरत्वम् । मनसि लग्ना । अत्र
तवेति पदानुपादानं सखीगतदुःखोद्रेकं व्यञ्जयति । इयं बाला । धूमपरम्परा । लतापदं
मालिन्यातिशयजनकतामावेदयति । भित्तिस्थचित्रमिव पूर्वकलत्रं लुम्पति । हन्तेति
खेदे । एवं चैतादृशानुचितमन्यत्रेति भावः । पूर्वकलत्रस्य चित्रोपमानतया स्वाभाविक-
सौन्दर्यवत्त्वं बहुभाषित्वाभावश्च द्योत्यते । बालायाश्च धूमलतोपमानतया मालिन्यसं-
पादकताप्रदर्शनेनासतीकार्यकरणत्वमावेद्यते । आर्थिकभित्त्युपमानतया मनसिजदुःखं
ध्वन्यते । तेन वास्तवसमीचीनज्ञानविधुरत्वम् । लुम्पतीत्यत्र काक्वा सखीप्रश्न इत्यपि
भाति । अथवा काक्वा न लुम्पतीत्यर्थः । पूर्वकलत्रस्नेहस्यातिदृढत्वादिति भावः ॥
प्रस्थितस्त्वं किमिति स्थितोऽसीति पृष्टः कश्चित्सखायं वक्ति--</p>
<lg>
  <l>शतशो गतिरावृत्तिः शतशः कण्ठावलम्बनं शतशः ।</l>
  <l>शतशो यामीति वचः स्मरामि तस्याः प्रवासदिने ॥ ५७६ ॥</l>
</lg>
<p>शतश इति । अनेकवारं गमनमनेकवारं परावृत्तिश्च । सर्वथा गमने नायिका मद्वि-
रहदहनदग्धा सती प्राणानेव त्यक्ष्यतीति धियेति भावः । अत एव वारंवारं गाढालि-
ङ्गनम् । अचिरेणैवागमिष्यामि दुःखं मा कुरुष्वेत्यनुनयार्थमिति भावः । तथानेकवारं
गच्छामीति वचनम् । त्वदाज्ञा चेद्गच्छामि, नो चेन्न गच्छामीत्येवंविधम् । एवं च नायके
·नायिकाज्ञावशवर्तित्वं तेन चायन्तासक्तिमत्त्वं तेन च प्रणयभङ्गभीरुत्वमावेद्यते । प्रस्था-
नकाले इदं सर्वं तस्याः । तां प्रति स्वकृतमित्यर्थः । स्मरामि । एवं च तत्कालीनावस्था-
स्मरणसंजातवैकल्यविवशहृदयोऽहं गन्तुं न शक्नोमीति भावः । यद्वा प्रवास दिवसे तस्या</p>
<pb n="198" />
<p>नायिकाया अनेकगमनादिकं स्मरामि । एवं च तदीयतत्कालीनतादृशावस्थास्मरणेन
न मयात्र स्थातुं शक्यमिति नायकः सखायं वक्ति ॥
नायिकायास्तावदनुनयेऽपि समधिकतरमानभवनमवलोक्याभिमानितयोदासीनं ना-
यकमवलोक्य प्रशिथिलमानां कया रीत्यानुनेतव्योऽयमिति विचारयन्तीं नायिकां
सखी वक्ति--</p>
<lg>
  <l>श्रुतपरपुष्टरवाभिः पृष्टो गोपीभिरभिमतं कृष्णः ।</l>
  <l>शंसति वंशस्तनितैः स्तनविनिहितलोचनोऽनुमतम् ॥ ५७७ ॥</l>
</lg>
<p>श्रुतेति । श्रुतकोकिलरुताभिर्गोपीभिरीप्सितं पृष्टः कृष्णो वंशीरवैः कुचविनिहितन-
यनः स्वाभिमतम् । आलिङ्गनरूपमिति भावः । कथयति । गोपीपदमज्ञवं ध्वनयति
कृष्णपदं कर्षति चित्तमिति व्युत्पत्त्या स्वचित्तस्य पराधीनताभावकर्तृत्वमावेदयति ।
एवं च चातुर्याभाववत्यो गोपाङ्गना अप्यनासक्तं परमेश्वरमेवंरीत्या स्वयमेव स्ववशतां
नयन्तीति भावः । एवं चैतादृशवसन्तसमये चतुरया त्वया विषयरसलम्पटो नायकः
कयाचन रीत्या कथं न स्वाधीनतां नेतुं शक्य इति व्यज्यते । कोकिलायाः प्रथमं रवश्र-
वणे मित्त्रस्य यदभीष्टं तत्पृष्ट्वा प्रदेयमेवेति लौकिकम् । यद्वा वसन्तसमये परदेशगमनम-
नुचितमिति कश्चित्कंचिद्वक्ति--परपुष्टा इव परपुष्टा दूतीसदृशाः कोकिला इत्यर्थः ।
तच्छब्दश्रवणाद्गोपीभिरविदग्धाभिरभिमतम् । स्वस्येति भावः । कृष्णः । एवं च मलि-
नत्वं ध्वन्यते । पृष्टः स च वंशीरवैः । एवं च गोपनमभिव्यज्यते । तेन च पुरुषे धैर्य-
मङ्गनास्वधैर्यमिति । कुचदत्तनेत्रोऽनुमतं पृष्ठेऽर्थे संमतं वक्ति । एवं च वसन्ते मौढ्यशा-
लिन्योऽप्यङ्गनाः प्रमत्ततया समीचीनपुरुषविवेकमपास्यान्यथाचरणप्रवणा भवन्ति, किं
पुनः सकलविज्ञा इति भावः ॥
नायकप्रेमातिशयशालिन्यहमित्यभिमानशालिनीं नायिकामन्योक्त्या परनायिकासखी
वक्ति -</p>
<lg>
  <l>शंकरशिरसि निवेशितपदेति मा गर्वमुद्वहेन्दुकले ।</l>
  <l>फलमेतस्य भविष्यति तव चण्डीचरणरेणुमृजा ॥ ५७८ ॥</l>
</lg>
<p>शंकरेति । हे इन्दुकले, शंभुशिरसि स्थापितचरणेति हेतोरभिमानं मा उद्वह। कि-
मितीत्यत आह - तवैतस्य । गर्वस्येत्यर्थः । चण्डीचरणधूलिभिर्मार्जनरूपं फलं भवि-
ष्यति । एवं च चण्डीं मानवतीमालोक्य शंकरेण चरणप्रणामे क्रियमाणे चरणरेणुमार्जनं
भवतीति भावः । एवं च कुपिता मुत्सखी त्वां ताडयिष्यतीत्यत ईदृशगर्वं मा विधेहीति
ध्वन्यते ॥
कथं मयानया सह सबाधकेऽस्मिन्नेव स्थले स्थेयमिति चिन्ताव्याकुलं नायकं तत्रैव
स्थापयितुं नायिकादूती कयापि भङ्ग्या वक्ति--</p>
<lg>
  <l>शाखिशिखरे समीरणदोळायितनीडनिर्वृतं वसति ।</l>
  <l>कर्मैकशरणमगणितभयमशिथिलकेलि खगमिथुनम् ॥ ५७९ ॥</l>
</lg>
<pb n="199" />
<p>शाखीति । वृक्षशिरसि । शाखिपदं घनतरच्छायावत्त्वं ध्वनयति । तच्चानेकजनाकी-
र्णत्वम् । शिखरपदं पतनार्हत्वं गमयति । समीरणचलकुलायसुखितम् । समीरणपदम-
निवारणीयतां द्योतयति । दोलायितपदं पतनभीतिमावेदयति । कर्मैकशरणम् । एवं च
दृष्टोपायविचारविधुरत्वं ध्वन्यते । अगणितभयम् । एवं च भयवत्त्वेऽपि तदगणनेनाति-
साहसवत्त्वं द्योत्यते । अशिथिलकेलि । एवं च सर्वथा चिन्ताशून्यत्वं व्यज्यते । खगमि-
थुनम् । खे गच्छतीति व्युत्पत्त्यान्यत्र गमनसामर्थ्येऽप्यगमनेन निजवसतावतिशयित-
प्रेमवत्त्वं ध्वन्यते । तेन चापरित्याज्यत्वम् । एवं चान्यत्र गन्तुं समर्थः खगोऽपि प्राक्तन-
कर्मभोगस्यापरिहार्यत्वमाकलय्य स्ववसतिं बाधकवत्त्वेऽप्यपरित्यजन्क्रीडापरवशतयैव का-
लमतिवाहयति कथं पुनर्भवान्विवेकवान्महावीरोऽत्रयभीत्या स्थलं परित्यक्तुं विचारयती-
त्यनुचितं तवेत्यतः सुखेनानया सहात्र सुरतसुखमनुभवंस्तिष्ठेति ध्वन्यते । नायिका ना-
यकचित्तं व्याक्षिपतीति ऋजवः ॥
प्रतिबन्धवशात्संकेतानागमनेन कुपितं स्वकुटुम्बकान्तिकवर्तिनं नायकमन्योक्त्या
स्वापराधक्षमापनपुरःसरं संकेतं वक्ति--</p>
<lg>
  <l>शुक सुरतसमरनारद हृदयरहस्यैकसार सर्वज्ञ ।</l>
  <l>गुरुजनसमक्षमूक प्रसीद जम्बूफलं दलय ॥ ५८० ॥</l>
</lg>
<p>शुकेति । ज़ुक । एवं च वचनरचनानिपुणत्वं ध्वन्यते । सुरतरूपसङ्ग्रामे नारद तद्व-
र्धक । सङ्ग्रामपदेन निर्दयत्वं द्योत्यते । एवं च कामतन्त्राभिज्ञत्वमावेद्यते । यद्वात्यन्त-
रताभिलाषित्वमावेद्यते । हृदये । ममेति भावः । यानि गोप्यवस्तूनि तेषु सार मुख्यभूत ।
एवं च त्वदेकतानतापन्नाहमिति व्यज्यते । इदं त्वयापि विज्ञायत एवेत्याह– सर्वज्ञ ।
एवं च मदीयप्रेमातिशयाज्ञाने सर्वज्ञत्वं व्याहन्येतेति भावः । यद्वा 'सुरतसमरनारदहृदय'
इत्येकं पदम् । एवं च सर्वदा सुरतप्रकारचिन्तनकारित्वमावेद्यते । अथवा नारदपदस्य
शरीरावच्छिन्नात्मनि शक्त्या कदाचिच्छरीरस्य तूष्णींभावभवनार्हतया हृदयस्य तु तद-
भाववत्तयातिशयितसुरतसामर्थ्यवत्त्वमावेद्यते । रहस्यरूपः सन्मुख्यसाररूप । एवं च
त्वदतिरिक्तं ममान्यन्न रहस्यमिति भावः । यद्वा सर्वज्ञान्तमेकं पदम् । तथा च हृद्गतरह-
स्यजातप्रधानभूतस्यातिगोप्यत्वेऽपि तव तज्ज्ञानवत्त्वे संकेतस्थलं प्रति मदनागमनहेतुभू-
तश्वश्र्वादिनिर्भर्त्सननिवारणरूपस्य ज्ञानवत्त्वं सुकरमिति ध्वन्यते । गुरुजनसमक्षे मूक ।
एवं च सर्वदा संनिहितत्वेऽपि श्लेषकाक्कादिनापि श्वशुरादिसंनिधौ वार्ताद्यकरणेन धै-
र्यवत्त्वमावेद्यते । यद्वा गुरुर्जडः । रहस्यकारणानभिज्ञ इति यावत् । यो जनः । अर्था-
त्स्वीयो मदीयो वा । तत्समक्षमूक । एवं च स्वीयत्वेऽपि रहस्यकथनानर्हता विचारका-
रितयातिशयितविवेकित्वमावेद्यते । प्रसीद । जम्बूफलं दलय । एवं च प्राक्तनमदी-
यसंकेतभङ्गापराधमवगणय्येदानीं जम्बूवृक्षाधस्त्वया स्थेयम्, मयाप्यागम्यत एव झटिति
तत्रेति ध्वन्यते । एवं च फलमित्येकवचनं सहृदयम् । यद्वा संकेतगमनजनितविलम्बव-
शात्समये भक्ष्याप्राप्त्या क्षुधितं शुकमवलोक्य ममाविनयमयं गुरुजनाय निवेदयिष्यतीति</p>
<pb n="200" />
<p>भीता नायिका तं प्रसादयितुं वक्ति--शुकेति । कीरपदं विहाय शुकपदोपादानेन व्या-
सात्मजशुकाभेदबोधनेन क्रोधाभावौचित्यमावेद्यते । सुरतसङ्ग्रामनारद । एवं च यथा
तव सुरतसङ्ग्राम एव प्रियो न तथा भोजनमिति ज्ञानवशान्मया गतमिति भावः । एवं च
त्वदीयवचनरूपोद्दीपनवशादेव मया संकेते गतम्, अतो नायं ममापराध इति व्यज्यते । यद्वा
त्वदीयप्रियसंपादनाय गतायां मयि क्रोधकरणमनुचितं तवेति व्यज्यते । एवं च नारद-
र्ष्यभेदप्रतिपादनेनापि कोपकरणानौचित्यं ध्वन्यते । हृदयरहस्यैकसारसर्वज्ञ । एवं च
मदीयमनोजपीडाज्ञानवत्त्वेऽपि तत्प्रतीकाराय गतायां मयि कोपकरणं तव कथं नामौचि-
तीमावहतीति भावः। सर्वज्ञपदेन बुद्धाभेदप्रतिपादनेन हिंसामात्रस्याधर्मसाधनत्वसमर्थन-
प्रवणस्य तव कोपकरणेन मन्मरणमेव भविष्यतीत्यतस्तदकरणमेव तवोचितमित्यावेद्यते ।
यद्वा सर्वज्ञपदेन परमेश्वराभेदप्रतिपादनेन मम त्वदतिरिक्तं नान्यदुपास्यमस्तीति ध्वन्यते ।
तेन च मत्कृतापराधक्षमार्हत्वम् । यद्वान्तर्यामित्वेन मदीयमन्मथवेदना ज्ञानवत्त्वं तवेति
द्योत्यते । गुरुजनसमक्षमूकेत्यनेन गुरुजनसमक्षं वचनसामान्याभाववत्तया मत्कृतापराध-
कथनस्यासंभाव्यतया कोपफलाकरणेन निरर्थकतत्करणमनुचितमिति ध्वन्यते । अतः
प्रसीद जम्बूफलं दलय । एवं च न केवलं मया स्वार्थ एव कृतः, परं त्वदर्थोऽपि संपा-
दित इति व्यज्यते ॥
बहुतरपरिग्रहाभावेऽप्यतितृष्णाशालिनं कंचन कश्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>शिरसा वहसि कपर्दं रुद्र रुदित्वापि रजतमर्जयसि ।</l>
  <l>अस्याप्युदरस्यार्धं भजतस्तव वेत्ति कस्तत्त्वम् ॥ ५८१ ॥</l>
</lg>
<p>शिरसेति । हे रुद्र, शिरसा कपर्दं जटाजूटमथ च वराटिकां वहसि । रोदनं कृत्वापि
रजतमर्जयसि । 'सोऽरोदीद्यदरोदीत्तद्रुद्रस्य रुद्रत्वम्' इत्याद्यर्थवादाद्रुद्ररोदनाद्रजतोत्पत्ति-
रिति । यद्यपि 'अग्नौ वामं वसु च संदधत' इत्यग्निरोदनाद्रजतोत्पत्तिस्तथाप्यष्टमूर्तितया-
ग्निरूपो रुद्र इत्यर्थः । अस्य । एवं चापलापानर्हत्वं ध्वन्यते । उदरस्यार्धं समांशकम् ।
'अर्धं समेंऽशके' इत्यमरः । एवं च विभागकाले किंचिदधिकाग्रहणेनातिकृपणत्वं ध्वन्यते ।
भजतोऽपि तत्त्वं को वेत्ति । न कोऽपीत्यर्थः । एवं च परिग्रहभावेऽतिदैन्यादिना द्रव्या-
र्जनकरणमनुचितमिति व्यज्यते ॥
कश्चित्कांचित्सामान्यवनितामन्योक्त्या वक्ति--</p>
<lg>
  <l>श्रोतव्यैव सुधेव श्वेतांशुकलेव दूरदृश्यैव ।</l>
  <l>दुष्टभुजंगपरीते त्वं केतकि न खलु नः स्पृश्या ॥ ५८२ ॥</l>
</lg>
<p>श्रोतव्यैवेति । हे केतकि, दुष्टसर्पव्याप्ते, नोऽस्माकं त्वं निश्चयेन स्पृश्या न । किं तु
सुधेव श्रोतव्यैव । न तु ग्रहीतुं शक्येत्यर्थः । तत्रापि भुजंगसंरक्षणस्य सत्त्वादिति भावः ।
सुधाश्वेतांशुकलयोः केतक्युपमानत्वे गौरत्वं समानो धर्मः । एवं च सर्वथा स्पृहणीयत्वे-
ऽपि विटनैकट्येन दुर्घटा त्वत्संगतिरस्माकमिति व्यज्यते । यद्वा सुधेव श्रोतव्यैवेति</p>
<pb n="201" />
<p>काक्वा नेत्यर्थः । किं तु दृश्यादृश्यत्वेऽपि चन्द्ररेखेव दूरदृरैयवेति काक्वा नेत्यर्थः । किं
तु निकटदृश्या । एवं चेन्न कुतः संगतिं संपादयसीत्यत्राह--दुष्टसर्पव्याप्ते केतकि, त्वं नो
न स्पृश्या । एवं च जीवनदाननिदानतापापनोदनस्वरूपायास्तव नैकट्येऽपि खिड्गभिया
नास्माकमागमनं भवतीति व्यज्यते ॥
नायको नायिकादूतीं वक्ति--</p>
<lg>
  <l>श्रवणोपनीतगुणया समर्पयन्त्या प्रणम्य कुसुमानि ।</l>
  <l>मदनधनुर्लतयेव त्वया वशं दूति नीतोऽस्मि ॥ ५८३ ॥</l>
</lg>
<p>श्रवणेति । गुणः सौन्दर्यादिः । अर्थान्नायिकायाः । ज्या च । नमस्कृत्य । नमनं
प्राप्य च । पुष्पाणि । अर्थान्नायिकाप्रेषितानीति भावः । मदनबाणानां पुष्पमयत्वाच्च ।
समर्पयन्त्या मदनधनुर्लतयेव हे दूति, त्वया स्वाधीनतां प्रापितोऽस्मि । एवं च मया-
वश्यमागम्यत एवेति व्यज्यते ॥
कश्चित्कंचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>शाखोटकशाखोटजवैखानस करटपूज्य रट सुचिरम् ।</l>
  <l>नादरपदमिह गणकाः प्रमाणपुरुषो भवानेकः ॥ ५८४ ॥</l>
</lg>
<p>शाखोटकेति । शाखोटकस्य वृक्षविशेषस्य शाखायामुटजं पर्णशाला तत्संबन्धिनो ये
मुनयः काकास्तेषु पूज्य । काक श्रेष्ठेति यावत् । यद्वा संबुद्धित्रयम् । चिरकालं रट ।
यत इह दैवज्ञा आदरस्थानं न । भवानेव प्रमाणपुरुषः । शुभाशुभनिर्णयार्थमिति भावः ।
एवं च त्वादृशमूर्खाधिष्ठितैतादृशस्थले नास्मादृशां विदुषां वचसामवकाश इति ध्वन्यते ॥
कस्यचिहूती कांचिद्वक्ति--</p>
<lg>
  <l>शशिरेखोपमकान्तेस्तवान्यपाणिग्रहं प्रयातायाः ।</l>
  <l>मदनासिपुत्रिकाया इवाङ्गशोभां कदर्थयति ॥ १८५ ॥</l>
</lg>
<p>शशीति । चन्द्रकलोपमेयशोभायाः । यद्वा चन्द्राङ्गश्रीसदृशशोभायाः । एवं च नि-
ष्कलङ्कतया तदुपमानत्वं युक्तमित्यावेद्यते । 'अङ्गश्रीः कथ्यते रेखा' इत्यभिधानात् ।
अन्यस्य पाणिग्रहं प्राप्तायास्तव मदनच्छुरिकाया इवावयवशोभां कदर्थयति कदर्थयि-
ष्यति । अन्यो नायक इति शेषः । एवं च मदुक्तनायकस्यैव त्वया संगतिः कर्तव्या ना-
न्यस्येति व्यज्यते । तेन च तस्मिन्सौन्दर्यातिशयः । वक्रापि च्छुरिका भवतीति चन्द्र-
रेखोपमानता । द्वितीयव्याख्यायां न कश्चिद्दोषः ॥
समीचीनवृत्तैरेव स्वामिकार्यार्थमाग्रहः क्रियते नान्यैरिति कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>शैथिल्येन भृता अपि भर्तुः कार्यं त्यजन्ति न सुवृत्ताः ।</l>
  <l>बलिनाकृष्टे बाहौ वलयाः कूजन्ति धावन्ति ॥ ५८६ ॥</l>
</lg>
<p>शैथिल्येनेति । मान्द्यव्याप्ता अपि । अथ च श्लथत्ववन्तोऽपि । समीचीनवृत्तशालिनः ।</p>
<pb n="202" />
<p>अथ च वर्तुलाः । पोषकस्य । अथ च धारकस्य । कृत्यं न त्यजन्ति । अर्थान्तरन्यास-
माह--बलवता । एवं च निवारणानर्हत्वं ध्वन्यते । हस्त आकृष्टे कङ्कणानि धावन्ति
शब्दं कुर्वन्ति च । एवं च सुवृत्तत्वादचेतना वलया अप्येवमाचरन्ति तत्र का वार्ता स-
चेतसामिति भावः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गयार्थदीपनया समेता शकारव्रज्या ।
------------------------------------
षकारव्रज्या ।
नायको नायिकां वक्ति--</p>
<lg>
  <l>षट्चरणकीटजुष्टं परागघुणपूर्णमायुधं त्यक्त्वा ।</l>
  <l>त्वां मुष्टिमेयमध्यामधुना शक्तिं स्मरो वहति ॥ ५८७ ॥</l>
</lg>
<p>षट्चरणेति । भ्रमररूपकीटसेवितम् । मदनधनुर्मौर्व्या मधुकररूपत्वादिति भावः । प-
रागः पुष्परजस्तद्रूपकाष्ठचूर्णपूर्णम् । मदनधनुषः पुष्परूपत्वादिति भावः । आयुधम् ।
शरासनमित्यर्थः । त्यक्त्वा । स्मरोऽधुना मुष्टिना मेयो मध्यो यस्यास्ताम् । कृशत्वादिति
भावः । त्वां शक्तिं त्वद्रूपां शक्तिं वहति । एवं च त्वामासाद्याधुना मदनवीरोऽतिप्रबलः
संवृत्त इति ध्वन्यते । 'वहतु' इति पाठे जातयौवनां त्वामासाद्य कंदर्प इदानीं जगज्जयं
करिष्यतीति ध्वन्यते ॥
इत्यनन्तपण्डितकृतगोवर्धन सप्तशतीव्यङ्ग्यार्थदीपनया समेता षकारव्रज्या ।
---------------------------------
सकारव्रज्या ।
सपत्नीदुःखदुःखितां नायिकां नायकसखी वक्ति--</p>
<lg>
  <l>सा दिवसयोग्यकृत्यव्यपदेशा केवलं गृहिणी ।</l>
  <l>द्वितिथेर्दिवसस्य परा तिथिरिव सेव्या निशि त्वमसि ॥ ५८८ ॥</l>
</lg>
<p>सेति । सा नायिका दिनयोग्यकार्यकरणात्तस्य केवलं गृहिणी । तिथिद्वयवतो दिवसस्य
संबन्धिनीं द्वितीयतिथिरिव रात्रौ त्वं सेव्यासि । गृहकार्यार्थमेव केवलं सा, त्वं तु सुरतसु-
खार्थमिति भावः । एवं च तस्यामीर्ष्या न विधेयेति ध्वन्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>स्तननूतननखलेखालम्बी तव घर्मबिन्दुसंदोहः ।</l>
  <l>आभाति पट्टसूत्रे प्रविशन्निव मौक्तिकप्रसरः ॥ ५८९ ॥</l>
</lg>
<p>स्तनेति । त्वदीयस्तनसंबन्धितात्कालिकनखरेखालम्बी स्वेदबिन्दुसमूहः पट्टसूत्रे प्र-
विशन्मौक्तिकप्रकृष्टसर इव शोभते । नूतनपदेन नखरेखायामारक्तत्वं ध्वन्यते । एवं चे-
दानींतनसुरतेन तवातिशयशालिशोभा संवृत्तेति ध्वन्यते । एवं चैतादृशप्रत्यक्षरतचिह्न-
दर्शनेऽपि न मया किंचित्कृतमिति वदसीत्यतस्त्वत्तुल्या नान्या प्रतारिकेति ध्वन्यते ॥</p>
<pb n="203" />
<p>सखी सामान्यवनितामुपदिशति--</p>
<lg>
  <l>सौभाग्यगर्वमेका करोतु यूथस्य भूषणं करिणी ।</l>
  <l>अत्यायामवतोर्या मदान्धयोर्मध्यमधिवसति ॥ ५९० ॥</l>
</lg>
<p>सौभाग्येति । यूथस्य करिसमूहस्य भूषणं करिणी एका सौभाग्यस्य गर्वं करोतु ।
अत्युच्चनोर्मदशालिनोर्या मध्यमधिवसति । एवं च सर्वनायकसमाधानं त्वया विधेयमिति
ध्वन्यते ॥
पतिमवमत्य तत्सखीवचनादिकमप्युपेक्ष्य पश्चात्परितप्ता सती स्वयमेव प्रियसविधमा-
गता सखीपरिवृतं तमालोक्य तासु स्वलघुतागोपनाय नायिका नायकं वक्ति--</p>
<lg>
  <l>स्वचरणपीडानुमितत्वन्मौलिरुजाविनीतमात्सर्या ।</l>
  <l>अपराद्धा सुभग त्वां स्वयमहमनुनेतुमायाता ॥ ५९१ ॥</l>
</lg>
<p>स्वचरणेति । स्वचरणपीडयानुमिता या त्वन्मस्तकपीडा तया विशेषेणापहृतमात्सर्या ।
स्वयं कृतापराधा । पतिविहितप्रणतावपि कोपकरणादिति भावः । सुभग । विना प्र-
यत्नं मदागमनादिति भावः । त्वामनुनेतुमहमायाता । एवं चानेन प्रियतमेन बहुतर-
प्रणामादिना मदनुनयः कृतोऽस्तीति व्यज्यते । यद्वा स्वयमेवोत्कण्ठिता नायिका नाय-
कसविध आगता, तत्र च तत्संख्यादिकमवलोक्यानाकारितागमनसंभाव्यमानलाघवप-
रिहाराय मृषैव वक्ति--खचरणेति ॥
अनुरक्तजनक्लेशकर्तुः सेनादिकं न सम्यक् किं तु प्रबलविपक्षविद्रावकस्येति क-
श्चिद्वक्ति--</p>
<lg>
  <l>स्नेहमयान्पीडयतः किं चक्रेणापि तैलकारस्य ।</l>
  <l>चालयति पार्थिवानपि यः स कुलालः परं चक्री ॥ ५९२ ॥</l>
</lg>
<p>स्नेहमयानिति । तैलप्रचुरान् । अथ च प्रीतिप्रचुरान् । पीडयतस्तैलकारस्य चक्रे-
णापि यन्त्रविशेषेणापि । अथ च सेनयापि । 'शस्त्रभेदे च सेनायां चक्रम्' इत्यभिधानात् ।
अपिना कोषादिसंग्रहः । यः पार्थिवान्पृथिवी विकारान्घटादीन् । अथ च महीपतीन् ।
चालयति भ्रामयति । अथ च स्वस्थानभ्रष्टान्करोति । स कुलालोऽपि । अपिना निन्द्य-
त्वमावेद्यते । परमुत्कृष्टं चक्रवान् यन्त्रविशेषवान् । अथ च सेनावान् । यद्वा यथास्थित
एवापिः । एवं च सामर्थ्यविशेषवत्त्वमावेद्यते । एवं च सेनादिसत्त्वमात्रेण न प्रतिष्ठा,
किं तु स्वानुरक्तसंरक्षणपरविद्रावणरूपकार्यकारितयेति व्यज्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>सरले न वेद भवती बहुभङ्गा बहुरसा बहुविवर्ता ।</l>
  <l>गतिरसतीनेत्राणां प्रेम्णां स्रोतस्वतीनां च ॥ ५९३ ॥</l>
</lg>
<p>सरल इति । हे सरले, बहुभङ्गा भङ्गो वक्रता विच्छेदस्तरङ्गश्च । बहुरसा बहुविषय-</p>
<pb n="204" />
<p>कप्रेमवती । यद्वा शृङ्गारादिमती । बहुहर्षवती बहुजलवती च । बहुविवर्ता बहुकापट्य-
वती अनेकप्रकारवती बहुजलभ्रमणवती च । असतीनयनानां प्रेम्णां नदीनां च गतिः
कटाक्षादिः स्थितिर्गमनं चेति भवती न वेद । एवं च प्रेम्णि भङ्गादिकं नियतमस्तीत्यत
एतत्संरक्षणं दुष्करम्, अतोऽत्यन्ताभिमानं परित्यज्य नायकसमाधानं कुर्विति ध्वन्यते ॥
नायिका सखीं वक्ति--</p>
<lg>
  <l>सखि मध्याह्नद्विगुणद्युमणिकरश्रेणिपीडिता छाया ।</l>
  <l>मज्जितुमिवालवाले परितस्तरुमूलमाश्रयति ॥ ५९४ ॥</l>
</lg>
<p>सखीति । हे सखि । एवं च रहस्यकथनार्हत्वं व्यज्यते । मध्याह्ने द्विगुणीभूता या
सूर्यकिरणश्रेणिस्तया पीडिता छाया आलवाले मज्जितुमिव समन्ताद्वृक्षमूलमाश्रयति । एवं
चैतादृशनिदाघकाले न कोऽपि खगेहाद्गच्छतीत्युपवने नायकं नय, अहमप्यधुना तत्रा-
गतप्रायेति ध्वन्यते । यद्वा सखी नायिकां वक्ति । एवं च यत्र प्रखररविकरनिकरखिन्ना
प्राणानपि त्यक्तुकामा जडापि छायां स्वाश्रयं न परित्यजति, तत्र किमु वाच्यं त्वया
पतिपदारविन्दं विहाय क्षणमपि खेदवत्त्वेऽपि दूरे स्थेयमिति द्योत्यते ॥
'मत्प्रियो मय्यतिशयितानुरागवान्' इति वादिनीं कांचित्काचिद्वक्ति--</p>
<lg>
  <l>सखि शृणु मम प्रियोऽयं गेहं येनैव वर्त्मनायातः ।</l>
  <l>तन्नगरग्रामनदीः पृच्छति सममागतानन्यान् ॥ ५९५ ॥</l>
</lg>
<p>·सखीति । हे सखि, शृणु । शृण्वित्यनेन त्वदुक्तिरकिंचित्करेति ध्वन्यते । अयं मम
प्रियः । परोक्षेऽप्यपरोक्षवन्निर्देशो नायके निरन्तरसंगतिशालित्वमावेदयति । गृहं येनैव
मार्गेणागतस्तत्संबन्धिनगरग्रामनदीः स्वसहागतानन्यान्पृच्छति । एवकारेणादृष्टमार्गीयन-
गरादिप्रश्नकरणमुचितमिति ध्वन्यते । एवं च मन्नायको मय्येतादृशानुरागवान् यच्चिरकाली-
नमार्गेणागतोऽप्यवश्यविज्ञेयपत्तनादिज्ञानाभाववानिति मन्नायकतुल्यो न त्वन्नायको न
वा मत्तुल्या त्वमिति ध्वन्यते । यद्वा प्रिये मानादिकं त्वया विधेयमिति वादिनीं सखीं ना-
यिका वक्ति--सखीति । शृण्वित्यस्यानुपादानेऽपि श्रवणक्रियाप्रतीतेरनुपयुक्तार्थतया शृ-
ण्विति पदमवधारणं लक्षयति । एवं च मदुक्तौ नाप्रामाण्यमाशङ्कयमिति ध्वन्यते । एवं
च मन्निमग्नचित्ततया प्रियतमः स्वयमुल्लङ्घितवर्त्मस्थितानेककौतुकनिधाननगरादिज्ञाना-
भाववान्, अत एतादृशे मानादिविधानेन दुःखजननमनुचितमिति द्योत्यते ॥
वियोगिन्याः सायंतनसमयोऽत्यन्तदुःखद इति नायिका सखीं वक्ति--</p>
<lg>
  <l>सायं रविरनलमसौ मदनशरं स च वियोगिनीचेतः ।</l>
  <l>इदमपि तमःसमूहं सोऽपि नभो निर्भरं विशति ॥ ५९६ ॥</l>
</lg>
<p>सायमिति । अत्र सखीति पदानुपादानं तावद्वर्णोच्चारणेऽपि कालातिपातो भवतीति
भाविसायंतनसमयस्यातिदुःखदत्वमित्यावेदयति । सायंतनसमये सूर्योऽनलं विशति । अ-
सावनलो मन्मथशरं विशति । स च मन्मथशरो विरहिणीचेतो विशति । इदमपि विर-</p>
<pb n="205" />
<p>हिणीचेतोऽपि तमःसमुदायम् । तमःशब्देनाज्ञानं ध्वान्तं च । सोऽपि तमःसमूहोऽप्य-
तिशयेन नभो विशति । अनलेत्यादि पञ्चपदद्वितीयया कर्मत्वप्रतिपादनादीप्सिततमत्वेन
स्वेच्छया तत्र तत्र तस्य तस्य कृतप्रवेशस्य निवारणानर्हत्वमावेद्यते । एवं च यथा यथा
रात्रिर्गमिष्यति तथा तथा मच्चेतसः शून्यरूपता भवित्रीति धरित्रीतले त्वदृते नान्यां मम
प्राणप्रदां मन्य इत्यतस्त्वरस्वाधुनैव प्रियतमानयनार्थमिति ध्वन्यते ॥
काचित्कंचित्संकेतं वक्ति--</p>
<lg>
  <l>स्मरसमरसमयपूरितकम्बुनिभो द्विगुणपीनगलनालः ।</l>
  <l>शीर्णप्रासादोपरि जिगीषुरिव कलरवः क्वणति ॥ ५९७ ॥</l>
</lg>
<p>स्मरेति । मदनयुद्धसमये । 'मदनवीरसमर' इत्यपि पाठः । पूरितो यः शङ्खस्तत्तुल्य-
द्विगुणितपुष्टकण्ठनालः कपोतो जयेच्छावानिव जर्जरप्रासादोपरि कूजति । शीर्णपदेना-
न्यानारोहणीयत्वं ध्वन्यते । प्रासादपदेन श्रमापनोदकसमीरणवत्तया निर्भररतसंपादनयो-
ग्यत्वं व्यज्यते । उपरिपदमन्यानवलोकनीयत्वमावेदयति । कलरवपदेनोद्दीपकत्वं द्योत्यते ॥
फूत्कृत्य रुदतीं सुदतीं सखी शिक्षयति--</p>
<lg>
  <l>स्फुरदधरमविरताश्रु ध्वनिरोधोत्कम्पकुचमिदं रुदितम् ।</l>
  <l>जानूपनिहितहस्तन्यस्तमुखं दक्षिणप्रकृतेः ॥ ५९८ ॥</l>
</lg>
<p>स्फुरदधरमिति । स्फुरन्नधरो यस्मिन् । निबिडबाष्पम् । ध्वनिनिरोधेनोत्कटकम्प-
वन्तौ कुचौ यस्मिन् । जानुस्थापित[हस्तन्यस्त]वदनम् । इदमेतादृशप्रकारशालि रुदितं
सरलप्रकृतेः । एवं चैतदन्यथाचरणं तवानुचितमिति ध्वन्यते । 'स्फुरदधरश्वासम्' इत्यपि
पाठः । यद्वैतादृशरोदने कस्यापि ज्ञानं न भविष्यतीति फूत्कृत्य रोदनं तवोचितमिति
सखी नायिकां वक्ति ॥
काचित् सामान्यवनिता कांचित् सामान्यवनितां भङ्ग्यन्तरेण वक्ति--</p>
<lg>
  <l>स्वयमुपनीतैरशनैः पुष्णन्ती नीडनिर्वृतं दयितम् ।</l>
  <l>सहजप्रेमरसज्ञा सुभगागर्वं बकी वहतु ॥ ५९९ ॥</l>
</lg>
<p>स्वयमिति । स्वयमाहृतैर्भक्ष्यैः कुलायसुखितं दयितं पुष्णन्ती, अकृत्रिमप्रेमरसाभिज्ञा
बलाका सौभाग्यशालिनी गर्वं वहतु । सुभगेति भिन्नं पदं वा । एवं च यया स्वद्रव्येण
नायकपोषणं क्रियते सैव रसाभिज्ञा सौभाग्यवतीनां गर्वमुद्वहतु नापरस्यास्तद्वहनमुचि-
तमिति ध्वन्यते ॥
दुष्टप्रभुणा कोषाधिकारे दत्तेऽपि प्रभुरयं मय्यतीव विश्वस्त इति धिया तत्सेवनमु-
चितं नेति कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>स्वरसेन बध्नतां करमादाने कण्टकोत्करैस्तुदताम् ।</l>
  <l>पिशुनानां पनसानां कोषाभोगोऽप्यविश्वास्यः ॥ ६०० ॥</l>
</lg>
<pb n="206" />
<p>खरसेनेति । स्वेच्छया करं दण्डं बघ्नतां कुर्वताम् । आदाने अर्थात् करादाने कण्टक-
समूहैस्तुदताम् । खरसेनेत्यनेन कियदनेन भुक्तं कियन्नेति शोधशून्यत्वमावेद्यते । कण्ट-
कोत्करैस्तुदतामित्यनेन स्वेच्छया कृतमपि दण्डं शनैः शनैर्न गृह्णन्तीति ध्वन्यते । अथ
च स्वस्य रसेन द्रवेण करं हस्तं बध्नताम् । पनसरसस्य चिक्कणत्वादिति भावः । कण्ट-
कोत्करैस्तुदताम् । पनसस्य कण्टकबाहुल्यादिति भावः । पिशुनानां पनसानां च को-
षस्य भाण्डागारस्याभोगः संपर्कः । तद्विषयकाधिकारवत्त्वादिति भावः । अथ च कोष-
परिपूर्णता । सोऽपि । अपिर्विश्वासास्पदत्वमावेदयति । अथ च वृक्षसर्वदेशस्यापि कठि-
नत्वादिदोषसत्त्वात् समुच्चायकः । अविश्वास्यः । एवं च कोषोऽप्येभिरस्मासु विनिहित इति
घिया न सुधिया पिशुनाः सेव्या इति व्यज्यते ॥
सरलतया मानाद्यविधायिनीं भामिनीं सखी समुपदिशति--</p>
<lg>
  <l>सौभाग्यं दाक्षिण्यान्नेत्युपदिष्टं हरेण तरुणीनाम् ।</l>
  <l>वामार्धमेव देव्याः स्ववपुःशिल्पे निवेशयता ॥ ६०१ ॥</l>
</lg>
<p>सौभाग्यमिति । खशरीरस्य चित्रे । शिल्प इत्यनेन कार्याक्षमेऽपि वपुषि वामार्धस्यै-
वादरः, तत्र का वार्ता कार्यक्षमे वपुषीति व्यज्यते । देव्या वामार्धमेव सव्यसमांशकमेव ।
देवीदक्षिणशरीरभागस्य शिवरूपत्वादिति भावः । अर्धमित्यनेन दक्षिणैकदेशस्याप्यनिवेश-
नेन तत्र न केवलमौदासीन्यम्, अपि तु द्वेषवत्तेति ध्वन्यते । स्थापयता हरेण तरुणीनां
दाक्षिण्यात्सरलत्वात्सौभाग्यं नेत्युपदिष्टम् । हरपदेन हरति सर्वस्य दुःखमिति व्युत्पत्त्या
करुणावतापि भगवतानङ्गीकारेण करुणारहितस्यान्यसर्वनायकस्य दाक्षिण्यं न प्रीतिविषय
इति व्यज्यते । यद्वोपदेशदानार्हत्वमथवोपदेशे याथातथ्यम् । एवं च श्लिष्टाभ्यां वामद-
क्षिणपदाभ्यां कौटिल्यादेव तरुणीनां सौभाग्यं न सरलतयेति ध्वन्यते । तरुणीनामित्य-
नेनान्त्ये वयसि दाक्षिण्यमुचितमित्यावेद्यते। उपदिष्टमित्यनेनान्यथासंभावनमनुचितमिति
ध्वन्यते । एवं च सरलतां विहाय मानाद्यवश्यं त्वया विधेयमिति ध्वन्यते । यद्वा कौटि-
ल्यशालिनं नायकं नायिकासखी वक्ति--स्ववपुःशिल्पे देव्या वामार्धमेव निवेशयता
हरेण दाक्षिण्यात्सौभाग्यं नेति तरुणीनामुपदिष्टम् । न तु पुंसाम् । एवं च स्त्रीणामेव
वाम्यकरणमुचितम्, न तु पुंसामिति ध्वन्यते । यद्वा तरुणीनामेवेति योजना ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>सुभग स्वभवनभित्तौ भवता संमर्द्य पीडिता सुतनुः ।</l>
  <l>सा पीडयैव जीवति दधती वैद्येषु विद्वेषम् ॥ ६०२ ॥</l>
</lg>
<p>सुभगेति । हे सुभग, स्वसदनभित्तौ सम्यङ् मर्दयित्वा पीढिता सुतनुर्वैद्येषु विशेषद्वेषं
दधती सा पीडयैव जीवति । एवं च लत्कृतपीडा यत्र तस्या जीवननिदानं तत्र किं
वाच्यं त्वत्सङ्ग इति व्यज्यते । उत्सववशात्त्वद्भवनमागतां बलादबलां त्वया दृढालिङ्गना-
दिना संपीड्यानुरागातिशयशालिनीं विधायेदानीमुदासीनवत्स्थीयत इत्येतदनुचिततरं त-</p>
<pb n="207" />
<p>वेति भावः । सुभगत्वं चाकस्मिकैतादृशनायिकासंपर्कवत्त्वादिति भावः । स्वपदेन भीति-
शून्यत्वं नायके, नायिकायां सख्यादिराहित्येन सहायशून्यत्वमावेद्यते । भित्तावित्यनेन
निर्गमाभाववत्त्वं द्योत्यते । भवतेत्यनेन बलात्कारो व्यज्यते ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>सा गुणमयी स्वभावस्वच्छा सुतनुः करग्रहायत्ता ।</l>
  <l>भ्रमिता बहुमन्त्रविदा भवता काश्मीरमालेव ॥ ६०३ ॥</l>
</lg>
<p>सेति । गुणाः सौन्दर्यादयः । पक्ष गुणः सूत्रम् । स्वभावेन सहजतया शुद्धान्तःक-
रणा । पक्षे स्वभावोज्ज्वला । करग्रहेण पाणिग्रहेण स्वाधीना । एवं च पातिव्रत्यमावे-
द्यते । पक्षे हस्तेन यदङ्गीकरणं तेनायत्ता । काश्मीरमालेव सुतनुः । एवं च स्पृहणीयत्वं
द्योत्यते । बहुविचारवता । अत्यन्तकलाकुशलेनेत्यर्थः । पक्षे बहुतरागमोक्तमन्त्रज्ञेन । एवं
च बहुतरजपशालित्वं द्योत्यते । भवता भ्रमिता । एवं च त्वत्संगत्या कदापि नैतस्या
विश्रान्तिरिति व्यज्यते । यद्वा सामान्यवनितासखी नायकं वक्ति--करग्रहेण स्वाधीना ।
न तु द्रव्यादिलोभेनेति भावः । स्वभावस्वच्छेत्यनेन सरलत्वं व्यज्यते । बहुमन्त्रविदाने-
कप्रकारकविचारवता । एवं च कापट्यशालित्वं द्योत्यते । भ्रमं प्रापिता । एवं चेयं
भ्रान्ता त्वामस्थिरप्रकृतिकं भजते, त्वं तु न किमपि वसु ददासीति व्यज्यते । अन्योऽपि
मन्त्रवेत्ता कंचिज्जनं भ्रान्तं विधाय तदीयसर्वस्वापहारं करोतीति लौकिकम् ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>सव्रीडस्मितसुभगे स्पृष्टास्पृष्टेव किंचिदपयान्ती ।</l>
  <l>अपसरसि सुन्दरि यथा यथा तथा स्पृशसि मम हृदयम् ॥ ६०४ ॥</l>
</lg>
<p>सव्रीडेति । हे व्रीडासहितस्मितसुभगे, किंचित्स्पृष्टा किंचिदस्पृष्टा । एतादृश्येव ।
मयेति भावः । आकस्मिकसंजातसंघट्टनेऽपि लोकभीतिवशादिति भावः । अत एव व्री-
डास्मितवत्ता नायिकायाः । अपसरन्ती त्वं यथा तथा सुन्दरि, अपसरसि तथा मम हृ-
दयं स्पृशसि । एवं चेदानीमहं नानुग्राह्यस्त्वया चेत्तदा न मे प्राणाः स्थास्यन्तीति व्य-
ज्यते । यद्वा स्पृष्टाप्यस्पृष्टैवाहमित्यपसरन्ती यथा यथापसरति तथा मम हृदयं स्पृशसि ।
एवं च नाहं त्वया स्पृष्टेति वादिन्यपसरसि हृदयं च स्पृशसीत्यपसरणानर्थक्यम्, अत एह्या-
लिङ्गस्व मामिति व्यज्यते । 'स्पष्टीभूत्वेव किंचिदपयान्ती' इत्यपि पाठः । 'षष्ठीं संपूज्य'
इति पाठेऽपि प्रसवनिमित्तक एव व्रीडास्मिते किंचित्षष्ठीं संपूज्य । यथाकथंचित्षष्ठीं
पूजयित्वेत्यर्थः । यथा यथापसरसि तथा सुन्दरि, मम हृदयं स्पृशसि । 'षष्ठी पूज्येव'
इति पाठे पूज्या षष्ठीव त्वं यथा यथापसरसि तथा सुन्दरि, मय हृदयं स्पृशसि । एवं च
यथा षष्ठी यं स्पृशति स न जीवति, तथा कृतषष्ठीपूजया त्वया स्पृष्टं मम हृदयं न स्थितिं
प्राप्नोतीति व्यज्यते । तेन च ममालिङ्गनचुम्बनादि देहीति ॥</p>
<pb n="208" />
<p>निजदयित एव रतिर्विधेया नान्यत्रेति वादिनीं सखीं नायिका वक्ति--</p>
<lg>
  <l>सखि सुखयत्यवकाशप्राप्तः प्रेयान्यथा तथा न गृही ।</l>
  <l>वातावारितादपि भवति गवाक्षानिलः शीतः ॥ ६०५ ॥</l>
</lg>
<p>सखीति । हे सखि । एवं च वास्तवाभिप्रायकथनार्हत्वमावेद्यते । अवकाशप्राप्तः ।
संकेतवशात्समयविशेषे समागत इत्यर्थः । प्रेयान्यथा सुखमुत्पादयति तथा निजः प्रेयान्न ।
अमुमेवार्थमर्थान्तरन्यासेन द्रढयति--अवारितात् । महत इति भावः । वाताद्वातायन-
संबन्ध्यनिलः शीतस्तापापनोदकः । एवं चान्यनायकमवश्यमानयेति ध्वन्यते । यद्वा
निजदयितानुरक्तां नायिकामन्यदयितेन संयोजयितुं दूती वक्ति--गृहीत्यनेनावारितादि-
त्यनेन च 'अर्थादौषधवत्कामः प्रभुत्वात्केवलं श्रमः । करवत्स्वेषु दारेषु त्रयादन्यत्र म
न्मथः ॥' इतिवत्तुल्यन्यायतया नायिकाया अप्यधिकानुरागशालिपरपुरुषरतौ सुखा-
तिशय इति द्योत्यते । अथवा गृहीत्यनेन निरन्तरसदनावस्थितिशालितया स्वनायकः पर-
पुरुषाप्राप्तिसमयेऽपि भोक्तुं शक्य इति व्यज्यते । तेन चाधुना तमहमानयामीति ॥
निरन्तरं नितान्तकुपितां नायिकां सखी वक्ति--</p>
<lg>
  <l>सततमरुणितमुखे सखि निगिरन्ती गरलमिव गिरां गुम्फम् ।</l>
  <l>अवगणितौषधिमन्त्रा भुजंगि रक्तं विरञ्जयसि ॥ ६०६ ॥</l>
</lg>
<p>सततमिति । भुजंगीव भुजंगी तत्संबुद्धिः । एवं च तवान्तिकागमनेऽपि भीतिरुत्पद्यत
इत्यावेद्यते । निरन्तररक्तीकृतवदने । कोपवशादिति भावः । पक्षे स्वभावत एवारक्तव-
दनत्वम् । सखि, विषमिव वाचां गुम्फं गिरन्ती पक्षे गरलं गिरन्ती । अवगणितौषधि-
मन्त्रा अवगणितौषधितुल्यविचारा । एवं यथौषधिः पीडाहारकतया सुखकारिणी तथा
सविचारा मदुक्तिस्ते हितकारिणी, अहो एनामपि न गणयसीत्यनुचितं तवेति ध्वन्यते।
पक्षे औषधमन्त्रादेरपि न यत्र सामर्थ्यमिति भावः । रक्तं जनं विरञ्जयसि विरक्तं
करोषि । पक्षे रुधिरवन्तं रुधिररहितं करोषि । एवं चैतादृशकोपवत्तया त्वया यत्रानुर-
क्तोऽपि जनोऽनुरागशून्यः क्रियते तत्राननुरक्तानुरञ्जनं तव दूरापास्तमिति व्यज्यते ॥
कपटभावेनैवानयाश्वासनं क्रियते न वास्तवसात्त्विकतयेति कश्चित्कंचिदन्योक्त्या
वक्ति--</p>
<lg>
  <l>स्थलकमलमुग्धवपुषा सातङ्काङ्कस्थितैकचरणेन ।</l>
  <l>आश्वासयति बिसिन्याः कूले बिसकण्ठिका शफरम् ॥ ६०७ ॥</l>
</lg>
<p>स्थलेति । कमलिन्याः समीपे बलाका सत्रासं क्रोडे स्थित एकश्चरणो यस्य तेन स्थ-
लकमलवत्सुन्दरशरीरेण मत्स्यं विश्वासयति । एवं च मत्स्यस्य कमलभ्रमेण समीपमा-
गमनं भविष्यति ततश्चैतद्भोजनं विधेयमिति धिया तूष्णीमवतिष्ठत इति भावः । एवं चेयं
दुष्टा, अत एतद्विश्वासो न विधेय इति व्यज्यते ॥</p>
<pb n="209" />
<p>कश्चित्कामी दुष्प्रापां नायिकामवलोक्य समीरमुद्दिश्य वक्ति--</p>
<lg>
  <l>सनखपदमधिकगौरं नाभीमूलं निरंशुकं कृत्वा ।</l>
  <l>अनया सेवित पवन त्वं किं कृतमलयभृगुपातः ॥ ६०८ ॥</l>
</lg>
<p>सनखेति । नखक्षतसहितमत्यन्तगौरं नाभीमूलमंशुकरहितं कृत्वानया सेवित पवन,
त्वं कृतो मलयाचलंकटकात्पातो येन, एतादृशः किमिति वितर्कः । एवं च यदि त्वया
भृगुपातो न कृतः स्यात्तर्हि कथमनया विगलितलज्जया सेवितः स्यात्, अतस्तवैव तपस्या-
धिक्यमिति व्यज्यते । तेन च त्वमेव धन्य इति । यद्वैतदपेक्षया किमधिकतरफलमस्ति
यल्लिप्सया मलयभृगुपातस्त्वया कृत इति प्रश्नः । एवं चैतादृशसुखादन्यन्न पुरुषार्थरूप-
मिति व्यज्यते । रतोत्तरमपि समधिककामाविर्भावाद्रतार्थं पुनः प्रवृत्तां कान्तामालो-
क्याली नायकं वक्तीति वा ॥
अदृष्टवता श्रीस्तावदप्रयत्नेनापि लभ्यत इति कश्चिद्वक्ति--</p>
<lg>
  <l>सर्वाङ्गमर्पयन्ती लोला सुप्तं श्रमेण शय्यायाम् ।</l>
  <l>अलसमपि भाग्यवन्तं भजते पुरुषायितेव श्रीः ॥ ६०९ ॥</l>
</lg>
<p>सर्वाङ्गमिति । निखिलाङ्गं समर्पयन्ती चञ्चला । अथ च लोलेति श्रीनाम । श्रीर्विप-
रीतरतविधायिनीव शय्यायां श्रमेण सुप्तम् । एवं च शय्यादिरचनामात्रोद्योगशा-
लित्वं व्यज्यते । उद्योगरहितमपि । अपिः प्रागप्यन्वेति । यद्वा लोलेत्यत्रान्वेति । अदृष्ट-
शालिनं भजते । पक्षे सुगमम् ॥</p>
<lg>
  <l>सुदिनं तदेव यत्र स्मारं स्मारं वियोगदुःखानि ।</l>
  <l>आलिङ्गति सा गाढं पुनः पुनर्यामिनीप्रथमे ॥ ६१० ॥</l>
</lg>
<p>सुदिनमिति । तदेव समीचीनं दिनं यस्मिन्विरहदुःखानि स्मृत्वा स्मृत्वा रात्र्याः प्रथमे ।
प्रहर इति भावः । वारं वारं दृढं सालिङ्गति । आलिङ्गयिष्यतीत्यर्थः । त्रियामेति विहाय
यामिनीपदोपादानेन निखिलजने जागरूकेऽपि सायंतनसमय एव चालिङ्गनादिविधानेन
विगलितलज्जावं व्यज्यते । पथिकाशंसनमेतत् ॥
काचित्कांचिद्वक्ति--</p>
<lg>
  <l>'सान्तर्भयं भुजिष्या यथा यथाचरति समधिकां सेवाम् ।</l>
  <l>साशङ्कसेर्ष्यसभया तथा तथा गेहिनी तस्य ॥ ६११ ॥</l>
</lg>
<p>सान्तर्भयमिति । भुजिष्या दासी तस्य नायकस्यान्तर्भयसहितम् । स्वामिनी ज्ञास्यतीति
धियेति भावः । यथा यथा सम्यगधिकाम् । संमतानुरागवत्त्वादिति भावः । सेवामाच-
रति तथा तथा गेहिनी । एवं च गृहकर्मव्यावृततयैतादृशानुचिताचरणज्ञानवैधुर्यं व्यज्यते ।
साशङ्कानर्थप्रतिभासहिता । किमिदानीमियं समधिकां सेवां करोतीति धियेति भावः ।
सेर्ष्या समत्सरा । प्रायेणेयमस्मिन् रतिमतीति धियेति भावः । सभया । लोकापवादादिति</p>
<pb n="210" />
<p>भावः । अत एव गेहिनीति पदमर्थवत् । एवं च सर्वदा स्वामिचरणपरिचरणं स्वयमेव
विधेयम्, न तु गृहव्यापारवशाद्दास्यादिनेति ध्वन्यते । 'तस्याः' इति पाठे नायिकायाः ।
सान्तर्भयम् । न ज्ञातव्योऽनया नायकीय मत्सङ्ग इति धियेति भावः । इतरत्सुगमम् ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>सुन्दरि दर्शयति यथा भवद्विपक्षस्य तत्सखी कान्तिम् ।</l>
  <l>पतति तथा समदृष्टिस्त्वदेकदासस्य सासूया ॥ ६१२ ॥</l>
</lg>
<p>सुन्दरीति । हे सुन्दरि, तस्यास्त्वत्सपत्न्याः सखी भवद्विपक्षस्य त्वत्सपत्न्याः कान्तिं
यथा दर्शयति तथा त्वन्मात्रदासस्य मम । एवं च त्वदतिरिक्तायाः शोभाकथनं कथं
मया सोढुं शक्यमिति व्यज्यते । सद्वेषा दृष्टिः पतति । अर्थात्त्वद्विपक्षे । एवं च न मया-
नुरागवशात्त्वद्विपक्षावलोकनं कृतं किं तु क्रोधवशादिति भावः ॥
सपत्नीदुःखितां कान्तां नायकसखी वक्ति--</p>
<lg>
  <l>स्वाधीनैरधरव्रणनखाङ्कपत्त्रावलोपदिनशयनैः ।</l>
  <l>सुभगा सुभगेत्यनया सखि निखिला मुखरिता पल्ली ॥ ६१३ ॥</l>
</lg>
<p>स्वाधीनैरिति । हे सखि, स्वयं कर्तुं शक्यैर्दन्तक्षतनखक्षतपत्त्रवल्लीप्रोञ्छनदिवास्वापैः
सुभगेत्यनया । त्वत्सपत्न्येत्यर्थः । समग्रापि पल्ली वाचालीकृता । पल्लीपदेन जाड्यं तेन
च यथार्थज्ञानशून्यत्वं तेन चैतद्वचनमप्रमाणमिति व्यज्यते । निवारणानर्हत्वं वा । मुख-
रितेत्यनेन वचस्युपेक्षणीयत्वं व्यज्यते । एवं च नायको नैतस्यामनुरक्तो न वा तत्कृतानि
दन्तक्षतादीनि, किं तु मिथ्यैव लोके स्वसौभाग्यप्रकटनायानया स्वयमेव संपादिता-
नीति विज्ञाय नायके मानादिकरणमनुचितं तवेति ध्वन्यते ॥
काचित्कांचिद्वक्ति--</p>
<lg>
  <l>सरित इव यस्य गेहे शुष्यन्ति विशालगोत्रजा नार्यः ।</l>
  <l>क्षारास्वेव स तृप्यति जलनिधिलहरीषु जलद इव ॥ ६१४ ॥</l>
</lg>
<p>सरित इति । यस्य सदने सरित इव श्रेष्ठान्वयजाताः । पक्षे महत्तराद्रिजन्याः ।
नार्यः शुष्यन्ति । दुःखोद्रेकवशादिति भावः । स क्षारास्वेव । नीरसास्वेवेत्यर्थः । समुद्र-
लहरीषु मेघ इव तृप्यति । एवं च यः कुलीनस्वनायिकासु नाभिनन्दति तस्य नीरसना-
यिकावाप्तिरेव भवतीति व्यज्यते । यद्वा पराङ्गनालम्पटं नायकं नायिका वक्ति--जलनि-
धिपदेन नीचजन्यत्वमन्याङ्गनासु ध्वन्यते । जलदपदेन नायके मालिन्यं व्यज्यते ॥
नायकदूती नायिकां वक्ति--</p>
<lg>
  <l>सकलकटकैकमण्डिनि कठिनीभूताशये शिखरदन्ति ।</l>
  <l>गिरिभुव इव तव मन्ये मनः शिला समभवच्चण्डि ॥ ६१५ ॥</l>
</lg>
<p>सकलेति । निखिलकटकमुख्यभूषणे । पक्षे कटकोऽद्रिनितम्बः । कठोरहृदये । पक्षे
कठिनी खटिका । पद्मरागरूपरदे । पक्षे शिखरं शृङ्गम् । हे कोपने, पर्वतभूमेरिव तव</p>
<pb n="211" />
<p>मनः पाषाणः । पक्षे मनःशिला धातुविशेषः । संजात इति तर्कयामि । एवं च भवदे-
कशरण उचितमात्राचरणप्रवणे निजरमणे नैवंविधं नैष्ठुर्यं तव कर्तुं समुचितमिति
ध्वन्यते । तेन चावश्यं तमनुसरेति ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>सखि दुरवगाहगहनो विदधानो विप्रियं प्रियजनेऽपि ।</l>
  <l>खल इव दुर्लक्ष्यस्तव विनतमुखस्योपरिस्थितः कोपः ॥ ६१६ ॥</l>
</lg>
<p>सखीति । हे सखि, दुरवगाहः केनाप्युपायेन निवारयितुमशक्यः स चासौ गहनः ।
बहुतर इत्यर्थः । पक्षे केनाप्युपायेनाकलयितुमशक्यः कुटिलाशयश्चेत्यर्थः । प्रियजनेऽपि
नायकेऽपि । अपिः करणानर्हत्वमावेदयति । पक्षे स्वेप्सितजनेऽपि । एवं च किमुतान्य-
त्रेति भावः । विप्रियं दुखं विदधानः । विनतं यन्मुखं तस्योपरि स्थितः । पक्षे साधो-
रुपरि स्थितः । साधोः क्लेशद इत्यर्थः । एवं च दुष्टस्य दुष्टाद्भीतिः साधुतो नेत्यर्थः ।
दुष्ट इव तव कोपो दुर्लक्ष्यो ज्ञातुमशक्यः । पक्षे द्रष्टुमशक्यः । एवं चैतादृशकोपकरण-
मनुचितं तवेति ध्वन्यते । 'विनयमुखोपस्थितः' इति पाठे विनयो मुखेऽग्रतो यस्यै-
तादृश उपस्थितः । जात इत्यर्थः । एवं चैतादृशविनयप्रदर्शनमप्यन्यादृशमेव मे भातीति
व्यज्यते । पक्षे विनयो मुखे यस्य । न तु हृदय इति भावः । दुर्लक्ष्यः । विनयमुखत्वा -
देवेत्युभयत्र भावः । दुरवगाहेत्यादेः प्राग्वदेव । प्रियजनेऽपि विप्रियं विदधानः । प्रिये
विनयप्रदर्शनस्योदासीनत्वादिति भावः । पक्षे प्राग्वत् । हे सखि, खल इव तव कोपः ।
एवं चैतादृशकोपकरणमनुचितं तवेति भाव इत्यर्थः ॥
कथमियमुपरिविवाहोत्सवं नावलोकयतीति वादिनं विदिततद्वृत्तान्तः कश्चिद्वति--</p>
<lg>
  <l>स्वेदसचेलस्नाता सप्तपदी सप्त मण्डलीर्यान्ती ।</l>
  <l>समदनदहनविकारा मनोहरा व्रीडिता नमति ॥ ६१७ ॥</l>
</lg>
<p>स्वेदेति । स्वेदेन । त्वद्दर्शनजेनेति भावः । सवसनस्नानशालिनी । सप्तपदसमाहाररूपा
सप्त मण्डलीरतिक्रामन्ती । मदनरूपो यो दहनस्तस्य यो विकारस्तत्सहिता। चित्तहारिणी ।
लज्जिता नम्रीभवति । एवं चानया त्वच्चित्तमपहृतम्, अत एवाग्निदिव्ये स्वेदरूपजले
सवसनप्लुता सप्तपदीरूपसप्तमण्डलातिक्रमकारिणी मदनरूपाग्निदाहशालिनी संजाताशु-
द्धिमत्तया लज्जावशान्नोर्ध्वमीक्षत इति भावः । एवं च त्वद्विषयकलज्जावशादेवमुन्नीयते
यदियं विहितेऽपि विवाहे न त्वां त्यक्ष्यतीति व्यज्यते । अन्योऽपि तस्करः संजातदिव्य-
दूषणः किमिदानीं वक्तव्यं मयेति विगलितधिषणोऽधस्तादेव विलोकयन्नास्त इति लौकि-
कम् । यद्वा नायको नायिकासखीं वक्ति--एवं चेयं मन्मनोरूपवस्तु हृतवती वैवाहिक -
च्छद्मदिव्येऽपि शुद्ध्यभाववती समपहृतवस्त्वददती मयेयं भुजपाशेन बद्ध्वा निर्दयं मर्द-
यित्वा मुष्ट्यभिघातैरुरसि ताडयित्वा दन्तनखक्षतैश्च क्लेशभागिनी विधेया तत्रभवत्या
नैतत्यक्षरक्षणं क्षणमपि विधेयमिति व्यज्यते । तेन च कृतविवाहामप्येनां न मुञ्चामीति ।</p>
<pb n="212" />
<p>यद्वा मनोहरा सुन्दरी लज्जिता नमति । स्वेदेत्यादिविशेषणस्य सप्तपदीत्यादिविशेषणं
हेतुगर्भम् । एवं च नितम्बादि प्राशस्त्यमावेद्यते । लज्जायां तु स्वेदादिना मदीयमदनवि-
कार एभिर्ज्ञात इति धीर्हेतुः । एवं चैतादृशप्रौढापरिणय एव सम्यगिति व्यज्यत इति
कश्चित् कञ्चिद्वक्तीत्यप्यर्थः ॥
समीचीनानामप्यसमीचीनसंसर्गादन्यथाभावो भवतीति कश्चित् कञ्चिद्वक्ति--</p>
<lg>
  <l>सुरसप्रवर्तमानः संघातोऽयं समानवृत्तानाम् ।</l>
  <l>एत्यैव भिन्नवृत्तैर्भङ्गुरितः काव्यसर्ग इव ॥ ६१८ ॥</l>
</lg>
<p>सुरसेति । समीचीनरसैः प्रकर्षेण वर्तमानः । पक्षे समीचीनरसवान् । समानाचरण-
वताम् । पक्षे एकजातीयच्छन्दसाम् । अयं समुदायः काव्यस्य सर्ग इवान्यादृशाचरणप्र-
वणैः । पक्षे विजातीयच्छन्दोभिः । एत्यैव । एवकारेण बहुकालावस्थितौ किं भविष्य-
तीति न विद्म इति व्यज्यते । भङ्गुरितः कुटिलीकृतः । पक्षे समापितः । एवं चासत्सं-
गतिरनुचितेति ध्वन्यते । यद्वा सर्वेऽप्येते समीचीना मत्सहायपक्ष एव स्थिताः, परमधुनैव
कैश्चिद्दुष्टैरागत्यान्यथाभावं नीता इति कश्चित्कंचिद्वक्ति ॥
कश्चित् सखायं वक्ति--</p>
<lg>
  <l>सर्वासामेव सखे पय इव सुरतं मनोहारि ।</l>
  <l>तस्या एव पुनः पुनरावृत्तौ दुग्धमिव मधुरम् ॥ ६१९ ॥</l>
</lg>
<p>सर्वांसामिति । हे सखे, सर्वासामेव । स्त्रीत्वसाधारणधर्मवत्तयेति भावः । सुरतं पय
इव दुग्धमिव समीचीनम् । आवर्तितं दुग्धमिव तस्या एव पुनः पुनरावृत्तौ सुरतं मधुरम् ।
एवं च सर्वकामिनीनां सुरतं सममेव परमिदमधिकं तस्या यदुत्तरोत्तरसुरते माधुर्यमिति
भावः । एवं चान्यासां प्रथमत एव माधुर्यं न पुनरुत्तरोत्तरत इति व्यज्यते । तेन च त -
त्तुल्या नान्या नायिकेति । यद्वा सर्वासामेव पुनः पुनरावृत्तौ सुरतं जलमिव मनोहारि
पुनः पुनरावृत्तौ तस्या एव सुरतं दुग्धमिव मधुरम् । एवं च यथा जलदुग्धयोर्महदन्तरं
तथान्यासां तस्याश्चोत्तरोत्तरसुरत इति व्यज्यते । प्रथमव्याख्याने पयःपदस्थाने दुग्धपदं
दुग्धपदस्थाने पयःपदं वेत्युभयत्रैकपददानमुचितम् ॥
कश्चित् कञ्चिद्वक्ति--</p>
<lg>
  <l>स्वप्नेऽपि यां न मुञ्चसि या तेऽनुग्राहिणी हृदिस्थापि ।</l>
  <l>दुष्टां न बुद्धिमिव तां गूढव्यभिचारिणीं वेत्सि ॥ ६२० ॥</l>
</lg>
<p>स्वप्नेऽपीति । यां स्वप्नेऽपि । अपिनेतरकालसंग्रहः । एवं चासक्त्यतिशयो द्योत्यते ।
पक्षे स्वप्नेऽपि बुद्धेः सत्त्वाद्यथाश्रुतम् । या हृदिस्थापि । तवेति भावः । तेऽनु पश्चाद्ग्रा-
हिणी । परपुरुषमिति भावः । एवं च यां त्वं सर्वदा ध्यायसि सा त्वयि क्वचित् क्षणमपि
गते परपुरुषमभिलषतीति भावः । अथवा त्वद्धृदिस्थापि परपुरुषानुग्रहवतीत्यर्थः । एवं च
त्वद्धृदिस्थितिकालेऽपि परपुरुषे मनः कुरुते या सा त्वत्पश्चात् किं करिष्यतीति तन्न विद्म</p>
<pb n="213" />
<p>इति व्यज्यते । यद्वा या तवानुग्रहकारिणीत्वेनाभिमता । एवं च वास्तवं तस्यास्त्वय्यनु-
ग्रहो नास्तीत्यर्थः । पक्षे या ते । अविद्यमानेऽपि वस्तुनीति भावः । अनुग्राहिणी । अ-
विद्यमानवस्तुविषयीणीत्यर्थः । अपिः पूर्वसमुच्चायकः । तां दुष्टां बुद्धिमिव गुप्तव्यभिचा-
रकारिणीम् । पक्षे झटित्यज्ञेय भ्रमत्ववतीम् । न जानासि । एवं चैतादृशदुष्टायामासक्तिसं-
पादनं तवानुचितमिति व्यज्यते ॥
कश्चित् काञ्चिद्वक्ति--</p>
<lg>
  <l>सपरावृत्ति चरन्ती वात्येव तृणं मनोऽनवद्याङ्गि ।</l>
  <l>हरसि क्षिपसि तरलयसि भ्रमयसि तोलयसि पातयसि ॥ ६२१ ॥</l>
</lg>
<p>सपरावृत्तीति । हे अनवद्याङ्गि । एवं च स्पृहणीयत्वमावेद्यते । परावृत्तिसहितं च-
लन्ती । पुनः पुनः पश्चान्निरीक्षमाणा चलन्तीत्यर्थः । त्वमित्यस्यानुपादानं लोकभीतिमा-
वेदयति । पक्षे परिभ्रमणवती । मनः । ममेति पदानुपादानेन यदीदं मनो मदीयं स्या-
तर्हि त्वत्कृतैतादृशैतदवस्था कथं मया द्रष्टुं शक्येति व्यज्यते । यद्वा मदीयत्वेन ज्ञाते म-
नसीतोऽप्यधिकतरपीडानया विधेयेति भीतिरावेद्यते । वात्या तृणमिव हरसि, अवलोक-
नेन स्वाधीनं करोषि । त्वय्यासक्तं भवतीति भावः । क्षिपसि । अनवलोकने ऽहमनया
नानुगृहीत इति दुःखभाक्करोषीति भावः । तरलयसि । पुनरवलोकने मय्यनुग्रहवतीति
घियेयं मयाञ्चले झटिति धर्तव्येति चाञ्चल्यभाक्करोषीति भावः । भ्रमयसि । पुनरनवलो-
कनेऽज्ञानशालिनं करोषि । सर्वथा किंकर्तव्यतामूढं संजातमिति भावः । तोलयसि ।
पुनरवलोकनेन किमस्मिन् किञ्चिद्धैर्यमस्ति न वेति ज्ञापकयथावस्थितिशालित्वाभाववत्क-
रोषीति भावः । एवं क्षणं धैर्यशालि क्षणमधैर्यशालि संवृत्तमिति भावः । पातयसि मू-
र्छितं करोषि । पुनरवलोकनादिति भावः । एवं च त्वत्कटाक्षरूपसायकैरसमसायकेन
भूयो भूयो जर्जरीकृतं सन्निष्प्राणमिव संजातमिति भावः । अन्योऽपि कश्चिद्वीरः पुनः
पुनर्हन्यमानो मूर्तितो भवतीति लौकिकम् । एवं च निरपराधिनो ममैतादृशदुःखविधाने
कथं नापराध्यति भवतीति व्यज्यते ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>सा बहुलक्षणभावा स्त्रीमात्रं वेति कितव तव तुल्यम् ।</l>
  <l>कोटिर्वराटिका वा द्यूतविधेः सर्व एव पणः ॥ ६२२ ॥</l>
</lg>
<p>सेति । हे कितव । एवं च तवैतादृशबुद्धिशालित्वमुचितमिति व्यज्यते । तव बहू-
नि यानि लक्षणान्यस्थूलाधरत्वादीनि तेषां भावः सत्ता यस्यां सा । यद्वा बहुला ये क्षणा
उत्सवास्ते येभ्य एतादृशा भावा विलासा यस्यां सा । एवं चेतरनायिकातोऽधिकत्वमा-
वेद्यते । पक्षे बहूनां समग्राणां लक्षाणां भाव आलोकनं चित्ताभिप्रायो वा यस्यां सा ।
एतादृशी सा नायिका स्त्रीमात्रं वेति तव । एवं चान्यस्य नैतादृशी मतिरिति भावः ।
तुल्यम् । मात्रपदेन लक्षणादिसत्त्वविरह आवेद्यते । अमुमेवार्थमर्थान्तरन्यासेन द्रढ -
यति--द्यूतविधिसंबन्धिकोटि: कोटिसंख्याकं वस्तु कपर्दिका वा सर्व एव पणः । यद्वा</p>
<pb n="214" />
<p>द्यूतं विधिः कर्तव्यार्थो यस्य स तस्य । विधिपदमवश्यकर्तव्यत्वमावेदयति । एवं च यथा
द्यूतसक्तस्य कोटिसंख्याकं वसु समधिकं वराटिका न्यूनेति ज्ञानशून्यत्वं तथा धूर्तस्य
तव विशेषज्ञानशून्यत्वमिति भावः । एवं च गुणानभिज्ञतया त्वया तां मत्सखीं विहाया-
न्यत्रासक्तिः क्रियत इति व्यज्यते ॥
सखी नायकं वक्ति--</p>
<lg>
  <l>सा विरहदहनदूना मृत्वा मृत्वापि जीवति वराकी ।</l>
  <l>शारीव कितव भवतानुकूलिता पातिताक्षेण ॥ ६२३ ॥</l>
</lg>
<p>सेति । हे कितव, पातिताक्षेण कृतकटाक्षेण । पक्षेऽक्षः पाशः । भवतानुकूलिता
स्वाधीनीकृता । पक्षे संचरणक्षमा कृता । विरहानलखिन्ना सा वराकी । एवं च स-
रलत्वमावेद्यते । चतुरङ्गगुटिकेव मृत्वा मृत्वापि जीवति । एवं च तस्यास्त्वत्कटाक्षमात्रेण
जीवनम्, अन्यथा मरणमेवेति भावः । एवं च या हि स्वदर्शनादिनानोपायैः स्ववशतामा-
नीता तस्यां पुनरीदृशौदासीन्यसंपादनं कथमनौचितीं ते नावहतीति व्यज्यते । तेन च
सा त्वयानुग्राह्येति । पक्षे मरणं क्रीडाक्षमत्वम् । जीवनं तत्क्षमत्वम् ॥
नायिका सखीं वक्ति--</p>
<lg>
  <l>स्पर्शादेव स्वेदं जनयति न च मे ददाति निद्रातुम् ।</l>
  <l>प्रिय इव जघनांशुकमपि न निदाघः क्षणमपि क्षमते ॥ ६२४ ॥</l>
</lg>
<p>स्पर्शादिति । निदाघः प्रिय इव । एवं च निवारणानर्हत्वं ध्वन्यते । स्पर्शमात्रात् ।
एवं च किंचित्कालोत्तरं किमनेन विधेयमिति न विद्म इति व्यज्यते । पक्षे रतादिजन्या-
वस्था वक्तुं न शक्येति व्यज्यते । स्वेदं करोति । निद्रां कर्तुं च मे न ददाति । जघ-
नसंबन्धि वसनमपि क्षणमपि न क्षमते । उभयत्र जघनवसनसत्त्वमावश्यकं तदभावे
'का वार्तालंकरणादीनां का च वार्ता घण्टिकादीनामिति भावः । एवं च प्रतिक्षणदृढत-
ररतकारी मत्प्रिय इति व्यज्यते । एवं चैतादृशनिदाघकाले प्रियतममन्तरा नावस्थातुं
शक्यम्, अतस्त्वरस्व तदानयनार्थमिति ध्वन्यते ॥
दूती नायकं वक्ति--</p>
<lg>
  <l>सा भवतो भावनया समयविरुद्धं मनोभवं बाला ।</l>
  <l>नूतनलतेव सुन्दर दोहदशक्त्या फलं वहति ॥ ६२५ ॥</l>
</lg>
<p>सेति । हे सुन्दर । एवं चासक्तियोग्यत्वं व्यज्यते । यद्वैतद्दोहदविशेषणम् । नूतन-
लता । नूतनपदेन चिरभाविफलयोग्यत्वं द्योत्यते । दोहदस्य शक्त्या फलमिव सा
बाला भवतो निरन्तरचिन्तनेन समयविरुद्धम् । बाल्ये हि मनोभवोद्रेकवत्त्वं विरुद्धमिति
भावः । फलविशेषणमप्येतत् । मन्मथं वहति । एवं च सा मदनकलाकलापानभिज्ञेति
न मन्तव्यं त्वयेति व्यज्यते। तेन चाभुक्तभोगान्नाधिकं किमपि सुखम्, अतस्त्वरख तद्दर्श-
नायेति ॥</p>
<pb n="215" />
<p>नायकं नायिकासखी वक्ति--</p>
<lg>
  <l>स्पृशति नखैर्न च विलिखति सिचयं गृह्णाति न च विमोचयति ।</l>
  <l>न च मुञ्चति न च मदयति नयति निशां सा न निद्राति ॥६२६॥</l>
</lg>
<p>स्पृशतीति । सा नखैः स्पृशति न च विलिखति । नखाग्रस्पर्शसंपादनेन मदनवत्त्वं
नखक्षताद्यकरणेन लज्जावत्त्वमावेद्यते । सिचयम् । तत्करकलितमिति भावः । गृह्णाति न
च विमोचयति । गृह्णातीत्यनेन लज्जावत्त्वं न विमोचयतीत्यनेन मदनवत्त्वं ध्वन्यते । न
च मुञ्चति । गन्तुं न प्रयच्छति न वा गच्छतीत्यर्थः । न च मदयति । न मदयतीत्यनेन
मान्मथस्पष्टचेष्टाद्यकरणेन लज्जावत्त्वं व्यज्यते । निशामतिवाहयति न निद्राति । तूष्णीं
निशातिवाहनेन लज्जावत्त्वं निद्राद्यविधानेन मन्मथवत्त्वं द्योत्यते । एवं च मध्यास्वभा-
वादियमेतादृशी न तु कोपादिमतीत्यतो भीतिमुत्सृज्यैनां निगृह्य स्वाभिलषितं संपादयेति
ध्वन्यते ॥
नायकः सखायं वक्ति--</p>
<lg>
  <l>स्तनजघनद्वयमस्या लङ्घितमध्यः सखे मम कटाक्षः ।</l>
  <l>नोज्झति रोधस्वत्यास्तटद्वयं तीर्थकाक इव ॥ ६२७ ॥</l>
</lg>
<p>स्तनेति । हे सखे, तीर्थसंबन्धिकाको नयास्तटद्वयमिव लङ्घितो मध्यः कटिर्येन ।
सूक्ष्मत्वादिति भावः । पक्षे लक्षितप्रवाहः । मम कटाक्षस्तस्या उन्नतम् । तटद्वयविशे-
षणमप्येतत् । स्तनजघनम् । प्राण्यङ्गत्वादेकवद्भावः । नोज्झति । तीर्थकाक इत्यनेन
कटाक्षे काकोपमेयतया नायिकायां तीर्थरूपत्वप्रतिपादनेन प्राक्तनकृतसुकृतसमूहैकल-
भ्यत्वं नायिकायामावेद्यते । लङ्घितमध्य इत्यनेन मध्यपाते जीवनमेवासंभवीति व्यज्यते ।
तस्याः स्तने कदाचिजघने वा दृष्टिर्ममावतिष्ठते नान्यत्रेति भावः । एवं च तस्यामास-
क्तिस्त्वया न विधेयेति नाहमुपदेष्टव्य इति व्यज्यते ॥
नायकः सखायं वक्ति--</p>
<lg>
  <l>सत्रीडस्मितमन्दश्वसितं मां मा स्पृशेति शंसन्त्या ।</l>
  <l>आकोपमेत्य वातायनं पिधाय स्थितं प्रियया ॥ ६२८ ॥</l>
</lg>
<p>सव्रीडेति । आ ईषत्कोपमेय लज्जास्मितकिंचिच्छ्वसितसहितम् । सख्यादिविलोक-
नाल्लज्जा । कथमयमकस्मादेव पश्यन्तीषु सखीषु तादृगाचरणप्रवृत्त इति स्मयेन स्मितम् ।
मन्मथाविर्भावाच्च मन्दश्वसितम् । मां मा स्पृशेति कथयन्त्या प्रियया वातायनं पिधाय
स्थितम् । एवं च सख्यादिदृगविषयतासंपादनेन यथेच्छरत्यनुमतिर्दत्तेति ध्वन्यते । तेन
चैतादृशी नान्या चतुरेति ॥
नायकः सखायं वक्ति--</p>
<lg>
  <l>सकरग्रहं सरुदितं साक्षेपं सनखमुष्टि सजिगीषम् ।</l>
  <l>तस्याः सुरतं सुरतं प्राजापत्यक्रतुरतोऽन्यः ॥ ६२९ ॥</l>
</lg>
<pb n="216" />
<p>सकरेति । करग्रहणसहितम् । निषेधार्थमित्यर्थः । सरुदितम् । असह्यत्वज्ञापनायेति
भावः । साक्षेपम् । ईदृशे कर्तव्ये कथमनीदृशं विधीयत इत्याक्षेपसहितमित्यर्थः । नखमु-
ष्टिसहितम् । जेतुमिच्छा जिगीषा तत्सहितम् । सकरग्रहं सरुदितमित्यनेन नायकका-
मसंदीपननिपुणत्वमथवा कोमलाङ्गीत्वम्, साक्षेपमित्यनेन कामतन्त्रनिपुणत्वम्, सनखमुष्टि
सजिगीषमित्यनेन रसनिमग्नमानसत्वं नायिकायामावेद्यते । तस्याः सुरतं सुरतम् । द्वितीयं
सुरतपदम् 'यस्य मित्त्राणि मित्त्राणि' इत्यादिवत्सुखातिशयजनकमित्यर्थान्तरसंक्रमितवा-
च्यम् । अंत एव तत्सुरतादन्यः प्राजापत्यक्रतुः । क्रतुपदेन कालान्तरभावि फलत्वं
व्यज्यते। तेन चैतदतिरिक्तपत्नीसुरतं पुत्रादिजननोत्तरं सुखदं न तदानीमेवेत्यनेनापीय-
मेव ममातिशयप्रेमवतीति ॥
दुर्जननिन्दाभिया परपुरुषे मानसमकुर्वाणां नायिकां दूती वक्ति--</p>
<lg>
  <l>सखि न खलु निर्मलानां विदधत्यभिधानमपि मुखे मलिनाः ।</l>
  <l>केनाश्रावि पिकानां कुहूं विहायेतरः शब्दः ॥ ६३० ॥</l>
</lg>
<p>सखीति । हे सखि । एवं च हितोपदेशकथनार्हत्वं द्योलते । मलिना निर्मलानाम-
भिधानमपि । अपिना संगत्यादेर्व्युदासः । निश्चयेन मुखेन विदधति । अमुमेवार्थम-
र्थान्तरन्यासेन द्रढयति--पिकानां कुहूं विहायान्यः शब्दः केनाश्रावि । न केनापी-
त्यर्थः । एवं च मलिनोक्तदुरुक्तैः किंचिन्न मनसि दुःखं विधेयमित्यावेद्यते । तेन च दुर्ज
नभीतिमुत्सृज्य स्वाभिलषितं यथेच्छं साधयेति ॥
क्वचिल्लघुतापि समीचीनफलदेति कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>स्वल्पा इति रामबलैर्ये न्यस्ता नाशये पयोराशेः ।</l>
  <l>ते शैलाः स्थितिमन्तो हन्त लघिम्नैव बहुमानः ॥ ६३१ ॥</l>
</lg>
<p>स्वल्पा इति । ये रघुपतिसैन्यैः स्वल्पा इति हेतोः समुद्रस्यान्तर्न निःक्षिप्तास्ते शैलाः
स्थितिमन्तः । भुवीति भावः । जाताः । अतो लाघवेनैव बहुमानः । महत्परिमाणस्थि-
तिशालित्वादिति भावः ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>सा श्यामा तन्वङ्गी दहता शीतोपचारतीत्रेण ।</l>
  <l>विरहेण पाण्डिमानं नीता तुहिनेन दूर्वेव ॥ ६३२ ॥</l>
</lg>
<p>सेति । अत्र संबुद्धिपदानुपादानं नायकविषयकक्रोधवत्तामावेदयति । श्यामा षोडश-
वार्षिकी । पक्षे श्यामवर्णां । कृशाङ्गी । पक्षे स्थूलेतरा । सा नायिका दहता शीतोपचा-
रेण तीव्रः । अधिक इत्यर्थः । तेन । विरहेण दूर्वा हिमेनेव पाण्डुतां नीता । एवं च
त्वद्विरहखिन्ना सा त्वयानुग्राह्येति व्यज्यते ॥</p>
<pb n="217" />
<p>'सा पतिमात्रानुरागिणी कथं त्वया सह मया संगमनीया' इति वादिनीं सखीं नायको
वक्ति--</p>
<lg>
  <l>सुनिरीक्षितनिश्चलकरवल्लभधाराजलोक्षिता न तथा ।</l>
  <l>सोत्कम्पेन मया सखि दृष्टा सा माद्यति स्म यथा ॥ ६३३ ॥</l>
</lg>
<p>सुनिरीक्षितेति । हे सखि । सा उत्कृष्टकम्पसहितेन । एतस्याः पतिर्द्रक्ष्यतीति घि-
येति भावः । सोत्कम्पेने त्यनेन सेके चमत्कारपूर्वकत्वाभावो व्यज्यते । मया सिक्ता । ज-
लेनेति भावः । यादृग्घृष्यति स्म, मत्ता बभूवेति वा, तादृक्सुष्ठु समीचीनविलोकनकारी
निश्चलहस्तो यः प्रियतमस्तेन धाराजलसिक्ता न माद्यति स्म । सुनिरीक्षितेत्यादिना सेके
चमत्कारपूर्वकत्वमावेद्यते । एवं च सा मय्यनुरक्तेति विज्ञायते । अतः सा त्वया मया
सह संगमनीयेति व्यज्यते ॥
दूती नायिकां वक्ति--</p>
<lg>
  <l>सखि मोघीकृतमदने पतिव्रते कस्तवादरं कुरुते ।</l>
  <l>नाश्रौषीर्भगवानपि स कामविद्धो हरः पूज्यः ॥ ६३४ ॥</l>
</lg>
<p>सखीति । हे सखि । एवं च हितोपदेशार्हत्वं ध्वन्यते । निष्फलीकृतमन्मथे, पति-
मात्रानुरागिणि, तवादरं कः कुरुते । न कोऽपीत्यर्थः । अमुमेवार्थमर्थान्तरन्यासेन
द्रढयति--भगवानपि स हरः शिवश्चतुर्दशी कामस्त्रयोदशी तद्वेधवान्पूज्यः । एवं च
केवलस्य पूजानर्हत्वेऽपि तदभावेन कामविद्धतयैव पूजार्हता हरस्य तत्र का वार्तान्यस्येति
भावः । एवं च यत्राचेतनरूपस्य शिवचतुर्दशी दिवसस्यापि कामाभिधानत्रयोदशीविद्धत-
यैव पूज्यताभिधानं धर्मशास्त्रे तत्र का वार्ता सचेतनस्य लोक इति व्यज्यते ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>सा मयि न दासबुद्धिर्न रतिर्नापि त्रपा न विश्वासः ।</l>
  <l>हन्त निरीक्ष्य नवोढां मन्ये वयमप्रिया जाताः ॥ ६३५ ॥</l>
</lg>
<p>सेति । हन्त खेदे । नवोढां दृष्ट्वा वयमप्रिया जाता इत्यहं मन्ये । यतो मयि । इद-
मग्रेऽप्यन्वेति । सा दासबुद्धिर्न । पूर्वं यथा मय्यनुग्रहस्तथा नाधुनेत्यर्थः । सा रतिः प्री-
तिर्न । पूर्ववत्प्रीतिर्नेत्यर्थः । सा । मन्मथविकारजेति भावः । लज्जा न । पूर्वं प्रियत-
मोऽयमिति बुद्ध्यान्यसमक्षं लज्जां कुर्वती स्थितेदानीं तद्बुद्ध्यभावात्तदभाववती वृत्तेति
भावः । क्वचित् 'नापत्रपा' इति पाठः । स विश्वासो न । यद्वा नायिका सखीं वक्ति--
हे सखि, सा दासबुद्धिर्मयि न । यथा पूर्वं दासवदाज्ञां कुर्वन्स्थितस्तथा नाधुनेत्यर्थः । न
प्रीतिः । नान्यतो लज्जा । पूर्वं मयि स्थितायामनेन कदाचिदस्या दुःखं भविष्यतीति
धियान्यस्याः परिहासोऽपि न कृतः, इदानीं मामगणयित्वा निर्लज्जतया व्यवहरतीति
भावः । न विश्वासः । किंचिद्वस्त्वद्यापि मद्धस्ते नार्पयतीति भावः । अतो नवोढां
वीक्ष्य वयमप्रिया जाता इत्यहं मन्ये । निरीक्ष्येत्यनेन संगमे किमनेन विधेयं तन्न विज्ञा-</p>
<pb n="218" />
<p>यते मयेति ध्वन्यते । एवं च सपत्नीसत्त्वमात्रमप्येतादृशदुःखदं किं पुनस्तत्प्राधान्यमिति
व्यज्यते ॥
काचित्कांचिद्वक्ति--</p>
<lg>
  <l>सुचिरायाते गृहिणी निशि भुक्ता दिनमुखे विदग्धेयम् ।</l>
  <l>धवलनखाङ्कं निजवपुरकुङ्कुमार्द्रं न दर्शयति ॥ ६३६ ॥</l>
</lg>
<p>सुचिरेति । निशि भुक्ता चतुरेयं गृहिणी अत्यन्तचिरकालेनागते । प्रिय इति भावः ।
प्रातःकाले श्वेतनखचिह्नं स्वशरीरं कुङ्कुमार्द्रताभाववन्न दर्शयति । कुङ्कुमार्द्रमेव दर्शयती-
त्यर्थः । सुचिरायात इत्यनेन नायिकायामन्यत्रासक्तिसंपादनयोग्यत्वं नायके च मन्मथवि-
ह्वलतया सम्यङ्निरीक्षणाभावेऽपि रतकारित्वमावेद्यते । गृहिणीत्यनेन स्वातन्त्र्यं तेन चा.
न्यकर्तृकनिवारणानर्हत्वं व्यज्यते । निशीत्यनेन दर्शनानर्हत्वं नखक्षतेषु ध्वन्यते । दिन-
मुख इत्यनेन नखक्षतेषु दर्शनयोग्यत्वं द्योत्यते । विदग्धपदेन वञ्चनानिपुणत्वं व्यज्यते ।
धवलपदेन नखक्षतेषु प्राचीनत्वं धवलनखाङ्कमित्यनेन यथास्थितशरीरस्य दर्शनायोग्यत्वं
ध्वन्यते । अकुङ्कुमार्द्रं न दर्शयतीत्यनेन प्राचीननखक्षतेष्वपि नवीनत्वभ्रमोदयेन प्राक्कृता-
नुचिताचरणगोपनमभिव्यज्यते । एवं चैवंविधचतुरयैवैतादृशाचरणं कर्तव्यं नान्ययेति
ध्वन्यते । तेन च न त्वयेति । यद्वैतादृशरीत्यापि नायकः प्रतारयितुं शक्यः, अतो.
नखक्षतादिभीतिमुत्सृज्य मदुक्तमङ्गीकुर्विति दूती नायिकां वक्ति ॥
नायिका नायकं वक्ति--</p>
<lg>
  <l>स्तनजघनोरुप्रणयी गाढं लग्नो निवेशितस्नेहः ।</l>
  <l>प्रिय कालपरिणतिरियं विरज्यसे यन्नखाङ्क इव ॥ ६३७ ॥</l>
</lg>
<p>स्तनेति । हे प्रिय, स्तनजघनोरुप्रीतिमान् । पक्षे कामतन्त्रे एतत्स्थानेषु नखक्षतदा-
नाद्यभिधानात् । अत्यर्थं लग्नः । हठालिङ्गनप्रवण इत्यर्थः । पक्षेऽत्यन्तं निखात इत्यर्थः ।
निवेशितस्नेहः कृतप्रीतिः । पक्षे दत्ततैलः । पीडोपशमार्थमिति भावः । एतादृशस्त्वं
नखाङ्क इव यद्विरज्यसे विरक्तो भवसि । पक्षे रुधिरशून्यः । इयं कालपरिणतिः । एवं
चेदानींतनकालस्यैवायमपराधो न तवेति भावः । नखाङ्कोऽपि बहुकालेन शुष्को भवति ।
यद्वा यद्विरज्यसे इयं कालपरिणतिरिति काक्वा चिरकालसंगतेरिदं फलमित्यर्थः । एवं च
यथा यथा चिरकालीनसंगतिस्तथा तथा सतां प्रीत्युत्कर्षः खलानां पुनरन्यथाभाव
इति भावः ॥
नायिकादूती नायकं वक्ति--</p>
<lg>
  <l>सा विच्छाया निशि निशि सुतनुर्बहुतुहिनशीतले तल्पे ।</l>
  <l>ज्वलति त्वदीयविरहादौषधिरिव हिमवतः पृष्ठे ॥ ६३८ ॥</l>
</lg>
<p>सेति । विच्छायान्यादृशाङ्गकान्तिमती । पक्षे छायाशून्या । प्रकाशशालित्वादिति
भावः । त्वद्विरहात्सा सुतनू रात्रौ रात्रौ बहुहिमतुल्यशैत्यशालिनि । पक्षे बहु तुहिनेन</p>
<pb n="219" />
<p>शीतले । तल्पे हिमालयस्य पृष्ठे औषधिरिव ज्वलति । एवं च दिवा लोकभीत्या संगुप्ता
तदीयवेदना न ज्ञायतेऽस्माभिर्यामिन्यां तु तदीयवेदना विज्ञायत इति व्यज्यते । हिमव-
त्पृष्ठोपमानेन तस्याः कोमलतल्पोऽपि कार्कश्यमाविष्करोतीति व्यज्यते ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>सा नीरसे तव हृदि प्रविशति निर्याति न लभते स्थैर्यम् ।</l>
  <l>सुन्दर सखी दिवसकरबिम्बे तुहिनांशुरेखेव ॥ ६३९ ॥</l>
</lg>
<p>सेति । हे सुन्दर । एवं चासक्तियोग्यत्वं ध्वन्यते । यद्वा सुन्दरसखीत्येकं पदम्
नीरसे । रसः प्रीतिः । पक्षे तेजोमयत्वान्नीरसत्वम् । तव हृदि सा सुन्दरी सूर्यबिम्बे
चन्द्ररेखेव प्रविशति, निर्याति, स्थैर्यं न लभते । एवं चास्थिरप्रकृतिस्त्वमेवासीति
व्यज्यते ॥
काचित् काञ्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>सुकुमारत्वं कान्तिर्नितान्तसरसत्वमान्तराश्च गुणाः ।</l>
  <l>किं नाम नेन्दुलेखे शशग्रहेणैव तव कथितम् ॥ ६४० ॥</l>
</lg>
<p>सुकुमारत्वमिति । हे चन्द्ररेखे, सौकुमार्यं शोभात्यन्तसरसत्वमाभ्यन्तराश्च गुणा इति
ते शशाङ्गीकारेणैव । अथ च शशजातीय पुरुषासक्त्या नाम निश्चयेन किं न कथितम् ।
अपि तु सर्वं कथितमित्यर्थः । एवं च यदि त्वयि सौकुमार्यादयो गुणाः स्थुस्तदा कथमी-
दृशे पुरुषे समासक्तिः कृता स्यात्, अतस्त्वयि गुणा न सन्तीति व्यज्यते । अथवा शशग्र-
हेण । एवं चैतादृशपुरुषसंबन्धात्तव सर्वं गुणादिकमनर्थकमेव संवृत्तमिति द्योत्यते । यद्वा
सौकुमार्यादि गुणवत्तया पद्मिनीत्वमावेद्यते । पद्मिनीनायिकायाः शशजातीयपुरुषयोग
एव समुचित इति कामशास्त्रम् ॥
इतरगुणापेक्षया सद्वृत्तमेवाधिकतरमिति कश्चित्कंचिद्भङ्ग्यन्तरेण वक्ति--</p>
<lg>
  <l>सौरभ्यमात्रमनसामास्तां मलयद्रुमस्य न विशेषः ।</l>
  <l>धर्मार्थिनां तथापि स मृग्यः पूजार्थमश्वत्थः ॥ ६४१ ॥</l>
</lg>
<p>सौरभ्येति । सौगन्ध्यमात्रेच्छावतां मलयाचलवृक्षेषु । एवं च सर्वत्र सौगन्ध्यसत्त्व-
मिति भावः । न विशेषः । स्वेप्सितसौगन्ध्यस्य सर्वत्र सत्त्वादिति भावः । धर्मेच्छावतां
तथापि सौगन्ध्यरूपसाधारणधर्मवत्त्वेऽपि पूजार्थमश्वत्थो गवेष्यः । एवं च पाण्डित्यादि-
गुणस्य सर्वत्रैकरूपसत्त्वेऽपि सद्भिः सद्वृत्तवत एवादरः क्रियत इति व्यज्यते ॥
कश्चित् कञ्चिद्वक्ति--</p>
<lg>
  <l>संवाहयति शयानं यथोपवीजयति गृहपतिं गृहिणी ।</l>
  <l>गृहवृतिविवरनिवेशितदृशस्तथा श्वासनं यूनः ॥ ६४२ ॥</l>
</lg>
<p>संवाहयतीति । गृहिणी । एवं च स्वाधीनत्वमावेद्यते । शयानं गृहपतिम्, न तु प्रियं</p>
<pb n="220" />
<p>यथा संवाहयति, उपवीजयति । उपसर्गेण समीरणे मन्दत्वमावेद्यते । तेन च स्वापे
सत्वरभवनयोग्यत्वम् । सदनभित्तिरन्ध्रे निवेशिता दृग्येन तस्य यूनः । एवं च स्पृहणी-
यत्वमावेद्यते । तथाश्वासनं भवति । एवं चैतादृशोपायनिबन्धनैस्तत्स्वापसंपादनं मत्सवि-
धागमनहेतुभूतमिति ज्ञानादिति भावः । एवं च स्त्रीणां विश्वासः केनापि न कार्य इति
व्यज्यते ॥
'कथमियं ममानादरं कुरुते' इति वादिनं कंचन वारवनितासखी वक्ति--</p>
<lg>
  <l>सत्यं स्वल्पगुणेषु स्तब्धा सदृशे पुनर्भुजंगे सा ।</l>
  <l>अर्पितकोटिः प्रणमति सुन्दर हरचापयष्टिरिव ॥ ६४३ ॥</l>
</lg>
<p>सत्यमिति । हे सुन्दर । एवं चेतरगुणवत्ताभावो व्यज्यते । स्वल्पगुणेषु सा स्तब्धा ।
न नम्रेत्यर्थः । इदं सत्यम् । पक्षेऽल्पमौर्व्यामित्यर्थः । सदृशे तु । स्वगुणैरिति भावः ।
पक्षे महत्तरत्वादिति भावः । भुजंगे खिङ्गे । पक्षे सर्पे । अर्पितकोटि: । दत्तकोटिसं-
ख्याकवसुरित्यर्थः । पक्षे दत्ताग्रभागा । हरचापयष्टिरिव प्रणमति नमस्करोति । पक्षे-
ऽत्यन्तं नम्रीभवति । एवं च सामान्यवनितात्वेन द्रव्यमात्रेच्छयेयं स्वासदृशं नायकं न
भजतीति भावः । एवं च द्रव्यवत्तामात्रेण त्वया गर्वो न विधेय इति व्यज्यते ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>सर्वंसहां महीमिव विधाय तां बाष्पवारिभिः पूर्णाम् ।</l>
  <l>भवनान्तरमयमधुना संक्रान्तस्ते गुरुः प्रेमा ॥ ६४४ ॥</l>
</lg>
<p>सर्वंसहामिति । अत्र संबुद्धिपदानुपादानं क्रोधवत्तामावेदयति । सर्वंसहाम्। त्वत्कृत-
सर्वापराधसहनशीलामित्यर्थः । पक्षे तदभिधानाम् । बाष्पजलपरिपूर्णाम् । पक्षे जलपूर्णाम् ।
महीमिव तां विधाय तेऽयं गुरुः श्रेष्ठः । पक्षे बृहस्पतिः । प्रेमाधुना भवनान्तरम् । नायि-
कान्तरमित्यर्थः । पक्षे राश्यन्तरमित्यर्थः । संक्रान्तः । एवं च त्वदीयसर्वापराधसहनशीलां
रुदतीमेतामतिसरलां विहायान्यत्रासक्तिं करोषीति त्वादृशोऽन्यो न दुष्टतर इति
व्यज्यते । तेन च त्वयेत्थं न विधेयमिति । बृहस्पतिचलने चातिवृष्टिर्भवतीति ज्योतिः-
शास्त्रसिद्धान्तः ॥
कश्चित् कञ्चिद्वक्ति--</p>
<lg>
  <l>संभवति न खलु रक्षा सरसानां प्रकृतिचपलचरितानाम् ।</l>
  <l>अनुभवति हरशिरस्यपि भुजंगपरिशीलनं गङ्गा ॥ ६४५ ॥</l>
</lg>
<p>संभवतीति । सरसानां शृङ्गाररसवतीनाम् । पक्षे रसो जलम् । स्वभावचञ्चलाच-
रणानाम् । पक्षे चरितं वर्त्म । रक्षणं न संभवति । कुत इत्यत आह--हरशिरस्यपि ।
किमुतान्यत्रेति भावः । गङ्गा । एवं चैतादृशाकर्तव्यता नोचितेति व्यज्यते । भुजंगपरि-
शीलनम् । अथ च खिङ्गसंभोगम् । अनुभवति । एवं चातिरक्षणादेः सत्त्वादेतस्याः
सङ्गः कथं भविष्यतीति मनसि न कापि चिन्ता त्वया विधेयेति व्यज्यते ॥</p>
<pb n="221" />
<p>बहुनायकावल्लभं स्वयं वाञ्छन्तीं काञ्चित् काचिद्भङ्ग्यन्तरेण वक्ति--</p>
<lg>
  <l>सुलभेषु कमलकेसरकेतकमाकन्दकुन्दकुसुमेषु ।</l>
  <l>वाञ्छति मनोरथान्धा मधुपी स्मरधनुषि गुणाभावम् ॥ ६४६ ॥</l>
</lg>
<p>सुलभेष्विति । कमलप्रभृतीनि यानि कुसुमानि तेष्वनायासलभ्येषु सत्सु मनोरथेनान्धा
मधुपी मदनधनुषि मौर्वी भावम् । अथ चाप्रधानभावम् । वाञ्छति । कुसुमपदेन परि-
मले बहुलत्वं व्यज्यते । मधुपीपदेनाज्ञत्वं द्योत्यते । मदनधनुषीत्यनेन मदनस्याप्येतत्क-
रणक एव जगज्जय इति प्रतिपादनेन लावण्यपुरुषार्थातिशयशालित्वं नायके व्यज्यते ।
तेन चानेककामिनीवल्लभत्वं द्योत्यते । एवं च सुलभसमीचीनपुरुषान्विहाय तादृशपुरुषे
समासक्तौ क्रियमाणायामेतस्यातिगुणवत्कामिनीनां बाहुल्यात्तन्मध्ये एतस्या अप्रधानभाव
एव स्यादिति व्यज्यते ॥
काचित् काञ्चिद्वक्ति--</p>
<lg>
  <l>सा लज्जिता सपत्नी कुपिता भीतः प्रियः सखी सुखिता ।</l>
  <l>बालायाः पीडायां निदानिते जागरे वैद्यैः ॥ ६४७ ॥</l>
</lg>
<p>सेति । वैद्यैर्बालाया: पीडायां जागरे निदानिते । एतस्याः पीडायां जागरणमेव नि-
दानमित्यगदंकारैर्निश्चित्योक्त इत्यर्थः । सा बाला लज्जिता । सुरतादिक्रीडाज्ञानादिति
भावः । सपत्नी कुपिता । कथं प्रियतमोऽस्यामेतादृशासक्तिमान् संवृत्त इति धियेति भावः ।
प्रियो भीतः । मत्कृतापराधज्ञानं गृहिण्या जातमिति धियेति भावः । सखी । अर्थाद्बा-
लायाः । सुखिता । स्वसखीसौभाग्यप्राकट्यादिति भावः । एवं च भर्तृसमीपगमने सम्य-
गेव भवतीति व्यज्यते ॥
विदेशादागते प्रेयसि मानकारिणीं नायिकां सखी समुपदिशति--</p>
<lg>
  <l>सुचिरागतस्य संवाहनच्छलेनाङ्गमङ्गमालिङ्ग्य ।</l>
  <l>पुष्यति च मानचर्चां गृहिणी सफलयति चोत्कलिकाम् ॥ ६४८ ॥</l>
</lg>
<p>सुचिरेति । गृहिणी अत्यन्तचिरकालगतस्य । दयितस्येति भावः । संवाहनमिषेणा-
ङ्गमङ्गमालिङ्ग्य मानम् । अवधिदिवसानागमनसंजातमिति भावः । पुष्यति च । 'मानग-
र्वम्' इति पाठे सर्वो द्वन्द्वो विभाषयैकवद्भवतीत्येकवद्भावः । गर्वं स्वोत्कर्षाभिमानं पु-
घ्यति च । उत्कण्ठां च सफलयति । सुचिरागतस्येत्यनेन संवाहनौत्कण्ठ्यौचित्यमावेद्यते ।
गृहिणीपदेनान्यासामीदृशी रीतिरिति व्यज्यते । एवं च या गृहिणी भवति तस्यास्त्वेता-
दृशी रीतिरत एतादृशानाचरणे तव गृहिणीत्वमेव न स्यादतो नायकसेवापुरःसरमेव माना-
दिकं विधेयमिति व्यज्यते । तेन च संवाहनच्छलेन मानसंगोपनमपि कर्तुं शक्यं सरल-
त्वसंरक्षणं चेति ॥
नायिकादूती नायकं वक्ति--</p>
<lg>
  <l>सा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति ।</l>
  <l>वचनपटोस्तव रागः केवलमास्ये शुकस्येव ॥ ६४९ ॥</l>
</lg>
<pb n="222" />
<p>सेति । अत्र संबुद्धिपदानुपादानं दूतीगतक्रोधमावेदयति । स च नायकापराधम् ।
सा मत्सखी सर्व प्रकारेणैव रक्तानुरक्ता। त्वयीति भावः । एवकारेण सर्वथान्यथा नाशङ्क-
नीयमिति व्यज्यते । पक्षे सर्वतो रक्तरूपवती । रागं प्रीतिम् । पक्षे लौहित्यम् । गुञ्जेव मुखे
न वहति । वचनकुशलस्य । एवं च परप्रतारणनिपुणत्वमावेद्यते । पक्षे शब्दोच्चारणनिपुणस्य
तव शुकस्येवास्ये केवलं रागः प्रीतिः । पक्षे लौहित्यम् । एवं च सा सर्वात्मना त्वय्यनु-
रागवती परंतु केवलं न मुखेनानुरागप्रकटनं करोतीति तादृशी न काचिदन्या सरला ।
त्वं तु केवलं मुखेनैव प्रीतिमाविष्करोषि, अतस्तु शठ इति व्यज्यते । तेन च कथं
त्वद्वचनं मया विश्वसितव्यमिति ॥
काचित्कांचिच्छिक्षयति--</p>
<lg>
  <l>सायं कान्तभुजान्तरपतिता रतिनीतसकलरजनीका ।</l>
  <l>उपसि ददती प्रदीपं सखीभिरुपहस्यते बाला ॥ ६५० ॥</l>
</lg>
<p>सायमिति । सायं संध्यासमये कान्तस्य भुजयोर्मध्ये पतिता । मध्यपदेन निःसारणा-
नर्हत्वं व्यज्यते । पतितेत्यनेन तस्या नापराध इति ध्वन्यते । रत्या नीता निखिला रा-
त्रिर्यया । एवं च कान्तभुजान्तरपतने रतेर्निवारणाशक्यतया तस्या नापराध इति भावः ।
प्रातः प्रदीपं ददती । रात्र्यपगमाज्ञानादिति भावः । उपसर्गेण बहलतैलादिदानेनेदानीमेव
सायंतनसमयः संवृत्त इति ज्ञानवत्त्वमावेद्यते । सा बाला सखीभिरुपहस्यते । एवं च
गृहकृत्यं यामिनीप्रथमयाम एव विधाय पश्चात्कान्तसदनं प्रविशेति ध्वन्यते ॥
नायको दूत वक्ति--</p>
<lg>
  <l>सा तीक्ष्णमानदहना महतः स्नेहस्य दुर्लभः पाकः ।</l>
  <l>त्वां दर्वीमिव दूति प्रयासयन्नस्मि विश्वस्तः ॥ ६५१ ॥</l>
</lg>
<p>सेति । हे दूति, स तीक्ष्णो मानरूपो वह्निर्यस्या एतादृशी बहुलस्य स्नेहस्य प्रीतेः ।
अथ च तैलस्य । पाकः परिपाको दुर्लभो भवति । दर्वीमिव त्वां प्रयासयन् गमनागमन-
व्यापारशालिनीं कुर्वन् । पक्षे आलोडयन् । विश्वासं प्राप्तोऽस्मि । अत्यन्तमानशालिन्या-
स्तस्याः स्नेहावस्थितिर्दुर्लभा परंतु त्वदीयपरिश्रमेण सा भवित्रीति भावः । एवं च
त्वदेकसाध्या तत्प्रीत्यवस्थितिरिति व्यज्यते । तीक्ष्णाग्नौ बहुतरस्नेहपरिपाकोऽपि दर्वी-
चालनं विना दुर्लभो भवति ॥
काचित्कांचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>स्नेहक्षतिर्जिगीषा समरः प्राणव्ययावधिः करिणाम् ।</l>
  <l>न वितनुते कमनर्थं दन्तिनि तव यौवनोद्भेदः ॥ ६५२ ॥</l>
</lg>
<p>स्नेहेति । हे दन्तिनि, तव तारुण्योद्गमः प्रीतिनाशः, जेतुमिच्छा, प्राणनाशावधिः
सङ्ग्रामः, इति कमनर्थं गजानां न वितनुते । अपि तु सर्वम् । एवं च त्वन्निमित्तं तरु-
णानां परस्परं स्नेहनाशादि भवतीति व्यज्यते । तेन च त्वमत्यन्तसुभगेति ॥</p>
<pb n="223" />
<p>काचित्कांचिद्वक्ति--</p>
<lg>
  <l>सदनादपैति दयितो हसति सखी विशति धरणिमिव बाला ।</l>
  <l>ज्वलति सपत्नी कीरे जल्पति मुग्धे प्रसीदेति ॥ ६५३ ॥</l>
</lg>
<p>सदनादिति । मुग्धे, प्रसीदेति शुके जल्पति सति प्रियो गृहाद्गच्छति । गृहिणीक्रो-
धभयादिति भावः । सखी हसति । कथमिदानीं मत्सख्यधीनतामापन्न इति धियेति
भावः । तोषादिति वा भावः । बाला । एवं च लज्जायोग्यत्वं व्यज्यते । धरणिमिव
विशति । लज्जावशादिति भावः । सपत्नी ज्वलति । द्वेषवशान्मानवशाद्वेति भावः ।
एवं चैतादृशाचरणमत्यन्तं सम्यगिति व्यज्यते ॥
नायको वक्ति--</p>
<lg>
  <l>संकुचिताङ्गीं द्विगुणांशुकां मनोमात्रविस्फुरन्मदनाम् ।</l>
  <l>दयितां भजामि मुग्धामिव तुहिन तव प्रसादेन ॥ ६५४ ॥</l>
</lg>
<p>संकुचितेति । हे हिम, तव प्रसादेन संकुचिताङ्गीं द्विगुणवस्त्रां चित्तमात्रे विस्फुरन्म-
दनो यस्यास्तां दयितां मुग्धामिव भजामि । एवं च यद्वशात्प्रौढापि नवोढेव भवतीति
व्यज्यते । तेन च त्वत्तुल्यो नान्यः कश्चिन्मदुपकर्तेति । नवोढाप्यङ्गसंकोचादिमती भवति ॥
दूती नायिकां वक्ति--</p>
<lg>
  <l>सखि लग्नैव वसन्ती सदाशये महति रसमये तस्य ।</l>
  <l>वाडवशिखेव सिन्धोर्न मनागप्यार्द्रतां भजसि ॥ ६५५ ॥</l>
</lg>
<p>सखीति । हे सखि । एवं च हितोपदेशार्हत्वं ध्वन्यते । तस्य महति प्रशस्ते । एवं
चान्यकृतापराधसंगोपनकारित्वं द्योत्यते । पक्षे गभीरे । रसमये प्रीतिप्रचुरे । पक्षे रसो
जलम् । आशयेऽन्तःकरणे । पक्षेऽभ्यन्तरे । सिन्धोराशये वडवार्चिरिव निरन्तरं लग्नैव
वसन्ती मनागप्यार्द्रतां स्निग्धताम् । पक्षे सजलतां न भजसि । एवं च स तु त्वय्यत्य-
न्तमासक्तः, त्वं तु रूक्षतामेव भजसीत्यनुचितं तवेदमिति ध्वन्यते ॥
नायिका दूतीं वक्ति--</p>
<lg>
  <l>सखि मिहिरोद्गमनादिप्रमोदमपिधाय सोऽयमवसाने ।</l>
  <l>वन्ध्योऽवधिवासर इव तुषारदिवसः कदर्थयति ॥ ६५६॥</l>
</lg>
<p>सखीति । हे सखि । एवं चैतादृशसंबुद्ध्या तुष्टा झटिति कार्यं करिष्यतीत्यतो दूती-
पदानुपादानम् । सूर्योद्गमनप्रभृति सुखमाच्छाद्य। 'मिहिरोदयसमयप्रमोदम्' इति क्वचि-
त्पाठः । वन्ध्यो निष्फलः । नायकागमनाभावात् । अवधिवासर इव सोऽयं हिमदिवसः
समाप्तौ कदर्थयति । यथावधिदिवसे प्रातरद्यायास्यति दयित इत्यानन्दः सायं च प्रियत-
मानागमे प्रातःकालीनसुखोपमर्दैनात्यन्तं दुःखं भवति तथा हिमदिवसे प्रातः सूर्यरश्मिभिः
संजातं सुखं दूरीकृत्य सायंतनसमये शीतदुःखमत्यन्तं भवतीति भावः । एवं च रात्रि-</p>
<pb n="224" />
<p>रियमत्यन्तदीर्घा नैकाकितयातिवाहयितुं शक्येत्यतः संयोजयान्यनायकेन मामिति ध्व-
न्यते । यद्वा तुषारदिवस इवावधिदिवसोऽवसाने कदर्थयति । एवं चैतावत्कालं मया
प्राणा निरुद्ध्य स्थापिताः, इदानीं दयितानागमननिर्णये नैते मया निरोद्धुं शक्या अत ए-
तद्रक्षणं यथा भवति तथा यतस्वेति सखीं प्रत्युक्तिः । एवं चाग्रेऽन्यादृशाचरणे नाहं भ-
वत्या निषेधनीयेति व्यज्यते ॥
दूती नायिकां वक्ति--</p>
<lg>
  <l>सुरभवने तरुणाभ्यां परस्पराकृष्टदृष्टिहृदयाभ्याम् ।</l>
  <l>देवार्चनार्थमुद्यतमन्योन्यस्यार्पितं कुसुमम् ॥ ६५७ ॥</l>
</lg>
<p>सुरेति । परस्पराकृष्टदृष्टिचित्ताभ्याम् । 'चक्षूरागः प्रथमं तदनु चित्तासङ्गः' इत्युक्त-
त्वात्प्रथमं दृष्ट्युपादानम्। तरुणाभ्यां देवालये देवपूजार्थमुद्यतं कुसुमं परस्परस्यार्पितम् ।
सुरभवन इत्यनेनावश्यकधर्माधर्मविवेककरणौचित्यमावेद्यते । जनसंमर्दो वा । तेन च
तदगणनेन साहसातिशयः । देवार्चनार्थमुद्यतमित्यनेन मनुष्यादेर्दातुमयुक्तमित्यावेद्यते ।
तेन च परलोकभ्रंशभीतिशून्यत्वम् । कुसुममित्येकवचनेन बहूनां कुसुमानां सत्त्वेऽन्ये -
नापि देवार्चनस्य संपादयितुं शक्यतया न तथा दोषः, तदभावे चैतादृशाचरणेऽत्यन्तम-
ज्ञत्वं व्यज्यते । तेन च प्रीत्यतिशयः । एकवचनमविवक्षितमिति ऋजवः । एवं चैतादृशी
रीतिः, अतस्त्वयापि भीतिमुत्सृज्य यथेष्टाचरणं विधेयमिति ध्वन्यते ॥
संजातोऽयं संकेतकाल इति काचित्कांचिद्वक्ति--</p>
<lg>
  <l>सायं कुशेशयान्तर्मधुपानां निर्यतां नादः ।</l>
  <l>मित्त्रव्यसनविषण्णैः कमलैराक्रन्द इव मुक्तः ॥ ६५८ ॥</l>
</lg>
<p>सायमिति । सायं निर्गच्छताम् । भाविकमलसंकोचभियेति भावः । मधुपानाम् ।
एवं चोन्मत्तत्वं ध्वन्यते । कमलान्तर्नादो मित्त्रस्य सूर्यस्य । विकासकत्वान्मित्रत्वम् ।
व्यसनमतस्तेन खिन्नैः कमलैराक्रन्द इव मुक्तः । एवं च नायकः संकेतोत्सवेन वयस्यैः
सह मधु पीत्वा कामबाधाव्यसनमनुप्राप्त आस्ते, इदं तु मित्त्रदुःखदुःखितैस्तद्वयस्यैरेवा-
भिहितम्, अतस्त्वरय संकेतकाल एव झटिति तत्र गन्तुमिति व्यज्यते ॥
नायको वक्ति--</p>
<lg>
  <l>सुमहति मन्युनिमित्ते मयैव विहितेऽपि वेपमानोरुः ।</l>
  <l>न सखीनामपि रुदती ममैव वक्षःस्थले पतिता ॥ ६५९ ॥</l>
</lg>
<p>सुमहतीति । मयैव । एवं च नान्यस्यापराध इति व्यज्यते । अत्यन्तमहत्तरे मन्यु-
कारणे विहितेऽपि कम्पमानोरू रुदती ममैव हृदयस्थले । स्थलपदं विशालतां गमयति ।
यद्वा कृत्रिममपि समाधानं न कृतं मयेति व्यज्यते । सुप्ता । न सखीनामपि । सखीपदं
वक्षःस्थलस्वापयोग्यतां गमयति । अपिस्तस्मिन्नावश्यकतामावेदयति । यद्वा न सखीना-
मपि । सपत्नीनामित्यर्थः । समक्षमित्यध्याहारः । मयैव मन्युनिमित्ते विहितेऽपीत्यादि</p>
<pb n="225" />
<p>प्राग्वत् । एवं च सपत्नीसमक्षकृतापराधस्यातिदुःखदत्वमिति भावः । अथवा सखीना-
मपि । अपिर्नायिकां समुच्चिनोति । मन्युनिमित्ते मयैव विहिते मम वक्षःस्थल एव न
पतितेति काकुः । स्थल एवेत्यनेनात्यन्तसरलत्वं व्यज्यत इत्यर्थः । एवं च मदङ्गनातुल्या
नान्याङ्गनेति ध्वन्यते ॥
काचित्कांचिद्वक्ति--</p>
<lg>
  <l>सुभग व्यजनविचालनशिथिलभुजाभूदियं वयस्यापि ।</l>
  <l>उद्वर्तनं न सख्याः समाप्यते किंचिदपगच्छ ॥ ६६० ॥</l>
</lg>
<p>सुभगेति । हे सुभग । एतादृशाङ्गनासमासक्तिमत्त्वादिति भावः । इयं वयस्यापि ।
एवं च दास्यादेः का वार्तेति भावः । व्यजनस्य विशेषचालने शिथिलहस्ताभूत् । एवं
च शनैर्व्यजनचालने न किमपि भवतीति भावः । सख्या उद्वर्तनं न समाप्यते । सात्त्वि-
कभावरूपस्वेदातिशयादिति भावः । किंचिदितोऽपसर । किंचिदित्यनेन दूरगमने दुःखं
सख्या भविष्यतीति ध्वन्यते । एवं चेयमत्यन्तं त्वय्यासक्तेति ॥
नायिकासखी नायकं वक्ति--</p>
<lg>
  <l>सत्रीडा नखरदनार्पणेषु कुपिता प्रगाढमचिरोढा ।</l>
  <l>बहुयाच्ञाचरणग्रहसाध्या रोषेण जातेयम् ॥ ६६१ ॥</l>
</lg>
<p>सब्रीडेति । सलज्जा प्रगाढं नखक्षतदन्तक्षतेषु । कृतेष्वित्यर्थः । कुपितेयं नवोढा ।
एवं च नखक्षतादिना कोपौचित्यं ध्वन्यते । रोषेण । त्वदीयेनेत्यर्थः । बहुचाटवचनप्रणि-
पातसमाधेया जाता । एवं च नवोढात्वेन दन्तक्षताद्यसहनेन कुपितायां नायिकायां तव
क्रोधकरणमनुचितमिति भावः । एवं चेदानीं चाटुवचनादिनास्याः कोपमपनय त्वमिति
व्यज्यते । तेन च तवैवायमपराध इति ॥
कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>सुगृहीतमलिनपक्षा लघवः परभेदिनः परं तीक्ष्णाः ।</l>
  <l>पुरुषा अपि विशिखा अपि गुणच्युताः कस्य न भयाय ॥६६२॥</l>
</lg>
<p>सुगृहीतेति । सम्यग्गृहीतो दुष्टानां पक्षोऽङ्गीकारो यैः । स्वित्यनेन त्यागानर्हत्वं व्य-
ज्यते । तेन चोपदेशानर्हत्वम् । पक्षे झटिति निष्कासनानर्हश्यामपक्षवन्त इत्यर्थः । ल-
घवो नीचाः । पक्षेऽल्पपरिमाणवन्त इत्यर्थः । परान्भेदयन्ति ते । अन्येषां परस्परभेदज-
ननेन कलहप्रवर्तका इत्यर्थः । पक्षे इतरच्छेदकारकाः । तीक्ष्णाः । क्रूरकर्माण इत्यर्थः ।
पक्षे यथाश्रुतम् । पुरुषा अपि बाणा अपि गुणच्युताः साधुत्वादिगुणहीनाः । पक्षे गुणो
ज्या । कस्य न भयाय । अपि तु सर्वस्य भयायेति भावः । एवं चैतादृशपुरुषसंगतिकर-
णमनुचितमिति व्यज्यते ॥</p>
<pb n="226" />
<p>दुष्टस्य किमपि कर्म न सम्यक्फलायेति कश्चिद्वक्ति--</p>
<lg>
  <l>स्वकपोलेन प्रकटीकृतं प्रमत्तत्वकारणं किमपि ।</l>
  <l>द्विरदस्य दुर्जनस्य च मदं चकारैव दानमपि ॥ ६६३ ॥</l>
</lg>
<p>स्वेति । स्वस्य कपोलेन प्रकटीकृतम् । दानस्य ततोऽप्युत्पत्तेरिति भावः । अथ च
स्वमुखेनाभिहितं मया दानं कृतमिति । किमप्यनिर्वचनीयं प्रकृष्टमत्तत्वकारणम् । दान-
मपि । अपिनान्यकर्मणः का वार्तेति भावः । गजस्य खलस्य च मदमेव चकार । एवं
च खलसंगतिरनुचितेति व्यज्यते ॥
नायकस्य मौढ्यादियमपि मूढैवेति मन्वानमुपपतिं दूती वक्ति--</p>
<lg>
  <l>सत्यं पतिरविदग्धः सा तु स्वधियैव निधुवने निपुणा ।</l>
  <l>मार्त्तिकमाधाय गुरुं धनुरधिगतमेकलव्येन ॥ ६६४ ॥</l>
</lg>
<p>सत्यमिति । पतिरचतुर इदं सत्यम् । अत एव पतिपदं साभिप्रायम् । सा तु स्वबु-
द्ध्यैव सुरते निपुणा । एनमेवार्थमर्थान्तरन्यासेन द्रढयति--मृत्स्वरूपं गुरुं संस्थाप्यैकलव्य-
नाम्ना निषादेन धनुरधिगतम् । एवं च 'उपदेशक्रमो राम व्यवस्थामात्रपालनम् । ज्ञ-
प्तेस्तु कारणं तात शिष्यप्रज्ञैव केवलम् ॥' इति वसिष्ठवचनात् । मार्त्तिकं द्रोणाचार्यं
विधायैकलव्येन धनुर्विद्याभ्यस्तेति भारते । एवं च तस्यामचातुर्यं नाशङ्कनीयं त्वयेति
ध्वन्यते ॥
नायकदूती नायिकां वक्ति--</p>
<lg>
  <l>सौभाग्यमानवान् स त्वयावधीर्यापमानमानीतः ।</l>
  <l>स्वं विरहपाण्डिमानं भस्मस्नानोपमं तनुते ॥ ६६५ ॥</l>
</lg>
<p>सौभाग्येति । सौभाग्याभिमानवान् स त्वयावगणय्यापमानं प्रापितः । भस्मस्नानसदृशं
स्वं स्वकीयं विरहपाण्डिमानम् । क्वचित् । 'तव' इति पाठः । तनुते । यथा कश्चिदभिमानी
अवगणितः सर्वाङ्गे भस्म संप्लाव्य सर्वं परित्यज्य दुःखवशात्तिष्ठति तथायं त्वद्विरहरूप-
भस्मस्नानं करोति, अत एनं प्रसन्नीभूयाङ्गीकुर्विति व्यज्यते ॥
काचित्कांचिद्वक्ति--</p>
<lg>
  <l>सखि मम करञ्जतैलं बहुसंदेशं प्रहेण्यसीत्युदिता ।</l>
  <l>श्वशुरगृहगमनमिलितं बाष्पजलं संवृणोत्यसती ॥ ६६६ ॥</l>
</lg>
<p>सखीति । हे सखि । एवं चोपदेशार्हत्वं व्यज्यते । बहूनां संदेशो यत्र । बहुतररो-
गिप्रार्थ्यमानमित्यर्थः । एवं चावश्ययाचनीयत्वप्रेषणीयत्वे व्यज्येते । अथ च बहुतरकामु-
कसंकेतविषयमित्यर्थः । एवंविधं करञ्जतैलं प्रहेष्यसीत्युक्ता श्वशुरसदनगमनावसरसंजात-
बाष्पजलमसती संवृणोति । एवं च तत्रापि मया करञ्जवृक्षसंकेतं विधाय कामुकस्त्वदर्थं
प्रेषणीय इति न कापि त्वया चिन्ता विधेयेति ध्वन्यते । एवं च गृहपदं सार्थकम् ।
बहूनां सम्यग्देशरूपमित्यनेन निगूढतया यथेच्छसुरतयोग्यत्वं ध्वन्यते ॥</p>
<pb n="227" />
<p>कथं मयैतादृशसमये समागन्तुं शक्यमित्याशङ्क्य दूती नायिकां वक्ति--</p>
<lg>
  <l>संदर्शयन्ति सुन्दरि कुलटानां तमसि विततमषिकल्पे ।</l>
  <l>मौलिमणिदीपकलिका वर्तिनिभा भोगिनोऽध्वानम् ॥ ६६७ ॥</l>
</lg>
<p>संदर्शयन्तीति । हे सुन्दरि, विततमषीतुल्ये तमसि मस्तकमणय एव दीपकलिका
येषां ते वर्तितुल्या भोगिनः सर्पाः कामुकाश्च मार्गे सम्यग्दर्शयन्ति । एवं च सर्पफणा-
मणिसंजातप्रकाशेनैव तवाध्वज्ञानं भविष्यतीत्यतो मार्गज्ञानाभावशङ्कामपास्य कार्यं साध-
येति ध्वन्यते । अथवा नायका एव मस्तकस्थमणिप्रकाशैर्मार्गमादर्शयन्तीत्यनेन नातः
परं मयात्रागन्तव्यं किं तु नायक एव त्वामागत्य संकेतं प्रापयिष्यतीति ध्वन्यते ॥
दुष्टस्योत्कर्षेऽन्येषां क्लेशवत्तैव भवतीति कश्चित्कंचिदन्योक्त्या वक्ति--</p>
<lg>
  <l>सर्वं वनं तृणाल्या पिहितं पीताः सितांशुरविताराः ।</l>
  <l>प्रध्वस्ताः पन्थानो मलिनेनोद्गम्य मेघेन ॥ ६६८ ॥</l>
</lg>
<p>सर्वमिति । मलिनेन मेघेनोद्गम्य सर्वं वनं वनस्थलं तृणपङ्क्त्याच्छादितम् । सितांशुर-
विताराः पीता आच्छादिताः । मार्गाः प्रध्वस्ताः । वनमित्यनेन विश्रान्तिदातृत्वप्रतिपा-
दनात् सितांशुरित्यनेन सौम्यत्वव्यञ्जनाद्रविरित्यनेन निखिलकर्मप्रवर्तकत्वध्वननात् तारय-
न्तीति व्युत्पत्त्या तारा इत्यनेन सद्बुद्धिदातृत्वद्योतनात् पन्थान इत्यनेनावश्यरक्षणीय-
त्वदर्शनादेतादृशपुरुषापकारकरणादसमीचीनत्वाविष्करणेन दुष्टपुरुषोदयाशंसनमप्यनु-
चितं किं पुनस्तत्संपादनमिति व्यज्यते ॥
झटिति मन्त्रो न प्रकाश्य इति कश्चित्कंचिद्वदति--</p>
<lg>
  <l>सम्यगनिष्पन्नः सन्योऽर्थस्त्वरया स्वयं स्फुटीक्रियते ।</l>
  <l>स व्यङ्ग एव भवति प्रथमो विनतातनूज इव ॥ ६६९ ॥</l>
</lg>
<p>सम्यगिति । सन् । समीचीनोऽपीत्यर्थः । सम्यक् संपूर्णमसंजातो योऽर्थस्त्वरया
स्वयं प्रकटीक्रियते । स्वयमित्यनेनान्येन प्रकटीकरणे मिथ्यैवायं वक्ति नास्माभिरेवं
विचारितमिति समाधातुं शक्यमित्यावेद्यते । आद्यो विनताया गरुडजनन्यास्तनूजो-
ऽरुणस्तद्वत्स व्यङ्ग एव । एवकारेणान्यथाबुद्धिकरणानर्हत्वं ध्यन्यते ॥
कश्चित् कञ्चिद्वक्ति--</p>
<lg>
  <l>सज्जन एव हि विद्या शोभायै भवति दुर्जने मोघा ।</l>
  <l>न विदूरदर्शनतया कैश्चिदुपादीयते गृध्रः ॥ ६७० ॥</l>
</lg>
<p>सजनेति । समीचीनजन एव विद्या शोभार्थं भवति । फलदा भवतीत्यर्थः । दुर्जने
निष्फला । अमुमेवार्थमर्थान्तरन्यासेन द्रढयति--अत्यन्तदूरदर्शित्वेन गृध्रः कैश्चिन्नोपा-
दीयते । एवं च विद्यावत्त्वेऽपि त्वया दुर्जनत्वं न विधेयमिति व्यज्यते । एवकारेणैव न
दुर्जन इत्यर्थप्रतीतौ दुर्जनेत्यादि निरर्थकमिवाभाति । यद्वा शोभायैवेति योजना ।</p>
<pb n="228" />
<p>विद्या सज्जने शोभाप्रदा न धनप्रदेत्यर्थः । दुर्जने मोघा फलत्वावच्छिन्नाजनिका । शो-
भाप्रदापि नेत्यर्थः । अथवा सज्जने विद्यैव शोभायै फलप्रदा न त्वविद्येत्यर्थः । दुर्जने
विद्यैव मोघा निष्फला न त्वविद्येत्यर्थः ॥
समीचीनस्वनायक एवं रुचिरुचितेति वादिनीं काञ्चित् काचिद्वक्ति--</p>
<lg>
  <l>सुभगं वदति जनस्तं निजपतिरिति नैष रोचते मह्यम् ।</l>
  <l>पीयूषेऽपि हि भेषजभावोपनते भवत्यरुचिः ॥ ६७१ ॥</l>
</lg>
<p>सुभगमिति । जनः । एवं च सर्वैकवाक्यत्वमावेद्यते । तं सुभगं वदति । मह्यं नि-
जपतिरिति हेतोरेष पतिर्न रोचते । अमुमेवार्थमर्थान्तरन्यासेनाह— भेषजभावापन्ने-
ऽमृतेऽपि निश्चयेनारुचिर्भवति । एवं च निजपतित्वमेव दोष इति भावः । एवं च पति-
पदमर्थवत् । अत्र न रोचते इति प्रागभिधानादग्रेऽपि रुचिर्न भवतीत्येव युक्तमित्या-
भाति । अरुचिपदाद्द्वेषवत्त्वप्रतीतेः ॥
त्वत्कटाक्षविक्षेपाक्षिप्तः क्षणमपि न त्वां विना धृतिं लभत इति नायकदूती नायिकां
वक्ति--</p>
<lg>
  <l>सौधगवाक्षगतापि हि दृष्टिस्तं स्थितिकृतप्रयत्नमपि ।</l>
  <l>हिमगिरिशिखरस्खलिता गङ्गेवैरावतं हरति ॥ ६७२ ॥</l>
</lg>
<p>सौधेति । सौधगवाक्षगतापि ते दृष्टिः स्थितौ । धैर्यस्येति भावः। पक्षे गतिनिवृत्तौ।
कृतः प्रयत्नो येन तमपि हीति निश्चयेन हिमाचलशिखरात् स्खलिता गङ्गा ऐरावतमिव
हरति । सौधस्य हिमगिरिशिखरसाम्येनात्युच्चत्वं दुष्प्राप्यत्वं च व्यज्यते । एवं च स
त्वयानुग्राह्य इति ध्वन्यते ॥
गृहिणीसत्त्वान्न त्वया सह संगतिर्मम चिरस्थायिनीति वादिनीं नायिकां नायको वक्ति--</p>
<lg>
  <l>सहधर्मचारिणी मम परिच्छदः सुतनु नेह संदेहः ।</l>
  <l>न तु सुखयति तुहिनदिनच्छत्त्रच्छायेव सज्जन्ती ॥ ६७३ ॥</l>
</lg>
<p>सहेति । हे सुतनु । एवं च स्पृहणीयत्वं व्यज्यते । मम सहधर्मचारिणी परिच्छदः
कुटुम्बकम् । अन्नाच्छादनादिनोपकरणीयेति भावः । इह न संदेहः । तु पुनः सज्जन्ती
सेवातत्परा । पक्षे सज्जीभवन्ती । शीतदिवसीयच्छत्त्रच्छायेव न सुखयति । एवं च सा
केवलं कुटुम्बिनीमात्रं त्वं तु रतिसुखदेत्यतस्त्वया सह मत्संगतिश्चिरमवस्थायिनीति
व्यज्यते ॥
दुष्टसंपर्कात् त्वन्निकटे न केऽपि समीचीनाः समायान्तीति कश्चित् कञ्चिदन्योक्त्या
वक्ति--</p>
<lg>
  <l>सकलगुणैकनिकेतन दानववासेन धरणिरुहराज ।</l>
  <l>जातोऽसि भूतले त्वं सतामनादेयफलकुसुमः ॥ ६७४ ॥</l>
</lg>
<pb n="229" />
<p>सकलेति । हे निखिलगुणैकस्थान भूरुहराज, दानववसत्या त्वं भूतले समीचीनानां
न ग्राह्याणि फलकुसुमानि यस्यैतादृशो जातोऽसि । भूतले त्वमित्यनेन नान्ये महीरुहा
एतादृशाः किं तु त्वमेवेति भावः । एवं चैतादृशदुष्टसंगत्या सजातीयवृद्धमध्ये त्वया
प्रतिष्ठा न विधेयेति व्यज्यते ॥
नायको नायिकां वक्ति--</p>
<lg>
  <l>सुन्दरि ताटङ्कमयं चक्रमिवोद्वहति तावके कर्णे ।</l>
  <l>निपतति निकामतीक्ष्णः कटाक्षबाणोऽर्जुनप्रणयी ॥ ६७५ ॥</l>
</lg>
<p>सुन्दरीति । हे सुन्दरि, त्वदीये कर्णे ताटङ्कस्वरूपं चक्रमिवोद्वहति धारयति सति ।
पक्षे ऊर्ध्वं करोति सति । अत्यन्ततीक्ष्णोऽर्जुनप्रणयी । कृष्ण इत्यर्थः । शुष्क इति वा ।
पक्षे पाण्डुसुतार्जुनप्रेरित इत्यर्थः । कटाक्षरूपो बाणः । नायकचित्तापहरणादिति भावः।
पक्षे तत्तुल्यः । एवं चाकर्णान्तविशाललोचना त्वमसीत्यन्यथासिद्धकुतूहलेन मानापनो-
दनमभिव्यज्यते । सूर्याराधनसंजातकुन्तीतनयकर्णोऽपि यदा महीगिलितरथचक्रं नि-
ष्कासितुमुपक्रान्तवांस्तदार्जुनेन बाणेन ताडितः - इति पुराणम् ॥
भाग्यादिकं समीचीनमित्त्रस्य नास्तीति चिन्ताव्याकुलं कञ्चन कश्चिद्वक्ति--</p>
<lg>
  <l>स्वाधीनैव फलर्द्धिर्जनोपजीव्यत्वमुच्छ्रयच्छाया ।</l>
  <l>सत्पुंसो मरुभूरुह इव जीवनमात्रमाशास्यम् ॥ ६७६ ॥</l>
</lg>
<p>स्वेति । मरुभुवि रोहतीति मरुभूरुहस्तस्येव मरुदेशीयवृक्षस्येव समीचीनपुरुषस्य
फलं द्रव्यादि । पक्षे यथाश्रुतम् । तस्य समृद्धिः स्वाधीनैव । इदमग्रेऽपि लिङ्गविपरि-
णामेनान्वेति । जनानामुपजीव्यत्वम् । अन्नादिदातृत्वात् । पक्षे फलादिप्रदानात् ।
अधिका छाया । इतरदुःखनिवारकत्वमित्यर्थः । पक्षे यथाश्रुतम् । जीवनमायुः । पक्षे
जलम् । तदेवाशास्यम् । कर्कशदेशवसतिमानेवमर्थेन मरुभूरुह इत्यपि सत्पुंसो विशे-
षणम् । एवं चायुष्ये सर्वमपि भवत्येवेत्यतस्त्वया न कापि जीवतस्तस्य चिन्ता विधे-
येति ध्वन्यते ॥
संपत्तिसंपन्नस्तव पतिः संवृत्त इति वादिनीं नायिका सखीं वक्ति--</p>
<lg>
  <l>संतापमोहकम्पान्संपादयितुं निहन्तुमपि जन्तून् ।</l>
  <l>सखि दुर्जनस्य भूतिः प्रसरति दूरं ज्वरस्येव ॥ ६७७ ॥</l>
</lg>
<p>संतापेति । सखि, ज्वरस्येव दुर्जनस्य भूतिरैश्वर्यम् । पक्षे भवनं भूतिः । संता-
पमोहकम्पान्सम्यगुत्पादयितुं जन्तून्नितरां हन्तुमपि दूरं प्रसरत्यधिकतरा भवति । एवं
चैतस्य संपत्तौ जातायां सपत्न्यादिसंपादनेन दुःखम्, किमस्याग्रे भविष्यतीति चिन्ता-
बाहुल्येन मौढ्यम्, समधिकक्रोधकरणेन कम्पम्, दण्डदानेन चास्माकं प्राणविश्लेषमेवै-
तदैश्वर्यं करिष्यति न परं सुखलेशमपीति व्यज्यते । ज्वरोत्पत्तावपि संतापादिकमति--
तरां भवतीति चायुर्वेदे ॥</p>
<pb n="230" />
<p>विद्यैवाभ्यसनीया त्वयेदानीं न द्रव्ये मनः कर्तव्यमिति कश्चित् कञ्चिद्वक्ति--</p>
<lg>
  <l>सुखयतितरां न रक्षति परिचयलेशं गणाङ्गनेव श्रीः ।</l>
  <l>कुलकामिनीव नोज्झति वाग्देवी जन्मजन्मापि ॥ ६७८ ॥</l>
</lg>
<p>सुखयतीति । श्रीर्वेश्येवातिशयेन सुखयति । परिचयलेशं न रक्षति । सरस्वती कुल-
कान्तेव जन्मजन्मापि न त्यजति । एवं च विद्याभ्यास आवश्यक इति भावः ॥
नायिका सखीं वक्ति--</p>
<lg>
  <l>स्वसदननिकटे नलिनीमभिनवजातच्छदां निरीक्ष्यैव ।</l>
  <l>हा गृहिणीति प्रलपंश्चिरागतः सखि पतिः पतितः ॥ ६७९ ॥</l>
</lg>
<p>स्वेति । हे सखि, स्वसदनसविधे । एवं च च्छदग्रहणयोग्यत्वं ध्वन्यते । कमलिनीं
नूतनसंजातदलाम् । एवं च पूर्वपत्त्राभावो नायिकाविरहनिबन्धन एवेति ध्वन्यते ।
दृष्ट्वैव । एवं च प्रश्नाद्यकरणेनातिशयिताधैर्यमावेद्यते । तत्कालमागतः । एवं च चिर-
प्रवासाभावेन तथाविधविरहाद्ययोग्यत्वेऽपि तदज्ञानेनात्यन्तासक्तिरावेद्यते । हा गृहि-
णि, इति प्रलपन् । संपूर्णवाक्यानभिधानं च दुःखोद्रेकमावेदयति । पतिः । प्राणेभ्यो-
ऽपि मयि स्नेहवानित्यर्थः । पतितः । मूर्छयेति भावः । यद्वा हे सखि, निलयनिकटे न
तु निलये । एवं चातिविरहयोग्यत्वं ध्वन्यते नायिकायाम् । यद्वा निलयनिकट इत्य-
नेन दर्शनयोग्यत्वं तेन चावश्योच्छेदनीयत्वमावेद्यते । अभिनवानां नूतनानाम् । अ
र्थात् पत्त्राणाम् । जातः समूहो यत्र । एतादृशानि च्छदानि । अर्थात्पुराणानि । यस्यां सा
तां नलिनीं निरीक्ष्यैवाचिरागतः पतिर्हा गृहिणि, इति प्रलपन् पतितः । एवं च मत्प्र-
स्थितौ नियतमेषा विरहमसहमाना जीवनवती प्राचीननवीनदलसमृद्धिशालिनीं विह-
न्यादेव । न चेयं व्याहता। तेन न जीवतीयमिति नलिनीदर्शनसमसमयमेव निश्चयेन
मूर्छित इति ध्वन्यते । अचिरागत इत्यनेनैतादृशसंभावनानर्हत्वं तथापि तत्करणेनात्य-
न्तनायिकासक्तिमत्त्वं नायके व्यज्यत इत्यर्थः । एवं चैतादृशो नायकोऽन्यस्या नेति
भावः । क्वचित् 'नलिनीदलानि मलिनानि वीक्ष्यैव' इति पाठः ॥
नायकसखी नायिकां वक्ति--</p>
<lg>
  <l>सखि चतुराननभावाद्वैमुख्यं क्वापि नैव दर्शयति ।</l>
  <l>अयमेकहृदय एव द्रुहिण इव प्रियतमस्तदपि ॥ ६८० ॥</l>
</lg>
<p>सखीति। हे सखि । एवं च सत्यवादार्हत्वं ध्वन्यते। अयम् । एवं चान्येषामन्यादृशी
गतिरिति भावः। प्रियतमो विधातेव चतुराननभावात् सुमुखत्वात् । चातुर्यवत्त्वादिति या-
वत् । पक्षे चतुर्मुखत्वात् । क्वापि वैमुख्यम् । विरसत्वमित्यर्थः । पक्षे मुखाभाववत्त्वं नैव
दर्शयति । दर्शयत्येव नेत्यपि योजना । चतुराननभावादेवेत्यन्वयः । एवं च न चेतसः
सकाशादिति भावः । तदपि तथापि एकस्याम् । त्वयीति भावः । हृदयं यस्यैतादृशः ।
एवं चान्यासु चातुर्यवशादासक्तिं प्रदर्शयति वास्तवं तु त्वय्येवासक्तिरिति व्यज्यते ।</p>
<pb n="231" />
<p>धातुरपि चतुर्मुखत्वेऽपि हृदयस्यैकत्वात् । यद्वा त्वत्प्रियतमः सर्वसपत्नीषु समबुद्धिरिति
वादिनीं सखीं नायिका वक्ति--एवं च मय्येवासक्तिस्तस्य नान्यत्रेति ध्वन्यते ॥
सुन्दरत्वा दिगुणयुक्तः कथं न पराङ्गनासक्त इति तर्कयन्तीं नायिकां नायकसखी
वक्ति--</p>
<lg>
  <l>सत्यं मधुरो नियतं वक्रो नूनं कलाधरो दयितः ।</l>
  <l>स तु वेद न द्वितीयामकलङ्कः प्रतिपदिन्दुरिव ॥ ६८१ ॥</l>
</lg>
<p>सत्यमिति । सः । इदमग्रेऽप्यन्वेति । मधुरः सुन्दरो मृष्टभाषी वा । इदं सत्यम् ।
नात्र संदेह इति भावः । एवमग्रेऽपि । एवं च स्पृहणीयत्वमावेद्यते । वक्रो नियतं
वक्रोक्तिनिपुणः कुटिलो वा । एवं च पराङ्गनारञ्जकत्वं ध्वन्यते । कलाधरः । नूनं नि-
श्चितम् । एवं च पराङ्गनाचित्ताकर्षणनिपुणत्वं व्यज्यते । दयितः । तु पुनः । कलङ्कोऽप-
वादस्तच्छून्यः प्रतिपच्चन्द्र इव द्वितीयामपरां न वेद । एवं च मधुरत्वादिगुणसत्त्वेऽपि
न तादृगन्यः साधुरिति व्यज्यते । प्रतिपच्चन्द्रोऽपि मधुरो वक्रः कलावानपि निष्कलङ्को
द्वितीयाभिधां तिथिं न जानाति । सत्यं नियतं नूनमेमिः पदैर्मधुरात्वादौ न संदेह
इति प्रतिपादनेन तद्वत्त्वेऽपि तत्कार्याभाववत्त्वेनातिसद्वृत्तत्वं व्यज्यते । न च तस्मिन् य-
थाकथंचिदन्यादृगाचरणसंभावनया कोपकरणं तवोचितमिति प्रतियोगिविशेषानुपादा-
नेन मधुरत्वादौ सर्वप्रतियोगिकत्वेन सर्वाधिक्यमावेद्यते । यद्वा सौन्दर्यादिगुणयुक्तस्त्वद्द-
यितः कथं नापराङ्गनालम्पट इति वादिनीं सखीं नायिका वक्ति--एवं चैतादृशनायकव-
त्तया स्वस्मिन्नाधिक्यमावेद्यते ॥
दुर्जनस्य स्वीयपक्षरक्षणमपीति कश्चित् कञ्चिद्वति--</p>
<lg>
  <l>स्वस्थानादपि विचलति मज्जति जलधौ च नीचमपि भजते ।</l>
  <l>निजपक्षरक्षणमनाः सुजनो मैनाकशैल इव ॥ ६८२ ॥</l>
</lg>
<p>स्वेति । स्वाङ्गीकृतरक्षणचित्तः सुजनो मैनाकाभिधपर्वत इव स्वस्थानादपि विचलति ।
अपिश्चलनानर्हत्वमावेदयति । परसदनं गच्छतीत्यर्थः । डलयोरैक्याज्जडा मूर्खा धीय-
न्ते यस्मिन्निति जडसमूहस्तत्रापि मज्जति । तद्रूपभाग्भवतीत्यर्थः । यद्वा समुद्र पर्यन्त-
मपि गच्छतीत्यर्थः । एवं च क्लेशागणनमावेद्यते । क्षुद्रमपि भजत आराधयति । एवं
च सुजनो यदङ्गीकारं करोति तन्निर्वाहं स्वस्यानुचितैरपि नानाविधोपायैः करोति न दुष्ट
इति सुजनसंनिधिरेवोचित इति ध्वन्यते । पक्षच्छेदनप्रवृत्तेन्द्रभयान्मैनाकोऽपि पृथिवीं
विहाय समुद्रे गत्वा तन्नीचदेशमप्यवलम्ब्य स्थितः - इति पुराणप्रसिद्धिः ॥
मानवतीं नायिकां सखी वक्ति--</p>
<lg>
  <l>संवृणु बाष्पजलं सखि दृशमुपरज्याञ्जनेन वलयैनाम् ।</l>
  <l>दयितः पश्यतु पल्लवपङ्कजयोर्युगपदेव रुचम् ॥ ६८३ ॥</l>
</lg>
<p>संवृण्विति । हे सखि । एवं च हितकथनार्हत्वं ध्वन्यते । तेन च मदुक्तं कुर्विति ।</p>
<pb n="232" />
<p>बाष्पोदकं संवृणु । कज्जलेनोपरज्यैनां दृशं वलय । उत्तरङ्गयेत्यर्थः । दयितः । एवं चावश्य-
समाधेयत्वमावेद्यते । किसलयेन्दीवरयोरेककालमेव रुचं पश्यतु । एवं च रोदनादिना
रक्ततामापन्नाया दृशः कज्जलदानेन श्यामतासंपादनेन व्यधिकरणत्वेन प्रसिद्धयोरपि
पल्लवेन्दीवरयोरैकाधिकरण्यसंपादनेन सर्वाद्भुतवस्तुप्रदर्शनजनितानन्ददानेन नय स्वा-
धीनतामिति भावः । 'दृशम्' इति स्थाने 'भृशम्', 'पल्लव--' इति स्थाने 'पल्वल--' इति
पाठे भृशमधिरज्यैनां दृशमित्यध्याहार्य वलयेति योजना । अञ्जनदानेन पङ्कवत्तासंपाद-
नेन पङ्कजसत्त्वयोग्यता । एवं च सरसि पङ्केरुहवत्ता प्रसिद्धा । पल्वलेऽपि तद्भवनेन च-
मत्कारातिशयप्रदर्शनेन नायकचित्ताकर्षकत्वं तव सुलभमिति ध्वन्यते । 'एनम्' इति
पाठे नेत्रमित्यध्याहारः । नायकं वलय विलोकयेति वा योज्यम् । मानश्चायमन्यथासि-
द्धकुतूहलाद्यपनेयः । 'पल्वलपङ्केरुहसङ्गसकलरुचम्' इत्यपि कचित्पाठः ॥
अत्यन्तं सा त्वद्विरहखिन्ना त्वदधीनैवेत्यवगत्यानुग्राह्या नायिकेति तत्सखी नायकं
वक्ति--</p>
<lg>
  <l>सा पाण्डुदुर्बलाङ्गी नयसि त्वं यत्र याति तत्रैव ।</l>
  <l>कठिनीव कैतवविदो हस्तग्रहमात्रसाध्या ते ॥ ६८४ ॥</l>
</lg>
<p>सेति । एषा पाण्डूनि दुर्बलान्यङ्गानि यस्या एतादृशी । त्वद्विरहवशादिति भावः ।
त्वं यत्र नयसि तत्रैव याति । यास्यतीत्यर्थः । एवं चान्यविषयकप्रेमशून्यत्वमावेद्यते ।
कठिनीव कैतवविदः । एवं त्वदीय एवापराधो न तस्या इति भावः । यद्वा येन व्या-
जेन तत्र गत्वा तत्संमानं विधेयं तत्सर्वं त्वया विज्ञायते किं मयोपदेष्टव्यमिति भावः ।
ते हस्तग्रहमात्रसाध्या । एवं च चाटुवचनादिकं किमपि नापेक्षितमिति भावः । खटि-
कापि पाण्डुरवर्णा सूक्ष्मा लेखककरग्रहाधीना यत्र यत्र नीयते तत्र तत्र गच्छति ॥
कस्यचिहूती कांचन वक्ति--</p>
<lg>
  <l>सखि विश्वगञ्जनीया लक्ष्मीरिव कमलमुखि कदर्यस्य ।</l>
  <l>त्वं प्रवयसोऽस्य रक्षावीक्षणमात्रोपयोग्यासि ॥ ६८५ ॥</l>
</lg>
<p>सखीति । हे सखि, कदर्यस्य कृपणस्य विश्वोपमर्द्या लक्ष्मीरिव । एवं च पुरुषोत्त-
मसंगतियोग्यत्वं व्यज्यते । कमलवदने, त्वं प्रकृष्टं वयो यस्येत्येवंविधस्यास्य रक्षणं रक्षा
वीक्षणं च तन्मात्रे उपयोगो यस्याः । कृपणलक्ष्मीरपि भोगाद्यभावात्तथाविधेति भावः ॥
एतादृश्यसि । एवं चायन्तसौन्दर्यशालिनी त्वमेतस्य सुरताक्षमस्य जरठस्य नोपयो-
गिनी, अतः पुरुषविशेषे मनः कुर्विति व्यज्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता सकारव्रज्या ।
-------------------------------------
हकारव्रज्या ।
नायकः सखायं वक्ति--</p>
<lg>
  <l>हृदयज्ञया गवाक्षे विसदृक्षं किमपि कूजितं सख्या ।</l>
  <l>यत्कलहभिन्नतल्पा भयकपटादेति मां सुतनुः ॥ ६८६ ॥</l>
</lg>
<pb n="233" />
<p>हृदयेति । कलहभिन्नशय्या सुतनुर्भयव्याजाद्यथा मां प्रत्येति तथा हृदयज्ञया नायिका-
भिप्रायज्ञानवत्या सख्या गवाक्षे किमपि वक्तुमशक्यं विसदृशं कूजितम् । विसदृक्षमित्य-
नेन भययोग्यत्वम् । एवं च कलहोत्तरसंजातसंतापं नायिकाया विज्ञाय तथाविधविल-
क्षणकूजिते सख्या कृते भयव्याजेन मन्निकटे नायिकागतेति नायिकाकलहो नातिचि-
रावस्थायीति व्यज्यते ॥
सखी नायिकां वक्ति--</p>
<lg>
  <l>हरति हृदयं शलाकानिहितोऽञ्जनतन्तुरेष सखि मुग्धे ।</l>
  <l>लोचनबाणमुचान्तर्भूधनुषा किण इवोल्लिखितः ॥ ६८७ ॥</l>
</lg>
<p>हरतीति । हे सखि मुग्धे सुन्दरि, शलाकया निहित एष कज्जलतन्तुः । तन्तुपदेन
रेखायां तनीयस्त्वं व्यज्यते । लोचनरूपो यः शरस्तन्मोचनकर्त्रा भ्रूधनुषोल्लिखितः
किण इव हृदयम् । अर्थान्नायकस्य । हरति । एवं चैतादृशत्वदीयदृगनुगृहीतो निगृहीत
इव संवृत्तः, अत एनमनुकम्पया द्रुतमनुगृहाणेति व्यज्यते । अथवा मुग्धे सुन्दरे ।
नायक इत्यर्थः । 'मुग्धः सुन्दरमूढयोः' इति । लोचनबाणं मुञ्चेति योजना प्राग्वत् ॥
क्रोधवशादपमानितं नायक नायिका समाधत्ते--</p>
<lg>
  <l>हससि चरणप्रहारे तल्पादपसारितो भुवि स्वपिषि ।</l>
  <l>नासहशेऽपि कृते प्रिय मम हृदयात्त्वं विनिःसरसि ॥ ६८८ ॥</l>
</lg>
<p>हससीति । चरणताडने हास्यं करोषि । शयनीयाद्दूरीकृतो भूमौ स्वापं करोषि ।
असदृशेऽयोग्ये कृतेऽपि हे प्रिय, मम हृदयात्त्वं न विनिःसरसि । एवं च चरणप्रहा-
रादिरूपानुचितावमानने क्रोधात् कृतेऽपि चेतसा त्वद्विषयकानुरागभागिन्येवाहमिति
चरणताडनादिजन्यमदीयापराधमनादृत्यानुग्रहं कुर्वेिति व्यज्यते । यद्वा सपत्नीसांनि-
ध्यरूपानुचिते विहितेऽपि । त्वयेति भावः । मम हृदयात्त्वं नापगच्छसि । अत्र हेतु-
माह — चरणप्रहारे हससीत्यादि । एवं च त्वदीयैतादृशसहनशीलस्वरूपगुणाकृष्टचित्ततया
त्वदीयैतादृशानुचिताचरणजनितक्रोधेन न मय्यवस्थितिर्लभ्यत इति व्यज्यते । तेन
चाहमधुना त्वयि प्रसन्नेति ॥
नायके नायिकासक्तिविशेषं सखी वक्ति--</p>
<lg>
  <l>हसति सपत्नी श्वश्रू रोदिति वदनं च पिदधते सख्यः ।</l>
  <l>स्वप्नायितेन तस्यां सुभग त्वन्नाम जल्पन्त्याम् ॥ ६८९ ॥</l>
</lg>
<p>हसतीति । हे सुभग, तस्यां नायिकायां स्वप्नायितेनोत्स्वापेन त्वन्नाम जल्पन्त्यां सत्यां
सपत्नी हसति । एतस्या असतीत्वज्ञानोत्तरं प्रियाप्रियत्वं भविष्यतीति सुखाविर्भावादिति
भावः । श्वश्रू रोदिति । इदं चेदन्यैः श्रुतं तदानर्थ एवापद्येत । अथवेयमेतादृशी संवृत्ता,
कथमतः परं पुनस्तनयविवाहसंपादनमिति दुःखोद्रेकादिति भावः । सख्यश्च वदनम् ।
नायिकाया इति भावः । पिदधते । एवं च वर्णानामस्फुटत्वसंपादनेन पुनर्नामग्रहेऽपि</p>
<pb n="234" />
<p>सम्यग्ज्ञानमन्येषां मा भवत्विति धियेति भावः । एवं चैतस्यास्तत्रैतादृशी गतिरिति
त्वमेवाधुना शरणमित्यवगत्यानुरक्तां तामनुगृहाणेति व्यज्यते ॥
नायकः सखायं वक्ति--</p>
<lg>
  <l>हृदयं मम प्रतिक्षणविहितावृत्तिः सखे प्रियाशोकः ।</l>
  <l>प्रबलो विदारयिष्यति जलकलशं नीरलेखेव ॥ ६९० ॥</l>
</lg>
<p>हृदयमिति । हे सखे, प्रबलः प्रतिक्षणं विहितावृत्तिर्येनैतादृशः प्रियासंबन्धी शोक-
स्तरङ्गपङ्क्तिर्जलसंबन्धिघटमिव मम हृदयं विदारयिष्यति । एवं च मयि प्रस्थितुं कृतो-
द्योगे संजातप्रियादुःखं प्रबलत्वाद्वारं वारं जायमानत्वान्मम हृदयं दुःखोद्रेकवशाद्भिन्नं
करिष्यतीत्यर्थः । प्रियादुःखादप्यत्यन्तं मम दुःखं भावीति भावः । यद्वा वारं वारं जा-
यमानः प्रबलः । एवं च प्रतीकारानर्हत्वमावेद्यते प्रियायाः । एवं चावश्यभवनयोग्यत्वं
शोके द्योत्यते । विरहजः शोको मम हृदयं स्फोटयिष्यति । एवं च प्रियविरहजन्य-
दुःखं मया सोढुमशक्यमिति न मया प्रस्थितिर्विधेयेति व्यज्यते । यद्वाननुभूतप्रियावि-
रहः कश्चित् सखायं पृच्छति – प्रियासंबन्धिशोको मम हृदयं विदारयिष्यतीति । एवं च
प्रियासंबन्धित्वेन शोकस्य प्रियाहृदयविदारकत्वमुचितं नान्यहृदयविदारकत्वमिति व्य-
ज्यते । मम हृदयमित्यनेन हृदयविदारणेऽसह्यत्वं तन्निवारणोपायसंपादने चावश्यकर्तव्यत्वं
ध्वन्यते । तरङ्गपङ्क्तिरपि प्रतिक्षणकृतावृत्तिः प्रबला जलार्थं प्रक्षिप्तं कलशं स्फोटयति ॥
नायिका सखीं वक्ति--</p>
<lg>
  <l>हन्त विरहः समन्ताज्ज्वलयति दुर्वारतीत्रसंवेगः ।</l>
  <l>अरुणस्तपन शिलामिव पुनर्न मां भस्मतां नयति ॥ ६९१ ॥</l>
</lg>
<p>हन्तेति । दुःखेन निवारयितुमशक्यस्तीव्रो दुःसहः संवेग आधिक्यं यस्य स
विरहः समन्तात् । सर्वाङ्गमित्यर्थः । सर्वत्रेति वा । क्वापि विश्रान्तिस्थानं नास्तीति
भावः । मां ज्वलयति । हन्त खेदे । अरुणस्तपनशिलामिव पुनर्न भस्मतां प्रापयति ।
एवं विरहे सति जीवनान्मरणमेव वरमिति व्यज्यते ॥
कश्चित् काञ्चिदन्योक्त्या वक्ति--</p>
<lg>
  <l>हृत्वा तटिनि तरङ्गैर्भ्रमितश्चक्रेषु नाशये निहितः ।</l>
  <l>फलदलवल्कलरहितस्त्वयान्तरिक्षे तरुस्त्यक्तः ॥ ६९२ ॥</l>
</lg>
<p>हृत्वेति । हे तटिनि । एवं च निष्कामगमनयोग्यत्वं ध्वन्यते । तरङ्गैर्हृत्वा चक्रेष्व॰
म्भसां भ्रमेषु भ्रमिं प्रापितः । आशये मध्ये न स्थापितः । फलदलवल्कलैर्हीनस्तरुस्त्व-
यान्तरिक्षे त्यक्तः । एवं च तरङ्गरूपकटाक्षैरेनं स्वाधीनीकृत्येतस्ततो भ्रामयित्वा
स्वान्तःकरणेऽकृत्वा द्रव्यादिहीनत्वमासादयित्वाकस्मात् परित्यक्तोऽयं नायकः, इदम-
नुचितं तवेति ध्वन्यते ॥</p>
<pb n="235" />
<p>सखी नायिकां वक्ति--</p>
<lg>
  <l>हृतकाञ्चिवल्लिबन्धोत्तरजघनादपरभोगभुक्तायाः ।</l>
  <l>उल्लसति रोमराजिः स्तनशंभोर्गरललेखेव ॥ ६९३ ॥</l>
</lg>
<p>हृतेति । न विद्यते परो यस्मात् । अत्युत्कट इत्यर्थः । यो भोगः सुरतं तत्रोपमुक्ता-
यास्तव हृतकाञ्चिवल्लिबन्धेनोत्तर उच्छूनो यो जघनस्तद्धेतोः स्तनशंकरस्य विषलेखेव
रोमावलिरुल्लसति । एवं च काञ्चिबन्धत्रुटनोद्धुरजघनकथनेन रतातिशयवत्त्वमावेद्यते ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता हकारव्रज्या ।
------------------------------------------
क्षकारव्रज्या ।
कथं त्वयि प्रीतिमकुर्वाणेऽपि नायके त्वं विनीतेति वादिनीं सखीं नायिका वक्ति--</p>
<lg>
  <l>क्षीरस्य तु दयितत्वं यतोऽपि शान्तोपचारमासाद्य ।</l>
  <l>शैलोऽङ्गान्यानमयति प्रेम्णः शेषो ज्वरस्येव ॥ ६९४ ॥</l>
</lg>
<p>क्षीरस्येति । क्षीरस्यापि दयितत्वं प्रीतिविषयत्वं यतः । यस्मादित्यर्थः । शान्तोपचारं
समाप्तोपचारम् । अरोगिणमित्यर्थः । आसाद्य । एवं च क्षीरस्य क्षीरत्वेन सर्वस्पृहणीय-
योग्यत्वेऽपि रोगग्रस्तं प्रति न स्पृहणीयत्वमेवमन्याङ्गनानुरागरूपरोगग्रस्तं प्रति नाहं
स्पृहणीयेति भावः । एवं च न तस्यापराधो न वा मम काचित् क्षतिरिति व्यज्यते । तेन
च कंचित्कालोत्तरमहं तत्स्पृहणीया भविष्यामीति । तु पुनः । शीलस्यायं शैलसंबन्धी-
त्यर्थः । पक्षे शिलानामयं शैलः । अत्यन्तगुरुतापादक इति भावः । ज्वरस्येव प्रीते:
शेषोऽङ्गानि । ममेति भावः । आनमयति । एवं च यथा पर्वततुल्यो ज्वरशेषोऽङ्गानि
बलादानमयति तथा शीलसंबन्धी प्रीतेः शेषो मां विनीततां प्रापयतीति भावः । एवं च
यद्यपि तथाविधप्रीतेरभावादहमविनीततां कर्तुमिच्छामि तथापि शीलप्रीतिशेषो मां बला-
द्विनीततां नयतीति व्यज्यते । तेन च न ममापराध इति । यद्वा नायिकासखी नायकं
वक्ति – हे शान्त । एवं चापराधजनकत्वाभावो व्यज्यते । यतः क्षीरस्याप्युपचारम् । आ-
वर्तितत्वशर्करादि संपर्कादिकमित्यर्थः । आसाद्य दयितत्वं प्रीतिविषयत्वं भवति । एवं च
स्वतः क्षीरस्य माधुर्यवत्त्वेऽप्यावर्तनशर्करादिसंपर्कवशात् प्रीतिविषयत्वं यथा तथा पराङ्ग-
नालम्पटत्वादिराहित्येन त्वयि प्रीतिविषयत्वेऽपि वारंवारागमनचाटुवचनरचनादिमत्तया
प्रीतिविषयत्वं भावीति व्यज्यते । एवं चाहमपराधाभाववानिति तूष्णीमेवावस्थितिरनु-
चिततरेति व्यज्यते । तु पुनः प्रेम्णः शैलः पर्वतो ज्वरस्य शेष इवाङ्गान्यानमयति ।
एवं च यथा बलाज्ज्वरशेषोऽङ्गनमनाभावमिच्छोरप्यङ्गनमनं करोत्येव तथा यदि त्वं
तद्विषयकबहुतरप्रेमवानसि तर्हि तदेव त्वां बलात् प्रमाणादिशालिनं करिष्यतीति भावः ।
एवं च नाहमपराधीति किमिति प्रणामादिकं न करिष्यामीति वक्तुं नोचितं तवेति
ध्वन्यत इत्यर्थः । कुपितनायिकां समाधातुमशक्ता दूती नायकं वक्ति । योजना प्राग्वत् ।</p>
<pb n="236" />
<p>एवं च तस्यां तीव्रः कोपो न वा शीलप्रेमशेषः । अतस्तस्यास्त्वं न दयित इति भाव
इति प्रतिभाति । परं तु मानस्यासाध्यत्वप्रदर्शनेनाभासत्वमायाति ॥
नायिका नायकं वक्ति--</p>
<lg>
  <l>क्षान्तमपसारितो यच्चरणावुपधाय सुप्त एवासि ।</l>
  <l>उद्घाटयसि किमूरू निःश्वासैः पुलकयन्नुष्णैः ॥ ६९५ ॥</l>
</lg>
<p>क्षान्तमिति । अत्र संबुद्धिपदानपानं क्रोधमावेदयति । अपसारितो दूरीकृतश्चरणा-
वुपधानीकृत्य सुप्त एवासि तत्क्षान्तम् । उष्णैः । संतापजत्वादिति भावः । निःश्वासैः
पुलकयन्नूरू किमुद्घाटयसि । इयमेव हि त्वां प्रति मदीया क्षमा यच्चरणसविधे सुप्त इतो
न निराकृतोऽसि । त्वं पुनर्धृष्ट ऊरुविघटनं करोषि महत्साहसं तवेति ध्वन्यते । तेन
चैतन्न मया सोढव्यमिति । यद्वा यदपसारितश्चरणावुपधाय सुप्त एवास्यतः क्षान्तं त्वदी-
यानुचितमिति भावः । क्षमाफलमेवाह--उष्णैः श्वसितैः पुलकयन्नूरू किमित्युद्धाटयसि ।
एवं च त्वदीयसहनशीलतया मया त्वदीयापराधजदुःखं त्यक्तम्, अतो दुःखजाञ्श्वासा-
न्परित्यज्याचिरमालिङ्गनचुम्बनादि विधेहीति ध्वन्यते । एवं च पुलकयन्निति सार्थकम् ॥
कश्चित्कंचिद्वक्ति--</p>
<lg>
  <l>क्षुद्रोद्भवस्य कटुतां प्रकटयतो यच्छतश्च मदमुच्चैः ।</l>
  <l>मधुनो लघुपुरुषस्य च गरिमा लघिमा च भेदाय ॥ ६९६ ॥</l>
</lg>
<p>क्षुद्रेति । क्षुद्रा मधुमक्षिका । अथ च क्षुद्रो नीचः । तदुत्पन्नस्य । कटुतां रूक्षताम् ।
अथ च कटुभाषिताम् । प्रकटयतः । उच्चैरुत्कटं मदमुन्मादम् । अथ च गर्वम् । यच्छतः
कुर्वतः मधुनो माक्षिकस्याधमपुरुषस्य च गौरवं गुरुत्वं लाघवं तुच्छत्वं च भेदाय ।
यद्वा मधु मद्यम्, क्षुद्रा कण्टकारिकेत्यर्थः । एवं चाधमसंगतिर्न विधेयेति ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्ग्यार्थदीपनया समेता क्षकारव्रजा ।
-------------------------------------
स्वकृतौ गुणाढ्यादिमहाकविकृतिसमतां वक्ति--</p>
<lg>
  <l>पूर्वैर्विभिन्नवृत्तां गुणाढ्यभवभूतिबाणरघुकारैः ।</l>
  <l>वाग्देवीं भजतो मम सन्तः पश्यन्तु को दोषः ॥ ६९७ ॥</l>
</lg>
<p>पूर्वैरिति । गुणाढ्यभवभूतिबाणकालिदासैः पूर्वैः प्राक्तनैर्विभिन्नवृत्तामपि लक्षणसर-
णिशालिनीं (लक्षणया स्वैरिणीं) वाग्देवीं भजतो मम को दोषः । न कोऽपीत्यर्थः ।
इ॒दं सन्तः पश्यन्तु । एवं च वाग्देव्या एकत्वेऽपि वैलक्षण्येन पूर्वैः सेवितत्वान्मयापि
वैलक्षण्येन सा सेवितेति न मद्दोषगणनं सतामुचितमिति भावः । सन्त इत्यनेन नासतां
प्रार्थना । अथ च पूर्वैर्गुणाढ्यादिभिर्विभिन्नशीलां वाग्रूपां देवीं राज्ञीं भजतो मम को
दोषः । इदं सन्तः पश्यन्तु । एवं च 'यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः' इति वचना-</p>
<pb n="237" />
<p>द्वाग्देवीभजनं न मम दोषावहमिति भावः । एवं च स्वस्मिन् वाक्पतित्वमावेद्यते । एवं च
कारपदोपादानान्नाश्लीलता ॥
स्वग्रन्थस्य समीचीनत्वात् सर्वहर्षजनकत्वमिति वक्ति--</p>
<lg>
  <l>[^१]सत्पात्रोपनयोचितसत्प्रतिबिम्बाभिनववस्तु ।</l>
  <l>कस्य न जनयति हर्षं सत्काव्यं मधुरवचनं च ॥ ६९८ ॥</l>
</lg>
<p>सत्पात्रेति । नवमभिनवं वस्तु सत्काव्यं मधुरवचनं च कस्य न हर्षं जनयति । अपि
तु सर्वस्येति भावः । सत्पात्रेत्यादिविशेषणत्रितयस्यार्थः क्रमेण । समीचीनं यत्पात्रं संपु-
टादि तत्रोपनयाय स्थापनायोचितम् । अत्यन्तसंरक्षणीयमिति धियेति भावः । एवं च
बहुमूल्यत्वमावेद्यते । सन्समीचीनः । परीक्षक इत्यर्थः । तस्य प्रतिबिम्बो याथातथ्यस्व-
रूपपरिचयो यस्य । क्षुद्रपरीक्षकस्य तद्गुणयथार्थज्ञानं न भवतीति भावः । एतादृशमभिन्नं
सर्वदैकरूपम् । एवं च बहुकालसत्त्वेऽपि दोषासंस्पर्शितया मुक्ताफलादिव्यतिरेको ध्व-
न्यते । तेन चावश्यस्पृहणीयत्वम् । सत्पात्रे सहृदये पुंसि य उपनयः प्रापणं तत्रोचितम् ।
एवं च सहृदयस्यैव सत्काव्यश्रवणेऽधिकार इति भावः । सत्पात्रेण सहृदयेन च य उप-
नयः पठनादिस्तत्रोचितम् । एवं च सत्काव्यपाठेऽपि सहृदयस्यैवाधिकार इति ध्वन्यते ।
सत्स्वनादिकाव्यवासनाव्युत्पत्तिशालिहृदयेषु प्रतिबिम्बः सम्यग्बोधो यस्य । एवं च स-
त्काव्यार्थबोधोऽपि सहृदयस्यैवेति भावः । अभिन्नं सर्वसहृदयान्प्रत्येकरूपम् । सत्पात्राय
समीचीनायोपसमीपे नयेन विनयेनोचितम् । 'तृणानि भूमिरुदकं वाक्चतुर्थी च सूनृता ।
एतान्यपि सतां गेहे नोच्छिद्यन्ते कदाचन ॥' इति स्मरणात् सत्पात्रं प्रत्येतावतोऽपि स्व-
धर्मसंरक्षणकारित्वादिति भावः । समीचीनः प्रतिबिम्बो यस्यैतादृशो यश्चन्द्रस्ततोऽभि-
न्नम् । तद्रूपमित्यर्थः । एवं च मधुरवचने सुधारूपत्वप्रतिपादनान्निखिलतापापनोदकत्वं
बहुतरपुण्यैकलभ्यत्वं विरलत्वं च ध्वन्यते । अथवा मधुरवचनवतो देवरूपत्वं व्यज्यते ।
यद्वा मधुदैत्यं रात्यङ्गीकरोति । वधबलेन मुक्तिदत्वादिति भावः । तद्विषयकं यद्वचनं
तदित्यर्थः । कथंभूतम् । सत्पात्रे शमादिसंपत्तिशालिनि य उपनय उपदेशस्तत्रोचितम् ।
सतः सत्स्वरूपस्य ब्रह्मणः प्रतिबिम्बनं प्रतिबिम्बो विज्ञानं यस्मादेतादृशं तत् । अभिन्न-
मेकम् । यद्यपि भगवत्प्रतिपादका बहवो वेदान्तभागास्तथापि 'सर्वेषां वेदान्तवाक्यानां
ब्रह्मणि समन्वयः' इत्युक्तत्वादेकार्थत्वादेकत्वोक्तिः । अथवा सतः समीचीनाचरणस्य
-----------------------------------------------------------------------------------------
[^१]. बहुषु मूलपुस्तकेष्वयं समीचीनः पाठो वर्तते. टीकानुकूलपाठस्त्वयम् – 'सत्पा-
त्रोपनयोचितं सत्प्रतिबिम्बमभिन्नं नवं वस्तु.' अस्मिन्पाठे स्फुट एव च्छन्दोभङ्गः.
इमामार्यामग्रिमां च भङ्गां निपीयानन्तपण्डितो व्याख्यातवानिति भाति. एवमेव आका-
रत्रज्यायाम् 'आरोपिता शिलायाम्--' (८१) इत्याद्यार्या टीकानुरोधेन च्छन्दोभङ्गदूषितैव
मुद्रिता. मूलपुस्तकेषु तु 'आरोपिता शिलायामश्मेव त्वं स्थिरेति मन्त्त्रेण' इति सा-
धीयान्पाठो दृश्यते.</p>
<pb n="238" />
<p>पात्रम् । गुरुरित्यर्थः । तस्य समीपे नयनं नयः प्रापणम् । स्वस्येति भावः । 'समित्पाणि-
राचार्यं श्रोत्रियमुपगच्छेत्' इत्यनेन गुरूपसत्तेर्विहितत्वादिति भावः । तेनोचितो योग्यः ।
प्राप्य इत्यर्थः । सत्प्रतिबिम्बनं सत्प्रतिबिम्बः समीचीनज्ञानं यस्यैतादृशम् । अभिन्नमख-
ण्डितम् । केनापि नावगणितमिति भावः । यद्वा मधुनामकदैत्याङ्गीकारकर्तुः परमेश्वरस्य
वचनं वेदान्तभाग इति भावः । एवं च सत्काव्ये भगवद्वाक्यतुल्यताप्रतिपादनेनावश्यप-
रिशीलनीयत्वं ध्वन्यते । अनर्घमणितुल्यताप्रतिपादनेन चार्थप्राप्तिजनकत्वं काव्ये व्यज्यते ।
एवं च पुरुषार्थसाधनीभूततया काव्येऽवश्यविधेयत्वं ध्वन्यते ॥</p>
<lg>
  <l>एका ध्वनिद्वितीया त्रिभुवनसारा स्फुटोक्तिचातुर्या ।</l>
  <l>पञ्चेषुषट्पदहिता भूषा श्रवणस्य सप्तशती ॥ ६९९ ॥</l>
</lg>
<p>एकेति । एका मुख्या । ध्वननं ध्वनिः । व्यञ्जनेति यावत् । सैव द्वितीया सहायभूता
यस्याः । एवं चोत्तमकाव्यमयीत्वं सप्तशत्यां ध्वन्यते । त्रिभुवनसाररूपा । यद्वा त्रिभुवने
सारं रसस्तद्वतीत्यर्थः । अथवा त्रिभुवनं सारं यथा । एवं च त्रिभुवनेऽप्येतदसत्त्वे निःसा-
रतैवासीत्, इदानीमनया सारवत्ता जातेति भावः । स्फुटमुक्तिचातुर्यं यस्याम् । यद्वा
स्फुटं व्यक्तमुक्तिचातुर्यं यया । पञ्चेषुर्मदनस्तद्रूपो यः षट्पदस्तस्य हिता । स्वकर्तव्यता-
सहायतयेति भावः । श्रवणस्य श्रोत्रस्य । सतामिति भावः । भूषा भूषणरूपा । सप्तशती ।
सप्तशतीनामकोऽयं ग्रन्थ आस्ताम् । एवं च सद्भिरियं सप्तशती श्रोतव्येति प्रार्थना व्य-
ज्यते । पञ्चेषुषट्पदहिता श्रवणस्य भूषेत्यनेन सप्तशत्यां मञ्जरीत्वं व्यज्यते । यद्वा सप्त-
शत्यां नायिकात्वारोपणेनावश्यस्पृहणीयत्वं व्यनक्ति । सप्तशती । सतां हृद्यास्तामित्य-
ध्याहारेण योजना । ए हर्म्योदरे। एकारस्य हर्म्योदरवाचकत्वमेकाक्षरनिघण्टेऽवसेयम् ।
अव्ययत्वाच्चास्य सर्वलिङ्गसर्वविभक्तितुल्यत्वम् । कस्य सुखस्याध्वनि मार्गे द्वितीया ।
नानया विना गृहान्तर्वर्तिसुखमार्ग इति भावः । एवं च गार्हस्थ्यसुखेच्छावतेयमवश्यं से-
वनीयेति व्यज्यते । त्रिभुवने सारभूता। बहुविधव्ययायाससाध्ययागादिजन्यस्वर्गादावपि
नायिकैव भोगेषु मुख्येति भावः । यद्वात्रेः सकाशाद्भवतीत्यत्रिभु चान्द्रं ज्योतिस्तस्य वनं
समूहस्तस्य साररूपा । एवं चेयं चन्द्रसारैर्निर्मितेति भावः । एवं चान्योपायासाध्यतापो-
पशामकत्वमावेद्यते । यद्वा त्रिभुवनं सारं यया । एवं च नायिकासांनिध्ये सारासाररूप-
स्यापि त्रिभुवनस्य साररूपतैव भवतीति व्यज्यते । स्फुटमुक्तिचातुर्यं यस्याः । स्फुटमित्य-
नेन निःसंदिग्धत्वं ध्वन्यते । यद्वा स्फुटा सप्रसादोक्तिर्यस्य । प्रसन्नार्थकोक्तिशालिनि
नायके चातुर्यं यस्याः । एवं चानभिज्ञनायकं प्रति यदि न कामिनी चमत्कारकारिणी
तदा न काचित्क्षतिरिति भावः । यद्वास्फुटोक्तौ वक्रोक्तौ चातुर्यं यस्याः । पञ्चेषोर्मद-
नस्य षइभिः संधिविग्रहयानासनद्वैधीभावाश्रयरूपोपायैः पदाय वृद्धिरूपाय हिता । का-
मोऽप्येनामेवासाद्य संध्याद्युपायैर्जगज्जयवत्तया वृद्धिभाग्भवतीति भावः । एवं च मदनस्य
सर्वस्वभूतेयमिति व्यज्यते । पञ्चेषुपदेन स्वल्पसामग्रीवतोऽपि महत्तरकार्यनिर्वाहकतयाति-
मन्त्रनिपुणत्वमावेद्यते । अथवा पञ्चेषोः षट्पदरूपा । ज्यारूपेत्यर्थः । अत एव च हिता ।</p>
<pb n="239" />
<p>एवं चानया विना मदनधनुरनर्थकमेवेति भावः । यद्वा पञ्चेषुरूपभ्रमरस्य हिता । एवं च
प्रसिद्धलतातिशयशालिलतात्वं नायिकायां व्यज्यते । तेन चातिकोमलाङ्गीत्वम् । श्रव-
णस्य भूषणरूपा । एवं च नायिकागुणेषु सर्वदा श्रवणेच्छाविषयत्वं ध्वन्यते । यद्वा एक-
स्याद्वितीयस्य ब्रह्मस्वरूपरसस्य । यद्वा मुख्यस्य ब्रह्मस्वरूपरसस्याध्वनि मार्गे द्वितीया ।
ब्रह्मविद्येति भावः । त्रिभुवनं सारं यया । एवं च ब्रह्मविद्ययोत्पन्नतत्त्वज्ञानस्य सर्वत्र ब्रह्म-
भावनारूपसारसाम्राज्यमिति भावः । अथवा त्रिभुवनं साररूपं यया । ब्रह्मात्मकत्वेन
निर्णयादिति भावः । स्फुटमुक्तौ चातुर्यं सामर्थ्यं यस्याः । वाचामगोचरस्यापि प्रतिपाद-
नादिति भावः । यद्वा स्फुटम् । प्रकटतयेति यावत् । उक्तौ प्रतिपादने सामर्थ्यं यस्याः ।
अतिनिगूढस्याप्यात्मरूपरसस्य स्फुटप्रतिपादनमत्यन्तं दुष्करमिति भावः । स्फुटे प्रकटे
सर्वदा स्वप्रकाशरूपे ब्रह्मण्युक्तौ चातुर्यं यस्याः । स्वप्रकाशत्वे झटिति ज्ञानयोग्यत्वेऽपि
स्वापेक्षासंपादनेन चातुर्यवत्ता । पञ्चस्य प्रपञ्चस्य बाणरूपा ये षद्संख्याकाः कामक्रोध-
लोभमोहमदमत्सरास्तेषां पत्स्थानमज्ञानं तस्याहिता नाशिका । स्वजन्यज्ञानद्वारेति
भावः । इषुत्वेनातिदुःसहत्वम् । एभिः कृत्वैव प्रपञ्चस्यापि दुःखदत्वम् । श्रवणस्य श्रो-
तव्येत्यादिविधिविहितस्य भूषा । श्रुतिजन्यज्ञानस्यैव समीचीनत्वमिति भावः । सप्तशती
सतां हृद्यास्ताम् । एवं च रसे ब्रह्मरूपताप्रतिपादनात् सप्तशत्यां ब्रह्मविद्यात्वप्रतिपादनेन
तत्परिशीलनं सतां सर्वदा समुचितमिति ध्वन्यते । संख्याक्रमोऽप्यत्र ॥
स्वग्रन्थावलोकने लोकप्रवृत्त्यर्थमाधिक्यं वक्ति--</p>
<lg>
  <l>कविसमरसिंहनादः स्वरानुवादः सुधैकसंवादः ।</l>
  <l>विद्वद्विनोदकन्दः संदर्भोऽयं मया सृष्टः ॥ ७०० ॥</l>
</lg>
<p>कवीति । कविसङ्ग्रामे सिंहनादः । एवं चैतत्संदर्भश्रवणेऽन्यकवीनां दर्पहानिरवश्यं
भवतीति ध्वन्यते । स्वराः षड्जादय अनुवादो यस्य । एवं चैतन्माधुर्यन्यूनमाधुर्यवत्ता
षड्जादाविति भावः । सुधाया एकः संवादः साजात्यं यस्य । एतत्सजातीया सुधेति
भावः । यद्वा सुधारूप एकः सम्यग्वदनं वादो यस्य सः । एवं चैतत्संदर्भस्यैकदोच्चारणं
सुधासमसुखावहम् । वारंवारोच्चारणपरिभावनादिकं तु ब्रह्मानन्दास्वादकृदिति व्य-
ज्यते । विदुषां विनोदस्य कन्दः । एवं चैतद्ग्रन्थस्याविदुषां विनोदजनकत्वाभावे न
क्षतिरिति भावः । अयं संदर्भों मया सृष्टः ॥</p>
<lg>
  <l>उदयनबलभद्राभ्यां सप्तशती शिष्यसोदराभ्यां मे ।</l>
  <l>द्यौरिव रविचन्द्राभ्यां प्रकाशिता निर्मलीकृत्य ॥ ७०१ ॥</l>
</lg>
<p>उदयनेति । शिष्यसोदराभ्यामुदयनबलभद्राभ्यां सप्तशती रविचन्द्राभ्यां द्यौरिव निर्म-
लीकृत्य संशोध्य । पक्षे ध्वान्तरहितां कृत्वा । प्रकाशिता शिष्यप्रशिष्यद्वारा विस्ता-
रिता । पक्षे प्रकाशविषयीकृता । एवं च प्रथमत इयं मत्कृतिस्तत्राप्युदयनाचार्यबलभ-
द्राभ्यां संशोध्य शिष्येभ्यः पाठिता । अतोऽत्र दूषणं विभाव्योद्भावनीयमिति व्यज्यते ॥</p>
<pb n="240" />
<lg>
  <l>हरिचरणाञ्जलिममलं कविवरहर्षाय बुद्धिमान्सततम् ।</l>
  <l>अकृतार्यासप्तशतीमेतां गोवर्धनाचार्यः ॥ ७०२ ॥</l>
</lg>
<p>हरीति । मतिमान्गोवर्धनाचार्यो हरिचरणयोरञ्जलिम् । प्रणाममित्यर्थः । विरचय्येति
भावः । सततं कविश्रेष्ठसंतोषाय । एवं चापकृष्टकवीनामसंतोषे न काचित्क्षतिरिति भावः ।
अमलं यथा भवति तथैतां सप्तशतीमकृत । अत्रापरोक्षेऽपि परोक्षवन्निर्देशेनौद्धत्याभावो
व्यज्यते । यद्वा मतिमान् । एवं च सप्तशत्या भगवदर्पणकरणं समुचितमेतस्येति भावः ।
गोवर्धनाचार्यः सततं कविवरहर्षाय । स्थितामिति शेषः । एतामार्यासप्तशतीममलं
स्वच्छं हरिचरणयोरञ्जलिं पुष्पाञ्जलिमकृत । एतत्पक्षेऽपि मया कृतेति वचनाभाव आ-
चार्यस्य विनयवत्तामावेदयति । अत्र भामा सत्यभामेति वदञ्जलिः पुष्पाञ्जलि: । तात्प-
र्यान्यथानुपपत्त्या लक्षणेति वा । तद्ग्राहकं चामलपदम् ॥</p>
<lg>
  <l>अर्थागमे सरणिरत्र बहुप्रकारा संदृश्यते तदपि निर्वहणक्षमेयम् ।</l>
  <l>मद्दर्शिता रसवती निखिलावदातसाहित्यशालिविबुधैः परिशीलनीया ॥</l>
</lg>
<lg>
  <l>ब्रह्मैवास्ति रसस्तदर्थकगिरो वेदान्तभागाः परं</l>
  <l>ज्ञात्वैवं निरमायि यन्निजधिया विस्तारहीनं मया ।</l>
  <l>तद्गोवर्धनवाचि साचिरचनं व्यङ्ग्यार्थसंदीपनं</l>
  <l>सीतासंयुतरामचन्द्रचरणाम्भोजे चिरं तिष्ठतु ॥</l>
</lg>
<lg>
  <l>अब्दे लोचनबिन्दुसप्तशशभृत्प्रस्तारसंलक्षिते (१७०२)</l>
  <l>चैत्रे मासि सिते शिवस्य दिवसे मार्तण्डसद्वासरे ।</l>
  <l>पुण्यस्तम्भनिवासिना सुमतिनानन्ताभिधेनादरा-</l>
  <l>त्काश्यां सद्विदुषामकारि कुतुकाद्व्यङ्ग्यार्थसंदीपनम् ॥</l>
</lg>
<p>कदाचित् कस्मिंश्चिद्वचसि यदि वार्थे मम भवे-
द्भ्रमः सोऽयं सद्भिर्न खलु गणनीयो निजहृदि ।
भ्रमाभावं यस्मिन्निखिलनिगमोऽप्याह सततं
स एवैको यस्माज्जगति जगदीशो रघुपतिः ।</p>
<lg>
  <l>[^१]ग्रन्थोऽयं विदुषा सृष्टः पण्डितानन्तशर्मणा ।</l>
  <l>खद्वयाश्वसमुद्राख्य(४७००) संख्यको व्यङ्ग्यदीपकः ॥</l>
</lg>
<p>इति श्रीमद्गोदावरीपरिसरालंकृतपुण्यस्तम्भस्थितिविराजमाननीलकण्ठपण्डिततनूज-
बालोपण्डितात्मजतिमाजीपण्डिताङ्गजानन्तपण्डितविरचित-
व्यङ्ग्यार्थदीपनसमेता श्रीमद्गोवर्धनाचार्यकृता
आर्यासप्तशती समाप्ता ।
----------------------------
----------------------------
-----------------------------------------------------------------------------------------
[^१]. अयं श्लोकः केषुचित्पुस्तकेषु न दृश्यते.</p>
<pb n="241" />
<p>व्याख्यासहिता आर्यासप्तशती समाप्ता॥</p>
<pb n="242" />
<p>व्याख्यासहिता आर्यासप्तशती समाप्ता॥</p>
<pb n="243" />
<p>व्याख्यासहिता आर्यासप्तशती समाप्ता॥</p>
<pb n="244" />
<p>निर्णयसागरेऽङ्कितानि विक्रेयसंस्कृतपुस्तकानि ।
चरकसंहिता ।
अग्निवेशमहर्षिकृता, चरकप्रतिसंस्कृता, चक्रपाणिदत्तप्रणी-
तया आयुर्वेददीपिकाव्याख्यया समलंकृता ।
मूल्यं ८ रूप्यकाः, मार्गव्ययः १ रूप्यकः ।
सर्वेष्वायुर्वेदनिबन्धेष्वयं ग्रन्थो महत्त्वेन प्राधान्येन व वरीवर्ति । प्राचीनस्या-
स्यातिगाम्भीर्येण दुरवगाहत्वात् सर्वेषामध्ययनाध्यापनयोरतीवासौर्यमासीत् तन्मा-
र्जनार्थं प्रयतमानैरस्माभिर्महता प्रयत्नेनोपरि निदर्शितनाम्नी व्याख्या लब्धा तां
भिषग्वरद्वारा संयोज्य संशोधय्य च प्रकाशितास्ति ।
मीमांसाशास्त्रसारः ।</p>
<p>( निवीतान्तमीमांसासिद्धान्ततत्त्वार्थप्रकाशः )
( निवीतान्तो भागः १)</p>
<p>मूल्यं १ रूप्यकः, मार्गव्ययः ४ आणकाः ।
अधीतेष्वपि बहुग्रंथेष्ववसरे कस्यापि निर्णयो यथावन्मीमांसाज्ञानमंतरा दुःशक
एव । प्रायः पूर्वमीमांसोत्तरमीमांसयोर्ज्ञानमतीव दुरवगहनमेवास्तीति व्युत्पित्सवोत्र
विषये प्रवेशाभावादत्यन्तमुदासते तेन संप्रति मीमांसाशास्त्रं नामशेषमिव बभूव ।
अतोऽत्र सहजप्रवेशेन तत्प्रावीण्यार्थमयं ग्रन्थो वेदान्तविशारदबिरुदेन अनन्तकृष्ण-
शास्त्रिनाम्ना सुलभया रीत्या विरचितोस्ति ।
भाट्टदीपिका ।
महामहोपाध्याय सर्वतत्रस्वतन्त्र खण्डदेवप्रणीता
श्रीशम्भुभट्टप्रणीतप्रभावलीव्याख्या</p>
<p>मूल्यं ६ रूप्यकाः, मार्गव्ययः १ रूप्यकः ।
अखिलेष्वपि वाङ्मयेषु सुप्रसिद्धानां षड्दर्शनानामेव सिद्धेपि महत्त्वे मीमां-
सादर्शनमेव तेषूचपदमारोहति । भादृसांप्रदाये प्रणीतमीमांसानिबद्धसिद्धान्तानूहा-
पोहैः खण्डदेवेनात्रैव समीचीनतया समावेशः कृतोस्ति । अत्र च तच्छात्रेण शंभुभट्टेन
प्रभावलीनाम्न्या मूलमन्थादर्शरूपया सनाथीकृत्यायं ग्रन्थो--भिर्मुद्रितोस्ति
पाण्डुरङ्ग जावजी,
निर्णयसागर, आलयाधिपतिः</p>
</body>
</text>
</TEI>